सामग्री पर जाएँ

पृष्ठम्:बृहद्देवता.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 98–] BRHADDEVATĀ viii. 1 — न राज्यमहमहामि नृपतिर्वोऽस्तु शंतनुः । तथेत्युक्त्वाभ्यसिञ्वंस्ताः प्रजा राज्याय शंतनुम् ॥१॥ ततोऽभिषिक्ते कौरव्ये वनं देवापिराविशत् । - न ववर्षाथ पर्जन्यो राज्ये वादश वै समाः ॥ २॥ ततोऽभ्यगछद्देवापिं प्रजाभिः सह शंतनुः | प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे ॥३॥ शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा । तमुवाचाथ देवापिः प्रहं तु प्राञ्जलिस्थितम् ॥ ४॥ न राज्यमहमहामि त्वग्दोषोपहतेन्द्रियः । याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम् ॥५॥ ततस्तं तु पुरोऽधत आर्विज्याय स शंतनुः | स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि ॥ ६ ॥ बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् । B द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ॥७॥ B आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः । ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तया च सः ॥ ॥ चाग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु । अमिं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ॥९॥ इन्द्र दुह्येति विश्वेषाम् उदित्यृत्विक्स्तुतिः परम् । शक्तिप्रकाशनेनैषां विनियोगोऽच कीर्त्यते ॥ १० ॥ प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः | यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ॥ ११ ॥ तु [92 १॥ २॥