हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०४०

विकिस्रोतः तः
← अध्यायः ०३९ हरिवंशपुराणम्
अध्यायः ०४०
वेदव्यासः
अध्यायः ०४१ →
श्रीकृष्णस्य, बलरामस्य एवं परशुरामस्य गोमन्तपर्वतोपरि आरोहणम्, गोमन्तस्य शोभावर्णनम्, परशुरामस्य कृष्णं युद्धाय प्रोत्साहयित्वा तत्रतः प्रस्थानम्

चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
तत्तु धेन्वाः पयः पीत्वा बलर्द्पसमन्वितौ ।
ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ ।। १ ।।
गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।
जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ।। २ ।।
जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः ।
शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ।। ३ ।।
ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् ।
गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ।। ४ ।।
लताचारुविचित्रं च नानाद्रुमविभूषितम् ।
नानागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोहरैः ।। ५ ।।
द्विरेफगणसंकीर्णं शिलासंकटपादपम् ।
मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः ।। ६ ।।
गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम् ।। ७ ।।
कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश्छन्नं शार्दूलतल्लजैः ।। ८ ।।
नीलाश्मचयसंघातैर्बहुवर्णं यथा घनम् ।
धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ।। ९ ।।
कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ।। 2.40.१० ।।
सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः ।। ११ ।।
तमालैलावनयुतं मरीचक्षुपसंकुलम् ।
पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः ।। १२ ।।
द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् ।
प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम् ।। १३ ।।
सर्जनिम्बार्जुनवनं पाटलीकुलसंकुलम् ।
हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ।। १४ ।।
जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम् ।। १५ ।।
जम्बूजम्बूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ।
चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम् ।। १६ ।।
कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् ।
नागयूथसमाकीर्णं मृगसंघातशोभितम् ।। १७ ।।
सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा ।। १८ ।।
विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
सिंहशार्दूलसंनादैः सततं प्रतिनादितम् ।
सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ।। १९ ।।
स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलंकृतम् ।
वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैः श्रितम् ।। 2.40.२० ।।
शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ।। २१ ।।
प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
काननैराननाकारैर्विशेषद्भिरिव श्रियम् ।। २२ ।।
जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ।
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ।। २३ ।।
पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् ।
पादपच्छन्नभूमीभिः सपुष्पाभिः समन्ततः ।। २४ ।।
मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा ।
सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च ।। २५ ।।
तेषु तेष्ववकाशेषु सदारामिव शोभितम् ।
औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
जातरूपैर्वनोद्देशैः कृत्रिमैरिव भूषितम् ।। २६ ।।
मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च ।
पृथिवीमन्तरिक्षं च ग्राहयन्तमिव स्थितम् ।। २७ ।।
ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।
रुचिरं रुरुचुः सर्वे वासायामरसंनिभाः ।। २८ ।।
रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः ।
असज्जमाना वेगेन वैनतेयपराक्रमाः ।। २९ ।।
ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव ।
अगारं सहसा चक्रुर्मनसा निर्मितोपमम् ।। 2.40.३० ।।
निविष्टौ यादवौ दृष्टा जामदग्न्यो महामतिः ।
रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे ।। ३१ ।।
कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो ।
युवयोर्नास्ति वैमुख्यं संग्रामे दैवतैरपि ।। ३२ ।।
प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि ।
सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम् ।। ३३ ।।
इदं तत् स्थानमुद्दिष्टं यत्रायुधसमागमः ।
युवयोर्विहितो देवैः समयः साम्परायिकः ।। ३४ ।।
दैवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत ।
कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ।। ३५ ।।
यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।
मानुषाणां हितार्थाय लोके मानुषदेहिना ।। ३६ ।।
तस्यायं प्रथमः कल्पः कालेन तु नियोजितः ।
जरासंधेन वै सार्धं संग्रामे समुपस्थिते ।। ३७ ।।
तत्रायुधबलं चैव रूपं च रणकर्कशम् ।
स्वयमेवात्मना कृष्ण त्वमात्मानं विधत्स्व ह ।। ३८ ।।
चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिमाहवे ।
चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः ।। ३९ ।।
अद्यप्रभृति ते यात्रा स्वर्गोक्ता समुपस्थिता ।
पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ।। 2.40.४० ।।
वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणि ।
कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ।। ४१ ।।
युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः ।
धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः ।। ४२ ।।
राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।
एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ।। ४३ ।।
सग्रहं कृष्ण नक्षत्रं संक्षिप्यारिविमर्दन ।
त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते ।। ४४ ।।
त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।
स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ।। ४५ ।।
सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः ।
त्वया सत्कृतरूपेण येन सत्कृतवानहम् ।। ४६ ।।
साधयामि महाबाहो भवतः कार्यसिद्धये ।
स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम् ।। ४७ ।।
इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम् ।
जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम् ।।।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः ।। ४० ।।