हितोपदेशः २३

विकिस्रोतः तः

सन्धिः[सम्पाद्यताम्]

कथा - १२[सम्पाद्यताम्]

अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणोपि सहजदारिद्र्याद् अचिन्तयत्यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥१०१॥

किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि यातु, चिरकालपालितम् इमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस्तेन नकुलेन बालकसमीपम् आगच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश्च । ततोसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्तविलिप्तमुखपदः सत्वरम् उपगम्य तच्चरणयोर्लुलोठ । ततः स विप्रस्तथाविधं दृष्ट्वा मम बालकोनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस्तावद् बालकः सुस्थः स्वपिति सर्पश्च व्यापादितस्तिष्ठति । ततस्तम् उपकारकं नकुलं निरीक्ष्य, भावितचेताः स ब्राह्मणः परं विषादम् अगमत् । अतोहं ब्रवीमियोर्थतत्त्वम् अविज्ञाय इत्य् आदि । अपरं च्

कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।
षड्वर्गम् उत्सृजेद् एनं तस्मिंस्त्यक्ते सुखी नृपः ॥१०२॥

राजाह्मन्त्रिन् ! एष ते निश्चयः
मन्त्री ब्रूते एवम् एव । यतः
स्मृतिस्तत्परतार्थेषु वितर्को ज्ञाननिश्चयः ।
दृढता मन्त्रगुप्तिश्च मन्त्रिणः परमो गुणः ॥१०३॥

तथा च्
सहसा विदधीत न क्रियाम्
अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्य कारिणं
गुणलुब्धाः स्वयम् एव सम्पदः ॥१०४॥

तद् देव ! यदीदानीम् अस्मद्वचनं क्रियते, तदा सन्धाय गम्यताम् । यतः

यद्यप्य् उपायाश्चत्वारो निर्दिष्टाः सध्यसाधने ।
सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥१०५॥

राजाह्कथम् एवं सत्वरं सम्भाव्यते
मन्त्री ब्रूतेदेव ! सत्वरं भविष्यति । यतः

मृद्घटवत् सुखभेद्यो
दुःसन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघटवद्
दुर्भेद्यश्चाशु सन्धेयः ॥१०६॥

अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥१०७॥

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥१०८॥

राजाहलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन्मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितंदेव ! सन्धिकर्तुं महामन्त्री गृध्रोस्मत्समीपम् आगच्छति ।
राजहंसो ब्रूतेमन्त्रिन् ! पुनरभिसन्धिना केनचिद् अत्रागमनम् ।
सर्वज्ञो विहस्याह्देव ! न शङ्कास्पदम् एतत् । यतोसौ महाशयो दूरदर्शी । अथवा स्थितिरियं मन्दमतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का ।

तथा हि
सरसि बहुशस्ताराच्छायेक्षणात् परिवञ्चितः
कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः ।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं
कुहुकचकितो लोकः सत्येप्यपायम् अपेक्षते ॥१०९॥

दुर्जनदूषितमनसः सुजनेष्व् अपि नास्ति विश्वासः ।
बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥११०॥

तद् देव ! यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्गद्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच्मन्त्रिन् ! युष्मद्आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम्
राजहंसो ब्रूते एवम् एव ।
दूरदर्शी कथयति एवम् एवैतत् । किन्त्व् इदानीं बहुप्रपञ्चवचनं निष्पर्योजनम् । यतः

लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलिकर्मणा ।
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥१११॥

अन्यच्च
सद्भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् ।
स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान् जनान् ॥११२॥

तद् इदानीं सन्धातुं गम्यताम् । महाप्रतापश्चित्रवर्णो राजा ।
चक्रवाको ब्रूतेयथा सन्धानं कार्यम् । तद् अप्य् उच्यताम् ।
राजहंसो ब्रूतेकति प्रकाराः सन्धीनां सम्भवन्ति
गृध्रो ब्रूतेकथयामि श्रूयताम्

बलीयसाभियुक्तस्तु नृपो नान्यप्रतिक्रियः ।
आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः कालयापनम् ॥११३॥

कपाल उपहारश्च सन्तानः संगतस्तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥११४॥

अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ॥११५॥

स्कन्धोपनेयः सन्धिश्च षोडशः परकीर्तितः ।
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥११६॥

कपालसन्धिर्विज्ञेयः केवलं समसन्धिकः ।
सम्प्रदानाद् भवति य उपहारः स उच्यते ॥११७॥

सन्तानसन्धिर्विज्ञेयो दारिकादानपूर्वकः ।
सद्भिस्तु सङ्गतः सन्धिर्मैत्रीपूर्व उदाहृतः ॥११८॥

यावद् आयुःप्रमाणस्तु समानार्थप्रयोजनः ।
सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते ॥११९॥

सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत् ।
तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥१२०॥

आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः ।
स उपन्यासकुशलैरुपन्यास उदाहृतः ॥१२१॥

मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥१२२॥

उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति ।
अयं चापि प्रतीकारो रामसुगृईवयोरिव ॥१२३॥

एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः ।
सुसंहितप्रयाणस्तु सन्धिः संयोग उच्यते ॥१२४॥

आवयोर्योधमुख्याभ्यां मद्अर्थः साध्यताम् इति ।
यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥१२५॥

त्वयैकेन मदीयोर्थः सम्प्रसाध्यस्त्व् असाव् इति ।
यत्र शत्रुः पणं कुर्यात् सोदृष्टपुरुषः स्मृतः ॥१२६॥

यत्र भूम्य्एकदेशेन पणेन रिपुरूर्जितः ।
सन्धीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥१२७॥

स्वसैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः ।
क्रियते प्राणरक्षार्थं सर्वदानाद् उपग्रहः ॥१२८॥

कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः ।
शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥१२९॥

भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते ।
भूम्य्उत्थफलदानेन सर्वेण परभूषणः ॥१३०॥

परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥१३१॥

परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा ।
उपहारश्च विज्ञेयाश्चत्वारश्चैव सन्धयः ॥१३२॥

एक एवोपहारस्तु सन्धिरेतन्मतं हि नः ।
उपहारस्य भेदास्तु सर्वेन्ये मैत्रवर्जिताः ॥१३३॥

अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहाराद् ऋते तस्मात् संधिरन्यो न विद्यते ॥१३४॥

राजाह्भवन्तो महान्तः पण्डिताश्च । तद् अत्रास्माकं यथाकार्यम् उपदिश्यताम् ।
दूरदर्शी ब्रूते किम् एवम् उच्यते

आधिव्याधिपरीतापाद् अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥१३५॥

जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् ।
तथाविधम् इति ज्ञात्वा शश्वत्कल्याणम् आचरेत् ॥१३६॥

वाताभ्रविभ्रमम् इदं वसुधाधिपत्यम्
आपातमात्रमधुरो विषयोपभोगः ।
प्राणास्तृणाग्रजलबिन्दुसमानलोला
धर्मः सखा परम् अहो परलोकयाने ॥१३७॥

मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् ।
सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥१३८॥

तन्मम संमतेन तद् एव क्रियताम् । यतः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद् धि सत्यम् एव विशिष्यते ॥१३९॥

अतः सत्याभिधानदिव्यपुरःसरम् अनयोर्भूपालयोः काञ्चनाभिधानः सन्धिर्विधीयताम् । सर्वज्ञो ब्रूते एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्टमनाश्चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद् बहुमानदानपुरःसरं सम्भाषितस्तथाविधं सन्धिं स्वीकृत्य राजहंससमीपं प्रस्थापितः ।
दूरदर्शी ब्रूतेदेव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्वस्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति ।
विष्णुशर्मेनोक्तंपरं किं कथयामि, तद् उच्यताम् ।
राजपुत्रा ऊचुःार्य ! तव प्रसादात् सकलराज्यव्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् ।

विष्णुशर्मोवाच्यद्यप्य् एवं तथाप्यपरम् अपीदम् अस्तु ।
सन्धिः सर्वमहीभुजां विजयिनाम् अस्तु प्रमोदः सदा
सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश्चिरं वर्धताम् ।
नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता
वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर्भूयान्महान् उत्सवः ॥१४०॥

अन्यच् चास्तु
प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स यावद्
यावल् लक्ष्मीर्मुरारेर्जलद इव तडिन् मानसे विस्फुरन्ती ।
यावत् स्वर्णाचलोयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस्
तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहोयं कथानाम् ॥१४१॥

किं च्
उर्वीम् उद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस्त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः ।
आकल्पान्तं च भूयात् स्थिरसमुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥१४२॥

अपरं च्
श्रीमान्धवलचन्द्रोसौ जीयान् माण्डलिको रिपून् ।
येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥१४३॥

इति हितोपदेशे सन्धिर्नाम चतुर्थः कथासङ्ग्रहः
॥ समाप्तश्चायं हितोपदेशः ॥

"https://sa.wikisource.org/w/index.php?title=हितोपदेशः_२३&oldid=202147" इत्यस्माद् प्रतिप्राप्तम्