(३८६)
पूर्वक मेने ही उत्पन्न कराया है । संदेह रूपी हिंडोला, निर्दोप धैर्य के आश्रय
स्थान, तुम्हारे मन को व्यर्थ ही वयो चलायमान कर रहा है । अर्थाङ सन्देह
छोड़ कर युद्ध करो।
सपदि न शुभमस्ति भोगहेतोस्तिलपरिमाणमपि त्वदग्रजस्य ।
इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोऽपि ।।६४।।
अन्वय:
सपदि त्वमग्रजस्य भोगहेतो: तिलपरिमाणम् अपि शुभं न अस्ति । हि इह विहितभूरिदुष्कृतनां पुरातनः अपि पुण्यचयः विगलति ।
व्याख्या
सपादि झटिति ‘स्त्राक् झटित्यञ्जसन्हाय द्वाङमंक्षु सपदि द्रुते'सद्यः सपदि तल्क्षणे' इत्यमरः । त्वदग्रजस्य तव ज्येष्ठभ्रानुस्सोमदेवस्य भोगहेतोः सुखभोगार्थं
तिलपरिमाणमप्यल्पमात्रमपि शुभं पुण्यकर्म नाऽस्ति न विद्यते नाऽवशिष्टं
भविष्यतीति भावः । हि यस्मात्कारणविहऽस्मिऽजगति विहितानि कृतानि भूरीणि बहूनि दुष्कुनानि कुकर्माणि यैस्ते तेषा कृतपापानां पुरातनोऽपि प्राचीनऽपि पूर्वसञ्चित इत्यर्थः । पुण्यचय: सुकृतसमुदायो विगलति नश्यति समाप्तिमेतव्यर्थ:।
भाषा
जल्दी ही तुम्हरे बड़े भाई सोमदेव की सुसानुभूति के लिये रत्तीभर भी पुण्यकर्म (अवशिष्ट) ने रहेगा । क्युकि इस ससार में अत्यधिक पाप करने वालो का प्राचीन स्रञ्चित पुण्य भी क्षीण हो जाता है ।
भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्थिनां प्रमाथे ।
स्मरसि न किमिति स्थितिस्तवैपा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥
अन्वय:
तत् अत्र भुवनमहोत्सवे परिपन्थिनां प्रमाथे प्रगुणधनुः भव । भुवि एषा तय स्थितिः धर्मविरोधिनां वधाय ननु, इति किं न स्मरसि ।