सामग्री पर जाएँ

भाषावृत्तिः/सप्तमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः भाषावृत्तिः
द्वितीयः पादः
पुरुषोत्तमदेव
तृतीयः पादः →

-7-2-1- सिचि वृद्धिः परस्मैपदेषु ।।
इगन्तस्याङ्गस्य सिचि परे वृद्धिः स्यात् परस्मैपदेषु। अचैषीत्। अनैषीत्। अस्तावीत्। अलावीत्। अपावीत्। अकार्षीत्। अहार्षीत्।
परस्मैपदेषु किम् ? अच्योष्ट। अप्लोष्ट।
परस्मैपदेषु विधिरितः सप्तसूत्र्याम्। (7.2.2-7)।
-7-2-2- अतो ल्रान्तस्य ।।
परस्मैपदे सिचि परतो ल्रान्तस्याङगस्यातो वृद्धिः स्यात् अचालीत्। अज्वालीत्। अक्षारीत्। अक्षारिषुश्चन्द्रकान्ता मणयः। अचारीत्।
कथमबभ्रीत् ? अतोऽनेकवर्णव्यवधानात्।
-7-2-3- वदव्रजहलन्तस्याचः ।।
एषामचो वृद्धिः स्यात् तस्मिन्। अवादीत्। अव्राजीत्।
हलन्तानाम्--अपाक्षीत्। अभैत्सीत्। अरौत्सीत्। अतार्प्सीत्।
अनेकवर्णव्यवधानेऽपीष्टम्--अराङ्क्षीत्। अभाङ्क्षीत्।
-7-2-4- नेटि ।।
इडादौ सिचि हलन्तानां वृद्धिर्नास्ति। अदेवीत्। असेवीत्। व्यरंसीत्। अमोषीत्।
-7-2-5- ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।।
ह्म्यान्तानां क्षणादेश्च सेटि सिचि वृद्धिर्नास्ति। अग्रहीत्। अवमीद् रक्तम् अव्ययीत्। अक्षणीत्।अश्वशीत्। अजागरीत्। ण्यन्तोदाहरणं छन्दसि। अश्वयीत्। एदिताम्--अरगीत्। अलगीत्।
इटीत्येव--अधाक्षीत्।
-7-2-6- ःढ़द्य;र्णोतेर्विभाषा ।।
अयं वृद्धिरूर्णोर्वा स्यात् तस्मिन्। प्रौर्णावीत्, प्रौर्णवीद् वा।
ङित्त्वपक्षे उवङ्--प्रौर्णुवीत्।
-7-2-7- अतो हलादेर्लघोः ।।
हलादेरङ्गस्य लघोरतो वृद्धिर्वा स्यात् सेटि सिचि। अराणीत्, अरणीद् वा। अत्रासीत्, अत्रसीद् वा। अतानीत्, अतनीद् वा।
कथमवादीत्, अज्वालीत्, अग्रहीत् ? वदव्रज इत्यादिविधिनिषेधवचनात्। कथमचकासीत् ? अतोऽनेकवर्णव्यवधानात्।

                 ।।उक्ता वृद्धिः ।।
-7-2-8- नेड् वशि कृति ।।
वशादौ कृतीडागमो नास्ति। वरमनादौ प्रयोजनम्। इर्श्वरः। दीप्रः। भस्म। याच्ञ्ञा।
कृति किम् ? रुरुदिव। रुरुदिम।
-7-2-9- तितुत्रतथसिसुसरकसेषु च ।।
एष्विण् नास्ति। क्तिन्--दीप्तिः। क्तिच्--तन्तिः। तुन्--सक्तुः। ष्ट्रन्--पत्रम्। तन्--हस्तः, गर्त्तः। थन्--कुष्ठः, काष्ठम्। कुषेः क्सिः--कुक्षिः। इषेः सुक्--इक्षुः। अशेः क्सरन्--अक्षरम्। शलेः कन्--शल्कः। वदेः
सः--वत्सः।
। अग्रहादीनामिति वक्तव्यम् ।। निगृहीतिः। निपठितिः। भणितिः।
-7-2-10- एकाच उपदेशेऽनुदात्तात् ।।
उपदेशे यो धातुरेकाजनुदात्तश्च तस्मादिण् नास्ति।
तत्र सर्वेऽजन्ता अनिटः। दाता, दातुम्, दातव्यम्। नेता। चेता। स्तोता। कर्त्ता। हर्त्ता। अकार्षीत्।
चिनीषति। निनीषति।
सेटस्तु लिख्यन्ते--
ऊदन्तमृदन्तमदन्तमप्यथो णुस्नुक्ष्णु युक्षूर्णुरुवश्च वृङवृञ्ञौ।
शीङं श्रियं चैव तथा च डीङि्श्वयावित्येव सेटः प्रवदन्त्यजन्ततः।।1।।
ऊदन्तः--भविता, लविता। ॠदन्तः--तरिता, निगरिता, आस्तरिता। अदन्तस्तु--हनो वध। आवधिषीष्ट। आवधिष्ट। अवधीत्। नविता।
प्रस्रविता। क्ष्णविता। यविता। क्षविता। प्रोर्णविता। रविता। निवरिता। प्रावरिता। शयिता। श्रयिता। उड्डयिता। आश्वयिता।
हलन्तास्तु सर्व एव सेट--शङि्कता। कुण्डिता।
अनिटोऽपि लिख्यन्ते--
शकिरेकः कान्तः। शक्ता।
एवं पचिवचिविचिरिचिसिचिनुचयः षट् चान्ताः। प्रच्छिरेकश्छान्तः।
रञ्ञ्जिर्भञ्ञ्जिस्त्यजियजिभजयः सञ्ञ्जस्वञ्ञ्जौ सृजियुजिरुजयः।
मस्जभ्रस्जौ भुजिनिजिविजयो जातेष्वेते खलु परमनिटः ।। 2 ।।
अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन्
सदिं शदिं स्विद्यतिपद्यती खिदिम्।
तुदिं नुदिं विद्यति विन्त इत्यपि
प्रतीहि दान्तान् दश पञ्ञ्च चानिटः ।। 3 ।।
रुधिः सराधिर्युधिबन्धिसाधयः क्रुधिक्षुधी शुध्यतिबुध्यती व्यधिः।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ।। 4।।
हनिमन्यती द्वौ नान्तौ।
तपिं तिपिञ्ञ्चापि मथो वपिं स्वपिं लिपि लुपिं तृप्यतिदृप्यती सृपिम्।
स्वरेण नीचेन शापिच्छुपिक्षिपीन् प्रतीहि पान्तान् पठितांस्त्रयोदश
।। 5 ।।
रभलभयभास्त्रयो भान्ताः।
यमिरमिनमिगमयश्चत्वारो मान्ताः।
दिशिं दृशिं दंशिमथो मृशिं स्पृशि रिशिं रुशिं क्रोशतिमष्टमं विशिम्।
लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्।।6।।
शिषिः पिषिः शुष्यतिपुष्यती त्विषिर्विषिः श्लिषिस्तुष्यतिदुष्यती द्विषिः
इमान् दशैवोपदिशन्त्यनिडि्वधौ गणेषु षान्तान् कृषिकर्षती तथा।।7।।
घसिः, वसि निवासे च इति द्वौ सान्तौ।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः।
इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्त्तिताः(1)
।। 8 ।। (1.) व्याघ्रभूतिविरचितास्तु अनिट्कारिका एकादश। अत्र काश्चित् पूर्णाः काश्चिदंशत उद्धृताः। ऊदन्तमृदन्तमिति श्लोकस्तु व्याघ्रभूतेर्नास्ति।
इति हान्ता अश्टौ।
-7-2-11- श्र्युकः किति ।।
श्रिञ्ञ उगन्तानाञ्ञ्च कितीण् नास्ति। श्रितम्, श्रित्वा। युतम्, युत्वा।
प्रस्रुतः। प्रभूतः। लूनः, लूनवान्। लूत्वा। तीर्णम्। तीर्त्वा स्फुरन्मकरदारुणमम्बुराशिम्। पूर्त्तम्, पूर्त्त्वा।
किति किम् ? आश्रयिता। लविता। एकाच इत्येव-- जागरितः।
। वाच्य ऊर्णोर्नुवद्भावः ।। ऊर्णुत्वा।
-7-2-12- सनि ग्रहगुहोश्च ।।
ग्रहगुहोरुगन्तानाञ्ञ्च सनीण् नास्ति। जिघृक्षति। जुघुक्षति। रुरूषति। लुलूषति। पूञ्ञ्--पुपूषति।
-7-2-13- कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।।
क्रादीनामेव लिटीण् नास्ति, नान्येषाम्। चकृ, चकृम। चकृषे। चकृढ्वे। ससृव, ससृम। बभृव, बभृम। ववृम। ववृवहे, ववृमहे। तुष्टव, तुष्टुम। दुद्रुव, दुद्रुम। सुस्रुव, सुस्रुम। शुश्रुव, शुश्रुम।
नियमः किम् ? बिभिदिव, बिभिदिम। लुलुविव, लुलुविम। सेदिवान्। ऊषिवान्।
थल्यप्ययं निषेधः--चकर्थ। तुष्टोथ। द्रद्रोथ।
कथं ववरिथ? ववर्थेति निगमे ( 7.2.64 ) निपातनात्।
। कृञ्ञोऽसुट्कस्येति वक्तव्यम् ।। सञ्ञ्जस्करिथ। सञ्ञ्चस्करिव। सञ्ञ्चस्करिम।
-7-2-14- श्वीदितो निष्ठायाम् ।।
श्वेरीदिताञ्ञ्च निष्ठायामिमिण् नास्ति। शूनः, शूनवान्। उद्विग्नः उद्विग्नवान्। नग्नः। दीप्तः।
डीङोऽपीडभावं व्याचक्षते--उड्डीनः। उड्डीनवान्।
निष्ठानुबृत्तिः प्राग् इडि्वधेः ( 7.2.35 )।
-7-2-15- यस्य विभाषा ।।
यस्य धातोर्विभाषेट् क्वचिदुक्तस्तस्य निष्ठायामिण् नास्ति। धूञ्ञूदितो वा-- धूतम्। गूढम्। उदितो वा--वृत्तम्, वृत्तवान्। वृद्धः।
कृतीवृतीनृतीनामीदित्त्वं यस्य विभाषाःथ्द्य;ति प्रतिषेधस्यानित्यताज्ञापनार्थम्। तेन धावुधातोर्गताविट--धावितः, धावितवान्। पतेश्च--पतितः, पतितवान्। इह विभाषा गमहनविदविशाम् इत्यत्र विशिना तौदादिकेन साहचर्यात् शविकरणस्य विदेर्ग्रहणाल्लुग्विकरणस्य विदेः--विदितः, विदितवान्।
एकाच इत्येव--संज्ञपितः। दरिद्रितः।
-7-2-16- आदितश्च ।।
आदितो धातोर्निष्ठायामिण् नास्ति। मिन्नः। क्ष्विण्णः।
चकाराद्--आश्वस्तः। वान्तः।
-7-2-17- विभाषा भावादिकर्मणोः ।।
भावारम्भयोस्तु वा। मिन्नम्, मेदितं वानेन। प्रमिन्नः, प्रमेदितो वायम्।
। निष्ठायां कर्मणि शकेरिड् वा । इति सौनागाः। शक्तः, शकितो वा घटः कर्त्तुम्।
-7-2-18- क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ।।
क्षुब्धादीनि मन्थादौ निपात्यन्ते। क्षुब्धो मन्थः। विलोडनदण्ड इत्यर्थं। स्वान्तं मनः। ध्वान्तं तमः। लग्नं सक्तम्। म्लिष्टमविस्पष्टम्। विरिब्ध उदात्तादिस्वरः। फाण्टः अनायासः पुरुषोऽन्यो वा। फाण्टाश्चित्रास्त्रपाणयः। बाहृ--बाढं भृशम्। अन्यत्र क्षुभितम्,
स्वनितम्, ध्वनितम्, लगितम्, म्लेच्छितम्, विरेभितम्, फणितम्, बाहितम्।
-7-2-19- धृषिशसी वैयात्ये ।।
आभ्यां प्रागल्भ्ये निष्ठायामिण् नास्ति। धृषटः। विशस्तः।
वैयात्ये किम् ? धर्षितः। विशसितः।
-7-2-20- दृढः स्थूलबलयोः ।।
स्थूले बलवति च दृहेः दृढो निपात्यते।
-7-2-21- प्रभौ परिवृढः ।।
अत्रायं निपात्यते।
-7-2-22- कृच्छगहनयोः कषः ।।
दुःखे गहने च कषेरिण् नास्ति। कष्टोऽग्निः। कष्टं वनम्।
-7-2-23- घुषिरविशब्दने ।।
घुषेर्निष्ठायामिण् नास्ति। घुष्टा रज्जुः। शस्त्रघुष्टकरान् कपीन्। उद्घुष्टोऽयमर्थः। उद्घुष्टं परपुष्टया।
अविशब्दने किम् ? अवघुषितं वाक्यमाह। अशास्त्रीयमित्यर्थः।
-7-2-24- अर्देः सन्निविभ्यः ।।
एभ्योऽर्देर्निष्ठायामिण् नास्ति। समर्णः। न्यर्णः। व्यर्णः। पीङित इत्यर्थः।
-7-2-25- अभेश्चाविदूर्ये ।।
नैकट्ये अभिपूर्वादर्देर्निष्ठायामिण् नास्ति। अभ्यर्णा सेना।
-7-2-26- णेरध्यने वृत्तम् ।।
ण्यन्ताद् वृतेरध्ययने वृत्तं स्यात्। वृत्तं पारायणं तेन। वर्त्तितमन्यत्र।
-7-2-27- वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।।
ण्यन्ताद् दमादेरमी सप्त वा निपात्यन्ते। पक्षे दमितः। शमितः। पूरितः। दासितः। स्पाशितः। छादितः। ज्ञपितः।
-7-2-28- रुष्यमत्वरसंघुषास्वनाम् ।।
एषामिड् वा स्यात्। रुष्टः, रुषितो वा। अभ्यान्तः, अभ्यमितो वा।
ततूर्णः, त्वरितो वा। संघुष्टम्, संघुषितं वा वाक्यम्। आस्वान्तो मृदङ्गः,आस्वनितो वा।
-7-2-29- हषेर्लोमसु ।।
हृष तुष्टौ इत्यतो लोमकर्तृकादिड् वा स्यात्। हृष्टम्, हृषितं वा। केशैः। हृष्टम् हृषितं वा लोमभिः। भयसंहृष्टलोमानः।
लोमसु किम् ? हृषितो विप्रः।
। विस्मितप्रतिघातयोश्च ।। इड् वा स्यात्। हृष्टो हृषितो वा। विस्मितः, प्रतिहतो वेत्यर्थः।
-7-2-30- अपचितश्च ।।
अपचायतेर्वा चिभावो निपात्यते। अपचितः, अपचायितो वा।
। क्तिनि नित्यं चिभावो वक्तव्यः ।। विहितापचितिर्महीभुजां।
इह च्छन्दः सूत्राणि चत्वारि(1)। (1.) तानि यथा--
-7-2-31. ह्र ह्वरेश्छेन्दसि ।।
-7-2-32. अपरिहवृताश्च ।।
-7-2-33. सोमे ह्वरितः ।।
-7-2-34. ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृज्ञास्तृतरुतृतरूतृवरुतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च ।।
-7-2-35- आर्धधातुकस्येड् वलादेः ।।
वलादेरार्घधातुकस्येडागमः स्यात्। भविता। लविता। लवितुम्। लविष्यति। अलविष्यत्। लुलविथ। लविषीष्ट।
वलादेः किम् ? लव्यम्। लवनीयम्।
आर्धधातुकसय विधिरा रुदादेः ( 7.2.76 )।
        वलादेर्विधानमा सलोपात्(7.2.79)
लिटस्थवमसेध्वानां स्यसीयुट्तास्मिचां सनः।
तृतुंत्वातव्यनिष्ठानां वलादेरिड् विधीयते।।
-7-2-36- स्नुक्रमोरनात्मनेपदनिमित्ते ।।
स्नुक्रमिभ्यामिट् स्यात्। स्रविता। क्रमिता। स्रवितुम्। क्रमितुम्।
यत्रात्मनेपदनिमित्ते स्नुक्रमी तत्रायं निषेधः। यथा भावे--प्रस्रीषीष्ट।
प्रक्रंसीष्ट।
। क्रमेः कर्त्तर्यात्मनेपदविषयात् कृति प्रतिषेधः ।। प्रोपाभ्यां समर्थाभ्याम् प्रक्रन्ता। उपक्रन्ता।
तद्विषयात् किम् ? निष्क्रमिता। त्रमेः किम् ? व्यतिस्रविता। प्रस्रवित्री गौः स्वयमेव।
-7-2-37- ग्रहोऽलिटि दीर्घः ।।
ग्रहेरिटो दीर्घः स्यातृ। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्।
अलिटि किम् ? जगृहिव। जगृहिम।
चिण्वदिटोऽपि दीर्घो न भवति; अप्रकृतत्वात्। ग्राहिष्यते।
यङ्लुगन्ताच्च न भवति, ग्रहेर्विहितस्येटो विज्ञानात्। जरीगृहिता।
-7-2-38- वॄतो वा ।।
अस्मादिटो वा दीर्घः स्यात्। वृङ्वृञ्ञौ--वरितुम्, वरीतुं वा। वरिता, वरीता वा। आस्तरितुम्, आस्तरीतुं वा। जरित्वा, जरीत्वा वा। अलिटीत्येव--तेरिथ। आतस्तरिथ।
वृत इति किम् ? करिष्यति।
-7-2-39- न लिङि ।।
वृतो लिङि दीर्घो न स्यात्। प्रावरिषीष्टा। तरिषीष्ट।
-7-2-40- सिचि च परस्मैपदेषु ।।
वृतः सिचि दीर्घो नास्ति। प्रावारिष्टाम्। आस्तारिष्टाम्।
परस्मैपदेषु किम् ? आवरीष्ट, आवरिष्ट वा। अतरीष्ट, अतरिष्ट वा।
-7-2-41- इट् सनि वा ।।
वतः सनीड् वा स्यात्। प्रावुवूर्षुः समाहूत आज्ञां विवरिषोः प्रभोः। प्राविवरीषुर्वा। ॠतः--तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्। तितरिषुः, तितरीषुर्वा। लाक्षणिकत्वान्नेह--चिकीर्षति।
-7-2-42- लिङि्सचोरात्मनेपदेषु ।।
वृतो लिङि्सचोरिड् वा स्यात्। वृषीष्ट, वरीषीष्ट वा। आस्तीर्षीष्ट,
आस्तीर्षीष्ट, आस्तरिषीष्ट, आस्तरीषीष्ट वा। सिचि--अवृत, अवरिष्ट, अवरीष्ट वा। आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट वा।
आत्मनेपदेषु किम् ? आस्तारिष्टाम्। आस्तारिषुः। प्रावरिष्टाम्। नित्यमिट।
-7-2-43- ॠतश्च संयोगादेः ।।
ऋदन्तात् संयोगादेर्लिङि्सचोरिड् वा स्यादात्मनेपदेषु। ध्वृषीष्ट, ध्वरिषीष्ट वा। स्तृषीष्ट, स्तरिषीष्ट वा। स्मृषीष्ट, स्मरिषीष्ट वा। सिचि-- अस्मृषाताम्, अस्मरिषातां वा। अध्वृषाताम्, अध्वरिषातां वा।
लाक्षणिकत्वान्नेह--संस्कृषीष्ट। समस्कृत।
-7-2-44- स्वरतिसूतिसूयतिधूञ्ञूदितो वा ।।
एभ्य इड् वा स्यात्। स्वर्त्तुम, स्वरितुं वा। सूतिसूयत्यौः--सोतुम्, सवितुं वा। धोतुम्, धवितुं वा। ऊदितः--गाढुम्, गाहितुं वा। गोप्तुम्, गोपितुं वा। मार्ष्टुम्, मार्जितुं वा।
पुरस्तात् प्रतिषेधकाण्डस्य सर्वापवादत्वात्--सूत्वा। धूत्वा। स्वृत्वा।
-7-2-45- रधादिभ्यश्च ।।
रधादिभ्योऽष्टभ्य(1) इड् वा स्यात्। रक्षितुम्, रद्धुं वा। नशितुम्, नंष्टुं वा। तर्पितुम, र्तप्तुं वा। (1.) रधिर्नशिस्तृपिश्चैव इपिर्द्रुहिमुही स्निहिः।
स्नुहिश्चेति भवन्त्येते दैवादिका रधादयः ।।
क्रादिनियमन्नितयम्--ररन्धिव। ररन्धिम।
-7-2-46- निरः कुषः ।।
निष्कुष इड् वा स्यात्। निष्कोषितुम्, निष्कोष्टं वा।
-7-2-47- इण् निष्ठायाम् ।।
निरः कुषेर्निष्ठायामिट् स्यात्। निष्कुषितः। निष्कुषितवान्।
-7-2-48- तीषसहलुभरुषरिषः ।।
तकारादावेभ्य इड् वा स्यात्। एष्ठा, एषिता वा। सोढा, सहिता वा। लोब्धा, लोभिता वा। रोष्टा, रोषिता वा। रेष्टा, रेषिता वा।
तीति किम् ? एषिष्यति।
इष गतौ इत्यस्य नेष्यते। प्रषितुम्। नित्यमिट्।
-7-2-49- सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।।
एषां सनीड् वा स्यात्। इवन्तस्य--दुद्यूषुः, दिदेविषुर्वा। ऋधु--कीर्त्तिमीर्तसुः, अदिधिषुर्वा। भ्रस्ज--बिभ्रक्षति, बिभ्रज्जिषति, बिभर्क्षति वा। दम्भु--धीप्सति, धिप्सति, दिदम्भिषति वा। धिप्सुः, धीप्सुः, दिदम्भिषुर्वा। उच्छिश्रीषति, उच्छिश्रियिषति वा। सुस्वूर्षति, सिस्वरिषति वा। युयूषति, यियविषति वा। प्रोर्णुनूषति, प्रोर्णुनविषति वा। भर भौवादिकः--बुभूर्षति, बिभरिषति वा। ज्ञीप्सति, जिज्ञपयिषति वा। सिषासति, सिसनिषति वा।
। तनिपतिदरिद्राणाञ्ञ्च ।। तितांसति, तितंसति, तितनषति वा। पित्सति, पिपतिषति वा। दिदरिद्रासति, दिदरिद्रिषति वा।
-7-2-50- क्लिशः क्त्वानिष्ठयोः ।
-7-2-51- पूङश्च ।।
क्लिशिपूङोः क्त्वातिष्ठयोरिड् वा स्यात्। क्लिष्ट्वा, क्लिशित्वा वा। क्लिष्टः, क्लिशितो वा। पूत्वा, पवित्वा वा। पूतः पवितो वा।
-7-2-52- वसतिक्षुधोरिट् ।।
वसेः क्षुधेश्च क्त्वानिष्ठयोरिट् स्यात्। उषित्वा। उषितः। उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्।
-7-2-53- अञ्ञ्चेः पूजायाम्।।
   अञ्ञ्चेस्तयोरिट् स्यात्। अञ्ञ्चित्वा। अञ्ञ्चितः।
पूजायां किम् ? उदक्तमुदकं कूपात्।
-7-2-54- लुभो विमोहने ।।
व्याकुलीकरणे लुभस्तयोरिट् स्यात्। लोभित्वा। लुभितः।
विमोहने किम् ? लुब्धे वृषलः।
-7-2-55- जॄव्रश्च्योः क्त्वि ।।
आभ्यामिट् स्यात्। जरित्वा, जरीत्वा वा। व्रश्चित्वा।
सानुबन्धकस्य तु जॄषेः--जीर्त्वा।
-7-2-56- उदितो वा ।।
उदितः क्त्वीड् वा स्यात्। दान्त्वा, दमित्वा वा। शान्त्वा,शमित्वा वा। वृत्त्वा, वर्त्तित्वा वा। स्यूत्वा, सेवित्वा वा। रत्वा, रमित्वा वा। स्रस्त्वा,संश्रित्वा वा। उवुन्दिर्--वुन्त्वा, वुन्दित्वा वा। शिष्ट्वा, शासित्वा वा।
-7-2-57- सेऽसिचि कृतचृतच्छृदतृदनृतः ।।
सकारादौ कृतिचॄतिच्छृतितृदिनृतीनामिड् वा स्यात्। र्कत्स्यति, कर्त्तिष्यति वा। र्चत्स्यति, चर्त्तिष्यति वा। एव यावत्--र्नत्स्यति, नर्त्तिष्यति वा।
असिचि किम् ? अकर्त्तीत्। अनर्त्तीत्।
-7-2-58- गमेरिट् परस्मैपदेषु ।।
सकारादौ गमेरिट् स्यात्। गमिष्यति। जिगमिषति। आदेशोऽपि गमिर्गृह्यते--अधिजिगमिषिता व्याकरणस्य।
परस्मैपदग्रहणमात्मनेपदनिषेधार्थम्। सञ्ञ्जिगंसते। अधिजिगांसते शास्त्रम्।
-7-2-59- न वृद्भ्यश्चतुर्भ्यः ।।
वृतुवृधुशृधुस्यन्दूभ्यः सकारादाविण् नास्ति। र्वत्स्यति। र्वत्स्यन्। विवृत्सति। विवृत्सितुम्।
        परस्मैपदेष्वत्येव ---वर्त्तिष्यते। वर्त्तिषीष्ट।
-7-2-60- तासि च क्लृपः ।।
तासि सादौ च क्लृपेरिण् नास्ति। कल्प्तासि। कल्प्स्यति। चिक्लृप्सति।
पूर्ववत् तङि--कल्पितासे, कल्प्तासे वा। कल्प्स्यते, कल्पिष्यते वा।
-7-2-61- अचस्तास्वत्थल्यनिटो नित्यम् ।।
तासौ नित्यानिटामजन्तानां धातूनां तासाविव थलीण् नास्ति। क्रादिनियमात् प्राप्तिः। पाता, पपाथ। याता, ययाथ। नेता, निनेथ। जेता, जिगेथ। होता, जुहोथ।
अजन्तानां किम् ? भेत्ता। बिभेदिथ। नित्यानिटः किम् ? धूञ्ञ्--धोता, धविता। दुधविथ। तासौ किम् ? लूत्वा। लुलविथ।
किति तु नित्यानिडयम्।
-7-2-62- उपदेशेऽत्वतः ।।
पाठे अकारवतो धातोरिण् नास्ति पूर्ववत्। शशक्थ। पपक्थ। इयष्ठ।
तपरः किम् ? रराधिथ। उपदेशे किम् ? चकर्षिथ।
ननु कथं पपिथ, ययिथ, शेकिथ, पेचिथ ? आह--
-7-2-63- ऋतो भारद्वाजस्य ।।
भारद्वाजस्य मतेन ऋदन्तादेवायं प्रतिषेधः। सस्मर्थ। दध्वर्थ।
अन्येभ्यस्तु स्यादेव--पपिथ। ययिथ। निनयिथ। शेकिथ।
कथं तुष्टोथ, दुद्रोथ ? पुरस्तान्निषेधकाण्डस्य प्रणयनात् प्रतिषेधस्य बलीयस्त्वात् क्रादिनियमात्।
-7-2-64- बभूथाततन्थजगृम्भववर्थेति निगमे ।।
छान्दसम्।
-7-2-65- विभाषा सृजिडशोः ।।
अनयोस्थलीड् वा स्यात्। सस्रष्ठ, ससर्जिथ वा। दद्रष्ठ, ददर्शिथ वा।
-7-2-66- इडत्त्यर्त्तिव्ययतीनाम् ।।
एषां थलीट् स्यात्। आदिथ। आरिथ। संविव्ययिथ।
-7-2-67- वस्वेकाजाद्घसाम् ।।
-7-2-68- विभाषा गमहनविदविशाम् ।।
-7-2-69- सनिंससनिवांसम् ।।
इह वस्वेकाजाद्घसाम् इत्यादिसूत्रत्रयं छान्दसमाहुः, क्वसोश्छान्दसत्वात्। दृश्यन्ते च शिष्टप्रयोगाः। पविवान्। तस्थिवान्।गवि तस्थिवांसम्। पदमातस्थुषा त्वया। ऊचिवान्। ऊषिवान्। ददृशिवानित्यादि।
चन्द्रगोमी च भाषासूत्रकारः क्वसोरिडागमार्थं सूत्रितवान्--वस्वेकाजाद्घसाम्। वा गमहनविदविशाम्। दृशेश्च।
एषामिति किम् ? बभूवान्।
गमादेर्वा--जग्मिवान्, जगन्वानिति।
-7-2-70- ऋद्धनोः स्ये ।।
ऋदन्तानां हन्तेश्च स्ये परे स्यादिट्। करिष्यति। अकरिष्यत्। हनिष्यति। अहनिष्यत्।
-7-2-71- अञ्ञ्जेः सिचि ।।
इट् स्यात्। आञ्ञ्जीत्। आञ्ञ्जिष्टाम्।
सिचि किम् ? अङ्क्ता। अञ्ञ्जिता।
-7-2-72- स्तुसुधूञ्ञ्भ्यः परस्मैपदेषु ।।
एभ्यः सिचीट् स्यात्। अस्तावीत्। असावीत्। अधावीत्।
तङि तु--अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट वा।
-7-2-73- यमरमनमातां सक् च ।।
एषां सिचीट् स्यात्, सक् चागमः। अयासीत्। व्यरंसीत्। अनंसीत्। आदन्तानाम्--अगासीत्। अयासीत्। अपासीत्। अघ्रासीत्। अयासिष्टाम्। अघ्रासिष्टाम्।
इह अदरिद्रासीदित्येके। एकाच इत्यधिकाराद् अदरिद्रीदित्यपरे।
परस्मैपदेष्वित्येव--अरंस्त। आयंस्त।
-7-2-74- स्मिपूङ्रञ्ञ्ज्वशां सनि ।।
स्मिङ् पूङ्, ऋ, अञ्ञ्ज्वशां सनीट् स्यात्। सिस्मयिषते, सिस्मयिषमाणः। पिपविषते, पिपविषमाणः। अरिरिषति। अञ्ञ्जिजिषति। अशिशिषते।
-7-2-75- किरश्च पञ्ञ्चभ्यः ।।
कृगृदृङ्वृङ्प्रच्छां सनीट् स्यात्। चिकरिषति। जिगरिषति। दिदरिषते। दिधरिषते। पिपृच्छिषति। पिपृच्छिषुः।
वृतो वा इत्यस्येटो दीर्घो नेहास्तीति वामनवृत्तिः। अस्तीति भागवृत्तिः।
                   ।।उक्तमार्धधातुके ।।
-7-2-76- रुदादिभ्यः सार्वघातुके ।।
रुदादिपञ्ञ्चकात् सार्वधातुके इट् सयात्। रोदिति। स्वपिति। श्वसिति जनकपुत्री। प्राणिति। जक्षिति। बलादेरित्येव--रुदन्ति।
-7-2-77- इर्शः से ।।
इर्शेर्धातोः से इत्यस्य इट् स्यात् इर्शिषे। इर्शिष्व।
-7-2-78- इर्ङजनोर्ध्वे च ।।
आभ्यां सेध्वमोरिट् स्यात्। इर्डिषे, इर्डिध्वे। इर्डिष्व। इर्डिध्वम्।
जनेच्छन्दसि श्यनि लोपे--जनिषे। जनिध्वे।
इर्श इत्येव--इर्शिध्वे। इर्शिध्वम्।

                     ।।उक्तम् इट् ।।
-7-2-79- लिङिः सलोपोऽन्त्यस्य ।।
लिङोऽनन्त्यस्य सस्य लोपः स्यात्। कुर्यात्। कुर्याताम्। कुर्युः। कुर्वीत। कुर्वीयाताम्। कुर्वीरन्।
अनन्त्यस्य किम् ? कुर्याः।
सार्वधातुक इत्येव--क्रियास्ताम्। कृषीष्ट। क्रियासुः।
-7-2-80- अतो येयः ।।
अदन्तादङ्गात् परस्य याशब्दस्य इयादेशः स्यात्। अकार उच्चारणार्थः। भवेत्। पचेत्। पठेयुः।
अतः किम् ? चिनुयात्। भिन्द्यात्। तपरः किम् ? यायात्। पायात्।
-7-2-81- आतो ङितः ।।
अदन्तादङ्गात् परस्य ङितामाकारस्येयादेशः स्यात्। पचेते। पचेथे। अपचेताम्। अचीकरेताम्।
ङितः किम् ? पचावहै। पचामहै।
अत इत्येव--भिन्द्याते। मिमाते। व्यतिवाते। ब्रुवाते।
-7-2-82- आने मुक् ।।
आने परे मुक् स्यात्। पचमानः। यजमानः। करिष्यमाणः।
अत इत्येव--कुर्वाणः।
-7-2-83- इर्दासः ।।
आसः परस्यानस्य इर्त् स्यात्। आसीनः। उदासीनः।

                  ।।अथ विभक्तावादेशप्रकरणम्।।
-7-2-84- अष्टन आ विभक्तौ ।।
अष्टन आत्वं स्यात्। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टासु।
तदन्तविधिरत्रेष्यते--परमाष्टौ। उत्तमाष्टौ।
पक्षे नेष्यते, अष्टनो दीर्घाद् इति ज्ञापकात्। अष्ट, अष्टभिः,
अष्टसु।
अप्राधान्ये नेष्यते--प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टनः।
विभक्तौ विधानमा वृद्धेः। अष्टन इति सौत्रत्वादल्लोपाभावः।
-7-2-85- रायो हलि ।।
रैशब्दस्य हलादावात्त्वं स्यात्। राः। सुराः। राभ्याम्। राभिः। रासु।
हलि किम् ? रायौ। रायः विभक्तावित्येव--रैत्वम्। रैता।
-7-2-86- युष्मदस्मदोरनादेशे ।।
विभक्तौ अनयोरात्वं स्यात्। युष्माभिः। अस्माभिः। युष्मासु। अस्मासु।
अनादेशे किम् ? युष्मद् गच्छति। अस्मद् बिभेति।
-7-2-87- द्वितीयायां च ।।
अत्र तयोरात्वं स्यात्। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्।
-7-2-88- प्रथमायाश्च द्विवचने भाषायाम् ।।
अत्र च तयोरात्वं स्यात्। युवाम्। आवाम्।
-7-2-89- योऽचि ।।
तयोरजादौ विभक्तौ यः स्यात्। त्वया। मया। त्वयि। मयि। युकयोः। आवयोः।
अनादेश इत्येव--त्वद् गच्छति। मद् बिभेति।
-7-2-90- शेषे लोपः ।।
शेषे विभक्तौ तयोरन्त्यलोपः स्यात्। टिलोप इत्येके। त्वम्, अहम्। यूयम्, वयम्। तुभ्यम्, मह्यम्। युव्मभ्यम्, अस्मभ्यं देहि। त्वत्, मत्। युष्माकम्, असमाकम्। युष्मत्, अस्मत्। तव, मम।
पञ्ञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि।
यान्यद्विवचनान्यत्र शेषे लोपो विधीयते ।।
-7-2-91- मपर्यन्तस्य ।।
अधिकारोऽयम्।
-7-2-92- युवावौ द्विवचने ।।
द्व्यर्थयोर्युष्मदस्मदोर्युवावौ स्याताम्। युवाम्, आवाम्। युवाभ्याम्, आवाभ्याम्।
मपर्यन्तस्येत्येव--युवकाभ्याम। आवकाभ्याम्। युवकाम्। आवकाम्।
-7-2-93- यूयवयौ जसि ।।
स्याताम्। यूयम्। वयम्।
-7-2-94- त्वाहौ सौ ।।
स्याताम्। त्वम्। अहम्।
-7-2-95- तुभ्यमह्यौ ङसि ।।
स्याताम्। तुभ्यम्। मह्यं दीयते।
-7-2-96- तवममौ ङसि ।।
स्याताम्। तव। मम धनम्।
-7-2-97- त्वमावेकवचने ।।
एकार्थस्य वचने वाचके ये युष्मदस्मदी तयोस्त्वमौ स्याताम्। त्वाम्, माम्। त्वया, मया। त्वयि, मयि।
इहातिक्रान्तप्रयोगा ग्रन्थविस्तरभयादुषेक्षिताः।
-7-2-98- प्रत्ययोत्तरपदयोश्च ।।
प्रत्यये उत्तरपदे चैकार्थयोर्युष्मदस्मदोस्त्वमौ स्याताम्। त्वदीयः। मदीयः। त्वत्तरः। मत्तरः। क्यचि--त्वद्यति। मद्यति। क्यङ्--त्वद्यते। मद्यते। उत्तरपदे--त्वद्धनम्। मद्धनम्। त्वत्पुत्रः। मत्पुत्रः।
एकवचने इत्येव--युष्माकमिदं युष्मदीयम्। युवयोः पुत्रः युष्मत्पुत्रः। आवयोः पुत्रः अस्मत्पुत्रः।
-7-2-99- त्रिचतुरोः स्रियां तिसृचतसृ ।।
विभक्तौ स्त्रीलिङ्गयोरनयोस्तिसृचतसृ इत्येतौ स्याताम्। तिस्रः स्त्रियः। चतस्रस्ताः।
स्त्रीलिङ्गयोः किम् ? त्रयः। त्रीणि। चत्वारः। चत्वारि। प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। प्रियत्री। प्रियत्रयः। प्रियचत्वाः। प्रियचत्वारौ ब्राह्मण्यौ।
-7-2-100- अचि र ऋतः ।।
अजादौ विभक्तौ तिसृचतस्रो रेफः स्यात्। तिस्रः। चतस्रः।
अचि किम् ? तिसृभिः। चतसृभिः। तिसृषु। चतसृषु।
-7-2-101- जराया जरन्यतरस्याम् ।।
अजादौ विभक्तौ परतो जराया जरस् वा स्यात्। जरया, जरसा वा। जरायै, जरसे वा।
अचि किम् ? जराभिः।
-7-2-102- त्यदादीनामः ।।
द्विपर्यन्तास्त्यदादयः। तेषामकारः स्याद् विभक्तौ। त्यच्छब्दश्दछान्दसः। सः। परमसः। असौ। तौ। ते। इमौ। इमे।
अप्राधान्ये नेष्यते--अतितदौ, अतितदः।
-7-2-103- किमः कः ।।
किमः साकच्कस्यापि कः स्यात्। कः। कौ। के।
-7-2-104- कु तिहोः ।।
तकारहकारादौ विभक्तौ किमः कुः स्यात्। कुतः। कुत्र। कुहश्यान्दसः।
-7-2-105- क्वाति ।।
अति विभक्तौ किमः क्वः स्यात्। क्व तिष्ठति।
-7-2-106- तदोः सः सावनन्त्ययोः ।।
त्यदादीनां तदोः स्थाने सः स्यात् सौ परे। सः। एषः। असौ।
अनन्त्ययोः किम् ? अन्त्यस्य मा भूत्। हे स। सा। सम्बुद्धिलोपटापौ न स्याताम्।
-7-2-107- अदत औ सुलोपश्च ।।
अदसः सावौकारः स्यात्, सोश्च लोपः। असौ पुमान्। असौ स्त्री च। हे असौ।
। औत्वप्रतिषेधः साकच्काद् वा सकारात् परस्योत्त्वं च ।। असुकः। असकौ वा।
अदस औनङ् इति सूत्रं न कृतम्; सम्बुद्धौ नकारश्रुतिभयात्।
-7-2-108- इदमो मः ।।
इदमः सौ मकारः स्यात्। अत्वापवादः। अयम्। इयम्।
-7-2-109- दश्च ।।
विभक्तौ इदमो दस्य मः स्यात्। इमौ। इमे। इमम्। इमाम्। इमान्। इमाः।
-7-2-110- यः सौ ।।
इदमो दस्य यः स्यात् सौ। इयं स्त्री।
-7-2-111- इदोऽय् पुंसि ।।
सौ पुंसि इदम इद्रुपस्यायादेशः स्यात्। अयं पुमान्।
-7-2-112- अनाप्यकः ।।
अककारस्य इदम इद्रूपस्यानादेशः स्यादापि प्रत्याहारे परे। अनेन।
अनयोः।
अकः किम् ? इमकेन। इमकायोः।
-7-2-113- हलि लोपः ।।
हलि विभक्तौ प्रकृतस्यानोऽन्त्यलापः स्यात्। इद्रूपस्य लोप इत्येके। आभ्याम्। एभिः। एभ्यः। एषु।

                        ।।उक्तं विभक्तौ ।।
-7-2-114- मृजेर्वृद्धिः ।।
मृजेरङ्गस्येको वृद्धिः स्यात्। मार्ष्टा। मार्ष्टुम्। मार्ष्टि। परिमाष्ट्रि।
-7-2-115- अचो ञ्ञ्णिति।।
 अचोऽङ्गस्य ञ्ञ्णिति वृद्धिः स्यात्। कारः। उपकारः। कारयति। नरमाचष्टे नारयति। गौः। सखायौ।
-7-2-116- अत उपधायाः ।।
उपधाया अतो ञ्ञ्णिति वृद्धिः स्यात्। पाकः। पाचयति।
अतः किम् ? भेदयति। उपधायाः किम् ? चकासयति।
-7-2-117- तद्धितेष्वचामादेः ।।
-7-2-118- किति च ।।
तद्धिते ञ्ञ्णति किति चाङ्गस्याचामादो वृद्धिः स्यात्। गार्ग्यः। औपगवः। किति। नाङायनः।
इह त्वाष्ट्रः, पारिषद इत्यन्तोपधावृद्धिभ्यामादिवृद्धिरिष्यते।