पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
418
[बालकाण्डः
त्रिशङ्कोः स्वर्गारोहणम्

 [१]सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ २२ ॥
 [२]अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
 दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ २३ ॥

 नक्षत्रवंशः-क्षुद्रनक्षत्रगणः । अन्यमिन्द्रं । मया सृज्यमानस्वर्गो[३]ऽनिन्द्रोऽस्तु । तत्र त्रिशङ्कुरेवेन्द्रो भवतु; किमन्तर्गडुनाऽन्येनेत्याशयः । एवमिन्द्रस्थाने त्रिशंकुमेव प्रतिष्ठाप्य तस्यापीन्द्रवत्परिवारदैवतान्यपि स्रष्टुमुपचक्रमे ॥ २३ ॥

 ततः परमसम्भ्रान्ताः सर्षिसङ्घाः[४] सुरासुराः ।
 सकिन्नरमहायक्षाः सहसिद्धाः सचारणाः ॥ २४ ॥
 विश्वामित्रं महात्मानमूचुः सानुनयं वचः ।


  1. कृत्वा-ङ.
  2. अन्यमिन्द्रं अहं करिष्यामि-रचयिष्यामि वा, सति प्रबलप्रतिबन्धे लोकः-मद्रचितः स्वर्गः अनिन्द्रक-इन्द्ररहित एव स्यात्-शि.
     अन्यमिन्द्रं करिष्यामि-विद्यमानलोकस्यान्यमिन्द्रं करिष्यामि; अनिन्द्रको लोको वा स्यात्–इन्द्ररहितं लोकान्तरं वा करिष्यामीत्यर्थः । अत एवाहुराचार्याः–'अन्येन्द्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये' इति । अस्मिन्नर्थे इन्द्रं नाशयिष्यामीत्यर्थः, सोऽनुचितः । सृष्ट्यन्तरोपक्रमविरोधात् । 'दैवतान्यपि स क्रोषात स्रष्टुं
    समुपचक्रमे' इत्यनन्तरविरोधाच्च-गो. तिलके गोविन्दराजीये च कतकरीत्यैव श्लोकोऽयं व्याख्यातः । एतदर्धान्ते इतिकरणं द्रष्टव्यम् ॥
     इदमत्र बोध्यम्-कुपितस्य विश्वामित्रस्य स्वेष्टविरोधिविद्यमानेन्द्रनाशप्रतिज्ञैव युज्यते । न च तावता सृष्ट्यन्तरोपक्रम विरोधः । शिरोमणिरीत्या व्याख्याने विरोधाभावात् । अतः एवं व्याख्यानेऽपि नाचार्योक्तिविरोधः । वस्तुतस्तु विद्यमानेन्द्रनाशनं न विश्वामित्राभिमतम्, 'प्रजापतिरिवापरः सृजन् दक्षिणभार्गस्थान्' इति वचनेन प्रतिस्पर्धिस्वर्गान्तरसृष्ट्युपक्रमकथनात्। अतः स्वसृज्यमानं भुवनं अन्येन्द्रकं-स्वेष्टानुसारीन्द्रविशिष्टं, अथवा किं अतिरिक्तेन्द्रसर्गेण ? तत्र त्रिशङ्कुरेवेन्द्रस्थानापन्नो भवत्वित्यर्थ एव स्वरसः । आचार्यसूक्तावपि- ‘अन्यद्भुवनं-अन्येन्द्रकं अनिन्द्रकं वा कर्तुम्' इत्यन्वयः ।
    अतो न कश्चन विरोध इति ॥
  3. निरिन्द्रः-ग.
  4. सचारणाः-ङ.