स्वयम्भूधर्मधातुसमुत्पत्तिः

विकिस्रोतः तः
स्वयम्भूधर्मधातुसमुत्पत्तिः
[[लेखकः :|]]

स्वयम्भूधर्मधातुसमुत्पत्ति निदानकथा

ओं नमः श्री धर्मधातुवागीश्वराय सर्व बुद्धधर्मबोधिसत्त्वेभ्यः ।

श्रीमता येन सद्धर्मस्त्रैलोके संप्रकाशितः ।
श्रीघनं तं महाबुद्धं वन्देकऽहं शरणाश्रितः ॥ १.१ ॥
नत्वा त्रिजगदीशानं धर्मधातुजिनालयम् ।
तत्स्वयम्भूसमुद्देशं वक्षामि शृणुतादरात् ॥ १.२ ॥
श्रद्धया यः शृणोतीमां स्वयम्भूत्पत्तिसत्कथाम् ।
परिशुद्धत्रिकायाः स बोधिसत्त्वो भवेद्ध्रुवम् ॥ १.३ ॥
तद्यथा भूत्पुराभिज्ञः जयश्री सुगतात्मजः ।
बोधिमण्डविहारे स बिजहार ससांधिकः ॥ १.४ ॥
तत्र जिनेश्वरो नाम बोधिसत्त्व महामतिः ।
श्रद्धया शरणं गत्वा जयश्रीयमुपाश्रयेत् ॥ १.५ ॥
तदा धीमान्जयश्रीः स सर्वसत्त्व हितार्थवित् ।
सद्धर्मसमुपादेष्टुं सभासने समाश्रयेत् ॥ १.६ ॥
तत्र सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
अर्हन्तो भिक्षवश्चापि ब्रह्मचारिणः श्रावकाः ॥ १.७ ॥
भिक्षुण्यो ब्रह्मचारिण्यो ब्रतिनश्चाप्युपासकाः ।
उपासिकास्तथान्येऽपि गृहस्थश्च महाजनाः ॥ १.८ ॥
ब्राह्मणास्तिर्थीकाश्चापि यतयश्च तपस्विनः ।
राजानो मन्त्रिणोमात्याः सैन्याधिपतिश्च पौरिकाः ॥ १.९ ॥
ग्राम्या जनपदाश्चापि तथान्यवासिनो जनाः ।
तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः ॥ १.१० ॥
तत्र सभासनासीनं तमर्हतं जयश्रीयम् ।
अभ्यर्च्य सादरं नत्वा तत्सभायां यथाक्रमम् ॥ १.११ ॥
कृतांजलिपुटाः सर्वे परिवृत्य समन्ततः ।
पुरस्कृत्य समुद्विक्ष्य समाश्रयन् समाहिताः ॥ १.१२ ॥
तान् सर्वान् समुपासीनान् सद्धर्म श्रवणोत्सुकान् ।
दृष्ट्वा जिनश्री बोधिसत्त्वः समुत्थितः ॥ १.१३ ॥
उद्वहन्नुत्तरासंगं सांजलि समुपाश्रितः ।
जानुभ्यां भूतले धृत्वा सम्पश्यन्नेवमव्रवीत् ॥ १.१४ ॥
भदन्तोहर्षमिच्छामि चरितुं बोधिसंवरम् ।
तदादौ किं व्रतं धृत्वा संचरेय समाहितः ॥ १.१५ ॥
तद्भवान् समुपादिस्य सर्वानस्मान् प्रबोधयन् ।
बोधिमार्गे समायुज्य चारयितुं शुभेर्हति ॥ १.१६ ॥
इति संप्रार्थितं तेन श्रुत्वा च सुगतात्मजः ।
जयश्रीस्तं महासत्त्वं सभामन्त्रैवमादिशत् ॥ १.१७ ॥
शृणु वत्सास्ति ते वांछा सम्बोधिसंवरे यदि ।
यथाक्रमं प्रवक्षामि संबोधिव्रतसाधनम् ॥ १.१८ ॥
यो वांछा तत्र संसारे चरितुं बोधिसंवरम् ।
स आदौ शरणं गत्वा सद्गुरुं समुपाश्रयेत ॥ १.१९ ॥
तदुपदेशमासाद्य यथाविद्यि समाहितः ॥ १.२० ॥
तीर्थे स्नात्वा विशुद्धात्मा त्रिरत्नशरणं गताः ।
यथाविधि समभ्यर्च्य संबोधि निहिताशयः ॥ १.२१ ॥
उपोषधंव्रतमाधाय समाचरेज्जगद्धिते ।
एवं यश्चरते नित्यं संबोधिमानसः सुधीः ॥ १.२२ ॥
परिशुद्ध त्रिकायः स बोधिसत्त्वे भवेद् ।
बोधिसत्त्वो महासत्त्वः सर्व्वसत्त्व हितार्थभृत् ॥ १.२३ ॥
क्रमात्संबोधि संभारं संपूरयेत्समाहितः ।
एतत्पुण्याभियुक्तात्माचतुर्ब्रह्म विहारधृक् ॥ १.२४ ॥
निःक्लेशो निर्ज्जयन्मारोन संबोधिः समवाप्नुयात् ॥ १.२५ ॥
एवं सर्वत्र लोकेषु सद्धर्म संप्रकाशयन् ।
समाप्य सौगतंकार्य सुनिर्वृतिमवाप्नुयात् ॥ १.२६ ॥
ततोऽर्हं सुगतो भूत्वा सर्व्वान्सत्त्वान्प्रवोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संवृत्तौ संप्रचारयेत् ॥ १.२७ ॥
एवं सर्वेऽपि संबुद्धाः येतीता अप्यनागताः ।
वर्त्तमानाश्च ते हयेतद्व्रतपुण्य विपाकतः ॥ १.२८ ॥
बोधिप्राप्य जिना आसन्भविष्यन्ति भवन्त्यपि ।
एवं सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ १.२९ ॥
अर्हन्तोऽपि था सर्वे परिशुद्धत्रिमण्डलाः ।
बोधिं प्राप्य सुनिर्वाणं याता यास्यन्ति यान्त्यतः ॥ १.३० ॥
एवं यूयं परिज्ञाय यदेच्छथ सुनिवृतिम् ।
त्रिरत्नशरणं गत्वा संचरध्वमिदं व्रतम् ॥ १.३१ ॥
इति तेन समादिष्टं श्रुत्वा स सुगतात्मजः ।
जिनेश्वरं तमर्हन्तं सम्पश्यन्नेवमव्रवीत् ॥ १.३२ ॥
भदन्त श्रोतुमिछामि तद्व्रतस्थानमुत्तमम् ।
एतद्व्रतं चरेत्कुत्र तद्देशं समुपादिशत् ॥ १.३३ ॥
इति संप्रार्थिते तेन जयश्रीः स महामतिः ।
जिनेश्वरं महासत्त्वं तं पश्यन्नेवमादिशत् ॥ १.३४ ॥
शृणु वत्स समाधायं व्रतस्थानसमुत्तमम् ।
मुनीश्वरैर्यथाख्यातं तथा वक्षामि तेऽधुना ॥ १.३५ ॥
पुण्यक्षेत्रेषु तीर्थेषु विहारे सुगताश्रमे ॥
बुद्धानां निवृतानांच चैत्येषु प्रतिमासु च ॥ १.३६ ॥
बुद्धक्षेत्रेषु सर्वत्र व्रतस्थानं समुत्तमम् ।
एतेष्वमि समाख्यातं स्वयम्भूचैत्यमुत्तमम् ॥ १.३७ ॥
एवं विज्ञाय यो धीमान्व्रतं चरितुमिच्छति ।
स स्वयम्भू जिनक्षेत्रमाश्रित्य चरतां व्रतम् ॥ १.३८ ॥
स्वयम्भूक्षेत्रमाश्रित्य यश्चरति व्रतं मुदा ।
स लभेत्तन्महत्पुण्यमक्षयं बोधिसाधनम् ॥ १.३९ ॥
एतत्पुण्यं विशुद्धात्मा भद्रश्री सद्गुणाश्रयः ।
बोधिसत्त्वो महाभिज्ञा भवज्जिनात्मजो ध्रुवम् ॥ १.४० ॥
दुर्गतिं न ब्रजेत्क्वापि संसारे स कदाचन ।
सदा सद्गतिसंजातो बोधिचर्याव्रतं चरेत् ॥ १.४१ ॥
एवं स संसरल्लोके कृत्वा सर्वत्र भद्रता ।
संबोधि प्रणिधिं धृत्वा संचरे तद्जगद्धिते ॥ १.४२ ॥
एवं च बोधि संभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्यः निर्वृतिपदमाप्नुयात् ॥ १.४३ ॥
एवं यूयं परिज्ञात्वाः स्वयम्भूस्थान आश्रिता ।
त्रिरत्नशरणं गत्वा संचरथ व्रतोत्तमम् ॥ १.४४ ॥
एतत्तेनार्हतादिष्टं श्रुत्वा स सुगतात्मजः ।
जयश्रियं तमर्हन्तं सम्पश्यन्नेवमब्रवीत् ॥ १.४५ ॥
भदन्त भवता दिष्टं श्रुत्वा मे रोचते मनः ।
स्वयम्भूचैत्यमाराध्य चरितुं व्रतमाभवम् ॥ १.४६ ॥
स्वयम्भू चैत्यराजः श्रीधर्मधातु जिनालयः ।
कुत्रास्त्यत्र महीलोके तत्समादेष्टुमर्हति ॥ १.४७ ॥
इति सप्रार्थितं तेन श्रुत्वां सोऽर्हन् यतिः सुधीः ।
जयश्री स्तं महासत्त्व समालोक्यैवमादिशत ॥ १.४८ ॥
विद्यतेऽत्र महीलोके उत्तरस्यां हिमालये ।
नेपाल इति विख्यातेः गोपुच्छाख्येर्नगोत्तमः ॥ १.४९ ॥
तद्गिरेर्नाम चातुर्ध्य चतुर्युगेषु वर्तते ।
तद्यथाभूद्युगे सत्ये पद्मगिरिरिति स्मृतः ॥ १.५० ॥
त्रेतायां वज्रकूटाख्यो गोशृंगो द्वापरे स्मृतः ।
इदानीं तु कलौऽसौ गोपुच्छ इति विश्रुतः ॥ १.५१ ॥
सोऽपिशैलो इदानीतु लोकै नेपाल देशकैः ।
साम्हेगुरिति विख्यात स्तथासंप्रस्थितो भुवि ॥ १.५२ ॥
स सर्वधातुरलादि सर्वद्रव्यमयोक्तमः ।
अश्वत्थ प्रमुखैर्सवैर्पादपैः संप्रशोभितः ॥ १.५३ ॥
सर्वत्र कुसुमैर्कान्तः संर्वोषधिफलद्रुमैः ।
सर्वपक्षिविरावैश्चः भ्रमद्भ्रमरनिस्वनैः ॥ १.५४ ॥
जन्तुभिः सकलः स्नेह निवद्धमैत्रमानसैः ।
तपस्विवद्धया भद्रचारिभिः सनिषेवितः ॥ १.५५ ॥
अष्टांग गुणसंपन्न संशुद्धामृतनिर्झरैः ।
शोभितः पुष्पगंधाधि संवासितैः समीरणैः ॥ १.५६ ॥
संसेवितः सदा दिव्य महोत्साहैर्विवाजितः ।
सर्वलोकाधिपैर्नित्यं संसेवितः समादरैः ॥ १.५७ ॥
तत्र रत्नमय पद्मः कर्ण्णिकायां समाश्रितः ।
दिव्य स्फटिकरत्नाभज्योतिरूपो निरञ्जनः ॥ १.५८ ॥
एकहस्तः प्रमानोच्चश्चैत्यरूपो जिनाश्रयः ।
स्वयम्भूः सर्वलोकानां भद्रार्थ समवस्थितः ॥ १.५९ ॥
ब्रह्म शक्रादिभिर्देवैः सर्वैल्लोकाधिपैरपि ।
सर्वैर्दैत्याधिपैश्चापि नागेन्द्रैः गरुडैरपि ॥ १.६० ॥
सिद्धै विद्याधरैः साध्यैरूर्यक्षगन्धर्वकिन्नरैः ।
राक्षसेन्द्रैश्च रुद्रैश्च ग्रहैस्तारागणैरपि ॥ १.६१ ॥
वसुभिश्चाप्सरोभिश्चः सर्वैश्व त्रिदशाधिपैः ।
ऋषिभिर्यतिभिः सर्वै योगिभि ब्रह्मचारिभिः ॥ १.६२ ॥
सर्वैश्च तीर्थिकै विज्ञैस्तापसैश्चापिसज्जनैः ।
दिवानिशं चतुः संध्यं दृष्ट्वा स्मृत्वा प्रवन्दितः ॥ १.६३ ॥
नित्यकालं समागते समभ्यर्च्य समादरात् ।
संस्तुतिभिः महोत्साहैः संमानिताभिवन्दितः ॥ १.६४ ॥
एवं स त्रिजगन्नाथः स्वयम्भू धर्मधातुकः ।
सर्वलोक हितार्थेन संभाषयन्समास्थितः ॥ १.६५ ॥
इदानीन्तु कलौ लोका दुष्टाः क्रूराशया शठाः ।
दृष्टवेदं धर्मधातुं हि हरिष्यन्ति न संशयः ॥ १.६६ ॥
इत्यसौ शिलयाछाद्य गुप्ति कृत्वा प्रकाशितः ।
तदुपरिष्टीकाभिश्च विधाय चैत्यमुत्तम ॥ १.६७ ॥
छात्रध्वजपताकाभिरलंकृत्याध्यतिष्ठतम् ।
तत्रापि सर्वलोकैश्च सर्वलोकाधिपैरपि ॥ १.६८ ॥
समागत्य समाराध्य समभ्यर्च्याभिवन्दितः ।
सत्कारैश्च महोत्साहैः स्तुतिप्रदक्षिणादिभिः ॥ १.६९ ॥
प्रणामैश्च समाराध्य सेवितो मानितोऽर्चितः ।
एवं स त्रिजगन्नाथो धर्मधातु जिनालयः ॥ १.७० ॥
सर्वसत्त्व शुभार्थेन संशोभिता व्यवस्थितः ।
तत्र ये शरणं गत्वा यान्ति शुद्धया मुदा ॥ १.७१ ॥
दुर्ग्गतिं ते न गछन्ति संसारेऽत्र कदाचन ।
सद्गतावेव संजाता धर्म्मश्री संघशोभिता ॥ १.७२ ॥
बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
भद्रश्री सद्गुणधारा सर्वसत्त्व हितंकराः ॥ १.७३ ॥
बोधिचर्याव्रतं धृत्वा संचरे जगद्धिते ।
एवं यूयमपि ज्ञात्वा श्रद्धया शरण गताः ॥ १.७४ ॥
स्वयम्भूचैत्यमाराध्य संचरध्वं व्रतं सदा ।
एवं कृत्वात्र संसारे भद्रश्री सद्गुणाश्रया ॥ १.७५ ॥
बोधिसत्त्वा महासत्त्वा जिनात्मजा भविष्यथः ।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ १.७६ ॥
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथः ।
इति तेन समादिष्टं निशंम्य स महामतिः ॥ १.७७ ॥
शास्तारं तं समालोक्य पुनरेवमवोचत ।
भदन्त श्रोतुमिच्छामि यत्स्वयम्भू जिनालयः ॥ १.७८ ॥
कदा स्वयं समुत्पन्नः कथं च तदुपादिश ।
इति संप्रार्थित तेन श्रुत्वा सोऽर्हन् यतिः सुधीः ॥ १.७९ ॥
जयश्रीस्तं महासत्त्वं संपश्यन्नेवमादिशत् ।
साधु शृणु महाभाग यथा मया श्रुतं गुरोः ॥ १.८० ॥
तथाहं ते प्रवक्षामि स्वयम्भूत्पत्तिसत्कथाम् ।
तद्यथा पाटलीपुत्रे पुरेऽशोको नराधिपः ॥ १.८१ ॥
सद्धर्म साधनोत्साही त्रिरत्नसेवकोऽभवत् ।
स तत्र कुक्कुटारामे विहारे सुगताश्रमे ॥ १.८२ ॥
उपगुप्तं महाभिज्ञं वन्दितुं समुपाचरेत् ।
तदा सोऽर्हन्महाभिज्ञः सर्वसंघपुरस्कृतः ॥ १.८३ ॥
सभामध्यासनासीनस्तस्थौ ध्यात्वा समाहितः ।
तमर्हतं सभासीनं सर्वसंघपुरस्कृतः ॥ १.८४ ॥
दृष्ट्वाशोकः स भूमीन्द्रो मुदितः समुपाचरत् ।
तत्र स सहसोपेत्य साञ्जलिरर्हतो यतीन् ॥ १.८५ ॥
सर्वान्नत्वोपगुप्तं तमष्टांगैः प्राणमन्मुदा ।
ततस्तं गुरुमर्हन्तं महोत्साहैः यथाविधिम् ॥ १.८६ ॥
समभ्यर्च्य प्रणत्वा च धर्मं श्रोतुमुपाश्रयत् ।
तथा तत्मन्त्रिणः सर्वे सामात्यसचिवो जनाः ॥ १.८७ ॥
तमर्हन्तं यतिन्नत्वा तत्रैकान्तमुपाश्रयत् ।
ततः सोऽर्हन्महाभिज्ञो दृष्ट्वा सर्वा समाश्रितान् ॥ १.८८ ॥
आदिमध्यान्तकल्याणं सद्धर्मसमुपादिशत् ।
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ १.८९ ॥
धर्मविशेषमाज्ञाय संबोधिव्रतमीच्छिरे ।
ततः सोऽपि महाराजः श्रुत्वा तद्धर्ममुत्तमम् ॥ १.९० ॥
संबोधिसाधनोचर्या संचरितुं समैच्छत ।
ततः स नृपती राजा साञ्जलिः समुपाश्रितः ॥ १.९१ ॥
तमर्हन्तं महासत्त्वं नत्वा पश्यं मुदावदत् ।
भदन्त श्रोतुमिच्छामि संबोधिसाधनं व्रतम् ॥ १.९२ ॥
कुत्र पुण्यतमं क्षत्रं यत्राशु सिध्यते व्रतम् ।
तद्भवान् समुपादिश्य सर्वांल्लोकान् प्रबोधयन् ॥ १.९३ ॥
बोधिमार्गे समायुज्य संचारयितुमर्हति ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सोऽर्हन्महामतिः ॥ १.९४ ॥
तमशोकं महीपालं सम्पश्यन्नेवमब्रवीत् ।
साधु शृणु महाराज यथा मे गुरुणोदितम् ॥ १.९५ ॥
तथाहं ते प्रवक्षामि बोधिव्रतं यदीच्छसि ।
सर्वक्षत्रोत्तमो राजन्नुत्तरस्यां हिमालये ॥ १.९६ ॥
नेपाले इति विख्यातो यत्राशु सिध्यते व्रतम् ।
तत्राप्यति महत्पुण्यक्षत्रं बुद्धैः प्रशंसितम् ॥ १.९७ ॥
स्वयम्भूचैत्यराजस्य धर्मधातोः समाश्रयम् ।
तत्र यद्यत्कृतं कर्म तत्तत्संसिध्यते दुतम् ॥ १.९८ ॥
इति सर्वै महासत्त्वैः संसेवितं जिनैरपि ।
इति विज्ञाय राजेन्द्र सम्बोधिं यदि वाञ्छसि ॥ १.९९ ॥
तच्चैत्यशरणं गत्वा संचरस्व सुसंवरम् ।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणर्द्धिमान् ॥ १.१०० ॥
बोधिसत्त्वो महाभिज्ञो भवेः सर्वहितार्थभृत् ।
ततः क्रमेन सम्बोधिं संभारं परिपूरयन् ॥ १.१०१ ॥
निःक्लेशोऽर्हञ्जगन्नाथाः सम्बुद्धपदमाप्स्यसि ।
इति तेनार्हतादिष्टं निशम्य स नृपो मुदा ॥ १.१०२ ॥
उपगुप्तं गुरुं नत्वा पप्रच्छैवं समादरात् ।
भदन्त श्रोतुमिछामि स्वयम्भूत्पत्ति सत्कथाम् ॥ १.१०३ ॥
कदा स्वयं समुत्पन्नं स्तत्समादेष्टुमर्हति ।
इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुर्धीः ॥ १.१०४ ॥
अशोकं तं महीपालं सम्पश्यन्नेवमादिशत् ।
साधु राजन् यथादिष्टं गुरुणा मे श्रुतं मया ॥ १.१०५ ॥
तथाहं संप्रवक्षामि शृणुष्व तत्समाहितः ।
तदा चासौ जगच्छास्ता शाक्यमुनिस्तथागतः ॥ १.१०६ ॥
सर्वज्ञो धर्मराजोऽर्हन्मुनीश्वरो विनायकः ।
स सर्वः सांधिकैः सार्द्धं जनपदेषु संचरन् ॥ १.१०७ ॥
एकस्मिन् समये तत्र नेपाले समुपाचरत् ।
गोपुच्छपर्व्वतपार्श्वे पश्चिमे श्रीस्वयम्भूवः ॥ १.१०८ ॥
पुच्छाग्रोऽभिध चैत्यस्यसंन्निधौ सुगताश्रमे ।
सर्वसत्त्वहितार्थेन पूर्णन्दुरिव भासयन् ॥ १.१०९ ॥
सद्धर्म्म समुपार्देष्टुं विजहार ससांधिकः ।
यदा स भगवाञ्छास्तान् सत्त्वानां धर्म्म वृद्धये ॥ १.११० ॥
सद्धर्म्म समुपादेष्टुं सभासने समाश्रयत् ।
तं दृष्ट्वा तदा तत्र मञ्जुश्रियः ममाश्रमे ॥ १.१११ ॥
विहारे वासिनी चूडाभिधानी ब्रह्मचारिणी ।
अर्हन्ती भिक्षुणी भद्रा सद्धर्म्मगुणवाञ्छिनी ॥ १.११२ ॥
सुप्रसन्नाश्रया शुद्धा काषाय चीवरावृता ।
दिव्यपूजोपचाराणि समादाय प्रमोदिता ॥ १.११३ ॥
तत्सद्धर्मामृतं पातुं तत्राशु समुपाचरत् ।
तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ १.११४ ॥
मैत्रेयप्रमुखाः सर्वे तद्धर्म श्रोतुमागताः ।
अर्हन्तो भिक्षवश्चापि श्रावका ब्रह्मचारिणः ॥ १.११५ ॥
भिक्षुण्यो ब्रह्मचारिण्यः चैलका व्रतिनोऽपि च ।
त्रिरत्नशरणासीनाश्चोपासका उपासिकाः ॥ १.११६ ॥
बौद्धभक्तिरताः सर्वे तद्धर्मश्रोतुमागताः ।
सर्वे ते समुपायातास्तत्र सभासनाश्रितम् ॥ १.११७ ॥
संबुद्धं तं समालोक्य मुदिताः समुपाचरन् ।
ते सर्वेऽभ्यर्च्य तं नाथं नत्वा साञ्जलयोर्मुदा ॥ १.११८ ॥
तत्सद्धर्मामृत पातुं तत्सभायां समाश्रयन् ।
ब्रह्मशक्रादया देवाः सर्वे लोकाधिपा अपि ॥ १.११९ ॥
ग्रहास्तारागणाश्चापि सिद्धा विद्याधरा अपि ।
साध्या रुद्राश्च गन्धर्वा यक्षगुह्यककिन्नराः ॥ १.१२० ॥
दैत्येन्द्रा राक्षसेन्द्राच नागेन्द्रा गरुडा अपि ।
एवमन्येपि लोकेन्द्राः सर्वे तत्र मुदागताः ॥ १.१२१ ॥
तं मुनीन्द्रं समभ्यर्च्य नत्वा तत्र समाश्रयन् ।
हारिती यक्षिणी चापि बोधिसत्त्वानुपालिनी ॥ १.१२२ ॥
सा भवन्तं तमानस्य तत्सभायां समाश्रित ।
अथ स भगवानञ्छास्ता दृष्ट्वा सर्वान् समाश्रितान् ॥ १.१२३ ॥
मैत्रेयं समुपामन्त्र्य सम्पश्यन्नेवमादिशत् ।
मैत्रेयेमं जगन्नाथं स्वयम्भूवं जिनालयम् ॥ १.१२४ ॥
धर्मधातुं त्रिरत्नायं पश्यध्वं यूयमादरात् ।
भजध्वं श्रद्धया नित्यं गत्वात्र शरणं मुदा ॥ १.१२५ ॥
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ।
श्रद्धया ये भजन्त्यत्र शरणं समुपाश्रिताः ॥ १.१२६ ॥
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ।
सर्वे विमुक्तपापास्ते परिशुद्ध त्रिमण्डलाः ॥ १.१२७ ॥
बोधिसत्त्वा महाभिज्ञाः भवेयुः सद्गुणाश्रयाः ।
भद्रश्रीसुखसम्पन्नश्चतुर्ब्रह्मविहारिकाः ॥ १.१२८ ॥
सर्वसत्त्व हितोद्युक्ताः संबोधिव्रतचारिणः ।
न क्वापि दुर्गतिंयायुः सदा सद्गतिसंभवाः ॥ १.१२९ ॥
त्रिरत्नभजनोत्साहाः सद्धर्म्मसाधनोद्यमाः ।
ततः प्रव्रज्या संबुद्धशासने शरणं गताः ॥ १.१३० ॥
ब्रह्मचर्यां व्रतं धृत्वा संचरेरन् समाहिताः ।
ततस्ते निर्मलात्मानो निःक्लेशाः विजितेन्द्रियाः ॥ १.१३१ ॥
त्रिविधां बोधिमासाध सम्बुद्धपद्माप्नुयुः ।
एवं विज्ञाय ये मर्त्या वाञ्छन्ति सौगतं पदम् ॥ १.१३२ ॥
ते भजन्तु सदात्रैव श्रद्धया शरणाश्रिताः ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ॥ १.१३३ ॥
सर्वे लोकाः प्रमोदन्तस्तथा भजितुमीच्छीरे ।
मैत्रेयः स ततो धीमान् बोधिसत्त्व हि मोदितः ॥ १.१३४ ॥
समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरन् ।
उद्वहन्नुक्तरासंगं प्रणत्वा तं मुनीश्वरम् ॥ १.१३५ ॥
जानुभ्यां भुवि संघाय साञ्जलिरेतमव्रवीत ।
भगवान्नाथः सर्वज्ञ धर्मधातुजिनालयः ॥ १.१३६ ॥
कदायं स्वयंमुत्पन्न स्तन्समादेष्टुमर्हति ।
इति संप्रार्थिते तेन मैत्रेयेण महात्मना ॥ १.१३७ ॥
भगवन्तं महाविज्ञं संपश्यन्नेवमादिशत ।
साधु शृणु समाधाय मैत्रेयोऽस्य स्वयम्भूवः ॥ १.१३८ ॥
समुत्पत्तिकथां वक्षे सर्वलोकाभिबोधने ।
पुरास्मिन् भद्रकल्पेऽभूद्विपश्वी नाम सर्ववित् ॥ १.१३९ ॥
जगछास्ता मुनीन्द्रोऽर्हन् धर्म्मराजस्तथागतः ।
अशीति वर्ष साहस्र परमायूंषि यदा नृणाम् ॥ १.१४० ॥
तदाहं सत्य धर्म्माख्या बोधिसत्त्वाभवंत्किल ।
यदा स भगवाञ्छास्ता वन्धुमत्याः पुरोऽन्तिके ॥ १.१४१ ॥
विहारे धर्म्ममादिश्च विजहार ससांधिकः ।
तदाहं तं जगन्नाथमाराध्य समुपस्थितः ॥ १.१४२ ॥
तदात्रा भूत्सप्तकोश व्यायामविस्तरो ह्रदः ।
तदनुशासनां धृत्वा प्राचरं बोधि सम्वरम् ॥ १.१४३ ॥
अष्टांग गुण सम्पन्नः जलाश्रयो नगावृतः ।
पद्मोत्पलादि सौगन्धि नाना पुष्प प्रशोभितः ॥ १.१४४ ॥
हंस सारस काडम्ब प्रमुख पक्षिमण्डितः ।
तीरोपान्तनगारुह सर्वर्त्तु पुष्पितैर्द्रुमैः ॥ १.१४५ ॥
फलौषधादि बृक्षैश्च समन्तात्परिमण्डितः ।
मीनकच्छपमण्डूकप्रमुख जलवासिनाम् ॥ १.१४६ ॥
जन्तूनां निलयोऽगाधः सर्वनागाधिपालयः ।
तत्र सर्वाहिराजेन्द्रः कर्क्कोटकाभिधो महान् ॥ १.१४७ ॥
एवं तदा महा तीर्थः पुण्यामृताश्रयो वभौ ।
सदा त्रत्रिदशाः सद्धर्मप्सरोभिः प्रमोदिताः ॥ १.१४८ ॥
स्नात्वा संक्रीडमानाः सत्सौख्यं भुक्त्वा दिवं ययुः ।
तथा ब्रह्मादयः सर्वे महर्षयस्तपश्विनः ॥ १.१४९ ॥
स्नान संध्यादिकं कर्म्म कृत्वा संसेविरे सदा ।
एवं लोकाधिपाश्चापि स्नात्वात्र सर्वदा मुदा ॥ १.१५० ॥
स्वस्व कुले समभ्यर्च्य महोत्साहैर्निसेविरे ।
एवंमन्येपि लोकाश्च व्रतिनो ब्रह्मचारिणः ॥ १.१५१ ॥
स्नात्वात्र संवरं धृत्वाः पूतात्मानो दिवं ययुः ।
बोधिसत्त्वा तथानैके स्नानदानव्रतं मुदा ॥ १.१५२ ॥
कृत्वात्र विमलात्मानः समाचारञ्जगद्धिते ।
एवं सर्वे मुनीन्द्रैश्च स्नान व्रतादि बीजंफलम् ॥ १.१५३ ॥
महत्पुण्यतरं श्रेष्ठमाख्यातं बोधिसाधनम् ।
यत्र स्नात्वा त्रिरत्नानां शरणे समुपाश्रिताः ॥ १.१५४ ॥
बोधिचर्या व्रतं धृत्वा प्राचरन्त जगद्धिते ।
ते आशु विमलात्मानो भद्रश्रीसत्गुणान्विताः ॥ १.१५५ ॥
बोधिसत्त्वाः महासत्त्वा वभूवुः सुगतात्मजाः ।
केचिन्निः क्लेशितात्मानो भवसंचारे निस्पृहाः ॥ १.१५६ ॥
श्रावकबोधिसत्त्वमासाद्य बभूवु ब्रह्मचारिणः ।
केचिच्च निर्मलात्मानो संसारे विरताश्रयाः ॥ १.१५७ ॥
प्रत्येकबोधिमासाद्य सुनिर्वृतिं समाययुः ।
केचित्संबोधिचित्तं च प्राप्य सद्धर्मलालसाः ॥ १.१५८ ॥
बोधिचर्याव्रतं धृत्वा समाचरञ्जगद्धिते ।
केचित्सर्वे भुक्त्वा दिव्यकामसुखान्यपि ॥ १.१५९ ॥
सद्धर्मगुणसंरक्ताः प्राचरन् सर्वदा शुभे ।
केचित्सर्वे महीपालाः सुनीति धर्मचारिणः ॥ १.१६० ॥
कृत्वा सत्त्वहितार्थानि ययुरन्ते जिनालयम् ।
अहमपि तदा तत्र स्नात्वाचरं व्रतं सदा ॥ १.१७१ ॥
एतत्पुण्यविशुद्धात्मा द्रुतं सम्बोधिमाप्तवान् ।
यैश्चाप्यस्य जलं पीतं तेऽपि निर्मुक्तपातकाः ॥ १.१६२ ॥
परिशुद्धाशया भद्रा बभूवु बोधिभागिनः ।
एवमसौ महातीर्थः सर्वैरपि मुनीश्वरैः ॥ १.१६३ ॥
समधिष्ठापितोऽद्यापि प्रशंसितो महीतले ।
तत्र पश्चात्स्वयं धर्मधातुरुत्पत्स्यते ध्रुवम् ॥ १.१६४ ॥
इत्यादिश्य मुनीन्द्रौऽसौ भूया एरेवं समादिशत् ।
तदा तत्र समुपन्ने धर्मधातौ जिनालये ॥ १.१६५ ॥
निरुत्पातं शुभोत्साहं प्रवर्तिष्यति सर्वदा ।
सर्वे लोकाश्च तं दृष्ट्वा धर्मधातुं स्वयम्भूवम् ॥ १.१६६ ॥
श्रद्धया शरणं गत्वा प्रभजिष्यन्ति सर्वदा ।
तदेतत्पुण्यलिप्तास्ते सर्वे लोकाः शुभेन्द्रियाः ॥ १.१६७ ॥
भद्रश्री सत्सुखं भुक्त्वा यास्यन्त्यन्ते जिनालयम् ।
इत्यादिष्टं मुनीन्द्रेण विपश्विना निशम्यते ॥ १.१६८ ॥
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः ।
इति विपश्विना शास्ता समादिष्टं श्रुतं मया ॥ १.१६९ ॥
तथा युष्मत्प्रोधार्थ समाख्यातं प्रवुद्ध्यताम् ।
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ १.१७० ॥
मैत्रेयादि समालोकाः सर्वेऽपि संप्रसेदिरे ।

इति स्वयम्भूधर्मधातु समुत्पत्ति निदानकथा प्रथमोऽध्यायः समाप्तः ।


द्वितीय अध्याय पूजाफलवर्णनो नाम

अथ धीमान्महासत्त्वो मैत्रेयः स जिनात्मजः ।
भगवन्तं पुनर्नत्वा साञ्जलिरेवमब्रवीत् ॥ २.१ ॥
भगवच्छ्रोतुमिच्छामि स्वयम्भूत्पत्ति सत्कथाम् ।
तद्भवान्समुपाख्यातुं लोकानां संप्रवोधने ॥ २.२ ॥
इति संप्रार्थितं तेन मैत्रेयेण सुधीमता ।
भगवान्स्तान् सभालोकान् सम्पश्यन्नेवमादिशत् ॥ २.३ ॥
साधु मैत्रेय सर्वेऽपि सभालोकाः समादरात् ।
शृणुध्वं संप्रवक्षामि स्वयम्भूत्पत्तिसत्कथाम् ॥ २.४ ॥
तद्यथा निर्वृतिं याते विपश्विनि मुनीश्वरे ।
चिरकालान्तरेणात्र जगच्छास्ताभवत्पुनः ॥ २.५ ॥
शिखि नाम मुनीन्द्रोऽर्हन् धर्मराजस्तथागतः ।
सर्वज्ञः सुगतः सर्वविद्याधिपो विनायकः ॥ २.६ ॥
तदा सप्ततिवर्षाणां सहस्रार्युनृणामभूत् ।
अहं क्षेमंकरो नाम बोधिसत्त्वो भवं किल ॥ २.७ ॥
यदा स भगवाञ्छास्ता शिखिधर्माधिपो जिनः ।
अरुणाख्यपुरोपान्ते व्यहरत्सौगताश्रमे ॥ २.८ ॥
तदा सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
शिखिनस्तस्य शास्तुः संप्राभजन् समुपस्थिताः ।
अहमपि तथा तस्य शिखिनस्त्रिजगद्गुरोः ॥ २.९ ॥
शरणे समुपस्थाय प्राभजं सर्वदा मुदा ।
तत्रैक समये सोऽर्हन् भगवान् सर्वविच्छिखी ॥ २.१० ॥
सद्धर्म समुपादेष्टुं सभासने समाश्रयेत् ।
तद्वीक्ष्य भिक्षवः सर्वे श्रावका ब्रह्मचारिणः ॥ २.११ ॥
भिक्षुण्यो व्रतिनः सर्वे उपासका उपासिकाः ।
तत्सद्धर्मामृतं पातुं समुपागत्य तं मुनिम् ॥ २.१२ ॥
नत्वा साञ्जलयस्तत्र परिवृत्य समाश्रयेत् ।
तदा ब्रह्मामरेन्द्रादि त्रिदशाः सर्वे आगताः ॥ २.१३ ॥
सर्वे लोकाधिपाश्चापि धर्म श्रोतुं समागताः ।
सिद्धा विद्याधरा साध्या यक्षगन्धर्वकिन्नराः ॥ २.१४ ॥
गरुडा राक्षसेन्द्राश्च दैत्या नागाधिपा अपि ।
ऋषयो ब्राह्मणाश्चापि तीर्थिकाश्चापि तपस्विनः ॥ २.१५ ॥
यतयो योगिनश्चापि निर्ग्रन्थाश्च दिगम्बराः ।
राजानो क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ॥ २.१६ ॥
शिल्पिनो वणिजः सार्थवाहादयो महाजनाः ।
पौरा जानपदा ग्राम्यास्तथान्यदेशवासिनः ॥ २.१७ ॥
तत्सद्धर्मामृतं पातुं संहर्षिताः समागताः ।
तत्र ते समुपागत्य समीक्ष्य तं मुनीश्वरम् ॥ २.१८ ॥
यथाक्रमं समभ्यर्च्य कृत्वा चापि प्रदक्षिणाम् ।
कृत्वाञ्जलि पुटो नत्वा परिवृत्य समन्ततः ॥ २.१९ ॥
पुरस्कृत्य समुद्वीक्ष्य समादरादुपाश्रयन् ।
तान् सर्वान् समुपासीनां दृष्ट्वा स भगवाञ्छिखी ॥ २.२० ॥
आदिमध्यान्तकल्याणं सद्धर्म समुपादिशत् ।
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ २.२१ ॥
सद्धर्मसाधनोद्युक्ता वभूवु बोधिभागिनः ।
तस्मिन्नेव समये तत्र पुण्यजलाश्रये ह्रदे ॥ २.२२ ॥
मणिनालं महद्दीप्तिहीरकेशरमुत्तम ।
पञ्चरत्नमयं दिव्यसरोजराजकर्ण्णिकम् ॥ २.२३ ॥
प्रादुर्भूतं महापद्मं सहस्रदलकाशितम् ।
तस्य रत्नसरोजस्य कर्ण्णिकामध्यमण्डले ॥ २.२४ ॥
स्वयम्भूत्समुत्पन्नो धर्म्मधातुर्जिनालयः ।
एकहस्तप्रमाणांशुः शुभ्ररत्नमयोज्ज्वलः ॥ २.२५ ॥
सम्बोधिश्रीगुणाधारः सर्वलक्षणमण्डितः ।
ज्योतिरूपो जगज्जेष्ठ पञ्चतथागताश्रयः ॥ २.२६ ॥
जगदीशो जगत्वन्द्यो जगत्पूज्यो जगत्प्रभुः ।
अनादिनिधनोऽजीर्ण्णो मान्यः सर्वशुभार्थभृत् ॥ २.२७ ॥
समन्तभद्ररूपोऽग्रः श्रेष्ठः सद्धर्मरत्नभृत् ।
त्रैलोक्यसद्गुणाधीशश्चतुर्वर्ग्गफलप्रदः ॥ २.२८ ॥
तस्मिंश्चैत्ये समुत्पन्ने साव्धिनगा रसाचलत् ॥ २.२९ ॥
दिव्यसुगन्धिपुष्पाणि संनिपेतुः सुरालयात् ।
सुरदुन्दुभयो नेदुः दिशः सर्वाः प्रसेदिरे ॥ २.३० ॥
वह्नयो दक्षिणावर्त्ता भद्राभाः संप्रजह्वलः ।
सुशीतलाः सुगन्ध्याद्या धीरं ववुः समीरणाः ॥ २.३१ ॥
ववर्षुः सुरसाम्बूनि मेघा गम्भीरनिस्वनाः ।
ग्रह तारेन्दुचन्द्राभाः सभासिता विरेजिरे ॥ २.३२ ॥
स्तुतिमङ्गलसंगीतिशब्दा व्योम्नि प्रचेरिरे ।
सर्वत्रापि सुमाङ्गल्यमहोत्साहं निरन्तरम् ॥ २.३३ ॥
सुभिक्षं श्रीगुणोर्भावं सद्धर्म भद्रसाधनम् ।
निरुत्पातं शुभाचारं प्रावर्त्तत समन्ततः ॥ २.३४ ॥
तमेवं स्वयम्भूत्पन्नं धर्म्मधातुं जिनालयम् ।
समीक्ष्येशादयः सर्वे आरुप्य भुवनाश्रिताः ॥ २.३५ ॥
योगध्यान महानन्द सौख्येऽपि विरतोत्सवाः ।
स्वयम्भुवं तमीशानं वन्दितुं समुपाचरन् ॥ २.३६ ॥
तथा ब्रह्मादयः सर्वे मुनयो ब्रह्मचारिणः ।
एवं स्वयम्भुवं द्रष्टुं मुदिता समुपाचरन् ॥ २.३७ ॥
एवं शक्रादयः सर्वे त्रिदशाः साप्सरो गणाः ।
पूजाङ्गानि समादाय द्रष्टुमेनं मुदा ययुः ॥ २.३८ ॥
तथाग्निधर्मराजोऽपि नैऋतो वरुणो मरुत् ।
श्रीदो भूताधिपश्चैवं सर्वे लोकाधिपा अपि ॥ २.३९ ॥
स्वस्वपरिजनैः सार्द्ध महोत्साहैः प्रमोदिताः ।
एवं स्वयम्भुवं चैत्यं संद्रष्टुं समुपाययुः ॥ २.४० ॥
धृतराष्ट्रो महाराजो गन्धर्वैः सह मोदितः ।
संगीतिवादनोत्साहैः सहैनं द्रष्टुमाययुः ॥ २.४१ ॥
विरुढको महाराजः कुम्भाण्डसहिता मुदा ।
स्वयम्भुवं तमालोक्य मुदा वन्दितुमाययुः ॥ २.४२ ॥
विरुपाक्षोऽपि नागेन्द्रैः सर्वै नागाधिपैः सह ।
रत्नपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४३ ॥
कुवेरो यक्षराजोऽपि यक्षणीभिः समन्वितः ।
नानाद्रव्योपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४४ ॥
वज्रपाणिश्च गुह्येन्द्रसर्वगुह्यकसंयुतः ।
दिव्यभोग्यापहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४५ ॥
द्रुमः किन्नरराजोऽपि सर्वैः सह ह्याननैः ।
तूर्यसंघोषणोत्साहैः सहिनं द्रष्टुमाययुः ॥ २.४६ ॥
तथा सर्वार्थसिद्धाख्यः सर्वविद्याधराधिपः ।
दिव्यपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ २.४७ ॥
गरुडः पक्षिराजोऽपि सर्वैः पक्षिगणैः सह ।
स्वस्वर्द्धिश्रीमहोत्साहैरेनं संद्रष्टुमाययुः ॥ २.४८ ॥
एवं सिद्धाश्च साध्याश्च वसवश्च ग्रहा अपि ।
सर्वास्तारागनाश्चापि सर्वाश्चाप्यप्सरोगणाः ॥ २.४९ ॥
एवं दैत्याधिपाः सर्वे स्वस्वपरिजनैः सह ।
महासमृद्धिप्रात्साहैः सहसा समुपाचरन् ॥ २.५० ॥
एवं लोकाधिपाः सर्वे दशदिक्षु व्यवस्थिताः ।
दृष्ट्वा तं स्वयम्भूत्पन्नं वन्दितुं सहसाचरन् ॥ २.५१ ॥
सर्वेऽपि ते समागत्य दृष्ट्वा तं जगदीश्वरम् ।
संहर्षिताशया दूरात्प्रणत्वा समुपाचरन् ॥ २.५२ ॥
ततस्ते जगन्नाथ सर्वेऽभ्यर्च्य यथाक्रमम् ।
अष्टांगैः प्रणतिं कृत्वा प्राभजन्त समादरात् ॥ २.५३ ॥
केचिद्दव्यसुगन्धैस्तं प्राभिलिप्याभजन्मुदा ।
केचिन्नानाविधैः पुष्पैः केचिद्धूपैर्मनोहरैः ॥ २.५४ ॥
केचिच्च पुष्पमालाभिः केचिच्च दिव्यचीवरैः ।
केचिच्च दीपमालाभिः केचिदारतिदीपनैः ॥ २.५५ ॥
केचिद्दिव्यामृतैः भोग्यैः केचिद्दिव्यौषधैरपि ।
केचिन्नानाविधैर्दिव्यरत्नालंकाराभूषणैः ॥ २.५६ ॥
केचिच्छत्रध्वजैवलिव्यजनैश्च वितानकैः ।
केचित्संगीतिसंवाद्यैर्मृदङ्गमुरजादिभिः ॥ २.५७ ॥
केचित्तौर्यत्रिकै वंशैः शंखैः शृगैश्च केचन ।
काहारैश्च तथा केचित्वीणादीततवादनैः ॥ २.५८ ॥
तालादिघनवाद्यैश्च भेर्यानकमर्दलैः ।
तथा नानाविधैर्मड्डुर्डिण्डिमझर्झरादिभिः ॥ २.५९ ॥
केचित्नृत्यैश्च गीतैश्च हाहाकारैश्च केचन ।
एवं नानाविधोत्साहैः प्राभजन्स्तं जिनालयम् ॥ २.६० ॥
केचित्प्रदक्षिणान्येव कृत्वा भजन् सहस्रशः ।
केचिच्च धारणीविद्याजपस्तोत्रादिभिर्मुदा ॥ २.६१ ॥
एवं नानाप्रकारैस्ते सर्वे लोका द्विजादयः ।
श्रद्धया समुपाश्रित्य प्राभजन्स्तं स्वयम्भुवम् ॥ २.६२ ॥
एतद्दिव्यमहोत्साहैः संप्रवृत्तिं प्रसारिताम् ।
श्रुत्वा सर्वे सभालोका विस्मयं समुपाययुः ॥ २.६३ ॥
तत्समीक्ष्य महासत्त्वा रत्नपाणिः पुरोगतः ।
शिखिनं तं मुनिं नत्वा साञ्जलिरेवमब्रवीत् ॥ २.६४ ॥
भगवन् यत्मही सर्वा कम्पिता दिव्यमुत्सवम् ।
प्रसारितं च कस्येदं हेतु तत्समुपादिश ॥ २.६५ ॥
इति संप्रार्थितं तेन सुधिया रत्नपाणिना ।
स शिखि भगवान् पश्यन् रत्नपाणिं तमब्रवीत् ॥ २.६६ ॥
साधु शृणु महासत्त्व यत्सर्वा चलिता मही ।
दिव्योत्साहैः प्रवृत्तं च तद्धेतुं संनिगद्यते ॥ २.६७ ॥
तद्यथात्रास्ति भूलोक उत्तरस्यां हिमालये ।
अष्टाङ्गगुणसम्पन्नपुण्यजलाश्रयो ह्रदः ॥ २.६८ ॥
तत्र रत्नमये पद्मे सरोजराजकर्ण्णिके ।
स्वयमेव समुत्पन्नो धर्मधातुजिनालयः ॥ २.६९ ॥
तदुत्पन्ने मही सर्वा रचिता संप्रमोदिताः ।
सर्वत्रापि शुभोत्साहं प्राव्रर्त्तते भवालय ॥ २.७० ॥
तं समीक्ष्य महेशानब्रह्माशक्रादयोऽमराः ।
ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि ॥ २.७१ ॥
महर्षश्च सर्वेऽपि सविस्मयप्रमोदिताः ।
सर्वे लोकाधिपाश्चापि दैत्या नागाः खगेश्वराः ॥ २.७२ ॥
यक्षकिन्नरगन्धर्व्वगुह्यकराक्षसा अपिः ।
एतत्प्रभृतयः सर्वे समीक्ष्य तं स्वयंभुवम् ॥ २.७३ ॥
संहर्षिताः समागत्य प्रभजन्ते महोत्सवैः ।
एतत्पूजामहोत्साहसंप्रवृत्तिः प्रसारित ॥ २.७४ ॥
एतस्येदं महद्भनिमित्तं संप्रजायते ।
इत्यादिष्टं मुनीन्द्रेण शिखिना संनिसंम्य सः ॥ २.७५ ॥
रत्नपाणिमहासत्त्वाः सविस्मयप्रमोदितः ।
सुप्रबुद्धमुखाम्भोजा महासंहर्षिताशयः ॥ २.७६ ॥
भूयस्तं शिखिनं नत्वा साञ्जलिरेवब्रवीत् ।
भगवन् तद्धिजानीयाद्यन्मनो मे समीच्छते ॥ २.७७ ॥
तदनुज्ञां प्रदत्वात्र संप्रसादयतुमर्हति ॥
अहमपि जगच्छास्तः स्वयम्भुवं तमीश्वरम् ॥ २.७८ ॥
श्रद्धया समुपाश्रित्य प्रभजामि महोत्सवैः ॥
इति संप्रार्थिते तेन श्रुत्वा स भगवाञ्छिखि ॥ २.७९ ॥
रत्नपाणिं महासत्त्वं संपश्यन्नेवमादिशत् ॥
कुलपुत्र प्रयाहि त्वं यद्याशु बोधिमिच्छसि ॥ २.८० ॥
श्रद्धया समुपाश्रित्य प्रभज तं जिनालयम् ।
ये तत्र समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ २.८१ ॥
तेआशु प्राप्य संबोधिं सम्बुद्धपदमाप्नुयुः ।
इत्यादिष्टं मुनीन्द्रेण रत्नपाणि निशम्य सः ॥ २.८२ ॥
साञ्जलिस्तं मुनिं नत्वा मुदितः प्राचरत्ततः ।
ततस्तेन सहानेके बोधिसत्त्वा जिनात्मजाः ॥ २.८३ ॥
श्रावका भिक्षवश्चापि भिक्षुण्यश्चाप्युपासिकाः ।
उपासका भक्तिमन्तो व्रतिनः पुण्यलालसाः ॥ २.८४ ॥
ऋषयो ब्राह्मणाश्चापि यतयो योगिनोऽपि च ।
तीर्थिकास्तापसाश्चापि निर्ग्रन्था ब्रह्मचारिणः ॥ २.८५ ॥
राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ।
शिल्पिनो वणिजः सार्थवाहाश्चापि महाजनाः ॥ २.८६ ॥
पौरा जानपदा ग्राम्यस्तथान्यदेशवासिनः ।
एवमन्येपि लोकाश्च सद्धर्मगुणवाञ्छिनः ॥ २.८७ ॥
सर्वे तत्र महोत्साहैस्तेन सार्द्ध मुदा चरत् ।
एवं स रत्नपाणिस्तैः सर्वैः लोकै समन्वितः ॥ २.८८ ॥
पूजाङ्गानि समादाय महोत्साहै मुदाचरत् ।
एवं स प्रवरञ्छ्रीमान् सर्वांल्लोकान् विनोदयन् ॥ २.८९ ॥
सहसा तत्र प्रागत्य ददर्शेमं जिनालयम् ।
दृष्ट्वैनं स महासत्त्वः मुदितः समुपासरन् ॥ २.९० ॥
यथाविधि समभ्यर्च्य प्रणत्वा प्राभजन्मुदा ।
एवं सर्वेऽपि ते लोकाः सहायास्तस्यमहर्षयः ॥ २.९१ ॥
यथाविधि समभ्यर्च्य महोत्साहै मुदाभजन् ।
एवं ते सकला लोका स्तुत्वा जप्त्वा च धारणी ॥ २.९२ ॥
प्रदक्षिणानि कृत्वोष्ट प्रणत्वा प्राभजन्मुदाः ।
एवमन्ये महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ २.९३ ॥
दशदिग्भ्यः समागत्य प्राभजन्निममीश्वरम् ।
अहमपि तदा तेन सहेत्य रत्नपाणिना ॥ २.९४ ॥
श्रद्धया समुपाश्रित्य प्राभजनिममीश्वरम् ।
एतत्पुण्यानुभावेन बोधिं प्राप्य कलावपि ॥ २.९५ ॥
जित्वा मारगणान् सर्वान् धर्माधिपो भवाम्यहम् ॥
ये येस्य समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ २.९६ ॥
ते ते सर्वेऽपि संबोधिं प्राप्य स्युः सुगता द्रुतम् ॥
एवं महत्तरं पुण्यस्य सेवासमुद्भवम् ॥ २.९७ ॥
भद्रश्रीसद्गुणापन्नं सम्बोधिज्ञानसाधनम् ।
इति सर्वै मुनीन्द्रैश्च समाख्यातं समन्ततः ॥ २.९८ ॥
यूयमपि परिज्ञाय भजतास्य समादरात् ।
मुनीन्द्रा अपि सर्वेऽस्य चतुःसन्ध्यं दिवानिशम् ॥ २.९९ ॥
दृष्ट्वा ध्यात्वा स्मृतिं धृत्वा प्राभजन्तं समादरात् ।
भजन्ति साम्प्रतं सर्वे बुद्धाः सर्वे दिगाश्रिताः ॥ २.१०० ॥
अनागताश्च सर्वेऽपि भजिष्यन्ति तथा सदा ।
अस्य दर्शनमात्रेण प्रदुष्टा अपि पापिनः ॥ २.१०१ ॥
निर्मुक्त पातका ह्याशु भवेयु निर्मलेन्द्रियाः ।
ततस्ते निर्मलात्मानो निःक्लेशो ब्रह्मचारिणः ॥ २.१०२ ॥
दुर्गति नैव गच्छेयुः कुत्रापि हि कदाचन ॥
सङ्गतावेव संजाता भद्रश्रीसद्गुणाश्रयाः ॥ २.१०३ ॥
बोधिसत्त्वा महासत्त्वा भवेयुः सुगतात्मजाः ।
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ २.१०४ ॥
त्रिविधां बोधिमासाद्य निर्वृतिं पदमाप्नुयुः ।
इति नत्वा सदाप्यस्य कृत्वा दर्शनमादरात् ॥ २.१०५ ॥
अनुमोद्याभ्यनुस्मृत्वा ध्यात्वानुभाव्य सर्वदा ।
नामापि च समुच्चार्य श्रद्धया बोधिवाछिभिः ॥ २.१०६ ॥
यथाशक्ति प्रकर्त्तव्या भक्तिसेवा सदादरात् ।
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ २.१०७ ॥
मैत्रेयप्रमुखाः सर्वे सभालोकाः प्रबोधिताः ।
तथेत्यभ्यनुमोदन्तो धर्म्मधातो स्वयम्भुवः ॥ २.१०८ ॥
श्रद्धया समुपाश्रित्य संभजितुं समीच्छिरे ।
अथ सर्व्वे सभालोका धर्म्मधातोः स्वयम्भुवः ॥ २.१०९ ॥
पूजाफलविशेषाणि संश्रोतुं पुनरीच्छिरेः ।
तन्मत्वा स महासत्त्वो मैत्रेयः सुगतात्मज ॥ २.११० ॥
भगवन्तं मुनीन्द्रन्तं प्रार्थयदेवमानतः ।
भगवन्नस्य पूजाया विशेषफलविस्तरम् ॥ २.१११ ॥
सर्व्वे इमे सभालोकाः श्रोतुमिच्छन्ति साम्प्रतम् ।
तद्भगवान् समुपादिश्य पूजाफलविशेषताम् ॥ २.११२ ॥
इमां सर्वान् सभासीनां संबोधयितुमर्हति ।
इति संप्रार्थितं तेन मैत्रेयेण निशम्य सः ॥ २.११३ ॥
भगवान्स्तान् सभालोकान् सम्पश्यनैवमादिशत् ।
शृणुध्वं सकला लोका अस्य पूजाफलं महत् ॥ २.११४ ॥
विशेषेण प्रवक्ष्यामि सर्वे लोकाभिबोधने ।
पञ्चामृतैः सहाम्भोभिः संशोभितसुनिर्म्मलैः ॥ २.११५ ॥
ये मुदा स्नापयन्तिमं धर्म्मधातुं जिनालयम् ।
मन्दाकिन्यां सदा स्नात्वा ते विशुद्धत्रिमण्डलाः ॥ २.११६ ॥
दिव्यसुखानि भुंजानो प्रान्ते यानि जिनालयम् ।
सौरभ्य द्रव्यसंयुक्ति यत्र चैत्यै स्वयम्भुवि ॥ २.११७ ॥
मोदयन्तो जगच्चित्तं धूपयन्ति मुदा सदाः ।
ते सुगंधितसौम्याङ्गा मान्या देवा सुरैरपि ॥ २.११८ ॥
श्रीमन्तः सुस्वसंपन्ना भवन्ति रत्नसन्निभाः ।
पञ्चगन्धैर्मुदा यत्र धर्म्मधातो जिनालये ॥ २.११९ ॥
लिप्ताराध्य समाश्रित्य प्रभजन्ति सदादरात् ।
सप्तरत्नसमेतास्ते भद्रश्रीसद्गुणाश्रयाः ॥ २.१२० ॥
सर्व्वे लोका हितोद्युक्ता भवन्ति क्षितिपाधिपाः ।
ये चात्र मुनिराजेन्द्रा विचित्र चीवराम्बरैः ॥ २.१२१ ॥
प्रवार्य श्रद्धया भक्त्या संभजन्ते समादरात् ॥
ते दिव्यदृष्य कौशेय रत्नाभरणभूषिताः ॥ २.१२२ ॥
सुज्ञा धर्माधिपाः सन्तो भवन्ति भद्रचारिणः ।
ये चैमं कुसुमैः सर्व्वै जलजै स्थलजैरपि ॥ २.१२३ ॥
अर्च्चयित्वा समाश्रित्य संभजन्ते प्रमोदिताः ।
महीन्द्रश्रीसमृद्धास्ते शक्राधिकप्रभान्विताः ॥ २.१२४ ॥
भद्रश्रीसुखसंपन्ना भवन्ति बोधिभागिनः ।
यचैनं पुष्पमालाभि रचिताभिर्मनोहरैः ॥ २.१२५ ॥
सर्व्वपुष्पैः प्रलम्बाभिः शोभयित्वा भजन्ति च ।
भवन्ति श्रीसमृद्धास्ते धर्म्मकामाः सुरधिपाः ॥ २.१२६ ॥
सत्कीर्त्तिर्गुणसंरक्ताः शुभगा बोधिचारिणः ।
ये च पुष्पाणि सर्वाणि मुदात्र सुगतालये ॥ २.१२७ ॥
अवकीर्य समाराध्य भजन्ति शरणाश्रिताः ।
तेऽपि देवाधिपा स्वर्गे गता मह्यां नृपाधिपाः ॥ २.१२८ ॥
महच्छ्रीगुणसम्पन्ना भवन्ति बोधिभागिनः ।
धृतसुगन्धितैलादिसंप्रदीप्तां तमोपहाम् ॥ २.१२९ ॥
ज्वालयन्ति मुदा येऽस्मिं धर्म्मधातौ जिनालये ।
सुदुष्टयः सुरुपास्ते ज्ञानदीपतमोपहाः ॥ २.१३० ॥
भूपार्चितपदाम्भोजा भवन्ति बोधिभागिनः ।
प्रणीतं सुरसंभोज्यं वल्भगन्धसमन्वितम् ॥ २.१३१ ॥
ये चास्मिन्नुपढौकित्वा प्रभजन्ति समादरात् ।
ऋद्धिमन्तो नृपेंद्रास्ते सप्तरत्नसमन्विता ॥ २.१३२ ॥
स्वर्ग्गे देवाधिपाश्चापि भवन्ति बोधिभागिनः ।
ये चास्मिं सुरसंपानं सुवर्ण्णगन्धसंयुतम् ॥ २.१३३ ॥
उपढौक्य समाराध्य प्रभजन्ते समाहिताः ।
ते वलिष्ठा महीपेन्द्राः श्रीसमृद्धा निरोगिणः ॥ २.१३४ ॥
स्वर्गे गताश्च देवेन्द्रा भवन्ति बोधिभागिनः ।
ये चास्मिं स्कन्दमूलानि बीजपत्रफलानि च ॥ २.१३५ ॥
श्रद्धया समुपस्थाप्य संभजन्ते समाश्रिताः ।
ते प्रभुक्त्वा यथाकामं भोग्यानि विविधान्यपि ॥ २.१३६ ॥
सद्धर्म्मसाधना रक्ताः संयान्त्यन्ते जिनालयम् ।
ये चास्मिं सुगताधारे पथ्यौषधगणान्यपि ॥ २.१३७ ॥
समर्प्य श्रद्धया नित्यं प्रसेव्यन्ते समादरात् ।
ते वलिष्ठा सुपुष्टाङ्गाः सौम्येन्द्रिया निरामयाः ॥ २.१३८ ॥
राज्यश्रीसुखमाभुज्य संयात्यन्ते सुखावती ।
ये चाप्यत्र जिनाधारे धर्म्मधातौ स्वयम्भुवि ॥ २.१३९ ॥
वितत्योच्चै वितानं च ससेव्यन्ते समादरात् ॥
धन्यास्ते गुणिनो वंद्याः शुद्धवंशा विचक्षणाः ॥ २.१४० ॥
सर्व्वार्थसिद्धिसम्पन्नाः प्रयान्त्यन्ते जिनालयम् ।
ये चास्मिन् सुगतावासे विचित्रानुच्छ्रितान्ध्वजान् ॥ २.१४१ ॥
अवरोप्य महोत्साहैः संभजन्तेऽभिनन्दिता ।
श्रीसद्गुणसुखधारा भूत्वा भूपाधिपा भुवि ॥ २.१४२ ॥
स्वर्गे देवाधिपाश्चान्ते संप्रयान्ति जिनालयम् ।
सौवर्ण्णरत्नपुष्पादि छत्राणि विविधानि ये ॥ २.१४३ ॥
आरोप्यत्र महोत्साहैः संभजन्ते प्रमोदिताः ।
ते नरेन्द्राः सुरेन्द्राश्च छत्रोपमाः सदा भवे ॥ २.१४४ ॥
महत्सुखानि भुक्त्वान्ते संप्रयान्ति जिनालयम् ।
ये चास्मिं सुगतावासे पताकाः पञ्चरङ्गिकाः ॥ २.१४५ ॥
समावलंवयित्वापि संभद्रन्ते महोत्सवैः ।
ते भूत्वात्र महीपालाः सदा देवाधिपा अपि ॥ २.१४६ ॥
भद्रश्रीसत्सुखं भुक्त्वा संयात्यन्ते जिनालयम् ।
ये चास्मिन् विविधैर्वाद्यैः संगीतिमुरुजादिभिः ॥ २.१४७ ॥
तौर्यै वंशादिभिश्चापि संसेव्यन्ते महोत्सवैः ।
ते मनोज्ञस्वनादिव्यश्रीश्रीश्रीसद्गुणाश्रयाः ॥ २.१४८ ॥
सद्धर्म्मसाधनं कृत्वा व्रजन्ति सुगतालयम् ।
सलाजाक्षतपुष्पाणि ये चास्मिं सुगतालये ॥ २.१४९ ॥
प्रक्षिप्य श्रद्धया भक्त्या संभजन्ते समादरात् ।
दुर्गतिन्ते न गच्छन्ति संजाताः सङ्गतौ सदा ॥ २.१५० ॥
सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालयम् ।
सधातुद्रव्यरत्नादि दक्षिणान्यत्र ये मुदा ॥ २.१५१ ॥
श्रद्धया परिढौकित्वा संभजन्ते सदादरम् ।
दिव्यश्रीसुखभुंजाना भद्रश्री सद्गुणाश्रयाः ॥ २.१५२ ॥
सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालये ।
ये चापि स्तुतिभिस्तथ्यैरेनं बुद्धालयं मुदा ॥ २.१५३ ॥
पद्यैर्गद्यमयैश्चापि स्तुत्वा भजन्ति सादरम् ।
बहुरत्नसमृद्धास्ते सर्व्वविद्याविचक्षणाः ॥ २.१५४ ॥
भूपाः स्वर्गाधिपाश्चापि भूत्वान्ते यान्ति सौगतम् ।
श्रद्धयैनं जगन्नाथं समाश्रयं स्वयम्भूवम् ॥ २.१५५ ॥
नत्वाष्टांगैः प्रसन्ना ये संभजन्ते समादरम् ।
सप्तरत्नसमेतास्ते नृपाधिपा महर्धिकाः ॥ २.१५६ ॥
सद्धर्म्मसाधनारक्ता भवन्ति बोधिचारिणः ।
ये चैनं चैत्यराजेन्द्रमनेकशः प्रदक्षिणाम् ॥ २.१५७ ॥
कृत्वा ध्यात्वाप्यनुस्मृत्वा नामोच्चार्य भजन्त्यपि ।
जातिस्मराश्चिरायुष्का मतिमन्तः सुवर्ण्णिनः ॥ २.१५८ ॥
वन्द्याः पूज्याश्च मान्यास्ते भवेयुर्बोधिचारिणः ।
शुद्धाश्च भस्मसंक्षालैः समालिप्य समन्ततः ॥ २.१५९ ॥
समभ्यर्च्यमहोत्साहै ये भजन्त्येनमीश्वरम् ।
शोकक्लेशाग्निसंतापविवर्जिताश्चिरायुषः ॥ २.१६० ॥
नीरोगाः सुखिनो देवा भवेयु भूमिपाश्च ते ।
ये च निर्माल्यमाकृष्य शोधयित्वात्र सर्वतः ॥ २.१६१ ॥
श्रमुपाश्रित्य सेव्यन्ते सम्बुद्धभक्तिमानसाः ।
निर्मुक्तिक्लेशशोकास्ते दर्शनीयाः शुभेन्द्रियाः ॥ २.१६२ ॥
श्रीमन्तः पुण्डरीकास्या भवेयुर्बोधिचारिणः ।
जीर्णे शीर्णे विभग्नेऽस्मिन् प्रतिसंस्कृत्य ये मुदा ॥ २.१६३ ॥
प्रतिष्ठाप्य महोत्साहैः संभजन्ते समादरात् ।
सर्वसम्पत्समृद्धास्ते पुष्टेन्द्रिया निरामयाः ॥ २.१६४ ॥
धर्मकामाः शुभाचारा भवेयुर्बोधिचारिणः ।
जल्पित्वा यस्य मन्त्राणि धारणीश्च समाहिताः ॥ २.१६५ ॥
ध्यात्वा स्मृत्वा समुच्चार्य नामापि प्रभजन्ति च ।
तेऽपि सर्वे महासत्त्वाः परिशुद्धत्रिमण्डलाः ॥ २.१६६ ॥
भद्रश्रीसद्गुणाधारा भवेयुर्बोधिचारिणः ।
एवं महत्तरं पुण्यमस्मिं धर्म्माधिपालये ॥ २.१६७ ॥
श्रद्धाभजनसंभूतमित्यादिष्टं मुनीश्वरैः ।
मयैतत्पुण्यसंक्षिप्तमात्रं तु कथ्यतेऽधुना ॥ २.१६८ ॥
समग्रं विस्तरेनात्र समाख्यातुं न शक्यते ।
एवं मत्वास्य सत्कारपूजाफलं महत्तरम् ॥ २.१६९ ॥
श्रद्धया शरणं गत्वा कर्तव्यं भजनं सदा ।
येप्यस्मिंञ्छरणं गत्वा श्रद्धया समुपाश्रिताः ॥ २.१७० ॥
सुप्रसन्नाशया भक्त्या भजन्ति बोधिमानसाः ।
न ते गच्छन्ति कुत्रापि दुर्गतिं च कदाचन ॥ २.१७१ ॥
संजाताः सद्गतिष्वेव भवेयुर्बोधिचारिणः ।
सदा ते सुकुले जाता बोधिसत्त्वा विचक्षणाः ॥ २.१७२ ॥
सर्वसत्त्व हिता धानं चरेयुर्व्रतमाभवम् ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ २.१७३ ॥
त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ।
न हिचित्त प्रसादस्प स्वल्पाभवति दक्षिणा ॥ २.१७४ ॥
तथागतेषु सद्धर्म्म संबुद्ध श्रावकेष्वपि ॥
एवं ह्यचिन्त्याः संबुद्धाः बुद्ध धर्माश्च निर्मलाः ॥ २.१७५ ॥
अचिन्त्योहि प्रसन्नानां विपाकश्च महाफल ।
एवं मत्वा त्रिरत्नेषु भक्तिपूजा फलं महत् ॥ २.१७६ ॥
कार्याभक्तिषु सदात्रैव धर्म्मधातौ जिनालये ।
इत्यादिष्टं मुनीन्द्रेन श्रुत्वा सर्वे समाश्रिताः ॥ २.१७७ ॥
लोकास्तथेति विज्ञप्य प्रात्यनन्द प्रवोधिताः ।
इति मे गुरुणादिष्टं श्रुतमया तथोच्यते ॥ २.१७८ ॥
त्वमप्येवं सदा राजन् भज तत्र जिनालये ।
तत्पुण्येन ते भद्रं निरुत्पातं सदाभवेत् ॥ २.१७९ ॥
बोधिचित्त रसं च संप्राप्य बोधिसत्त्वो भवेरपि ।
ततः सम्बोधि संभारं पूरयित्वा तथाक्रमम् ॥ २.१८० ॥
मारान्निर्ज्जित्य संबोधि प्राप्य बुद्धपदं लभेः ।
इति शास्तार्हता दिष्टं सम्यकनराधिपः ॥ २.१८१ ॥
अशोकः ससभालोकः प्राभ्यनन्दं प्रबोधितः ।

इति श्री स्वयम्भूत्पत्ति कथाया श्री स्वयम्भू भट्टारकोद्देश पूजावर्णना नाम द्वीतीयोऽध्याय समाप्त ।


तृतीय अध्याय महाह्रदशोषणधर्मधातुपद्मगिरि सम्प्रतिष्ठापन्नो नाम

अथाशोको महीपालः साञ्जलिःपुर आश्रितः ।
तमर्हन्तं यतिं नत्वा प्रार्थयेदेवमादरात् ॥ ३.१ ॥
भदन्त श्रोतुमिच्छामि तद्भूमि सत्कथाम् ।
तत्सम्यक्समुपादिश्य संबोधयितुं नो भवान् ॥ ३.२ ॥
इति संप्रार्थिते राज्ञा सोऽर्हन्यतिर्महामतिः ।
उपगुप्तो नरेन्द्रं तं सम्पश्यन्नेवमादिशत् ॥ ३.३ ॥
साधु शृणु महाराज यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि सर्वलोकाभिवोधने ॥ ३.४ ॥
तद्यथाथ महासत्त्वो मैत्रेयः स जिनात्मजः ।
भगवन्तं पुनर्नत्वा सांजलिरेवमब्रवीत् ॥ ३.५ ॥
भगवन्नावासोसौमहा जलाश्रयो ह्रदः ।
कदा भूमि प्रदेशोऽत्र कथं जलाश्रयो भवेत् ॥ ३.६ ॥
कस्य च समये देशाग्रामादयः प्रवर्त्तिताः ।
तत्सर्वं समुपादिश्यन्सर्वानस्मान्प्रवोधयन् ॥ ३.७ ॥
इति संप्रार्थिते तेन मैत्रेयेन सः सर्ववित् ।
भगवान्स्तं महासत्त्वं सम्पश्यन्नैवमादिशत् ॥ ३.८ ॥
साधु शृणु महासत्त्वं यदत्राभूत्महीतले ।
तत्प्रवृत्तिं समाख्यामि सर्वलोकाभिबोधने ॥ ३.९ ॥
तद्यथा भूविलोकानां वर्ष षष्टी सहस्रका ।
पुराभूत्भगवाञ्छास्ता विश्वभूर्न्नामसर्ववित् ॥ ३.१० ॥
धर्मराजो मुनीन्द्रोऽर्हस्तथागतो विनायकः ।
सर्व विद्याधिपस्तापी संबुद्ध सुगतो जिनः ॥ ३.११ ॥
सोऽनुपमानाम पूर्यामुपकण्ठे जिनाश्रमे ।
सर्वसत्त्व हितार्थेन विजहार ससांधिकः ॥ ३.१२ ॥
मैत्रेयोऽहं तदा भूवं विश्वभू उपासकः ।
पर्वताख्यो महासत्त्वो बोधिसत्त्वो हितार्थभृत् ॥ ३.१३ ॥
तत्र स भगवाञ्छास्ता संभासयं सुधाशुवत ।
सद्धर्म्म समुपादेष्टुं सभासने सभाश्रयत् ॥ ३.१४ ॥
तं दृष्टा भिक्षवो सर्वे श्रावकाः ब्रह्मचारिणः ।
प्रत्येक सुगताश्चापि बोधिसत्त्वाश्चचैलकाः ॥ ३.१५ ॥
भिक्षुण्या ब्रह्मचारिण्योयतयोऽयोगिनो पिच ।
त्रिरत्न भजनारक्ता उपासक उपासिकाः ॥ ३.१६ ॥
एवं मन्येपि लोकाश्च सद्धर्म्म गुणलालसाः ।
भद्रश्री सभाणारक्ता संबुद्ध दर्शणोत्सुका ॥ ३.१७ ॥
तत्सुधर्म्मामृतं पातुं समत्येन मुनीश्वरम् ।
यथाक्रमं समभ्यर्च्य नत्वा साञ्जलाय मुदा ॥ ३.१८ ॥
परिवृत्य पुरस्कृत्य समुद्विक्ष्य समादरात् ।
तत्सभायां समाश्रित्य संनिषेदु समाहिताः ॥ ३.१९ ॥
एवं ब्रह्मादयः सर्वे ऋषयो ब्रह्मचारिणः ।
तीर्थिका अपि सर्वे तत्सद्धर्मं श्रोतुमागताः ॥ ३.२० ॥
शक्रादयोयिदावाश्च सर्वलोकाधिपा अपि ।
ग्रहास्तारागणाः सिद्धाः साध्या विद्याधरा अपि ॥ ३.२१ ॥
सर्वेऽपि ते ससागत्य भगवन्तं यथाक्रमम् ।
समभ्यर्च्य प्रणत्वा तत सभायां समुपाश्रयत् ॥ ३.२२ ॥
एवं च ब्राह्मणा विज्ञा राजान क्षत्रिया अपि ।
वैश्याश्च मन्त्रिणोऽमात्या गृहस्थाश्च महाजनाः ॥ ३.२३ ॥
शिल्पिनो वणिजश्चापि सार्थवाहाश्च पौरिकाः ।
ग्राम्या जानपदाश्चापि तथा न्ये देशवासिनः ॥ ३.२४ ॥
सर्वे ते समुपागत्य भगवन्त यथाक्रमम् ।
समभ्यर्च्य प्रणत्वा च कृत्वा प्रदक्षिणान्यपि ॥ ३.२५ ॥
गुरु कृत्य पुरस्कृत्य परिवृत्य समन्ततः ।
तत्सधर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ ३.२६ ॥
तान्दृष्ट्वा समुपासीनान् विश्वभूर्भगवांजिनः ।
आदि मध्यान्त कल्याणं सद्धर्म समुपादिशत् ॥ ३.२७ ॥
तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः सभाश्रिताः ।
धर्म्मविशेषमाज्ञाय प्राप्यनन्द प्रवोधिताः ॥ ३.२८ ॥
तस्मिन्क्षणे मही सर्वा च चारद्धि सपर्वताः ।
सुप्रसन्ना दिशः सर्वा रेजुरवीन्द्र वह्न्यः ॥ ३.२९ ॥
सुरदुन्दुभयो नेन्दुर्निपेतुः पुष्पवृष्टयः ।
निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ ३.३० ॥
तद्विलोक्य सभालोकाः सर्वे ते विस्मयान्विताः ।
श्रोतुं तद्धेतु सर्वज्ञमुद्वीक्ष्य तस्थुरादिताः ॥ ३.३१ ॥
तदा गगनगञ्जाख्यो बोधिसत्त्वः समुत्थितः ।
उद्धहन्नुत्तरासंग पुरतः समुपाश्रित ॥ ३.३२ ॥
सर्वज्ञं तं महाभिज्ञं धर्म्मराजं विनायकम् ।
विश्वभुवं मुनिन्नत्वा सांजलिरेवमब्रवीत् ॥ ३.३३ ॥
भगवन्तद्रनैमित्यं कस्येदं जायतेऽधुना ।
तद्भवान्समुपादिश्य संबोधयतु नो गुरोः ॥ ३.३४ ॥
इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ।
गगनगंजमालोक्य तं सभाचैवमब्रवीत् ॥ ३.३५ ॥
कुलपुत्र महद्भद्र निमित्तमिदमाचरत् ।
तदहं सप्रवक्षामि शृणुध्वं यूयमादरात् ॥ ३.३६ ॥
तद्यथा त्रिगुणाभिज्ञा मञ्जुश्रीः सुगतात्मजः ।
उत्तरस्यां महाचीने विहरति नगाश्रमे ॥ ३.३७ ॥
तस्य भार्या उभेज्येष्टाकेशिनी श्रीवरप्रदा ।
विद्या सद्गुण संभर्त्री द्वितीयाः चोपकेशिनी ॥ ३.३८ ॥
एकस्मिन् समये तत्र मंजुश्रीः सद्गुणोदधिः ।
लोकं संदर्शन नाम समाधिं विदधे मुदा ॥ ३.३९ ॥
ध्यान दृष्टा ददर्शात्र महाह्रदसरोरुहे ।
रत्नमयं समुत्पन्नं धर्म्मधातुं जिनालयम् ॥ ३.४० ॥
स्वयंभुवं तमालोक्य मंजुदेवं सुसन्मतिः ।
संहर्षितः पुर्नध्यात्वा मनसैवं व्यचिन्तयेत् ॥ ३.४१ ॥
अहो स्वयं समुद्भूतो धर्म्मधातु जिनालयः ।
निर्जने जलमये ज्योतिरूपः संभाषयन् स्थितः ॥ ३.४२ ॥
तत्तथाहं करिष्यामि गत्वा तत्र महाह्रदे ।
शोषयित्वा तदम्भान्सि यथा पृथ्वीतलोऽभवत् ॥ ३.४३ ॥
तदा तत्र महीभूत्रे निर्जले सुप्रतिष्ठिते ।
शिलोच्चये प्रतिष्ठाप्य भजिष्यामि तमीश्वरम् ॥ ३.४४ ॥
तथा तत्र महीभूते ग्रामादि वसतिर्भवेत ।
तदा सर्वेऽपि लोकाश्यः भजेयुस्तं जिनालयम् ॥ ३.४५ ॥
तथा तत्पुण्य भावेन सर्वदा तत्र मंगलम् ।
निरुत्पातं भवेन्नूनं लोकाश्च स्यूः सुभाविनः ॥ ३.४६ ॥
ततस्ते मानवाः सर्वे तस्यैव शरणाश्रिताः ।
यथाशक्ति महोत्साहैः प्रभजेयुः सदा मुदा ॥ ३.४७ ॥
ततस्तत्पुण्यशुद्धास्ते सद्धर्म गुणलालसाः ।
बोधिसत्त्वा महासत्त्वाश्चरेयुर्बोधिसंवरम् ॥ ३.४८ ॥
ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमम् ।
त्रिविधां विधिमासाद्य निवृतिपदमाप्नुयुः ॥ ३.४९ ॥
एवं कृत्वा महत्पुण्यं प्राप्याहं त्रिजगत्स्वपि ।
कृत्वा धर्म्ममयं बोधिप्राप्य निवृत्तिपदमाप्नुयाम् ॥ ३.५० ॥
इति ध्यात्वा विनिश्चित्य मञ्जुश्रीः सजिनात्मजः ।
मञ्जुदेवाभिधाचार्यरूपं धृत्वा महर्द्धिमान् ॥ ३.५१ ॥
केशिनी वरदा नाम मोक्षदाख्योऽपकेशिनी ।
भूत्वानेकैः महासत्त्वैः सहसर्वेऽपिनेचरत् ॥ ३.५२ ॥
ततश्चरन् सभार्यासौ मञ्जुदेवः ससांधिकः ।
सर्वत्र भद्रतां कृत्वा महोत्सार्हैः समाचरत् ॥ ३.५३ ॥
तत्र ते समुपागत्य दूरतः संप्रभास्वरम् ।
महाह्रदाव्जमध्यस्थं ददृशुस्तं जिनालयम् ॥ ३.५४ ॥
तत्र ते तं समालोक्य ज्योतिरूपं समुज्वलम् ।
प्रणत्वा सहसोपेत्यः कृत्वा प्रदक्षिणानि च ॥ ३.५५ ॥
तत्तीरे पर्वते रम्ये सर्वेऽपि ते समाश्रिताः ।
तं चैत्यमेव संवीक्ष्य न्यवसन्त प्रमोदिताः ॥ ३.५६ ॥
ततः प्रातः समुत्थाय मञ्जुदेवः स ऋद्धिमान् ।
भक्तया परमयास्तौषिज्जिनालयं स्वयंभुवम् ॥ ३.५७ ॥
ज्योतिरूपाय चैतन्यरूपाय भवते नमः ।
अनादि निधनाय श्रीदात्रे प्रणवरूपिणे ॥ ३.५८ ॥
विश्वतोमुख रूपाय स्वाहास्वधारूपिणे ।
पृथ्व्यादिभूतनिर्मात्रे महामहस्वरूपिणे ॥ ३.५९ ॥
जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः ।
जगत्वंद्याय जगतमाराधाय च ते नमः ॥ ३.६० ॥
अतिस्थूलाय सूक्ष्माय विकाराय विकारिणे ।
निराकृतिकृते तुभ्यं सच्चिदानंदमूर्त्तयै ॥ ३.६१ ॥
वषट्कार स्वरूपाय हुतभुजे स्वयं नमः ।
होत्रे हवन रूपाय होमद्रव्याय ते नमः ॥ ३.६२ ॥
भक्तिलभ्याय सोम्याय भक्तवत्सलाय ते नमः ।
ध्यानगम्याय ध्येयाय चतुवर्गप्रदायिने ॥ ३.६३ ॥
अग्ररत्नाय निःसीममहिम्ने सर्वदा नमः ।
गुणातीताय योगाय योगिने च सदा नमः ॥ ३.६४ ॥
एवं स्तुत्वा मञ्जुदेवः पुनः क्षमार्थतां व्यधात् ।
प्रसीद भगवन् यदहं हदं संशोषितुं यते ॥ ३.६५ ॥
इत्युक्त्वा चन्द्रहासं स सज्जीकृत्य समं ततः ।
त्रिधा प्रदक्षिणीकृत्य समन्ततो व्यलोकयत् ॥ ३.६६ ॥
विलोक्य स महासत्त्वो याम्य दिशावृतं नगम् ।
चन्द्रहासेन खड्गेन छित्वा जलाश्रयं व्यधात् ॥ ३.६७ ॥
तच्छिन्नशैलमार्गेण तज्जलानि समन्ततः ।
प्रनिर्गत्याशु सर्वाणि गंगासंगममाययुः ॥ ३.६८ ॥
तदारभ्य नदा नद्यो बभूवुर्भूतले ह्रदाः ।
दिग्विदिक्षु मलांभोभिस्तद्द्वीपैः परिपूरिताः ॥ ३.६९ ॥
तत्र निरुध्य येऽम्वुनि यत्र ये शिलाः स्थिताः ।
तत्र तत्र सतान्सर्वाश्छित्वा स्वूनिच चारयेत् ॥ ३.७० ॥
एवं स सर्वतः छित्वा कृत्वा तज्जलनिर्गमम् ।
त्रिरात्रेणापि न जलानि सर्वाणि निरचारयेत् ॥ ३.७१ ॥
तज्जला धानमेकन्तु ह्रदं धनादहाभिधम् ।
कर्क्कोटकनागस्य समस्थाप यदाश्रमम् ॥ ३.७२ ॥
सिंहेनोपद्रुता यद्वद गजेन्द्रोभय विह्वलाः ।
महारावै रुदन्तो वै विद्रवन्तो दिशो दशः ॥ ३.७३ ॥
एवं तज्जलसंघातश्चन्द्रहासासिछेदनात् ।
मार्गान्तरान्निरगमत पंकशेषं यथाभवत् ॥ ३.७४ ॥
तज्जलाधानमेकेन्तु ह्रदं धराद्रहाभिधम् ।
कर्क्कोतकस्य नागस्य समस्थापयदाश्रयम् ॥ ३.७५ ॥
ततस्तस्मिन् जले शुष्केयदाधारसरोरुहम् ।
तदेव पर्वताभूय धर्मधातोर्व्यवस्थितः ॥ ३.७६ ॥
मञ्जुदेवानुभावेन स सर्वपर्वतोक्तमः ।
अभेद्या वज्रवक्तेन वज्रकूट इति स्मृतः ॥ ३.७७ ॥
तदासौ भूतलोरम्यः समन्ततो नगावृतः ।
उपछन्दोह इत्याख्या हिमाल योऽपिचोच्यते ॥ ३.७८ ॥
सुदुर्जया स्वरूपाभूः प्रज्ञा ज्ञानानुभाविनी ।
हेरुकमण्डलाकारा भूत्वा समवतिष्ठते ॥ ३.७९ ॥
तत्रापि च प्रधाना श्री महादेवी खगानना ।
धर्म्मोदया समुहुता संतिष्ठते जगद्धिते ॥ ३.८० ॥
तं दृष्ट्वा स महाचर्या मञ्जुदेवो महर्द्धिमान ।
बोधिसत्त्वो महासत्त्वः प्रत्यत्यानन्दितोऽभवत् ॥ ३.८१ ॥
ततः स तां महादेवी समालोक्य प्रमोदितः ।
उरसा शिरसा दृष्टया वचसा मनसा तथा ॥ ३.८२ ॥
पद्भ्यां कराभ्यां जानुभ्यामष्टांगोऽपि इति स्मृतः ।
अष्टांगै प्रणीता कृत्वा सांजलिः समुपाश्रयन् ॥ ३.८३ ॥
सुप्रसन्न मुखाम्भोजः सुप्रबुद्धो शयाम्बुजः ।
संपश्यस्तां महादेवीं स्तोत्रैरेवं मुदाभजम् ॥ ३.८४ ॥
भगवति महादेवी भवत्याः शरणं व्रजे ।
वन्दे पादाम्वुजे नित्यं भजामि तन्प्रसीदतु ॥ ३.८५ ॥
जननी सर्वबुद्धानां त्वमेव बोधिदायिनी ।
सर्वेषां बोधिसत्त्वानां माताहितानुपालिनी ॥ ३.८६ ॥
सर्वहितार्थ संभक्ति सर्वपापविशोधनी ।
दुष्ट मारगणाक्षोभ महानन्द सुखप्रदा ॥ ३.८७ ॥
सद्धर्म्मसाधनोत्साहवलवीर्य गुणप्रदा ।
निःक्लेशस्तिमितेध्यान समाधि सुखदायिनी ॥ ३.८८ ॥
प्रज्ञागुण महारत्न श्री समृद्धि प्रदायिनी ।
तद्भक्त्याः पदाम्भोज शरणस्थो भजाम्यहम् ॥ ३.८९ ॥
इति संप्रार्थ्य स प्राज्ञो मञ्जुदेव स सम्वरी ।
तस्या भक्ती प्रसन्नात्मा समाराधितुमैच्छत् ॥ ३.९० ॥
अथ तत्र स आचार्यः सगणः संप्रमोदितः ।
मार्ग शीर्षैशितैः पक्षै नवम्यां रविवासरे ॥ ३.९१ ॥
प्रातः स्नात्वा विशुद्धात्मा शुचिवस्त्रावृतः सुधीः ।
पोषधसम्वरं धृत्वा देवीमाराधयं स्थितः ॥ ३.९२ ॥
रात्रौ जागरणं कृत्वा धारणी मन्त्रजल्पनैः ।
स्तुतिभिश्च समाराध्यं प्राभजतां जिनेश्वरीम् ॥ ३.९३ ॥
ततः प्रातः दशम्यां स स्नात्वा गन्धोदकैर्मुदा ।
दत्वा दानं यथाकामं परिशुद्धत्रिमण्डलः ॥ ३.९४ ॥
यथाविधिसमभ्यर्च्य तां देवीं परमेश्वरीम् ।
महोत्साहैः स्तुतिं कृत्वा त्रिधा प्रदक्षिणानि च ॥ ३.९५ ॥
सुप्रसन्न मुखाम्भोजः सद्धर्मगुणमानसः ।
भूयोऽष्टांगैः प्रणत्वैवं प्रार्थयात्सांजलिमुद्रा ॥ ३.९६ ॥
प्रसीदतु जगन्मातर्भवत्याः समुपाश्रितः ।
संबोधि साधनोत्सौ भजामि सर्वदा मुदाम् ॥ ३.९७ ॥
इति संप्रार्थ्य संप्राज्ञौ नत्वाष्टांगैर्मुदा च ताम् ।
तत्पद्मामृतमादाय त्रिध्यमञ्जुलिना पिवेत् ॥ ३.९८ ॥
तदमृतं निपीयासौ संविशुद्धत्रिमण्डलम् ।
अष्टाक्षणविनिर्मुक्तः संबुद्धक्षणमाप्नुवान् ॥ ३.९९ ॥
एवं कृत्वा स आचार्य देव्या भक्तिपरायणः ।
संबुद्धक्षणमासाद्य सर्व धर्म्माधिपोऽभवत् ॥ ३.१०० ॥
ततः श्रीमान् स आचार्यो बोधिसत्त्व जगद्धिते ।
स संघान्यवसत्तत्र धर्मधातौरूपाश्रमैः ॥ ३.१०१ ॥
तत्समभ्यषितत्वात्संप्रदेशः श्री मनोहरः ।
स्यात्सर्वत्रापि मञ्जुश्रीपर्वत इति विश्रुतः ॥ ३.१०२ ॥
तत्र श्रितः सदाप्यस्प धर्म्मधातोरूपासकः ।
सर्वसत्त्व हितार्थेन प्राभजन्स जिनात्मजः ॥ ३.१०३ ॥
तत्समीक्षामला सर्वेब्रह्मेन्द्रप्रमुखाअपि ।
सर्वेलोकाधिपाश्चापि मुदा तत्र समागताः ॥ ३.१०४ ॥
तत्रैवो पोषढं धृत्वा कृत्वा जागरणं निशि ।
उषित्वा धारणी मन्त्रः ध्यात्वा तां श्री जिनेश्वरीम् ॥ ३.१०५ ॥
यथाविधि समभ्यर्च्य कृत्वा प्रदक्षिणानि च ।
कृत्वाष्टांग प्रणामानि स्तुतिभिश्चा भजं मुदा ॥ ३.१०६ ॥
एवं तस्यामहादेव्याः सर्वे तै शरणाश्रिताः ।
धर्मश्रीगुणसंपत्ति महर्द्धिसिद्धिमाप्नुवन् ॥ ३.१०७ ॥
ततस्ते चामराः सर्वे सेन्द्र ब्रह्मादयाधिपाः ।
वज्रकूटं नगाव्जं तं समीक्ष्यन्ते जिनालयम् ॥ ३.१०८ ॥
अनुमोद्याभिनन्दन्ते स्तस्यापि शरणे गताः ।
महोत्साहैः समभ्यर्च्य प्रभजन्त समादरम् ॥ ३.१०९ ॥
ततः सर्वेऽमरास्तैच सर्वैलोकाधिपाश्च ते ।
अस्यापि मञ्जुएदेवस्य वज्राचार्यस्य सद्गुरोः ॥ ३.११० ॥
शरणे समुपासृत्य दिव्य पूजोपहारकैः ।
समभ्यर्च्य महोत्साहैः प्राभजन्त प्रमोदिताः ॥ ३.१११ ॥
एवं मन्वादयः सर्वे मनुयोपियःमहर्षयः ।
यतयोगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥ ३.११२ ॥
चैलका बोधिसत्त्वाश्च महासत्त्वा जिनात्मजाः ।
ते सर्वे समुपागत्य तस्या देव्या उपासकाः ॥ ३.११३ ॥
यथाविधि समभ्यर्च्य प्राभजन्त प्रमोदिताः ।
ततस्ते धर्म्मधातौश्च सर्वेऽपि शरणाश्रिताः ॥ ३.११४ ॥
समभ्यर्च्य महोत्साहैः नत्वा कृत्वा प्रदक्षिणाम् ।
सुप्रसन्न मुखाम्भोजान्त प्रमोदितनः ॥ ३.११५ ॥
ततस्ते च महासत्त्व मञ्जुदेवं महद्धिंकिम् ।
आचार्य समुत्साहैः समर्चयं प्रमोदिताः ॥ ३.११६ ॥
प्रत्येक सुगताश्चापि सर्वे तत्र समागताः ।
तां देवी धर्म्मधातुं तमाचार्यं च समार्चयम् ॥ ३.११७ ॥
सर्वे तथागताश्चापि पूजामेघसर्जनैः ।
तां देवीं धर्मधातुं तमाचार्यं च समाचर्यम् ॥ ३.११८ ॥
एवंमन्येपि लोकाश्च प्रदुष्ट्वा समुपागताः ।
तां देवीं धर्मधातुं च तमाचार्यं च प्राभजन् ॥ ३.११९ ॥
एतत्पुण्यानुभावेन चलिता साव्धिनगा मही ।
पुष्पवृष्टिः शुभोत्साहं प्रवर्त्तते समन्ततः ॥ ३.१२० ॥
इत्यादिष्ट मुनीन्द्रेण विश्वभूवा निशम्यते ।
सर्वे समाश्रिता लोका विस्मयं समुपाययुः ॥ ३.१२१ ॥
ततः सर्वेऽपि ते लोकास्तां देवीं श्रीमहेश्वरी ।
धर्म्मधातुतमाचार्यं द्रष्टुमभिव वाञ्छिरे ॥ ३.१२२ ॥
तदाशयं परिज्ञायः गगणगञ्ज उत्थितः ।
भगवन्तन्तमानस्पश्यन्नेवमव्रवीत् ॥ ३.१२३ ॥
भगवन् सर्वमिच्छन्ति द्रष्टुं तां सुगेश्वरीम् ।
धर्म्मधातुं तमाचार्यं तदनुज्ञां ददातु नः ॥ ३.१२४ ॥
इति संप्रार्थितं तेन भगवान्स मुनीश्वरः ।
गगणगञ्जमात्मज्ञ तं पश्यन्नेवमादिशत् ॥ ३.१२५ ॥
साधु साध्यामहादेवीं खगाननाजिनेश्वरीम् ।
धर्मधातुं तमाचार्यमपिर्दष्टुं यदीच्छथ ॥ ३.१२६ ॥
तत्र हिमालये गत्वा तां श्री देवीं खगाननाम् ।
धर्मधातुं तमाचार्यं संभजध्वं यथा विधि ॥ ३.१२७ ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्यते ।
सर्वे लोका महोत्साहै रत्राययुः प्रमोदिताः ॥ ३.१२८ ॥
अहमपि मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः ।
तैःसार्द्धं प्रस्थितौ दूरात्पश्यन्निमंमाययौ ॥ ३.१२९ ॥
अत्र प्राप्नोऽहं समालोक्य धर्म्मधातुन्निमं मुदा ।
समभ्यर्च्य महोत्साहैस्तै लोकैः प्राभजं सह ॥ ३.१३० ॥
श्रद्धया शरणं गत्वा कृत्वा चैनं प्रदक्षिणाम् ।
स्तुत्वाष्टांगैः प्रणत्वा च प्रार्थयं बोधिसम्वरम् ॥ ३.१३१ ॥
ततोऽहं मञ्जुदेवाख्यं तमाचार्य समीक्ष्य च ।
समभ्यर्च्य महोत्साहैः प्राभजध्वं सहानुजैः ॥ ३.१३२ ॥
ततस्तस्योपदेश तां श्रीदेवीं खगाननाम् ।
यथाविधि समाराध्य महोत्साहैः समर्चयम् ॥ ३.१३३ ॥
कृत्वा प्रदक्षिणां चापि नत्वाष्टाङ्गैः प्रमोदितः ।
स्तुत्वा ध्यात्वा च संबोधिं संप्रार्थय जगद्धिते ॥ ३.१३४ ॥
एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः ।
अष्टाक्षण विनिर्मुक्तो बोधिसत्त्वो भवं कृती ॥ ३.१३५ ॥
ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् ।
जित्वा मारगणानर्हन् कलावपि जिनोभवे ॥ ३.१३६ ॥
एवमस्या महादेव्याः ये ये शरण आश्रिताः ।
यथाविधि समाराध्य भजेयु बोधिमानसाः ॥ ३.१३७ ॥
ते ते सर्वे महासत्त्वाः परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्वा महाभिज्ञा भवेयु स्त्रिगुणाधिपाः ॥ ३.१३८ ॥
कुत्रापि ते नगच्छेत्दुर्ग्गतिञ्च कदाचन ।
सदासङ्गतिसंजात भवेयुः श्री गुणाश्रयाः ॥ ३.१३९ ॥
यथाभिवाच्छितं द्रव्यं दत्वार्थिभ्यो समादरात् ।
यथाकामं सुखं भुक्त्वा सञ्चरेरञ्जगद्धिते ॥ ३.१४० ॥
ततो विशुद्धशीलास्ते चतुर्ब्रह्म विहारिणः ।
बोधिसत्त्वसम्वरमाधाय संचरेरन् सदा शुभे ॥ ३.१४१ ॥
ततस्ते स्यु र्महासत्त्वाः सद्धर्म्म सुखलालसाः ।
स्वपरात्महिताधारक्षान्तिव्रतसमारताः ॥ ३.१४२ ॥
ततस्ते सद्गुणाधारा वीर्यवन्तो विचक्षणाः ।
सद्धर्म्म साधनोद्युक्ता भवेयु स्त्रिगुणाधिपाः ॥ ३.१४३ ॥
ततस्ते सुधियो धीरा निःक्लेशा विजितेन्द्रियाः ।
समाधि गुणसम्पन्ना भवेयुबोधियोगिनः ॥ ३.१४४ ॥
ततस्ते विमलात्मानः सर्वविद्या गुणाधिपाः ।
प्रज्ञाश्री रत्न संप्राप्तो भवेयुः सुगतात्मजाः ॥ ३.१४५ ॥
ततश्च ते सहासत्त्वाः सर्वे सत्त्वा हितोत्सुकाः ।
सर्वापाय विधि प्राज्ञा भवेयुश्त्रिगुणाधिपाः ॥ ३.१४६ ॥
ततस्ते बोधिसंभार प्रणिधिरत्नसागराः ।
सर्वसत्त्वहितं कृत्वा संचरेरं सदाशुभे ॥ ३.१४७ ॥
ततश्च ते महाभिज्ञाः भद्रश्री सत्गुणान्विताः ।
वलिष्ठा दुष्ट जेतारो भवेयु स्त्रिभवेश्वराः ॥ ३.१४८ ॥
ततस्ते त्रिविधां बोधिमासाद्य भद्रचारिणः ।
सम्बोधिज्ञानसद्रन्तसमृद्धाः स्यु र्मुनीश्वराः ॥ ३.१४९ ॥
ततस्ते सुगताः बुद्धाः दशभूमीश्वराजिनाः ।
बोधिमार्गे प्रतिष्ठाप्य कूर्युः सर्वान्सुधर्म्मिणः ॥ ३.१५० ॥
एवं धर्ममयं कृत्वा सर्वत्र भुवनेष्वपि ।
सुनिवृर्तिपदं प्राप्य संप्रयायुर्जिनालयम् ॥ ३.१५१ ॥
एवमस्या महादेव्या भजनो हूतमुक्तमम् ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५२ ॥
इति सत्यं समाख्यातं सर्वै रपि मुनीश्वरैः ।
विज्ञायास्या महादेव्या भजध्वं शरणे स्थिता ॥ ३.१५३ ॥
अस्यापि धर्म धातौश्च भजनोद्भूतमुक्तमम् ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५४ ॥
अस्यापि मञ्जुदेवस्यः भजनोद्भूतमुक्तमम् ।
पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनम् ॥ ३.१५५ ॥
मत्वेति यदि वो वांच्छा विद्यते सौगते पदे ।
सर्वे यूयं समाधाय भजतान्त्र जिनालये ॥ ३.१५६ ॥
खगाननास्याया महादेव्याः शरणे च समाश्रिताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥ ३.१५७ ॥
य एषां शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहिताः ।
नामापि समुदाहृत्य भजन्ति सर्वदाभवे ॥ ३.१५८ ॥
ते सभद्रा नगच्छन्ति दुर्ग्गतिं च कदाचन ।
सदा सद्गति संजाता भवेयुः श्री गुणाश्रयाः ॥ ३.१५९ ॥
बोधिसत्त्वा महासत्त्वा सद्धर्म बोधि चारिणः ।
सर्वसत्त्व हितोद्युक्ता भवेयुः सुगतात्मजाः ॥ ३.१६० ॥
एवन्तेषां महत्सौख्यं भद्रश्री सद्गुणान्वितम् ।
सर्वदापि निरुत्पातं प्रवर्क्तते समाहितः ॥ ३.१६१ ॥
दैवोत्पातभयन्तेषांत विद्यते समन्ततः ।
यक्तान्दृष्ट्वा सुराः सर्वे रक्षन्तीन्द्रादयोमुदा ॥ ३.१६२ ॥
अग्न्युत्पातंभयं तेषां विद्यते न कदाचन ।
यत्तान्दृष्ट्वा प्रसीदन्तो रक्षेयुर्वह्नयः सदा ॥ ३.१६३ ॥
अकाल मरणाद्भीतिस्तेषान्नविद्यते क्वचित् ।
यद्यमोपि समलोक्य रक्षति तां प्रसादितः ॥ ३.१६४ ॥
राक्षसस्याभयं तेषां विद्यते न समन्ततः ।
यद्वायवोऽपि ता वीज्य रक्षेयुः सर्वदानुगाः ॥ ३.१६५ ॥
यक्षस्यापि भयं तेषां विद्यते न सदा क्वचित् ।
यक्षा समीक्ष्य रक्षेयुः सर्वे यक्षाधिपा अपि ॥ ३.१६६ ॥
भूतेभ्योऽपि भयन्तेषां विद्यते न समन्ततः ।
यदीशानोपि तान्पश्य संरक्षेत्संप्रमोदिताः ॥ ३.१६७ ॥
गन्धर्वोत्पति तो भीतिस्तेषान्नविद्यते क्वचित् ।
धृतराष्टोऽपि तान्पश्यत्संरक्षेत्सं प्रसादितः ॥ ३.१६८ ॥
कुम्भाण्डेभ्योऽपि नास्त्येवं भयन्तेषां कदाचन ।
विरुढकोहितान् पश्यनभिरक्षन् प्रसादतः ॥ ३.१६९ ॥
नागेभ्योऽपि भयन्तेषां विद्यते न सदा क्वचित ।
विरुपाक्षो हि सम्यश्यन्तान्रक्षन्सम्प्रसादितः ॥ ३.१७० ॥
यक्षेभ्योऽपि सदा तेषां विद्यते न भयं क्वचित ।
कुवेरो हि समालोक्य संरक्षस्तान् प्रसादितः ॥ ३.१७१ ॥
भयं न किन्नरेभ्योपि तेषामस्ति कदाचन ।
द्रुमो हितान्महासत्त्वा संवीक्षवत्प्रसादितः ॥ ३.१७२ ॥
गुह्यकेभ्योपि नास्त्येव भयन्तेषां सुधर्म्मणाम् ।
वज्रपाणिर्हितान्वीक्ष्य प्रसादिता भवेत्सदा ॥ ३.१७३ ॥
तथा विद्याधरेभ्योऽपि भयन्तेषान्न विद्यते ।
यतः सर्वार्थसिद्धोऽपि सम्यश्यन्स्तान् वेत्सदा ॥ ३.१७४ ॥
ग्रहोत्पात भयन्तेषां विद्यते न कदाचन ।
ग्रहाधिपाहि सर्वेऽपि समीक्ष्य तानवेत्सदा ॥ ३.१७५ ॥
तथा तारागणोत्पातभयं तेषान्नविद्यते ।
सर्वास्ता राहि तान्वीक्ष्य सर्वत्रा वेयुराभवम् ॥ ३.१७६ ॥
सिद्धाः साध्याश्चरुद्राश्च वीक्ष्यावेयुः सदापि तान् ।
तत्तेभ्योपि भयं क्वापि तेषां नास्ति कदाचन ॥ ३.१७७ ॥
तथा च मातृकोत्पातं भयं नास्ति कदाचन ।
सर्वाहि मातृकान् दृष्ट्वा रक्षेयु स्तां प्रसादिताः ॥ ३.१७८ ॥
महाकालो गणेश स्कन्दश्च भैरवा अपि ।
सर्वदा तान्समालोक्य रक्षेयुः संप्रसादिताः ॥ ३.१७९ ॥
प्रेता भूताः पिशाश्चाश्च वेताडा डाकिनीगणाः ।
अपि तान्सर्वदालोक्य संरक्षेयुः प्रसादिताः ॥ ३.१८० ॥
तेभ्योऽपि भयन्तेषां विद्यते न कदाचन ।
सर्वेऽपि र्तेसहायाः स्यु संवोधि धर्म्मसाधने ॥ ३.१८१ ॥
सिंहादि सर्वजन्तुभ्योः पक्षिभ्योऽपि समन्ततः ।
सर्पादि कृमिकीटेभ्यो भयन्तेषां सदापि न ॥ ३.१८२ ॥
दुष्ट प्रत्यर्थिकेभ्योऽपि तस्करेभ्योपि सर्वतः ।
शत्रुभ्योऽपि भयन्तेषां विद्यते न समन्ततः ॥ ३.१८३ ॥
यदेतत्पुण्यलिप्तास्तां समीक्ष्य ते प्रसादिताः ।
सर्वे मैत्री कृपा स्नेह निवद्धाः स्युहितार्थिनः ॥ ३.१८४ ॥
एवं सर्वेऽपि सत्वास्तान्दृष्ट्वा संप्रसादिताः ।
स्निग्धचिक्ताप्रसन्नास्याः पश्येयु मैत्रीभावतः ॥ ३.१८५ ॥
राजानोऽपि च तान्दृष्ट्वा मैत्री स्नेहसभाविताः ।
सुप्रसन्नाशयाः प्रीता मानयेयुः सदा मुदा ॥ ३.१८६ ॥
मन्त्रीणोऽपि सदा तेषां मैत्रीस्नेह सभाषिताः ।
मानयेयुःयथाकामं सद्धर्म्म व्रतसाधनम् ॥ ३.१८७ ॥
ब्राम्हणा अपि सर्वे च तेषां सद्धर्म्म साधनम् ।
दृष्ट्वानुमोदितात्मानो दधु भद्राशिवं सदा ॥ ३.१८८ ॥
ऋषयोऽपि तथा सर्वे तां दृष्ट्वा संप्रसादिताः ।
पश्यन्तः कृपया दृष्ट्वा मोदयेयुः सुभाशिषा ॥ ३.१८९ ॥
एवं च योगिनः सिद्धा यतयो ब्रम्हचारिणः ।
तीर्थिकास्तापसाश्चापि व्रतिनश्चाप्युपासकाः ॥ ३.१९० ॥
चैरका भिक्षवोश्चापि भिक्षुण्यश्चाप्युपासिकाः ।
अपि तां सुदृशालोक्य नन्दयेयुः शुभाशिषाः ॥ ३.१९१ ॥
एवं च श्रावकाः सर्वे प्रत्येक सुगता अपि ।
बोधिसत्वाश्च सर्वेऽपि तान् दृष्ट्वा संप्रसादिताः ॥ ३.१९२ ॥
कृपया दृष्टवानुपश्यन्तो मैत्री स्नेहसुभाविनः ।
रक्षित्वा बोधिमार्गेषु नियाजेयुः सदा भवम् ॥ ३.१९३ ॥
एवं सर्वेऽपि संबुद्धा दृष्ट्वा तां संप्रसादिताः ।
सर्वदा कृपया रक्ष्युचारयेयुर्ज्जगद्धिते ॥ ३.१९४ ॥
एवं तेषां महत्पुण्यं सम्बुद्ध पदसाधनम् ।
भद्रश्रीगुणसंपत्ति समृद्धि सिद्धिसंप्रदम् ॥ ३.१९५ ॥
एवं यूयमपि ज्ञात्वा सर्वदा शरणाश्रिताः ।
यथाशक्ति समभ्यर्च्य भजतैतांस्त्रिरत्निकान् ॥ ३.१९६ ॥
स्मृत्वा ध्यात्वापि नामापि समुच्चार्य सदा मुदा ।
एषामेव त्रिरत्नानां भजध्वं शरणे स्थिता ॥ ३.१९७ ॥
एतत्पुण्यविलिप्ता ये परिशुद्धत्रिमण्डलाः ।
भद्रश्रीगुणसंपन्ना भवेस्ते शुभाशया ॥ ३.१९८ ॥
दुर्गतिं ते न गच्छेयुः सदा सद्गतिसंभवाः ।
बोधिसत्वा महासत्वा भवेर्युभद्रचारिणः ॥ ३.१९९ ॥
ततस्ते सर्वसत्वानां हितार्थ साधनोद्यताः ।
सुधीरा बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ३.२०० ॥
ततो मारगणाञ्जित्वा निःक्लेशा विजितेन्द्रियाः ।
अर्हन्त त्रिविधां बोधिंप्राप्य यायु जिनालयम् ॥ ३.२०१ ॥
एत्सर्व मया ख्यातं सर्वैरपि मुनीश्वरैः ।
श्रुत्वानुमोदनां कृत्वा प्रचरध्वं सदाशुभे ॥ ३.२०२ ॥
इत्यादिष्टं मुनीन्द्रेण निशम्यते सभाश्रिताः ।
सर्वे तथानुमोदन्तः प्राप्यानन्दत्प्रवोधिताः ॥ ३.२०३ ॥

इति श्री स्वयम्भूत्पत्तिसमुद्देश महाह्रद शोषण धर्म्मधातु पद्मगिरिसंप्रस्थापनो नाम तृतीयोऽध्यायः ।


चतुर्थ अध्यायः श्रीस्वयम्भूचैत्यसमुत्पत्तिकथा वीतरागतीर्थराष्ट्रप्रवर्तनो नाम

अथासौथ महासत्त्व मैत्रेय सुगतात्मजः ।
भगवन्तन्तमानंम्य प्राहैवं साञ्जलिमुद्रा ॥ ४.१ ॥
कदात्र भगवान् ग्राम नगरपङक्तादयः ।
प्रवर्त्तिता महाराष्ट्राः तत्समादेष्टुमर्हति ॥ ४.२ ॥
इति संप्रार्थिते तेन मैत्रेयेन निशस्य स ।
भगवान्तं महाभिज्ञं समालोक्यैवमादिशत् ॥ ४.३ ॥
साधु शृणु महासत्त्व मैत्रेय त्वं समाहितः ।
तत्कालं संप्रवक्ष्यामि यदात्र वसतिरभूत् ॥ ४.४ ॥
यदायुष्नृणां वर्षचत्वारिशत्सहस्रके ।
धर्म्मराजो जगन्नाथः क्रकुछन्दो मुनीश्वरः ॥ ४.५ ॥
सर्व विद्याधिपः शास्ता त्रैधातुक विनायकः ।
सर्वज्ञोऽह माभिज्ञेस्तथागतो जिनोऽभवत् ॥ ४.६ ॥
म संबुद्धा जगल्लोकहितार्थेन ससांधिकः ।
क्षेमावत्या महापुर्य्यादुपारामे मनोरमे ॥ ४.७ ॥
विहारे सौगतावासे सद्धर्म्मसमुपादिशत् ।
आदिमध्यान्तकल्याणं विजहार प्रभासयन् ॥ ४.८ ॥
तदा संबोधिसत्त्वोऽहं ज्योतिपालाभिधः सुधीः ।
शास्तारन्तं क्रकुच्छन्दं समाराध्य सदाभजम् ॥ ४.९ ॥
तदा स भगवाञ्छास्ता क्रकुच्छन्दो जगद्धिते ।
जनपदेषु सद्धर्म्मं समुपादेष्टुमैच्छतः ॥ ४.१० ॥
ततः स भगवान् शास्ता सर्वसंघैः समन्वितः ।
सर्वत्र भद्रतां कृत्वा संभाषयन्समाचरत् ॥ ४.११ ॥
एवं स सञ्चरञ्छास्ता सर्वत्र धर्म्ममादिशत् ।
क्रमेणेहसमातः सन्ददर्श समन्ततः ॥ ४.१२ ॥
दृष्ट्वेमं धर्म्मधातुं संप्रज्वलित जिनालयम् ।
ससंघ समुपाश्रित्य प्राभजद्विधिना मुदा ॥ ४.१३ ॥
ततः स प्रस्थितोत्रैव शंखभिधे शिलाच्चयम् ।
महछुद्धशिलायां च विजहार स सांधिकः ॥ ४.१४ ॥
तत्र तंत्रि जगन्नाथं क्रकुछन्दो मुनीश्वरम् ।
सभामध्यासनासीनं भिक्षुसंघैः पुरस्कृतम् ॥ ४.१५ ॥
समालोक्य महासत्त्वा जिनात्मजाः ।
तत्सद्धर्म्मामृतं पातुं संहर्षिताः समागताः ॥ ४.१६ ॥
भिक्षुण्यापि शुशीलाद्या श्चैलकाश्चाप्युपासकाः ।
चैलका व्रतिनश्चापि सर्वे उपासिका अपि ॥ ४.१७ ॥
बोधिसत्त्वा महासत्त्वा सद्धर्म्म गुणलालसाः ।
तत्सद्धर्म्मामृतं पातुं सर्वे ते समुपागताः ॥ ४.१८ ॥
भगवन्तन्तं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ।
नत्वा सांजलयस्तत्र पश्यन्तः समुपाश्रयन् ॥ ४.१९ ॥
तथा ब्रह्मादयश्चापि महर्षयस्तपस्विनः ।
यतयो योगिनश्चापि मुनयो ब्रह्मचारिणः ॥ ४.२० ॥
एवं शक्रादयो दवाः सर्वे लोकाधिपा अपि ।
ग्रहास्तारागणाः सिद्धासाध्या विद्याधरा अपि ॥ ४.२१ ॥
गन्धर्वा किन्नरा यक्षा गुह्यका राक्षसा अपि ।
दानवा गरुडा नागास्तथान्येह समागताः ॥ ४.२२ ॥
भगवन्तं ससंघन्तं समभ्यर्च्य प्रमोदिताः ।
नत्वा धर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ ४.२३ ॥
एवं च ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ।
वैश्याश्च मन्त्रिणोऽमात्याः सैन्या भृत्या जनान्यपि ॥ ४.२४ ॥
गृहस्थे धनिनः श्रेष्ठाः साधवश्च महाजनाः ।
शिल्पिनो वनिजश्चापि सार्थवाहश्च पौरिकाः ॥ ४.२५ ॥
प्रजा जानपदाश्राम्याः कार्पटिकाश्च शैलिकाः ।
एवंमन्येऽपि लोकाश्चसर्वदिग्भ्यः समागताः ॥ ४.२६ ॥
भगवन्तन्तमालोक्य प्रणत्वा समुपागताः ।
यथाक्रमं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ॥ ४.२७ ॥
कृत्वाष्टांग प्रणामञ्च कृतांजलि पुटो मुदा ।
तत्सद्धर्म्मामृतं पातुं तत्सभायां समन्ततः ॥ ४.२८ ॥
परिवृत्य पुरस्कृत्य समाश्रित्य समाहिताः ।
गुरुकृत्य मुनीन्द्रन्तं समुद्वीक्ष्य निषेदिरे ॥ ४.२९ ॥
ततः स भगवान्दृष्ट्वा सर्वास्तान्समुपस्थितान् ।
आर्यसत्यं समालक्ष्य सद्धर्म्मं समुपादिशत् ॥ ४.३० ॥
तत्सद्धर्म्मामृतं पीत्वा सर्वेऽपि ते प्रवोधिताः ।
बोधिचर्या व्रतं धर्तुं समेच्छन्त प्रसादिताः ॥ ४.३१ ॥
तदाशयं परिज्ञाय भगवान् स मुनीश्वरः ।
बोधिसत्त्वात्म मार्मेत्यः सम्पश्यन्नेवमादिशत् ॥ ४.३२ ॥
कुलपुत्र मुदायेपि श्रद्धया सौगतेवृषे ।
प्रव्रजितुं समीच्छन्ति तत्र प्रव्रजिताद्रिताः ॥ ४.३२ ॥
अत्र ये ह्युपछन्दोऽह सर्व धर्म्मार्थसिद्धिदे ।
प्रव्रज्या शासने बौद्धे चरन्ति बोधिसंवरम् ॥ ४.३४ ॥
ते सर्वे पातका मुक्ताः परिशुद्ध त्रिमण्डलाः ।
निःक्लेशा विमलात्मानो बोधिसत्त्वा जितेन्द्रियाः ॥ ४.३५ ॥
जित्वा मारगणान्दुष्टान् हन्ता ब्रह्मचारिणः ।
त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ ४.३६ ॥
इति मत्वात्र संसारे ये वांछन्ति सुनिर्वृतिम् ।
तत्र प्रव्रज्या सान्बौद्धं चरन्तु श्रद्धया व्रतम् ॥ ४.३७ ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते प्रवोधिताः ।
सभासीना महासत्त्वाः प्रव्रजिन्तु समीछिरे ॥ ४.३८ ॥
ततो गुणध्वजादीनां ब्राह्मणानां चतुःशतम् ।
तथा भयं ददानाम क्षत्रियाणांशतत्रयम् ॥ ४.३९ ॥
तथानेक महासत्त्वा वैश्याशूद्राश्च सज्जनाः ।
सर्वेऽपि सुप्रसन्नास्ते प्रव्रजितुं समीच्छिरे ॥ ४.४० ॥
ततस्ते सर्व उत्थाय साञ्जलयः पुरागताः ।
भगवन्तं तमानम्य प्रार्थयन्नेवमादरात् ॥ ४.४१ ॥
भगवन्नाथ सर्वज्ञ धृत्वाज्ञा भवतां वयम् ।
प्रव्रज्यशासन बौद्धेचर्तुमिछामहे व्रतम् ॥ ४.४२ ॥
भगवन्स्त भवानस्मान् सर्वान् पश्यन् कृपा दृशा ।
समन्वागत्य सद्धर्म्म नियोजयितुमर्हति ॥ ४.४३ ॥
इति तैः प्रार्थिते सर्वैर्भगवान्स मुनीश्वरः ।
सर्वान्स्तान् सन्मतिन् पश्यन् समामन्भ्यैवमादिशत् ॥ ४.४४ ॥
यद्यत्र सौगते धर्म्म प्रव्रजितुं समीच्छथ ।
एतत्प्रव्रज्य सर्वत्र चरध्वं सौगतं व्रतम् ॥ ४.४५ ॥
इत्यादिश्य स संबुद्धः पाणिना तच्छिरःस्पृशन् ।
तान्सर्वान्सौगते धर्मे समन्वाहरदादरात् ॥ ४.४६ ॥
ततोऽवतार्य ते केशान् रक्त चीवर प्रावृताः ।
खिखिरी पात्रमाधाय सर्वेऽपि भिक्षुवो भवन् ॥ ४.४७ ॥
ततः स भगवान्तेभ्योः यतिभ्यो संम्यक्संबोधिपाक्षिकान् ।
सद्धर्म्मान्समुपादिश्य प्रददौ बोधिसम्वरम् ॥ ४.४८ ॥
ततस्ते विमलात्मानो निःक्लेशा विमलेन्द्रियाः ।
सत्कारं लाभ निःकांक्षा वीतसंगा निरंजनाः ॥ ४.४९ ॥
स्वपरात्म समाचाराः संसारगतिनिःस्पृहाः ।
मारचर्या निरासक्ताः समलोष्ट सुवर्ण्णिकाः ॥ ४.५० ॥
क्लेशा निर्मलात्मानो परिशुद्ध त्रिमण्डलाः ।
अर्हन्त भद्रका चारा बभुबु ब्रह्मचारिणः ॥ ४.५१ ॥
ततस्सर्वेऽपि ते बौद्धा यतयो बोधिचारिणः ।
सर्वसत्त्व हितं कृत्वा संप्रचारन्सदाशुभे ॥ ४.५२ ॥
ततस्ते ति विशुद्धात्माः पञ्चाभिज्ञा महर्द्धिकाः ।
वन्द्याः पूज्याः सदेवानां लोकानां गुरवो भवन् ॥ ४.५३ ॥
तस्मिंश्च समये तत्र गिरेः शंखस्य मूर्द्धनि ।
वज्रसत्त्व कराङ्गुष्ठान्निश्चचाराम्बु निर्म्मलम् ॥ ४.५४ ॥
तदेमान्वद्भुति स्पन्दं पुण्यतीर्थमहत्सरित् ।
यदभूत्सर्वलोकानां चतुवर्गफलप्रदा ॥ ४.५५ ॥
भूयोऽपि साददी तस्यः क्रकुछन्द स्पतायिनः ।
सद्धर्म्म देशना वाक्यावभूवा ति पवित्रता ॥ ४.५६ ॥
तेनासौ सर्वतीर्थाग्रा वाग्मतीतिप्रसिद्धिता ।
भद्रश्री गुण संभर्त्री सर्वपाप विशोधनी ॥ ४.५७ ॥
ये तत्र विधिना स्नात्वा पितृ देवादितर्पणम् ।
कृत्वा दानादिकं दत्वा व्रतं चापि प्रकुर्वते ॥ ४.५८ ॥
ते संघविमलात्मानो भद्रश्रीसद्गुणान्विताः ।
यथाकामं सुखं भुत्वा संप्रयान्ति जिनालयम् ॥ ४.५९ ॥
इति मत्वा सदा तत्र स्नात्वा पित्रादितर्प्पणम् ।
दानादि संवरं कृत्वा सचरन्तां जगद्धिते ॥ ४.६० ॥
तस्या दर्शनमात्रेण पीताम्वु विमात्रके ।
स्पर्शनादपि नश्यन्ते सर्वाणि पातकान्यपि ॥ ४.६१ ॥
प्रक्षाल्यापि च तत्रास्यं गंगा स्नान फलं लभेत ।
शिलसिं च मात्रेण शुद्धान्ते इन्द्रियानि षट् ॥ ४.६२ ॥
एवं महत्तरं पुण्यं वाग्मती भजनोद्भवम् ।
सर्वे तीर्थोत्तमाख्यातं ते नासौ वाग्मती जिनैः ॥ ४.६३ ॥
इति मत्वात्र संसारे इच्छन्ति ये सदाशुभम् ।
वाग्मती श्री सुखाधारां भजन्तु सर्वदापि ते ॥ ४.६४ ॥
भूयोप्यन्या सरिज्जाता तस्यैव करसंभवा ।
सापि पवित्रिता भूता क्रकुछन्दस्य वाक्यतः ॥ ४.६५ ॥
तत्र प्रव्रजितानां यत्श्मश्रुकेशनखानि च ।
कृत्वा भागद्वयं तत्र भागमेकं प्रचिक्षिपुः ॥ ४.६६ ॥
तदा केशावतीत्यासीत्प्रसिद्धा सा महानदी ।
एक भागन्तु तत्रैव संस्थापितं शिलातले ॥ ४.६७ ॥
यावन्ति श्मश्रु केशानि तावन्त्यपि शिलातले ।
प्रादुर्भूतानि चैत्यानि तांन्यद्यापि वसंति हि ॥ ४.६८ ॥
सापि नदी महातीर्थ वाग्मती व प्रसीद्धता ।
तेषां प्रव्रजितानां हि महत्पुण्यानुभावतः ॥ ४.६९ ॥
तेषां प्रव्रजितानांच भिक्षुणां ब्रह्मचारिणाम् ।
तदापुण्य महाकीर्ति शब्द सर्वत्र प्रासरत् ॥ ४.७० ॥
तदनन्तरमष्टौ च वीतरागा निराश्रयाः ।
ज्योतिरूपा निराकाराः प्रादुर्भूता जगद्धिते ॥ ४.७१ ॥
एकः शंखगिरेः पार्श्वे मणिचूडाश्रमान्तिके ।
मणिलिंग इति ख्यातः सोऽद्यापि संप्रतिष्ठितः ॥ ४.७२ ॥
द्वितीयो भुच्च गोकर्ण स्थले ज्योतिर्षयाकृतिः ।
चारुगिरौ तृतीयश्च कुम्भतीर्थे चतुर्थकः ॥ ४.७३ ॥
पंचमः फणिशैलश्च षष्ठश्च गर्तकस्थले ।
सप्तमो गन्धवत्यां च अष्टमो विक्रमस्थले ॥ ४.७४ ॥
एतेऽष्टौ महादेवाः वीतरागा निरंजनाः ।
ज्योतिरूपा निरांकाराः प्रादुर्भूता जगद्धिते ॥ ४.७५ ॥
अत्रैषां वीतरागान्यनुभावात्समन्ततः ।
मनोरमामही जाता सर्व पीठोक्तमावनौ ॥ ४.७६ ॥
तदायोभू महास्वो महासंमत वंशजः ।
कृपाकारुण्य भद्रात्मा बोधिसत्त्वो नृपोऽभवत् ॥ ४.७७ ॥
तत्र स नृप राजेन्द्रः क्रकुछन्देन तायिना ।
सहात्र द्रष्टुमायातः स्वयंभुवं खगाननाम् ॥ ४.७८ ॥
दूरात्स येनमालोक्य स्वयंभुवं जिनालयम् ।
प्रणत्वा समुपागत्य चक्रे प्रदक्षिणात्रयम् ॥ ४.७९ ॥
ततोऽभ्यर्च्ये महोत्साहैरेणं पञ्चजिनात्मकम् ॥ ४.८० ॥
अष्टांगैश्च प्रणत्वा च प्राभजच्छरणाश्रितः ।
ततस्तथा च राजेन्द्रो मञ्जुदेवं च सङ्गुरुम् ॥ ४.८१ ॥
यथाविधि समभ्यर्च्य प्राभजत्संप्रमोदितः ।
ततस्तथा स राजेन्द्रः खगाननां जिनेश्वरीम् ॥ ४.८२ ॥
यथाविधि समभ्यर्च्य महोत्साहैर्मुदाभजत् ।
ततोऽष्टौ वीतरागाश्च सर्वानता त्स्वयंभुवः ॥ ४.८३ ॥
दृष्ट्वा समुदितो राजा महोत्साहैस्तथा भजत् ।
एतत्पुण्यानुभावैः स महत्पुण्याशयः कृती ॥ ४.८४ ॥
सर्वधर्म्माधि राजेन्द्रः सर्वलोकाधिपो वभौ ।
सर्व विद्याधिपो राजा भद्रश्री सद्गुणाश्रयः ॥ ४.८५ ॥
तेन धर्माकरो नाम्नो प्रसिद्धौऽभूद्विराजितेः ।
ततः सोऽत्र महाराजः संस्थास्तुं काम आत्मना ॥ ४.८६ ॥
क्रकुछन्दं मुनीन्द्रन्तं प्रणत्वैवं न्यवेदयत् ।
भगवन्यह वांछास्ता विजानीयात्ममेच्छितम् ॥ ४.८७ ॥
तदनुज्ञां पदत्वामेनुग्रहं कर्तुमर्हति ।
इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ॥ ४.८८ ॥
धर्म्माकरं नरेन्द्रंन्तं सम्पश्यन्नेवमादिशत् ।
साधु राजन्महासत्त्व यदेवं त्वं समीच्छसि ॥ ४.८९ ॥
तथात्वमिह सन् स्थित्वा पालयं बोधयन् प्रजाः ।
तथात्रसकरलाल्लोकान् संस्थाप्य संप्रबोधयन् ॥ ४.९० ॥
बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे ।
धर्म्मेण पालयन् सर्वाल्लोकान् स्वयं समाचरन् ॥ ४.९१ ॥
यथाकाम सुखं तु प्रासचरस्व जगद्धिते ।
धर्म्मनीत्या समाधाय कृत्वा लोकहितं सदा ॥ ४.९२ ॥
साधयन्वोधि सम्भारं सदेह निवसाश्रिताः ।
सदास्य शरणे स्थित्वा धर्म्मधातोः स्वयम्भुवः ॥ ४.९३ ॥
श्रद्धया भजनं कृत्वा संचरस्व जगद्धिते ।
अस्याः खगाननायाश्च देव्याः शरण आश्रितः ॥ ४.९४ ॥
सर्वदा भजनं कृत्वा चरस्व बोधिसंवरम् ।
अस्यापि मञ्जुदेवस्य सद्गुरोः समुपाश्रितः ॥ ४.९५ ॥
बुद्धानुशासनं धृत्वा सद्धर्म्मे संचरंस्व स ।
एषां च वीतरागानामष्टानामपि सर्वदा ॥ ४.९६ ॥
श्रद्धया भजनं कृत्वाः साधय धर्म्ममुक्तमम् ।
वाग्मती प्रमुखानाञ्च तीर्थानां समुपाश्रयेन ॥ ४.९७ ॥
स्नान दानादिकं कृत्वा पित्तृन्देवाञ्च तोषयन् ।
लब्धा त्रिकाय संशुद्धिं धृत्वा संबोधिमानसम् ॥ ४.९८ ॥
सर्वसत्त्वा हितं कृत्वा निवसस्व यथासुखम् ।
एवं राजेन्द्र लोकांश्च सर्वानपि प्रवोधयम् ॥ ४.९९ ॥
एतेषामपि सर्वेषां संस्थाप्य शरणे सदा ।
पूजा भक्ति महोत्साहैः चारयित्वा समादरात् ॥ ४.१०० ॥
बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे ।
एवं कृत्वा महाराज संबोधि निहिताश्रयः ॥ ४.१०१ ॥
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ।
एतत्पुण्याभिलिप्तात्मा भविष्यसि जिनात्मजः ॥ ४.१०२ ॥
बोधिसत्त्व महाभिज्ञा भद्रश्री सद्गुणाश्रयः ।
कदाचिदपि नैवत्वं दुर्गतौ च क्वचित्सरेः ॥ ४.१०३ ॥
सदासद्गति संजातोः समृद्धि सिद्धिमान्सुधीः ।
श्रीमान्सर्वगुणाधीशः सर्वलोकाधिपः कृति ॥ ४.१०४ ॥
क्रमेण बोधिसंभारं पूरयित्वा समाहितम् ।
त्रिरत्न भजनोत्साह महानन्दसुखं सदा ॥ ४.१०५ ॥
भुंजाना निर्म्मलाचारश्चतुर्ब्रह्म विहारिणः ।
निःक्लेशो निर्जयन्मारान् सर्वानर्हन्त्वमाप्तवान् ॥ ४.१०६ ॥
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ।
लोकाः सर्वेऽपि चैवंहि परिशुद्धत्रिमण्डलाः ॥ ४.१०७ ॥
बोधिसत्त्वा महासत्त्वाः सदा सद्गति संभवाः ।
बोधिचर्या व्रतं धृत्वा संचरन्तो जगद्धिते ॥ ४.१०८ ॥
जित्वा मारगणान्सर्वाश्वतुर्ब्रह्म विहारिणः ।
निःक्लेशा निर्म्मलात्मानः संसारगति निःस्पृहा ॥ ४.१०९ ॥
अर्हन्त त्रिविधासम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः ।
एषां च वीतरागानामष्टानामपि साम्प्रतम् ॥ ४.११० ॥
पूजाफल विशेषत्वं व क्ष्यामि शृणु तन्नृपः ।
वाग्मतिसलिले यस्तु स्नात्वा नित्यं समाहितः ॥ ४.१११ ॥
अष्टावेतान्महेशान् वीतरागान् सदा भजेत् ।
यतत्पुण्य विशुद्धात्मा श्री समृद्धि सुखान्वितः ॥ ४.११२ ॥
संसारे सर्वदा सौख्यं भुक्त्वा यायाच्छिवालयम् ।
घृतेन स्नापयेत्यस्तु वीतरागान् स्वयंभूवः ॥ ४.११३ ॥
शिवालयं व्रजेत्सोऽपि मधुरा ब्रह्ममन्दिरम् ।
दध्ना यः स्नापयेद्देवान् वीतरागान् स्वयंभुवः ॥ ४.११४ ॥
स यायाद्वैष्णवं लोकं श्री समृद्धि सुखाश्रयम् ।
स्नानादिक्षुरसेनापि विद्याधरं पदं व्रजेत् ॥ ४.११५ ॥
गन्धोदकेन गान्धर्व क्षीरेण शशिनः पदम् ।
शीतोदकेन शुद्धात्मा निष्पापा निर्मलेन्द्रियम् ॥ ४.११६ ॥
एषां पूजां च यः कुर्यान्नानापुष्पैः सुगन्धितैः ।
सर्व काम सुखं भुक्त्वा मोदते मनुजाधिपः ॥ ४.११७ ॥
विल्वपत्राणि श्रेष्ठानि रोहणर्च्चमतन्द्रितः ।
शिवं सर्वत्र प्राप्नोति यज्ञानां च सहस्रकम् ॥ ४.११८ ॥
नैवेद्यं ढोकयेद्यः स दीर्धायुः स्याद्वलि नृपः ।
दीपमालां च यो दद्यात्तेजस्वी स्यात्सुदृष्टिमान् ॥ ४.११९ ॥
गुग्गुरुं यो दहेत्तस्य नश्यते सर्वपातकम् ।
तिलपात्रं च योदद्यादुर्ग्गति स व्रजेन्नहि ॥ ४.१२० ॥
सुवर्णं ये प्रदद्याच्च स यायात्सङ्गतौ सदा ।
तिलधेनुं प्रदद्याद्योः स सं यायाच्छिवालयम् ॥ ४.१२१ ॥
रौप्यखुरां हेम शृंगी रणद्घण्ठावलं विना ।
सवत्सां कपिलां दद्याद्यः स यज्ञफलं लभेत् ॥ ४.१२२ ॥
यो रत्नकंचुकं दद्यात्स भवेद्बहुरत्नवान् ।
वस्त्रवान् वस्त्रदानेन भूमिदानेन भूमिवान् ॥ ४.१२३ ॥
तूर्यसंगीति नृत्यादि महोत्साहं प्रचारयेत् ।
यः सदिव्य श्रुतिप्राप्तः शिवपार्श्वचरो भवेत् ॥ ४.१२४ ॥
नीलोत्पलार्कपद्मानि यो दद्यात्स श्रियं लभेत् ।
योऽर्चयेद्विल्वपत्रेण स बलिष्ठो भवेत्कृती ॥ ४.१२५ ॥
धत्तुरकेन निर्वार्य केन वीरेण सद्वनो ।
सुगन्धिकुसुमैः सर्वै योष्टावपि समर्चयत् ॥ ४.१२६ ॥
स श्रीमान् सुभगो धीमान् भवेत्सौगन्धिताश्रये ।
दिव्यातिसुन्दरः कान्ता भद्रश्री सद्गुणाद्धिमान् ॥ ४.१२७ ॥
पुष्पैः पत्रैः फलमूलैस्तोत्रै र्वा योऽर्चयेच्छिवान् ।
स देवालयमासाद्य भुक्त्वा दिव्यसुखं चरेत् ॥ ४.१२८ ॥
यश्च प्रदक्षिणां कृत्वा भजेन्नित्यं समादरात् ।
रूपवान्स भवेदन्ते संप्रयायाच्छिवालयम् ॥ ४.१२९ ॥
यश्च स्तोत्रैः प्रसन्नात्मा भजेतेतान्महेश्वरान् ।
स तु पित्रालयं गत्वा महानन्द सुखं लभेत् ॥ ४.१३० ॥
यश्चनाम समुच्चार्य जपित्वा च समाहितः ।
सोऽपि श्रीमान्महाभिज्ञः प्रान्ते यायाच्छिवालयम् ॥ ४.१३१ ॥
अष्टांगैः प्रणतिं कृत्वा यो भजेत्तान्महेश्वरान् ।
स यायात्सङ्गतावेव दुर्गतिं न कदाचन् ॥ ४.१३२ ॥
स्मृत्वा ध्यात्वा समुच्चार्य नामपि यो भजत्सदा ।
स दिव्यामृतभुंजानो रमेद्दिवि यथासुखम् ॥ ४.१३३ ॥
यश्च दृष्टा प्रसन्नात्मा प्रणमेत्सांजलिर्मुदा ।
सोऽपि दिव्यामृतं भुक्त्वा रमेत्स्वर्गे सुरैः सह ॥ ४.१३४ ॥
इत्येषां वीतरागाणामष्टानां भजनाद्ध्रुवम् ।
विशेषफलमाज्ञाय भजस्वैनां यथेच्छया ॥ ४.१३५ ॥
तदत्र भूतले शुद्ध विधाय पुरमाश्रयन् ।
सर्वाल्लोकान् प्रतिष्ठाप्य पालयन्सर्वदा वस ॥ ४.१३६ ॥
तदात्र सर्वदिग्भ्योऽपि सर्वलोकाः प्रमोदिताः ।
आगत्य संस्थिति कृत्वानि वसेयुः सदा मुदा ॥ ४.१३७ ॥
तदा जानपदाश्चात्र ग्रामाश्चनगराण्यपि ।
निर्गम पक्तनं चापि प्रवर्क्तेयुः समन्ततः ॥ ४.१३८ ॥
तथा देवा सुरेन्द्राश्चं सर्वे लोकाधिपा अपि ।
आगत्यात्र समालोक्य धर्मधातोः स्वयंभुवः ॥ ४.१३९ ॥
गन्धर्वा गुह्यका यक्षाः किन्नरा राक्षसा अपि ।
कुम्भाण्डा गरुडा नागाः सिद्धा विद्याधरा अपि ॥ ४.१४० ॥
साध्याश्च मातृका श्चापि स भैरवगणा अपि ।
ऋषयो योगिनश्चापि यतय स्तीर्थिका अपि ॥ ४.१४१ ॥
श्रावका भिक्षवोऽर्हन्त श्चैलकाश्चाप्युपासकाः ।
बोधिसत्त्वा महासत्त्वाः शैव कौलाश्च वैष्णवाः ॥ ४.१४२ ॥
आगत्यात्र समालोक्य धर्म्मधातोः स्वयंभुवः ।
देव्याः खगाननायाश्च मञ्जुदेवस्य सङ्गुरोः ॥ ४.१४३ ॥
एषां च वीतरागानां तीर्थानां चानुभावताम् ।
प्रसादिताः समाश्रित्य भजेयुः सर्वदा मुदा ॥ ४.१४४ ॥
तदात्र सर्वदैतेषां सर्वा पुण्यानुभावतः ।
सुभिक्षं मंगलोत्साहं निरुत्पातं भवेद्ध्रुव्रम् ॥ ४.१४५ ॥
इत्यादिष्टं मुनीन्द्रेण क्रकुछन्देन सप्रतुः ।
धर्म्माकर समाकर्ण्य तथेति प्रतिबुध्यत ॥ ४.१४६ ॥
ततः सःनृप उत्थाय साञ्जलिस्तं मुनीश्वरम् ।
क्रकुच्छन्द स संघं य प्रणत्वेवं न्यवेदयत ॥ ४.१४७ ॥
भगवन् भवतामाज्ञां धृत्वाहमत्र सर्वदा ।
पुरं विधाय लोकानां हितार्थे निवसे खलु ॥ ४.१४८ ॥
तद्भवान् कृपयालोक्य सर्वदात्र हिमालये ।
ससंघो धर्म्ममादिश्य विहरंतु जगद्धिते ॥ ४.१४९ ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
धर्म्माकरं महासत्त्वं तं पश्यन्नेवमव्रवीत् ॥ ४.१५० ॥
नाहं सदात्र तिष्ठेयं चरेयं सर्व भूतले ।
सर्वसत्त्व हितार्थ हि भवामि धर्म्मदिक्षिणः ॥ ४.१५१ ॥
इत्यादिश्य मुनीन्द्रेण क्रकुछन्दः स सांधिकः ।
ततः संप्रस्थितोऽन्यत्र देशें संभाषयन् ययौ ॥ ४.१५२ ॥
ततो धर्माकरः सोऽत्र विधाय नगरं तथा ।
राज्यांगानि प्रतिस्थाप्य राज्यं कृत्वाध्यतिष्ठत ॥ ४.१५३ ॥
तदात्र सर्वे आगत्य मन्दिरेषु समन्ततः ।
आश्रित्य संस्थितिं कृत्वा निवसन्तो मुदा चरन् ॥ ४.१५४ ॥
ततोऽन्येपि समायाताः सर्वदिग्भ्योऽत्र सर्वतः ॥
जानपदे पुरेनेकं ग्रामेषु न्यवसन्मुदा ॥ ४.१५५ ॥
तथा देवा सुराद्याश्च सर्वे लोकाधिपा अपि ।
स्वस्वपरिजनैः सार्द्धमागत्यात्र मुदा वसन् ॥ ४.१५६ ॥
तथा महर्षयश्चापि यतयो ब्रह्मचारिणः ।
योगिनो भिक्षवोऽर्हन्तो व्रतिनश्चाप्युपासकाः ॥ ४.१५७ ॥
बोधिसत्त्वा महासत्त्वा श्चैलकाः श्रावका अपि ।
यथाभिलषिते देशे कृत्वा श्रमं समाश्रयन् ॥ ४.१५८ ॥
तथान्य तीर्थिकाः शैवा वैष्णवाः कौलिका अपि ।
यथाभिलषिते स्थाने कृत्वाश्रमं समाश्रयन् ॥ ४.१५९ ॥
प्रत्येक सुगताश्चापि समागत्य समन्ततः ।
विविक्ते आश्रमे रम्ये समाश्रित्य मुदा वसन् ॥ ४.१६० ॥
मुनीन्द्रा अपि चागत्य विहृत्यात्र ससांधिकाः ।
प्रार्य सम्बोधि सद्धर्म्मं समादेश्यन् त्वरागताः ॥ ४.१६१ ॥
एवं पुण्यतमा भूमीरियं हिमालयाहवया ।
सुखावतिनिभारम्या बोधिसत्त्व समाश्रय ॥ ४.१६२ ॥
वहूनि चात्र तीर्थानि सर्वपापहराण्यपि ।
जातानि सन्ति सर्वार्थ समृद्धि सिद्धिदाण्यपि ॥ ४.१६३ ॥
तदेतेषु च तीर्थेषु स्नात्वा चरत सद्व्रतम् ।
पापं हन्तुं शुभं प्राप्तुं समीछन्त्यत्र ये नराः ॥ ४.१६४ ॥
येऽत्र तीर्थेषु सर्वेषु स्नात्वा नित्यं समाहित ।
जप यज्ञादि कर्म्माणि कृत्वा चरन्ति सम्वरम् ॥ ४.१६५ ॥
पितृञ्चापि समभ्यर्च्य देवाञ्च श्रद्धयादरात् ।
दत्वा दानं समाधाय ध्यात्वापीशं भजन्ति च ॥ ४.१६६ ॥
तेऽपि सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः ।
श्रीमन्तः सिद्धि मन्तश्च भवेयुः सद्गुणाश्रयाः ॥ ४.१६७ ॥
ततस्ते सर्व सत्त्वानां हितार्थे धर्म साधकाः ।
बोधिसत्त्वा महासत्त्वाः भवेयुः सुगतात्मजाः ॥ ४.१६८ ॥
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ।
त्रिरत्न भजनं कृत्वा संचरेरञ्जगद्धिते ॥ ४.१६९ ॥
ततस्ते विमलात्मानो निःक्लेशा विजितेन्द्रियाः ।
अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतं पदम् ॥ ४.१७० ॥
एवं मत्वात्र तीर्थेषु सर्वेषु बोधिवांछिभिः ।
नात्वा दानादि कर्म कर्त्तव्य सर्वदा भवे ॥ ४.१७१ ॥
इत्यादिष्टं मुनीन्द्रेण समादिष्टं निसम्य ते ।
सर्व सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः ॥ ४.१७२ ॥

इति श्री स्वयंभू चैत्य समुत्पत्ति कथा वीतरागतीर्थ राष्ट्र प्रवर्त्तनो नाम चतुर्थोऽध्यायः समाप्तः ।


पञ्चम अध्यायः स्वयम्भूत्पत्यनेक तीर्थसंजातपुण्यमहात्म्यवर्णनो नाम

अथासौ च महासत्त्व मैत्रेय साञ्जलिर्मुदा ।
भगवन्तं तमानस्य प्रार्थयेदेवमादरात् ॥ ५.१ ॥
भगवन् तत्र तीर्थानां स्नात्वा दानादि कर्म्मजम् ।
पुण्यफल विशेषत्वं समादिशतु साम्प्रतम् ॥ ५.२ ॥
इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ।
मैत्रेयं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ५.३ ॥
साधु शृणु महासत्त्व तीर्थ सेवा फलोद्भवम् ।
पुण्यं तद्विशेषत्वं वक्षामि सर्व बोधने ॥ ५.४ ॥
तद्यथा मूलतीर्थानि कथ्यन्ते द्वादशात्र हि ।
महापुण्यानि सर्वेषां तीर्थानां यानि भूतले ॥ ५.५ ॥
अमोघ फलदायिन्यां वाग्मत्यां यत्र संगमे ।
तत्तीर्थ शोधनं ख्यातं दशपापविशोधनात् ॥ ५.६ ॥
तत्र नागाधिपा रक्तस्तक्षकाख्यः सुकान्तिमान् ।
समुज्वलन्महारत्नंश्रीमत्फणा विभूषितः ॥ ५.७ ॥
येनरा श्रद्धया तत्र पुण्यतीर्थे यथाविधिः ।
स्नानं कुर्युमुदा यावदेक विंशति वासरम् ॥ ५.८ ॥
जप यज्ञादि कर्म्माणि कुर्युः सप्तदिनान्यपि ।
पितृन् देवाञ्च संपूज्य कुर्युः संतृप्तमोदितान् ॥ ५.९ ॥
दद्युर्दानानिचार्थिभ्यो यथेप्सितं समादरात् ।
शुद्धशीलाः समाधायैश्चरेयुश्च व्रतं तथा ॥ ५.१० ॥
एतत्पुण्यविशुद्धास्ते निःक्लेशा निर्म्मलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्री गुणाश्रयाः ॥ ५.११ ॥
ततस्ते बोधिसम्भारं पूरयित्वायथाक्रमम् ।
त्रिविधां बोधिमासाद्य संवुद्ध पदमाप्नुयुः ॥ ५.१२ ॥
ततश्च मारदायिण्यो वाग्मत्या यत्र संगमः ।
तच्छान्ततीर्थमाख्यातं क्लेश दोष विशोधनम् ॥ ५.१३ ॥
तत्रनागाधिपः शुक्लः सोम शिखीतिविश्रुतः ।
विलसन्मणिरत्नश्रीफणामण्डल भूषितः ॥ ५.१४ ॥
तत्रापि शान्त तीर्थ च ये क्लेश दुःषिता नराः ।
कुर्यु स्नानं सदा यावदेकविंशति वासरम् ॥ ५.१५ ॥
जप यज्ञादिक कुर्युश्चरेयुश्चाधि पोषधम् ।
पितृन् देवाञ्च संपूज्य कुर्युः संतुष्टनन्दितान् ॥ ५.१६ ॥
दद्युर्दानांनि चार्थि भ्यो यथाभिलषितं मुदा ।
शुद्धशीला समाचाराः ध्यात्वा भजेयुरीश्वरम् ॥ ५.१७ ॥
एतत्पुण्याभिलिप्तास्ते परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणालयाः ॥ ५.१८ ॥
ततस्ते बोधि सम्भारं पूरयित्वा यथाक्रमम् ।
अर्हन्त स्त्रिविधाम्बोधि प्राप्येयुः सौगतं पदम् ॥ ५.१९ ॥
ततश्च मणिरोहिण्या वाग्मत्या यत्रसंगमे ।
तत्रोर्द्धनिःसृता शुद्ध स्फटिकादारसंन्निभाम् ॥ ५.२० ॥
रुद्रधारा मृताख्याता तया च तत्र संगमे ।
त्रिवेणी संगमे तेन शंकर तीर्थ मुच्यते ॥ ५.२१ ॥
तत्र नागाधिप शंखपालो गौराति सुन्दरः ।
मणिरस्मि समुद्दिप्त श्रीमत्फणा विभूषितः ॥ ५.२२ ॥
तत्र शंकर तीर्थे ये मानवाश्च यथाविधिः ।
स्नानं कुर्युर्मुदा यावदेकविंशतिवासरम् ॥ ५.२३ ॥
जप यज्ञादिकर्म्माणिः कुर्युश्च सप्तवासरम् ।
पितृन्देवाञ्च संपूज्य तर्प्पयेयुर्यथाविधि ॥ ५.२४ ॥
दद्युर्दानानि चार्थिभ्य श्रद्धया बोधिमानसाः ।
ध्यात्वा भजेयुरीशं चसंचरेञ्चपोषढम् ॥ ५.२५ ॥
एतत्पुण्य विशुद्धात्मा निःक्लेशाः निर्म्मलेन्द्रियाः ।
लभेयुः श्री महापुष्टिशान्ति गुणा च शान्त्यपि ॥ ५.२६ ॥
दुर्ग्गति तेन यायुश्च संजाताः सङ्गतौ सदा ।
बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः ॥ ५.२७ ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
अर्हन्त स्त्रिविधां बोधि प्राप्येयुः सौगतं पदम् ॥ ५.२८ ॥
ततश्च राजमञ्चर्या वाग्मत्या यत्र संगमम् ।
तद्राजतीर्थमाख्यातं राज्यारोग्यसुखपदम् ॥ ५.२९ ॥
तत्र नागाधिपः शुक्लः सुरुपाख्यातिसुन्दरः ।
मणिरत्न महादीप्ति श्रीप्रभा मण्डिताश्रयः ॥ ५.३० ॥
तत्र ये मानवाया वदेक विंशतिवासरम् ।
स्नान दान जप ध्यानं कुर्यु दद्युश्च संवरम् ॥ ५.३१ ॥
एतत्पुण्य विशुद्धास्ते निर्दोषा विमलेन्द्रियाः ।
राज्यश्वर्य सदारोग्य भद्र सौख्यम वाप्नुयुः ॥ ५.३२ ॥
तेऽपि न दुर्ग्गति यायुः सदासद्गति संभवाः ।
बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः ॥ ५.३३ ॥
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ।
अर्हन्त स्त्रिविधां बोधि प्राप्ययायु जिनालयम् ॥ ५.३४ ॥
तथात्र विमलावत्या केशावत्या च संगमेः ।
मनोरथं तदाख्यातं स्वेच्छालंकार संप्रदम् ॥ ५.३५ ॥
तत्र नागाधिपो भीमः कुलिकाख्योऽतिकर्वुरः ।
फणामणि समुद्दीप्त श्रीप्रभामण्डिताश्रयः ॥ ५.३६ ॥
तत्र मनोरथे तीर्थे मनुजा ये यथाविधिः ।
स्नान दानादिकं कुर्युरेकविशति वासरम् ॥ ५.३७ ॥
तेऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ ५.३८ ॥
पट्टसुवस्त्ररत्नादि स्वेच्छालंकारभूषिताः ।
सर्वसत्त्व हिताधान चरेर्युर्बोधिसवरम् ॥ ५.३९ ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्ध पदमाप्नुयुः ॥ ५.४० ॥
ततश्च कुसुमावत्या केशावत्यापि संगमे ।
निर्म्मलतीर्थमाख्यातं कल्पनाविघ्ननाशनम् ॥ ५.४१ ॥
तत्र नागो पलालाख्यः पीतवर्ण्णो महाकृतिः ।
दिव्यरत्न प्रभोज्ज्वाल श्रीमत्फणा विभूषितः ॥ ५.४२ ॥
तत्र ये मानवा यावदेकविंशतिवासरम् ।
स्नानदानादिकं कुर्युस्तथासर्वे च पूर्ववत् ॥ ५.४३ ॥
तेऽपि न दुर्गतिं यायुः सदा सङ्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्रीसद्गुणायाः ॥ ५.४४ ॥
कलि विघ्न मल क्लेश निर्मुक्त भद्रचारिणः ।
सर्वसत्त्व हितारक्ता भवेयु ब्रह्मचारिणः ॥ ५.४५ ॥
ततस्ते बोधिसंभार पुरयित्वा यथाक्रमम् ।
अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ ५.४६ ॥
ततः सुवर्ण्णवत्या च बागमत्या यत्र संगमे ।
निधानतीर्थमाख्यातं सर्व सम्पतिदायकम् ॥ ५.४७ ॥
तत्र नागौ हरितवर्णौ नन्दौपनन्दनावुभौ ।
नाना रत्न प्रभाद्दीप्तिः श्री मत्फणाविभूषितौ ॥ ५.४८ ॥
तत्र ये मनुजा यावदेक विंशतिवासरम् ।
स्नानादि पूर्ववत्सर्व कर्म्मं कुर्युर्यथाविधिः ॥ ५.४९ ॥
तेऽपि न दुर्ग्गतिं यायुः सदा सङ्गतिसंभवाः ।
बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ ५.५० ॥
सर्वसत्त्वार्थ सम्पन्ना भवेयुः धर्म्मचारिणः ।
तेप्यैवं बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.५१ ॥
अर्हन्तो बोधिमासाद्य सौगतं पदमाप्नुयुः ।
ततश्च पाप नाशिन्या केशवत्याभिसंगमे ॥ ५.५२ ॥
ज्ञानतीर्थं तदाख्यातं दिव्यभोग सुखप्रदम् ।
तत्र नागाधिपः शुक्ल वाशुकिर्नाम भीषणः ॥ ५.५३ ॥
दिव्य रत्न प्रभाश्री मत्फणालंकारमण्डितः ।
तत्र येमानवा या वदेकविंशतिवासरम् ॥ ५.५४ ॥
स्नान दानादि कर्म्माणि कुर्युः सर्वाणि पुर्ववत् ।
तेऽपि न दुर्ग्गति यायुर्जाताः सदापि सङ्गतौ ॥ ५.५५ ॥
सर्व भोग महासम्पत्सुखवन्तो निरामयाः ।
बोधिसत्त्वा महसत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.५६ ॥
भद्रश्रीसद्गुणाधारा भवेयु बोधिचारिणः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.५७ ॥
अर्हन्तो बोधिमासाद्य सर्वज्ञ पद्माप्नुयुः ।
भद्श्री सद्गुणाधाराः सम्बुद्धगुणसाधिनः ॥ ५.५८ ॥
ततश्च यत्र वाग्मत्याः केशावत्या च संगमेः ।
तच्चिन्तामणिमाख्यातं सर्वकामार्थ संपदम् ॥ ५.५९ ॥
गंगा च यमुनाचापि तथा देवी सरस्वती ।
पर्व प्रत्यागता तत्र तेन पञ्च समागमा ॥ ५.६० ॥
तत्र नागाधिपः शुक्लो वरुणा सर्व नागरात् ।
दिव्यरत्न प्रभाश्रीमत्फणामण्डल भूषितः ॥ ५.६१ ॥
तत्र ये मानवा यावदेकविंशति वासरम् ।
स्नानदानादिकं सर्वे कुर्युः पूर्ववदादरात् ॥ ५.६२ ॥
तेऽपि न दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः ।
संपूर्ण्ण परमायुष्काः विद्याधिपा विचक्षणाः ॥ ५.६३ ॥
सुसन्ताना महाभोगा धम्मार्थ कामभोगिनः ।
बोधिसत्त्वा महासत्त्वा श्चतुर्ब्रह्मविहारिणः ॥ ५.६४ ॥
भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.६५ ॥
अर्हन्तो बोधिमासाद्य संबुद्ध पदमाप्नुयुः ।
ततश्च यत्र वाग्मत्या रत्नावत्याः समागमे ॥ ५.६६ ॥
प्रमोदतीर्थमाख्यातं रतिप्रीतिवशार्थदः ।
तत्र नागाधिपः पद्मो धवलदिव्य सुन्दरः ॥ ५.६७ ॥
दिव्यरत्न महाकान्ति फणामण्डल भूषितः ।
तत्र ये मानवा यावदेकविंशतिवासरम् ॥ ५.६८ ॥
स्नान दानानि सर्वाणि कुर्युः कर्म्माणि पूर्ववत् ।
तेऽपि नदुर्गतीं यायुः सदा सद्गति संभवाः ॥ ५.६९ ॥
रति प्रीति वशानन्द महासौख्य समन्विता ।
बोधिसत्त्वो महासत्त्वोः परिशुद्ध त्रिमण्डलाः ॥ ५.७० ॥
भद्रश्री सद्गुणाधारा भवेयुः बोधिसाधिनः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.७१ ॥
अर्हन्त श्त्रिविधां बोधिंप्राप्य यायु र्जिनालयम् ।
तत्रश्चयत्र वाग्मत्या चारुमत्या समागमे ॥ ५.७२ ॥
तत्सुलक्षणमाख्यातं श्री तेजो भाग्यसम्पदम् ।
तत्र नागो महापद्मोऽति धवलोऽति सुन्दरः ॥ ५.७३ ॥
दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः ।
तत्र ये मानवा यावदेकविंसतिवासरम् ॥ ५.७४ ॥
स्नान दानं जप ध्यानं कुर्युर्यज्ञं च पूर्ववत् ।
तेऽपिन दुर्गतिं यायुः सदा सद्गति संभवाः ॥ ५.७५ ॥
श्रीतेजो भोग्यसंपन्ना सुरुपालक्षणान्विता ।
बोधिसत्त्वा महासत्त्वाः भद्रश्रीसद्गुणाश्रयाः ॥ ५.७६ ॥
सर्वसत्त्व हितोद्युक्ताः भवेयुः बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.७७ ॥
अर्हन्त त्रिविधां बोधि प्राप्येयुः सौगतं पदम् ।
ततश्च यत्र वाग्मत्या प्रभामत्या समागमेः ॥ ५.७८ ॥
जयतीर्थ समाख्यातं सर्वशत्रुभयान्तकृत् ।
तत्र नागाधिपः शुक्रः श्रीकान्ति दिव्य सुन्दरः ॥ ५.७९ ॥
दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः ।
तत्र ये मानवा यावदेक विंशतिवासरम् ॥ ५.८० ॥
स्नात्वा यज्ञादि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् ।
तेऽपि न दुर्ग्गतीं यायुः सदा सद्गति संभवाः ॥ ५.८१ ॥
निर्भया स्त्रिगुणोत्साहाजयिनो निर्जितारयः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.८२ ॥
भद्रश्री सद्गुणाचारा भवेयु बोधिचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.८३ ॥
अर्हन्तस्त्रिविधां बोधिप्राप्येयुः सौगतपदम् ।
द्वादशैतानि नामानि तीर्थानि महान्त्यत्र हिमालये ॥ ५.८४ ॥
अन्यान्यपि च संत्यत्र तानि वक्ष्याम्यहं शृणु ।
तद्यथो परि वाग्मत्याः श्रोतसिद्धारसंनिधौ ॥ ५.८५ ॥
सौन्दर्य तीर्थमाख्यातं सौन्दर्य गुणसंपदम् ।
तत्र येमानवा यावदेकविंशतिवासरम् ॥ ५.८६ ॥
स्नान दानानि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् ।
तेऽपिन दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः ॥ ५.८७ ॥
सुरूपा लक्षणोपेताः श्रीमन्त सद्गुणान्विताः ।
बोधिसत्त्वा महासत्त्वा चतुर्ब्रह्म विहारिणः ॥ ५.८८ ॥
सर्वसत्त्व हिताधानं चरेयु र्बोधिसंम्वरम् ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.८९ ॥
अर्हन्त स्त्रिविधां बोधिसंप्राप्येयुः जिनालयम् ।
तदुपरिचयत्तीर्थ अगस्त्यो न महर्षिणा ॥ ५.९० ॥
नित्यस्नानं जप ध्यानं कृत्वा यज्ञं च सेवितम् ।
तेनागस्त्यं महत्तीर्थ तदा ख्यान्तं मुनीश्वरैः ॥ ५.९१ ॥
तत्र ये मनुजा स्नायूस्ते यायुः परमां गतिम् ।
दान यज्ञ जपादिश्च कुर्यु ध्यात्वायि चेश्वरम् ॥ ५.९२ ॥
तोषययुस्तथापित्तृन्दद्युर्दानं यथेप्सितम् ।
ते सर्वे विमलात्मानश्च चतुर्ब्रह्मविहारिणः ॥ ५.९३ ॥
बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.९४ ॥
अर्हन्त स्त्रिविधाम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः ।
तत्रैवानन्तनागेन यदाश्रितं महाह्रदम् ॥ ५.९५ ॥
तेन तदह्रदमाख्यातमनन्ततीर्थमर्थदम् ।
तत्र ये मनुजायावदेकंविंशति वासरम् ॥ ५.९६ ॥
स्नान दान जप ध्यानं कुर्युर्यज्ञंच पूर्ववत् ।
तेऽपि न दुर्गतिं यायुःसदा सद्गतिसम्भवाः ॥ ५.९७ ॥
बोधिसत्त्वा महासत्त्वा र्भवेयुः श्रीगुणाश्रयाः ।
तथा ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ५.९८ ॥
अर्हन्तो बोधिमासाद्य सर्वज्ञपदमाप्नुयुः ।
तत्रैव च महत्तीर्थ आर्यतारानिषेवितम् ॥ ५.९९ ॥
तेनेदं प्राथितं प्रार्यतारा तीर्थ सुभाग्यदम् ।
तत्रापि ये नरा र्यावदेकविंशतिवासरम् ॥ ५.१०० ॥
स्नानदानजप ध्यानं यज्ञं कुर्यु र्यथाविधि ।
तेऽपि न दुर्गतिं यायुः संजाताः सद्गतौ सदा ॥ ५.१०१ ॥
बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
सौभाग्यशालिनो धीरा भद्रश्रीसद्गुणाश्रयाः ॥ ५.१०२ ॥
सर्वसत्त्वहितोत्साहा भवेयु र्बोधिचारिणः ।
तथा ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.१०३ ॥
अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतंपदम् ।
अर्द्धौर्द्धञ्च वाग्मन्त्याः प्रभवतीर्थमुक्तमम् ॥ ५.१०४ ॥
सर्वेषामपि तीर्थानां प्रधानमग्रमुच्यते ।
तत्रैकस्नान मात्रेण गंगा स्नान शताधिकम् ॥ ५.१०५ ॥
पुण्यं महत्तरं सिद्धं वाञ्छितार्थ सुखप्रदम् ।
तत्र ये मानवा यावदेकविंसतिवासरम् ॥ ५.१०६ ॥
स्नान दान जप ध्यानं यज्ञं कुर्युर्युयथाविधिः ।
शुविशुद्ध त्रिकायास्ते यथाकाम सुखाशिन च ॥ ५.१०७ ॥
धमार्थं श्रीसमृद्धाः स्युश्चतुर्ब्रह्मविहारिणः ।
क्वचिन्न दुर्ग्गतिं यायुः संजाता सद्गतो सदा ॥ ५.१०८ ॥
स्वपरात्महितं कृत्वा संचरेन्सदा शुभे ।
ततस्ते विमलात्मानो सुविशुद्धेन्द्रियाशयाः ॥ ५.१०९ ॥
बोधिसत्त्वा महासत्त्वाः भवेयुः सद्गुणाकराः ।
तथा ते बोधिसंभारं पूरयित्वा यथाविधिः ॥ ५.११० ॥
अर्हन्तस्त्रिविधां बोधि प्राप्येयुः सौगतंपदम् ।
तं शंखपर्वत नाम सर्व शिलोच्चयोत्तमम् ॥ ५.१११ ॥
समारोहण मात्रेण निष्णा येः सिद्धिमान् भवेत् ।
तत्रापि ये समाश्रित्य स्नात्वा ध्यात्वा समाहितः ॥ ५.११२ ॥
जप यज्ञादि दानं च कुर्युः संबोधिमानसाः ।
तेऽपि न दुर्गतिं यायुः सदासद्गति संभवाः ॥ ५.११३ ॥
बोधिसत्त्वा महासत्त्वाः परिशुद्ध त्रिमण्डलाः ।
निःक्लेशा विमलात्मानः सर्व सत्त्व हिताशयाः ॥ ५.११४ ॥
भद्रश्री सद्गुणाधारा भवेयु र्ब्रह्मचारिणः ।
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ५.११५ ॥
अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ।
वहूनि चोप तीर्थानि विद्यन्तेऽत्र हिमालये ॥ ५.११६ ॥
तानि तीर्थानि सर्वाणि भुक्ति मुक्ति प्रदान्यपि ।
यत्र यत्र श्रवन्तीनाम न्येषां च समागमे ॥ ५.११७ ॥
तत्र तत्रापि तीर्थानि पुण्य फल प्रदानि हि ।
तेषां चाप्युप तीर्थानां पृथक्पृथत्फलं महत् ॥ ५.११८ ॥
पाप संशोधनं पुण्यं सद्धर्म्मसुखसाधनम् ॥
तेष्वपि ये नराः स्नात्वा चरेयु पोषढं व्रतम् ॥ ५.११९ ॥
दद्युर्दानानि चार्थिभ्यं कुर्युर्यज्ञानि च ये मुदा ।
पितृसंतर्प्य येयुश्च पूजयेयुः सुरानपि ॥ ५.१२० ॥
स्मृत्वा ध्यात्वा त्रिरत्नानां भजेयुनेमिजल्यनैः ।
एवं लोकाधिपानां च स्मृत्वा ध्यात्वा समाहिताः ॥ ५.१२१ ॥
जपित्वा नाम मन्त्राणि साधयेयु र्यथाविधिः ।
तानि सर्वानि सिध्येयुः साधितानि जगद्धिते ॥ ५.१२२ ॥
दद्युश्चेह शुभोत्साहं परत्र निर्वृतं पदम् ।
तेऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः ॥ ५.१२३ ॥
निःक्लेशा विमलात्मानः परिशुद्धा त्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ ५.१२४ ॥
भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः ।
ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमम् ॥ ५.१२५ ॥
अर्हन्त बोधिं प्राप्ययायु र्जिनालयम् ।
एकं विज्ञाय सर्वेषां तीर्थानामपिसत्फलम् ॥ ५.१२६ ॥
भद्रश्री सद्गुणात्साहं सौख्यसंबोधि साधनम् ।
सर्वेष्वेतेषु तीर्थेषुभद्रश्री गुण वांछाभिः ॥ ५.१२७ ॥
स्नान दानादिकं कर्म कर्त्तव्यं बोधि प्राप्तये ।
ये ये एतेषु तीर्थेषु स्नात्वा नित्यं यथाविधिः ॥ ५.१२८ ॥
दत्वा दान व्रतं धृत्वा ध्यात्वा भजेयुरीश्वरम् ।
ते ते सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः ॥ ५.१२९ ॥
निःक्लेशा विमलात्मानो भवेयुर्बोधिभागिनः ।
इति लोकाधिपैः सर्वे र्ब्रह्मेन्द्र प्रमुखैरपि ॥ ५.१३० ॥
सर्वान्येतानि तीर्थानि संसेवितानि सर्वदा ।
तथा च मुनिभिः सर्वेस्ताप सैर्ब्रह्मचारिभिः ॥ ५.१३१ ॥
यतिभिर्योगिभिश्चापि तीर्थिकैः श्रावकै रपि ।
ब्राह्मणै वैष्णवैः शैवैः कौलिकैरपि शक्तिकैरपि ॥ ५.१३२ ॥
देवैश्च दानवैश्चापि यक्षगन्धर्वकिन्नरैः ।
गुह्यक सिद्धसाध्यै श्च ग्रहैः विद्याधरैरपि ॥ ५.१३३ ॥
अप्सरोभिश्च सर्वाभिः सदा संसेवितानि हि ।
नागेन्द्रै र्गरुडैश्चापि कुम्भाण्डै राक्षसैरपि ॥ ५.१३४ ॥
एवमन्यैरप्रिप्रेत्य सेवितानि शुभार्थिभिः ।
ग्रहैश्चः सांधिकैश्चापि व्रतिश्चाप्युपासकैः ॥ ५.१३५ ॥
बोधिसत्त्वै र्मुनीन्द्रैश्च सेवितानि जगद्धिते ।
अहमपितथैतेषु तीर्थेषु समुपाश्रयन् ॥ ५.१३६ ॥
स्नात्वा दानानि दत्वा च कृत्वा यज्ञं यथाविधि ।
पितृन्सतर्पयित्वापि समभ्यर्च्य सुरानपि ॥ ५.१३७ ॥
त्रिरत्नभजनं कृत्वा प्राचरं पोषध व्रंतम् ।
धर्म्मधातुं समाराध्य स्मृत्वा ध्यात्वा समाहितः ॥ ५.१३८ ॥
जपित्वा धारणी मन्त्रं प्रचरन्बोधिसम्वरम् ।
एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः ॥ ५.१३९ ॥
निःक्लेशो निर्म्मलात्मोहं चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वाः भद्रश्री सद्गुणाद्धिर्मान् ॥ ५.१४० ॥
आशु संबोधिं संभार पूरयित्वा यथाक्रमम् ।
जित्वा मारगणान्सर्वान् कलावपि जगद्धिते ॥ ५.१४१ ॥
त्रविधबोधिमासाद्य संबुद्धो धर्म्मरात्भुवे ।
थुयमपिज्ञात्वानि विघ्न बोधि प्राप्तये ॥ ५.१४२ ॥
सर्वेषु तेषु तीर्थेषु प्रवध्वं यथाविधिः ।
धर्म्मधातुं सदाभ्यर्च्य स्मृत्वा ध्यात्वा समाहिताः ॥ ५.१४३ ॥
जपित्वा धारणीमन्त्रं संभजध्वं जगद्धिते ।
एत्पुण्यु प्रभोवण परिशुद्धत्रिमण्डलाः ॥ ५.१४४ ॥
दुर्ग्गतिन्नैवगछेत जायध्वं संद्गतौ सदाम् ।
तत्र सदा त्रिरत्नानो शरणे समुपस्थिताः ॥ ५.१४५ ॥
सत्कारै र्भजन कृत्वा संचरध्वं जगद्धिते ।
तेषां हि विमलात्मानश्चतुर्ब्रह्म विहारिणः ॥ ५.१४६ ॥
बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः ।
ततः श्री सद्गुणाधाराः सर्वविद्याविचक्षणाः ॥ ५.१४७ ॥
सर्व सत्त्वाहिताधानं संचरध्व जगद्धिते ।
ततः संबोधिं संभारं पूरयित्वा यथाक्रमम् ॥ ५.१४८ ॥
आशु त्रिबोधिमासाद्य प्राप्स्यथ सौगतं पदम् ।
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे प्रवोधिताः ॥ ५.१४९ ॥
मैत्रेयादि सभालोकाः प्राप्यनन्द प्रवोधिताः ।

इति श्री स्वयंभू समुत्पत्ति कथायामनेक तीर्थ संजात पुण्य महात्म्य वर्णनो नाम पञ्चमोऽध्याय ।


षष्ठम अध्यायः स्वयम्भूधर्मधातुवागीश्वराभिधानप्रसिद्धप्रवर्तनो नाम

अथासौ च महासत्त्वो मैत्रेयः सुगतात्मजः ।
मुनीन्द्रं श्रीघनं नत्वा साञ्जलिरेवमब्रवीत् ॥ ६.१ ॥
यदस्य भगवन् धर्म्मधातु वागीश्वराभिधम् ।
प्रसिद्ध हेतुना केन तत्समादेष्टुमर्हति ॥ ६.२ ॥
इति संप्रार्थिते तेनः मैत्रेयेण स सर्ववित् ।
भगवान्स्तं महासत्त्वं संपश्यन्निदमादिशत् ॥ ६.३ ॥
येनास्य हेतुना धर्म्मधातु वागीश्वराभिधम् ।
प्रसिद्धिं तत्प्रवक्षामि शृणु मैत्रेय सादरम् ॥ ६.४ ॥
तद्यथायुर्यदा नृणां त्रिंशद्वर्ष सहस्रिके ।
शोभावत्यां महापूर्यामुदपादि तदा जिनः ॥ ६.५ ॥
संबुद्धोऽर्हञ्जगच्छास्ता धर्म्मराजो मुनीश्वरः ।
कनक मुनीरित्याख्यास्तथागतो विनायकः ॥ ६.६ ॥
तदाहं कुलपुत्रो स सुधर्म्माख्य आत्मवित् ।
बोधिसत्त्वो महासत्त्वो धर्म्मश्री सद्गुणार्थभृत् ॥ ६.७ ॥
स कनकमुनेः शास्तुः शासने समुपाश्रितः ।
त्रिरत्नभजनं कृत्वाः प्राचरं बोधिसंवरम् ॥ ६.८ ॥
यदा च भगवाञ्छास्ता शोभावत्या उपाश्रमे ।
विहारे शोभितारामे विजहार स सांघिकः ॥ ६.९ ॥
तदा तत्र सभालोके ब्रह्मेन्द्र प्रमुखाः सुराः ।
सर्वलोकाधिपाश्चापि धर्म्मं श्रोतुमुदागताः ॥ ६.१० ॥
सर्वे ग्रहाश्च ताराश्च सर्वा विद्याधरा अपि ।
सिद्धाः साध्याश्च रुद्राश्च मुनयोऽपि महर्षयः ॥ ६.११ ॥
गन्धर्वाः किन्नरा यक्षा गुह्यका राक्षसा अपि ।
कुम्भाण्डा गरुडा नागा दैत्याश्चापि समागताः ॥ ६.१२ ॥
यतयो योगिनश्चापि तीर्थिकाश्च तपस्विनः ।
पाखण्डाश्च परिव्राजको निर्ग्रन्था ब्रह्मचारिणः ॥ ६.१३ ॥
श्रमणाः श्रावकाश्चापि व्रतिनश्चाप्युपासकाः ।
तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ ६.१४ ॥
ब्राह्मणा क्षत्रिया श्चापि वैश्याश्च मन्त्रिणोजनाः ।
गृहाधिपाश्च श्रेष्टाश्चः भृत्याः सैन्याधिपा अपि ॥ ६.१५ ॥
शिल्पिनो वणिजश्चापि सार्थवाहा महाजनाः ।
पौरा जानपदा ग्राम्याः कार्पटिकाश्च शैरिकाः ॥ ६.१६ ॥
तथान्य वासिनश्चापि सर्वलोकाः प्रसादिताः ।
तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ ६.१७ ॥
तान्सर्वान्समुपायातान् दृष्ट्वा स भगवान्मुदा ।
सभा मध्यासनासीनस्तस्थौ ध्यात्वा प्रभासयन् ॥ ६.१८ ॥
तं मुनीन्द्रं प्रभाकान्तं दृष्ट्वा सर्वेऽपि सांधिकाः ।
श्रवणाः श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः ॥ ६.१९ ॥
भिक्षुण्यो ब्रह्मचारिण्यो उपासिकाश्च चैलिकाः ।
चैलका व्रतिनश्चापि धर्मकामा उपासकाः ॥ ६.२० ॥
सर्वेऽपि ते समागत्य प्रणत्वा तं मुनीश्वरम् ।
परिवृत्य परिस्कृत्य धर्म्म श्रोतुमुपाश्रयन् ॥ ६.२१ ॥
ततो ब्रह्मदयो देवाः सर्वे लोकाधिपा अपि ।
तं मुनीन्द्रं समभ्यर्च्य प्रणत्वा च यथाक्रमम् ॥ ६.२२ ॥
परिवृत्य पुरस्कृत्य तत्सभायां समन्ततः ।
संपश्यन्तं मुनीन्द्रं तमुपतस्थुः समाहिताः ॥ ६.२३ ॥
ततस्ते मानवाः सर्वे ऋषि विप्रनृपादयः ।
तं मुनीन्द्रं समभ्यर्च्य संप्रणत्वा यथाक्रमम् ॥ ६.२४ ॥
तत्सभां समुपाश्रित्य परिवृत्य समन्ततः ।
पुरस्कृत्य समुद्वीक्ष्य संतस्थिरे समाहिताः ॥ ६.२५ ॥
ततस्तान् समुपासीनान् दृष्ट्वा स भगवान्मुदा ।
आर्यसत्यं समारभ्य सद्धर्म्म समुपासदित् ॥ ६.२६ ॥
क्रमेन बोधिचर्यागमार्याष्टांङ्ग च सत्पथम् ।
आदिश्य बोधिमार्गे तान् सर्वाल्लोकान् योजयेत् ॥ ६.२७ ॥
तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ।
सद्धर्म्म साधना युक्ता बभूवु र्बोधिमानसाः ॥ ६.२८ ॥
तदा विक्रमशीलाख्ये विहारे भिक्षुरात्मवित् ।
ससंघा व्यहरद्धर्म्मश्रीमित्राख्यः सुधीर्यतिः ॥ ६.२९ ॥
स तत्र सर्वलोकानां हितार्थेन समाश्रितः ।
स संघा नामसंगीतिं व्याख्यातुमभ्यवाञ्छत ॥ ६.३० ॥
ततः स सत्मतिः सर्वान् संघा नाम प्रसादरम् ।
सभामध्यासनासीनस्तस्थौ ध्यानसमाहितः ॥ ६.३१ ॥
तं सभासन आसीनं दृष्ट्वा सर्वेऽपि सांघिकाः ।
तत्सद्धर्म्मामृतं पातुमिच्छतः समुपागताः ॥ ६.३२ ॥
तत्र ये यतिं नत्वा परिवृत्य समन्ततः ।
पुरस्कृत्य समीक्षन्त उपतस्थुः समाहिताः ॥ ६.३३ ॥
तत्रान्येऽपि समायाता लोकद्विजनृपादयः ।
वैश्याश्च मन्त्रिनोऽमात्याः भृत्या सैन्याधिपा अपि ॥ ६.३४ ॥
शिल्पिनो वनिजश्चापि सार्थवाहा महाजनाः ।
पौरा जानपदाग्राम्यास्तथान्यदेशवासिनः ॥ ६.३५ ॥
सर्वे ते समुपागत्य प्रणत्वा तं यतिं मुदा ।
परिवृत्य पुरस्कृत्य सपश्यन्तमुपाश्रयन् ॥ ६.३६ ॥
ततः स यतिरालोक्य सर्वान्स्तान्समुपाश्रितान् ।
मञ्जुश्रीनाम संगीतिं समाख्यातं यथात्क्रमात् ॥ ६.३७ ॥
तत्समादिष्टमाकर्ण्यं सर्वे लोकाः सभाश्रिताः ।
संबुद्ध गुणमहात्म्यं मत्वानन्दप्रवोधिताः ॥ ६.३८ ॥
ततः सर्वेऽपि लोकास्ते ब्राह्मण भूमिपादयः ।
नत्वा तं यतिमामन्त्र्य स्वस्वालयं मुदाययुः ॥ ६.३९ ॥
ततस्ते श्रावका विज्ञा यतयो ब्रह्मचारिणः ।
द्वादशाक्षर गुह्यार्थं सम्यक्श्रोतुंममीच्छिरे ॥ ६.४० ॥
ततस्ते योगिनः सर्वे कृताञ्जलि पुटा मुदा ।
शास्तारं तं यतिं नत्वा समामत्र्यैवमव्रुवन् ॥ ६.४१ ॥
भदन्त द्वादशानां यदक्षराणां विशेषतः ।
विशुद्धिं श्रोतुमिच्छामस्तत्समादेष्टुमर्हति ॥ ६.४२ ॥
इति तै र्प्रार्थितं धर्म्मश्री मित्रः ससुधीरपि ।
द्वादशाक्षर गुह्यार्थं विशुद्धिं न समादिशत् ॥ ६.४३ ॥
तं विशुद्धा नभिज्ञाता विषण्णात्मा स उत्थितः ।
ध्यानागारं समासीनो ध्यात्वैवं समचिन्तयन् ॥ ६.४४ ॥
नैतदक्षरं गुह्यार्थं विशुद्धिर्ज्ञायते मया ।
तत्कथमुपदेक्ष्यामि हाहा कुत्र भ्रमेयहि ॥ ६.४५ ॥
इति चिन्ता विषर्ण्णोऽत्मा लज्जा संमोहिताशयः ।
स्मृत्वा रत्नत्रयं ध्यात्वा तस्थौ धैर्यसमाहितः ॥ ६.४६ ॥
तत्क्षणे स त्रिरत्नानां स्मृति पुण्यानुभावतः ।
एवं मतिं महावीर्य महोत्साहिनिमाप्तवान् ॥ ६.४७ ॥
ततस्तत्मति शौण्डौऽसौः पुन ध्यात्वा समाहितः ।
मनसा सर्व लोकेषु विचारयन् व्यलोकयन् ॥ ६.४८ ॥
तदापश्यन्महाचीने उत्तरस्यां नगोत्तमे ।
मञ्जुश्रीयं महाभिज्ञं सर्व विद्याधिपेश्वरम् ॥ ६.४९ ॥
बोधिसत्त्वं महासत्त्वं सर्व धर्म्माधिपप्रभुम् ।
सर्व गुह्य विशुद्धार्थ विज्ञानज्ञानदायकम् ॥ ६.५० ॥
तं पश्यन्मनसा धर्म्मश्री मित्रः समुत्सुकः ।
सहसोत्थाय तान्संघान् सभामन्त्र्यैवमव्रवीत् ॥ ६.५१ ॥
भो भदन्तो गमिष्यामि महाचीने नगोत्तमे ।
मञ्जुश्रीयं महासत्त्वं द्रष्टुमिच्छामि सांप्रतम् ॥ ६.५२ ॥
एतस्या नामसंगीत्या गुह्य विशुद्धि विस्तरम् ।
पृष्टा सम्यक्विज्ञाय आगमिष्याम्यहं द्रुतम् ॥ ६.५३ ॥
यावन्नाहमिहायात स्तावत्सर्वे समाहिताः ।
त्रिरत्न भजनं कृत्वा तिष्ठत मा विषीदत ॥ ६.५४ ॥
इत्युक्त्वा स महाभिज्ञस्ततः संप्रस्थितो द्रुतम् ।
सञ्चरन्नत्र नेपालविषये समुपाययौ ॥ ६.५५ ॥
तमायातं यतिं नत्वा मञ्जुदेवः स सर्ववित् ।
स्वान्तिके समुपाद्रष्टुमेच्छतृद्धिं प्रदर्शयन् ॥ ६.५६ ॥
ततः मंजुदेवोऽपि भूत्वा कृषिकरः स्वयम् ।
शार्दूल मृगराजाभ्यां हलेनाकर्षयन्महीम् ॥ ६.५७ ॥
तं दृष्ट्वा दूरतो धर्म्मश्रीमित्रो अतिविस्मितः ।
किमेतत्महदाश्चर्यमितिद्रष्टुमुयाचरत् ॥ ६.५८ ॥
ततः समुपाश्रित्य दृष्ट्वा तन्महदद्भुतम् ।
कृषिकरं तमामन्त्र्यपप्रच्छैव व्यवलोकयन् ॥ ६.५९ ॥
भो साधो इतो देशान्महाचीन नगोक्तमः ।
पञ्चशीर्षः कियद्दूरे तदुपदेष्टुमर्हति ॥ ६.६० ॥
इति संप्रार्थितं तेन श्रुत्वा स हलवाहकः ।
सुचिरं तं यतिं पश्यन्सादरमेवमव्रवीत् ॥ ६.६१ ॥
यत्त्वं कुत इहायासि किमर्थमुक्तरापथे ।
महाचीनस्य दूरतो गन्तुं त्वं परिपृच्छ से ॥ ६.६२ ॥
अद्य प्रवर्तते सायं तद्विहारे ममाश्रमे ।
उषित्वा प्रात रुत्थाय गच्छ मद्देशितात्पथः ॥ ६.६३ ॥
इति तेनोदितं धर्मश्री मित्रो निशंम्य सः ।
तथेत्यनुमतं धृत्वा तूष्णीं भूत्वा व्यतिष्ठतः ॥ ६.६४ ॥
ततः संबोधितं भिक्षु मत्वा स हलवाहकः ।
तौ शार्दुल मृगेन्द्रो द्वौतत्रैवान्तव्यर्धापयेत् ॥ ६.६५ ॥
हलं तु सर्वलोकानां संप्रवोधन हेतुना ।
तत्रैवोच्च स्थल क्षेत्रे यूप वदवरोपयत् ॥ ६.६६ ॥
अद्यापि तत्महीस्थानं मञ्जुश्रीभूः प्रसिध्यते ।
सावाचेति प्रसिद्धा च यत्रावरोपितं हलम् ॥ ६.६७ ॥
ततस्तं यतिमाहुय सायं स हलवाहकः ।
तत्र प्रविश्य धर्मश्रीमित्र संप्रति विस्मितः ॥ ६.६८ ॥
ततो मूलफल स्कन्ध पत्रादि भोगमादरात् ।
दत्वा तस्मै स्वयं भुक्त्वा तस्थौ स हलवाहकः ॥ ६.६९ ॥
ततः स विविधां धर्म्मश्रीमित्रोरजनी कथाम् ।
भाषित्वा तं महाभिज्ञं कृषिकरं व्यनोदयन् ॥ ६.७० ॥
ततः स मञ्जुदेवस्तं यति छात्रालये निशि ।
प्रेषयित्वा स्वयं गह्वागारे शय्यां समाश्रयत् ॥ ६.७१ ॥
तत्र प्रविश्य धर्म्मश्री मित्र संप्रति विस्मितः ।
सुप्त्वाक्षणं समुत्थाय मनसैवं व्यचिन्तयत् ॥ ६.७२ ॥
नाद्यात्र शयनीयं यदयंपुमान्महर्द्धिकः ।
भार्याया सहसाकथ्यं किंकिं कुर्याद्विनोदयम् ॥ ६.७३ ॥
इति ध्यात्वा सधर्म्मश्रीमित्र यतिरुत्थितः ।
संवर निभृतं तस्य द्वारमूलमुपाश्रयेत् ॥ ६.७४ ॥
तत्क्षणे मञ्जुदेवं तं केशिनी सुप्रिया सती ।
शयासनसमासीना भर्क्तारमेवमव्रवीत् ॥ ६.७५ ॥
स्वामिन्कोऽयं यति र्धीमान्किमर्थमस्मदाश्रमे ।
इह कुतः समायात स्तत्समादेष्दुमर्हति ॥ ६.७६ ॥
इति संप्रार्थितं देव्या मञ्जुदेवो निशम्य सः ।
केशिनीं तां प्रियां भार्यां सम्पश्यन्नेवमव्रवीत् ॥ ६.७७ ॥
साधु शृणु प्रिये देवी यदर्थ यमिमिहागतः ।
तदर्थ हि महद्धेतुं वक्ष्यामि ते विचारयत् ॥ ६.७८ ॥
अयं भिक्षु महाभिज्ञो बोधिसत्त्वो महामतिः ।
विख्यातो यो महाधर्म्मश्रीमित्रोभिधो यति ॥ ६.७९ ॥
विक्रमशील आख्याते विहारे स निवासकः ।
नामसंगीति व्याख्यानं शिक्षेभ्यो विस्तरं व्यधात् ॥ ६.८० ॥
द्वादशाक्षर गुह्यार्थ विशुद्धि ज्ञान विस्तरम् ।
नाम सम्यगुपाख्यातुं शक्नोति न सुधीरपि ॥ ६.८१ ॥
तदायं च विषण्णात्माः ध्यानागारे समाश्रितः ।
ध्यात्वा लोकेषु सर्वत्र विलोक्यैवं व्यचिन्तयन् ॥ ६.८२ ॥
मञ्जुश्री रेव जानीयात्सर्व गुह्य विशुद्धिवित् ।
द्वादशाक्षर गुह्यार्थ विशुद्धिं समुपादिशत् ॥ ६.८३ ॥
इति ध्यात्वा समुत्थाय सर्वान् शिष्यान्स सांघिकान् ।
बोधयित्वा महोत्साहः वीर्येण प्रचारक्ततः ॥ ६.८४ ॥
उक्तरस्यां महाचीने पञ्चशीर्षेस्मदाश्रमे ।
गन्तुमनेन मार्ग्गेण चरन्नीह समागतः ॥ ६.८५ ॥
तमिह समयायातं दृष्ट्वा समृद्धिभावतः ।
बोधयित्वैवमाहुयोः नयामि स्वाश्रमेऽधुना ॥ ६.८६ ॥
इति भक्ता समादिष्टं श्रुत्वा सा केशिनी प्रिया ।
स्वामिनं तं समालोक्य पप्रच्छैवं समादरात् ॥ ६.८७ ॥
स्वामिनहं न जानामि शृणोमि न कदाचन ।
कथमेतद्विशुद्ध्यर्थं समुपादिश मेऽधुना ॥ ६.८८ ॥
इति संप्राथितं देव्या मञ्जुदेवो निशम्य सः ।
केशिनीं तां प्रियां भार्या सम्पश्यन्नेवमव्रवीत् ॥ ६.८९ ॥
साधु देवी तव प्रीत्या साम्प्रतमुपदिश्यते ।
एतदर्थ महागुह्यं गोपनीयं प्रयत्नतः ॥ ६.९० ॥
इत्युक्त्वा मञ्जुदेवोऽसौ तस्यै देव्यै यथाविधिः ।
द्वादशाक्षर गुह्यार्थं विशुद्धि समुपादिशत् ॥ ६.९१ ॥
एतत्सर्व समाख्यातं विस्तरं स महामतिः ।
धर्मश्रीमित्र आकर्ण्य प्रात्यनन्द प्रवोधितः ॥ ६.९२ ॥
तत समुदितो धर्म्मश्री मित्र उत्थिते मुदा ।
मञ्जुश्रीरयमेवेति निश्चयं समुपाययौ ॥ ६.९३ ॥
ततः ससुप्रसन्नात्मा द्वारमूले कृताञ्जलिः ।
अष्टांग प्रणतिं कृत्वा तस्थौ तद्गत मानसः ॥ ६.९४ ॥
ततः प्रातः समुत्थाय केशिनी मोक्षदायनी ।
द्वारकपारमुदधाटयः वहिर्गन्तुमुपाक्रमत् ॥ ६.९५ ॥
तत्र तं यतिमालोक्य द्वारमूले व्यवस्थितम् ।
भीता सा केशिनी देवी द्रुतमुपाचरत्प्रभोः ॥ ६.९६ ॥
तां प्रत्यागतां दृष्ट्वा मञ्जुदेवः स सर्ववित् ।
विभिन्नास्यां समालोक्य पप्रच्छैवमधीरवत् ॥ ६.९७ ॥
देवी किंद्वारमुध्याट्य सत्त्वरं त्वमुपागताः ।
दृष्ट्वा किं तत्र भीतासि तत्सत्यं वद मे पुरः ॥ ६.९८ ॥
इति पृष्टे जगच्छास्ता भर्क्ता सा केशिनी विरात् ।
स्वामिनं तं समालोक्य शनैरेवंन्यवेदयेत् ॥ ६.९९ ॥
स्वामिन्यति नमस्कृत्वा द्वारमूले निपातितः ।
जीवितो वा मृतौ वासौ मया न ज्ञायते खलु ॥ ६.१०० ॥
इत्युक्तं भार्यया श्रुत्वा मञ्जुदेवः स उत्थितः ।
उपेत्य द्वारमूले तं संददर्श निपातितम् ॥ ६.१०१ ॥
दृष्ट्वा स मञ्जुदेवस्तं यतिं ध्यात्वा जितेन्द्रियम् ।
हस्तं धृत्वा समुत्थाय संपश्यन्नेवव्रवीत् ॥ ६.१०२ ॥
यते किमर्थमत्रैवं द्वारं ध्यात्वावतिष्ठसि ।
तत्ममपुरतः सभ्यं वदय ते समाहितम् ॥ ६.१०३ ॥
इत्युक्त्वा मञ्जुदेवेंन धर्मश्रीमित्र उन्मनाः ।
मञ्जुश्रियन्तमष्टांगैनत्वैवं प्रार्थयन्मुदा ॥ ६.१०४ ॥
भगवन्नाथ सर्वज्ञ सर्वविद्याधिप प्रभो ।
भवत्पादाम्बुजे भक्त्या शरणे समुपाश्रये ॥ ६.१०५ ॥
भवानेव जगच्छास्ता मञ्जुश्रीर्भगवानपि ।
ज्ञायते दृश्यते ह्यत्र ज्ञानरत्ननिधि र्मया ॥ ६.१०६ ॥
तद्भवाह्नि विजानीते यदर्थेहमिहा व्रज ।
तत्मेभिवांच्छितं शास्ताः संपूरयितुमर्हति ॥ ६.१०७ ॥
इति संप्रार्थितं तेन मञ्जुदेव निशम्य स ।
विज्ञाय तं महाभिज्ञं संपश्यन्नेवमव्रवीत् ॥ ६.१०८ ॥
कथं विना अभिषेकं ते मन्त्रार्थमुपदेश्यते ॥ ६.१०९ ॥
तावदत्रभिषेक त्वं गृह्वाण्हेदं यदीच्छसि ।
इत्युक्तं मञ्जुदेवेन निशम्य स यतिः सुधीः ॥ ६.११० ॥
मञ्जुदेवं नमोस्तस्य साञ्जलिरेवमव्रवीत् ।
सर्वज्ञ भगवाञ्छास्ता निर्धनोऽहमकिंचनः ॥ ६.१११ ॥
किं दास्ये भवतं शास्त्रे दक्षिणां गुरु भक्तिमान् ।
इति तेनोदितं श्रुत्वाः मञ्जुदेवः ससन्मतिः ॥ ६.११२ ॥
संपश्यन्स्तेयती धर्मश्रीमित्रमेवमव्रवीत् ।
यतः किं धनसंपत्या श्रद्धा ते यदि विद्यते ॥ ६.११३ ॥
तुष्यन्ते गुरुवो भक्तिमात्रेणात्र धनेनतु ।
इत्युक्त्वा मञ्जुदेवेन धर्मश्रीमित्र उन्मताः ॥ ६.११४ ॥
अष्टांगेस्तं गुरुं नत्वा प्रार्थयदेवमादरात् ।
भगवन्यदि भक्त्यैव तुष्यतेऽत्र भवान्मम ॥ ६.११५ ॥
भवतां सुश्रूषामेष करोमि भक्तिमानहम् ।
इति मे कृपया शास्त अभिषेक यथाविधिः ॥ ६.११६ ॥
दत्वा द्वादश मन्त्रार्थं विशुद्धि दातुमर्हसि ।
इति संप्रार्थितं तेन मञ्जुदेवं स सर्ववित् ॥ ६.११७ ॥
भक्तिमन्त तमालोक्य पण्यमेवमभाषत ।
दास्यामि ते महाभाग भक्ति श्रद्धास्ति ते यदि ॥ ६.११८ ॥
अभिषेक प्रसन्नात्मा समादत्स्व समाहितः ।
ततःस मञ्जुदेवः श्री वज्राचार्य यथाविधि ॥ ६.११९ ॥
संस्थाप्य मण्डलं धर्मधातुवागीश्वराभिधम् ।
तन्मण्डलं समाराध्य समभ्यर्च्य यथाविधिम् ॥ ६.१२० ॥
अभिषेकं प्रसन्नाय तस्मै ददौ स वज्रधृक् ।
ततस्तान्मण्डले देवान् संदर्शयं यथाक्रमात् ॥ ६.१२१ ॥
पूजयित्वा यथाशक्ति शरणे समयोजयेत् ।
ततस्तस्मै प्रसन्नाय मञ्जुदेवो यथाविधि ॥ ६.१२२ ॥
द्वादशाक्षर गुह्यार्थ विशुद्धिसमुपादिशत् ।
ततो लब्धाभिषेकोऽसौ धर्मश्रीमित्र उत्मना ॥ ६.१२३ ॥
द्वादशभूमि गुह्यार्थ विशुद्धिज्ञानमाप्तवान् ।
तस्मै शास्त्रे सभार्याय स्वमात्मानं स दक्षिणाम् ॥ ६.१२४ ॥
संकल्प्य श्रद्धया भक्त्या नत्वैवं प्रार्थयन्मुदा ।
भगवन्नाथ सर्वज्ञ भवत्कृपा प्रसादतः ॥ ६.१२५ ॥
संप्राप्तपूर्ण संकल्पो भवामि श्रीगुणार्थभृत् ।
तत्सदाहं भवत्पादशरणे समुपाश्रितः ॥ ६.१२६ ॥
यथात्र भवादिष्टं तथैव संचरे भवे ।
तत्मेऽनुज्ञादि दत्वात्र संबोधिज्ञानसाधनम् ॥ ६.१२७ ॥
सर्वसत्त्व हितार्थेन चरेयं बोधिसंवरम् ।
इति संप्रार्थ्य धर्मश्री मित्र स समुपाश्रितः ॥ ६.१२८ ॥
श्रद्धाभक्ति प्रसन्नात्मा गुरुसेवा परोऽभवत् ।
ततः स मञ्जुदेवस्तं महासत्त्वं विचक्षणम् ॥ ६.१२९ ॥
मत्वा संबोधि चर्यायां नियोक्तुं संव्यनोदयन् ।
साधु साधु महाभागः संचरत्वं जगद्धिते ॥ ६.१३० ॥
संबोधि साधनं बोधिचर्या व्रत सदा भव ।
एतत्पुण्याभि लिप्तात्मा परिशुद्ध त्रिमण्डलाः ॥ ६.१३१ ॥
बोधिसत्त्वा महाभिज्ञा भवेः श्री सद्गुणाश्रयाः ।
ततस्त्वं बोधिसंभारं पूरयित्वा यथाक्रमम् ॥ ६.१३२ ॥
निःक्लेशो बोधिप्राप्तोऽहं सम्बुद्धपदमाप्नुयाः ।
इति मे शासनं धृत्वा स्मृत्वा ध्यात्वा समाहितः ॥ ६.१३३ ॥
त्रिरत्नं समुपाश्रित्य संचरस्व जगद्धिते ।
यदि जगद्धितं कर्तुं संबोधिं प्राप्नुमिच्छसि ॥ ६.१३४ ॥
सद्धर्मं समुपादिश्य सर्वान् लोकान् प्रवोधय ॥
ततस्तान् बोधितान् सर्वान् कमेन बोधिसाधनम् ॥ ६.१३५ ॥
बोधिमार्गे प्रतिष्ठाप्य चारयस्व जगद्धिते ।
ततस्तेषां समालोक्य चित्तं संबोधि निश्चितम् ॥ ६.१३६ ॥
त्रियानं समुपादिश्य परमार्थे नियोजये ।
एवं कृत्वा महद्धर्ममाशु सम्बोधिसाधनम् ॥ ६.१३७ ॥
भद्रश्री सद्गुणापन्नां समाप्नुया जगच्छुभे ।
तेनाशुः परिशुद्धात्मा सम्बुद्धपदमाप्तवान् ॥ ६.१३८ ॥
जगद्धर्म्ममयं कृत्वा जिनालयं समाप्नुयाः ।
इति भद्रव्रतं धृत्वा गत्वा त्वं स्वाश्रमे पुनः ॥ ६.१३९ ॥
व्याख्याय नाम संगीतिं सद्धर्म्मं संप्रचारये ।
अहमपि महासत्त्व श्रोतुं त्वद्धर्म्मदेशनाम् ॥ ६.१४० ॥
सांघिकांश्चापि तान्द्रुष्टुमायास्यामि तवाश्रमे ।
इति शास्ता समादिष्टं निशंम्य स महामतिः ॥ ६.१४१ ॥
धर्मश्री मित्र आलोक्यः तं गुरुमेवमव्रवीत् ।
महर्द्धिको भगवाञ्छास्त विज्ञास्य ते कथं मया ॥ ६.१४२ ॥
इति चिह्नं समाधाय तत्रागन्तुं समर्हति ।
इति तेनोदितं श्रुत्वा मञ्जुदेवः स सन्मति ॥ ६.१४३ ॥
धर्मश्री मित्रमालोक्यः पुनरेवमभाषत ।
वत्साहमुत्पलं धृत्वा समायास्यामि ते सभाम् ॥ ६.१४४ ॥
तेन चिह्नेन मां यात संजानीष्व समागतम् ।
इति सत्यं समाधाय धृत्वानुशासनं मम ॥ ६.१४५ ॥
सद्धर्म्म समुपादेष्टुं प्रवाहि तेस्तु मंगलम् ।
इति शास्ता समादिष्टं श्रुत्वा स यतिरुत्सुकः ॥ ६.१४६ ॥
शास्तारं तं समालोक्य प्रणत्वैवमभाषतः ।
प्रसीदतु भगवाञ्छास्ताः क्षन्तुमर्हति चागसम् ॥ ६.१४७ ॥
भवत्प्रसादतः सर्वे सिध्यते मे समीहितम् ।
तदनुशासनं धृत्वा भवतां तत्र जगद्धिते ॥ ६.१४८ ॥
व्याख्यातुं नामसंगीति संचरे साम्प्रतं गुरोः ।
इति संप्रार्थ्य धर्म्मश्री मित्र सः संप्रासादितः ॥ ६.१४९ ॥
शास्तुस्तस्य पदाम्भोजं नत्वा संप्रस्थितो ततः ।
मात्रोराचार्य याश्चापि मोक्षदा वरदाख्ययोः ॥ ६.१५० ॥
पादाम्वुजेषु संनत्वा संप्रस्थितः प्रमोदितः ।
ततः स सन्मति धर्म्मश्रीमित्रः सहसाव्रजन् ॥ ६.१५१ ॥
आशु स्वाश्रममासाद्य विहारं समुपाविशत् ।
तत्र तं यतिमायातं दृष्ट्वा सर्वेऽपि सांघिकाः ॥ ६.१५२ ॥
प्रणत्वा कुशलं पृष्टवा प्रवेशयन्निजालये ।
ततः परेद्युरामन्त्रय सर्वान्संघान्स सन्मतिः ॥ ६.१५३ ॥
व्याख्यातुं नामसंगीति सभासनं समाश्रयत् ।
तं सभासनमासीनं दृष्ट्वा सर्वेऽपि सांधिकाः ॥ ६.१५४ ॥
दिव्ज भूपादयश्चापि सर्वे लोकाः समागताः ।
तत्र सर्वेऽपि ते लोकाः प्रणत्वा तं यति क्रमात् ॥ ६.१५५ ॥
परिवृत्य पुरस्कृत्य समन्तत उपाश्रयत् ।
तान् सर्वान्समुपासीनान् दृष्ट्वा स यतिरात्मवित् ॥ ६.१५६ ॥
व्याख्याय नामसंगीतिं स विशुद्धि समादिशत् ।
तदा तत्र मनस्तस्य जिज्ञासितुं स मञ्जुवाक् ॥ ६.१५७ ॥
धृत्वोत्पलं विनिद्यांगः कुचीवरमुपाचरत् ।
तत्र स मक्षिकान् काये उत्पलेन निवारयन् ॥ ६.१५८ ॥
समागत्य सभैकान्ते पश्यल्लोकानुपाश्रयेत् ।
समाश्रितं स धर्म्मश्रीमित्रो दृष्ट्वात्मना गुरुम् ॥ ६.१५९ ॥
उत्पलेन परिज्ञाय मनसैवं व्यचिन्तयत् ।
अहो नूनमयं शास्ता मनो जिज्ञासितुं मम ॥ ६.१६० ॥
कुचरा दुर्भगाकारो धृत्वोत्पलमिहागतः ।
तत्कथमहमुत्थाय प्रत्युङ्गम्य न मेय हि ॥ ६.१६१ ॥
अथ पश्यन्नमस्कारं नकुर्याः गुरवे कथम् ।
यद्यत्राहं समुत्थाय न मेयमेनमादरात् ॥ ६.१६२ ॥
दृष्ट्वा लोका इमे मां धिक्कुर्युः सर्वे विचारतः ।
एते न ज्ञायते यं हि मञ्जुश्री ऋद्धिमानपि ॥ ६.१६३ ॥
ईदृगेवास्य शास्ता यं मिति मे स्याद्विहास्यताम् ।
इति ध्यात्वा स धर्म्मश्रीमित्रो लज्जाभिमोहितः ॥ ६.१६४ ॥
मनसैवं नमस्कृत्वा शास्तारन्तममानयेत् ।
ततः स विमुखी भूय पश्यन्नप्य विभावितः ॥ ६.१६५ ॥
अज्ञात वान्निवापश्यन् पदमात्रमुपादिशत् ।
ततः सर्वेऽपि ते लोकाः श्रुत्वा तत्सद्धर्म्मदेशनाम् ॥ ६.१६६ ॥
उत्थाय तं यतिं नत्वा स्वस्वालयमुपाचरन् ।
तत लोके गते धर्म्मश्री मित्रः स समुत्थितः ॥ ६.१६७ ॥
शास्तारं तं समालोक्य वन्दितुं समुपाचरत् ।
तं दृष्ट्वा मञ्जुदेवोऽसौ वन्दितुं समुपागतम् ॥ ६.१६८ ॥
अपश्यन् विमुखी भूय ततः संप्रस्थितोऽचरत् ।
तं दृष्ट्वा विमुखी भूत धर्म्मश्री मित्र आत्मनः ॥ ६.१६९ ॥
अपराध महत्पापमनुस्मृत्वापतद्भुवि ।
निपतन्तं तमालोक्य मञ्जुश्रीः स कृपानिधिः ॥ ६.१७० ॥
सहसा पाणिना धृत्वा समुत्थाय तथाचरत् ।
तत्र स उत्थितो धर्म्मश्री मित्रस्तं महामतिम् ॥ ६.१७१ ॥
प्रचरन्तं समालोक्य नत्वाहैवं मृषा पुनः ।
भगवन्न मया दृष्टो भवानत्र समागतः ॥ ६.१७२ ॥
पश्चादुत्पलचिह्नेन ज्ञायतेऽत्र समाश्रितः ।
इत्युक्त्वा स मृषावादं साञ्जलिस्तस्य सङ्गुरोः ॥ ६.१७३ ॥
मञ्जुदेवस्य पादाब्जे प्रणनाम रुदन् पुनः ।
तत्र तस्य मृषा वक्तुं रुभेऽपि नयने मुखात् ॥ ६.१७४ ॥
शास्तुः पादाब्जयो रग्रे निपेतंतु महीतले ।
तत्पतित स धर्म्मश्रीमित्रो विहतमानसः ॥ ६.१७५ ॥
चिराद्रुदं समुत्थायः शास्तारमेवमव्रवीत् ।
भगवन् यत्मयाज्ञानादपराधं कृतं गुरौ ॥ ६.१७६ ॥
भवति तद्भवाञ्छास्ता क्षन्तुंमर्हति दुर्मतेः ।
इति संप्रार्थितं तेन मञ्जुश्रीः स कृपानिधिः ॥ ६.१७७ ॥
विचक्षुष्कं तमालोक्यः कृपादृशैवमव्रवीत् ।
यदभिलज्जया कर्म्म ज्ञात्वापि दुष्कृतं त्वया ॥ ६.१७८ ॥
तस्येदं फलमासाद्य भोक्त अन्यंमेव भुज्यते ।
तथापि ज्ञान दृष्ट्वा त्वं सम्पश्य द्दृष्टिमान् यथा ॥ ६.१७९ ॥
ज्ञानं हि तेऽस्ति यत्तेन ज्ञानश्री मित्र उच्यसे ।
इत्युक्त्यैव स मञ्जुश्रीः क्षणादन्तर्हित स्ततः ॥ ६.१८० ॥
आकाशात्पक्षिवद्गत्वा स्वाश्रमे समुपाययौ ।
अत्रैतत्सर्ववृत्तान्तं भार्ययोः पुरतोर्मुदा ॥ ६.१८१ ॥
समाख्याय स मञ्जुश्री स्तस्थौ लोकहितार्थभृत् ।
ततः प्रभृतिस ज्ञानश्रीमित्रो ज्ञानचक्षुषा ॥ ६.१८२ ॥
पश्यन् सद्धर्म्ममाख्याय प्राचरच्च जगद्धिते ।
तदा मैत्रेय तेनास्य धर्मधातोः स्वयंभुवः ॥ ६.१८३ ॥
अभुत्प्रसिद्धितं धर्मधातुं वागीश्वराभिधम् ।
इति मत्वात्र ये धर्मधातु वागीश्वर नराः ॥ ६.१८४ ॥
श्रद्धया विधिनाभ्यर्च्य भजन्ति शरणाश्रिताः ।
अभिषेकं च संप्राप्य बोधिचित्ता समाहिताः ॥ ६.१८५ ॥
सद्धर्म्म धारणी विद्यामन्त्राणि धारयन्ति ये ।
ते सर्वे विमलात्मानः परिशुद्ध त्रिमण्डलाः ॥ ६.१८६ ॥
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ।
भद्रश्री सद्गुणाधाराः सर्व विद्या विचक्षणाः ॥ ६.१८७ ॥
ऋद्धि सिद्धि महाभिज्ञा भवेयुर्भद्रचारिणः ।
आशुः सम्बोधि संभारं पूरयित्वा यथाक्रमम् ॥ ६.१८८ ॥
अर्हन्तस्त्रिविधां बोधिं प्राप्य यायु जिंनालयम् ॥ ६.१८९ ॥
इति मत्वाभिवाछन्ति प्राप्तुं ये सौगतं पदम् ।
तेऽत्र बौद्धालये धर्म्मधातु वागीश्वरे सदा ॥ ६.१९० ॥
श्रद्धया भजनं कृत्वा प्राप्याभिषेकमादरात् ।
सधर्म्मधारणी विद्यामन्त्र साधारतत्पराः ॥ ६.१९१ ॥
यथाविधि समभ्यर्च्य संबोधि निहिताश्रयाः ।
बोधिचर्या व्रतं धृत्वा संचरते जगद्धिते ॥ ६.१९२ ॥
आशु ते विमलात्मानः परिशुद्ध त्रिमण्डलाः ।
बोधिसत्त्व महासत्त्वश्चतुर्ब्रह्म विहारिणः ॥ ६.१९३ ॥
भद्रश्री सद्गुणाधाराः सर्वविद्या विचक्षणाः ।
ऋद्धिसिद्धि महाभिज्ञा भवेयु भर्द्रचारिणः ॥ ६.१९४ ॥
ततः संबोधिसंभारं पूरयित्वा द्रुतं क्रमात् ।
अर्हन्तम्त्रिविधां बोधिं प्राप्य यास्यथ निवृतिम् ॥ ६.१९५ ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे तथेति विज्ञाय प्राभ्यनन्दन् प्रवोधिताः ॥ ६.१९६ ॥

इतिश्री स्वयंभू धर्म्मधातु वागीश्वराभिधान प्रसिद्ध प्रवर्तनो नाम षष्ठोऽध्यायः ।


सप्तम अध्यायः स्वयम्भूधर्मधातुवागीश्वरगुतिकृतप्रवर्तनो नाम

अथ भूयः स मैत्रेयो बोधिसत्त्वो महामतिः ।
भगवन्त त मानस्य साञ्जलिरेवमव्रवीत् ॥ ७.१ ॥
भगवच्छिलयाछाद्य धर्म्मधातुमिमं कदा ।
केनैव हेतुना स्तूपं को व्यधादीष्टिकामयम् ॥ ७.२ ॥
भगवन्तत्समालोक्य सर्व्वाल्लोकान्सकौतुकान् ।
एतद्धेतु समादिश्य विनोदयितुमर्हति ॥ ७.३ ॥
इति संप्रार्थितं तेन मैत्रेयेन मुनीश्वरः ।
भगवान्स महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ७.४ ॥
शृणु मैत्रेय येनायं गुप्तिकृतो प्रकाशने ।
एतद्धेतुं समाख्यासि सर्वे लोकाभिबोधने ॥ ७.५ ॥
तद्यथा निवृतिं याते संबुद्धे कनकमुनौ ।
विंशति वर्ष साहस्र नृर्णामायु यदा भवेत् ॥ ७.६ ॥
तदाभू भगवांञ्छास्ता धर्म्मराजो मुनीश्वरः ।
सर्वज्ञोऽर्हमहाभिज्ञः काश्यपाख्यस्तथागतः ॥ ७.७ ॥
स संबुद्धो महापुर्या वाराणस्यामुपाश्रमे ।
मृगदावे जिनावासे विजहार ससांधिकः ॥ ७.८ ॥
तदा संबोधिसत्त्वोऽहं ज्योतिराजा भिधःकिल ।
काश्यपस्य जगच्छाम्तुः शरणस्थ उपासकः ॥ ७.९ ॥
यदा स काश्यपः शास्ता सर्वत्रैधातुकाधिपः ।
सद्धर्म्मं समुपादेष्टुं सभासने समाश्रयेत् ॥ ७.१० ॥
तत्सद्धर्म्मामृतं पातुं सर्वे लोकाः समागताः ।
ब्रह्मशक्रादयो देवाः सर्वे लोकाधिपा अपि ॥ ७.११ ॥
ग्रहास्तारागणश्चापि विद्याधराश्चसाप्सराः ।
सिद्धासाध्याश्च रुद्राश्च यक्ष गुह्यक किन्नराः ॥ ७.१२ ॥
कुम्भाण्डा राक्षसाश्चापि नागाश्च गरुडा अपि ।
ऋषयस्तापसाश्चापि तीर्थिका ब्रह्मचारिणः ॥ ७.१३ ॥
यतयो योगिनश्चापि तथान्येचाप्युपासकाः ।
ब्राह्मणा क्षत्रियाश्चापि राजानोपि महीभृतः ॥ ७.१४ ॥
वैश्याश्च मन्त्रिणोऽमात्या भृत्या सैन्याधिपागणा अपिः ।
शिल्पिनो वणिजश्चापि सार्थवाहो महाजनाः ॥ ७.१५ ॥
पौरा जानपदा ग्राम्यानैगमाः पार्वता अपि ।
तथोन्य देशिका लोका अपि सर्व्वे समागताः ॥ ७.१६ ॥
तत्र सभासनासीनं संबुद्ध स्तं मुनीश्वरम् ।
भगवन्तं समालोक्य सर्वे संघाः समाययुः ॥ ७.१७ ॥
भिक्षवः श्रावकाः सर्वे यतयो योगिनोऽपिः ।
चैलकाव्रतिनश्चापि सर्वे उपासका अपि ॥ ७.१८ ॥
भिक्षुण्योपि तथा सर्वाश्चैलिकाः व्रतिण्यः ।
श्राविकाश्चापिः तथान्याः समुपागताः ॥ ७.१९ ॥
बोधिसत्त्वा महासत्त्वा ऋषयो ब्रह्मचारिणः ।
तीर्थिका वैष्णवाः शैवार्निर्गन्थाश्च तपस्विनः ॥ ७.२० ॥
तथान्येऽपि समायाताः सद्धर्मगुणलालसाः ।
सर्वेऽपि ते मुनीन्द्र स्तं दृष्ट्वा ययौ प्रमोदिताः ॥ ७.२१ ॥
तत्र सर्वेऽपि ते लोकास्तं मुनीन्द्रं यथाक्रमम् ।
अभ्यर्च्य विधिना नत्वा तत्सभायामुपाश्रयन् ॥ ७.२२ ॥
तत्र सर्वेऽपि ते लोकाः परिवृत्य समन्ततः ।
पुरस्कृत्य मुनीन्द्रन्तं संपश्यन्तः समाहिताः ॥ ७.२३ ॥
तत्सद्धर्म्मामृतं पातुं तृषार्त्ता इव सागरम् ।
साञ्जलयः प्रसन्नास्याः समातस्थु यथाक्रमम् ॥ ७.२४ ॥
तांलोकान्समुपासीनान्सर्वान्सघान्सुरानपि ।
सर्वाल्लोकाधिपांश्चापि दृष्ट्वा स भगवाञ्जिनः ॥ ७.२५ ॥
आर्यसत्यं समारभ्य संबोधि ज्ञानसाधनम् ।
आदि मध्यान्त कल्याणं सद्धर्म्म समुपादिशत् ॥ ७.२६ ॥
तत्सद्धर्म्मामृतं पीत्वा सर्वेऽलोकाः प्रवोधिताः ।
सदा भद्रसुखं प्राप्नु समीच्छिरे सुसंवरम् ॥ ७.२७ ॥
ततः सर्वेऽपि ते लोकाः संबुद्ध गुणवाञ्छिनः ।
बोधिचर्या व्रतं धृत्वा संचरिरे सदा शुभे ॥ ७.२८ ॥
तदा सर्वाणि कार्याणि कृत्वा वज्री स योगवित् ।
मञ्जुदेवः स भार्यान्ते स्वयं निर्वृतिमाययौ ॥ ७.२९ ॥
ततो गत्वा महाचीने स मञ्जुश्री जिनाश्रमेम् ।
स्वदिव्यवपुराधाय तंस्थौ भार्या समन्वितः ॥ ७.३० ॥
अत्र तेषां शरीराणि शिष्याः सर्वेऽपि पावके ।
संस्कृत्य विधिनास्थीनि गृहित्वा समशोधयन् ॥ ७.३१ ॥
ततस्तेऽत्र तदस्थीनिगर्व्यस्थाप्य यथाविधि ।
चैत्यं कृत्वा प्रतिस्थाप्य समभ्यर्च्य सदाभजन ॥ ७.३२ ॥
येयीदं चैत्यमभ्यर्च्य भजन्ति श्रद्धया सदा ।
ते तस्य मञ्जुदेवस्य सद्धर्म्मगुणमाप्नुयुः ॥ ७.३३ ॥
मत्वैवं येभिवाञ्छन्ति मञ्जुश्री धर्म्मसद्गुणम् ।
अत्र मञ्जुश्री यश्चैत्य सर्वदा प्रभजन्तु ते ॥ ७.३४ ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाजनाः ।
सर्वे तथेति श्रुत्व प्रात्यनन्दत्प्रवोधिताः ॥ ७.३५ ॥
अथासौ भगवान् भूयः शाक्यसिंहो मुनीश्वरः ।
मैत्रेय स्तं सभांचापि समालोक्यैवमादिशत् ॥ ७.३६ ॥
तत श्चिराङ्गते काले गौडराष्ट्रे नराधिपः ।
अभूत्प्रचण्ड देवाख्यः श्रीमान् वज्रधरांशजः ॥ ७.३७ ॥
स राजा सुचिरं राज्यं नीतिधर्म्मेण पालयन् ।
सर्वाल्लोकाञ्छुभे धर्मे नियुज्य समचारयत् ॥ ७.३८ ॥
एतद्धर्म्मानुभावेन सदा तत्र समन्ततः ।
सुभिक्षं मंगलोत्साहं निरुत्पातनवर्क्तत ॥ ७.३९ ॥
तदा सर्वेऽपि ते लोकाः सद्धर्मगुणलालसाः ।
कुलधर्म समाचारा दानशीलव्रतारताः ॥ ७.४० ॥
सत्यसंघा निकाधीराश्चतुर्ब्रह्मविहारिणः ।
कुलेशभजनं कृत्वा प्राचरन्त मिथो हिते ॥ ७.४१ ॥
दृष्ट्वा स नृपती राजा सर्वाल्लोकाञ्छुभार्थिनः ।
मुदितस्तान्समामन्त्रय सम्पश्यन्नेवमादिशत् ॥ ७.४२ ॥
भो लोकाः पौरिकाः सर्वे सद्धर्म यदि वाञ्छथ ।
त्रिरत्न भजनं कृत्वा चरत बोधिसम्वरम् ॥ ७.४३ ॥
तेन यूयं शुभात्मानः परिशुद्धत्रिमण्डलाः ।
बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ ७.४४ ॥
ततस्ते निर्मलात्मानो निःक्लेशो विमलेन्द्रियाः ।
अर्हन्ता बोधिमासाद्य सम्बुद्धपदमाप्स्यथः ॥ ७.४५ ॥
इत्यादिष्टं नरेन्द्रेण सर्वे लोका निशंम्यते ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्प्रवोधिताः ॥ ७.४६ ॥
ततः सर्वेऽपि ते लोका धृत्वा राज्ञानुशासनम् ।
त्रिरत्नभजनं कृत्वा प्राचरन्त शुभाचरिम् ॥ ७.४७ ॥
दृष्ट्वा तान्सकलाल्लोकान् बोधिचर्या व्रतारतान् ।
महानन्द प्रसन्नात्मा पुनरेव व्यचिन्तयन् ॥ ७.४८ ॥
सफलं जीवितं जन्म ममयेच्छासनारताः ।
सर्वेऽलोकाः समाधाय प्रचरन्ति सदा शुभे ॥ ७.४९ ॥
अथ प्रचण्डदेवौऽसौ दृष्ट्वा राज्यं महोत्सवम् ।
संसारेऽनर्थ संदृष्ट्वा चिन्तयामास सात्मवत् ॥ ७.५० ॥
अत्राहं जलसांक्रान्तोऽनु नस्यां जिर्ण्णितेन्द्रियः ।
तदारोगाभिभूतोऽपि व्रजेयंमणं ध्रुवम् ॥ ७.५१ ॥
तदत्रैव कियत्कालं तिष्ठेयं सन्सुखान्वितः ।
अवश्यं भाविनो भावा भवन्ति भवचारिणाम् ॥ ७.५२ ॥
सदा भवे भवेद्भद्रमेव सद्धर्म्मचारिणाम् ।
दुःखमेव सदा कामचारिणां भवचारणे ॥ ७.५३ ॥
तस्मादहं परित्यज्य कामाश्रय गृहाश्रमम् ।
निर्जने वन एकाकी विहरेयं समाहितः ॥ ७.५४ ॥
स्मृत्वा रत्नत्रयं ध्यात्वा संबोधिनिहिताशयः ।
बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥ ७.५५ ॥
इति निश्चित्य स प्राज्ञः प्रचण्डदेव आत्मवित् ।
नृपतिमन्त्रिणः सर्वान्समामन्त्र्यैवमादिशत् ॥ ७.५६ ॥
भो सर्व मन्त्रिणो यूयं शृणुध्वं मे वचो हितम् ।
अथ मयाख्यातं तथा चरितुमर्हथ ॥ ७.५७ ॥
तद्यथा जरासाक्रान्तो वृद्धोस्यां जीर्णितेन्द्रियः ।
तथा रोगाभिभूतोऽपि ग्रसिष्ये मृत्युना ध्रुवम् ॥ ७.५८ ॥
इति मे त्रस्यते चित्तं दुर्गति भयशंकितम् ।
अवश्यं भाविनो भावा भवचारिणाम् ॥ ७.५९ ॥
भवे भवेत्सदा भद्रमेव सद्धर्मचारिणाम् ।
दुःखमेव सदाकामचारिणां भवचारिणे ॥ ७.६० ॥
अनर्थराज्यं विषयोपभोग्यं भयंकरं सर्पभयाकुलं यत् ।
अनित्यमसारेति विचिन्त्य तत्र आगारमध्यावसितुं न रोचते ॥ ७.६१ ॥
इति मत्वाहमुत्सृज्य कामाश्रयं गृहाश्रमम् ।
वनाश्रमे शुभारामे विहर्तुमुत्सहेऽधुना ॥ ७.६२ ॥
तदहं स्वात्मजं पुत्रं शक्तिदेवं नृपासने ।
प्रतिष्ठाप्य नृपं कर्तुमिच्छामि सांप्रतं खलु ॥ ७.६३ ॥
तद्भवन्तो निशम्यात्र सर्वेऽपि मम शासनम् ।
अभिषिंच्य नृपं कृत्वा भजतैनं ममात्मजम् ॥ ७.६४ ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः ।
प्रमाणं शासनं भर्तुरित्येवं प्रतिशुश्रुवः ॥ ७.६५ ॥
तदा स राजा पुत्रं शक्तिदेवमामन्त्रयैवमाह ।
भेदो दण्डः सामदानमित्यत्युपायचतुष्टयम् ॥ ७.६६ ॥
अत्राहं जरसाभिक्रान्तं नूनं स्याद्निर्जितेन्द्रियम् ।
तदा रोगाभिभूतेऽपि वज्रेयं मरणं धुवम् ॥ ७.६७ ॥
तद्वनाश्रयमिच्छामि श्रेयः श्लाघेन यत्मना ।
पुरो मृत्यु रिपुं हन्ति गृहसंरक्तमेव वा ॥ ७.६८ ॥
तस्मात्संसारभीतो मे वहुधा भयशंकया ।
नात्र स्थातुं मनोरेमे गच्छामि निर्जनं वनम् ॥ ७.६९ ॥
तस्मात्मया यथा प्रोक्तं तथा चरितुमर्हसि ।
प्रजानां पालनं कृत्वा धर्मनीत्या समाचर ॥ ७.७० ॥
लोकान्मा खेख यत्तापैः कुलधर्म्म समाचर ।
परेष्वपि दयायुक्तैर्दानं हि श्रद्धया कुरु ॥ ७.७१ ॥
प्राणातिपातादत्तादान काममिथ्यादिं मा कुरु ।
मा मृषावाद पैशून्यं पारुष्यं संभिन्नमेव च ॥ ७.७२ ॥
माभिध्या व्यापाददोषैर्मिथ्यादृष्ट्यादि संत्यज ।
एतानि तानि सर्वाणि धारय दृढचेतसा ॥ ७.७३ ॥
पापानां मूल एषो हि सुगतेनेति देशितः ।
इत्थं कृतेऽपि नृपतेरितयो न भविष्यति ॥ ७.७४ ॥
तत्कस्मात्धर्म्मेण प्राप्यते राज्यं धर्म्मेण धनवर्द्धनम् ।
धर्म्मेण धनसाध्यन्ते धर्म्मेण काम सिध्यते ॥ ७.७५ ॥
कामसिध्येन मोक्षं च प्राप्यते नात्र संशयः ।
अनेन ज्ञानमार्गेण सशास नृपतिः सुतम् ॥ ७.७६ ॥
ततःस जनको राजा शक्तिदेवं ममात्मजम् ।
अभिषिंच्य प्रतिस्थाप्य नृपासने नृपं व्यधात् ॥ ७.७७ ॥
ज्ञानांकुशभयेनैव कुंचितः सगजो यथानिव ।
तत्र स जनकः सर्व पुत्राय सर्वमर्प्पयेत् ॥ ७.७८ ॥
त्यक्त्वा परिग्रहान् सर्वान् पुनरेवमभाषत ।
अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुम् ॥ ७.७९ ॥
सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ।
नमाम पितरं तेन श्रुत्वा वाक्यं रसानिव ॥ ७.८० ॥
धृत्वाज्ञां ते यथा तात प्रजानां प्रतिपालने ।
इति प्रशाश्य ततो भूपः प्रचण्डदेव सन्मतिः ॥ ७.८१ ॥
प्रबोध्य पुत्रपत्न्यादिमेको ययौ वनाश्रमे ।
तृणासनस तत्र स निर्जनेरण्ये विविक्ते उतजाश्रये ॥ ७.८२ ॥
तृणासनसमासीन तस्थौ ध्यान समाहितः ।
तत्रैकं विहरन् कंचित्कालं स ऋषिधर्म्मभृत् ॥ ७.८३ ॥
सर्वसत्त्वहितोत्साही मनसैवं व्यचिन्तयत् ।
किमेवं निर्ज्जनेऽरण्ये ध्यात्वैको विहरन्निह ॥ ७.८४ ॥
कस्मै समुपदेक्ष्यामि सद्धर्म्म बोधिसाधनम् ।
दानशीलक्षमावीर्यध्यानप्रज्ञासमुद्भवम् ॥ ७.८५ ॥
पुण्यं सत्त्वहितार्थाय समाख्यातं मुनीश्वरैः ।
तदेवं निर्ज्जने स्थित्वा किं मे धर्मार्थसाधनम् ॥ ७.८६ ॥
विना सत्त्वहितार्थेन निरर्थ तपसापि हि ।
किमत्र दुष्करेणापि तपसा सिद्धिसाधनम् ॥ ७.८७ ॥
केवलं सद्गतौ श्रीमत्सौख्यलाभार्थमेव यत् ।
विना सत्त्वहितार्थेन निष्फलं सिद्धिसाधनम् ॥ ७.८८ ॥
तदत्र निर्ज्जने स्थित्वा तपसा निष्फलं मम ।
यत्सत्त्वानां हितार्थाय धर्म्मश्रीगुणसाधनम् ॥ ७.८९ ॥
विद्यासिद्धिः समृद्धिश्च क्षणं वीर्यबलं शुभम् ।
तत्ममैतानि सर्वाणि संसिद्धि संमितान्यपि ॥ ७.९० ॥
विना सत्त्वहितार्थेन निरर्थानि पशोरिव ।
तदिदं व्रतमृसृज्य दुष्करं बोधिमानसः ॥ ७.९१ ॥
बोधिचर्याव्रतं धृत्वा चरेऽहं जगद्धिते ।
तस्मात्तीर्थेषु तीर्थेषु पीठेषु पुण्यभूमिषु ॥ ७.९२ ॥
सद्धर्म्मदेशनां कुर्वन् सत्त्वेभ्यः प्रचराण्यहम् ।
एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ ७.९३ ॥
आशु बोधिं समासाद्य संबुद्धपद माप्नुयाम् ।
इति निश्चित्य स प्राज्ञः प्रचण्डदेव उत्थितः ॥ ७.९४ ॥
ततः सत्त्वहितार्थेन प्रचचार समाहितः ।
एवं सः प्रचरन् धर्म्ममुपदेश्य समन्ततः ॥ ७.९५ ॥
पुण्यक्षेत्रेषु तीर्थेषु पीठेषु प्राग्रमन्मुदा ।
एवं भ्रमन् स सर्वत्र भूतलेषु यथाक्रमम् ॥ ७.९६ ॥
क्रमेण संचरन्नत्र हिमालये समाययौ ।
अत्रायातः स संविक्ष्य सर्वत्र संप्रमोदितः ॥ ७.९७ ॥
अहो हीदं महापीठमितिप्रोक्ताभ्यनन्दत ।
ततः स इदमालोक्य धर्म्मधातुं जिनालयम् ॥ ७.९८ ॥
ज्योतिरूप्यं प्रसन्नात्मा प्रणत्वैह समाययौ ।
अत्र स समुपागत्य संमिक्ष्येनं जिनालयम् ॥ ७.९९ ॥
यथाविधि समभ्यर्च्य श्रद्धाभक्ति प्रसन्नधीः ।
नैकप्रदक्षिणीकृत्य स्तुत्वा गीतैर्मनोहरैः ॥ ७.१०० ॥
अष्टांगै प्रणतिं कृत्वा ध्यात्वा जप्त्वा भजन्मुदा ।
ततश्चेदं स संवीक्ष्य मञ्जुदेवस्य निर्म्मितम् ॥ ७.१०१ ॥
चैत्यमभ्यर्च्य संस्तुत्वा गीतैर्नत्वा भजन्मुदा ।
ततोऽसौ च महादेवी योनिरूपां खगाननाम् ॥ ७.१०२ ॥
समालोक्य प्रसन्नात्मा यथाविधि समर्च्चयेत् ।
तत्रापि स महासत्त्व स्तुत्वा गीतैर्मनोहरैः ॥ ७.१०३ ॥
अष्टाङ्गैः प्रणतिं कृत्वा प्रदक्षिणात्यनेकशः ।
श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा समाहितः ॥ ७.१०४ ॥
तद्विद्या धारणीमन्त्रं जपित्वा प्राभ्यनन्दत ।
ततोऽसौ च महासत्त्वो वाग्मतीप्रमुखान्यपि ॥ ७.१०५ ॥
तीर्थान्येतानि सर्वाणि स समीक्ष्य प्राभ्यनन्दत ।
तत स तेषु तीर्थेषु सर्वेष्वपि यथाक्रमम् ॥ ७.१०६ ॥
स्नात्वा दानव्रतादीनि कृत्वा भजन् प्रमोदितः ।
ततोऽष्टौ वीतरागांश्च दृष्ट्वा स संप्रहर्षितः ॥ ७.१०७ ॥
यथाविधि समभ्यर्च्य स्तुत्वा नत्वा भजन् क्रमात् ।
ततः प्रचण्डदेवः स बोधिसत्त्वः प्रसादितः ॥ ७.१०८ ॥
अत्रैव सर्वदाश्रित्य व्रतं चरितुमैच्छत ।
ततः स विमलालोक्य हिमालये समन्ततः ॥ ७.१०९ ॥
सद्धर्म परमानन्दं भुक्त्वोत्सहे सुनिवृत्तौ ।
ततः स मञ्जुदेवस्य शिष्यं शासन सम्भृतम् ॥ ७.११० ॥
सद्गुरुं समुपाश्रित्य प्रार्थयदेवमानतः ।
भदन्तात्र पुण्यक्षेत्रे महापीठे हिमालये ॥ ७.१११ ॥
प्रब्रज्यासम्बरं धृत्वा संस्थातुमुत्सहे सदाः ।
तद्भवान् कृपया महयं संबोधिज्ञानसाधनम् ॥ ७.११२ ॥
प्रब्रज्यासम्वरं दातुं समर्हति जगद्धिते ।
इति संप्रार्थितं तेन निशम्य स गुणाकरः ॥ ७.११३ ॥
बोधिसत्त्वं सुविज्ञं तं सम्पश्यन्नेवमब्रवीत् ।
एहि भद्र समीच्छा ते यद्यस्ति बौद्धसम्बरे ॥ ७.११४ ॥
प्रवज्या व्रतमाधाय संचरस्व समाहितः ।
इत्युक्त्वा स महाभिज्ञः प्रव्रजितं विधाय तम् ॥ ७.११५ ॥
बोधिचर्याव्रतं दत्वा प्रचारयेज्जगद्धिते ।
तत्र स मुण्डितपात्री सुरक्त चीवरावृतः ॥ ७.११६ ॥
ब्रह्मचारी यतिर्भिक्षुनिः क्लेशोर्हन् सुधीरभूत् ॥
शान्तश्रीभिक्षुरिति नामोऽभूत् ।
ततः स सर्वविच्छास्ता बोधिसत्त्वा हितार्थदिक् ॥ ७.११७ ॥
स देवासुरलोकानामपि वन्द्यार्चितोऽभवत् ।
तदारभ्य स शान्तश्रीधर्मधातो जिनालये ॥ ७.११८ ॥
त्रिरत्नभजनं कृत्वा तस्थौ बोधिव्रतं चरन् ।
स एकस्मिन् दिने चेमं ज्योतीरूपं प्रभास्वरम् ॥ ७.११९ ॥
रत्नपद्मासनासीनं पश्यन्नेवं व्यचिन्तयेत् ।
अहो ह्ययं स्वयं जातो ज्योतिरूपो प्रभास्वरः ॥ ७.१२० ॥
रत्नपद्मासनासीनः संतिष्ठते जगद्धिते ।
कियत्कालमयं श्रीमान् धर्म्मधातुर्जिनालयः ॥ ७.१२१ ॥
एवं संभाषयन् लोकान् संस्थास्यते जगद्धिते ।
यतः कलौ समया ते लोक पञ्चकषायिते ॥ ७.१२२ ॥
सर्वे लोका दुराचारा भविष्यन्ति दुराशयाः ।
मदाभिमानिनो दुष्टा लोभिनः कामचारिणः ॥ ७.१२३ ॥
ईर्ष्यालवः प्रमत्ताश्च मात्सर्यव्याकुलाशयाः ।
क्लेशाहंकारगर्वान्धा निर्विवेकाः प्रमादिनः ॥ ७.१२४ ॥
कामभोगातिसंरक्ता दशाकुशलचारिणः ।
तदा कथमयं श्रीमान् ज्योतीरूपः प्रभास्वरः ॥ ७.१२५ ॥
रत्नपद्मासनासीन एवं तिष्ठेज्जगद्धिते ।
नूनं ये लोभिनो दुष्टाः क्लेशव्याकुलमानसाः ॥ ७.१२६ ॥
इमं चैत्यं प्रतिक्षिप्य रत्नानि संहरेत्तदा ।
दुष्टा च तथान्येऽपि दुष्टाः क्लेशाभिमानिनः ॥ ७.१२७ ॥
ज्योतीरूपमिमं चैत्यं ध्वंसयिष्यन्ति सर्वथा ।
एवं तदा कलौ काले ध्वंसितेऽस्मिन् जिनालये ॥ ७.१२८ ॥
महापातकसंभूतं महोत्पातं भवेद्ध्रुवम् ।
इति हेतोरहं धर्मधातोरस्य सुरक्षणे ॥ ७.१२९ ॥
गुप्तिकर्त्तु शिलाछाद्य चैत्यं कुर्या महोछ्रयम् ।
तदा सर्वेऽपि लोकास्ते इमं स्तूपं महोछ्रितम् ॥ ७.१३० ॥
समीक्ष्य श्रद्धया भक्त्या भजिष्यन्ति प्रसादिताः ।
तदैतत्पुण्यभावेन सर्वदात्र समन्ततः ॥ ७.१३१ ॥
सुभिक्षं मङ्गलोत्साहं निरुत्पातं भवेद्ध्रुवम् ।
इति ध्यात्वा स शान्तश्रीः शास्तारं तं पुनर्मुदा ॥ ७.१३२ ॥
उपेत्य साञ्जलिर्नत्वा प्रार्थयदेवमादरात् ।
भदन्त सद्गुरोशास्तर्यदिच्छामिह साम्प्रतम् ॥ ७.१३३ ॥
धर्म्माधातुमिमं चैत्यं गुप्ति कर्त्तुं सुरक्षणे ।
तदूर्द्ध शिलयाछाद्य स्वीष्टिकाभिः समुछ्रितम् ॥ ७.१३४ ॥
स्तूपं कृत्वा प्रतिष्ठाप्य स्थिरीकर्त्तुं समुत्सहे ।
इत्यत्र मे भवाञ्छास्ता गुप्ति कृत्वाभिरक्षणे ॥ ७.१३५ ॥
धर्म्मधातोः जगद्भर्त्तुरनुज्ञां दातुमर्हति ।
इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः ॥ ७.१३६ ॥
महामतिर्महासत्त्वं तं पश्यन्नेवमब्रवीत् ।
भद्रस्वंयम्भूवांस्तस्य गुप्तिकर्त्तुं यदीच्छसि ॥ ७.१३७ ॥
प्रत्येकं श्रावकं यानं मुक्त्वा महति संश्रितः ।
वज्राभिषेकमादाय चर वज्रव्रतं पुनः ॥ ७.१३८ ॥
ततो मारान् विनिर्ज्जित्य समाराध्य जिनेश्वरम् ।
संप्रार्थ्य शिलयाच्छाद्य कुरु स्तूपं समुछ्रितम् ॥ ७.१३९ ॥
इति शास्ता समादिष्टं निशम्य स प्रमोदितः ।
शास्तारं तं प्रणत्वा च प्रार्थयदेवमादरात् ॥ ७.१४० ॥
सद्गुरुर्मे भवाञ्छास्ता धर्म्मधातुसुरक्षणे ।
वज्रचर्याव्रतं दत्वा चारय मां जगद्धिते ॥ ७.१४१ ॥
इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः ।
महामतिर्महासत्त्वं तं समीक्ष्यैवमब्रवीत् ॥ ७.१४२ ॥
यदि श्रद्धास्ति ते भद्र वज्रचर्या महाव्रतम् ।
यथाविधि प्रदास्यामि तद्गृहाण जगद्धिते ॥ ७.१४३ ॥
इत्युक्त्वा स महाचार्यस्तस्मै शान्तश्रिये क्रमात् ।
साभिषेकं महायाने वज्रचर्याव्रतं ददौ ॥ ७.१४४ ॥
शान्तश्रीवज्राचार्य इति स्थापितः तत्क्षणेऽर्ये चाधिज्ञप्राप्तोऽभूत् ।
ततः प्राप्ताभिषेकः स शान्तश्री वज्रयोगवित् ॥ ७.१४५ ॥
स स्वात्मा दक्षिणां तस्मै गुरवे प्रददौ मुदा ।
ततः स वज्रधृग्योगी महाभिज्ञः सुसिद्धिमान् ॥ ७.१४६ ॥
स्वकुलेशं समाराध्य सगणं प्राभजन्मुदा ।
ततः स वज्रधृग्योगी महाभिज्ञः सुसिद्धिमान् ॥ ७.१४७ ॥
सद्धर्म्मसाधनोत्साही सर्वविद्याधिपोप्यभूत् ।
ततः सास्तुरनुज्ञां स समासाद्य प्रसादितः ॥ ७.१४८ ॥
धर्मधातुं समाराध्य प्रार्थयदेवमानतः ।
भगवन्नाथ सर्वज्ञ भवतां रक्षणाय यत् ॥ ७.१४९ ॥
ज्योतीरूपं समाच्छाद्य चैत्यं कर्त्तुमिहोत्सहे ।
तद्भवान् त्रिजगन्नाथ कृपया मे प्रसीदतु ॥ ७.१५० ॥
यद त्राप्यपरार्ध मे तत्सर्व क्षन्तुमर्हति ।
इति संप्रार्थ्य स प्राज्ञ ज्योतीरूपं जिनालयम् ॥ ७.१५१ ॥
स रत्नपद्माछाद्य शिलया समगोपयत् ।
तदुपरीष्टिकाभिश्च विधाय चैत्यमुच्छ्रितम् ॥ ७.१५२ ॥
यथाविधि प्रतिष्ठाप्य महोत्साहैः सदाभजत् ।
तत इदञ्च पुच्छाग्रं मञ्जुदेवस्य निर्म्मितम् ॥ ७.१५३ ॥
चैत्यं स शिलयाछाद्य स्तूपं व्यधात्तथोत्तमम् ।
इदं स्तूपं च स शान्तश्रीः प्रतिष्ठाप्य यथाविधि ॥ ७.१५४ ॥
सर्वदा श्रद्धया भक्त्या महोत्साहैर्मुदाभजत् ।
ततश्चासौ महाचार्यमाराध्य पञ्चदेवताः ॥ ७.१५५ ॥
पञ्च सुताः पुरेष्वेवं प्रतिष्ठाप्य सदाभजत् ।
तद्यथा देवता पञ्च प्रथमं वायुदेवता ॥ ७.१५६ ॥
वायुपुरे प्रतिष्ठाप्य वह्निपुरोऽग्निदेवता ।
नागपुरे च नागेन्द्रो वसुपुरे वसुन्धराम् ॥ ७.१५७ ॥
शान्तिपुरे महाश्रीमत्सम्बरं सुगणं तथा ।
एतान् सर्वान् समाराध्य स आचार्य यथाविधि ॥ ७.१५८ ॥
महोत्साहैः समभ्यर्च्य प्राभजन् सर्वदा मुदा ।
एवं कृत्वा स आचार्य शान्तश्रीः कृतकृत्यौ महर्द्धिकः ॥ ७.१५९ ॥
भद्रश्रीमन्त्रसंसिद्धः सर्वविद्याधिपोऽभवत् ।
ततो भूयः स आचार्यो बोधिसत्त्वा महामतिः ॥ ७.१६० ॥
सर्वसत्त्वहितोत्साही ध्यात्वैवं समचिन्तयत् ।
अत्रैवमहमाराध्य सर्वान् देवान् यथाविधि ॥ ७.१६१ ॥
प्रतिष्ठाप्य समभ्यर्च्य महोत्साहैर्भजे मुदा ।
तथात्र सर्वदा धर्म्मधातुवागीश्वरं सदा ॥ ७.१६२ ॥
स्मृत्वा ध्यात्वा समाराध्य संतिष्ठेयं जगद्धिते ।
इति ध्यात्वा स शान्तश्रीराचार्यस्त्रिगुणार्थभृत् ॥ ७.१६३ ॥
सर्वसत्त्वहितार्थेन तथावत्रैव नन्दितः ।
एवं ता देवता भक्त्या भजन्ति ये यथाविधि ॥ ७.१६४ ॥
ते भद्रश्रीगुणापन्ना भवेयुर्बोधिचारिणः ।
तद्विशेषफलं चापि शृणु मैत्रेय सांप्रतम् ॥ ७.१६५ ॥
सर्व सत्त्वानुबोधार्थ वक्ष्याम्यत्र समासतः ।
तद्यथा ये समाराध्य सगणां वायुदेवताम् ॥ ७.१६६ ॥
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तेषां वातमहोत्पातभयं क्वापि न विद्यते ॥ ७.१६७ ॥
नीरोग्यं श्रीसमापन्नं कामभोज्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां वह्निदेवताम् ॥ ७.१६८ ॥
यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् ।
तेषां वह्निमहोत्पातं भयं क्वापि न विद्यते ॥ ७.१६९ ॥
परिपुष्टेन्द्रियारोग्य महासौख्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां नागदेवताम् ॥ ७.१७० ॥
यथाविधि समभ्यर्च्य प्रभजन्ते सदा मुदा ।
तेषां न विद्यते क्वापि दुर्भिक्षोत्पातजं भयम् ॥ ७.१७१ ॥
भद्रश्रीरत्नसंपत्तिकामभोज्यं सदा भवे ।
ये चाप्येवं समाराध्य सगणां श्रीबसुन्धराम् ॥ ७.१७२ ॥
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तेषां दारिद्रयदुःखादि भयं नास्ति कदाचन ॥ ७.१७३ ॥
भद्रश्रीसद्गुणापन्नमहासंपत्सुखं सदा ।
ये चाप्येवं समाराध्य सगणं सम्बरं जिनम् ॥ ७.१७४ ॥
यथाविधि समभ्यर्च्य संभजन्ते सदादरात् ।
तेषां मारापसर्ग्ग च भयं क्वापि न विद्यते ॥ ७.१७५ ॥
सद्धर्म्मरत्नसंपत्तिमहैश्वर्यसुखं सदा ।
ये चेदं चैत्यमाराध्य मञ्जुदेवस्य निर्म्मितम् ॥ ७.१७६ ॥
यथाविधि समभ्यर्च्य संभजन्ते समादरात् ।
तद्दुर्भ्भगा दुराचारा दुष्टा स्युर्न कदाचन ॥ ७.१७७ ॥
सर्वे धर्माधिपा नाथा भवेयुः श्रीगुणाकराः ।
ये चापीदं समाराध्य धर्म्मधातुं जिनालयम् ॥ ७.१७८ ॥
यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् ।
ते सर्व्वे विमलत्मानो भद्रश्रीसद्गुणाश्रयाः ॥ ७.१७९ ॥
बोधिसत्त्वा महाभिज्ञा भवेयु बोधिचारिणः ।
य एता देवताः सर्वाः स्मृत्वा ध्यात्वापि सर्वदा ॥ ७.१८० ॥
नामापि च समुच्चार्य संभजन्ते समाद्रिताः ।
तेऽपि सर्वे न यास्यन्ति दुर्ग्गतिं च कदाचन ॥ ७.१८१ ॥
सदा सद्गतिसंजाता भवेयुः श्रीगुणाश्रयाः ।
ततस्ते सुकृतारक्ताः सधर्म्मगुणलालसाः ॥ ७.१८२ ॥
त्रिरत्नशरणं कृत्वा संचरेरन् सदा शुभे ।
ततस्ते विमलात्मानः परिशुद्धेन्द्रियाशयाः ॥ ७.१८३ ॥
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ।
सर्वसत्त्वहिताधानं चरेयुर्बोधिसम्बरम् ॥ ७.१८४ ॥
ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमम् ।
दशभूमीश्वरा नाथा भवेयुः सुगतात्मजाः ॥ ७.१८५ ॥
ततस्ते निर्म्मलात्मानः संसारगति निःस्पृहाः ।
अर्हन्तः सवल मारं निर्जित्य स्युर्निरंजनाः ॥ ७.१८६ ॥
त्रिविधां बोधिमासाद्य सद्धर्म्मगुणभास्कराः ।
सर्वसत्त्वहितार्थेन संबुद्धपदमाप्नुयु ॥ ७.१८७ ॥
येप्येतद्गुणमाहात्म्यं श्रुत्वाप्यत्यनुमोदिताः ।
तथा तत्पुण्यमाहात्म्यं प्रशसन्ति समादरात् ॥ ७.१८८ ॥
तेऽपि सर्वे विकल्माषाः परिशुद्धित्रिमण्डलाः ।
श्रीमन्तः सद्गुणाधारा भवेयु बोधिमानसाः ॥ ७.१८९ ॥
न यायुर्दुगतिं क्वापि सदा सद्गतिसम्भवाः ।
सर्वसत्त्वहितं कृत्वा संचरेरञ्जगद्धिते ॥ ७.१९० ॥
ततः सर्वाधिपास्ते स्यु र्धम्मार्थि संप्रपूरकाः ।
बोधिसंभारं संपूर्य संबुद्धपदमाप्नुयुः ॥ ७.१९१ ॥
इति सत्यं परिज्ञाय बौद्धं पदं यदीच्छथ ।
एतान् देवान् समाराध्य भजध्वं सर्वदा भवे ॥ ७.१९२ ॥
एतत्पुण्यानुभावेन यूयमप्येवमाभवम् ।
दुर्ग्गतिं नैव यायात कदाचिन् कुत्रचिद्ध्रुवम् ॥ ७.१९३ ॥
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ।
बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ ७.१९४ ॥
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ ७.१९५ ॥
इति मत्वात्र ये लोका र्वाञ्छन्ति सौगतं पदम् ।
स देवान् सगणां सर्वान् समाराध्य भजन्तु ते ॥ ७.१९६ ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ७.१९७ ॥
तदा शान्तश्रिया यंस्सं गुप्तिकृतो जिनालयः ।
इत्यादिश्य मुनीन्द्रोऽपि समाधिं विद्धेक्षणम् ॥ ७.१९८ ॥

इति श्रीस्वयंभूधर्म्मधातुवागीश्वर गुप्तिकृत प्रवर्त्तनो नाम सप्तमोऽध्यायः समाप्तः ।


अष्टम अध्यायः स्वयम्भूचैत्याश्रमनाम साधनासुवृष्टिचरणो नाम

अथ स भगवाञ्छास्ता स समाधेरुत्थितः पुनः ।
मैत्रेयं तं सभां चापि समालोक्यैवमादिशत् ॥ ८.१ ॥
शृणु मैत्रेय भूयो स्या एतद्देवानुभावतः ।
सिद्धभूमेः प्रवक्षापि महत्सिद्धि प्रभावताम् ॥ ८.२ ॥
तद्यथात्रोपछन्दोहे सिद्धलोक हिमालय ।
नेपाल इति विख्याते एतद्देवानुभावतः ॥ ८.३ ॥
सदा भद्रमहोत्साहं सुभिक्षं निरुपद्रवम् ।
सर्वद्रव्यसमापन्न समृद्धाधमवर्त्तत ॥ ८.४ ॥
तदा सर्वत्र लोकाश्च दशकुशलचारिणः ।
त्रिरत्नभजनारक्ताः प्राचरन्तः सहाशुभ ॥ ८.५ ॥
एतत्पुण्यानुलिप्तास्ते चतुर्ब्रह्मविहारिणः ।
भद्रश्रीसद्गुणाधीरा बभूवुर्बोधिचारिणः ॥ ८.६ ॥
एवमेषां प्रसिद्धाभूदृद्धिसिद्धिगुणार्थदा ।
ऋद्धास्फीता सुभिक्षा श्रीसमाश्रयाभिशोभिताः ॥ ८.७ ॥
तेनात्र योगिनो विज्ञा यतयो ब्रह्मचारिणः ।
स्मृत्वा ध्यात्वा कुलेशानं समाराध्य समाश्रयन् ॥ ८.८ ॥
तथान्येऽपि सुलोकाश्च समागत्य प्रसादिताः ।
धर्मधातुमिमं भक्त्या भजमानाः समाश्रयन् ॥ ८.९ ॥
सर्वष्वपि च तीर्थेषु स्नानदानादि संबरम् ।
कृत्वाष्टौ वीतरागांश्च भजन्त समुपाश्रयन् ॥ ८.१० ॥
एताश्च देवताः पञ्च समाराध्य यथाविधि ।
भजमाना सदोत्साहैः प्राचरन्त समाहिताः ॥ ८.११ ॥
तदा खगाननादेवीं समाराध्य यथाविधि ।
भजमाना महोत्साहैः प्राचरन्त सदा शुभम् ॥ ८.१२ ॥
एवमिमं च पुच्छाग्रं चैत्यं मञ्जुश्रियापि ते ।
सर्वे लोकाः समाराध्य प्राभजन्त प्रसादिताः ॥ ८.१३ ॥
एवं सर्वेऽपि लोकाश्च सद्धर्म्माभिरता मुदा ।
सदा भद्राणि कर्म्माणि कृत्वात्र सर्व्वदाश्रयन् ॥ ८.१४ ॥
एवमेषां महासिद्धि भूमिः श्रीसंप्रशोभिताः ।
महाजन समाकीर्ण्णा सर्वभूम्युत्तमा वभौ ॥ ८.१५ ॥
ततः कालान्तरेणात्र राजा भूमि यतिर्नृपः ।
श्रीगुणकामदेवाख्य शास्ता लोकाधिपाभवत् ॥ ८.१६ ॥
तदा स नृपतिः प्रौढा युवा कामातिलालसः ।
यथा कामरसं भुक्त्वा प्राचरन् स्वेच्छयारमन् ॥ ८.१७ ॥
ततः स क्षत्रियाप्येवं कामभागाभिमोहिताः ।
प्रमदा गुणसंरक्ता नीतिधर्मे निरादरः ॥ ८.१८ ॥
दृष्ट्वा स सुन्दरीं कान्तामगम्यामपि मोहितः ।
बलेनापि समाकृष्य वुभुजे स्वेच्छया मुदा ॥ ८.१९ ॥
एवं स नृपराजापि कामधर्म्मातिलालसः ।
मन्त्रिषु सर्व राज्याङ्ग निवेश्य स्वेच्छया रमेत् ॥ ८.२० ॥
ततः स्ते मन्त्रिणः सर्वे नृपं तं प्रमदा वशे ।
प्रतिष्ठाप्य यथाकामं भुक्त्वा चरन् यथेच्छया ॥ ८.२१ ॥
तथा भृत्या जनाश्चापि सर्वेऽपि क्लेशिताशयाः ।
सद्धर्म्माणि प्रतिक्षिप्य प्राचरन् कामभागिनः ॥ ८.२२ ॥
ब्राह्मणाश्च तथा सर्वे दशाकुशल चारिणः ।
स्वकुलधर्म्ममर्यादं त्यक्त्वा चरन् यथेच्छया ॥ ८.२३ ॥
वैश्याश्चापि तथा धर्म्मद्रव्यसंग्रहलालसाः ।
स्वकुलवृत्तिमुत्सृज्य भुक्त्वा चरन् यथेप्सितम् ॥ ८.२४ ॥
महाजनास्तथा सर्वेप्यन्यायद्रव्यसाधिनः ।
स्वकुलधर्ममुत्सृज्य भुक्त्वैव प्राचरन् सुखम् ॥ ८.२५ ॥
वणिजोऽपि तथा सर्वे मिथ्यार्थसाधनोद्यताः ।
सत्यधर्म प्रतिक्षिप्य चेरुः क्लेशाभिमानिताः ॥ ८.२६ ॥
शिल्पिनोऽपि तथा सर्वे कवलभृतिलालसाः ।
अविधिज्ञाः प्रमादान्धाश्चक्रुः कर्म्म यंथेच्छया ॥ ८.२७ ॥
तथा नारीजनाश्चापि कामक्लेशाः कुलाशयाः ।
स्वकुलधर्ममृत्सृज्य प्राचरन्त यथेप्सितम् ॥ ८.२८ ॥
एवं सर्वेऽपि लोकाश्च दशाकुशलसंरताः ।
स्वकुलाचारमुत्सृज्य प्राचरन्त यथेच्छया ॥ ८.२९ ॥
तीर्थिकाश्चापि ये दुष्टास्ते दृष्ट्वैवं जिनालयम् ।
निन्दित्वा परिभाषन्तः प्राचरन्त यथेच्छया ॥ ८.३० ॥
तदात्र वहवो दुष्टा चौरा धूर्त्ताः प्रगल्भिकाः ।
साधुजनाः प्रतिक्षिप्य चेरु मत्तद्वीपा इव ॥ ८.३१ ॥
साधवः सज्जनाश्चापि नीचकर्मानुचारिणः ।
सद्धर्म्मविरतोत्साहाश्चेरु भुक्त्वैव नीचवत् ॥ ८.३२ ॥
तदैवं पापसंचारात्सर्वत्राप्यचरत्कलिः ।
सद्धर्म्मो दुर्वली भूतो नीचवद्विलयं ययौ ॥ ८.३३ ॥
तदात्र प्रवरीभूते कलिसंचार वर्त्तते ।
दृष्ट्वा लोकाधिपाः सर्वे भवन्रुष्टपरान्मुखाः ॥ ८.३४ ॥
ततोऽत्र विमुखीभूय सर्वलोकाधिपा अपि ।
धिग्नृपमिति बा दन्तो द्रष्टुमपि न चेच्छिरे ॥ ८.३५ ॥
तदात्र लोकपालानां सुदृष्टिविरतोत्सवे ।
ईतयः समुपाक्रम्य प्रावर्त्तितुमुपाचरत् ॥ ८.३६ ॥
ततो देवा अपि क्रूरा ये दुष्टा मारपाक्षिकाः ।
सर्वे तत्र रूपालोक्य महोत्पातं प्रचक्रिरे ॥ ८.३७ ॥
वह्निरपि तथालोक्य दुष्टवत्कोपिताशयः ।
धूमाकुलार्चिषा दग्धा महोत्पातं व्यधादिह ॥ ८.३८ ॥
धर्मराजापि रुष्टाभून्निर्दयां निरुजानपि ।
निहन्तुं प्राणिनः सर्वान्महामारीमचारयत् ॥ ८.३९ ॥
नैऋत्या राक्षसेन्द्रोऽपि प्रकोपितातिनिर्दयः ।
सर्वत्रापि प्रविष्टोऽत्र महोत्पातं व्यधात्सदा ॥ ८.४० ॥
वरुणो नागराजापि प्रदुष्टः क्रूरचक्षुषा ॥
दृष्ट्वा वारिवहान्मेघान् सर्वान् वृष्टिं न्यवारयेत् ॥ ८.४१ ॥
मरुतोऽपि तथालोक्य प्ररुष्टा निर्दया स्थिताः ।
असाध्यं प्रचरन्तात्र महोत्पातं प्रचक्रिरे ॥ ८.४२ ॥
तथा यक्षाश्च ये दुष्टाः किन्नरा गुह्यका अपि ।
गृहे गृहे प्रविश्यापि रोगोत्पातं प्रचक्रिरे ॥ ८.४३ ॥
तथा भूताः पिशाचाश्च वेतालाः कटपूटिनाः ।
डाकिण्यः प्रमथाश्चापि शाकिन्यः सगणा अपि ॥ ८.४४ ॥
रुद्रा अपि सगन्धर्वा कुम्भाण्डा गरुडा अपि ।
सर्वत्र प्रचरन्तोऽत्र महोत्पातं प्रचक्रिरे ॥ ८.४५ ॥
मातृका अपि सर्वाश्च सगणा अप्रसादिताः ।
सुदुष्टवालोक्य सर्वान् स्तान् द्रक्षितुं न समाहिरे ॥ ८.४६ ॥
ग्रहास्तारागणाः सर्वे विरुद्धा अप्रसादिताः ।
अनुसंदर्शनं वापि कर्तु नैवाववांञ्छिरे ॥ ८.४७ ॥
कुलेशा अपि सर्वाश्च देवता अप्रसादिताः ।
संत्रात समर्थास्तान् पश्यंत्य एव तस्थिरे ॥ ८.४८ ॥
एवमन्येपि देवाश्च सर्वत्राणपराङ्मुखाः ।
तेषां संदर्शनं कर्तुमपि नैव वांछिरे ॥ ८.४९ ॥
तेषां त्रातुं तदेकापि न शशाक कथंचन ।
एवमत्र महोत्पातं प्रावर्त्तत समन्ततः ॥ ८.५० ॥
एवमत्र महोत्पातं प्रर्वर्त्ततेऽपि सर्वतः ।
सर्वक्लेशा हतात्मानः प्रचक्रु विग्रहं मिथः ॥ ८.५१ ॥
तदेवं कलिसंरक्तान् सर्वान् लोकान् विलोक्य सः ।
नृपतिः सुचिरं ध्यात्वा मनसैवं व्यचिन्तयत् ॥ ८.५२ ॥
हा कष्टं पापजं धोरं जायतेऽत्राधुना मम ।
तत्पापशमनायायं को दधान्महिताशयः ॥ ८.५३ ॥
कथमिह महद्दुःखं शमीकर्त्तुं विधास्यते ।
पश्यन्नेवमुपेक्ष्यैव रमेयं साम्प्रतं च किम् ॥ ८.५४ ॥
यो हि राजा प्रजादुःखमुपेक्ष्य रमते सुखम् ।
स किं राजा प्रभुर्भत्तां दुष्टाहिवद्विगर्ह्यते ॥ ८.५५ ॥
यत्र राजा प्रजादुःखमुपेक्ष्य न विचारयेत् ।
स्वयमेव सुखं भुक्त्वारमंश्चरेयथेच्छया ॥ ८.५६ ॥
तत्र सर्वप्रजा लोकाः क्लेशव्याकुलमानसाः ।
सत्यधर्मकुलाचारं हित्वा चरेयुरौद्धटाः ॥ ८.५७ ॥
ततस्ते दुरितारक्ता दशकुशलचारिणः ।
महापापेऽपि निर्लज्जाः संचरेरन् यथेच्छया ॥ ८.५८ ॥
एतत्सर्व महत्पातं र्भुजीयान्नृपतिर्ध्रुवम् ।
इति सत्यं समाख्यातं नीतिविज्ञैर्महर्षिभिः ॥ ८.५९ ॥
इत्येतत्पापवैपाक्यं भोक्तव्यं हि मया भव ।
तदत्र किं करिष्यामि यदुपायं न मन्यते ॥ ८.६० ॥
धिग्जन्म मेऽत्र संसारे यस्य राज्ये सदा कलिः ।
दुर्भिक्षादि महात्पातं प्रवर्त्तते दिवानिशम् ॥ ८.६१ ॥
धन्यास्ते पुरुषा ये हि निःक्लेशा विमलाशया ।
विमुक्त भव संचारा भिक्षवो ब्रह्मचारिणः ॥ ८.६२ ॥
किं मेऽत्र जन्म संसारे सुकुलमपि प्रभोर्नृणाम् ।
यदहं पशुवद्भुक्त्वा काममेव रमे गृहे ॥ ८.६३ ॥
तदेततपापलिप्तोऽहं क्लेशव्याकुलमानसः ।
नरकेषु भ्रमन् दुःखं भुंजीयां विविधं सदा ॥ ८.६४ ॥
तदा को मे सुहृत्मित्रं संरक्षितुमुपाचरत् ।
धर्ममेव तदा त्राणं सर्वदुःखापहं भवे ॥ ८.६५ ॥
धर्माणां प्रवरं बौद्धं धर्मं सर्वभयापहम् ।
सर्वार्थसाधनं सिद्धमित्याख्यातं जगद्धितम् ॥ ८.६६ ॥
इत्यहं साम्प्रतं गत्वा गोशृङ्गे पर्वते स्थितम् ।
शान्तश्रियं महाचार्यं प्रार्थयेयं समादरात् ॥ ८.६७ ॥
स एव हि महाचार्य एतदुत्पातशान्तये ।
विधानं समुपादिश्य कुर्यान्मेऽत्र हितं सदा ॥ ८.६८ ॥
इति निश्चित्य भूपालः पुरोहितं समन्त्रिणः ।
महाजनान सपौरांश्च समामन्त्रयैवमादिशत् ॥ ८.६९ ॥
भो भवन्तो यदत्रैवं महोत्पातं प्रवर्त्तते ।
तच्छान्तिकरणं धर्मं कर्त्तुमिच्छामि सांप्रतम् ॥ ८.७० ॥
तदाचार्य महाभिज्ञं शान्तिश्रियं समादरात् ।
प्रार्थयित्वा तदा देशाद्धर्त्तुमिच्छामि सदृशम् ॥ ८.७१ ॥
इति सर्वे वयं तत्र गोशृङ्गेऽग्रे समादरात् ।
शान्तश्रियं महाचार्य संप्रार्थितुं वज्रावहै ॥ ८.७२ ॥
इत्यादिष्टं नरेन्द्रण श्रुत्वा पुरोहितादयः ।
सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ८.७३ ॥
ततः स नृपती राजा समन्त्रिजनपौरिकाः ।
पुरोहितं पुरोधाय गोशृङ्गेऽग्रे मुदाचरत् ॥ ८.७४ ॥
तत्र दृष्ट्वा तमाचार्य नृपतिः संप्रमोदितः ।
समेत्य साञ्जलिर्नत्वा पादाब्जे समुपाश्रयत् ॥ ८.७५ ॥
तथा सर्वेऽपि लोकाश्च समीक्ष्येनं प्रसादिताः ।
समेत्य पादयोर्नत्वा समुपतस्थिरे मुदा ॥ ८.७६ ॥
तान् सर्वान् समुपासीनान् समीक्ष्य स महामतिः ।
शान्तश्रीस्तं महीपालं सम्पश्यन्नेवमादिशत् ॥ ८.७७ ॥
राजन् सदास्तु वो भद्रं सर्वत्रापि निरन्तरम् ।
किमर्थमिह प्रायासि तत्मेऽग्रे वक्तुंमर्हसि ॥ ८.७८ ॥
इति शान्तश्रिया प्रोक्ते नृपतिः स कृताञ्जलिः ।
प्रणत्वा तं महाचार्य पश्यन्नेवं न्यवेदयेत् ॥ ८.७९ ॥
भो श्रीशास्तयदर्थेऽहं भवच्छरणमाव्रजे ।
तदर्थ प्रार्थयाम्यत्र मे समुपादेष्टुमर्हति ॥ ८.८० ॥
यत्मेऽत्र पापतो राज्ये महोत्पातं प्रवर्त्तते ।
तच्छान्तिकरणोपायं समुपादेष्टुमर्हति ॥ ८.८१ ॥
इति संप्रार्थिते राज्ञा शान्तश्री मन्त्रवित्सुधीः ।
नृपते तं महासत्त्वं समालोक्यैवमादिशत् ॥ ८.८२ ॥
नृपते पापतोऽत्रैवं महोत्पातं प्रवर्त्तते ।
तत्पापशमनोपायं वक्षामि ते शृणुष्व तत् ॥ ८.८३ ॥
यत्वमत्र नृपा राजा सर्वधर्मानुपालकः ।
नीतिधर्म्मानुसारेण संपालयसि न प्रजाः ॥ ८.८४ ॥
मन्त्रिणोऽपि तथा सर्वनीतिधर्मपराङ्मुखाः ।
भुक्त्वा कामसुखान्येव प्रचरन्ति यथेच्छया ॥ ८.८५ ॥
तथा भृत्या जनाश्चापि पौराश्चापि महाजनाः ।
स्वकुलधर्ममुत्सृज्य प्रचरन्ति यथेच्छया ॥ ८.८६ ॥
एवं सर्वेऽपि लोकाश्च दशाकुशलचारिणः ।
सद्धर्माणि प्रतिक्षिप्य प्रचरन्ति प्रमादतः ॥ ८.८७ ॥
तदैतत्पापवैपाक्यं भोक्तव्यंमेव हि भव ।
येनैव यत्कृतं कर्म्म भोक्तव्यं तेन तत्फलम् ॥ ८.८८ ॥
एवं मत्वा नृपः स्वामी स्वयं नीत्या विचारयन् ।
बोधयित्वा प्रयत्नेन लोकान् संपालयत्सदा ॥ ८.८९ ॥
यद्यत्र नृपतिः सम्यग विचार्य प्रमादतः ॥
स्वयं कामसुखान्येव भुक्त्वा चरद्यथेच्छया ॥ ८.९० ॥
तथा सर्वेऽपि लोकाश्च नृपचर्यानुचारिणः ।
भुक्त्वा कामसुखान्येव प्रचरेयुर्यथेच्छया ॥ ८.९१ ॥
तदा तत्र महोत्पातं प्रवर्त्तत्पापतो ध्रुवम् ।
प्रवर्त्तिते महोत्पात लोका स्युः पापदुःखिताः ॥ ८.९२ ॥
तत्र तान्नृपतिः पश्यन्नुपेक्ष्यं निर्दयश्चरत् ।
लोकसंरक्षणे असक्तः स सर्वपापभाग्भवेत् ॥ ८.९३ ॥
सर्वाण्यपि हि पापानि सर्वलोकैः कृतान्यपि ।
पतित्वा नृपतेरग्रे प्रदद्युस्तत्फलानि हि ॥ ८.९४ ॥
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
नत्वा राजा स्वयं नीत्या विचारयन् समाचरेत् ॥ ८.९५ ॥
इति तेन समादिष्टं शान्तश्रिया सुमन्त्रिणा ।
श्रुत्वा स नृपतीर्भीत्या संतापतापिताशयः ॥ ८.९६ ॥
शान्तश्रियं तमाचार्य समीक्ष्य शरणं गतः ।
नत्वा पादाम्बुजे भूयः प्रार्थयदेवमादरात् ॥ ८.९७ ॥
शास्तः सदा चरिष्यामि भवदाज्ञां शिरावहन् ।
तत्मे यदुचितं धर्म्म तत्समादेष्टुमर्हति ॥ ८.९८ ॥
इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः ।
नृपतिं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ८.९९ ॥
राजञ्छृणु समाधाय वक्ष्यामि शुभकारणम् ।
यद्यस्ति ते कृपा लोक तत्कुरु यन्मयोदितम् ॥ ८.१०० ॥
तद्यथैतेषु तीर्थेषु स्नात्वा नित्यं यथाविधि ।
शुचिशीलसमाचारः समाहितः त्रिमण्डलः ॥ ८.१०१ ॥
सम्बोधिं प्रणिधानेन सर्वसत्त्वहितार्थभृत् ।
त्रिरत्नभजनं कृत्वा चरस्व पोषधं व्रतम् ॥ ८.१०२ ॥
तत इमं जगन्नाथं धर्मधातुं जिनालयम् ।
यथाविधि समाराध्य संभजस्व सदादरात् ॥ ८.१०३ ॥
तथा सर्वा इमा पञ्च देवताश्च यथाविधि ।
समाराध्य समभ्यर्च्य संभजस्व सदादरात् ॥ ८.१०४ ॥
इमं मञ्जुश्रीयंश्चापि चैत्यमाराध्य सर्वदा ।
यथाविधि समभ्यर्च्य संभजस्व महोत्सवैः ॥ ८.१०५ ॥
तथाष्टौ वीतरागांश्च समाराध्य यथाविधि ।
समभ्यर्च्य महोत्साहैः संभजस्व सदादरात् ॥ ८.१०६ ॥
तथा माहेश्वरीं देवी खगाननां समादराम् ।
समाराध्य समभ्यर्च्य संभजस्व यथाविधिम् ॥ ८.१०७ ॥
एते सर्वेऽपि देवा हि सर्वलोकाधिपेश्वराः ।
सर्वसत्त्वहितार्थेन प्रादुर्भूताः स्वयं खलु ॥ ८.१०८ ॥
तदत्रैतेषु देवेषु सर्वेषु श्रद्धया सदा ।
विधिना भजनं कृत्वा संचरस्व जगद्धिते ॥ ८.१०९ ॥
लोकांश्चापि तथा सर्वान् बोधयित्वा प्रयत्नतः ।
सर्वेष्वेतेषु तीर्थेषु स्नानदानादिकं सदा ॥ ८.११० ॥
कारयित्वा महत्पुण्यं जगद्भद्रसुखार्थदम् ।
संबुद्धगुणसत्सौख्यं चारय पोषधं व्रतम् ॥ ८.१११ ॥
एतेषां च त्रिरत्नादिदेवानां भजनं सदा ।
कारयित्वा महोत्साहैर्बोधिमार्गे प्रचारय ॥ ८.११२ ॥
तदैतत्पुण्यभावेन सर्वत्रापि चरच्छुभम् ।
तदा सर्वमहोत्पातं सर्वत्र विलयं व्रजेत् ॥ ८.११३ ॥
तदा ब्रह्ममरेन्द्राद्याः सर्वे लोकाधिपा अपि ।
सुदृशात्र समालोक्य पालयेयुः सदा मुदा ॥ ८.११४ ॥
तदा संपालितेऽस्मिंन तैः सवैर्लोकाधिपैः पुनः ।
सुभिक्षं श्रीशुभोत्साहं प्रवर्त्तयेद्धि सर्वदा ॥ ८.११५ ॥
तदा सर्बेऽपि लोकाश्च नीरोगाः श्रीगुणाश्रयाः ।
विरम्य पापमार्गेभ्यः संचरेरन् सदा शुभे ॥ ८.११६ ॥
एवं धृत्वा सदा राजन्महापुण्य प्रभावतः ।
अन्ते बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ ८.११७ ॥
एवं महत्तरं पुण्यं त्रिरत्नभजनाद्भवम् ।
विज्ञायादौ त्रिरत्नानां भजस्व श्रद्धया स्मरन् ॥ ८.११८ ॥
ततः सर्वेषु तीर्थेषु स्नात्वा शुद्धेन्द्रियाशयः ।
त्रिरत्नं शरणं गत्वा भजस्व पोषधं व्रतम् ॥ ८.११९ ॥
ततः सर्वानिमान् देवान् धर्म्मधातुमुखान् सदा ।
यथाविधि समाराध्य संभजस्व समर्चयन् ॥ ८.१२० ॥
लोकानपि तथा सर्वान् बोधयित्वा प्रयत्नतः ।
सर्वेष्वेतेषु तीर्थेषु स्नापयित्वा यथाविधिम् ॥ ८.१२१ ॥
त्रिरत्नशरणे स्थाप्य संबोधिज्ञानसाधनम् ।
भद्श्रीसत्गुणाधारं चारय पोषधं व्रतम् ॥ ८.१२२ ॥
एतेषामपि देवानां कारयित्वा सदार्चनम् ।
बोधिमार्गे प्रतिष्ठाप्य चारय पालयञ्छुभे ॥ ८.१२३ ॥
एवं कृत्वा महत्पुण्यं प्राप्य श्रीसद्गुणाश्रयः ।
बोधिसत्त्व महासत्त्व महाभिज्ञा भवेद्ध्रुवम् ॥ ८.१२४ ॥
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
अर्हन् बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ ८.१२५ ॥
इति शान्तश्रिया शास्ता समादिष्टं निशम्य सः ।
नृपस्तथेति विज्ञप्य कर्तुमेवं समैच्छत ॥ ८.१२६ ॥
ततः स नृपतिः सर्वान्मन्त्रिणस्सचिवाञ्जनान् ।
पौरान्महाजनाश्चापि समामन्त्रयैवमादिशत् ॥ ८.१२७ ॥
भो मन्त्रिणो जनाः सर्वेऽमात्याः पौरा महाजनाः ।
आचार्येन यथादिष्टं तथा चरितुमर्हथ ॥ ८.१२८ ॥
अहमपि तथा धृत्वा सर्वदा भद्रकारणम् ।
त्रिरत्नशरणं कृत्वा व्रतं चरितुमुत्सहे ॥ ८.१२९ ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः ।
पौरा महाजनाः सर्व तथेति प्रतिशुश्रुवुः ॥ ८.१३० ॥
ततः स नृपतिः सर्वेः सपुरोहितमन्त्रिभिः ।
अमात्यैःसचिवैः पौरैर्महाजनैः समन्वितः ॥ ८.१३१ ॥
सर्वेष्वेतेषु तीर्थेषु स्नात्वा यथाविधि क्रमात् ।
शुद्धशीलः समाधाय प्राचरत्पोषधं व्रतम् ॥ ८.१३२ ॥
ततस्स विमलात्मान त्रिरत्नशरणं गताः ।
धर्मधातुं समाराध्य समभ्यर्च्यभिजन्मुदा ॥ ८.१३३ ॥
तथा वायुपुरे वायुदेवतांश्च यथाविधि ।
अग्निपुरेऽग्निदेवं च नागपुरे फणेश्वरान् ॥ ८.१३४ ॥
वसुपुरे वसुन्धारां सद्धर्म्मश्रीगुणप्रदाम् ।
शान्तपुरे महेशानं सम्बरं सगणं क्रमात् ॥ ८.१३५ ॥
यथाविधि समभ्यर्च्य श्रद्धया समुपाश्रितः ।
तथा मञ्जुश्री यश्चैत्यं समभ्यर्च्याभजन् सदा ॥ ८.१३६ ॥
तथाष्टौ वीतरागांश्च श्रीदेवींश्च खगाननाम् ।
यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ८.१३७ ॥
तथा सर्वेऽपि लोकास्ते नृपवृत्तानुचारिणः ।
स्नात्वा सर्वेषु तीर्थेषु शुद्धशीला समादरात् ॥ ८.१३८ ॥
त्रिरत्नशरणं कृत्वा चरन्तः पोषधं व्रतम् ।
धर्म्मधातुमुखान् सर्वान् देवांश्चाभ्यर्च्य प्राभजन् ॥ ८.१३९ ॥
तदैतत्पुण्यभावेन सर्वत्र शुभमाचरत् ।
ततः सर्व महोत्पातं क्रमेण प्रशमं ययौ ॥ ८.१४० ॥
तदा सर्वेऽपि ते लोका नीरोगाः पुष्टितेन्द्रियाः ।
महानन्दं सुखं प्राप्य बभूवु धर्म्मलालसाः ॥ ८.१४१ ॥
तद्दृष्ट्वा न नृपो राजा प्रत्यक्षं धर्मसत्फलम् ।
अहो सद्धर्ममाहात्म्यमित्युक्त्वा नन्दिताचरत् ॥ ८.१४२ ॥
तदा सुवृष्टिरेवात्र न बभूव कथंचन ।
तद्दृष्ट्वा न नृपश्चासीद्दुर्भिक्षशंकिताशयः ॥ ८.१४३ ॥
ततः स करुणाविष्टहृदयः स नृपः पुनः ।
शान्तश्रियं तमाचार्य नत्वैव प्राह साञ्जलिः ॥ ८.१४४ ॥
आचार्य कृपया तेऽत्र चरते शुभताधुना ।
सर्वदापि महोत्पातं संशाम्यत समन्ततः ॥ ८.१४५ ॥
सुवृष्टिरेव नाद्यापि प्रवर्त्तते कथंचन ।
सुवृष्टिकरणोपायं तत्समादेष्टुमर्हति ॥ ८.१४६ ॥
इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः ।
नृपतिं तं महासत्त्वं संपश्यन्नेवमब्रवीत् ॥ ८.१४७ ॥
साधु राजञ्छृणुष्वात्र सदा सुभिक्षकारणम् ।
सुवृष्टिकरणोपायमुपदेक्ष्यामि सांप्रतम् ॥ ८.१४८ ॥
लिखित्वा मण्डलं नागराजानां यद्यथाविधि ।
तत्र नागाधिपान् सर्वानावाह्याराधयेवहि ॥ ८.१४९ ॥
तदत्र त्वं महावीरा भवस्वात्तरः साधकः ।
यथा मायोपदिष्टानि तथा सर्वाणि साधय ॥ ८.१५० ॥
इत्याचार्य समादिष्टं श्रुत्वा स नृपतिर्मुदा ।
तथेति प्रतिविज्ञप्य तथा भवितुमैच्छत ॥ ८.१५१ ॥
ततः स वज्रधृग्वारा नागपुरं यथाविधि ।
लिखित्वा मण्डलं रम्यं प्रतिष्ठाप्य समार्च्चयत् ॥ ८.१५२ ॥
तत्र नागाधिपान् सर्वानाचार्यः स यथाक्रमम् ।
समाराध्य समावाह्य पूजयितुं समालभत् ॥ ८.१५३ ॥
तत्र नागाधिपाः सर्वे समागत्य यथाक्रमम् ।
स्वस्वासनं समाश्रित्य संतस्थिरे प्रसादिताः ॥ ८.१५४ ॥
कर्कोटकोऽहिराडेक एव न लज्जयागतः ।
तत्समीक्ष्य स शान्तश्रीर्महाचार्या महर्द्धिमान् ॥ ८.१५५ ॥
नृपतिं तं महावीरं महासत्त्वं महर्द्धिकम् ।
महाभिज्ञं समालोक्य समामन्त्रयैवमादिशत् ॥ ८.१५६ ॥
राजन्नागाधिपाः सर्वे समागता इहाधुना ।
एक कर्क्कोटको नागराज एवेह नागतः ॥ ८.१५७ ॥
विरूपोऽहं कथं नागराज महासभासने ।
गत्वा तिष्ठेयमित्येवं ध्यात्वा नायाति लज्जया ॥ ८.१५८ ॥
अतस्तं सहसा राजन् गत्वा तत्र महाह्रदे ।
कर्क्कोटकं तमामन्त्रय संप्रार्थ्येह समानय ॥ ८.१५९ ॥
यदि संप्रार्थ्यमानापि नागछेदिह सोऽहिराट् ।
तदा बलेन धृत्वापि सर्वथा तं समानय ॥ ८.१६० ॥
इत्याचार्य समादिष्टं शृत्वा स नृपतिः सुधीः ।
शान्तश्रियं तमाचार्य पश्यन्नेवं न्यवेदयत् ॥ ८.१६१ ॥
आचार्य कथमकोऽहं तत्रागाढमहाह्रदे ।
गत्वा बलेन नागेन्द्रं धृत्वा नेतुं प्रशक्नुयाम् ॥ ८.१६२ ॥
इति निवेद्य तं राज्ञा श्रुत्वाचार्यः स मन्त्रवित् ।
नृपतिं तं महावीरं सम्पश्यन्नेवमब्रवीत् ॥ ८.१६३ ॥
हरिदश्वं समारुह्य पुष्पमत्मन्त्रशोधितम् ।
धृत्वा ब्रज प्रशक्नोषि मम मन्त्रानुभावतः ॥ ८.१६४ ॥
दुर्वाकुण्डमिदं पुष्पं तत्रादौ क्षिप मां स्मरन् ।
भ्रमन् यत्र चरेन् पुष्पं तत्यथानुसरन् बज ॥ ८.१६५ ॥
इत्युपदेश्य दुवीकं कुण्डं मन्त्राभिशोधितम् ।
पुष्पं दत्वा नरेन्द्राय पुनरेवमुपादिशत् ॥ ८.१६६ ॥
गत्वैवं नृपते तत्र नागपुरे समेत्य तम् ।
कर्कोटकं समामन्त्रय मद्गिरैवं निवेदय ॥ ८.१६७ ॥
भो कर्क्कोटक नागेन्द्र यदर्थेदमिहाव्रज ।
तद्भवानपि जानीयात्तथापि वक्ष्यते मया ॥ ८.१६८ ॥
गोशृङ्गे महाचार्यः शान्तश्री र्वज्रभृत्कृती ।
दुर्भिक्षशमनं कर्त्तुं सुवृष्टिचारणे सदा ॥ ८.१६९ ॥
तत्र नागपुरे सर्वान्नागाधिपान् यथाविधि ।
समाराध्य समावाह्य पूजयितुं समारभत् ॥ ८.१७० ॥
सर्वे नागाधिपास्तत्र वरुणाद्याः समागताः ।
त्वमेव नागतः कस्मात्सहसा गन्तुमर्हति ॥ ८.१७१ ॥
एवं संप्रार्थ्यमानोऽपि नागछेत्सोऽहिराड्यदि ।
वलेनापि समाकृष्य सहसा नीयतां त्वया ॥ ८.१७२ ॥
इति शान्तश्रिया शास्ता समादिश्य समादरात् ।
प्रेषितोऽहं तदर्थेत्र तत्समगन्तुमर्हति ॥ ८.१७३ ॥
इत्यादिश्य स आचार्यः पुष्पं मन्त्राभिशोधितम् ।
दत्वा तं नृपतिं वीरं प्रेषयत्तत्र सत्वरम् ॥ ८.१७४ ॥
इत्याचार्य समादिष्टं निशम्य स महामतिः ।
दुर्वामुण्डं समादाय तथेत्युक्त्वा ततोऽचरत् ॥ ८.१७५ ॥
ततः स नृपतिर्वीरः शास्तु राज्ञां शिरावहन् ।
हरिदश्वं समारुह्य संचरन्स्तधदं ययौ ॥ ८.१७६ ॥
तत्र तीरं समासाद्य पश्यं नृपः स तं हदम् ।
नत्वाचार्यमनुस्मृत्वा दुर्व्वाकुण्डं जलेऽक्षिपत् ॥ ८.१७७ ॥
तन्प्रक्षिप्तं जलेऽगाढे भ्रमन्नागपुरेऽचरत् ।
राजाप्यश्वं समारुह्य तत्पुष्पानुसरन् ययौ ॥ ८.१७८ ॥
एवं नागपुरे गत्वा नृपतिः स विलोकयन् ।
कर्कोटक महीन्द्रं तं सहसा समुपाचरत् ॥ ८.१७९ ॥
तत्र समेत्य स वीरस्तं कर्कोटकमहीश्वरम् ।
यथाचार्याय संदिप्टं तथा सर्वं न्यवेदयत् ॥ ८.१८० ॥
तत्सन्निवेदितं सर्व श्रुत्वा नागाधिपापि सः ।
किञ्चिदप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ ८.१८१ ॥
ततः स नृपतिश्चैवं निवेद्य तं महीश्वरम् ।
संपश्यन् समुपामन्त्रय प्रार्थयदमादरात् ॥ ८.१८२ ॥
नागेन्द्रोऽत्र प्रसीद त्वं शास्तुराज्ञां शिरोवहम् ।
त्वदामन्त्र न एवाहं प्रागतस्तत्समाव्रज ॥ ८.१८३ ॥
इति संप्रार्थ्यमानोऽपि राजा स भुजगाधिपः ।
किञ्चित्प्राप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ ८.१८४ ॥
ततोऽसौ नृपतिवीरः शास्त्रादिष्टं यथा तथा ।
सर्व निवेद्य तस्याग्रे पुनरेवमभाषत ॥ ८.१८५ ॥
नागेन्द्र नापराधं मे यत्त्वया न श्रुतं वचः ।
तन्मे शास्त्रा यथादिष्टं तथा नूनं चरेय हि ॥ ८.१८६ ॥
इत्युक्तेपि नरेन्द्रेण कर्कोटको हि योऽपि सः ।
किञ्चिदप्युत्तरं नैव ददौ राज्ञे महीभृते ॥ ८.१८७ ॥
ततः स नृपतिवीरः शास्तुराज्ञां शिरोवहन् ।
धृत्वा तमहिमाकृष्य गुरुत्मानिव प्राचरत् ॥ ८.१८८ ॥
ततो हयात्समानीताः गुणकामदेवेन सः ।
आनीते तेन मार्गेण वशिकाचल उच्यते ॥ ८.१८९ ॥
एवं धृत्वा समाकृष्य स वीरस्तं महीश्वरम् ।
सहसा नागपुरे नीत्वा शास्तुरग्रे समाचरत् ॥ ८.१९० ॥
आचार्य भवदादेशात्तथा कर्क्कोटकोऽहिराट् ।
धृत्वाकृष्य मयानीतस्तं समीक्ष्य प्रसीदतु ॥ ८.१९१ ॥
इति निवेदितं राज्ञा श्रुत्वाचार्यः समादितः ।
नृपतिं तं महावीरं सम्पश्यन्नेवमादिशत् ॥ ८.१९२ ॥
साधु राजन्महावीर यदानीतस्त्वयाहिरात् ।
तदेनमासने नीत्वा संस्थापय यथाक्रमम् ॥ ८.१९३ ॥
इत्याचार्य समादिष्टं श्रुत्वा स नृपतिस्तथा ।
नागराजं तमामन्त्रय स्वासने संन्यवेशयत् ॥ ८.१९४ ॥
तं दृष्ट्वा स्वासनासीनांमाचार्यः स यथाविधिम् ।
नागेन्द्रान् स्तान् समावाह्य समाराध्य समार्चयत् ॥ ८.१९५ ॥
ततः स व्रजधृकाज्ञ आचार्यः स महीपतिः ।
सर्वान्नागाधिपान् स्तुत्वा प्रार्थयुच्चैवमादरात् ॥ ८.१९६ ॥
भो भवन्तो महानागराजाः सर्वे मयाग्रतः ।
समाराध्य समावाह्य यथाविधि समर्चिताः ॥ ८.१९७ ॥
तन्मे सदा प्रसीदन्तु दातुमर्हन्ति वाञ्छितम् ।
सर्वलोक हितार्थेव आराध्ययामि नान्यथा ॥ ८.१९८ ॥
यदत्र पापसंचाराद्दुर्भिक्षं वर्त्ततेऽधुना ।
तेन सर्वेऽपि दुःखार्त्ता लोकश्चरन्ति पातकम् ॥ ८.१९९ ॥
तद्दुर्भिक्षाभिशान्त्यर्थ सुभिक्षकारणं सदा ।
सुवृष्टिचरणोपायं करोमीदं जगद्धिते ॥ ८.२०० ॥
ते भवन्तोऽत्र सर्वेऽपि सर्वसत्त्वाभिरक्षणे ।
चारयितुं समर्हन्ति सुवृष्टिमत्र सर्वदा ॥ ८.२०१ ॥
इति संप्रार्थितं तेन शान्तश्रिया निशम्यत ।
सर्वे नागाधिपास्तस्य तथेति प्रतिशुश्रुवुः ॥ ८.२०२ ॥
तैस्तथेति प्रतिज्ञातं नागराजैर्निशम्य सः ।
शान्तश्री नागराजान् स्तान् प्रार्थयदेवमादरात् ॥ ८.२०३ ॥
भवन्तो मे प्रसीदन्तु यदहं प्रार्थये पुनः ।
सर्वसत्त्वहिते दातुं तदप्यर्हन्ति वाञ्छितम् ॥ ८.२०४ ॥
इति संप्रार्थिते तेन शान्तश्रिया निशम्यते ।
सर्व्वनागाधिपा तस्मै तथेति प्रतिशुश्रुवुः ॥ ८.२०५ ॥
सर्वे नागाधिपैस्तैः सम्प्रतिज्ञातं निश्म्य सः ।
आचार्यस्तानहीन्द्रांश्च प्रार्थयेदेवमादरात् ॥ ८.२०६ ॥
भवन्तः श्रूयतां वाक्यं यत्मया प्रार्थ्यते पुनः ।
तद्भवद्भिः प्रतिज्ञातं संधातव्यं तथा सदा ॥ ८.२०७ ॥
यदात्र पापसंचाराद्दुर्वष्टिश्च भवेद्ध्रुवम् ।
तदा सुवृष्टिसंसिद्धिर्साधनं तत्प्रनीयताम् ॥ ८.२०८ ॥
तद्यथा भवतां पट्टे लिखित्वा मण्डलं शुभम् ।
यथाविधि प्रतिष्ठाप्य संस्थापितुं समुत्सहे ॥ ८.२०९ ॥
दुर्वृष्टिः स्याद्यदाप्यत्र तदेवं पट्टमण्डलम् ।
प्रसार्य विधिनाराध्य समावाह्य समर्चयत् ॥ ८.२१० ॥
एवं प्रसार्य पट्टेस्मिन् संपूजिते यथाविधि ।
सुवृष्टिरत्र युष्माभिः संभर्त्तव्या जगद्धिते ॥ ८.२११ ॥
इति संप्रार्थिते तेन शान्तश्रिया निशम्यते ।
सर्वनागाधिपास्तस्मै तथेति प्रतिशुश्रुवुः ॥ ८.२१२ ॥
ततः स मन्त्रवित्प्राज्ञः सर्वनागाधिपाज्ञया ।
लिखित्वा मण्डलं पट्टे प्रतिष्ठाप्य यथाविधि ॥ ८.२१३ ॥
पश्चात्कालेऽत्र दुर्वृष्टिवृत्ते सुवृष्टिसाधने ।
नागपुरेऽत्र संस्थाप्य निर्दग्ध संप्रगोपितम् ॥ ८.२१४ ॥
ततो वज्री स आचार्यः सर्वान् स्तान् भुजगाधिपान् ।
संप्रार्थ्य विनयं कृत्वा विससर्ज्ज विनोदयन् ॥ ८.२१५ ॥
ततः सर्वेऽपि ते नागराजाः स्वस्वालयं गताः ।
मेघमालां समुत्थाप्य सर्वत्र समवर्षयन् ॥ ८.२१६ ॥
तदा सुवृष्टिसंचाराद्दुर्भिक्षं विलयं ययौ ।
सुभिक्षमंगलोत्साहं प्रावर्त्तत समन्ततः ॥ ८.२१७ ॥
तदा सर्वेऽपि लोकास्ते महानन्दप्रमोदितः ।
त्रिरत्नभजनं कृत्वा प्राचरन्त सदा शुभे ॥ ८.२१८ ॥
ततः स नृपति राजा दृष्टसत्यः प्रसादितः ।
शान्तिश्रियं तमाचार्यं समभ्यर्च्य यथाविधि ॥ ८.२१९ ॥
नत्वाष्टाङ्गैः प्रसन्नात्मा कृत्वा प्रदक्षिणानि च ।
कृताञ्जलिपुटः पश्यन् प्रार्थयच्चैवमादरात् ॥ ८.२२० ॥
भो भगवन्महाचार्य भवद्धर्म्मानुभावतः ।
सर्वोत्पातं शमीभूत सुवृष्टिः संप्रवर्त्तते ॥ ८.२२१ ॥
तदत्र सर्वदा नूनं निरुत्पातं समन्ततः ।
धर्मश्रीमंगलोत्साहं भवदेव निरन्तरम् ॥ ८.२२२ ॥
एवं सदा कृपा दृष्टया संपश्यन् विषये मम ।
निरुत्पातं शुभोत्साहं कर्तुमर्हति सर्वथा ॥ ८.२२३ ॥
साम्प्रतं सफलं जन्म संसारजीवितं च मे ।
यल्लोकाश्च सुखीभूताः संचरन्त सदा शुभे ॥ ८.२२४ ॥
तदहं साम्प्रतं शास्तर्भवदाज्ञां शिरावहन् ।
स्वराज्याश्रममाश्रित्य चरेयं पालयञ्जगत् ॥ ८.२२५ ॥
तन्मेनुग्रहमाधाय कृपया संप्रसादितः ।
संबोधिसाधने चित्तं स स्थितिं कर्त्तुमर्हति ॥ ८.२२६ ॥
इति विज्ञप्य भूपालस्त स्य शास्तुः पदाम्बुजे ।
नत्वानुज्ञां समासाद्य महोत्साहैः पुरं ययौ ॥ ८.२२७ ॥
तत्र स नृप आश्रित्य समन्त्रि सचिवो मुदा ।
बोधिचर्याव्रतं धृत्वा तस्थौ कुर्वन् सदा शुभम् ॥ ८.२२८ ॥

इति स्वयम्भू चैत्याश्रमनामसाधनसुवृष्टिचारणो नामाष्टमोऽध्यायः ।


नवम अध्यायः श्रीमहाचार्य शान्तिकरगुणसंसिद्धिमहात्म्यानुभाव प्रकथनप्रवर्तनो नाम

अथ मैत्रेय आलोक्य समुत्थाय कृताञ्जलिः ।
भगवन्तं तमानम्य प्रार्थयच्चैवमादरात् ॥ ९.१ ॥
कदा शान्तिकरं नाम तस्याभवत्कथं पुनः ।
तद्धेतुं श्रोतुमिच्छामि समुपादेष्टुमर्हति ॥ ९.२ ॥
इति संप्रार्थिते तेन मैत्रेयेण स सर्ववित् ।
भगवास्तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ ९.३ ॥
शृणु मैत्रेय वक्ष्यामि शान्तश्रियां महद्गुणम् ।
सद्धर्म्मसाधनोत्साहं भद्रश्रीसद्गुर्णार्थदम् ॥ ९.४ ॥
योऽसौ राजा महासत्त्वः सधर्म्मगुणलालसः ।
त्यक्त्वा कामसुखं राज्यं तीर्थयात्रामुपाचरत् ॥ ९.५ ॥
स सर्वेष्वपि तीर्थेषु स्नात्वा दानं विधाय च ।
त्रिसमाधिसमाचारः संचर पोषधं व्रतम् ॥ ९.६ ॥
एवं सर्वेषु पीठेषु भ्रमन् सद्धर्म्ममानसः ।
योगचर्याव्रतं धृत्वा प्रचचार समाहितः ॥ ९.७ ॥
पुण्यक्षेत्रेषु सर्वेषु भ्रमन्नैवमिहागताः ।
दृष्ट्वैमं मण्डलं रम्ये विस्मितं समुपाययौ ॥ ९.८ ॥
अत्रैमं दूरतो दृष्ट्वा धर्म्मधातुं जिनालयम् ।
मुदाष्टाङ्गैः प्रणत्वाशुः संद्रष्टुं समुपाययौ ॥ ९.९ ॥
समेत्य संमहासत्त्वा ज्योतीरूपं जिनालयम् ।
धर्म्मधातुमिमं दृष्ट्वा प्रणत्वा समुपाश्रयत् ॥ ९.१० ॥
ततः समुदितो राजा नेपालेऽत्र मनोरमे ।
सर्वत्रापि च संद्रष्टुं प्रचचार विलोकयन् ॥ ९.११ ॥
तेषु सर्वेषु तीर्थेषु स्नात्वा दत्वा यथेप्सितम् ।
यथाविधि समाधाय व्रतं चर समाहितः ॥ ९.१२ ॥
ततोष्टौ वीतरागांश्च दृष्ट्वा स संप्रमोदितः ।
यथाविधि समाराध्य समभ्यर्च्य सदाभजन् ॥ ९.१३ ॥
ततश्चासौ महादेवी खगाननां महेश्वरीम् ।
यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ ९.१४ ॥
ततो मञ्जुश्रियश्चैत्यं समीक्ष्य स प्रमोदितः ।
यथाविधि समभ्यर्च्य प्राभजत्समुपस्थितः ॥ ९.१५ ॥
ततः श्चैतत्महत्पुण्यैः शान्तिश्रीशुभितेन्द्रियः ।
प्रवज्या संवरं धृत्वा ब्रह्मचारी बभूव सः ॥ ९.१६ ॥
यत्तस्य सुप्रशान्तश्रीशोभितानीन्द्रियानि षट् ।
तं ननाम प्रसिद्धं च शान्तश्रीरित्यभूद्यतः ॥ ९.१७ ॥
ततोऽसौ सत्मतिर्विज्ञो बोधिसत्त्वो जगद्धिते ।
वज्रचर्याव्रतं गृहय प्रचचार समाहितः ॥ ९.१८ ॥
ततश्च शिलयाछाद्य धर्म्मधातुंमिमं जिनम् ।
इष्टिकाभिर्महत्स्तूपं विधाय समगोपयत् ॥ ९.१९ ॥
ततः पञ्चपुरेष्वत्र स्थापिता पञ्च देवताः ।
मञ्जुश्रीयामिदं चैत्यमनेन च महत्कृतम् ॥ ९.२० ॥
एवं कृत्वात्र कार्याणि सर्वाणि स महामतिः ।
बोधिसत्त्वा महाभिज्ञः प्रचचार जगद्धिते ॥ ९.२१ ॥
ततश्चात्र महत्पातं शमीकृत्य समंततः ।
भद्रश्रीमङ्गलोत्साहं न शान्तश्रीःस्सदा व्यधात् ॥ ९.२२ ॥
ततश्चासौ महाभिज्ञो दुर्वृष्टि परिवर्त्तते ।
नागराजान् समाराध्य सुवृष्टि समचारयत् ॥ ९.२३ ॥
एवं स त्रिगुणाभिज्ञां महोत्पात प्रशान्तिकृत् ।
शुभंकर सदा तेन शान्तिकरे इति स्मृतः ॥ ९.२४ ॥
ईदृग्मन्त्री महाभिज्ञो वज्राचार्या महामतिः ।
समृद्धिसिद्धिसंपन्ना न भूता न भविष्यति ॥ ९.२५ ॥
एवं विधाय सर्वत्र निरुत्पातं शुभोत्सवम् ।
बोधिसत्त्व स शान्तश्रीस्त्रैलोक्यमहितोभवत् ॥ ९.२६ ॥
एवमस्य महत्पुण्यं भद्रश्रीगुणसाधनम् ।
विज्ञाय शरणं गत्वा सवितव्यं शुभार्थिभिः ॥ ९.२७ ॥
यद्यस्य शरणं गत्वा श्रद्धया समुपाश्रिताः ।
यथाविधि समाराध्य भजेयुः सर्वदा मुदा ॥ ९.२८ ॥
ते सर्वे विमलत्मानो निःक्लेशा विजितेन्द्रियाः ।
भद्रश्रीगुणसंपत्तिं सर्द्धिसिद्धिं समाययुः ॥ ९.२९ ॥
ये च तस्य सदा स्मृत्वा ध्यात्वापि च समाहिताः ।
नामापि च समुच्चार्य भजेयुः श्रद्धया सदा ॥ ९.३० ॥
तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
तद्गुणश्रीसमापन्ना भवेयु बोधिचारिणः ॥ ९.३१ ॥
इत्येवं तत्महत्पुण्यं विज्ञाय तद्गुणार्थिनः ।
तस्यैव शरणं गत्वा भजन्तु ते सदा मुदा ॥ ९.३२ ॥
इत्यादिष्टं मुनीन्द्रेण सर्वेऽपि ते सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ ९.३३ ॥
एवमसौ महासत्त्वो भद्रश्रीसद्गुणार्थभृत् ॥
सर्वसत्त्वहितं कृत्वा संतस्थे सुचिरं तथा ॥ ९.३४ ॥
ततः काले गते राजा वृद्धोभिजीर्ण्णितेन्द्रियः ।
निःक्लेशो विरताभागो ध्यात्वैव समचिन्तयत् ॥ ९.३५ ॥
अहं वृद्धोतिजीर्ण्णाङ्गः स्थास्याम्येवं कियाच्चरम् ।
अवश्यं दैवयोगेण यास्यामि मरणं ध्रुवम् ॥ ९.३६ ॥
तदत्राहं स्वपुत्राय यूने लोकानुपालने ।
साभिषेकमिदं राज्यं दातुमर्हामि साम्प्रतम् ॥ ९.३७ ॥
इति ध्यात्वा स भूपालो नरेन्द्रदेवमात्मजम् ।
अभिषिंच्य नृपं कृत्वा बोधयन्नेवमंन्वशात् ॥ ९.३८ ॥
राजन् पुत्र समाधाय धर्मनीत्या समाचरन् ।
त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥ ९.३९ ॥
अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुः ।
सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ॥ ९.४० ॥
तदत्र सकलान् लोकान् धर्मनीत्यानुपालयन् ।
त्रिरत्नभजनं कृत्वा संचरंस्व सदा शुभे ॥ ९.४१ ॥
इत्यनुशास्य तन्पुत्रं पिता स भवनिस्पृहः ।
सर्वपरिग्रहान्स्त्यक्त्वा वनप्रस्थसमाश्रयन् ॥ ९.४२ ॥
तत्रस्थासौ महाभिज्ञः परिशुद्धित्रिमण्डलः ।
समाधिनिहितः स्वान्तः ससंचरे बह्मसंबरम् ॥ ९.४३ ॥
ततः काले गते मृत्युसमये स समाहितः ।
त्रिरत्नं स स्मरंस्त्यक्त्वा देहं ययौ सुखावतीम् ॥ ९.४४ ॥
ततः स नृपती राजा नरेन्द्रदेव इन्द्रवत् ।
संबोधयन् प्रयत्नेन सर्वान् लोकानपालयत् ॥ ९.४५ ॥
सोऽपि राजा विशुद्धात्मा सद्धर्म्मगुणलालसः ।
शान्तिकरं तमाचार्य समेत्य शरणं ययौ ॥ ९.४६ ॥
तत्र स समुपाश्रित्य शास्तुराज्ञां शिरोवहन् ।
त्रिरत्नभजनं कृत्वा प्राचरत्सर्वदा शुभे ॥ ९.४७ ॥
सदा सर्वेषु तीर्थेषु स्नानं कृत्वा यथाविधि ।
पित्रेभ्यः प्रददौ पिण्डंमर्थिभ्योऽपि यथेप्सितम् ॥ ९.४८ ॥
तथाष्टौ वीतरागांश्च क्षत्रलोकाधिपामपि ।
यथाविधि समाराध्य समार्चयत्स पर्वसुः ॥ ९.४९ ॥
तथा च श्रीमहादेवीं खगाननां यथाविधि ।
समाराध्य समभ्यर्च्य महोत्साहैर्मुदाभजत् ॥ ९.५० ॥
तथा मञ्जुश्रीयश्चैत्ये पृच्छाग्रेस्मिन्नुपाश्रयत् ।
यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५१ ॥
तथा वायुपुरे वायुदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५२ ॥
तथा वह्निपुरे वह्निदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५३ ॥
तथा नागपुरे नागदेवताः सगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्याभजत्सदा ॥ ९.५४ ॥
तथा वसुपुरे देवीं वसुधारां समण्डलाम् ।
यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ ९.५५ ॥
तथा शान्तिपुरे श्रीमत्सम्बरं सगणं जिनम् ।
यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ ९.५६ ॥
तथा तस्य धर्मधातोः स नरेन्द्रः समुपाश्रितः ।
यथाविधि समाराध्य प्राभजन् सर्वदार्चयन् ॥ ९.५७ ॥
एवं स नृपती राजा सद्धर्मगुणलालसः ।
त्रिरत्नभजनं कृत्वा संप्राचरत्सदा शुभे ॥ ९.५८ ॥
एवं स नृप एतेषु तीर्थयात्रादिकर्मसु ।
बोधयित्वा प्रयत्नेन सर्वान् लोकान् यया जयत् ॥ ९.५९ ॥
तथा सर्वेऽपि ते लोका धृत्वा नृपानुशासनम् ।
एतेषु तीर्थयात्रादिकर्मसु संप्रचेरिरे ॥ ९.६० ॥
तथाष्टौ वीतरागांश्च देवीं खगाननामपि ।
पञ्चैता देवताश्चापि चैत्यं मञ्जुश्रियोऽपि च ॥ ९.६१ ॥
जगदीशं जगन्नाथं धर्मधातुं जिनालयम् ।
यथाविधि समभ्यर्च्य प्राभजन्त सदा मुदा ॥ ९.६२ ॥
एतद्धर्मानुभावेन सर्वदात्र सुमङ्गलम् ।
निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ ९.६३ ॥
एवं स नृपती राजा नरेन्द्र देव आत्मनः ।
बोधिचर्याः व्रतं धृत्वा संप्रचर जगद्धिते ॥ ९.६४ ॥
परानपि तथा सर्वान् लोकान् यत्नेन बोधयन् ।
बोधिमार्गे समायुज्य प्राचारयज्जगद्धिते ॥ ९.६५ ॥
एवं स इन्द्रवद्राज बोधिसत्त्वा जगत्प्रभुः ।
सर्वसत्त्वहितं कृत्वा तस्थौ चिरं शुभे रमन् ॥ ९.६६ ॥
ततः श्रीमान् स आचार्यः शान्तिकरो महर्द्धिकः ।
कृतकृत्यः प्रवृद्धोऽपि निर्वातुं नाभिवांछति ॥ ९.६७ ॥
सर्वसत्त्वहिताकांक्षी शान्तिपुराग्रताधसि ।
ध्यानागारे महोद्दारे याजनैक प्रमाणिके ॥ ९.६८ ॥
आरोप्य श्रीमहोज्वाले चिन्तामणि महाध्वजम् ।
स प्राज्ञः स महासत्त्वो बोधिसत्त्वा जिनात्मजः ॥ ९.६९ ॥
समाधिधारणीविद्यायोगध्यानसमाहितः ।
सम्बोधिप्रणिधिं धृत्वा तस्थौ निश्चरमानसः ॥ ९.७० ॥
यदा सद्धर्म्महीणेऽत्र लोकपंच कषायिते ।
तदोत्थाय समाधेः स सद्धर्म्म देशयिष्यति ॥ ९.७१ ॥
यदा यदात्र सत्मित्रः शास्त्रा विद्याधिपा न हि ।
तदा तदा न सन्मित्रः शास्त्राविद्याधिपोभवन् ॥ ९.७२ ॥
सर्वान्लोकान् प्रयत्नेन निवार्य पापमार्गतः ।
बोधिमार्गे प्रतिष्ठाप्य चारयिष्यति सद्धर्मे ॥ ९.७३ ॥
एवं ध्यात्वा स आचार्यः शान्तिकरः समाधिभृत् ।
सर्वसत्त्वहितार्थेन तस्थौ योगसमाहितः ॥ ९.७४ ॥
एवं स त्रिगुणाचार्यः सर्वसत्त्वहितार्थभृत् ।
बोधिसत्त्वमहाभिज्ञ तिष्ठ तत्र जगद्धित ॥ ९.७५ ॥
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा समादरात् ।
नामापि च समुच्चार्यं भजन्ति श्रद्धया सदा ॥ ९.७६ ॥
तेऽपि सर्वे महाभिज्ञा बोधिसत्त्वा विचक्षणाः ।
भद्रश्रीगुणसंपन्ना भविष्यन्ति सदा भवे ॥ ९.७७ ॥
ततस्ते विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा चरिष्यन्ति जगद्धिते ॥ ९.७८ ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
अर्हन्तो बोधिमासाद्य प्राप्स्यन्ति सौगतं पदम् ॥ ९.७९ ॥
ये च तद्गुणमाहात्म्यं शृण्वन्ति श्रद्धया मुदा ।
तेऽपि तद्गुण संपत्ति संसिद्धिं समवाप्नुयुः ॥ ९.८० ॥
इति विज्ञाय वाञ्छन्ति यस्तस्य गुणसंपद ।
ते सद्गुणमाहात्म्यं श्रोतुमर्हति सादरम् ॥ ९.८१ ॥
इत्यादिष्टं मुणीन्द्रेन श्रुत्वा सर्वसभाश्रिताः ।
लोकास्तथेति संश्रुत्य प्राभ्यनन्दन् प्रबोधिताः ॥ ९.८२ ॥

इति श्रीमहाचार्यशान्तिकरगुणसंसिद्धिमाहात्म्यानुभावप्रकथनप्रवृत्तो नामाध्याय नवमः ।


दशम अध्यायः श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं नाम

अथासौ भगवान् भूयो मैत्रेयं तं महामतिम् ।
समालोक्य सभां चापि समामन्त्र्यैवमादिशत् ॥ १०.१ ॥
शृणु मैत्रेय वक्ष्यामि मञ्जुश्रियो जगद्गुरोः ।
सद्धर्मगुणमाहात्म्यं संबोधिज्ञानदायकम् ॥ १०.२ ॥
यदियं भिक्षुणी चूडा सुशीला ब्रह्मचारिणी ।
इदं मञ्जुश्रियं श्चैत्यं श्रद्धया समुपाश्रिता ॥ १०.३ ॥
शुद्धोत्पलस्रजो नित्यं समभ्यर्च्य यथाविधि ।
स्मृत्वा ध्यात्वा समाराध्य सभक्त्या श्रद्धया सदा ॥ १०.४ ॥
आद्यां चले चुले वन्दे स्वाहेति नवमाक्षरम् ।
धारणी परमाविद्यां पठन्ती भजने सदा ॥ १०.५ ॥
एतन्पुण्यानुभावेन चूण्डेयं भिक्षुणी सती ।
पञ्चाभिज्ञावती वर्षैर्द्वादशभिर्भवेद्ध्रुवम् ॥ १०.६ ॥
ततश्चेयं महाभिज्ञा श्रीसमृद्धिगुणाश्रया ।
सर्वसत्त्वहितं कृत्वा प्रचरेद्बोधिसंवरम् ॥ १०.७ ॥
ततोऽर्हन्ती महाप्राज्ञा परिशुद्धत्रिमण्डला ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यति ॥ १०.८ ॥
एवमन्येपि लोकाश्च चैत्यमञ्जुश्रियो त्रये ।
पठन्ती धारणीमेनां भजन्ति श्रद्धया सदा ॥ १०.९ ॥
तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
भद्रश्रीसद्गुणाधारा बोधिसत्त्वा जितेन्द्रियाः ॥ १०.१० ॥
पञ्चाभिज्ञपदप्राप्ताश्चतुर्ब्रह्मविहारिणः ।
सर्वसत्त्वहिताधारा चरेयुर्बोधिसम्बरम् ॥ १०.११ ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥ १०.१२ ॥
अर्हन्तोऽपि महाभिज्ञाः संबोधिसाधनारताः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ १०.१३ ॥
यूयमपिति मत्वात्र चैत्यमञ्जुश्रियस्तथा ।
पठन्तो धारणीमेनां भजध्वं बोधिमानसाः ॥ १०.१४ ॥
एतत्पुण्याभिलिप्ता हि परिशुद्धत्रिमण्डलाः ।
यूयमपि तथा सर्वे भवेत सुगतात्मजाः ॥ १०.१५ ॥
बोधिसत्त्वा भद्रश्रीसद्गुणाश्रयाः ।
महाभिज्ञा जगन्नाथा भवेत भद्रचारिणः ॥ १०.१६ ॥
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
जित्वा मारगणान् सर्वाश्चतुर्ब्रह्मविहारिणः ॥ १०.१७ ॥
अर्हन्तस्त्रिविधां बोधिं प्राप्य बुद्धा भविष्यथ ।
इति सत्यं परिज्ञाय यदि संबोधिमिच्छथ ॥ १०.१८ ॥
अस्मिन्मञ्जुश्रियश्चैत्यं भजध्वं सर्वदा मुदा ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते ससांधिकाः ॥ १०.१९ ॥
सर्वलोकास्तथेत्युक्त्वा प्राभ्यनन्दत्प्रबोधिताः ।
ततः सर्वेऽपि ते लोका ब्रह्माशक्रादयोऽमराः ॥ १०.२० ॥
सर्वे लोकाधिपाश्चापि सार्द्धं परिजनैर्मुदा ।
भगवन्तं मुनीन्द्रं तं ससंघ संप्रसादिताः ॥ १०.२१ ॥
नत्वा प्रदक्षिणी कृत्वा स्वस्वालयं मुदा ययुः ।
सर्वे मर्त्या नृपाद्याश्च समन्त्रिजनपौरिकाः ॥ १०.२२ ॥
ससांधिकं मुनीन्द्रं तं नत्वा स्वस्वालयं ययुः ।
हारीति यक्षिणीशापि सात्मजा बौद्धरक्षणी ॥ १०.२३ ॥
त्रिरत्नभजनं कृत्वा धर्मधातोरूपाश्रयत् ।
ततः स भगवांश्चापि समुत्थाय ससांधिकः ॥ १०.२४ ॥
प्रभासयञ्जगद्भासा जटोद्यानाश्रमे ययौ ।
तत्र स त्रिजगन्नाथो विहारे सहसांधिकैः ॥ १०.२५ ॥
सद्धर्म्मसमुपादिश्य विजहार जगद्धिते ।
इति ते गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ १०.२६ ॥
श्रुत्वाप्येतन्महाराजा श्रद्धयाभ्यनुमोदय ।
इति शास्त्रार्हतादिष्टं निशम्य स नराधिपः ॥ १०.२७ ॥
प्रसादितस्तमर्हन्त नत्वा प्राहैवमादरात् ।
भदन्तोहं समिच्छामि संद्रष्टुं तं स्वयंभुवम् ॥ १०.२८ ॥
तन्नैपाले प्रगच्छामि तदनुज्ञां प्रदेहि मे ।
इति संप्रार्थितं राज्ञा श्रुत्वा सोर्हन्यतिर्मुदा ॥ १०.२९ ॥
नृपतिं तं महासत्त्वं संपश्यन्नेवमादिश्यत् ।
साधु राजन् समिच्छा ते यद्यस्ति तं स्वयम्भुवम् ॥ १०.३० ॥
द्रष्टुं गच्छ समाराध्य भज श्रद्धासमन्वितः ।
सर्वतीर्थेषु च स्नात्वा दत्वा दानं यथेप्सितम् ॥ १०.३१ ॥
वीतरागां समाराध्य समभ्यर्च्यभिजादरात् ।
धर्मोदयां महादेवीं खगाननां जिनेश्वरीम् ॥ १०.३२ ॥
श्रद्धया समुपाश्रित्य समभ्यर्च्य भजादरात् ।
पञ्चपुरास्थिताः पञ्च देवताश्च यथाविधि ॥ १०.३३ ॥
समाराध्य समभ्यर्च्य भज भक्त्या समादरात् ।
मञ्जुदेवस्य चैत्यं च समालोक्य यथाविधि ॥ १०.३४ ॥
समाराध्य समभ्यर्च्य भजेनां धारणीं पठन् ।
आचार्य च गुहासीनं समाधिध्यानसंस्थितम् ॥ १०.३५ ॥
ध्यात्वाराध्य समभ्यर्च्य नत्वा भज समादरात् ।
एवमन्यान्महासत्त्वान् धर्म्मधातोरूपासकान् ॥ १०.३६ ॥
सर्वानपि समाराध्य समभ्यर्च्य प्रणामय ।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणाश्रयः ॥ १०.३७ ॥
बोधिसत्त्वा महासत्त्वा जगद्भर्त्ता भवेदपि ।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥ १०.३८ ॥
अर्हन्संबोधिमासाद्य संबुद्धपदमाप्स्यसि ।
इति सत्यं परिज्ञाय संबोधि यदि वाञ्छसि ॥ १०.३९ ॥
गत्वा तत्र महोत्साहैर्धर्म्मधातुं विलोक्य तम् ।
यथाविधि समाराध्य भजस्व समुपाश्रितः ॥ १०.४० ॥
गच्छ ते मङ्गलं भुयात्सिध्यतु ते समीहितम् ।
यथेच्छया समालोक्य समायाहि प्रमोदितः ॥ १०.४१ ॥
इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा ।
तं गुरुं साञ्जलिर्नत्वा प्राप्यानुज्ञामनन्दतः ॥ १०.४२ ॥
ततः स नृपती राजा समन्त्रिजनपौरिकाः ।
राजर्द्धि मंगलोत्साहैः संप्रस्थितो मुदाचरत् ॥ १०.४३ ॥
तत्र मार्गे स राजेन्द्रः सर्वान् लोकान् प्रसादयन् ।
महोत्साहैश्चरन्नाशु नैपालं समुपाययौ ॥ १०.४४ ॥
तत्र प्राप्तः समालोक्य दूरात्तं श्रीस्वयंम्भुवम् ।
साञ्जलि प्रणतिं कृत्वा प्रमनाः सहसा चरेत् ॥ १०.४५ ॥
तत्र सर्वत्र संवीक्ष्य शुभोत्साहप्रवर्त्तितम् ।
विस्मयानन्दितान्सा स नृपतिः समुपासरेत् ॥ १०.४६ ॥
तत्र सर्वेषु तीर्थेषु क्रमेण स नराधिपः ।
स्नात्वार्थिभ्यो यथाकामं ददौ दानं चरन् व्रतम् ॥ १०.४७ ॥
ततोऽष्टौ वीतरागान् स नृपतिर्वीक्ष्य हर्षितः ।
यथाविधि समाराध्य भजत्यर्च्य यथाविधि ॥ १०.४८ ॥
ततो मुदाचरन् वीक्ष्य धर्म्मधातुं जिनालयम् ।
यथाविधि समाराध्य समभ्यर्च्याभजन् क्रमात् ॥ १०.४९ ॥
ततो वायुपुरे वायुदेवतां सगणां मुदा ।
यथाविधि समाराध्य समभ्यच्यनितोभजत ॥ १०.५० ॥
ततश्चाग्निपुरे वह्निदेवताः सगणामपि ।
यथाविधि समाराध्य संपूज्याभजदादरात् ॥ १०.५१ ॥
ततो नागपुरे नागदेवताःसगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्या मुदाभजत् ॥ १०.५२ ॥
ततो वसुपुरे देवीं सगणां श्रीवसुन्धराम् ।
यथाविधि समाराध्य भजत्यर्च्य समादरात् ॥ १०.५३ ॥
ततः शान्तिपुरे श्रीमत्सम्बरं सगणं तथा ।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ १०.५४ ॥
ततः शान्तिकराचार्य समाधिध्यानसंस्थितम् ।
ध्यात्वाराध्य समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ १०.५५ ॥
ततो धर्म्मोदया देवी खगाननां महेश्वरीम् ।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ १०.५६ ॥
सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञ करुणास्पदम् ।
समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम् ॥ १०.५७ ॥
श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवकरम् ।
श्रीमन्तं श्रीकरं शान्तं शान्तिमूर्ति नमाम्यहम् ॥ १०.५८ ॥
नैरात्मवादिनं सिंहं निरवद्यं निराश्रवम् ।
नीतिज्ञं निर्मलात्मानं निष्कलंकं नमाम्यहम् ॥ १०.५९ ॥
निर्द्वन्द्वं निरहंकारं निर्विकल्पं तथागतम् ।
निर्द्धूतनिखिलक्लेशं निष्प्रपंचं नमाम्यहम् ॥ १०.६० ॥
विश्वेश्वरं विशेषोऽहं विश्वरूपं विनायकम् ।
विश्वलक्षणसंपूर्ण्ण वीतरागं नमाम्यहम् ॥ १०.६१ ॥
विधावरेण संपन्नं विश्वेशम्विमलप्रभम् ।
विनीतवेगं विमलं वीतमोहं नमाम्यहम् ॥ १०.६२ ॥
दुदन्तिदमकं शान्तं शुद्धं पञ्चजिनालयम् ।
सुगतिं सुश्रुतं सौम्यं शुभ्रकीर्त्ति नमाम्यहम् ॥ १०.६३ ॥
योगीश्वरं दशबलं लोकज्ञं लोकपूजितम् ।
लोकाचार्य लोकमूर्तिं लोकानाथं नमाम्यहम् ॥ १०.६४ ॥
कलंकमुक्तिं कामारिं सकलैकं कलाधरम् ।
कान्तमूर्ति दयापात्रं कनकाभं नमाम्यहम् ॥ १०.६५ ॥
ततो मञ्जुश्रियश्चैत्यं धर्मधातुमुपाश्रयन् ।
यथाविधि समाराध्य समभ्यर्च्यानतोभजत् ॥ १०.६६ ॥
ततो मुदा चरन् वीक्ष्य धर्मधातुं जिनालयम् ।
यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ १०.६७ ॥
भक्त्या परमयास्तौषीजिनालयं स्वयंभुवम् ।
ज्योतीरूपाय चैतन्यं रूपाय भवते नमः ॥ १०.६८ ॥
मुरादिनिधनाय श्रीदात्रे प्रणवरुपिणे ।
विश्वतोमुखरुपाय भक्तवत्सल ते नमः ॥ १०.६९ ॥
पृथ्व्यादिभूतनिर्मात्रे जगद्वंद्यायते नमः ।
जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः ॥ १०.७० ॥
ध्यानगम्याय ध्येयाय चर्तुवर्गप्रदायिने ।
एवं स्तुत्वा अशोकः स पुनः क्षमापनं व्यधात् ॥ १०.७१ ॥
एवं स नृपतिः सर्वान् धर्मधातोरुपासकान् ।
महासत्त्वान् समभ्यर्च्य सत्कृत्य समतोषयत् ॥ १०.७२ ॥
एवं स नृपराजः श्री धर्मधतोरूपाश्रितः ।
त्रिरत्नभजनं कृत्वा प्राचरद्बोधिसम्बरम् ॥ १०.७३ ॥
ततः स नन्दितो राजा समन्त्रिजनपौरिकः ।
नत्वा प्रदक्षिणीकृत्य धर्म्मधातुं मुदाचरत् ॥ १०.७४ ॥
ततश्चरन् स भूमीन्द्रो महोत्साहैः प्रमोदितः ।
सहसा पुरमासाद्य विहार समुपाचरत् ॥ १०.७५ ॥
तत्रोपेत्य तमर्हन्तमुपगुप्तससांधिकम् ।
समीक्ष्य सञ्जलिर्नत्वा सभैकान्तं समाश्रयत् ॥ १०.७६ ॥
तं समायातमालोक्य सोऽर्हे शास्ता प्रसन्नदृक् ।
स्वागतं कुशलं कच्चिन्नृपतिं पर्यपृच्छत ॥ १०.७७ ॥
तच्छुत्वा स महीपालः शास्तारं तं कृताञ्जलिः ।
प्रणत्वा सुप्रसन्नास्यः संपश्यन्नेवमब्रवीत् ॥ १०.७८ ॥
समागतोस्म्यहं शास्तर्भवत्कृपानुभावतः ।
कुशलं मे कथं न स्यात्सर्वत्रापि सदापि हि ॥ १०.७९ ॥
भवत्कृपानुभावेन नेपालेऽहं मुदाचरन् ।
दृष्ट्वा सर्वेषु तीर्थेषु स्नात्वा दानं यथेप्सितम् ॥ १०.८० ॥
तथाष्टौ वीतरागाश्च समालोक्य प्रमादितः ।
यथाविधि समाराध्य समभ्यर्च्यभिजं क्रमात् ॥ १०.८१ ॥
ततः समीक्ष्य तं श्रीमद्धर्म्मधातुं स्वयंभुवम् ।
यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ १०.८२ ॥
ततो वायुपुरे वायुदेवताभ्यर्च्चिता मया ।
ततश्चाग्निपुरे वह्निर्देवतापि मयार्च्चिता ॥ १०.८३ ॥
तथा नागपुरे नागराजांश्चापि मयार्च्चिता ।
तथा तथा वसुपुरे देवी वसुन्धरां समर्च्चिता ॥ १०.८४ ॥
ततः शान्तिपुरे श्रीमत्सम्बरश्च समर्च्चितः ।
ततः शान्तिकराचार्यः समालोक्य मयार्चितः ॥ १०.८५ ॥
देवीं खगाननां चापि समाराध्य समर्चिता ।
मञ्जुदेवस्य चैत्यं च यथाविधि समर्चितम् ॥ १०.८६ ॥
एवं भदन्त तत्रोपच्छन्दोहे पुण्यभूतले ।
यथाविधि समाराध्य सर्वदेवा मयार्चिताः ॥ १०.८७ ॥
एतत्पुण्यं मया लब्धं भवत्कृपानुभावतः ।
तदत्र जन्मसाफल्यं जीवितं चापि मेऽधुना ॥ १०.८८ ॥
तथात्र सर्वदा शास्त धर्मधातुं जिनालयम् ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजेय मा भवम् ॥ १०.८९ ॥
इति राज्ञा समाख्यातं श्रुत्वा सोऽर्ह प्रसादितः ।
नृपति तं समालोक्य पुनरेवं समादिशत् ॥ १०.९० ॥
धन्योऽसि यत्महाराजधर्मधातुं जिनालयम् ।
स्मृत्वा ध्यात्वापि संभक्तुंमिच्छसेऽत्र सदा भज ॥ १०.९१ ॥
एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः ।
बोधिसत्त्वो महासत्त्वः सर्वधर्माधिपो भवेः ॥ १०.९२ ॥
ततः संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
अर्हन्स्त्रिबोधिमासाद्य ध्रुवं बुद्धपदं लभेः ॥ १०.९३ ॥
समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः ।
श्रुत्वापि यत्महत्पुण्यं संबोधिसाधनं लभेत् ॥ १०.९४ ॥
इति मत्वा समुत्पत्तिकथां तस्य स्वयंभुवः ।
सत्कृत्य श्रद्धया मर्त्याः श्रोतुमर्हन्ति सर्वथा ॥ १०.९५ ॥
समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः ।
शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा ॥ १०.९६ ॥
दुर्गतिं ते न गच्छन्ति कुत्रापि हि कदाचन् ।
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥ १०.९७ ॥
सर्वसत्त्वहिताधानबोधिचर्याव्रतारताः ।
महाभिज्ञा जगन्नाथा भवेयुः सुगतात्मजाः ॥ १०.९८ ॥
क्रमेण बोधिसम्भारं पूरयित्वा जगद्धिते ।
अर्हन्तत्रिविधां बोधिं प्राप्येयुः सौगतं पदम् ॥ १०.९९ ॥
इति मत्वा महाराज श्रोतव्यं श्रद्धयादरात् ।
स्वयम्भूगुणमाहात्म्यं दुर्ल्लभं बोधिवाञ्छिभिः ॥ १०.१०० ॥
शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा ।
स्वयंभूगुणमाहात्म्यसद्धर्मश्रीगुणार्थदम् ॥ १०.१०१ ॥
तेऽपि न दुर्गतिं यायुः सदासद्गतिसंगताः ।
भद्रश्रीसद्गुणाधारा भवेयुर्बोधिलाभिनः ॥ १०.१०२ ॥
तस्मादेतत्महत्पुण्यं श्रुत्वा ध्यात्वा सदादरात् ।
स्मृत्वा नाम समुच्चार्य संभक्तव्यं स्वयंभुवम् ॥ १०.१०३ ॥
अहमपि पुरा राजन् धर्म्मधातोः स्वयंभुवः ।
श्रुत्वा सद्गुणसांकथ्यं बभूव संप्रमोदितः ॥ १०.१०४ ॥
ततोऽहं सहसा तत्र नेपाले समुपाचरंत् ।
स्नात्वा सर्वेषु तीर्थेषु ददौ दानं यथेप्सितम् ॥ १०.१०५ ॥
अष्टौ तान् वीतरागांश्च समाराध्य मयार्चिताः ।
देवीं खगाननां चापि समाराध्य समर्चिता ॥ १०.१०६ ॥
मञ्जुदेवस्य चैत्यं च समाराध्य समर्चितम् ।
पञ्च पुरा स्थिता पञ्च देवताश्च समर्चिताः ॥ १०.१०७ ॥
तथा शान्तिकराचार्यः समालोक्य समर्चितः ।
ततःशरणमाश्रित्य धर्मधातो स्वयंभुवः ॥ १०.१०८ ॥
सत्कृत्य श्रद्धया नित्यं समाराध्य मुदा भजम् ।
एवं तत्र सदाश्रित्य धर्मधातोरूपासकः ॥ १०.१०९ ॥
त्रिरत्नभजनं कृत्वा प्राचरन् बोधिसंबरम् ।
एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ १०.११० ॥
अहं बोधिं समासाद्य जिनात्मजा भवेऽधुना ।
इति विज्ञाय मानुष्या वाञ्छन्ति ये सुनिर्वृतिम् ॥ १०.१११ ॥
धर्मधातुं समाराध्य भजन्तु ते सदा मुदा ।
स्मृत्वा ध्यात्वा च नामापि समुच्चार्य समादरात् ॥ १०.११२ ॥
समालोक्य प्रणत्वापि भजन्तु तं जिनालयम् ।
ये भजन्ति सदा स्मृत्वा ध्यात्वा नत्वा जिनालयम् ॥ १०.११३ ॥
द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः ।
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ १०.११४ ॥
श्रुत्वानुमोद्य तं धर्मधातुं स्मृत्वा भजन्त्वलम् ।
सुभाषितमिदं येपि श्रुत्वानुमोदिताशयाः ॥ १०.११५ ॥
धर्मधातुमनुस्मृत्वा ध्यात्वा भजन्ति सर्वदा ।
तेऽपि चैतत्महत्पुण्यपरिशुद्धत्रिमण्डलाः ॥ १०.११६ ॥
भद्रश्रीसद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा महाभिज्ञाः शुभेन्द्रियाः ॥ १०.११७ ॥
द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः ।
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ १०.११८ ॥
त्वमपीदं सदा लोका श्रावयित्वानुमोदय ।
एतत्पुण्यानुभावेन सर्वत्र सर्वदापि ते ॥ १०.११९ ॥
निरुत्पातं शुभोत्साहं भवेन्नूनं नराधिपः ।
इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा ॥ १०.१२० ॥
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ।
ततः सर्वेऽपि ते लोका निशम्यैतत्सुभाषितम् ॥ १०.१२१ ॥
अनुमोद्य महोत्साहैः संचेरिरे शुभे सदा ।
तदैतत्पुण्यभावेन सर्वत्र तत्र सर्वदा ॥ १०.१२२ ॥
निरुत्पातं शुभोत्साहं प्रावर्त्तत निरन्तरम् ।
इत्यादिश्य महाभिज्ञो जयश्रीः स महामतिः ॥ १०.१२३ ॥
सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् ।
यत्रेदं धर्म्मसांकथ्यं प्रावर्त्तयेत्कलावपि ॥ १०.१२४ ॥
भाषेत्य शृणुयाद्यश्च श्रावयेद्यः प्रचारयेत् ।
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा ॥ १०.१२५ ॥
कृपा दृष्ट्या समालोक्य प्रकुर्युर्भद्रमाभवम् ।
सर्वा पारमिता देव्यस्तेषां तत्र सदा शिवम् ॥ १०.१२६ ॥
कृत्वा संबोधिसंभारं पूरयेयुर्यथाक्रमम् ।
सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि ॥ १०.१२७ ॥
अर्हन्तो योगिनस्तेषां प्रकुर्युर्मङ्गलं सदा ।
सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः ॥ १०.१२८ ॥
तत्र तेषां हि सर्वेषां कुर्युः समीक्ष्य मङ्गलम् ।
सर्वे देवाधिपाश्चापि सर्वदैत्याधिपा अपि ॥ १०.१२९ ॥
तथा सर्वेऽपि गन्धर्वाः सर्वयक्षाधिपा अपि ।
गरुडा नागराजाश्च कुम्भाण्डाधीश्वरा अपि ॥ १०.१३० ॥
समीक्ष्य सर्वदा तेषां रक्षां कुर्युः समन्ततः ।
सर्वाश्च मातृका देव्यः सभैरवगणा अपि ॥ १०.१३१ ॥
कृत्वा रक्षां सदा तेषां कुर्युर्भद्रं समन्ततः ।
सर्वे ग्रहाश्च ताराश्च सिद्धा विद्याधरा अपि ॥ १०.१३२ ॥
साध्याश्चापि सदालोक्य तेषां कुर्युः सुमङ्गलम् ।
भूतप्रेतपिशाचाश्च दुष्टा मारगणा अपि ॥ १०.१३३ ॥
वीक्ष्य तेषां प्रसन्नास्ते रक्षां कुर्युः सदा मुदा ।
स्वयम्भूगुणमाहात्म्य सांकथ्यं योऽलिखेत्मुदा ॥ १०.१३४ ॥
तेनापि लिखितं सर्व महायानसुभाषितम् ।
लेखापितं च येनेदं धर्मधातुसुभाषितम् ॥ १०.१३५ ॥
तेनापि सकलं सूत्रं लेखापितं भवेद्ध्रुवम् ।
लिखितं चापि येचेदं प्रतिष्ठाप्य यथाविधि ॥ १०.१३६ ॥
शुद्धस्थाने गृहे स्थाप्य पूजाङ्गैः सर्वदार्चितम् ।
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि ॥ १०.१३७ ॥
ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ।
यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशत् ॥ १०.१३८ ॥
भावयेत्सततं स्मृत्वा ध्यात्वापि प्रणमेन्मुदा ।
तस्य सर्वमुनीन्द्रो हि प्रत्येकसुगता अपि ॥ १०.१३९ ॥
अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् ।
यश्चैतदुपदेष्टारं सर्वाश्च श्रावकानपि ॥ १०.१४० ॥
यथाविधि स समभ्यर्च्य भाजनैः समतोषयेत् ।
तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि ॥ १०.१४१ ॥
अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ।
बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च ॥ १०.१४२ ॥
अर्चिता भोजितास्तुष्टा भवेयुरनुमोदिताः ।
किमेवं वहुनोक्तेन सर्वे बुद्धा मुनीश्वराः ॥ १०.१४३ ॥
सर्वास्ताराश्च देव्योऽपि सर्वसंघा जिनात्मजाः ।
नित्यं तेषां कृपा दृष्टया समालोक्यानुमोदिताः ॥ १०.१४४ ॥
रक्षां विधाय सर्वत्र वरं दद्युः समीहितम् ॥ १०.१४५ ॥
सर्वे लोकाधिपाश्चापि सर्वे देवा सुराधिपाः ।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधने ॥ १०.१४६ ॥
राजानोऽपि सदा तेषां रक्षा कृत्वानुमोदिताः ।
यथाभिवाञ्छितं दत्वा पालयेयुः सदादरात् ॥ १०.१४७ ॥
मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः ।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥ १०.१४८ ॥
सर्वे वैश्याश्च सर्वार्थभर्त्तारःस्यु सुहृन्प्रियाः ।
श्रेष्टिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥ १०.१४९ ॥
द्विषोपि दासतां यायुर्दृष्टाश्च स्युर्हिताशयाः ।
एवमन्येपि लोकाश्च सेर्व्व स्युर्मैत्रमानसाः ॥ १०.१५० ॥
पशवः पक्षिणश्चापि सर्वकीटाश्च जन्तवः ।
नैव तेषां विरुद्धा स्युः भवेयुर्हितशंसिन ॥ १०.१५१ ॥
एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् ।
निरुत्पातं शुभोत्साहं सौमाङ्गल्यं सदा भवेत् ॥ १०.१५२ ॥
एवं भद्रतरं पुण्यं स्वयभूंभवनोद्भवम् ।
नत्वा तं त्रिजगन्नाथं भजध्वं सर्वदा मुदा ॥ १०.१५३ ॥
ये तस्य शरणे स्थित्वा स्मृत्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥ १०.१५४ ॥
तेषां त्रिन्यपि रत्नानि सुप्रसन्नानि सर्वदा ।
कृपा दृष्टया समालोक्य कृत्वा देयुः सदा शुभम् ॥ १०.१५५ ॥
इति शास्त्रासमादिष्टं जयश्रिया निशम्यते ।
जिनेश्वरी प्रमुखाः संघा सर्वे नन्दन्प्रबोधिताः ॥ १०.१५६ ॥
सर्वावती सभा सापि श्रुत्वैतत्संप्रसादिताः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ १०.१५७ ॥
ततस्ते सकला लोकाः समुत्थाय प्रसादिताः ।
जयश्रिय ससंघं तं नत्वा स्वस्वाश्रमं ययुः ॥ १०.१५८ ॥
तत्र नित्यमुपेत्यत्यर्द्ध्या ससंघः सजिनात्मजा ।
स्नात्वा सर्वेषु तीर्थेषु धृत्वा व्रतं यथाविधि ॥ १०.१५९ ॥
ततोऽष्टौ वीतरागांश्च देवीं चापि खगाननाम् ।
पञ्चमा देवताश्चापि यथाविधि समर्च्चयन् ॥ १०.१६० ॥
तथा शान्तिकराचार्य चैत्य मञ्जुश्रियोऽपि च ।
धर्माधातुं समाराध्य ध्यात्वाभ्यर्च्य सदाभजत् ॥ १०.१६१ ॥
तदैतत्पुण्यभावेन विषये तत्र सर्वदा ।
निरुत्पातं शुभोत्साहं प्रावर्त्तत समंततः ॥ १०.१६२ ॥
ततश्चासौ महाभिज्ञा जयश्रीः सुगतात्मजः ।
सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् ॥ १०.१६३ ॥
यत्रेदं धर्मसांकथ्यं प्रचारितं स्वयंभुवः ।
तत्रैत्त्पुण्यभावेन भवतु सर्वदा शुभम् ॥ १०.१६४ ॥
संबुद्धास्तत्र सर्वेऽपि प्रत्येकसुगता अपि ।
अर्हन्तो बोधिसत्त्वाश्च कुर्वन्तु मंङ्गलं सदा ॥ १०.१६५ ॥
सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः ।
समालोक्य सदा तत्र प्रकुर्वन्तु सुमङ्गलम् ॥ १०.१६६ ॥
काले वर्षन्तु मेघाश्च भूयाच्छश्यवती मही ।
निरुत्पातं सुभिक्ष्यं च भवन्तु तत्र सर्वदा ॥ १०.१६७ ॥
राजा भवतु धार्म्मिष्ठो मन्त्रिणो नीतिचारिणः ।
सर्वे लोकाःसुवृत्तिष्ठा भवन्तु धर्मसाधिनः ॥ १०.१६८ ॥
सर्वे सत्त्वाः समाचाराः संबोधिविहिताशयाः ।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥ १०.१६९ ॥
इति जयश्रियादिष्टं श्रुत्वा सर्वेऽपि सांधिकाः ।
एवमस्त्विति प्राभाष्य प्राभ्यनन्दन्प्रसादिताः ॥ १०.१७० ॥

इति श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं दशम अध्यायः समाप्तः ॥

ये धर्म्मा हेतुप्रभावा हेतु स्तेषां तथागतः ह्यवदत् ।
तेषां च यो निरोध एवं वादी महाश्रमणः ॥

शुभमस्तु ॥

देयधर्मोऽयं प्रवरमहायायिनः श्रीमत्रुद्रवर्ण्णमहाविहारावस्थितः परमोपासकश्रीशाक्यवंशोद्भवः श्रीरामानन्देन लिखितोऽगमत्संपूर्ण्ण ॥

शुभमस्तु सर्वदाः ॥

नेपाले हायने यातः नागमुनीरसान्वितेः ।
चाषाढे क्षीनचन्द्रे तु पञ्चम्याञ्च तिथौ शुभे ॥ १ ॥
संपूर्ण्णमगमत्तस्मिं श्रीरामानन्देन लेखितः ।
यदि शुद्धमशुद्धं वा शोधनीयं दहद्वुधैः ॥ २ ॥
यत्पुण्यलिखिते प्रोक्तं यत्पुण्यपातने तथा ।
तत्पुण्येन जगत्सर्व प्राप्नुयाद्बोधिमुत्तमाम् ॥ ३ ॥

श्रीरामानन्दया पुस्तक जुरो । शुभम् । उपसर्ग्ग । महरादहराश्चैव शीतरापूटलोक वा । उपसर्ग्गी महामारी सप्तैते लोकहारकः ॥ संवत्९३४ श्रावण शुक्ल ॥ समाप्तम् ॥ �