आस्वादितद्विरदशोणितशोणशोभां |
अपि च ।
रूपकातिशयोक्त्या ध्वनितम्। ‘रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः’ इति लक्षणात् । को नामेति राक्षसस्य साहसिकत्वदु:साध्यसाधकत्वादयो गुणाः सूचिताः। हरेदंष्ट्रामिति मौर्यश्रियो दुरुद्धरत्वं सूचितम् । आस्वादितेति अचिरकृतनन्दवंशवधरोषोऽद्यापि न शान्त इति सूचितम् । संध्यारुणचन्द्रकलादृष्टान्तेन मौर्यश्रीरभिनवा वर्धिष्णुविश्वाभिनन्वेति च सूचितम्। जृम्भाविदारितमुखस्येति स्वयास्मिन्विषयेऽतिजाग्रत्ता ध्वनिता। स्फुरन्तीमिति समग्राङ्गतया लक्ष्म्या वैरिदुःसाध्यत्वमुक्तम् । एवं जाग्रतोऽपि मम पौरुषं परिभूय अवज्ञाय मौर्यलक्ष्मीं हतुं यतत इत्यहोऽतिशुरो दण्डनीतिपारदृश्वा स्वामिकार्यधुर्यो राक्षसोऽवश्यं संग्राहं इति चणक्यौत्सुक्यमात्ररूपा बीजस्यारम्भावस्थार्थत: सूचिता । चन्द्रगुप्तलक्ष्मीस्थैर्यफलकस्य राक्षससंग्रहरूपकार्यस्य हेतुरनुकूलदैवश्चाणक्यनीतिप्रयोगो बीजम् । यथा रत्नावल्यां वत्सराजस्य सागरिकाप्राप्तिहेतुरनुकूलदैवो यौगंधरायणोद्योगः । यथा वा वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भामक्रोधोपचितो युधिष्ठिरोत्साहो बीजम् । तच्च बीजं महाकार्यचान्तरकार्यभेदादनेकप्रकारमित्यनैकधा विस्तारीत्युक्तम् । राक्षससंग्रहश्च मलयकेतुनिश्रहं विना न घटत इति निग्रहोऽष्यवान्तरप्रयोजनत्वेन सूचनीयः ॥ ८ ॥
तदेतदाह-नन्देति । नैल्यकौटिल्यगुणेन कालभुजगीधूमळतात्वेन नि