पृष्ठम्:बृहद्देवता.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

91] —BRHADDEVATĀ vii. 157 Bप्र तहुःसीम इत्यूग्भ्यां राज्ञां दानं च शंसति । पुरूरवसि राजषाव् अप्सरास्तूर्वशी पुरा । न्यवसत्संविदं कृत्वा तस्मिन्धर्म चचार च ॥१४७॥ तया तस्य च संवासम् असूयन् पाकशासनः । पैतामहं चानुरागम् इन्द्रवच्चापि तस्य तु ॥१४८॥ स तयोस्तु वियोगार्थ पार्श्वस्थं वज्रमब्रवीत् | प्रीतिं भिन्द्धि तयोर्वज मम चेदिछसि प्रियम् ॥१४९॥ तथेत्युक्त्वा तयोः प्रीतिं वज्जोऽभिनत्स्वमायया | ततस्तया विहीनस्तु चचारोन्मत्तवन्नृपः ॥१५०॥ चरन्सरसि सोऽपश्यद् अभिरूपामिवोर्वशीम् । सखीभिरभिरूपाभिः पञ्चभिः पार्श्वतो वृताम् ॥ १५१॥ तामाह पुनरेहीति दुःखात्सा वनवीनृपम् । अप्राप्याहं त्वयाद्येह स्वर्गे प्राप्स्यसि मां पुनः ॥१५२॥ आह्वानं प्रति चाख्यानम् इतरेतरयोरिदम् । संवादं मन्यते यास्क इतिहासं तु शौनकः ॥ १५३ ॥ हय इति पर मैन्द्रं प्र ते या ओषधीस्तवः । Bप्रयोगे भिषजस्त्वेतद् यक्ष्मनाशाय कल्पते ॥१५४॥ आष्र्ष्टिषेणस्तु देवापिः कौरव्यश्चैव शंतनुः । भ्रातरौ कुरुषु त्वेतौ राजपुत्रौ बभूवतुः ॥१५५ ॥ ज्येष्ठस्तयोस्तु देवापिः कनीयांश्चैव शंतनुः । त्वग्दोषी राजपुत्रस्तु ऋष्टिषेणसुतोऽभवत् ॥ १५६ ॥ राज्येन छन्दयामासुः प्रजाः स्वर्गे गते गुरौ स मुहूर्तमिव ध्यात्वा प्रजास्ताः प्रत्यभाषत ॥१५७॥ प्रजास्ताः प्रत्यभाषत ॥ ॥ इति बृहद्देवतायां सप्तमोऽध्यायः ॥ [-RV. x. 98 ३०॥ ३१॥ ३२॥