भाषावृत्तिः/सप्तमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
तृतीयः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →


-7-3-1- देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ।।
तद्धिते ञ्ञ्णिति किति चाङ्गस्य देविकादीनामादेरचो वृद्धिप्रसङ्गे आत् स्यात्। देविकायां भवं दाविकमुदकम्। दाविकाकूलाः शालयः।
शिंशपाया विकारः शांशपो दण्डः। दित्यवाट् छान्दसः। दीर्घसत्रे भवं दार्घसत्रम्। श्रेयसि भवं श्रायसम्। स श्रायसेन प्रमदेन युक्तः।
-7-3-2- केकयमित्रयुप्रलयानां यादेरियः ।।
तस्मिन् एषां यादेर्भागस्य बृद्धिसहचरित इयादेशः स्यात्। केकयस्यापत्यं कैकेयः--क्षत्रियादञ्ञ्। कैकेयी। मित्रयोर्भावः, गोत्रचरणाद्वुञ्ञ्--मैत्रेयिका। प्रलयादागतं प्रालेयं हिमम्।
-7-3-3- न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ।।
पदान्ताभ्यां यकारवकाराभ्यां परा वृद्धिर्न भवति। पूर्वौ तु ताभ्यामैच्। व्याकरणमधीते वेत्ति वा वैयाकरणः। स्वश्वस्यापत्यं सौवश्वः।
-7-3-4- द्वारादीनां च ।।
एषां य्वाभ्यां परा वृद्धिर्नास्ति, पूर्वौ तु ताभ्यामैच्। द्वारे नियुक्तो दौवारिकः। शुन इदं शौवनम्। श्वो भविता शौवस्तिकः। स्वरमधिकृत्य कृतो ग्रन्थः सौवरः।
अपदान्तार्थोऽयमारम्भः।
-7-3-5- न्याग्रोधस्य च केवलस्य ।।
अस्य च तथा स्यात्। नैयग्रोधश्चमसः।
केवलस्य किम् ? न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः।
-7-3-6- न कर्मव्यतीहारे ।।
कर्मव्यतीहारे यदुक्तं तन्नास्ति। व्याक्रोशौ। व्यावहासी।
-7-3-7- स्वागतादीनां च ।।
एषां यदुक्तं तन्नास्ति। स्वागतमहा स्वागतिकः। व्यवहारेण चरिति व्यावहारिकः। व्यडस्यापत्यं व्याङिः। एवं स्वार्थिकः। स्वाभाविकः।
स्वातन्त्र्यम्। स्वास्थ्यम्। स्वाजन्यम्। स्वापतेयम्।
द्वारादौ स्वशब्दपाठात् तदादिविज्ञानाच्चेह प्राप्तिः।
-7-3-8- श्वादेरिञ्ञि ।।
यत् श्वादेरङ्गस्य द्वारादित्वात् प्राप्तमिञ्ञि तन्नास्ति। श्वादंष्ट्रिः। इञ्ञि इतीकाद्युपलक्षणम्। श्वगणेन चरति श्वागणिकः।
-7-3-9- पदान्तस्यान्यतरस्याम् ।
पदशब्दान्तस्य द्वारादिकार्यं वा स्यात्। श्वापदम्, शौवापदं वा।

                    ।।अथ उत्तरपदवृद्धिप्रकरणम्।।

-7-3-10- उत्तरपदस्य च ।।
अधिकारोऽयम्। उत्तरपदवृद्धिर्वाच्या हनस्तात् (7.3.32) प्राक्। लक्षणमप्येतत्। गुरुलाघवम्। पितृपैतामहम्।
-7-3-11- अवयवादृतोः ।।
तस्मिन् अवयवात् परस्य ऋतुवाचिनो वृद्धिः स्यात्। पूर्वं वर्षाणां पूर्ववर्षाः, तत्र भवः पूर्ववार्षिकः। अपरहैमनः।
अवयवात् किम् ? पूर्वासु वर्षासु भवः पौर्ववर्षिकः।
-7-3-12- सुसर्वार्धाञ्ञ्जनपदस्य ।।
एभ्यो जनपदस्य वृद्धिः स्यात् तस्मिन्। सुपाञ्ञ्चालकः। सर्वपाञ्ञ्चालकः। अर्द्धपाञ्ञ्चचालकः। अवृद्धादपि
इति वुञ्ञ्।
-7-3-13- दिशोऽमद्राणाम् ।।
दिशः परस्य जनपदस्य वृद्धिः स्यात्। पूर्वपाञ्ञ्चालकः। अपरपाञ्ञ्चालकः।
अमद्राणां किम् ? पौर्वमद्रः। मद्रेभ्योऽञ्ञ्।
-7-3-14- प्राचां ग्रामनगराणाम् ।।
दिशः परेषां प्राग्देशे ग्रामनगराणामुत्तरपदवृद्धिः स्यात्। पूर्वेषुकामशमा गजाः। नगरे--पूर्वकान्युकब्जकोऽश्वः।
-7-3-15- संख्यायाः संवत्सरसंख्यस्य च ।।
संख्यायाः परस्य संवत्सरस्य संख्यायाश्च वृद्धिः स्यात्। द्विसांवत्सरिकः। त्रिसांवत्सरिकः। द्विषाष्टिकः। द्विसाप्ततिकः। त्रिसाप्ततिकः। अधीष्टभृतादौ (5.1.80) तद्धितः।
-7-3-16- वर्षस्याभविष्यति ।।
संख्यायाः परस्य वर्षस्याभाविनि तद्धिते वृद्धिः स्यात्। द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः।
अभविश्यति किम् ? द्वे वर्षे भावि द्वैवर्षिकं भक्तम्। त्रैवर्षिकंधान्यम्।
-7-3-17- परिमाणान्तस्यासंज्ञाशाणयोः ।।
संख्यायाः परस्य परिमाणान्तस्याङ्गस्य वृद्धिः स्यात् तस्मिन्। क्रीतार्थे ठञ्ञ्--द्विनैष्किकम्।
असंज्ञाशाणयोः किम् ? पञ्ञ्च लोहिन्यः परिमाणमस्येति ठकि भस्याढे तद्धिते पुंवत्--पाञ्ञ्चलोहितिकम्। क्रीतार्थे शाणाद्वा इति द्वित्रिपूर्वादण् च--द्वैशाणम्।
-7-3-18- जे प्रोष्टपदानाम् ।।
जेउजातार्थे तद्धिते प्रोष्ठाप्रदानामुत्तरपदवृद्धिः स्यात् तस्मिन्।
सन्धिवेलद् इत्यण्। प्रोष्ठपादो बालकः। अर्थग्रहणाद्--भद्रपादः।
जे किम् ? भवार्थे मा भूत्--प्रौष्ठपदो मेघः।
-7-3-19- हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।।
हृदाद्यन्तेऽङ्गे उभयपदवृद्धिः स्यात् तस्मिन्। सौहार्दम्। व्राह्मणादित्वात् ष्यञ्ञ्--सौहार्द्यम्। सौभाग्यम्। सौभागिनेयः। दौर्भागिणेयः। सौरसैन्धवं पयः।
हृदिति प्रतिपदोक्तस्य ग्रहणान्नेह हृदयादशेस्येति सौहृदमित्येके।
-7-3-20- अनुशतिकादीनाञ्ञ्च ।।
एषां चोभयपदवृद्धिः स्यात्। तस्येदम् इत्यण्। आनुशातिकम्। तत्र च दीयते आनुसांवत्सरिकम्। तस्यापत्यम्--पारस्त्रैणेयः।
एवमिहलोकपरलोकसर्वभूम्यनुहोडपुष्करसदिधदेवाधिभूतचतुर्वेदाभिगमप्रयोगाः।
-7-3-21- देवताद्वन्द्वे च ।।
अत्र चोभयपदवृद्धिः स्यात्। सौर्याचान्द्रमसम्। आग्निमारुतम्। सूक्तहविषोरेवाभिधानान्नेह--ब्राह्मविशाखम्।
-7-3-22- नेन्द्रस्य परस्य ।।
देवताद्वन्द्वे परस्येन्द्रस्य वृद्धिर्नास्ति। सौमेन्द्रश्चरुः।
-7-3-23- दीर्घाच्च वरुणस्य ।।
दीर्घात् परस्य वरुणस्य वृद्धिर्नास्ति। ऐन्द्रावरुणं कर्म।
दीर्घात् किम् ? आग्निवारुणम्।
-7-3-24- प्राचां नगरान्ते ।।
प्राग्देशे नगरान्तेऽङ्गे उभयपदवृद्धिः स्यात्। पौण्ड्रनागरः। सौह्मनागरः।
-7-3-25- जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।।
जङ्गलाद्यन्तस्योत्तरपदवृद्धिर्वा स्यात्। कौरुजाङ्गलः, कौरुजङ्गलो वा। वैश्वधैनवः, वैश्वधेनवो वा। सौवर्णवालजः, सौवर्णवलजो वा।
-7-3-26- अर्धात् परिमाणसय पूर्वस्य तु वा ।।
अर्धात् परस्य परिमाणस्य वृद्धिः स्यात्। पूर्वस्य तु वा। अर्धद्रौणिकम्, आर्धद्रौणिकं वा। क्रीतार्थे ठञ्ञ्।
-7-3-27- नातः परस्य ।।
अर्धात् परस्य परिमाणस्यातो वृद्धिर्नास्ति, पूर्वस्य तु वा। अर्धप्रथिकम्। आर्धप्रस्थिकं वा।
-7-3-28- प्रवाहणस्य ढे ।।
उत्तरपनदस्य अस्य शुभ्रादिढकि वृद्धिः स्यात्, पूर्वस्य तु वा। प्रावाहणेयः, प्रवाहणेयो वा।
प्रवाहणेयीभार्य इति वृद्धिनिमित्तत्वात् पुंवद्भावनिषेधः।
-7-3-29- तत्प्रत्ययस्य च ।।
ढप्रत्ययान्तस्य प्रवाहणस्य तथा स्यात्। प्रावाहणेयिः पुत्रः। प्रवाहणेयिर्वा।
-7-3-30- नञ्ञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ।।
नञ्ञः परेषामेषामुत्तरपदवृद्धिः स्यात्, पूर्वस्य तु वा। अशौचम्, आशौवचं वा। अनैश्वर्यम्, आनैश्वर्यं वा। अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञ्यं वा।
अकौशलम्, आकौशलं वा। अनैपुणम्, आनैपुणं वा।
अक्षेत्रज्ञानीश्वरौ तत्पुरुषावेव ब्राह्मणादी।
-7-3-31- यथातथयथापुरयोः पर्यायेण ।।
नञ्ञः परयोरनयोः पर्यायेण वृद्धिः स्यात्। आयथातथ्यम्। अयाथातथ्यं वा। आयथापुर्यम्, अयाथापुर्यं वा। ब्राहृमणादित्वात् ष्यञ्ञ्।
किति, तद्धिते, वृद्धिरचामादेः इति निवृत्तम्।
।।उक्त उत्तरपदाधिकारः ।।
ञ्ञ्णिति चतुःसूत्रीमाह--
-7-3-32- हनस्तोऽचिण्णलोः ।।
हनस्तकारादेशः स्यान् ञ्ञ्णिति। घातः। घातयति। घातकः। अचिण्णलोः किम् ? अघानि। जघान।
कथं वार्त्रघ्रः ? घातोः कार्यमुच्यमानं घातोः प्रत्यय एव स्यात्।
-7-3-33- आतो युक् चिण्कृतोः ।।
आदन्तस्य धातोर्युक् स्याच् चिणि कृति ञ्ञ्णिति च। अदायि। दायः। दायकः।
कृति किम् ? ददौ।
-7-3-34- नोदात्तोपदेशसय मान्तस्यानाचमेः ।।
मान्तस्य चिणि कृति ञ्ञ्णिति वृद्धिर्न स्यात्। अशमि। शमः। शमकः। अदमि। दमः। दमकः। अक्षमि। क्षमः। क्षमकः। बहुक्षमः। अतमि। तमः। तमकः। अश्रमि। श्रमः। श्रमकः। क्रमः।
उदात्तोपदेशस्य किम् ? अयामि। यामः। यामकः। एवं रमिगमिनमयः।
। अनाचमेरित्यानाचमिकमिवमीनामिति बोद्धव्यम् ।। आचामि। आचामः। आचामकः। अकामि। कामः। वामः।
कथमुद्यमोपरमौ ? गणे निपातनात्।
-7-3-35- जनिवध्योश्च ।।
अनयोश्चिणि कृति ञ्ञ्णिति च वृद्धिर्नास्ति। अजनि। जनः। जनकः। अवधि। वधः। वधकः।
।।उक्तं ञ्ञ्णिति ।।
अथ आगमप्रकरणम्
-7-3-36- अर्त्तिहीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ ।।
अर्त्त्यादेरादन्तानाञ्ञ्च णौ पुगागमः स्यात्। अर्पयति। ह्रेपयति। व्लेपयति। रेपयति। क्रोपयति। क्ष्मापयति। आताम्--दापयति। धापयति। ज्ञापयति। अदीदपत्।
लाक्षणिकस्यापि ग्रहणात्--अध्यापयति। अध्यापकः।
-7-3-37- शाच्छासाह्वाव्यावेपां युक् ।।
एषां णौ युक् स्यात्। निशाययति। अधिच्छाययति। अवसाययति। ह्वाययति। संविव्याययति। वेञ्ञ्--वायति। पा पाने, पै ओवैशोषणे--पाययति।
। पातेर्लुग् वक्तव्यः ।। पालयति।
। धूञ्ञ्प्रीञ्ञोर्नुग् वक्तव्यः ।। धूनयति। प्रीणयति। कथं धावयति, प्राययतीति ? घात्वन्तरयोः।
-7-3-38- वो विधूनने जुक् ।।
वाधातोर्णौ जुक् स्यात्। पक्षौ वाजयति।
विधूनने किम् ? आवापयति केशान्। पै ओवै शोषणे।
-7-3-39- लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ।।
लीति लीलीङो लेति कृतात्त्वस्य लियो लातेश्च ग्रहणम्। आभ्यां णौ नुग्लुकौ वा स्यातां द्रवीकरणे। ली--घृतं विलीनयति, विलाययति वा। ला--घृतं विलालयति, विलापयति वा।
स्नेहविपातने किम् ? तक्रं विलापयति। जटाभिरालापयते।
-7-3-40- भियो हेतुभये षुक् ।।
भियो णौ षुग् वा स्यात्। मुण्डो भीषयते।
आत्वे कृते लुक्षुकौ नेष्टौ। घृतं विलापयति। मुण्डो भापयते।
हेतुभये किम् ? अहिना भाययति। शरैर्भीरुमभाययत्। षुक्, आत्मनेपदम्, षत्वञ्ञ्च न भवति।
।।अथ आदेशप्रकरणम्।।
-7-3-41- स्फायो वः ।।
णौ वः स्यात्। स्फावयति।
-7-3-42- शदेरगतौ तः ।।
णौ तः स्यात्। फलानि शातयति।
अगतौ किम् ? तुरगान् शादयति। गाः शादयति।
-7-3-43- रुहः पोऽन्यतरस्याम् ।।
णौ रुहः पो वा स्यात्। रोपयति, रोहयति वा।
-7-3-44- प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः ।।
प्रतृययस्थककारात् पूर्वस्यात इकारादेशः स्यादापि परे। ण्वुल--कारिका। पाचिका। प्रागिवात् कः--मुण्डिका। जटिलिका।
असुपः किम् ? प्रत्ययलक्षणेन सुबन्तात् परो य आप् तस्मिन् परे मा भूत्--बहुपरिव्राजका पुरी। अतः किम् ? गोका। नौका। तपरः किम् ? राका। धाका। आपि किम् ? कारकः। पाचकः। प्रतययस्थात् किम् ? शका।
। मामकनरकयोरुपसंख्यानं कर्त्तव्यम् ।। ममेयं मामिका। नरान्
कायतीति नरिका।
। त्यक्त्यपोश्च ।। दाक्षिणात्यिका। अमात्यिका।
-7-3-45- न यासयोः ।।
यत्-तदोरित्त्वमिदं नास्ति। अकच्--यका। असका। यकाम्। तकां देवपुरीमौत्सीत्। यकाभ्याम्। तकाभ्याम्।
। आशिषि चोपसंख्यानम् ।। वुन्--नन्दका। जीवका।
। उत्तरपदलोपे च ।। देवका, देवदित्तका।
। क्षिपकादीनां च ।। क्षिपका। ध्रुवका। उपत्यका। अधित्यका।
। तारका ज्योतिषि ।। अन्यत्र--तारिका स्त्री।
। वर्णका तान्तवे ।। अन्यत्र--वर्णिका।
। वर्त्तका शकुनौ प्राचाम् ।। अन्यत्र--वर्त्तिका स्त्री।
    । अष्टका पितृदैवत्ये कालविशेषे च ।।
क्षिपकादिराकृतिगणोऽयम्।
। सूतकापुंत्रकावृन्दाकाणां वा ।। सूतका, सूतिका वा। पुत्रका, पुत्रिका वा। वृन्दारका, वन्दारिका वा।
-7-3-46- उदीचामातः स्थाने यकपूर्वायाः ।।
यकारककारपूर्वसयातः स्थाने योऽकारस्तस्योदीनां मतेनेत्त्वं न स्यात्। इभ्यका, इभ्यिका वा। क्षत्रियका, क्षत्रियिका वा। ककारपूर्वस्य--चटकका, चटकिका। वा।
यकपूर्वायाः किम् ? अश्विका।
आतः इति स्त्रीविषयस्य ग्रहणान्नेह--णकशकायतेः क्विप्, शकशकाः, ततः कः--शकशकिका। शुभंयिका।
। यकपूर्वत्वे धात्वन्तयकारककारयोः प्रतिषेधः ।। सुनयिका। अशोकिका। सुशयिका। सुपाकिका।
-7-3-47- भस्रैषाजाज्ञाद्वास्वानञ्ञपूर्वाणामपि ।।
भस्त्रामदीनां शुद्धानां नञ्ञ्पूर्वाणामन्यपूर्वाणामप्युदीचामित्त्वं नास्ति।
भस्त्रका, भस्त्रिका वा। अभस्त्रका, अभस्त्रिका वा। बहुभस्त्रका, बहुभस्त्रिका वा। एषका, एषिका वा। द्वका, द्विका वा। ज्ञका, ज्ञिका वा। अज्ञका, अज्ञिका वा। अजका, अजिका वा। स्वका, स्विका वा। बहुस्वका, बहुस्विका वा।
एषा-द्वे नञ्ञ्पूर्वे न प्रयुज्येते।
-7-3-48- अभाषितपुंस्काच्च ।।
अभाषितपुंस्कादातः स्थाने योऽकारस्तस्योदीचामित्त्वं नास्ति। खट्वका, खटि्वका वा। मालका, मालिका वा।
-7-3-49- आदाचार्याणाम् ।।
आकारः स्यादाचार्याणां मतेन। खट्वाका। मालका।
-7-3-50- ठस्येकः ।।
अङ्गस्य ठस्य इकः स्यात्। ठक्--आक्षिकः। ठञ्ञ्--लावणिकः।
-7-3-51- इसुसुक्तान्तात् कः ।।
एभ्यष्ठस्य कः स्यात्। इकापवादः। सार्पिष्कः। धानुष्कः। उगन्तात्। ओर्देशे टञ्ञ्--नैषादकर्षुकः। औदश्वित्कः। पेतृकः।
। दोष उपसंख्यानम् ।। दौर्भ्यां तरतीति दौष्कः।
-7-3-52- चज्ञोः कु घिण्ण्यतोः ।।
घिति ण्यति चजोः कवर्गः स्यात्। पाकः। भोगः। पाक्यम्। भोग्यम्।
-7-3-53- न्यङ्क्वादीनाञ्ञ्च ।।
एषां कुत्वं स्यात्। न्यङ्कुः। मद्गुः। भृगुः। तक्रम्। वक्रम्। पचाद्यचि--व्यतिषङ्गः। निदाघः। मेघः। कर्मण्यण्--श्वपाकः। मांसपाकः।
-7-3-54- हो हन्तेर्ञ्ञ्णिन्नेषु ।।
ञ्ञ्णिति नकारे च हन्तेर्हकारस्य कुत्वं स्यात्। धातः। घातयति। घातकः।
नकारे--घ्रन्ति। वृत्रघ्रा। वृत्रघ्रोऽपत्यं वार्त्रघ्रः।
-7-3-55- अभ्यासाच्च ।।
हन्तेः कुत्वं स्यात्। जिघांसुः। जङ्घन्यते। अहं जघन।
-7-3-56- हेरचङि ।।
हिनोतेस्तथा स्यात्। प्रजिघाय। प्रजिघीषति। प्रजेघीयते। अचङि किम् ? प्राजीहयत्।
-7-3-57- सल्लिंटोर्जेः ।।
सनि लिटि च जेः कुत्वं स्यात्। जिगीषति। जिगाय।
-7-3-58- विभाषा चेः ।।
चिनोतेर्वा। चिचौषति, चिकीषति। वा। निश्चिकाय, निश्चिचाय वा।
-7-3-59- न क्वादेः ।।
उक्तं कुत्वं कवर्गादेर्नास्ति। कूजः। कूजयम्। संकोचः। खर्जः। गर्जः।
न इति योगविभागान्नेह--रोमाञ्ञ्चः। शोच्यम्।
-7-3-60- अजिव्रज्योश्च ।।
अनयोः कुत्वं न स्यात्। समाजः। परिव्राज्यम्।
चकाराद्--वाजः पक्षः।
-7-3-61- भुजन्युब्जौ पाण्युपतापयोः ।।
एतावनयोर्निपात्यते। भुज्यतेऽनेनेति भुजः पाणिः। न्युब्ज्यतेऽनेनेति न्युब्जो रोगः। अन्यत्र--भोगः। समुद्गः।
-7-3-62- प्रयाजानुयाजौ यज्ञाङ्गे ।।
इमौ यज्ञाङ्गे निपात्येते। अन्यत्र--प्रयोगः। अनुयागः।
-7-3-63- वञ्ञ्चेर्गतौ ।।
कुत्वं नास्ति। वञ्ञ्च्यं वञ्ञ्चन्ति। गन्तव्यं यान्तीत्यर्थंः।
गतौ किम् ? वङग्यं काष्ठम्।
-7-3-64- ओक उचः के ।।
उचेञ्ञि ओके सिद्धे कप्रत्यये निपातनमिदं स्वरार्यम्।
-7-3-65- ण्य आवश्यके ।।
ण्ये कुत्वं नास्ति । अपश्यपाच्यम्।
आवश्यके किम् ? पाक्यम्।
-7-3-66- यजयाचरुचप्रवचर्चश्च ।।
एषां च ण्ये कुत्वं नास्ति। याज्यम्। याच्यम्। रोच्यम्। प्रवाच्यो नाम ग्रन्थः। अर्च्यम्--ण्यत्। ऋचेरस्मादेव वचनान्न क्यप्।
। त्यजेरुपसंख्यानम् ।। त्याज्यम्।
-7-3-67- वचोऽशब्दसंज्ञायाम् ।।
वचेर्ण्यति कुत्वं नास्ति। वाच्यम्।
अशब्दसंज्ञायां किम् ? वाक्यम्।
-7-3-68- प्रयोज्यनियोज्यौ शक्यार्थे ।।
एतौ शक्यार्थे निपात्येते। प्रयोक्तुं शक्यः प्रयोज्यः। नियोक्तुं शक्यो नियोज्यः। अन्यत्र--प्रयोग्यः। नियोग्यः।
-7-3-69- भोज्यं भक्ष्ये ।।
निपात्यते। भोज्य ओदनः।
भक्ष्ये किम् ? भोग्या स्त्री।
-7-3-70- घोर्लोपो लेटि वा ।।
छान्दसम्।
-7-3-71- ओतः श्यनि ।।
ओदन्तस्य श्यनि लोपः स्यात्। दो--द्यति। षो--स्यति अवस्यति।
-7-3-72- क्सस्याचि ।।
क्सस्याजादावन्त्यलोपः स्यात्। अधुक्षाताम्। अधुक्षि।
-7-3-73- लुग्वा दुहिदिहलिहगुहामात्मनेपदे दन्त्ये ।।
एषां क्सस्य सर्वस्यैव लुग् वा स्याद् दन्त्यवर्णादौ तङि। अदुग्ध, अधुक्षत। अदुग्धाः, अधुक्षथाः। अधुग्ध्वम्, अधुक्षध्वम्।
दन्तोष्ठ्योऽपि वकारो दन्त्यग्रहणेन गृह्यते। वहेरझलादित्वाद्
दादेर्घत्वं नास्ति। अदुह्वहि, अधुक्षावहि।
-7-3-74- शमामष्टानां दीर्घः श्यनि ।।
शमादीनामष्टानां श्यनि दीर्घः स्यात्। शाम्यति। ताम्यति। दाम्यति। श्राम्यति। भ्राम्यति। क्षाम्यति। क्लाम्यति। माद्यति।
श्यनि किम् ? भ्रमति। वा भ्राश इति श्यन् वा।
-7-3-75- ष्ठिवुक्लम्याचमां शिति ।।
शिति एषां दीर्घः स्यात्। निष्ठीवति। आचामति। क्लामति।
-7-3-76- क्रमः परस्मैपदेषु ।।
शिति दीर्घः स्यात्। क्रामति। उत्क्रामन्। नेह--क्रमते बुद्धिः।
-7-3-77- इषुगमियमां छः ।।
एषां शिति च्छः स्यात्। इच्छति। गच्छति। यच्छति। प्रायच्छत्।
उकारनिर्देशान्नेह--इष्यति। इष्णाति।
-7-3-78- पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छर्पश्यव्छधीशीयसीदाः ।।
पाघ्रादीनामेकादशानां शिति पिबादयः स्युः। पिबति। पिबेत्। जिघ्रति। धमति। तिष्ठति। मनति। यच्छति। पश्यति। ऋच्छति। सर्त्तेर्वेगितायां गतौ। धौ--घावति।
अन्यत्र--अभिसरति। शीयते। सीदति।
अर्त्तिसर्त्ति इति सौत्रत्वाद् विकरणाभावः।
-7-3-79- ज्ञाजनोर्जा ।।
शिति ज्ञाजनोर्जाः स्यात्। जानाति। जायते।
-7-3-80- प्वादीनां ह्वस्वः ।।
एषां शिति ह्रस्वः स्यात्। पुनाति। लुनाति। स्तृणाति
-7-3-81- मीनातेर्निगमे ।।
छान्दसम्।
।।अथ गुणप्रकरणम्।।
-7-3-82- मिदेर्गुणः ।।
शिति मिदेरङ्गस्येको गुणः स्यात्। मेद्यति, मेद्यतः, मेद्यन्ति। शितीत्येव--मिद्यते।
-7-3-83- जुसि च ।।
अङ्गस्येको जुसि गुणः स्यात्। अबिभयुः। अजागरुः। ऐयरुः।
जुसाश्रये ङित्त्वापवादोऽयं गुणो यासुटो ङित्त्वेन बाध्यते--चिनुयुः। ब्रूयुः। सुनुयुः।
-7-3-84- सार्वधातुकार्धधातुकयोः ।।
अनयोरिगन्तस्याङ्गस्य गुणः स्यात्। जयति। नयति। चिनोति। भवति। करोति। करवाव। करवाम। विधूरिवाचरति विधवति--क्विप्। सवितरति। रात्रयति।
आर्धधातुके--जेतुम्। नेतुम्। भवितुम्। कर्त्तुम्। तरितुम्। विधवितुम्। सवितरितुम्।
अनयोः किम् ? अग्रिकाम्यति। भूकाम्यति।
-7-3-85- जाग्रोऽविचिण्णल्ङित्सु ।।
वृद्धेर्गुणप्रतिषेधस्य च विषये जागर्त्तेर्गुणः स्यात्। जागरयति। नागरकः। जागरितः। जागरितवान्।
रिङोऽपि पूर्वविप्रतिषेधाद् गुण इत्यागमः। जागर्यते त्वया।
अविचिण्णल्ङित्सु किम् ? विन्--जागृविः। चिण्--अजागारि। णल्--जजागार। ङित्--जागृतः। जागृथः।
कथमजागरुः, अहं जजागर ? जाग्र इति सूत्रप्राप्तिर्निषिध्यते। इह तु पूर्वसूत्राभ्यां गुणः।
-7-3-86- पुगन्तलघूपधस्य च ।।
पुगन्तानां लघूपधानां च सार्वधातुकार्धधातुकयोर्गुणः। स्यात्। क्रोपयति। ह्रेपयति। ह्रेपणम्। वर्द्धते। वर्त्तते। वर्त्तनम्। भेदयति। भेत्ता। भेदनम्। छेत्ता।
कथं बिभित्सति ? हलन्ताच्च इति कित्त्वात्।
कथं लिखनम्, लिखिष्यति ? संज्ञापूर्वकत्वेन गुणस्यानित्यत्वात्।

                         ।।अथ सार्वधातुकेविधानम्।।
-7-3-87- नाभ्यस्तस्याचि पिति सार्वधातुके ।।
अभ्यस्तस्य गुणो न स्यादजादौ पिति सार्वधातुके। नेनिजानि। अनेनिजम्।
अचे किम् ? नेनेक्ति। लङ्--अनेनेक्। लधूपधस्येत्वेव--जुहवानि चानले।
सार्वधातुके विधानं यावत् सुपि च (7.3.102) इति।
-7-3-88- भूसुवोस्तिङि ।।
गुणो नास्ति। अभूत्। अभूः। सुवै। सुवावहै। सुवामहै।
-7-3-89- उतो वृद्धिर्लुकि हलि ।।
उकारान्तस्य वृद्धिः स्याल्लुकि सति हलादौ पिति परे। यौति। रौति। स्तोति। स्तौमि।
हलि किम् ? स्तवानि।
-7-3-90- ऊर्णोतेर्विभाषा ।।
ऊर्णोर्वृद्धि र्वा स्यात्। प्रोर्णौति। प्रोर्णोति। हलीत्येव-प्रोर्णवानि।
-7-3-91- गुणोऽपृक्ते ।।
ऊर्णोरपृक्ते गुणः स्यात्। वृद्धेर्वाधा। प्रोर्णोत्। प्रोर्णोः।
-7-3-92- तृणह इम् ।।
तृहेः श्नमि तृणह हत्यस्य इमागमः स्याद् हलि पिति सार्वधातुके। तृणेढि। तृणेक्षि। तृणेढु रामः सह लक्ष्मणेन। अतृणेट्।
हलीत्येव--तृणहानि।
-7-3-93- ब्रुव इर्ट् ।।
ब्रूञ्ञो हलि पिति इर्ट् स्यात्। ब्रवीति। ब्रवीतु। अब्रवीत्।
हलि किम् ? ब्रवाणि।
-7-3-94- यङो वा ।।
हलादेः पितः सार्वधातुकस्य यङोऽभावाद् यङ्लुगन्तादीड् वा स्यात्। बोभवीति, बोभोति वा। लालपीति लालप्ति वा। वावदीति।
यङ्लुक् छान्दस इति भागवृत्तिः। नेत्यन्ये।
चन्द्रगोमी भाषासूत्रकारः यङो वा इति सूत्रितवान्।
-7-3-95- तुरुस्तुशम्यमः सार्वधातुके ।।
तुरुस्तुशम्यमः इतिच्छान्दसम्।
-7-3-96- अस्तिसिचोऽपृक्ते ।।
अपृक्तसय आभ्यामीट् स्यात्। आसीत्। आसीः। सिच्--अकार्षीत्। अकार्षीः। अपृक्ते किम् ? अस्ति। अकार्ष्टाम्।
।आहिभुवोरीटि स्थानिवद्भावप्रतिषेधः ।। आत्थ। अभूत्।
-7-3-97- बहुलं छन्दसि ।।
छान्दसम्।
-7-3-98- रुदश्च पञ्ञ्चम्यः।।
एभ्योऽपृक्तस्य इर्ट् स्यात्। रुदः इति सुब्व्यत्यये भ्यसो ङसिः। अरोदीत्। अश्वसीत्। अस्वपीत्। प्राणीत्। अजक्षीत्।
-7-3-99- अड् गार्ग्यगालवयोः ।।
अनयोर्मतेनैभ्योऽट् स्यात्। आदत्। आदः।
-7-3-100- अदः सर्वेषाम् ।।
अदोऽपूक्ते सर्वेषामट् स्यात्। आदत्। आदः।
-7-3-101- अतो दीर्घो यञ्ञि ।।
अदन्तस्य यञ्ञादौ सार्वधातुके दीर्घः स्यात्। पचामि। पक्ष्यामि।
अतः किम् ? चिनुमः। यञ्ञि किम् ? पचति।

                 ।।उक्तं सार्वधातुके ।।
-7-3-102- सुपि च ।।
यञ्ञादौ अतः सुपि दीर्घः स्यात्। वृक्षाय। वृक्षाभ्याम्। यञ्ञीत्येव-वृक्षस्य।
-7-3-103- बहुवचने झल्येत् ।।
अदन्तस्य झलादौ बहुवचने एत्वं स्यात्। वृक्षेभ्यः। वृक्षेषु। सर्वेषाम्। सुपीत्येव--पचध्वम्।
-7-3-104- ओसि च ।।
अत्रादन्तस्य एत् स्यात्। वृक्षयोः वनयोः।
-7-3-105- आङि चापः ।।
आप एत्वं स्यादोसि चाङि परे। खट्वया। खट्वयोः।
कथमतिखट्वेन ? ङ्याब्ग्रहणेव दीर्घग्रणमिति स्थानिवत्त्वनिषेधादित्येके। आ आपः इति प्रश्लेषेण दीर्घग्रहणमिति भाष्यम्।
आङ् इति तृतीयैकवचनस्य नाम।
-7-3-106- सम्बुद्धौ च ।।
आप एत्वं स्यात्। हे खट्वे।
-7-3-107- अम्बार्थलद्योर्ह्वस्वः ।।
अम्बार्थानां नद्याश्च सम्बुद्धौ ह्रस्वः स्यात्। हे अम्ब। हे अक्क। हे कुमारि। हे धीबन्धु। हे वधु।
। डलकवतीनां प्रतिषेधश्च ।। हे अम्बाडे। हे अम्बाले। हे अम्बिके।
। मातृणां मातच् पुत्रार्थमर्हते ।। सम्बुद्धौ मातुर्मातच्--पुत्रायार्हते। नद्यृतश्च इति कापोऽपवादः। गार्गीमातः। हे नात्सीमातः श्लाध्योऽभिधीयते।
-7-3-108- ह्वस्वस्य गुणः ।।
सम्बुद्धौ ह्रस्वस्य गुणः स्यात्। हे अग्ने। हे निष्कौशाम्बे। हे विष्णो। हे वायो। हे बन्धो।
कथं हे कर्तृ कुल ? नद्यपेक्षस्य ह्रस्वस्य ग्रहणात्।
-7-3-109- जसि च ।।
अङ्गस्य ह्रस्वस्य जसि गुणः स्यात्। मतयः। बन्धवः।
-7-3-110- ऋतो ङिसर्वनामस्थानयोः ।।
अङ्गस्य ऋदन्तस्य गुणः स्यात्। ङौ--मातरि। कर्त्तरि। सर्वनामस्थाने--मातरौ। मातरः। कर्त्तारः।
हे कर्त्तरित्यत्र सम्बुद्धिलोपात् परत्वेन गुणे कृते रात्सस्य इति तलोपः।
कथं कर्तृणि कुलानि ? नुमः पूर्वविप्रतिषेधेनेष्टत्वात्।
-7-3-111- घेर्ङिति ।।
घिनाम्नो ङिति गुणः स्यात्। अग्नये। वायवे। पटवे। धेनवे। सुपीत्येव--पट्वी।
-7-3-112- आण्नद्याः ।।
नद्याः परस्य ङितिः स्यादाट्। कुमाय। कुमार्याः। धेन्वाः। धेनवाम्। वध्वाः। वध्वाम्।
-7-3-113- याडापः ।।
आबन्तान् ङितो याट् स्यात्। खट्वायै। खट्वायाः। मालायाः। शान्लायाः।
-7-3-114- सर्वनाम्नः स्याड् ढ्रस्वश्च ।।
आबन्तात् सर्वनाम्रो ङित स्याडागमः स्यात्। आबन्तस्य ह्रस्वश्च। सर्वस्यै। विश्वस्यै। विश्वस्याः। यस्याः। तस्याः।
स्मैस्मातौ चात्र न प्राप्नुतः; स्याटा व्यवधानान् ङेङस्योरसर्वनाम्रः परत्वात्।
-7-3-115- विभाषा द्वितीयातृतीयाभ्याम् ।।
ङित आभ्यां स्याड् वा स्यात्। द्वितीयस्यै, द्वितीयायै वा। तृतीयस्यै, तृतीयायै वा।
-7-3-116- ङेराम् नद्याम्नीभ्यः ।।
एभ्यो ङेरामादिश्यते। नदी--कुमार्याम्। वध्वाम्। धेन्वाम्। ङिति ह्रस्वश्च इति नदीपक्षे--कृत्याम्। धेन्वाम्। आप्--खट्वायाम्।
बहुराजानाम्। नी--सेनान्याम्। दिनप्रण्याम्।
-7-3-117- इदुद्भ्याम् ।।
-7-3-118- औत् ।।
-7-3-119- अच्च घेः ।।
इदुद्भ्यां ङेरौत् सयत्। सख्यौ। पत्यौ। अच्च घेः। अग्रौ। कृतौ। भूमौ। धेनौ।
-7-3-120- आङो नाऽस्रियाम् ।।
घेस्तृतीयैकवचनस्य नाः स्यात्। अग्रिना। हरिणा। वायुना। बन्धुना। अमुना।
अस्त्रियां किम् ? मत्वा। सूच्या। धेन्वा।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भषावृत्तौ
सप्तमाध्यायस्य तृतीयः पादः
।।समाप्तश्च देविकापादः ।।
-7-3-120