त्रिशङ्को ! गच्छ [१]भूयस्त्वं नासि स्वर्गकृतालयः ॥ १७॥
गुरुशापहतो मूढ ! पत भूमिमवाक्छिराः ।
स्वर्गे निजपुण्यकर्मणा कृतः आलयो यस्य स तथा । स्वर्गावासानर्ह एवासीत्यर्थः । कुत इत्यतः-गुरुशापेत्यादि ॥ १७ ॥
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपत[२]त्पुनः ॥ १८ ॥
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ।
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ १९ ॥
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
आहारयत्-अकरोदिति यावत् ॥ १९ ॥
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥ २० ॥
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ।
सृजन्-हेतौ शतृप्रत्ययः, सृष्टिं कुर्वन्, तद्धेतोः दक्षिणमार्गस्थान् अपरान् सप्तर्षीन् असृजत् । यथोत्तरतो ध्रुव अचलस्तिष्ठति, एवं त्रिशङ्कुस्तिष्ठतु । तं परितो यथा सप्तर्षिमण्डलं तद्वदत्रापि भवत्वित्याशयः । तथाऽग्रेऽपि द्रष्टव्यम् ॥ २० ॥
नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः ॥ २१ ॥
दक्षिणां दिशमास्थाय मुनिमध्ये[३]महायशाः ।
नक्षत्रमाला-सप्तविंशतिनक्षत्रमाला । दक्षिणामास्थायेति । विराजो ब्रह्मणश्शिरोभाग उत्तरा दिक् । तत्र च सप्तसर्गाधिष्ठानो मेरुः । तदुपरि ध्रुवः । येन चण्डालः स्वर्गार्हो भगवदनुमन्यमानः, तेन दक्षिणदिशि सप्तर्ष्याद्याभासः तद्वद्वस्त्वन्तरकल्पनञ्च ॥ २१ ॥