त्रिभागमित्यनेन पञ्चम्यादिपक्ष उच्यते । तथा च स्मृतिः--
"भौजगीं तिथिमारभ्य यावच्चन्द्रार्कसंगमम्" इति ॥ |
भौजगी तिथिः पञ्चमी । चन्द्रार्कसंगमेऽमावास्यायां तावत्पर्यन्तमित्यर्थः । अर्धमित्यष्टम्यादिपक्षः । त्रिभागमिति दशम्यादिपक्षः । त्रिभागहीनमिति चतुर्दशीसहितप्रतिपदादिचतुष्टयवर्जनाभिप्रायेणेति कल्पतरुः । अशक्तस्त्वेकदिन एव कुर्यात् । तदुक्तं हेमाद्रौ नागरखण्डे--
"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । |
तत्र वर्ज्यतिथ्यादिकमुक्तं पारिजाते वसिष्ठेन--
"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । |
त्रिजन्मनक्षत्राणि जन्मनक्षत्रं दशमैकोनविंशे च । एतच्च सकृन्महालयविषयम् ।
"सकृन्महालये काम्ये पुनः श्राद्धे खिलेषु च । |
इति पृथ्वीचन्द्रोदये नारदोक्तेः ।
एतदपवादः संग्रहे--
"अमापाते भरण्यां च द्वादश्यां पक्षमध्यके । |
पराशरमाधवीये मदनपारिजातादिषु चैवम् । निर्णयदीपिकायां तु पितृमृताहे निषिद्धदिनेऽपि सकृन्महालयः कार्य इत्युक्तम् । स्मृत्यन्तरे--
"आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे । |
कात्यायनोऽपि--
"या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । |
- ↑ ख. च. विच्छिन्नं ।