त[१]दित आवां गच्छावः ।( इति निष्क्रान्तौ । )
( प्रस्तावना । )
( ततः प्रविशति मुक्तां शिखां प[२]रामृशंश्चाक्य: ।)
चाणक्यः-कथ[३]य । क एष मयि स्थिते चन्द्रगुप्तमभिभवितु मिच्छति । प[४]श्य ।
थांशस्य च निदर्शनात् । यद्वा ‘अन्तर्जवनिकान्तस्थैश्चूलिकार्थस्य सूचना इति लक्ष्णान्नॅपथ्यगतेनॅव चाणक्येन नाटकीयार्थस्य सूचनात् प्रस्तावनान्तर्गतैव चूलिका कृतेति बोध्यम् । अथ प्रकृते नाटके मुखसंधिरारभ्यते ।
संधेः सामान्यलक्षणानि दशरूपके–‘अवान्तरार्थसंबन्धः संधिरेकान्वये सति’ इति । एकेन प्रयोजनेनान्वितानां कथांशानां अवान्तरप्रयोजनेन संवन्धः संधिः । तत्रारम्भबीजसंबन्धो मुखसंधिः।
‘यत्र वीजसमुत्पत्तिर्नानार्थरससंभवा । |
इति मुखसंधिलक्षणम् ।
ततः प्रविशति इत्यादिसंदर्भो मुखसंधिः। मौर्यलक्ष्मीस्थैर्यहेतुराक्षससंग्रहरूपमुख्यप्रयोजनार्थायाश्चाणक्योपायविचारकथाया अनुकूलदैवकृतराक्षसमुद्रालाभाद्यवान्तरप्रयोजनेन सह संबन्धस्य सामान्यलक्षणस्यारम्भवीजसंबन्धस्य च वक्ष्यमाणविशेषलक्षणस्य वक्ष्यमाणाया बीजसमुत्पत्तेश्च सत्त्वात् ।
मुक्तां शिखामिति । नन्दकुलवधप्रतिज्ञावसरे मुक्ता शिखा न बद्धा चन्द्रगुप्तलक्ष्मीस्थैर्यंस्याद्याप्यनिष्पन्नत्वात् । अत्र सिंहवदतिक्रूरमपि मां परिभूय मया महता संरम्भेण साधितां मौर्यलक्ष्मीं राक्षसो हर्तुमिच्छतीति
- ↑ E has befor this तन्न युक्तं कुपितस्य पुरतः स्थातुम्
- ↑ परिमृशन्सको धश्चा° A. K; °सकोप for सक्रोध M. R; N. and E. merely add सकोप. before चाणक्यः in text
- ↑ Om. M. and R; A. substitutes आ: for it. K. and P. add : before it. N. has it twice; B. adds बलात् after इच्छति; E. has for the whole speech simply आः कथयति
- ↑ B. and R. om. प्रश्य.