हंसगीता

Wikisource तः
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

२८८
[य्]
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह।
विद्वांसो मनुजा लोके कथमेतन्मतं तव॥१॥

[भी]
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर॥२॥

हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्॥३॥

[साध्या]
शकुने वयं स्म देवा वै साध्यास्त्वाम् अनुयुज्महे।
पृच्छामस्त्वां मोक्षधर्मं भवंश्च किल मोक्षवित्॥४॥

श्रुतोऽसि नः पण्डितो धीरवादी साधु शब्दः पतते ते पतत्रिन्।
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन्॥५॥

तन्नः कार्यं पक्षिवरप्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम्।
यत्कृत्वा वै पुरुषः सर्वबन्धैर् विमुच्यते विहगेन्द्रेह शीघ्रम्॥६॥

[हम्स]
इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः।
ग्रन्थीन्विमुच्य हृदयस्य सर्वान् प्रियाप्रिये स्वं वशमानयीत॥७॥

नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत।
ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम्॥८॥

वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु॥९॥

परश्चेदेनमतिवाद बानैर् भृशं विध्येच्छम एवेह कार्यः।
संरोष्यमाणः प्रतिमृष्यते यः स आदत्ते सुकृतं वै परस्य॥१०॥

क्षेपाभिमानादभिषङ्ग व्यलीकं निगृह्णाति ज्वलितं यश् च मन्युम्।
अदुष्टचेतो मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम्॥११॥

आक्रुश्यमानो न वदामि किं चित् क्षमाम्यहं ताद्यमानश् च नित्यम्।
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः सत्यं तथैवार्जवमानृशंस्यम्॥१२॥

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम्॥१३॥

वाचो वेगं मनसः क्रोधवेगं विवित्सा वेगमुदरोपस्थ वेगम्।
एतान्वेगान्यो विषहत्युदीर्णांस् तं मन्येऽहं ब्राह्मणं वै मुनिं च॥१४॥

अक्रोधनः क्रुध्यतां वै विशिष्टस् तथा तितिक्षुरतितिक्षोर्विशिष्टः।
अमानुषान्मानुषो वै विशिष्टस् तथाज्ञानाज्ज्ञानवान्वै प्रधानः॥१५॥

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दते॥१६॥

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात्।
पापं च यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव॥१७॥

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च।
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति॥१८॥

सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न चमेऽस्ति रोषः।
न चाप्यहं लिप्समानः परैमि न चैव किं चिद्विषमेण यामि॥१९॥

नाहं शप्तः प्रतिशपामि किं चिद् दमं द्वारं ह्यमृतस्येह वेद्मि।
गुह्यं ब्रह्म तदिदं वो ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किं चित्॥२०॥

विमुच्यमानः पापेभ्यो धनेभ्य इव चन्द्रमः।
विरजः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति॥२१॥

यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः।
यस्मै वाचं सुप्रशस्तां वदन्ति स वै देवान्गच्छति संयतात्मा॥२२॥

न तथा वक्तुमिच्छन्ति कल्यानान्पुरुषे गुणान्।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुज्ञकाः॥२३॥

यस्य वाङ्मनसी गुप्ते सम्यक्प्रनिहिते सदा।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्॥२४॥

आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः।
तस्मान्न वर्धयेदन्यं न चात्मानं विमिंसयेत्॥२५॥

अमृतस्येव सन्तृप्येदवमानस्य वै द्विजः।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति॥२६॥

यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति।
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य॥२७॥

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्॥२८॥

सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः।
स्वाध्यायनित्योऽस्पृहयन्परेषाम् एकान्तशील्यूर्ध्वगतिर्भवेत्सः॥२९॥

सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान्।
न पावनतमं किं चित्सत्यादध्यगमं क्व चित्॥३०॥

आचक्षाहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन्।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव॥३१॥

यादृशैः संनिवसति यादृशांश् चोपसेवते।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः॥३२॥

यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव।
वासो यथा रङ्ग वशं प्रयाति तथा स तेषां वशमभ्युपैति॥३३॥

सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम्।
नेन्दुः समः स्यादसमो हि वायुर् उच्चावचं विषयं यः स वेद॥३४॥

अदुष्टं वर्तमाने तु हृदयान्तर पूरुषे।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै॥३५॥

शिश्नोदरे येऽभिरताः सदैव स्तेना नरा वाक्परुषाश् च नित्यम्।
अपेद दोषानिति तान्विदित्वा दूराद्देवाः सम्परिवर्जयन्ति॥३६॥

न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृत कर्मणा वा।
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते॥३७॥

अव्याहृतं व्याकृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम्।
धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियंवदेद्व्याहृतं तच्चतुर्थम्॥३८॥

[साध्या]
केनायमावृतो लोकः केन वा न प्रकाशते।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति॥३९॥

[हम्स]
अनानेनावृतो लोको मात्सर्यान्न प्रकाशते।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति॥४०॥

[साध्याह्]
कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते।
कः स्विदेको बलवान्दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति॥४१॥

[हम्स]
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञ एको बहुभिर्जोषमास्ते।
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति॥४२॥

[साध्याह्]
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते।
असाधुत्वं च किं तेषां किमेषां मानुषं मतम्॥४३॥

[हम्स]
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते।
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते॥४४॥

[भी]
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते॥४५॥

॥इति हंसगीता समाप्ता॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"http://sa.wikisource.org/w/index.php?title=हंसगीता&oldid=29397" इत्यस्माद् पुनः प्राप्तिः