स्फुटार्था-श्रीघनाचारसंग्रहटीका

विकिस्रोतः तः
स्फुटार्था-श्रीघनाचारसंग्रहटीका
[[लेखकः :|]]


स्फुटार्था श्रीघनाचारसंग्रहटीका

। नमो बुद्धाय ॥

प्रहीणनिःशेषमलान् जितारीन् ज्ञेयोदधेः पारगतान् कृपालून् ।
सद्धर्मसच्छिष्यगणान् समस्तान्नमामि बुद्धान् बहुशः कृताञ्जलिः ॥

दानाम्बुसेकपरिवृद्धसुशीलमूलं मैत्रीकृपा + + + पल्लवजातशोभम् ।
बोध्यङ्गमार्गफलितं हि जिनालिजुष्टं मञ्जुश्रियं च शुभकल्पतरुं नमामि ॥

आचारसंग्रहस्यास्य स्मृतये मन्दमेधसां
विस्तीर्णसूत्रसंक्षेपात्क्रियतेऽयं विनिश्चयः ॥

तत्र प्रायेण हि सन्तो गुर्विष्टदेवतां पूजयित्वा क्रियायां प्रवर्तन्ते पुण्यप्रसवार्थ, ततो विघ्नोपशमनार्थं मङ्गलार्थञ्चेति । अहमपि च सदाचारोऽयमिति कृत्वा श्रीघना चारसंग्रहारम्भे स्वदेवतानमस्कारं कर्तुं प्रवृत्त इति दर्शयन्नाह । प्रहीणाशेषसंक्लेश इति विस्तरः । तत्र त्रिविधः संक्लेशः- क्लेशसंक्लेशः कर्मसंक्लेशः जन्मसंक्लेशश्च । क्लिश्यन्ति कायवाक्चित्तानि इति क्लेशाः । ते च रागादिकमष्टोत्तरशतम् । अष्टानवतिरनुशयाः । दश पर्यवस्थानानि । क्लेश एव (२) संक्लेशः क्लेशसंक्लेशः क्लेशस्वभावत्वात्क्लेशसंक्लेशहेतुत्वाच्च क्लेशसंक्लेश इत्युच्चते । कस्य क्लेशसंक्लेशहेतुत्वादिति चेत्कर्मसंक्लेशस्येति ब्रूमः । यतः क्लेशानललीढहृदया[ः]
कुशलमरीचितोयाकारप्रतिभासमवगाहनाय पर्येषन्ते । त्रिविधं कर्म- कायिकं वाचिकं मानसिकञ्च । कायिकमपि त्रिविधं कुशलमकुशलमव्याकृतञ्च । एवं वाचिकमानसिके विस्तरेणोह्ये । कर्मैव संक्लेशः कर्मसंक्लेशः संक्लेशकरत्वात्संक्लेशहेतुत्वाच्च । क्लेशसंक्लेशजनि[त]त्वा[त्] यस्य संक्लेशकरत्वमवगन्तव्यं, जन्मक्लेशहेतुत्वात्संक्लेशहेतुत्वम् । जन्म उत्पत्तिः प्रादुर्भाव इत्यनर्थान्तरम् । जन्मैव संक्लेशः जन्मसंक्लेशः जन्मसंक्लेशफलत्वात्संक्लेशहेतुत्वाच्च । यतः कर्मसंक्लेशाद्रागिणां जन्म वीतरागजन्मादर्शनात् । अतः क्लेशकर्म संक्लेशकर्म संक्लेशफलत्वात्क्लेशसंक्लेशहेतुत्वाच्च जन्मसंक्लेश इत्युच्यते । अत एव निर्देशो नाल्पीयान्न च भूयान् रत्नत्रयवत् । अधुना त्रिपद्येव बहुव्रीहिः । प्रहीणाः [परित्य]क्ताः अपनीतास्तिरस्कृताः अशेषाः निखिला वासनासहिताः संक्लेशा क्लेश[कर्म]जन्माख्यायेन [बुद्धेन] भगवता, स भवति प्रहीणाशेषसंक्लेशः । अनेन बुद्धस्य भगवतः प्रहाणसंपदं दर्शयति । ननु [प्रहीण]संक्लेश इत्येव वक्तव्यं, किमशेषग्रहणेन? नैतदस्ति । यदि प्रहीणसंक्लेश इत्येवोच्यते, तदा श्रावकप्रत्येकबुद्ध्[आनामपि] ग्रहणं प्राप्नोति । तेऽपि प्रहीणसंक्लेशा भवन्ति क्लिष्टाज्ञानात्यन्ताभावात्, न तु प्रहीणाशेषसंक्लेशाः अक्लिष्टा [ज्ञानात्यन्ताभा]वात् । तथाप्येषां प्रत्येकजिनश्रावकाणां बलवैशा[र]द्यादिषु (३) तथागतधर्मेषु अनेकलोक[धातुग]तेषु देशेषु अतीतानागतभेदभिन्नेषु च न भवत्येवाक्लिष्टमज्ञानम् । [किं पुनः] संजानीषे त्वं सारिपुत्र, तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञान[दर्शन]स्कन्धमिति पृष्टेनोक्तं- नो भदन्तेति सूत्रातार्यमहामौद्गल्यायनस्य स्वमातृजन्मदेशापरिज्ञानाता[र्य]सारिपुत्रेण च प्रव्रज्यापेक्षपुरुषप्रत्याख्यानात्मयूरचन्द्रकादिनिष्पत्तिकर्मविशेषापरिज्ञानाच्चेति । अतो माभूत्तेषां ग्रहणम् । ज्ञेयं बोद्धव्यं परिज्ञातव्यमित्यनर्थान्तरम् । निश्चयेन धीयन्ते अवतिष्ठन्ते अस्मिन् भावा इति निधिराधारः । अम्भसां वारिणां निधिरम्भोनिधिः । लोके हि अम्भोनिधिशब्दो बाह्यवस्तुनि प्रसिद्धः । इह तु तत्साधर्म्यात्यथा महासमुद्रो गम्भीरत्वाततिदुरुत्तरत्वाच्चाम्भोनिधिरुच्यते, एवं ज्ञेयमपि दुष्परिज्ञानात्समस्तानावेद्यत्वेन दुरवगाहयत्वातम्भोनिधिः । ज्ञेयमेवाम्भोनिधिः ज्ञेयाम्भोनिधिः । पारं गच्छतीति ज्ञेयाम्भो[नि]धिपारगः पारावारगमनवत् । अनेनापि ज्ञानसंपदं दशबलस्य दर्शयति । प्रहीणाशेषसंक्लेशश्चासौ ज्ञेयाम्भोनिधिपारगश्चेति प्रहीणाशेषसंक्लेशज्ञेयाम्भो[नि]धिपारगः । अतस्तं प्रहीणाशेषसंक्लेशज्ञेयाम्भोनि[धि]पारगम् । तमीदृग्विशिष्टं बुद्धं भगवन्तं प्रणम्य कायवाङ्मनोभिरिति शेषः । समानकर्तृकयोः क्रिययोः पूर्वकालेऽयं क्त्वा विधीयते प्राणम्येति । यथा स्नात्वा भुंक्त इति । अतः पृच्छयते कं प्रणम्य किं करिष्यसीत्याह- श्रामणेराणामाचारः संग्रहीष्यते । तत्र श्रामणमुच्चं निर्वाणपुरमीरन्ति गच्छन्तीति श्रामणेराः । (४) अथवा श्रामण्यममलो मार्गः तमीरन्ति गच्छन्तीति श्रामणेराः । श्रामणानामेरा दासा इति केचित् । तेषां किं? आचारः संग्रहीष्यते
। आचरणमाचारः अकुशलपरिवर्जनं कुशलभजनं चेति योऽर्थः । ननु च एवं सति ग्रन्थस्याचारत्वं न प्राप्नोति क्रियारूपत्वात् । नैष दोषः । आचारप्रतिपादकोऽपि ग्रन्थ आचार उच्यत इति उपचारात्जातकमालावत्कंसवधवत् । आचरन्त्यस्मिन्निति कृत्वा आचारशब्देन श्रीघनाचारसंग्रह एवाख्यायते । संग्रहीष्यत इति संग्रहः । करिष्यते आरिप्सत इति यावत् । मयेति वाक्यशेषः । अन्यथा उत्तमपुरुषेणैव निर्देशमकरिष्यत्, आचारं संग्रहीष्यामीति । संक्षेपतोऽस्मिन् श्लोके बुद्धस्य भगवतः प्रहाणसंपत्ज्ञानसंपत्, त्रैलोक्य शास्तृत्वं, अविपरीतशासनकारणञ्च परिदीपितं प्रहीणाशेषसंक्लेशशब्देन ज्ञेयाम्भोनिधिपारगशब्देन च । यतः प्रहीणाशेषसंक्लेशत्वं प्रहाणसंपदं नातिवर्तते, ज्ञेयाम्भोनिधिपारगत्वं च ज्ञानसंपदम् । प्रहाणज्ञानसंपज्ज्ञाने यो युक्तः, स त्रैलोक्य गुरुर्भवति यथाभूतशास्ताचेति ।

प्रहाणज्ञानसंपत्ती त्रैलोक्य एकशास्तृता ।
सम्यक्शासनहेतुश्च श्लोकेनाभिहितं क्रमात् ॥

इति संग्रहश्लोकः ॥ १ ॥


(५)
शरणं भवेदिति विस्तरः । ननु चाचारः संग्रहीष्यत इति अनन्तराभिधानादाचारः संग्रहीतव्यः कस्मात्शरणगमनादिकमुच्यते? यद्यप्येतच्छ्रामणेराणामित्यनन्तरं प्रकृतं श्रामणेराणामाचारः संग्रहीष्यत इति । ते च श्रामणेरा दशशिक्षा पदपरिगृहीता एव प्राधान्येनाभिप्रेताः, न गृहिणः । स एष श्रामणेरमावः तेषां श्रामणेराणां कथं भवति, येन श्रामणेरभावेन समन्वागतानामाचारः संग्रहीष्यत इति । अतो यथोद्देशः तथा निर्देश इति न्यायात्श्रामणेरभाव एव तावदादौ वक्तव्य इत्याह । शरणं गतवानिति श्लोकः । तत्र त्राणार्थः शरणार्थः । अत एवाह भगवान्-

बहवः शरणं यान्ति पर्वतांश्च वनानि च ।
आरामचैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥

इति गाथावचनात् । गतवानिति प्रयातवान् । बुद्धमिति । यथा दिनकरकरोदयादापादितसकलकर्णिकारप्रमुदितद्विरेफवृन्दपरिपीयमानकमलषण्डो बुद्ध इत्युच्यते, एवं भगवानपि भूतभाविसांप्रतिकाध्वनिर्मुक्तज्ञेयबुद्धेर्विकाशनात्मोहसंकोचापगमात्बुद्ध इत्युच्यते । तथा चाह-

त्रैलोक्ये चाध्वनिर्मुक्ते ज्ञेये विकाशनाद्धियः ।
विबुद्धप्रतिबुद्धाद्वा मोहसंकोचघातकः ॥ इति ।

(६)
अथवा यः पुरुषो व्यपनीतनिद्रः सुप्तोत्थितो विबुद्ध इत्युच्यते । एवं भगवानपि संसारमहाशयनादुत्थितः अज्ञाननिद्रापगमात्बौद्धस्य ज्ञानस्य साक्षात्करणाद्बुद्ध इत्युच्यते । तथा चाह-

अज्ञाननिद्राच्छेदात्तत्वज्ञानसमुद्भवात् ।
यो विबुद्धः स वै बुद्धो विबुद्धपुरुषो यथा ॥ इति ।

अज्ञानतिमिरपटलपर्यवनद्धनेत्रान् प्राणिनो बोधयतीति बुद्धः, अनुत्तरेण ज्ञानेन बुध्यते वा शिवमिति बुद्धः । स च त्रिविधेन धर्मसाम्भोगिकेन नैर्माणिकेन च व्यवस्थित इति अन्यत्र शास्त्रान्तरे निर्दिष्टमिति ग्रन्थगौरवपरिहारार्थमिति इह नाभिधीयते । धर्ममिति । स्वलक्षणधार[ण]स्वभावात्, न ध्वंस्यत इति वा धर्मः । स च द्विविधः- अधिगमस्वभावः आगमस्वभावश्चेति । तत्राधिगमो बोधिपक्षा धर्मा अनन्ता अनवद्या[श्]च । आगमः सूत्रविनयाभिधर्मा इति । एष द्विविधः धर्मः । संघमिति । चत्वारः प्रतिपन्नकाः चत्वारः फलाप्ताः अभेद्यत्वेन संघगतत्वातष्टौ महापुरुषपुद्गलाः संघ इत्युच्यन्ते । कतमे पुनस्ते अष्टौ? यदुत स्त्रोतापत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्त्रोतापन्नकः, सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः सकृदागामी, अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः अनागामी, अर्हत्फलसाक्षात्क्रियायै प्रतिपन्नकः अर्हन्निति । तथा चाह-

बुद्धे धर्मे तथा संघे मारकोटिशतैरपि ।
भेत्तुं न शक्यते यस्मात्तस्मात्संघोऽभिधी(य)ते ॥ इति ।

अतस्तं बुद्धं धर्म संघं शरणं यो ग[त]वानिति यावदेषः श्रामणेरो मुनेर्मत (७) इति अनेन पदेन संबन्धनीयः । कदाचिद्भयादिनापि शरणं गच्छतीत्यत आह । भक्तितः प्रसादवेगेनेत्यर्थः । अथ किमर्थमादौ पञ्चशिक्षापदानि न ग्राह्यन्ते शरणगम[ना]दिदानतः । यो हि तस्य शरणं गच्छति, स तस्याज्ञां परिपालयति नान्यः । अतो यदि न पञ्चशिक्षापदानि आदौ न ग्राह्यन्ते न त्रीणि शरणगमनादीनि प्रदीयन्ते, तदा मुमुक्षुणा शिक्षापदपरिपालनं प्रत्यवज्ञैव स्यात् । अतो माभूदवज्ञेत्यादौ शरणगमनप्रदानतः । शिक्षापञ्चकमादायेति । शिक्षणं शिक्षा । प्रवृत्तिनिवृत्त्यात्मके शीले वा प्रतिपत्तिराचरणं समादानतः शीले सम्मुखीकरणमिति योऽर्थः । शिक्षैव पञ्चकं शिक्षापञ्चकं, एवं शिक्षापञ्च[का]नीत्यर्थः । कारिकाबन्धानुगुण्याच्च शिक्षापञ्चकमित्युक्तम् । कानि पुनः शिक्षापदानि? प्राणातिपातादत्तादानकाममिथ्याचारमृषावादसुरामैरेयमद्यस्थानकेभ्यो विरमणम् । आदायेति गृहीत्वा । किं योऽनुप्रव्रजितो जिनं? य इति यः पुरुषः । अनुप्रव्रजित इति पश्चात्प्रव्रजितः । कं प्रतीत्याह । जिनम् । जितक्लेशत्वाज्जिनः । जितात्मपापका धर्मास्तेनोपगः । जिनोक्तमिति श्रतेर्वचनात् । बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजामीति यो वाचमुदीरयतीत्यर्थः ॥

यावज्जीवं वधस्तेयमित्यादि । यावज्जीवमित्यनेन कालावधि दर्शयति वधः प्राणातिपातः, स्तेयं चौर्यं, मैथुनमब्रह्मचर्यं, अनृतवाक्यं मृषावादः । वधश्च स्तेयञ्च मैथुनं चानृतवाक्यं चेति वधस्तेयमैथुनानृतवाक्यम् । अतः किं तस्य, किं विरत इति पौरस्त्येन पदेन संबन्धः । किमेतस्मादेव यो विरतः संवरी भण्यते? नेत्याह । किं तर्हि मद्यपानाच्च । सुरामैरेयमद्यपानाच्चेत्यर्थः । (८) अथ सुरामैरेयमद्यपानमिति कोऽर्थः? सुरान्नासवः । मैरेयं द्रव्यासवः । ते च कदाचितप्राप्तमद्यसद्भावे भवत इति । अतो मद्यग्रहणम् । पूगफलकोद्रवादयो मदयन्तीति सुरामैरेयग्रहणम् । महोच्चैरित्यादि । शेरतेऽस्मिन्निद्रां प्रयातीति शयनम् । आस्यतेऽस्मिन्निति उपविशन्ति आसनम् । महोच्चैश्च शयनञ्चासनञ्च महोच्चैः शयनासनम् । अतः तस्मादुच्चशयनमहाशयनयोर्योऽर्थः ।

नृत्यादेरित्यादि । नर्तनं नृत्यम् । बाहुविक्षेपान्नर्तनं नृत्यम् । द्वयोर्दोर्दण्डयोर्यदुत्क्षिप्य नर्तनं नृत्यमुच्यते । तथा वक्ष्यते बाहुविक्षेपकं नृत्यमिति । आदिशब्देन गीतवादित्रयोर्ग्रहणम् । तेन नृत्यादिरिति नृत्यगीतवादित्रादित्यर्थः । उच्चैः स्वरेण गायनं गीतम् । वीणावेणुमृदङ्गादिवादित्रवादनं वादित्रमुच्यते । गन्धमाल्या[द्या]दिति । गन्ध्यत इति गन्धो त इत्यर्थः । उपयोगोऽत्र मालायां हितं माल्यं चम्पकाशोकादिकुसुमम् । आदौ भवमाद्यम् । आद्यशब्देन विलेपनस्य ग्रहणम् । तेन गन्धमाल्यविलेपनादित्यर्थः । हरितालादिवर्णेन वदनम्रक्षणं विलेपनम् । विभूषणार्थ विलेपनं विलेपनमिति कृत्वा । विकालाशनत इति । अत्र सूर्योदयादारम्य यावत्केशमात्रान तीतको मध्याह्नकालशब्देनाभिधीयते । विगतः स ईदृग्विधः कालो यस्यापराह्णादेः स विकालः । तस्मिन् कालेऽशनं भोजनम् । तस्माद्विकालाशनादित्यर्थः । तथेति । तथाशब्देन यो विरतः इति संबध्यते । रुक्मरूप्यग्रहाच्चेति । रुक्मं सुवर्ण, रूप्यं रजतं, तयोर्ग्रहणं रूक्मरूप्यग्रहण । अतः तस्माज्जातरूपपरजतप्रतिग्रहणादिति यावत् । एषः श्रामणेरो मुनेर्मत इति । यः प्राणातिपा[ता]द्विरतः यावज्जातरूपरज तपरिग्रहात्स एषः श्रामणेरो (९) मुनेर्मतः । बुद्धस्य भगवत इष्टोऽभिप्रेत इति यावत् । यद्यपि सर्वे बुद्धा भगवन्तः कायवाक्चित्तमौनतो मुनिरिति सामान्यवाचिना मुनिशब्देनाभिधीयन्ते, तथापि भगवतः शाक्यमुनेर्ग्रहणं वेदितव्यम् । तत्शासनप्रतिपन्नत्वादस्मदादीनामन्यदीयशासनान्तर्धानाच्च । श्लोकबन्धवैगुण्यात्शाक्यमुनेर्मत इति नोक्तम् । शाक्यशब्दलोपं वा कृत्वा इदं निर्दिष्टं मु नर्मत इति । यथा सत्यभामाभामेति । संक्षेपतस्तदुक्तं भवति- रत्नत्रये शरणं गत्वा पञ्चशिक्षापदानि परिगृह्यबुद्ध भगवन्तं प्रव्रजितमनुप्रव्रजामीति वाचमुच्चार्य प्राणातिपाताद्विरतो यावत्जातरूपरजतपरिग्रहाच्च स एष श्रामणेरो मुनेर्मतः । अभिप्रेत इति । आह चात्र-

पूर्वं त्रिशरण दत्वा पञ्चशिक्षापदा[नि] च ।
केशानपनयेत्पश्चात्स्नापयेच्च व्रतार्थिनम् ॥

काषायमंशुकं दद्यातनुप्रव्राजयेत्ततः ।
दशशिक्षापदानीति प्राहुर्विनयवेदिनः ॥

(१०)
इदानीं श्रामणेरभावोपायः निर्दिश्यते । एषां श्रामणेराणामाचारसंग्रहमारभते । सकलेन शरीरेणेत्यादि । तत्र शीर्यन्तेऽस्मिन्नङ्गानीति शरीरम् । तच्च कश्चित्प्रदेशोऽपि संभवति इत्यतः सकलग्रहणम् । तेन सकलेन शरीरेण सर्वेण प्रकारेण कायेनेत्यर्थः । शरीरान्यतरेण वेति । हस्तपादमस्तकादिसमुदायस्यान्यतरेण हस्तादिनेत्यर्थः । शरीरावयवेन हस्तपादादिना गृहीतं शरीरप्रतिबद्धम् । शरीरव्यतिरिक्तेन लतालगुडेनेत्यर्थः । न हन्यान्न मारयेत् । कमित्याह । प्राणिनम् । प्राणोनाम वायुः, सोऽस्यास्तीति प्राणी । स च किं विशिष्ट एव? पञ्चशाखादि निर्वृत्तः परिगृहयते । अतः कललादिशातने संवरत्यागो न भवति । प्राणिशब्देन च मनुष्यगतिपर्यायः एव गृहयते न प्राणिमात्रं, सजन्तुकसलिलादिपरिभोगे दुष्कृतवचनात् । जातिवाची वायं शब्दः । तेन स्त्रीपुरुषपण्डकं पञ्चशाखादि[निर्]वृत्तं मारयतः स्यादेव संवरत्यागः । अनेन श्लोकेन कायिको विक्रमः प्रतिषिद्धो भवति ॥

वाचिकविक्रमप्रतिषेधपदमाह । मृत्योर्वर्णमित्यादि । मृत्युर्जीवितेन्द्रियनिरोधः । तस्य वर्णः प्रशंसा, तं न भाषेत । न वदेदित्यर्थः । कृतपुण्यो भवान्, उद्यानयात्रा तव परलोकगमनमिति श्रुत्वा कश्चिदात्मान हन्यात् । तदिदानीमत्र दुष्कृतपूर्वकः संवरत्याग इति प्रतिषिध्यते । मृत्योर्वर्ण न भाषयेत्, शस्त्रहारं न चैषयेदिति । शस्त्रं हरति वहतीति वा शस्त्रहारो वध्यघातकः । तत्र पर्येषयेत् । वधकेन मारणाभिप्रायेण । चित्तेन मनसा । मारणाय मारणार्थम् । न नियोजयेदिति ॥

(११)
पूर्वोक्तपर्यायव्यतिरेकै रन्यैरपि प्रयोगैर्मारयतः संवरत्यागो भवतीति प्रतिपादयन्नाह । विरेकवमनालेपेति विस्तरः । तत्र विरेकं ग्रस्तनं, वमनं छर्दनम् । आलेपेन वर्णान्यथात्वे सति विनश्यति । विषं जातिमं कृत्रिमञ्च, शस्त्रं कुलिशादि । विरेकश्च वमनं चालेपनं चेत्यादि द्वन्द्वः । तेषामभिसंस्करणमभिसंस्कृतिः । तां न कुर्यात् । किमर्थ? प्राणिघाताय मनुष्यवधार्थम् । न च गर्भस्य शा[त]नमिति । गर्भशातनं न कुर्यादित्यर्थः । केचित्गर्भशातननिमित्तं विरेकादिकं न कुर्यादिति निमित्तसप्तमीं वर्णयन्ति ॥

न केवलममुना प्रयोगेण मारयितुं न लभ्यते मरणनिमित्तमात्रमपि कर्तुं न सुलभ्यत इति प्रतिपादयन्नाह । निमित्तं न व्रती कुर्यादित्यादि । निमित्तं लिङ्गं न कुर्यात् । को न कुर्यादित्याह । व्रती । कैः? स्वप्नोलूकादिवाशितैः । स्वप्न इति पञ्च स्वप्नाः । स्वप्नालीकानन्ताचीर्णा सत्याख्यं स्वप्नपञ्चकमिति वचनात् । उलूकादीनां पक्षिणां, वाशितानि रुदितानि । स्वप्नाश्च उलूकादिवाशितानि चेत्यर्थः । तैः । आदिशब्देन नामगोत्रदानादीनां ग्रहणम् । तच्च त्रिविधं धर्मामिषाभयभेदेन । आमिषदानमपि द्विविधं वाह्याध्यात्मिकभेदेन । दौःशीलं शीलविरतिः प्रकृतिसावद्यात्प्रज्ञप्तिसावद्यात्भगवता प्रतिषिद्धाद्विकालभोजनादेः दुःखतापोप शमनादप्रतिसारा दिना प्रह्लादित्वेन शीतलत्वाच्छीलं, सुखं शीलसमादानं कायो न परितप्यत इति गाथावचनात् । शीतीभावं निर्वाणक्रमेण लातीतिशीलम् । फलानि चत्वारि स्रोतापत्तिफलं सकृदागामिफलमनागामिफलमर्हत्फलम् । (१२) फलानामाप्तिर्लाभः । दानञ्च शीलञ्च फलाप्तिश्चेति दानशीलफलाप्त[य]ः । अतः ताभिरिति संबन्धः ।

वधकेनापि चित्तेन भ्रान्त्या मारयतः संवरत्यागो न भवती ति दर्शयन्नाह । मध्यपश्चात्पुरोगेष्विति विस्तरः । मध्ये पश्चात्पुरो गच्छन्तीति मध्यपश्चात्पुरोगाः । अतस्तेषु मध्यपश्चात्पुरोगेषु मनुष्येषु गच्छत्सु यत्रैव वधकं मनः यस्मिन्नेव पुरुषे वधकचित्तं तमेव पुरुषं ध्नतो मारयतः । अस्येति श्रामणेरस्य । हिंसा प्राणिवधः । नान्यं तस्मात्पुरुषादन्यं पुरुषं भ्रान्त्या मारयतः अस्य हिंसा न भवतीत्यर्थः । क एवमाह । इत्यतो ब्रवीति । आह सर्ववित् । सर्वं वेत्तीति सर्ववित्, भगवान् बुद्धः । स एवमाहेत्यनेनाप्तागमं दर्शयति ॥

अन्यदपि प्रयोगान्तरं न कार्यं मारणायेति दर्शयन्नाह । कूटेत्यादि । कूटमिति पाशं वर्णयन्ति । अवमार्थमिति पाशयन्त्रम् । अवष्टम्भमिति यन्त्रमेव, येन सहसाक्रम्य हन्यात् । अवपयमिति अवपातं वर्णयन्ति । मन्त्रिभिः मन्त्रप्रभावेन मृतके पिशाचादिप्रवेशनं वेतालः । कूटादीनामभिसंस्करणमभिसंस्कृतिः ।
तामवपयञ्च किं न कुर्यात्? मारणाय शरीरिणां सत्त्वानाम् । अन्यथा तु न दोषः ।

कूटकं पाशमित्याहुः अवमार्थं पाशयन्त्रकम् ।
अवपयमवपा तञ्च स्तम्भाख्यं यन्त्रमेव च ॥

इति संग्रहश्लोकः ॥

(१३)
मृत्युहेतोः स्थानोपदेशमात्रमपि कर्तुं न लभ्यते इति दर्शयितुमाह । तस्करेत्यादि । तस्करः चौरः । अहिः सर्पः । सेना युद्धाय एकत्र सन्निपातः । शेषं सुगमम् । चौरादिभ्यो भयं यत्र यस्मिन्मार्गे पथि भवति तस्य पन्थानं देहिनां प्राणिनां नाशाय विनाशार्थं यतिर्न कथयेत् ॥

विषमनदीप्रतारणमपि तर्तुं न कल्पयति तमिति दर्शयितुमाह । भुजगेत्यादि । भुजाभ्यां गच्छतीति भुजगः सपः । आवर्तो वेगी । भुजगश्चावर्तकश्चेति द्वन्द्वः । तेषां भयम् । यत्र यस्या नद्याः तीर्थे भयं भवेत्तत्तीर्थं न प्रकाशयेत् ॥

किञ्च राज्ञा वा यत्र घात्यते तन्मार्गं न प्रकाशयेदिति दण्डादिदानप्रतिषेधोपायेन परं घातयितुं न क्षमत इति दर्शयितुमाह । किञ्चिद्भूपतय इत्यादि । भूः पृथ्वी, तां पालयतीति भपतिः राजा । भूपतये राज्ञे किञ्चिदपि मा दास्त्वम् । किञ्चिदपि द्रव्यं मा दास्यसीत्यर्थः । वरं जीवितं त्यजेति । जीवितपरित्यागं वरं कुरु त्वमित्यर्थः । इत्येवं समुचितं प्रत्यायादानार्थ प्रतिबद्धस्य पुरुष स्यान्तिकेऽयुक्तमयुक्तरूपं वचनं न वदेदित्येके । भदन्तपरहितघोषस्त्वाह । आ । समन्तात्सर्वत्र कार्ये नियुक्तः इत्यायुक्तः व्यापृतक उच्यते, तेनायुक्तेन बद्धः संरुद्ध योऽन्यः पुरुषः तस्मिन् बद्धायुक्ते पुरुषे इत्येवं न वदेत् । वरं म्रियस्व मा त्वं किञ्चित्द्रव्यं राज्ञे देहीति । अन्यथा हि यः सरुद्धो व्यापृतकः तस्मिन् बद्धायुक्त इत्येवं न वदेदित्यर्थः पूर्ववत् । अन्यथा वरं म्रियस्व मा त्वं किञ्चिदयुक्ताय देहि इत्युक्तं स्यात् । न भूपतय इति नियुक्तैर्नान्यस्य पुरुषस्य बद्धत्वात् ॥

सभयं लयनं वधकचित्तेनोपदेष्टुं न कल्पत इति दर्शयन्नाह । भुजगेत्यादि । अत्र विहारशब्देन लयनमेवोच्यते विहरन्त्यस्मिन्निति कृत्वा । तेनायं वाक्यार्थो जायते
। (१४) यस्मिन् लयने सर्पादिभयं भवति तद्वधकाभि प्रायेणागन्तुकायभिक्षवे नोद्दिशेत् । य उद्दिशति तस्य दुष्कृतं भवति असति मरणे, मरणे तु संवरत्यागो भवति ॥

मर्जारादिव्यपदेशेनापि शत्रु मारयन्नयतिर्भवतीति प्रतिपादयितुमाह । व्याघ्रादिव्यपदेशेनेत्यादि । यः श्रामणेरः शठजातीयः व्याघ्रं हन्मीति व्यपदेशं कृत्वा शत्रुं हन्यात्स विहाराद्घट्टनीयः । आशु शीघ्रम् । असौ चेल्लकैर्निर्द्वारणीयः । वैरिणि मृते सतीति बोद्धव्यम् ॥

अधार्मिकक्रियाकारमपि प्रतिषेधयति तथा कार्यमित्यादिना । तथा कर्तव्यं यथा न जोवेदेकाप्यरिः शत्रुरिति । एवमरीन् शत्रून् । यतिः । अधर्म्या न क्रिया, अधार्मिकक्रियाकारो न कार्यः । संस्मृत्य क्रकचोपम इति । क्रकचेन करयन्त्रेण उपमा यस्मिन्मृते तदेवमुच्यते । तत्तु संस्मृत्य किं? अधार्मिकक्रियाकारो न कार्य इति संबन्धः ।

परप्रयोगेणापि मारयन्नयतिर्भवतीति दर्शयति । वधा इत्यादि । एको द्वौ त्रयो वापि ये श्रामणेरा वधीकृता मारणाभिप्रायतो । युगपदेककालम् । तत्प्रयोग इति । घातयितुम् । श्रामणेरस्य प्रयोगेण मनुष्यं मारयति, ते विहारान्नाशयितव्याः ॥

(१५)
एभिरङ्गैर्मनुष्यवधो भवतीति दर्शयन् परांश्चोदयन्नाह । उपक्रम इत्यादि । तत्र शस्त्रादिग्रहणमुपक्रमः । मनुष्योऽयमिति संज्ञा नृसंज्ञा । कदाचिदुपक्रमं करोति नृसंज्ञानवति न त्वसौ मनुष्य इत्याह । नर इति । यद्यसौ मनुष्यो भवति । कदाचिदेतानि त्रीण्यङ्गानि संभवन्ति, न वधकचेतनेति । अतो वधकचेतनावचनम् । कदाचिदुपक्रमः प्रज्ञायते, नृसंज्ञा वधकचे[त]नावान् च नरो भवते, न तु जीविताद्व्यपरोपयतीति । अत आह । जीवितस्य क्षयश्चेति । तदुपक्रम इत्येकमङ्गं, नृसंज्ञा चेति द्वितीयमङ्गं, नर इति तृतीयमङ्गं, वधकचेतनेति चतुर्थमङ्गं, जीवितक्षयश्चेति पञ्च[मम]ङ्गमित्येतानि पञ्चाङ्गानि नृघातने मनुष्यवधे वेदितव्यानि । केचित्तु मन्दधियः प्राहुः । नरे वधकचेतनेति सप्तम्यन्तं पठन्ति । तेषां पञ्चाङ्गानि न सिद्ध्यन्ति नरे वधकचेतनेत्यस्य पदस्यैकाङ्गत्वात् । विनयश्च तैर्विलोपितो भवति । एष हि विनये निर्देशः । प्राणी च भवति, प्राणिसंज्ञी च भवति, वधकचित्तञ्च प्रत्युपस्थितं भवति, उपक्रमञ्च करोति, जीविता द्रव्यपरोपितो भवति इयता प्राणातिपाती भवति । अत्र च प्राणी भवति इत्यादि सर्वः प्रथमान्तो निर्देशः । तथा कारिकान्तरेणापि उपक्रम इति नृसंज्ञावधकचेतनेति प्रथमान्तनिर्देशः कृतः । तस्मात्प्रथमान्त एव निर्देशः अवगन्तव्यः ॥

विषशस्त्रादिप्रयोगेणापि मारयितुं न निर्दिश्यत इति दर्शयन्नाह । श्रामणेरेत्यादि । यद्विषशस्त्रादि यतिना प्रयुक्तं नरस्य नाशाय, यदि तेनैव प्रयोगेण नरो म्रियते तदासौ प्रयोक्तासंवरी संवराद्भ्रश्यते । अथान्यदीयेन तदा नेति अनेनास्यापत्तिर्भवतीति कथयति ॥

(१६)
अवक्रीतादिरित्यादि । एष यतिः केनचिदवक्रीतो भवति । यो भृतको वा स विनयानभिज्ञत्वात्, विनयज्ञोऽपि चानुस्मरणात् । आदिशब्देन द्वेषाभिभवात् । अवक्रीतादेः संवरत्यागो [न] भवतीति मत्वा नरं मारयेत् । मारयन् संवरक्षोभलाभी भवति । नोन्मत्तादिकः । उन्मत्तविक्षिप्तचेतसस्तु श्रामणेरा मारयन्तो न दौः शील्यभाजो भवन्ति स्मृतेरभावात् ।

सत्त्वपीडाक्रियायाः कारणमाह । कायेत्यादिना । कं रुणद्धीति करुणा । तस्यां भवाः कारुणिकाः । तथा हि परदुःखदुःखिनो बुद्धा भगवन्तः, तैः कारुणिकैः मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं मनः कर्म प्राणिषु सत्त्वेषु सर्वदा सर्वस्मिन् काले कर्तव्यं यतिना श्रामणेरेणेति । एवमुक्तमभिहितम् । यस्मात्यतः कारणात् । अस्मादनन्तरोक्ताद्धेतोः किमित्याह । न सत्त्वान् पीडयेदिति श्लोकः । सत्त्वानां पीडां न कुर्यात् । कैरित्याह । दारुरज्ज्वयश्चर्मबन्धनैः । तत्र दारु काष्ठम् । रज्जु गुणमयी क्रिया । अयो लोहः । चर्म वदध्री । तेषां बन्धनानि अतस्तैः । अनलोऽग्निः । जलञ्चानलश्च जलानलौ । तत्र निमज्जज्जलं जलानलप्रवेशः । अनु त्यक्तंतस्य त्यजनमनुत्यागः । आदिशब्देन विषभक्षणादिकं ग्राहयति । जलानलप्रवेशश्चानुत्यागश्चेति द्वन्द्वः । तस्मिन्न नियोजयेत् ॥

कृमिगोरूपेत्यादि । कृमिगीरूपादीनां विहिंसनं मिथ्याजीवश्च कर्षणे सति यस्मात्कारणात्भवति तस्माद्धेतोः कर्षण दूरादेव त्यजेत् ॥

(१७)
नाङ्कयेदोमहिष्यादि । गोमहिष्यादिर्नाङ्कयितव्यो, न चास्य गोमहिष्यादेर्नासिकां वेधयेत्, न च वेत्रादिना ताडयेत् ॥

उद्दिश्येत्यादि । श्रामणेरमुद्दिश्य मत्स्यादिकं जीविताद्व्यपरोपयेत् । व्यपरोप्य तस्य मांसेन यद्व्यञ्जनं कृतं तत्भक्षयतो यतेः श्रामणेरस्य यस्मान्निघृणं निष्कृपं चित्तं जायते । अतः कदाचितुद्दिश्य कृतं भक्षयन् लोभानलेनापूर्यमाणः प्राणिवधमपि कुर्यातिति हिंसा यस्य संभाव्यते । तस्मादुद्दिश्य कृतं न भक्षणीयमित्यभिप्रायः ॥

तदुद्दिश्य कृतं कथं बोद्धव्यमित्याह । ज्ञेयं तु त्रिभिराकारैरित्यादि । अभ्रान्तिमता निरीक्षितेन श्रुतेन शङ्कितेन वा तदुद्दिश्य कृतं बोद्धव्यम् । एषामेव पदानां लक्षणं चिकीर्षुराह । ईक्षितं यत्स्वयं दृष्टमित्यादि । आत्मनायद्दृष्टं तदीक्षितमुच्यते । प्रत्यायितेनाविसंवादकेन तु यदुक्तं तत्श्रुतमुच्यते ॥

आशङ्कामधिकृत्याह । गृहाबद्धेत्यादि । गृहाबद्धा ये पक्षिमृगशूकरादयः तेषां यत्पक्षशृङ्गादि [तद्]दर्शनात्- किमेते मृगपक्षिशूकरादयो ममोद्दिश्य हता न वेति आशङ्का उत्पद्यते । सत्यामाशङ्कायां दानपतिः प्रष्टव्यः- किमेते ममोद्दिश्य हता न वेति । पृष्टो दातेत्यादि । यदिदं दानपतिः पृष्टः सन्नेवं वदेत्- त्वन्निमित्तं तवार्थेऽमी मृगादयो हता इति । एवं सति तस्मिन् गृहे न भुञ्जीत । उद्दिश्य कृतत्वात्तस्येति भावः । विरतः प्राणिनां वधादित्यनेन गृहीतशिक्षस्यायं प्रतिषेधो नेतरस्येति दर्शयति । श्येनकादिहता वेत्यादि । अथ स दानपतिरेवं (१८) कुर्यात् । श्येनकादिभिरमी हता मृताः पक्षिणो हताः । शालियवमुद्भक्षणाद्वा मृताः । मातापित्रोर्यज्ञस्य कृते हता इत्येवं सति दोषास्ति नाश्नताम् । एवं दातरि ब्रुवाणे सति भुञ्जानानां न कश्चिद्दोषो भवतीत्यर्थः ॥

एकं श्रीघनमुद्दिश्येत्यादि । यद्येकं श्रामणेरमारभ्य कृतं मत्स्यादिकं मासं व्यञ्जनं तदन्येषामपि श्रामणेराणां यतीनां भोगाय न कल्पते । भिक्षुभिक्षुण्योपासकोपासिकानां समुद्दिश्य कृतञ्च यत्तदपि परिभोगाय न कल्पते ।

नादेयादि जलमित्यादि । नद्याम्भवं नादेयम् । किं तत्? जलम् । आदिशब्देन ताडागादीनां ग्रहणम् । कीदृशं? सजन्तुकं सप्राणकम् । तत्सप्राणकमिति जानन्नपि न पिबेत् । को न पिबेदित्याह । व्रती । जानन्निति वचनात् । अज्ञाने न दोषः । नात्र जन्तुशब्देन मत्स्यादयः परिगृह्यन्ते तेषां विवेचनक्षमत्वात् । किन्तु जन्तवोऽत्र मताः सूक्ष्माः । जन्तवः प्राणिनः । सूक्ष्माः अदृश्याः । अत्रास्मिन् शिक्षापदेमताः अभिप्रेताः । यथा कतम इत्याह । त्रसिकोर्मिङ्करादयः । उर्मिकर इत्येवमादय इति यावत् । अथ किमर्थमियं कारिका पृथक्व्यवस्थाप्यते? यावता वृक्षसेकगुरुस्नानं कुर्यान्नाशुद्धवारिणा इत्यस्यां कारिकायां सप्राणकेन वृक्षसेकादिप्रतिषेधादयमपि कार्योऽवगत एव । यत्र हि सेकः प्रतिषिध्यते सुतरां तत्र पानप्रतिषेधः । सत्यमेतदनुसङ्गतो न मुख्यतः । न अत्र मुखाकारेण मारणाभिप्रायोऽस्ति पातुकामतायाः प्राधान्यात् । अतः पृथगेव स्थापिता इयं कारिका । किञ्चार्थोत्पत्तिवशान्न (१९) लिखितेत्यदोषः अर्थोत्पत्तिप्रभावत्वाद्विनयस्येति कृत्वा ।

वारीत्यादि । जलं पावयितुं धर्मकरङ्कं खल्लकसहितं स्थापयेत् । अन्तशोऽगत्या कोशोऽप्यधिष्ठेय इति अधिष्ठातव्य इत्यर्थः । कस्य कोशोऽधिष्ठातव्यः इत्याह । सुवाससः । सत्पटस्येत्यर्थः । किमर्थ? विघातपरिहारार्थ । दुष्कृतपरिहारं चेत्यध्याहार्यम् ॥

दिव्यनेत्रेत्यादि । दिवि भवं दिव्यम् । किं तत्? नेत्रं चक्षुः । दिव्ये नेत्रे यस्य स दिव्यनेत्रः । अन्धः चक्षुरिन्द्रियरहितः । दिव्यनेत्रस्यान्धस्य श्रामणेरस्य नेष्टं नाभिहितम् । किं तन्नेष्टमित्याह । जलप्रत्यवेक्षणम् । युक्तं तावतन्धस्य जलप्रत्यवेक्षणप्रतिषेधः सामर्थ्याभावात् । अथ दिव्यनेत्रस्य कस्मात्प्रतिषेधः? स हि पृथिव्याश्रितानपि प्राणकान् सूक्ष्मान्तरकारूपिकान् पश्यति । अत आह शङ्कापरिहारार्थदिव्यचक्षुषः प्रतिषेधः । भदन्तः प्रज्ञासिंह आह- दिव्यचक्षुषः कुमतय इत्युच्यन्ते । तथाविधरूपत्वात् । पृथग्जनानां प्रत्यवेक्षणं न स्यात् । अतः प्रतिषेधकरणमिति । ननु चान्धस्य जलप्रत्यवेक्षा सामर्थ्याभावादेव न भविष्यति, किमनेन प्रतिषेधेन प्रयोजनं? प्रसन्नाक्षस्य दर्शनसंभवात्प्रतिषेधमिति विनयविदो वर्णयन्ति ॥

केन तर्हि जलं प्रत्यवेक्षणीयमित्याह । हस्तेत्यादि । हस्तस्याङ्गुष्ठाग्रे आवर्ता सूक्ष्मरेखा तां द्रष्टुं शीलं यस्य स [त]थोक्तः, तस्य न निवार्यते । अनिवार्यमिति यावत् । अनेनैव तिमिरिकाणां प्रतिषे[ध]यन्ति ॥

तेन हस्तपश्चिमकावर्तदर्शिना कियन्तं कालं प्रत्यवेक्षणीयमिति आह । (२०) लोचनस्येत्यादि । लोचनस्याक्ष्णोर्विभ्रमो मा भूदिति कृत्वा चिरं बहुकालं न [प]श्येत्न निरीक्षयेत् । नेति प्रतिषेधः । तदिति जलम् । चिरप्रतिषेधादेव प्रत्यवेक्षणी[यं] इत्याह । कल्पमात्रं न वै कुर्यादित्यादि । माया परवञ्चना । शाठयञ्चित्तकौटिल्यं येन तथाभूतं नाविष्करोति अस्फुटं प्रतिपद्य । माया च शाठयञ्च मायाशाठये । अतः ताभ्यां समन्वितः । संकल्पमात्रकरणाय नास्यैवं प्रत्यवेक्षणीयम् । कालनियमस्तर्हि कर्तव्यः इत्याह । येनान्तरेणेत्यादि । यावत्कालान्तरेण षष्ट्यब्दः षष्टिवर्षः कुञ्जरो हस्ती परिभ्रम्यते । शकटं वा वंशपूर्णं यावता कालेन कालान्तरेण भ्रमति, स ईदृग्विधकाल इत्यर्थः । सलिलेक्षणे जलप्रत्यवेक्षणे वेदितव्यः ॥

ऊर्ध्वेत्यादि । ऊर्ध्वा च अधरा च मध्यमा च ऊर्ध्वाधोमध्यमाः । तिस्त्रः किं? भूमयः । कस्य? सलिलस्य । शुद्धिमायाति या या भूरिति । आसां तिसृणामपि भूमीनां मध्ये या या भूः शुद्धिमायाति निः प्राणका भवति, कार्यं कुर्यात्तया । तया भूम्येति संबन्धः ॥

यत्र इत्यादि । यस्यां नद्यां पुष्करिण्यां वा, स्थूला महान्तः प्राणका करतलहताः हस्तेन हताः सन्तः अधः स्थलं यान्ति तत्र जलं ग्रहीतव्यं, न चेत्स्रावयितव्यमिति । चेच्छब्दो यद्यर्थे । यदि करतलाहताः सन्तः प्राणिनोऽधो [न] यान्ति तदा स्रावयितव्यं तदुदकम् । कया? पञ्चाङ्गुलिकया । पञ्चभिरङ्गुलीभिः इत्यर्थः । भवेयुरु[द]कमित्यादि । यस्मिन्नुदके प्राणिनः करे लग्ना उत्तिष्ठन्ति न तत्र पाणिपादास्यवस्त्रादिकं क्षालयेद्यतिरिति । आस्यं मुखम् । सुगमत्वान्न विभक्तम् ॥

कुले इत्यादि ॥ कुले यः श्रामणेरः भोजनाय निमन्त्रितः, तेन तत्र गत्वा प्रष्टव्यं- किमत्र जलं स्रावितं न वेति । नेति चेत्, संज्ञिको (२१) वाच्यः- स्रावयेति । यदि पृष्टः सन् दानपतिः ब्रवीति न स्रावितमिति, तदा संज्ञिको वाच्यः । संज्ञास्यास्तीति संज्ञिकः, स विशिष्ट एव गृह्यते । यः स्रावणाय कुशलः स वक्तव्यः । किमिति । एतत्सप्राणकं जलं स्रावयेति । इतरो न तु । यः स्थ[वि]रतरः परिस्रावयितुं न जानाति, स स्रावयेति न वक्तव्यः । यः वक्ति, तस्य दुष्कृतं स्यात् ।

यदि तथैकोऽपि स्रावणाय कुशलो न भवति, तदा किं कर्तव्यमित्याह । किन्तु स्नाव्यमिति विस्तरः । स्राव्यात्परिस्रावणात् । सजन्तुकजलमात्मीयपात्रे मुक्त्वा कुतः पुनरेतदुदकमानीतमिति पृष्टं यतः पुष्करिण्यादेरानीतं तत्रैव मुञ्चेत्स्वयमिति । मा भूदन्यत्र क्षारं नीरमुपघातकृतं प्राणिनामिति तत्रैवेत्याह । सप्ताहं वेत्यादि । अथवा यत्र सप्त दिवसान् पानीयमवतिष्ठति तत्र तत्सप्राणकमुदकं मोक्तव्यम् । अथवा विहारे कटाहादौ तत्र स्थापयेत् । कीदृग्विध इत्याह । तदशुष्यति । तत्पानीयं तत्र शोषं नोपैति । तस्मिन्नशुष्यति कटाहादौ स्थापयेत् । केचित्तदशुष्यति तत्र पानीयाशोषणं निमित्तमिति निमित्तसप्तमीं वर्णयन्ति । प्रवृष्टेत्यादि । अथवा सुतरां देवे वृष्टे । कीदृशे? स्वच्छनीरौघवाहिनि । स्वच्छमनाविलं, नीरौघं जलौघं वोढुं शीलं यस्येति भावः । स्वच्छनीरौघवाही । तस्मिन्नीदृग्विधे वृष्टे सति तानि [स]प्राणकानि जलानि निम्नगानां पतिं महासमुद्रपातङ्गच्छतेति उक्त्वा विसर्जयेत् । अथैतत्सर्व न भवति । दूरगतोदकमुदकपानमस्ति । तदा तत्सप्राणकं जलं किं कर्तव्यमित्याह । सुदीर्घैत्यादि । दीर्घातिप्रमाणतलिकाधोभागः । वक्त्रं मुखं दीर्घं यस्या रज्जुद्वयेन च (२२) बद्धा घटिका सा एवमुच्यते । तया दूरगताध्वगेन उदके कूपे अधस्तात्तदुदकं मुञ्चेत् ॥

अध्वगेन कथं जले प्रतिपत्तव्यमित्याह । घटिकात्रितयमिति । तिस्रो घटिकाः प्रत्यवेक्ष्य मार्गगेण उदपानतः कूपात्जलं पातव्यम् । किं परिशुद्धास्वपि? नेत्याह । किं तर्हि सर्वास्ताः परिशुद्धाश्चेत्पेयं? चेच्छब्दो यद्यर्थे । यदि तास्तिस्रो घटिकाः परिशुद्धा भवन्ति, प्रत्यवेक्षमाणास्तदानेन मार्गगेण पातव्यम् । तत्स्राव्यमन्यथेति । कथमन्यथा? यदि तास्तिस्रो घटिका न शुध्यन्ति, तदा सजन्तुकं जलं स्रावयितव्यमिति । घटिकात्रितयं वीक्ष्येति । घटिका त्रितयस्थमुदकम् । स्तोकस्तोकेन सलिलं प्रत्यवेक्ष्येत्येके । सकृदेक एव । एकैकस्याः स्तोकस्तोकं प्रत्यवेक्ष्येत्यपरे । एतदेव तु युज्यते, यतोप्यूर्ध्वाधोमध्यमास्तिस्रः सलिलस्यापि भूमयः इति कारिकायां स्तोकं प्रत्यवेक्षितव्यमिति युक्तं न च तत्र सर्वं शिक्षापदञ्चेदं, नादेयादि जलं जानन्निति वचनात् । तस्मात्घटिकापि स्तोकमेव प्रत्यवेक्षितुमनुज्ञायते । तद्वदिहापि । अथ तमशक्यत्वात्तत्र स्तोकम् । इह तु शक्यत्वात्सर्वमिति । एवं तर्ह्यशक्यत्वात्तत्राप्रत्यवेक्षणमेवास्तु । अथाशक्यं स्तोकेन चित्तविशुद्धिर्विधीयते, शक्येऽपि कस्मान्नैवं सर्वं शिक्षापदं चेदं, नादेयादिजलं जानन्निति वचनात् । तस्मात्पृष्टेऽपि स्तोकमेव प्रत्यवेक्षणीयम् । घटिपञ्चघटिकां वीक्ष्येति केचित्पठन्ति । तेषामन्यार्थत्वात्पाठो नाभ्युपेयः । अमुत्र तु विधिः ।

(२३)
अध्वगव्यतिरेकेण घटिकास्तु षट्पञ्च वा ।
प्रत्यवेक्ष्योपभोक्तव्याः अन्यथा दुष्कृती भवेत् ॥

न रज्जुघटिकेत्यादि । रज्जुश्च घटिका च रज्जुघटिके तयो र्दानं परित्यागः । तन्न शस्तं नाभिमतम् । कुत्रेत्याह । सप्राणके जले । सह प्राणकेन वर्तत इति सप्राणकं जलं, तस्मिन् । किं तदेव न शस्तं? नेत्याह । किं तर्हि? पिबेति वक्तुमित्यादि । तत्सप्राणकमुदकं परस्मै पिबेति वक्तुं दातुं वा न जातु कदाचित्यतिः क्षमते । यथा यतिनानन्तरनिर्दिष्टमेतत्न कार्यम् । किं तेन सप्राणकमिदं तडागादि इत्यपि न वक्तव्यमित्याह । सजन्तुकमित्यादि । इयं पुष्करिणी सरित्तडागादि सप्राणकमिति परेषामुच्चैः शब्दैर्न वदेत् । अथ यदि कश्चित्पृच्छति, किमिदं, प्रतिवचनं दद्यात्, सप्राणकमिति, तडागादि । तदा कुरु कार्यं न वेति समीक्ष्येति । पृष्टः प्रतिवदेत्परान् प्रत्यवेक्ष्य जल कृत्यं कुरु । इत्येवं सति पृष्टः सन् परं यतिर्वदेत् । न तु सप्राणकमिति वदेदित्यर्थः । लोकावध्यानपरिहारार्थमि[ति] भावः । यथा च परेषामेवं न वक्तव्यम् । किमेवमुपाध्यायाचार्याणामपि? नेत्याह । किं तर्हि उपाध्याय इत्यादि । सप्राणकमिदं तडागादि न वेति स्फुटं वक्तव्यम् । स्वकीयाणामुपाध्यायाचार्याणां वक्तव्यं न शाठ्यं कर्तव्यम् ।

एवं तर्ह्यात्मनः सप्राणकजलपानप्रतिषेधात्परेषाञ्च दानप्रतिषेधात्वृक्षादीनामचेतनानां सप्राणकेनोदकेन सेकान्नदानं न निरुध्यते । बाह्यपरिभोग्याश्चेत्तदाशङ्कां निवृत्यर्थमाह । वृक्षसेकमित्यादि । अपरिशुद्धेन जलेन वृक्षसेको न दातव्यः । (२४) उपाध्यायाचार्याणामपि स्नानं न कार्यमिति अनेन बाह्यभोगो निवारितः ॥

किं पुनर्जलमेव सप्राणकमोकृतं दात्रं वक्रं न कुर्यात्, आहोस्विदन्यदपि? अन्यदपीत्याह । मस्तुकाञ्जिक इति विस्तरः । मस्तुशब्देन दधिमस्तूच्यते । काञ्जिको धान्याम्बुरित्येकोऽर्थः । सौवीरं बहुभिरौषधिद्रव्यैः क्रियते अम्बुविशेषैः । मण्डोऽन्नविकारः । दण्डाहतं मथितम् । तदेवमादिकं सप्राणकं यतिर्न पिबेत्, न परस्मै दद्यात्, भुवि पृथिव्यां न त्यजेत् ।

समत्कुण इत्यादि । सह मत्कुणैर्वत्तते यच्छयनं तदातपे न शोष यत् । हिमे कर्दमे शोतवारिणि उष्णवारिणि वा [न] क्षिपेत् । अनेन सत्त्वपीडाकरणमात्रमपि प्रतिषेधयति ॥

नवकर्मेत्यादि । चैत्यारामविहारादीनां नवकर्म सजन्तुकेनोदकेन न यतिः कुर्यात् । सामर्थ्यात्स्रावयित्वा कार्यमित्युक्तं भवति । स्रावयित्वा तदुदकं दिनान्तं न सकलं दिवसं त्रिकोणकं खल्लकं धार्यं धारयितव्यमित्यर्थः । किन्तु कालेन कालं परिस्रावणं मोक्तव्यं प्राणकानां पीडापरिहारार्थं दुष्कृतपरिहारार्थञ्चेति ॥

अथ परेण स्रावयता कथं प्रतिपत्तव्यमित्याह । भृतकं शिक्षयेदेवमित्यादि । यतिः कर्मकरमेवं शिक्षयेत् । किमिति । वधान त्वं त्रिकोणकमिति । भृतक, खल्लकं बन्ध, कूपादेवमुदकमुत्क्षिप्य एवं स्रावय, एवं विमोचय खल्लकमिति ॥

यदि स्राव्यमाणमपि तदुदकं सप्राणकं भवति, तदा किं कर्तव्यमित्याह । (२५) त्रिकोणसप्तकेनेत्यादि । यद्येकपुटखल्लकेन स्राव्यमाणं तदुदकं न शुध्यति, तदा यावत्सप्तपुटके[न] खल्लकेन स्राव्यं तदम्भः पानीयम् । अथैवमपि न शुध्यति, तदा प्रतिकूपिका कार्या । यदि सा न शुध्येत, तदा नवकर्म त्यक्त्वा देशान्तरं गन्तव्य । तस्मात्प्रदेशादन्यस्मिन् प्रदेशे गन्तव्यमिति यावत् ।

कदा तर्हि नवकर्म कारयितव्यमित्याह । अभूत्वा संभवन्तीति विस्तरः । एते हि कुणरूपिणः प्राणकाः अभूत्वा संभवन्ति, भूत्वा च पश्चाद्विनश्यन्ति । यदा तावदमी प्राणका भूत्वा भवान्तरं जन्मान्तरं यान्ति, तदा नवकर्म कारयितव्यम् । केन? यथोक्त विधिकारिणा । यथोक्तमाचारविधिं कर्तुं शीलमस्येति यथोक्तविधिकारी । तेनेति संबन्धः ॥

सत्पटेत्यादि । शोभनः पटः सत्पटः । तेनाबद्धं यन्मञ्चपीठसंस्थानं धारणपात्रकं, तस्मात् । कीदृशात्? उच्छीदञ्चतुराङ्गुलात् । उच्छीदन्ति उछ्रयेण चत्वार्यङ्गुलानि यस्य मञ्चादेः तस्मात्नद्यादौ सलिलं ग्रहीतव्यम् । आलोक्य प्रत्यवेक्ष्य । नवकर्मणि नवकर्मनिमित्तम् । एतदुक्तं भवति- नदीतडागादिषु मञ्चपीठसंस्थानं धारणपात्रं घनेन पटेनावेष्टय मध्ये तु उपलादिकं दत्वा उदके निमज्य चतुराङ्गुलमुच्छ्रितं कृत्वा तदन्तर्गतमुदकं प्रत्यवेक्ष्य जलकार्यं कार्यमिति ॥

छिद्रकर्णद्वयेत्यादि । छिद्रिते काष्ठमये कर्णद्वये आसक्तं बद्धं यत्सूत्रं, तच्छिद्रकर्णद्वयासक्तसूत्रम् । तेन बद्धं द्विदण्डके दण्डकद्वये यद्धारणपात्रकं तत्तथोक्तम् । (२६) तदीदृग्विधं धारणपात्रकं त्रिकोणकस्य खल्लकस्य बहिर्हेष्ठं दध्यात् ॥

कृपापरीतचित्तेनेति विस्तरः । कृपया करुणया परीतः समन्तातिदं गृहीत चित्तं यस्य यतेः स तथोक्तः । तेन कृपावता श्रीघनेन स्वादु मृष्टं वारि पानीयं सजन्तुकं सप्राणकं क्षारेम्भसि क्षारीये जले न मोक्तव्यं नोत्स्रष्टव्यम् । यस्तु निष्कृपो मुञ्चति तस्य दुष्कृतं भवति । अनापत्मृष्टसंज्ञिनः । यस्तु क्षारीये जले मृष्टसंज्ञी मृष्टाभिप्रायस्तस्य अनापत् । न आपदनापत् । दुष्कृतं न भवतीत्यर्थः ॥

तत्र सकलेन शरीरेणेत्यारभ्य यावदवक्रीतादिरित्येतैः कारिकान्तरैर्दुष्कृत पूर्वकः संवरत्याग उक्तः । शेषैस्तु दुष्कृतान्युदाहृतानि ।

नृकायं चेतनोपेतमत्रास्ते वधचेतनः ।
घातकवधविज्ञानः कथं नोज्झति संवरः ॥

इति प्रहेलिका ॥

स्फुटार्थायां श्रोघनाचारसंग्रहटीकायां प्राणिवधविरतिशिक्षापदं नाम प्रथमं समाप्तम् ॥


(२७)
उक्तं प्राणिवधविरतिशिक्षापदलक्षणम् । अदत्तादानविरतिशिक्षापदमिदानीं वक्तव्यम् । यतो यस्य कस्यचिद्वस्तुमात्रस्यापहारणादश्रामणेरत्वमिष्यते । अतो उच्चावचतां निर्दिशन्नाह । कालिकमित्यादि । कालशब्देनात्र प्रयुक्तम् । मभ्यवहारपरिभोगे न क्षमते व्रतीति, कालिकमन्नपानादि । कालश्चात्र रात्रेः तृतीयो भागः । यावज्जीवमर्हतीति यावज्जीविकं पिप्पल्यादि । सकृत्परिगृहीतं सप्ताहं क्षमते श्री[घ]नस्य भिक्षोरिति साप्ताहिकं घृतादि । साप्ताहिकमिति वक्ष्यता सर्पिरादिकमित्युक्तं श्लोकबन्धानुगुण्यात् । परिहारमर्हति पारिहार्यं यतेश्चीवरादि, उद्वहनक्षममित्यर्थः । अनाधानीयस्येत्यादिना गुरुभूत त्वाद्गुरुद्रव्यं सांघिकमेव । अन्यद्गुरुद्रव्यं न भवति सांघिकस्यैव गुरुद्रव्यत्वेन विवक्षितत्वात् । स्प्रष्टुं क्षमते परिहर्तुञ्च, न तु पुनः पिन्वितुमिति । अतः कल्प्याकल्प्यं मुक्ताफलादि । स्प्रष्टुमप्यऽक्षमत्वादकल्पिकं सुवर्णादि । तदेवं कालिकं यावदकल्पिकं द्रव्यं नाददीत परस्वकमिति वक्ष्यते ॥

उक्ता अष्टौ परिष्काराः । षोडशमिदानीमुच्यन्ते । पृथिव्युदकेति विस्तरः । पृथिवी चोदकं चेत्यादि द्वन्द्वः । तत्र पृथिवीद्रव्यं सु[व]र्णाद्युत्पत्तिस्थानम् । द्विपदद्रव्यं पुरुषादि । चतुष्पादद्रव्यं महिष्यादि । अपादकद्रव्यमुरगादि ।
पादपद्रव्यं पणशवृक्षादि । तदतं चेति पृथिव्यादिपादपपर्यन्तावस्थितमित्यर्थः । तत्र पृथिव्यादिपादपपर्यन्ता अष्टौ परिष्काराः । तदताश्चापरेऽष्टाविति षोडश भवन्ति । (२८) च समुच्चय इति यथोक्तार्थप्रतिपादनार्थ । नाददीतेति न गृह्णीयात् । परस्वकमिति परद्रव्यम् । एभिरष्टाभिः षोडशभिश्च द्रव्यैः सर्वद्रव्यसंग्रहः कृतो भवति । यदेवं षोडशभिरेव द्रव्यैः सर्वद्रव्यसंग्रहे सिद्धे किमर्थमष्टौ परिष्काराः पृथगुच्यन्ते कालिकादीनि? सत्यमेतत् । किन्तु तेभ्य एव षोडशेभ्यो द्रव्येभ्यो निष्कृष्य कालिकादित्वमसांकर्येण प्रतिपादनार्थमष्टौ परिष्काराः पृथङ्निर्दिश्यन्ते । अवश्यं च कालिकादिनिर्देशः कर्तव्यः । संमुखीभूतः वर्षोषितचातुर्दिशसंघानां यथायोगं भजमानत्वख्यापनार्थः । अतश्च पृथगष्टौ निर्दिष्टाः । एवं कुडयादौ षोडश परिष्कारा वक्तव्याः । यथोदष्टौ? सत्यमेतत् । किन्तु अष्टौ षोडशेति संख्यानुपौर्वविधानार्थमष्टौ पूर्वमुक्ताः । अयं संक्षेपार्थः । पृथिव्यादीनष्टौ परिष्कारान्नाददीत न गृह्णीयादिति ।

उक्ताः षोडशाष्टौ परिष्काराः । कियत्प्रमाण[म]स्य पुनः द्रव्यस्यापहरणात्संवरत्यागो भवतीत्याह । कार्षापणचतुर्भागमिति विस्तरः । कार्षापणशब्देनात्र एकोन्नविंशतिः कपर्दकपणाः परिगृह्यन्ते । तस्य यश्चतुर्थो भागः काकिनीन्यूनाः पञ्च माषकाः, तान् हरन् । अथवा तदर्घं तन्मूल्यं धनं शाटकादि[स्]तेयचित्तः चौर्याभिप्रायः श्रामणेरः हरन् स्थानात्च्यावयन् स्वीकुर्वनन्यैर्यतिभिर्लघु (२९) शीघ्रं नाशनीयो, गृहीत्वा निर्द्वारयितव्य इत्यर्थः ॥

उक्तं द्रव्यस्य प्रमाणम् । कुतः पुनः स्थानात्तद्द्रव्यमपहरन्नश्रामणेरो भवतीत्याह । यदि वाटेति विस्तरः । चतुर्वाटान्तरावस्थिते हस्तिनि ह्रियमाणे यदि तत्र वृहद्द्वारा वाटा भवन्ति, तदा चतुर्भिः पादैश्च्युते गजे अयतिः भवति । अथ संवृता द्वारा, तदा निष्क्रान्ते सति द्विपहृत्स्यात् । द्वाभ्यां पिबतीति द्विपो हस्ती । तं हरतीति द्विपहृत्, हस्तिचौरो भवेदित्यर्थः । एवमनया कारिकया स्थानद्वयं प्रतिपादित विस्तीर्णद्वारे पादौ स्थानमित्येकं, संवृतद्वारे वाटेति द्वितीयम् ॥

गुल्फेत्यादि । गुल्फं पादस्य पर्व । तत्राबद्धं यदिक्षुदण्डादि, तस्मिन् । कीदृग्विधे? दूराकृष्टे दूरनीते । तदुत्क्षिप्ते उद्धृते । कुतः? महीतलात्पृथिवीतः । किं संवरभङ्गः, संवरत्यागो भवतीति यावत् । पञ्जराद्गजवद्विजे इति । यथा वृहद्द्वारवाटायां गजस्य पादच्युतिमात्रेण संवरत्याग उक्तः स्वल्पद्वारायाञ्च निष्क्रान्ते सति, एवं पञ्जरेऽपि वृहद्द्वारे पादच्युतिमात्रेण स्वल्पद्वारे निष्क्रान्ते पक्षिणि सति यतिः द्विजहृत्स्यादिति । अस्याञ्च कारिकायां स्थानचतुष्टयं निर्दिष्टम् । गुल्फोपनिबन्धनं स्थानं, वृहद्द्वारे पञ्जरे पादौ स्थानं, स्वल्पद्वारे पञ्जरः, उभयापहरणे संयोगस्थानम् ॥

देशादित्यादि । कश्चिद्यतिरितो देशादन्यद्देशान्तरं गच्छति, संदेशं कस्यचिन्नयति । तत्र यद्येकस्मादङ्गादन्यस्मिन्नङ्गे शिरसि वा तत्संदेशद्रविणं (३०) द्रव्यं सञ्चारयेत्स्तैन्यचित्तेन संवरधूतं समाप्नुते, अयतिर्भवतीत्यर्थः । तदेवमनया कारिकया शरीराङ्गानि स्थानमुक्तम् ॥

मृतोऽसौ यस्येत्यादि । यस्मिन् पुद्गलायणाधितमे द्रव्यममुकेन पुद्गलेनासौ मृत इत्येवं मन्यतान्यस्मादध्वगात्ब्रह्मचारिणः सकाशाच्छ्रत्वा सीमान्ते स्थातुं शीलं यस्य तस्मै भागमदत्वा गृह्णन् यतिरयतिर्भवेत्, अश्रामणेरो भवतीति यावत् । अत्रापि शरीराङ्गमेव स्थानम् ॥

अथ मृतस्य श्रामणेरस्य तद्द्रव्यं तत्कस्य प्राप्नोतीत्याह । यद्वित्तमित्यादि ॥ मृतस्य यतेरथवार्हतः परिनिर्वृतस्य यद्द्रव्यं तत्सर्वमुपाध्यायस्य प्राप्नोतीत्येवं जगौमुनिः, भगवानाहेत्यर्थः ।

हर्तुरित्यादि । एते हस्तिनो विस्तीर्णप्रदेशे चरन्ति । तत्तु कश्चिद्व्रती हस्तिनं हरेत् । तत्र हर्तुरिष्टामभिप्रेतां दिशं यदि हस्ती यायात्, तस्मिन् हर्तुर्नेतुरभिप्रेतां दिशं याते हस्तिनि । व्रतिनश्च स्वकं रुद्धां सत्याम् । करिणं हस्तिनं पातीति करिपो हस्त्यऽवरोहकः । तस्मिन् करिपे । कीदृग्विधे? हृतसंज्ञिनि । हृतो हस्ती ममेति संज्ञा यस्य तस्मिन् हृतसंज्ञिनि करिपे सति असौ हर्ता व्रती चौरः स्यादश्रामणेरो भवतीति । अनया कारिकया पादचतुष्टयं (३१) स्थानम् । अनभिमता दिक्, उपचारः, परिपन्थि चित्तं चेति चत्वारि स्थानानि निर्दिष्टानि ॥

पूजाचीवरेत्यादि । पूजार्थ चीवरमाला पूजाचीवरमाला । तस्या अन्तद्वयं, तस्य मोचनं मुक्तिरपनयनम् । तया अन्तद्वयं मुक्त्वा चीवरमालायाः । अवनौ पृथिव्यां या च्युतिः पातः अस्याः च्युतौ सत्यां भ्रश्यते । कुतः? संवरात् । संवरीति शेषः । बोधिवृक्षादपि अंशुकं वस्त्रं गृह्णनयतिर्भवति । अनेन श्लोकेन स्थानत्रयं प्रतिपादितम् । उभयान्त[यो]र्बन्धः, मनसा परपरिग्रहो, वस्त्रं चेति । तत्र कीलकबद्धायां चीवरमालायामुभयान्तस्थानम् । यदा अन्योन्यापरिज्ञानादुभौ चोरयतश्चीवरमालाया अन्तद्वयं मुञ्चतस्तदा परस्परपरिग्रहः स्थानम् । खण्डच्छेदे तु तदेव वस्त्रं स्थानम् ॥

क्षिप्तेत्यादि ॥ क्षिप्तानि प्रकीर्णानि मौक्तिकहारादीनि यस्मिन्महाकुले तदेवमुच्यते । तत्र गतो यतिः सहाये जाते सति तस्यैव सहायस्य हस्तायां प्रसेविकायां ततः कुलात्प्रकीर्णमौक्तिकहारादि गृहीत्वा न्यसति । तन्न्यस्तं तेनैव सहायेन हारयन् किं संवरच्युतिरिति वक्ष्यते । जटालेनेत्यादि । अथवा जटालेन लोमशेन शुना कुर्कुरेण तन्महाकुलात्तं मौक्तिकहारादिकं हारयनुपलाप्य वत्सं तृणादिना गोकायपोतकं हरन् किं संवरच्युतिः? किं पुनः (३२) पादच्युतिमात्रेणैव संवरत्यागो भवति? नेत्याह । उपचारस्तैस्त्यक्तश्चेत्संवरच्युतिः । यदि तैः सहायकुर्कुरवत्सैरुपचारस्त्यक्तो भवेत्, तदा यतेः संवरत्यागो भवति । उपचारव्यतिक्रमश्चात्र दर्शनश्रवणव्यतिक्रमः ॥

रात्रावित्यादि । यतिः कश्चिन्निशि गोशकटाश्वादीन्बध्नाति । एतानेते गावो हरिष्यन्तीति अत्र पूर्ववदादिशेत्, यदुत च्युतसंवरो भवतीति । तदेवमादिभिस्तिसृभिः कारिकाभिरुपचारश्चित्तं च शकटादिषु तत्संज्ञित्वं ममत्वलाभश्च स्थानमुक्तम् ॥

ऋजुक इत्यादि । एष कश्चिद्यतिः हारमपहरति । तत्र यदि प्रगुणः कीलको भवति, कठिनञ्च बन्धनं भवति, तदा उत्क्षिप्यमाणमेव [ब]न्धनं कीलकस्थानं मुञ्चतीति निरनुबन्धस्थानाच्च्यावितमित्याह । उत्क्षेपणे च चौरः स्यादिति । अथ कुटिलः कीलको भवतीति बन्धनञ्च शिथिलं भवति, न तावतश्रामणेरो भवति । वक्रत्वेन कीलकस्य शिथिलत्वेन बन्धस्य कीलकस्थानानतिक्रमं दर्शयति । ततश्च निरनुबन्धस्थानात्च्यावितमिति नाश्रामणेरः । यदा तु सर्वेण सर्वं बन्धनमुक्तं भवति, तदा अयतिर्भवति ॥

छिद्रयित्वेत्यादि । घटस्य छिद्रं कृत्वा सर्पिर्घृतं, क्षौद्रं मधु, तैलं तिलतैलादि, जलं नादेयादि हरन् यतिर्यदि पूरार्प्यतङ्गतं भवेत्, धारा च विच्छिन्ना भवेत्तदा संवरक्षोभमाप्नुते, अयतिर्भवतीत्यर्थः । अविच्छिन्नायां तु धारायां यदि श्रामण्यापेक्षया निवर्तते, तदा न भवतीति विनयविदो वर्णयन्ति ।

वण्टयमाण इत्यादि । द्वयोर्भ्रात्रोः गृहे विभज्यमाने, लब्धुमिच्छा लिप्सालाभाभिलाषः, तया लिप्सया एकस्य भ्रातुर्भागात्यदि बालमात्रमपि भूमि हरेत्तदा क्षतसंवरी भवति । तदत्राशयः स्थानमुक्तम् ।

(३३)
अथ किं चौरगृहीतं पात्रादि त्यक्ताशयस्य शनैः पुनर्गृहीतुं लभ्यते? नेत्याह तस्करेत्यादि । तस्करेण चौरेण उपात्तं गृहीतं यत्पात्रादि तं निराशः सन् यतिः पुनर्भूयः आददत्गृह्णन् संवराद्भ्रश्यत इति । संवरणं सवरः । अकुशलश्रोतस आवरणम् । ततो हीयते । इतरस्तु अन्यक्ताशः पुनर्गृह्णन्नापदं प्राप्नोति, अयतिर्नभवतीत्यर्थः । किं पुनस्तत्तस्करोपात्तं पात्रादि गोपालादिदत्तं गृहीतुं लभ्यते? तेमित्याह । मित्रेत्यादि । यदि तच्चौरगृहीतं पात्रं मित्रभावेन लब्धं भवेत्महता वा कार्पण्येन गोपालादिभिर्वा दत्तं स्यात्, तदा आददानस्य यतेर्नापत्तिरिष्यते, दुष्कृतमपि न भवतीत्यर्थः ॥

यदि चौराः पात्रचीवरं गृहीत्वा न ददते, तदा कथं प्रतिपत्तव्यमित्याह । भयेत्यादि । पात्रस्य चीवरस्य च मुक्तये तेषां चौराणां भयोपदर्शनं कार्य । यत्र तु राजनि तेषां मलिम्लुचां बन्धनादिकं भवति, तत्र गत्वा न वक्तव्य मेभिश्चौरैः वयं मुषिता इति ॥

निष्कासयसीत्यादि । एतौ यती क्रियाकारं कुर्वाणावन्योन्यं प्रयाजयतः । उपाध्यायाचार्याणां यत्पात्रचीवरं त्वं निष्कासयसि तदावयोस्तव च मम च । तदित्येवमुक्त्वा यद्येकोऽपि यतिस्तत्पात्रचीवरमपहरेत्, तदा द्वावपि तौ व्रतिनौ तस्करौ भवतः । स्वद्रव्येत्यादि । एतौ यती स्वद्रव्यं स्तैन्यचित्तेनापहरतः । तत्र उभयभागादेकस्य यतेः भागार्धेन एकोप्यऽयतिर्भवति, द्वितीयोपीतरपुद्गलनिष्कासितार्धेनेति ॥

अथ यदा बहवः श्रामणेराः संभूय काकिनीन्यूनान् पञ्च माषकानपहरेयुस्तदा किं ते संवरिणो भवन्त्युत नेति? असंवरिण एव भवन्त्येकाभिप्रायत्वात्(३४) सर्वे द्वारि स्थितचेल्लकवत् । दास्याम इत्यादि । एते यतय एकाभिप्राया महल्लकेन सह क्रियाकारं कुर्वत । महल्लक, समं तव भागं दास्यामः, केवलं द्वारे तिष्ठ वय चौरिकां करिष्याम इति । एवं प्रतिजाननास्य । उक्तं करोतीत्युक्तकृत् । तस्योक्तकृतो महल्लकस्य तुल्यापत्तिः । कैः सहेत्याह । चौरचेल्लकंः । सापि चौरो भवेदित्यर्थः ॥

उषित्वेत्यादि । कश्चिदागन्तुको यतिः उषित्वा, निवासं कल्पयित्वा पात्रचीवरं विस्मृत्य गच्छति । तस्मिन्नागन्तुके गते आगत्यागत्य यो यतिः तत्पात्रचीवर गापयेत्स चौरा भवति । एवमावासिकाः सर्वेत्यादि । अमुनानन्तरोक्तेन प्रयोगेण यदि सर्वे आवासिकास्तदागन्तुकस्य पात्रमप[ह]रेयुस्तदा सव क्षतसंवरा भवन्ति । यस्य तु तत्पात्रचीवरं, स यदि संस्मृत्य नयति न किल्विषी । किल्विषमुच्यते पापम् । तदस्यास्ती[ति] किल्विषो । न किल्विषी अनापत्तिकः स्यादिति यावत् ।

अन्यस्येत्यादि । यः श्रामणेरः स्तेयचित्तेनान्यस्य यतेः पात्रमन्येन यतिना आनाययति, स दोषवान् भवति, अयतिर्भवतीत्यर्थः । यस्त्वानेता तस्यैवंविधा बुद्धिरेतत्पात्रमस्यैवानाययितुर्यतेरित्येवं सति न दोषो, [अ]यं न दोषभाग्भवति स्तैन्यचित्ताभावात् । ये तु सहानीय यतिर्व्रतीति पठन्ति, तेषां विना सहशब्देन (३५) तृतीयर्यव सहार्थस्य द्यातितत्वात्सहशब्दग्रहणमतिरिच्यते । न वा सहार्थ इयं तृतीया कर्तरि विघानात् । यत्तदोश्च संबन्धित्वात्तच्छब्दप्रयोगो हीयते । तस्माद्य अनी[य] यतिर्व्रतीत्येव पाठः ।

यावत पूजेत्यादि । यावत्मुनेर्बुद्धस्य भगवतः पूजा क्रियते तावत्संघस्यापि पूजासत्कारः प्रवर्तते इत्येवं मत्वा यः सांघिकं लाभं स्तैन्यचित्तेन स्तूपाय ददाति, स्तौपिकं वा लाभं संघाय ददाति स क्षतसंवरो भवत्ययतिर्भवतीत्यर्थः । ननु च याः काश्चित्संपदः सर्वास्ता भगवन्तमागम्यति । योनिसोमनसिकारेण स्तैन्यचित्तासंभवः । नैतदस्ति । एतदेव हि विदारणं स्तैन्यचित्तस्योत्थापकं यथा कारुण्येन सलिलमपहरत इति । कुतस्तस्यादत्तादानं सिद्ध्यते?

किं पुनः सांघिकात्कोशात्स्तूपस्योद्धारकं गृहीतुं लभ्यते? नेमित्याह । लिखित्वेति विस्तरः । सवारिकैर्वा पक्षवारिके मासवारावारिकैर्वा सांघिकात्कोशात्लिखित्वोद्धारकं ग्रहीतव्यम् । मिथः परस्परम् । स्तूपात्संघस्य ग्रहीतव्यम् । संघाच्च स्तूपस्येत्यर्थः । तैश्च वारिकैः कर्मादानपरिसमाप्तौ वक्तव्यं- इयथिरण्यं सुवर्णादि स्तौपिकात्काशादगृहीतं सांघिकाच्च इयदिति । नोक्तकृतोऽन्यथेति । कथमन्यथा? यदि विना लिखित्वोद्धारकं गृह्णन्ति, मासनिष्कासे च न वदन्ति, तदा नोक्तकृतो भवन्ति । उक्तं न कुर्वन्तीति नोक्तकृतो, दुष्कृते प्राप्नुवन्तीत्यर्थः ॥

(३६)
स्वांशेत्यादि । तत्रांशो भागोऽवयव इत्यनर्थान्तरम् । स्वकीर्योऽशः स्वांशः । तेन मुक्तो यः परकीर्योऽशः तं हरतीति स्वांशमुक्तहरः, आत्मभागव्यतिरिक्तभागहर इत्यर्थः । एतौ यती एकत्र कुले लाभं लभेते । तयोर्द्वयोर्मध्ये यः परभागहरः श्रामणेरः स चौरो भवति । विश्वासं तु पुनर्दास्यामीति च कृत्वा गृह्णन्नापदं प्राप्नोति । लभसे त्वमित्यादि । एतौ यती क्रियाकार कुर्वाते । यं त्वं लाभं लभसे अहञ्च यं लाभ लभे तदावयोस्तव च मम च वदित्वैवं क्रियाकारं कृत्वा समुत्पन्ने लाभे सति यस्तं क्रियाकारं भिनति ततोर्धेन तस्करो भवति, द्वितीयस्य यतेर्भागेणाश्रामणेरो भवतीत्यर्थः ॥

दक्षिणादेशनेप्येवमित्यादि । यथा द्वयोः कुलोपकयोरेकस्य क्रियाकारं भिन्दतः संवरच्युतिरुक्ता, एव दक्षिणादेशनेऽपि द्रष्टव्य । दक्षिणादेशनञ्च दानगाथापाठः । द्वयोश्च पांशुकूलिकयोर्मध्ये पांशुकूले समुत्पन्ने सति यः क्रियाकारं भिनत्ति स च्युतसंवरो भवति ॥

प्राङ्निर्दिष्टः सांघिको लाभः स्तूपाय न दातव्यः स्तौपिकश्च संघायेति । अन्यस्मै सुतरां दातुं न लभ्यत इत्यभिनिवेशत्याजनार्थं विधिं दर्शयन्नाह । उपकारीत्यादि । उपकर्तु शीलं येषां ते उपकारिणो, विपर्ययादनुपकारिणः । तेभ्यः सांघिकमन्नपानादि दातव्यम् । के पुनस्ते इत्याह । विहारस्वामि राजादयः उपकारिणः, चौरादयोऽनुपकारिण इति यथाक्रममुभौ बोद्धव्यो ॥

श्रीघनेभ्योपीत्यादि । यदि चेल्लकाः सांघिके विहारे आलेपनं संमार्ज[ना]दिकं कुर्वन्ति तदा तेभ्यः संघतः पादास्यङ्स पूर्वाह्णिकादि दातव्यमन्यथा नेति । अपिशब्देन न केवलमुपकार्यपकारिणो ज्ञातव्याः श्रीघनेभ्योऽप्येवंविधकर्मकारिभ्य इति (३७) दर्शयति । ननु च श्रामणेरस्य प्रव्रजि[त]त्वाद्विनापि विहारलेपनादिकरणेन सांघिकान्नपानपरिभोगो लभ्यत एव । तत्किमर्थमुच्यते श्रीघनेभ्योऽपीति । इदमेव आशंवयमाने कृते त्रिचीवरेण विभूषितस्य हि भिक्षोः सांघिकान्नपानपरिभोगोऽनुज्ञातो भगवता सूत्रे, न श्रामणरस्य अतो विघा[ना]न्तरमाह भगवान्- श्रीघनेभ्योऽपीति । न वा विनये तर्कोऽवतारयितव्यः यत्किञ्चिदेतदिति ॥

सीमान्तस्थायिन इत्यादि । सीमान्तराले स्यातुं शोलं यस्य यतेस्तस्मै भिक्षुसहिताय भिक्षूणायुपस्यातकारिणे तण्डुलादिकं दत्वा दारकप्रस्यव्याजेन तण्डुलादिकं यतिर्गृह्णीयात् । केचितुगृह्णायात्तण्डुलादि नेत्यन्ते नकारं पठन्ति । सीमान्तस्थायिने अदत्वेति वात्राकारः प्रश्लिष्टास्ताति मत्वैवं व्यावक्षते । सीमान्तपातिने यतये तण्डुलादिकमदत्वा दारकप्रस्थव्यपदेशेन तण्डुलादि न ग्राह्यमिति तदत्रोभयस्मिन् पाठे न दोषः ॥

अत्यक्ताश इत्यादि । अत्यक्ता पात्रादि प्रत्याशा येन स तथोक्तः । स्वपात्रचीवरं नष्टमिति । न केनचिदपहृतं किन्तु कथञ्चित्प्रमादाच्छोरितम् । तद्दृष्ट्वायतिरुत्पादयेद्गृह्णोयात् । मत्वैवमिति । कथमेवं मत्वा? अत्यक्ताशस्य मत्वा नष्टं पात्रचीवरं गृहीतुं लभ्यते, नेतरस्य । एवं गृद्धो यतिः कीदृश इत्याह नष्टपात्रादिः । नष्टानि पात्रादीनि यस्य स एवमुच्यते । आशां नैव त्यजेदिति । (३८) यत्रैव नष्टपात्रादि लप्स्ये, तत्रैव ग्रहीष्यामीत्येवं प्रज्ञो भवेदित्यर्थः । यस्तु निराशीभूतः पात्र चीवरं नष्टं गृह्णाति, तस्य दुष्कृतं भवति, न संवरत्यागो । न हि तेन चौरात्प्रतिचौरिका कृतानपहृतत्वाद्द्रव्यस्य ।

लाभार्थं क्रियाकारप्रसंगेनोद्देशादिक्रियाकारातिक्रमेऽपि दुष्कृतं दर्शयितुमाह । स्वाध्यायेत्यादि । एते श्रामणेरा संघशीलकं कृत्वा क्रियाकारं कुर्वन्ति । स्वाध्यायमध्ययनमुद्देशं वा करिष्याम इत्येवं क्रियाकारं कृत्वा ये क्रियाकारं न प्रतिपालयन्ति, ते जिनोदितलंघिनः । जिनेन बुद्धेन भगवता य उदितः उक्तो विनयस्तं लंघितुं शीलं येषां ते जिनोदितलंघिनो, दुष्कृतं प्राप्नुवन्तीत्यर्थः । तदनेन सर्वत्रैवं धार्मिक क्रियाकारातिक्रमे दुष्कृतं भवतीत्याख्यातं भवति ॥

पताकेत्यादि । यतिना ध्वजापताकादिलक्षणः स्तूपतो न ग्रहीतव्यः । निर्ग्रन्थस्तूपग्रहणं चोपलक्षणार्थम् । तेन पण्डरभिक्षुस्तूपादेरपि गृह्णतः स्यादेव दुष्कृतं, न तु संवरत्यागः स्वामिनोऽभावात् । यत्र तु स्तूपे देवलकः आस्ते तस्माद्गृह्णतः स्यादेव संवरत्यागः । अनिलेन वातेन तु उद्धृतं कंपितं पातितं च यत्पताकादि तत्पांशुकलमिति कृत्वा गहीतव्यम् ॥

शुल्ककृत्यमित्यादि । शुल्कशब्देन राजकुलप्रत्यायोत्पत्तिस्थानमुच्यते । यस्य घट्ट इति प्राकृतजनप्रतीतिः । तत्र कृत्य प्रयोजनम् । किन्तु तस्मात्स्थानादुचितदानाप्रदानार्थ यत्परद्रव्यनयनं तदर्थं परेषां द्रव्यं यतिः स्वयं न नयेत्, नापि परेण नाययेत् । शुल्कं यत्प्रदानं तस्य च मोक्षार्थमुपायं नोपदिशेत्- अमुना मार्गेण गच्छ, ततस्ते शुल्कप्रदानं न भवति । रत्नं दत्वेत्यादि । कश्चिच्छठकजातीयो वणि[ज]कः शुल्कप्रदानमुक्तये शुल्कात्प्राग्यतिभ्यो यथावृद्धिकया रत्नं दत्वा पश्चात्(३९) शुल्ककरययतिवाह्यकृताकण्डिकया तद्रत्नं मार्गयतोति च । यतयः प्राक्तस्याभिप्रायं न जानन्तीति बाद्धव्यं, अन्यथा हि संवरत्यागः स्यात् । तस्मिनपरिज्ञाते तैर्यतिभिः- एवं नाम त्वं मोहपुरुष, अस्माकं विसंवादयसीत्येवं सुष्ठुपरिभाष्य तद्रत्नं तस्यैव वणिजा दातव्यम् । नास्ति शुल्कमित्यादि । मुनेर्बुद्धस्य भगवतः शुल्कं नास्ति । व्रतमस्ति येषां ते व्रतिनः । परिभोगायेदं पारिभोगिकम् । तस्मिन् पारिभोगिके द्रव्ये मुनेरिव व्रतिनां शुल्क नास्ति । अन्यत्रास्तीत्युक्तं भवति । अत एवाह । क्रयविक्रयकृद्दद्यादिति । क्रयविक्रयं करोतीति क्रयविक्रयकृद्यतिः शुल्कं प्रयच्छेत् ।

वर्षावासिकेत्यादि । यत्र ग्रामे नगरे वा यः श्रामणेरो वर्षामुपगतः, तस्य तत्र वर्षावासिकलाभो दातव्यः । जीवितस्य ब्रह्मचर्यस्य च ययोः श्रामणेरयोर्नाशः तयोरपि वर्षावासिकलाभा दातव्यः । तेनैतदुक्तं भवति- जीवितान्तरायभयभीतं ब्रह्मचर्यान्तरायभयभीतं मुक्त्वा अन्येषामवर्षोषितानां वर्षावासिकलाभो न दातव्यः । प्राक्प्रागुपगतैरित्यादि । ये श्रामणेराः प्राक्श्रावणमासस्य प्रतिपदि वर्षामुपगतास्तैः प्रागेवाश्विनमासस्य प्रतिपदमारभ्य वर्षावासिकयाचना कर्तव्या । ये तु पश्चात्भाद्रपदमासस्य प्रतिपदि वर्षामुपगतास्तैः पश्चादेव कार्तिकमासे । यदि सर्वः संवः प्रयमायामुपगच्छति तदा संघवशेन पश्चादुपगतैरपि युगपदेव वर्षावासिकलाभो याचनीयः ॥

पुनर्गृह्णातीत्यादि । तत्र वस्तु पूर्णविशवषत्वम् । वाक्प्रव्याहारो विशिष्टार्थद्योतकः । कर्म क्रिया कर्मेति कृत्वा, क्रियते वा अनेनेति । कर्मशब्देनोपसंपत्कर्मैवाभिधीयते । तेन हि कर्मणा स पुद्गलो भिक्षुः क्रियते । वस्तु कर्म च वस्तुकर्मणो, (४०) तयोर्जुगुप्सा निन्दा, तया यः पुद्गलो भिक्षुभावं परित्यज्य पुनर्दीक्षां प्रव्रज्यां गृह्णाति, तस्मै अपि यतये वर्षोषितैः सह समो लाभो दातव्यः । अन्ये त्वन्यथा व्याचक्षन्ते । त्रिशरणयाचनामारभ्य यावत काषायपरिधानमिदं वस्तु, बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजामीति इदं कर्म विशिष्टार्थद्योतकत्वात्क्रियाकर्मेति कृत्वा । वस्तु च कर्म च वस्तुकर्मणी, तयोर्जुगुप्सा निन्दा, तया यः पुद्गलः श्रामणेरभावं परित्यज्य पुनर्दीक्षां प्रव्रज्यां गृह्णाति, तस्मै अपि यतये वर्षोषितैः सह समो लाभो दातव्यः । क एवमाहेत्यतो ब्रवीति इत्याह सर्ववित्, भगवानाहेत्यर्थः ॥

अवर्षोषितेत्यादि । तत्र त्रैमासानधिष्ठानादवर्षोषितः । विभ्रान्तो यः प्रव्रज्यापप्रव्रजितः । कुत्सिता दृष्टिर्यस्येति कुदृष्टिः, मिथ्यादृष्टिक इत्यर्थः । मिथ्यादृष्टिश्च नास्तिकप्रवृत्तिः- नास्ति माता, नास्ति पिता, नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाक इति । जीवितेन्द्रियनिरोधात्मृतकः । देशान्तरगतोऽन्यद्यत्र देशगमनात् । इत्येते पञ्च पुद्गलाः लाभं नार्हन्ति ॥

अमुष्मै देयमित्यादि । अमुकस्मै भिक्षवे दातव्योयं मदीयो लाभ इत्येवं लाभे समुत्पन्ने सति यदि कश्चिद्यतिः म्रियते तदा नियतमवश्यं तस्मै विकल्पितभिक्षवे स लाभो देय इति भगवतोक्तम् । देशान्तरेत्यादि । इतो देशात्त्रैमासमधिष्ठायान्यत्र देशान्तरगतस्य यतेः लाभः कल्पे मन्दिरे कल्पकुटयां स्थापयितब्यः । यदा चावर्षोषितविभ्रान्तकुदृष्टयस्त्रयः पुद्गलाः संघस्यानर्थ कुर्वन्ति, तदा तेभ्यः प्राश्यादि न सांघिकमन्नपानादि दातव्यं बुधैः । ननुच लाभं नार्हन्ति पञ्चकेत्युक्तं (४१) तत्किमर्थमिदमुच्यते- अमुष्मै देयमित्यादि कारिकाद्वयं? सत्यमेतत् । किन्तु यदा अविकल्पो म्रियते, अनुत्पन्ने च लाभे गच्छति, अवर्षोषितविभ्रान्तकुदृष्टयश्च त्रयः पुद्गलाः यदानर्थं वा कुर्वन्ति, तदैते पञ्च पुद्गला लाभं नार्हन्ति, विपर्ययादर्हन्तीति व्यभिचारसंभवाददोषः ॥

आच्छादमित्यादि । एते यतयः कुले वर्षामुपगता भवन्ति । तत्र यदि दानपति सामान्येनैवं वदेत्- आच्छादं दास्यामि, चीवरं दास्यामि, चीवरमूल्यं दास्यामि, आच्छादमूल्यं दास्यामीत्येभिश्चतुर्भिः शब्दैरुत्पद्यते यो लाभः स समुखीभूतानां प्राप्नोति, नेतरेषाम् । वर्षावासिकेत्यादि । वर्षोषितानामाच्छादं दास्या[मि], चीवरं, आच्छादक्रयं, चीवरक्रयं चैतैश्चतुर्भिश्च शब्दैर्यो लाभः समुपजायते, स वर्षोषितानां प्राप्नोति । यदि दायकस्तद्वर्षावासिकं लाभ अवर्षोषितानामपि ददाति, तदा दायकस्येच्छया गृह्णतो न दोषः ॥

यामिक इत्यादि । यस्मिन् दिवसे भगवानुत्पन्नः अनुत्तराञ्च सम्यक्संबोधिमभिसंबुद्धः तत्र यो महो या पूजा, स जातिसंबोध्यादिमहः । तत उत्पन्नो यो लाभः संघस्य स एवमुच्यते । मृतपरिष्कारश्च क्षुद्रपरिष्कारश्चेत्यादि द्वन्द्वः । कालिकः यामिकः यावज्जीविकः साप्ताहिकः मृतपरिष्कारः क्षुद्रपरिष्कारः नैत्यकः अकालचीवरं कुटीप्रतिष्ठा जातिसंबोध्यादिमहोद्भवश्चेति योऽयं दशप्रकारो लाभः स संमुखीभूतानां प्राप्नोति ॥

अनाधेयमित्यादि । सांघिकं यच्छयनासनं तदनाधेयं, प्रतिबन्धत्वेन न दातव्यमित्यर्थः । न विक्रेतव्यं, न च पौद्वलिकं कृत्वा परिभोक्तव्यम् । ये तु श्रामणेराः (४२) सांघिकं शयनासनं प्रतिबन्धकत्वेन ददति, विक्रीणीते, पौद्गलिकत्वेन वा परिभुञ्जतेरं तेषां दुष्कृतं भवति ॥

चातुर्दिशायेत्यादि । कश्चिद्दानपतिः किञ्चिद्द्रव्यान्त, कदाचिच्चातुर्दिशायार्यसघाय ददाति, बुद्धाय वा भगवते, संमुखीभूताय वा संघाय तत्सर्वं यतिस्तत्र तत्रोपनामयेत् । यच्चातुर्दिशाय दत्तं तच्चातुर्दिशायैवोपनामयितव्यमित्येषा दिक् ॥

तूष्णीं दत्वेत्यादि । कश्चिद्दानपतिः विहारमागत्य मुक्ताफलादिक दत्वा तूष्णीं भूतो गच्छेत् । तस्मिन् तूष्णीं दत्वा गते दानपतौ सति बुद्धाय भगवते मुक्ता फलादि दातव्यं, यच्छयनासनं तच्चातुर्दिशाय । संमुखीभूताय तु संघाय वस्त्रादिकं दातव्यमिति ॥

कतिभिरङ्गैः समन्वागतोऽदत्तादानं गृह्णनश्रामणेरो भवति? आह । पृथुद्रव्यमित्यादि । पृथुविस्तीर्णम् । किं तद्द्रव्यं? काकिनीन्यूनं माषकपञ्चकम् । स्वकीयमपि कदाचित्तद्भवतीत्याह । परोपात्तमिति । कदाचिद्द्रव्यं परोपात्तमपि सत्यतिः परोपात्तसंज्ञा न भवतीत्यत आह । तत्संज्ञी परोपात्तसंज्ञीत्यर्थः । कदाचिदेतत्सर्वं भव[ति], न तु स्तेयचेतनेत्यतः स्तेयचेतनेति वचनम् । स्तैन्यचित्तं चोपस्थितं भवतात्यर्थः । कदाचिदेतदङ्गचतुष्टयं संभवदपि सत्तद्द्रव्य स्थानान्न च्यावितं स्यादित्यत आह । स्थानच्युतिश्चेति ।

पञ्चभिरङ्गैः समन्वागतो यतिरदत्तमाददानोऽपि न च्युतसंवरो भवति । कतमैः पञ्चभिरित्याह । दत्तस्वकेत्यादि । दत्तसंज्ञा स्वकसंज्ञा अपरोपात्तसंज्ञा च विद्यते यस्य यतेः स यथोक्तो यतिः । अन्योऽपि च स्वांशात्तावत्कालिकत्वेन च गृह्णन्न संवरं संवरी जहाति ।

(४३)
आदायादत्तमित्यादि । आदायेति गृहीत्वा । अदत्तं पु[नः] द्रव्यमुत्प्लुयेद्वध्वा खमाकाशं गत्वा । दिशानां चतुष्टयं दिक्चतुष्टयमित्यर्थः । आशाशब्दस्य दिक्पर्यायत्वात् । तत्रैवेति । यस्मात्प्रत्यागतः पुनर्भूयस्तत्रोपविष्टः । सन् क्षतसंवरो भवति, अयतिर्भवतीत्यर्थः ।

अवक्रीतादिरिति विस्तरः । कश्चिद्यतिः केनचित्क्रीतो भवति, भृतको वा स अज्ञानात्स्मृतिसंप्रमोषात्कल्पिकसंज्ञया वा परद्रव्यं गृह्णन् क्षतसंवरो भवति । उन्मत्तविक्षिप्तचेतसस्तु यतयः परस्वमाददाना अपि सन्तोनापत्तिभाजो भवन्ति स्तैन्यचित्ताभावात् ॥

तत्र कालिकमित्यारभ्य यावद्दक्षिणादेशनेप्येवमित्येभिर्वाक्यैः संवरत्याग उक्तः । उपकार्यपकारिम्य इत्यारभ्य यावत्तूष्णीं दत्वेत्यादिभिर्वाक्यैः दुष्कृतान्युदाहृतानि । शेषैस्तु पाञ्चाङ्गनियम इति ।

भाजनस्थं गुरु द्रव्यं चौर्यबुद्धया यतिर्नयन् ।
योजनानि दशैकञ्च स्यान्न वा श्रीघनः ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायामदत्तादानविरतिशिक्षापदं
द्वितीयम् ॥


(४४)
मैथुनविरतिशिक्षापदलक्षणं लब्ध्वावकाशमधिकृत्याह । नृस्त्रीत्यादि । ना च स्त्री च पण्डकश्चेति नृस्त्रीपण्डकास्तेषां यानि विण्मूत्रवक्त्राणि, तेषां यत्रन्ध्रं विवरं छिद्रं, तस्मिनङ्गजातं पुरुषेन्द्रियं तिलमात्रमपि प्रक्षिप्य यः श्रामणेरः स्वादं निगमयेत्स क्षतसंवरा भवति, अयतिभवतीत्यर्थः ॥

मनुष्यगतिव्यतिरिक्तेष्वपि स्त्रीपुरुषपण्डकेषु मैथुनमध्याचरतः संवरत्यागो भवतीति दर्शयन्नाह । मानुषामानुषास्ते त्विति विस्तरः । अत्र कारिकापाठे विवादः । तत्रैके मानुषामानुषास्ते तु तिर्यञ्च[श्च] नरादय इति पाठ मत्वैवं व्याचक्षते । आह । नरादय इत्यादिशब्देन स्त्रीपण्डकयोर्ग्रहणम् । तेन नरादय इति । नृस्त्रीपण्डका इत्यर्थः । मनुष्यगतिपर्यापन्नाः, अमनुष्यगतिपर्यापन्नास्तिर्यग्गतिपर्यापन्नाश्च नृस्त्रीपण्डका जाग्रन्तो मृताः सुप्ताश्च मैथुनाश्रया अवगन्तव्या इति । अपरे पुनर्मानुषा[मानुषा]स्ते तु तिर्यञ्चश्चामरादय इति पाठं मत्वैवं ब्रुव[ते] । मानुषामानुषास्ते त्विति । तच्छब्देनानन्तरप्रयुक्ता नृस्त्रीपण्डकाः परिगृह्यन्ते तच्छब्दस्यानन्तराभिधायित्वात् । तु शब्द एवकारार्थे । त एव नृस्त्रीपण्डका मनुष्यगतिपरिगृहीताः अमनुष्यगतिपरिगृहीताः तिर्यग्गतिपरिगृहीताश्च प्रत्येकं जाग्रन्तो मृताः सुप्ताश्च मैथुनाश्रया ज्ञेयाः । अमरादय इत्यमरा देवाः आदिशब्देनान्यामपि गति ग्राहयति । अतो देवासुरनरकप्रेतगतिसंगृहीतेष्वपि स्त्रीपुरुषपण्डकेषु मैथुनमध्याचरतः संवरत्यागो भवति । एत एव तु युज्यते । अन्यथा हि नरादय इत्यनेन नृस्त्रीतरेषां ग्रहणे सिद्धे त्विति तच्छब्दग्रहणमतिरिच्यते । (४५) अथ मतं- तच्छब्देन त एव मानुषामानुषाः संबध्यन्त इत्यसंबद्धमेतत् । न हि प्रत्यक्षापात्तेषु शब्देषु तच्छब्दः प्रयुज्यत सूरिभिरनवस्थाप्रसङ्गात् । न चापि तच्छब्देन विण्मूत्रवक्त्ररन्ध्रस्य संबन्ध इति पार्यते वक्तुं, रन्ध्रशब्दस्य नपुंसकलिङ्गत्वातेकवचननिर्देशात्, इह च ते त्विति पुंलिङ्गेन बहुवचनेन निर्देशात् । अथ मतं- विण्मत्रवक्त्ररन्ध्रविशेषा इति व्याख्यास्याम इति । यथा हि विण्मूत्रवक्त्ररन्ध्रविशेषाः स्त्रीपुरुषपण्डकाः मनुष्यामनुष्यतिर्यग्ग[ति]परिगृहीता मैथुनाश्रया ज्ञेया इत्यपूर्वायं क्रियाकार[क]संबन्धः नरादीनामिति संबन्धषष्ठयभावातन्यस्याश्च गतेः परिग्रहणात् । तस्मादमरादय इत्येव पाठः । एवं विचारिते केचिदत्र ब्रुवत नरादय इत्यपि पाठे आदिशब्देन स्त्रीपण्डकयोरन्य[स्या]श्च गतेः परिग्रहो भविष्यति । कोऽत्र विरोध इति ॥

अत्र न सर्वा तिर्यग्योनिरभिप्रेता सूक्ष्मौदारिकत्वेन मैथुनाक्षमत्वात् । किन्तु विशिष्टैवेति दर्शयन्नाह । हस्तिनीमादितः कृत्वेति विस्तरः । हस्तिनीजातेः प्रभृति यावत्कुक्कुटा जातिः । अत्रान्तराले यान्योन्यापेक्षयाक्षुद्रिका मंहतो जातिः तां तां गच्छन् तस्यां तस्या जातौ मैथुनमाचरन् व्रताच्च्यवते, अश्रामणेरा भवतीत्यर्थः । अत एवादिनिर्देशाथस्तिनीजातेयान्या महत्तरा जातिः, कुक्कुटाजातेश्च यान्या (४६) स्वल्पतरा तस्यां विप्रतिपद्यमानस्य न संवरत्यागः, किन्तु दुष्कृतं स्यादिति ॥

यतिर्न केवलं मैथुनमध्याचरितं न क्षमते स्त्रीदर्शनाद्यपि न क्षमत इति प्रतिपाद[य]न्नाह । रक्तः सन्निति विस्तरः । यतिः संरक्तः सन् स्त्रियं न पश्येत्, न च तस्याः शब्दमाकर्णयेत् । निर्वस्त्रश्च सन्निर्वस्त्रां स्त्रियं नोपेयात्, न गच्छेत्, न च पुरुषेन्द्रियं निर्भुजेत् । एतस्यात्र विधिकरणात्सर्वत्र दुष्कृतं भवति ॥

किं पुनः पाटितायामपि मैथुनमध्याचरतः संवरत्यागो भवति? भवतीत्याह भित्तिद्वयेत्यादि । स्त्रीन्द्रियाधिष्ठानसंज्ञितां कोटरिकां वातातपादिना शुष्कां शस्त्रेणवा पृथक्पृथक्कृतां तत्तैलादिभिः क्लिन्नां संयोज्यैकीकृत्य यः श्रामणेरो विप्रतिपद्यते स नाशयितव्यः । संग्रहे सति । यदि सा कोटरिका सग्रहमुपयाति, तदा दोषोऽन्यदा नेति ॥

अध ऊर्ध्वमित्यादि । काचित्स्त्री त्रिखण्डीकृता भवति । तस्या अधः खण्डे उपरि खण्डे च विनीलाध्मातिकाञ्चव्रती न व्रजेत् । या चास्थिसङ्कला पूयरुधिरादिभिरम्यक्ता तामपि न यायात् । सितास्थिसङ्कलेति विस्तरः । सिता शुक्ला या अस्थिसङ्कला, शैलमयी या शिलायां निधाता दारुमयी या काष्ठमयी, पुस्तमयी या लेपकृता । तां सितास्थिसङ्कलां यावत्पुस्तमयीं स्त्रियं न गच्छेत् । मिथुनं स्त्रीपुरुषयोर्युग्मं, तत्र उत्पद्यते यः सुखविशेषः तन्मैथुनम् । तस्मात्सदा सर्वकालं यो विरत इति यतिविशेषणम् ॥

(४७)
ध्यानेत्यादि । गतः प्राप्तः । ध्यानमिद्धगतस्तं ध्यानसमापन्नं निद्रयाभिभूतं च विबुद्धमपि शयितं सुरापानादिना मत्तं महाभूतवैषम्यादिना वा विक्षिप्तचित्तं रुक्षया वा वेदनया तुन्नं व्यथितं यति या काचित्स्त्री बलाद्गृहीत्वा यतेरङ्गजातमात्मीयेऽङ्गजाते प्रक्षिपेत् । तस्मिन् बलतोऽभिनिषीदति मातृग्रामे किमित्याह । आदिमध्येत्यादि । आदावंगजातप्रवेशकाले, मध्ये पर्यवसाने च य आस्वाद निगमयेत् । यतिः कीदृक्षः? ततो ध्यानाव्युत्यितः । स विहाराद्घट्टयितव्यः । आस्वादनाभावे तु नेति । एतच्चाधिमात्रमध्यमृदुरागिणं पुद्गलमधिकृत्योक्तमित्यवसेयम् ।

यदुक्तमादिमध्यावसानेष स्वादयेदिति तत्र केयमास्वादना नामेत्याह । नानेत्यादि । नाना प्रकाराणां व्यञ्जनानां रसानां नानाविधेन यदुपेतं समन्वितं शालिःभक्तं तस्य परिभोगः तद्वदास्वादना द्रष्टव्या । यथा शौण्डस्य मत्तवालकस्य तैलव[त्] स्वच्छस्यान्नासवस्य सुरायाः पानास्वादस्तद्वत्मैथुनास्वादोऽवसेयः । अन्ये अन्यथा व्याचक्षते शुण्डिषु भवः शौण्डः । कः पुनरसौ? अन्नासवः । कीदृशः? तैलाच्छः । तैलव[त्] स्वच्छो यः शोण्डोऽन्नासवः, तस्य पानमभ्यवहरणम् । तद्वत्किं? आस्वादना ज्ञेयेति । अनास्वादः पुनः कीदृश इत्याह । अनास्वादा युवग्रीवेत्यादि । यथा यूनस्तरुणस्य ग्रीवायां मृतकुक्कुरबन्धः । यथा च सुकुमारस्य पुंसः (४८) प्रदीप्तलोहस्पर्शस्तद्वदनास्वादो विज्ञेयः । ध्यायन्त्यनेनेति ध्यानं, प्रज्ञानंतीत्यर्थः । तच्चाङ्गभेदाच्चतुर्विधं भवति । प्रथमद्वितीयतृतीयचतुर्थध्यानभेदेन । सिद्धं कायसंधारणासमर्थश्चित्ताभिसंक्षेपो, निद्रेति योऽर्थः । ते ध्यानमिद्धे इति ।

अवक्रीतेत्यादि । अस्यार्थः पूर्वशिक्षापदानुसारेणावसेयः ॥

रागामनुष्येत्यादि । रञ्जनं रागः, रञ्जयते वानेनेति चित्तमिति रागः । तेन रागादिना प्रगुणीभूतं यदंगजातं तच्छुक्रनिर्मोक्षार्थं न कदाचिदपि स्पृशेत् । कैर्न स्पृशेदित्याह । पृथिव्यादिधातुभिः ।

तिर्यक्संयोगेत्यादि । तिर्यक्मैथुनाध्याचारदर्शनात्प्रामादिकः स्त्रीपुरुष दर्शनाच्च, तीव्ररागादितया यदि शुक्रस्य मुक्तिर्भवेत्तदा यतिर्मानसं विगर्हेद्विरूपकं मया कृतं न पुनरेवं करिष्यामीति ।

मज्जेत्यादि । मज्जाजातं मज्जजं शुक्रं, तस्य क्षरणमपगमः । यस्य यतेः स्वप्ने शुक्रविनिर्मुक्तिर्भवति, तस्य दोषो न भवति । कथं पुनर्भवतीत्याह । कारणमाह । स्वप्नेत्यादि । पञ्चस्वप्ना विनये उक्ताः । सत्यस्वप्नो यथा बोधिसत्त्वेन दृष्टः, अलीकस्वप्नो यथा दृष्टः तथा न भवत्यऽलीकं मृषेति कृत्वा, अचीर्णस्वप्नो यत्सततकरणीयं वस्तु दृश्यते, अनन्तस्वप्नो यः सकलांरात्रिं दृश्यतेन परिच्छिद्यते, स्वप्नस्वप्नो यः स्वप्न एवान्यः स्वप्नो दृश्यते । तदुक्त भवति- यस्य यतेः स्वप्ने शुक्रनिर्मोक्षो भवति, तस्य मनागपि दोषो न भवत्यलीकत्वात्स्वप्नस्य । अन्यथा ह्यऽनाश्वासिकं ब्रह्मचर्यं स्यात्स्वप्नेऽपि मैथुनाध्याचारेणापत्तिप्रसङ्गात् ॥

रागेत्यादि । रागेणाविष्टं परिगृहीतं यच्चित्तं तेन रागाविष्टेन चेतसा यतिर्नारीं स्त्रियं श्रीघनो न स्पृशेत् । पुंनपुंसकमिति । पुरुषं पण्डकं चेत्यर्थः । शेषं सुगमम् ।

(४९)
स्तनकक्षेत्यादि । स्तनौ कक्षे च ओष्ठौ च नाभिश्च ऊरू च पार्श्वे च कुक्षिश्च मलभ्रमश्चेति द्वन्द्वः । अतस्तान् स्तनकक्षौष्ठनाभ्यूरुपार्श्वकुक्षिमलभ्रमान् यतिः संरक्तः सन्न निन्देत्, न निन्दां कुर्यात् । न च संस्तुयान्न च प्रशंसेदित्यर्थः, अशोभनौ तव पयोधरौ शोभनौ वा यावदङ्गजात इति । कतमासां तु तान् स्तनकक्षादीन्न निन्दे[दि]त्याह । स्त्रीणामिति । मलभ्रमशब्देनात्र स्त्रीणामङ्गजातमुच्यते ॥

यद्यद्वदेदित्यादि । यत्यद्वचनं स्त्रियाः अन्तिके स्त्रियं श्रीघनः मैथुनाध्याचारं कर्तुकामः पुरुषो ब्रव्रोति यथा यथेति येन येन प्रकारेण [तत्]तद्वचनं यतिः स्त्रियं न वदेत्तथा तथेति तेन तेन प्रकारेणेत्यर्थः ॥

अग्रेत्यादि । योषिच्छब्देन मातृग्रामो विधीयते । या स्त्री मां परिचरेन्मम परिचर्यां कुर्यात् । कुतः? रहः, रहसीत्यर्थः । सा अग्रा भवति, श्रेष्ठा भवति । व्याधिहीनेति व्याधिरहिता । यशस्विनीति यशः समन्विता, कीर्तियुक्ता । लाभिनी च भवति । केषामित्याह । आयुरादीनाम् । आदिशब्देन वर्णबलसौख्यादीनां ग्रहणम् । इत्यादि न वचो ब्रूयादित्यादि । अग्रा भवति सा योषिदित्येवमादिकं वाचं न वदेत् । क इत्याह । श्रीघनः । कीदृक्ष इत्याह । रागाग्निप्लुष्टमानसः । राग एवाग्निः रागाग्निर्दहनात्मकत्वात्, तेन प्लुष्टं दग्धं मानसं चेतो यस्य स एवमुच्यते । कस्याग्रतो न वदे[दि]त्याह । पुरस्ताच्छ्रीघनः स्त्रीणामित्यादि । स्त्रीणामग्नतः, पुरुषस्य पण्डकस्य चेत्यर्थः ॥

(५०)
स्त्रीपुरुषयोः संयोगार्थं दौत्यं कर्तुं न लभ्यत इति दर्शयितुमाह । विवाहावाहयोरित्यादि । तत्र विवाहो दारिकापरिग्रहः । अन्येन परिभुक्तस्य मातृग्न मस्य संग्रहणमावाहः विवाहश्चावाहश्च विवाहावाहौ । अतस्तयोर्विवाहावाहयोः । विवाहनिमित्तं संग्रहनिमित्तञ्च दौत्यकर्म न कुर्यात् । क इत्याह । श्रामणेरकः । श्रामणेर एव श्रामणेरकः । केचित्तु कुत्सायां कनं विदधति । कुत्सितः श्रामणेरः श्रामणेरक इति । तैः कुत्सार्थो दर्शनीयः- कथं कुत्सितोसौ यतिरिति? दौत्यकर्मकरणादिति चेत्, न प्रतिषेधोऽयं वर्तते- न कुर्यादिति । यश्च न कुरुते, स कथं कुत्सामासादयति । तस्मात्स्वार्थ एवायं कनेष्टव्यः । न केवलं विवाहावाहनिमित्तं दौत्यं न कुर्यात्तत्क्षणमैथुनाध्याचारनिमित्तमपि न कुर्वातापिशब्दः सूचयति । दापयेयमित्यादि । तत्र समुत्पन्नकर्मफलसत्यरत्नादिसंप्रत्ययः श्राद्धः । तस्मै श्राद्धायोपासकदारकाय इमां श्राद्धामुपासकदारिकां दापयेयमिति । एवमर्थसंस्यन्दनासूत्रं यतिर्भाषित्तुं न घटते ॥

बीजार्थमित्यादि । गर्भोत्पादनिमित्तं व्रती गवादिकं न दद्यात् । एतानेवाश्वादीन् बीजार्थं परेभ्यः कदाचिदपि न प्रार्थयेत् ॥

(५१)
तुल्यमेतास्वित्यादि । बहवः स्त्रियो यस्य तं बहुस्त्रीकं पुरुषं यतिः नैवं वदेत्- किमिति एकया स्त्रिया सार्धं मा त्वं तिष्ठ, किन्तु परिपाटया सर्वाः स्त्रियो वसेति ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां मैथुनविरतिशिक्षापदं तृतीयम् ॥


(५२)
मृषावादविरतिशिक्षापदमधिकृत्याह । प्रत्येकबुद्धेत्यादि । तत्रात्मार्थंमेकं प्रति बुद्ध इति प्रत्येकबुद्धः । सम्यगविपरीतं समन्तात्ज्ञेयं बुद्धा इति संबुद्धाः । तेषां शिष्यास्तच्छिष्याः । तच्छब्देनात्र संबुद्धा एव परिगृह्यन्ते, न प्रत्येकबुद्धा तच्छब्दस्यानन्तराभिधायित्वात् । प्रत्येक बुद्धाश्च संबुद्धाश्च तच्छिष्याश्चेति विग्रहः । तेषां यत्ज्ञानं दर्शनञ्च तत्ममास्ति, मम संविद्यत इति । असंविद्यमानमपि सन्तं यः श्रामणेरो मृषा वक्ति स नाशनीयोऽश्रामणेरत्वेन धारयितव्य इत्यर्थः । किं पुनरभिमानादपि यो ब्रवीति सोऽपि नाश्यः? नेत्याह । अन्यत्राभिमानतः । अन्यत्रशब्दो वर्जनार्थे वर्तते । अन्यत्र भीष्मद्रोणाभ्यां सर्वे योधाः पराङ्मुखा इति अन्यत्रशब्दस्य वर्जनार्थे प्रयोगदर्शनात् । अप्राप्ते उत्तरविशेषाधिगमे प्राप्तो मयेति मन्यमानस्य या चित्तस्योन्नतिः सोभिमानः । तस्मादभिमानाद्यो ज्ञानं दर्शनञ्च प्र[ति]जानीते तस्य संवरत्यागो न भवति प्राप्तसंज्ञित्वात् ।

यदुक्तं ज्ञानदर्शनं ममास्तीति ब्रुवन्मिथ्या नाश्य इति तत्र कतरज्ज्ञानं कतमच्च दर्शनमिति न ज्ञायते । अतो ज्ञानदर्शनं तयोर्लक्षणमधिकृत्याह । ज्ञानं सत्याभिसंबोधिरित्यादि । सत्यानि चत्वारि दुःखसमुदयनिरोधमार्गाख्यानि । तत्र दुःखसत्यं पञ्चोपादानस्कन्धाः । समुदयसत्यं पौनर्भविकी तृष्णा । निरोधसत्यं यदस्याः पौनर्भविक्याः तृष्णायाः प्रहाणम् । मार्गसत्यमयमेवार्याष्टाङ्गो मार्गः तद्यथा सम्यग्दृष्टिः, सम्यक्संकल्पः, सम्यग्वाक्, सम्यक्कर्मान्तः, सम्यगाजीवः, सम्यग्व्यायामः, सम्यक्स्मृतिः, सम्यक्समाधिश्च । तत्र बोधनं बोधिरवगमः अवबोधः परिज्ञानं बोधिज्ञानार्थत्वात् । अभीत्ययमुपसर्ग आभिमुख्ये (५३) वर्तते, समीत्यऽविपरीतत्वे । तेनायं वाक्यार्थो जायते- दुःखादीनामार्यसत्यानां निर्वाणाभिमुखा सम्यगविपरीता या बोधिस्तज्ज्ञानमुच्यते । अभिज्ञाः पञ्च दर्शनमिति । अभिज्ञानमभिज्ञाज्ञानमित्यर्थः । तत्र पञ्चाभिज्ञाः । दिव्यं चक्षुर्येनातिदूरसूक्ष्मव्यवहितानि रूपाणि पश्यति करतलावस्थितमिवामलकं, दिव्यं श्रोतो येन दूरासन्नाः शब्दा श्रूयन्ते देवमनुष्याणामन्तशः कुन्तपिपीलिकस्यापि, परचित्तज्ञानं येन परकीयान् चित्तचैत्तान् जानाति- सरागं चित्तं सरागमित्यादि, पूर्वनिवासानुस्मृतिक्षानं येनात्मनः परेषां चाभिनिवृत्तजातिपरंपराः स्मरति- अमुत्राहमेवन्नामा एवंगोत्राक इत्यादि, आस्त्रवक्षयज्ञानं येनात्मनो जानाति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं यावन्नापरमित्थत्वमिति । एताः पंचाभिज्ञा दर्शनभित्युच्यन्ते ॥

उपलक्षणार्थमे[त]ज्ज्ञानदर्शनग्रहणमिति प्रतिपादयन्नाह । धर्मान्वयादिकेत्यादि । धर्मतत्त्वालम्बनं ज्ञानं धर्मज्ञानं येन क्लेशान् प्रजहाति । यत्परसन्तानानुगमं ज्ञानं प्रत्यात्मवेद्यमुत्पद्यते यैरन्यैः क्लेशप्रहाणं कृतं, ये पि सांप्रतं कुर्वन्ति करिष्यन्ति वा तेपीदृशमेव ज्ञानमधिगतवन्तौऽधिगच्छन्ति अधिगमिष्यन्तीत्येतदन्वयज्ञानम् । आदिशब्देन संवृतज्ञानादीन् ग्राहयति ।

धर्मज्ञानान्वयज्ञानं सांवृतं प[र]चित्तवित् ।
साध्यं नैमित्तिकं ज्ञानं प्रणिधाख्यञ्च सप्तमम् ॥

(५४)
इति सप्तानां ज्ञानानां श्लोकः । धर्मज्ञानादीनामङ्गीकरणे अन्यं पूर्वोक्तो न योग्य इति संवरत्यागो भवतीति ॥

आर्यम्लेच्छेत्यादि । आर्यशब्देनात्रार्यदेशजाः पुरुषाः परिगृह्यन्ते न प्रहीणक्लेशाः म्लेच्छशब्देन च शवरादयः । तेषां यद्वचनं तेन लेखेन देशान्तरस्थस्य लिप्या संमुखमेव लिखित्वा । हस्तमुद्रयेति अङ्गुलीविन्यासेन । हस्त्यविकारेणेत्यभिनयेन यः श्रामणेरो ज्ञानदर्शनादिकं प्रतिजानीते, तदपि [ज्ञान]दर्शनादिकं मृषेति बोद्धव्यम् । लेखादिष्वपरान् बोधयतः संवरत्यागो न भवति वाक्प्रव्याहाराभावात् ॥

वृक्षमूलेत्यादि ॥ अहमेकाक्यद्वितीयो वृक्षमूले विहरामि शून्ये च मन्दिरे गृहे अहं रमे, मम च यच्चित्तं तदेकाग्रं समाहितमित्येवमादि अतीन्द्रियं वस्तु यतिना न वाच्यम् ॥

अतिप्रसङ्गनिवृत्त्यर्थमाह ॥ बुद्धादीनामिति । वर्णोगुणः, स बहुधा तथा गतस्य लोके ख्यापयितव्यः स्वपरार्थसंपादकत्वात् । इत्यपि स भगवान् दशभिर्बलैः समन्वागतश्चतुर्भिः वैशारद्यैः त्रिभिः स्मृत्युपस्थानैः महाकरुणया चेति । आदिग्रहणेन धर्मसंघयोरपि । आत्मनस्तु गुणः केनचिदपि प्रकारेण न वक्तव्यः । कथञ्चनेति कथञ्चिदित्यर्थः । पृष्टस्तु सन् यतिः परकीयं गुणं संविद्यमानं वदेत्तत्रापि तस्य गुणवतः पुद्गलस्य संमुखं न वदेत् ॥

(५५)
यदाह ब्रूयात्तत्संमुखं न तु [इति] विस्तरेणानधिगतस्वभावमृषावादलक्षणं प्रतिपादयितुमना चार्यानार्यव्यवहारानुपन्यसति । दृष्टमित्यादिना । तत्र दृष्टं यच्चक्षुर्विज्ञानेनानुभूतं श्रुतं यच्छोत्रविज्ञातं, मतं यद्घ्राणजिह्वाकाय विज्ञानैः विज्ञातं यन्मनोविज्ञानेनेत्येके । अपरे पुनराहुः- दृष्टं यत्पञ्चभिरिन्द्रियैः परिच्छिन्नं, श्रुतं यत्परत आगमितं, मतं यत्स्वयमुपपत्तितोऽवधारितं, विज्ञातं यन्मनसा प्रत्यात्मवेद्येनाकारेण परिच्छन्नम् । तस्मिन् दृष्टे दृष्टमिति वदेत्यावद्विज्ञातंमिति । वैपरीत्येन गदन्मिथ्याभिधायक इति । विपरीतस्य भावो वैपरीत्यं तेन अनार्यव्यवहारेणेत्यर्थः । अनार्यव्यवहाराश्च पुनरदृष्टे दृष्टवादिकादयः । गदन्निति वदन् । मिथ्याभिधायक इति मृषावादी स्यादित्यर्थ ॥

कतिभिः पुनरङ्गैः मृषावादी स्यादित्याह । वस्तु चेत्यादि श्लोकः । वस्तु च भवति, अलीकसंज्ञी च भवति, विनिहितं चित्तं भवति, मृषावादसंज्ञो भवति, वाचं च भाषते । एतानि पञ्चाङ्गानि यस्य सन्ति स पञ्चाङ्गः । कः पुनरसावित्याह । अनृतवादिकः । अनृतः वादः यस्यास्तीति [स] अनृतवादिकः मृषावादीति योर्थः । तत्र वस्तु च भवतीति- यथा परिच्छिन्नं तथा तदस्तीत्यर्थतो न तु द्रव्यतोस्तीति, अन्यथा ह्यसंविद्यमानं वस्त्वऽस्तोति ज्ञात्वा नास्तीति ब्रुवतोऽनापत्तिः स्यात् । अलीकसंज्ञी च भवतीति- यथा परिच्छिन्नादन्यथा कथयामीत्येव संज्ञा इत्यर्थः । चित्तं विनिहितं भवतीति यथा परिच्छिन्नज्ञेयविपरीतद्योतिनीवाक्समुत्थापकं (५६) चित्तं भवतीत्यर्थः । एवमपि मृषावादसंज्ञी च भवतीति अत्रैवान्तर्गतत्वात्कस्मात पृथगुच्यते । नैतदस्ति । मृषावादसज्ञित्वेन परवञ्चनाभिप्राय उच्यते । तस्मिन्स्तु सतीद यथार्थ परिच्छिन्नज्ञेयविपरीतार्थद्यातिन्या वाचः समुत्थापकं चित्तं पृथगेव कारणत्वेनोच्यत इति नैतस्मिन्नन्तर्भावः । तथा च विनये विनिधाय संज्ञां विनिधाय चितं वाचं भाषत इति मृषावादसंज्ञी च भवतीति परवञ्चनाभिप्राय इत्यर्थः । वितथसंज्ञिनोऽन्यः को विशेष इति चेत्वितथसंज्ञी हयन्यथार्थं प्रतिपादयति न तु परं वञ्चयति । तथा च मृषावाद इष्यते यथा श्निग्धस्ते मुखवर्ण इत्यादिना । नैतदुक्तं भवति । यो वितथसंज्ञी स नावश्यं मृषावादसंज्ञी, यस्तु मृषावादसंज्ञी सोऽवश्यं वितथसंज्ञीति येन द्वाभ्यामेवाङ्गाभ्यां मृषावाद इष्यत इति । वदेद्वाचमिति । वाक्प्रव्याहारं करोतीत्यर्थः । एतदुक्तं भवति । चतुरङ्गवन्ति यानि वचांसि तानि मृषावादव्यपदेशभाञ्जि भवन्तीति । न केवलं पञ्चभिरङ्गैः संप्रजानमृषावादो भवति, किन्तु ह्येकेनापीति दर्शयन्नाह । चतुस्त्रीत्यादि । पूर्वमुक्तानि यान्यङ्गानि ते[भ्यः] वर्जितानि यान्यङ्गानि तैः समन्वागतो यो यतिर्मृषा वक्ति, सोऽन्यैर्यतिभिर्मृषावादी ज्ञेयः । तत्र चतुर्भिरङ्गैः मृषावादी भवति । अलीकसंज्ञी चेत्यादि । अलीकसज्ञित्वेन वस्तुनः परिग्रहान्न पृथङ्निर्देशः । त्रिभिरङ्गैर्विनिहितं चेत्यादि । अलीकसंज्ञाया विनिहितचित्त एवान्तर्भावात् । द्वाभ्यामेवाङ्गाभ्यां मृषावादसंज्ञी चेत्यादि । विनिहितस्य मृषावाद एवान्तर्भावात् । एकेनाङ्गेन संप्रजानमृषावादो भवति, यदा विनिधाय चित्तं वाचं भाषते । अत्रापि पूर्वकाणामङ्गानां न पृथङ्निर्देशः सामर्थ्यलब्धत्वात् । (५७) अन्यथा हि संख्यानुपूर्वी विधानार्थमेकेनाङ्गेन मृषावादी भवति, यावत्पञ्चभिरित्युक्तं स्यात् ॥

अभूतेनेत्यादि । यतिः संमुखं यति न चोदयेत् । कीदृशो यतिरित्याह । ध्वंसनच्यावनाकूतः । आकूतोऽभिप्रायः । तेन ध्वंसनाभिप्रायश्चोदनाभिप्रायः यतिर्यति न चादयेदित्यर्थः । दोषैरभ्याख्यानदानं ध्वंसनम् । ब्रह्मचर्यावस्थितस्यावप्रव्राजनं च्यावनम् । केन न चोदयेदित्याह । प्राणातिपातादत्तादानमृषावादादिना । अभूतेनेत्यादि । अभूतेनेत्यस्याविद्यमानेन । अनिदानेनेति निष्कारणेनेत्यर्थः अनिदानशब्दस्याकारणपर्यायत्वात् । क्षुद्रेत्यादि । क्षुद्रा लघीयसी सा आपत्तिः दुष्कृतसंज्ञिता सैव निमित्त कारणं चोदनायाः तेन क्षुद्रापत्तिनिमित्तेन । अथवा लेशमात्रेण दुष्कृतमात्रेण अभिप्रायेण । तेनैवेति पूर्वोक्तेन ध्वंसनच्यावनाभिप्रायेणेत्यर्थः । प्रत्यक्षं श्रामणेरो परान्न क्षिपेत्, नास्वाचक्षीतेति यावत् । जातिलिङ्गेत्यादि । जातिरन्वयः कुलमित्येकोऽर्थः । लिङ्गं देहचिह्नम् । क्रिया कर्म जीविकोपायो वृत्तिरित्यनर्थान्तरम् । वादशब्दः प्रत्येकमभिसंबध्यते । जातिवादश्च लिङ्गवादश्चेत्यादि द्वन्द्वः । तैः प्रत्येकं हीनमध्योत्कृष्टैः व्रती प्राणान् पुद्गलान् जिह्मकरणार्थं निष्प्रतिभानकरणार्थं न जातु कदाचिच्चोदयेत् । उपक्लेशेत्यादि । तत्र उपक्लेशो जडिमत्वादि । गदो व्याधिः । आक्रोशो दुश्चरितैर्गर्हणम् । आपत्तिः कायवाङ्मनोभिर्भगवदाज्ञाव्यतिक्रमः । उपक्लेशादिना व्रती व्रतिनमाशयेनाभिप्रायेण पुरोक्तेन जिह्मनिष्प्रतिभानकरणाभिप्रायेण ब्रूयान्नैव कदाचनेति, कदाचिदपि न वदेदित्यर्थः । अत्र च हीनमध्योत्कृष्टभेदो (५८) नास्ति हीनत्वादेवोपक्लेशादेः । अनेन च श्लोकद्वयेन चोद्यस्य पुद्गलस्य चतुर्विधान्यूनतोक्ता- जातिवादेन कुलन्यूनता, लिङ्गवादेन देहन्यूनता, क्रियावादेन वृत्तिन्यूनता, आपत्त्याक्रोशसंक्लेशैर्गुणन्यूनताभिहिता ।

आपत्त्याक्रोशसंक्लेशैराख्याता गुणहीनता ।
जातिलिङ्गक्रियावादैः कुलदेहस्वजीविकाः ॥

इति संग्रहश्लोकः ॥

यतेरप्रतिरूपत्वात्प्रकृतिसावद्यत्वाच्च पैशुन्यमाचरितुं न लभ्यत इति दर्शयन्नाह । भेदं यास्यतीत्यादि । अयं पुद्गलो अनेन पुद्गलेन सह भेत्स्यति, मया सह संवास्यतीति एवं मत्वा यतिर्जात्यादिवादेन पैशुन्यं न समाचरेत् ।

तत्र कारिकात्रयेण संवरत्याग उक्तः शेषैस्तु श्लोकैः पञ्चाङ्गानि, यस्माददुष्कृतानि चोदाहृतानि ।

ध्यानादिप्राप्तमसती श्रावयं विज्ञपुद्गलान् ।
अथवाज्ञानविज्ञप्तेः कथं नोज्झति संवरः ॥

इति प्रहेलिका ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां मृषावादविरतिशिक्षापदं चतुर्थम् ॥


(५९)
अवसरप्राप्तं सुरामैरेयमद्यपानविरतिशिक्षापदमधिकृत्याह । मद्यमित्यादि ।
यस्मात्सुरामैरेयमद्यपानं प्रमादस्य कुशलधर्मानवहितताया आस्पदं प्रतिष्ठा, तस्मात्कारणाद्यतिभिस्तत्सुरामैरेयमद्यं परस्मै न देयं न चात्मना पातव्यम् । किं वदित्यज्ञसंदिग्धविपर्यस्तानामज्ञानसन्देहविपर्यासापनयनार्थं दृष्टान्तमाह । श्वमूत्रवदिति । यथा शुनो मूत्रं परस्मै न दीयते न चात्मना पीयते, तद्वछ्रामणेरेण सुरामैरेयमद्यं परस्मै न देयं, न चात्मनापि पेय । स्वमूत्रवदित्यपि पाठः । तत्रैतद्व्याख्यानं- आत्मीयप्रस्राववदिति ।

तत्र सुरेत्यासव उच्यते । अन्नेनान्नविकारेण च या संचीयते, सा च त्रिविधावगन्तव्या । कथं कृत्वेत्याह । वल्कलैः सगुडैरित्यादि । काचित्सुरा गुडसहितैः वल्कलैः संचीयते, अपरा मधूनैव केवलेन । पिष्टोऽपूपः, किण्वं सुराबीजं, जलं तोयम् । एभिरपि काचित्सुरा संचीयत इत्येताः सुरा ज्ञातव्याः ॥

मैरेयमित्यादि । धात्री आमलकीफलं, अम्बु पानीयं, धातकी लोकप्रतीत्यैव कुसुमजातिः । गुडेन धात्र्या अम्बुना धातक्या च यत्संस्कृतं निष्पादितं रसान्तरं तन्मैरेयमुच्यते । सुरामैरेयमद्यं तद्यस्मान्मदनीयमतः कुशाग्रेणापि पातुं यतीनां श्रामणेराणां न प्रकल्पते, न लभ्यते । न केवलं जलादिवत्तत्पातुं न कल्पते, कुशाग्रेणापीत्यपिशब्देनाह ॥

सुरामैरेयव्यतिरिक्तमन्यदपि मदनीयं वस्तु परिभोक्तुं न लभ्यत इति दर्शयन्नाह । कोद्रवान्नमित्यादि । कोद्रवभक्तं यतिर्नं भुञ्जीत, न च तस्य कोद्रवस्य (६०) पलाले स्वपेत् । मदयेदित्यादि । यच्चान्यत्सुरामैरेयव्यतिरिक्तं मद्यवर्णगन्धरसं पीतं सन्मदयेन्मदं जनयेत्, तदपि न पातव्यम् । पिबतो दुष्कृतं भवति । अत एव मदनीयं पूगफलादि ज्ञात्वा न भक्षणीयम् ॥

सुरामैरेयमद्यं वै पिबेद्दद्याच्च चेल्लकः ।
कोद्रवान्नं च भुञ्जीत न च स्यात्दुष्कृतं कथम् ॥

इति प्रहेलिका ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां सुरामैरेयमद्यपानविरतिशिक्षापदं नाम पञ्चमं समाप्तम् ॥


(६१)
उक्तं सुरामैरेयमद्यपानविरतिशिक्षापदलक्षणम् । इदानीमुच्चशयनमहाशयनविरतिशिक्षापदलक्षणं लब्ध्वावकाशमित्याह । शयने यतिरासीत [इ]त्यादि । तत्र जितक्लेशत्वाद्भगवान् जिनः । तस्याष्टौ यान्यङ्गुलानि तत्प्रमाणं पादकमस्येति जिनाष्टाङ्गुलपादकं शयनासनम् । एतच्च जिनाष्टाङ्गुलप्रमाणं सामान्यपुरुषाष्टाङ्गुलप्रमाणेन त्रिगुणं भवति । अतश्चतुर्विशत्यङ्गुल्यो भवन्ति । तेन हस्तप्रमाणमित्याख्यातं भवतीति । यच्छयनासनं प्रमाणपुरुषहस्तप्रमाणपादकं तस्मिन्मञ्चे पीठे वा यतिः श्रामणेरः आसीत [उ]पविशेदित्यर्थः । किं सह शल्येन? नेत्याह । किं तर्हि विना शल्ये[न], शल्यं हित्वेत्यर्थः । अतः प्रमाणाधिके मञ्चे पीठे वा य उपविशति, तस्य दुष्कृतं भवति । हेमरूप्यकृते न त्विति । सुवर्णरूप्यमये तु मञ्चे पीठे वा जिनाष्टाङ्गुलप्रमाणेप्युपविष्टुं [न] लभ्यत इति । अथ किमर्थमिदमभिधीयते- हेमरूप्यकृते नेति? यावता कायेन पाणिपादाद्यैर्वस्त्रच्छत्रादिनेत्यादि वक्ष्यते । यत्र च वस्त्रादिना स्पर्शः प्रतिषिध्यते, तत्र सुतरामुपभोगो [न] लभ्यत इति । सत्यमेतत् । किन्तु कस्यचिदियमाशङ्का स्यात्सांघिके रुक्मरूप्यमये शयनासने उपविशतो न कश्चिद्दोषः पौद्गलिकस्यैव स्पर्शप्रतिषेधादिति । अत इदमुच्यत इति । केचित्परिहारं वर्णयन्ति । तदेतदसत्, अविशेषेण सांघिकपौद्गलिकयोर्जातरूपरजतयोः स्पर्शप्रतिषेधात् ॥ तस्मात्परिहाराय यत्न आस्तेयः ॥

(६२)
तत्रापि जिनाष्टाङ्गुलप्रमाणेऽपि मञ्चे पीठे वा विना प्रत्यास्तरणेनोपविष्टुं [न] लभ्यत इति दर्शयितुमाह । सांघिके शयने दद्यादित्यादि । संघस्येद सांघिकं शयनासनम् । तत्र प्रत्यास्तरणं यतिः प्रयच्छेत् । तच्च प्रत्यास्तरण न तृणपत्रादिक मभिप्रेतं, किन्तु विष्टरेत्याह । वस्त्रेत्यादि । सूक्ष्मस्य वस्त्रस्य त्रिपुटं घनस्य वस्त्रस्य द्विपुटं कम्बलस्य एकपुटं प्रत्यास्तरणमिष्टं, अभिप्रेतमित्यर्थ । क्रमादिति यथाक्रमं, प्रत्यास्तरणस्य त्रिद्वयेकपुटभेदोऽवसेय इत्यर्थः ॥

अतिरेकप्रामाणिके सांघिके शयनासने यथा प्रतिपत्तव्यं तथा दर्शनन्नाह । न्यस्य गर्तेषु तत्पादानिति विस्तरः । तच्छब्देन सांघिकशयनासन मभिसंवध्यते । तेन तत्पादानिति सांघिकशयनासनपादान् । कीदृशान्? अतिरेकप्रमाणकान्, जिनाष्टाङ्गुलप्रमाणादधिकप्रमाणानित्यर्थः । न्यस्य प्रक्षिप्य । कुत्रेत्याह । गर्तेषु । अथवा सुषिरप्रतिपादेषु प्रक्षिप्य । किमेवं व्रती निषेवेत सांघिकं शयनासनं? शयनासनमिति वक्ष्यते । टंकित्वा कीलकेषु वेति । अथवा चतुर्षु कीलकेषु तानतिरेकप्रमाणकान् पादान् टंकित्वा बध्वा किं कर्तव्यमिति न ज्ञायते क्रियाकार[क]संबन्धस्य परिसमाप्तत्वात् । अत आह एवं वेत्यादि । अमुनानन्तरोक्तेन क्रमेण सांघिकं शयनासनं भजेत । इक्षुयवगोधूमादीनां (६३) रक्षार्थं यद्दीर्घपादः मञ्चः क्रियते, तत्राध्वगो यतिः स्वपेत् । आदिशब्दात्गृहिशय्यासनस्य ग्रहणं वेद्यम् । तत्रापि गृहिणां शयनासने यतिना न पादौ लम्बीययितव्यौ- मा भूज्जनावध्यानमिति ॥

प्रव्रज्यां प्रसाणीकृत्य यथावृद्धिकया सांघिकं विहारमुद्देष्टव्यमिति दर्शयन्नाह । अल्पं चे[दि]त्यादि । यदि बहवः श्रामणेरा भवन्ति विहाराश्च स्तोकास्तदा एकैकं वि[हा]रं द्वादशेभ्यः श्रामणेरेभ्यो दातव्यम् । अथैवमपि बहवोयतयो भवन्ति, तदा अन्ततोऽगत्या निर्मुष्टकं हस्तमेकैकस्मै श्रामणेराय दातव्यम् । बहुत्वे तु विपर्ययादिति । कथं विपर्ययात्? यदि बहवो विहारा भवन्ति यतयश्च [स्तोकाः], तदा एकैस्मै अपि श्रामणेराय बहवो विहारा दातव्याः । तत्र विहारशब्देन लयनमेवोच्यते विहरन्त्यस्मिन्निति कृत्वा ॥

स्तोकं चेदित्यादि । यदि स्तोकं शयनासनं भवति यतयश्च बहवः, तदा तत्र यो वृद्धः स मञ्चे स्वपेत् । यस्तु नवकः स पीठे स्वपेत् । अथैवमपि सर्वेषां न भवति, तदा यावद्वृक्षमूले वृद्धेन स्वप्तव्यं, नवकेन त्वभ्यवकाशक इत्येवं यथावृद्धिकया सांघिकं शयनासनमुद्देष्टव्यम् । किं पुनः सर्वकालमेबेत्याह । अन्तर्वर्षासु नो स्थाप्य इत्यादि । अन्तर्वर्षाकाले यतिना यथावृद्धिकयान्यः सब्रह्मचारी नोपस्थापयितव्यः । य उपस्था[प]यति तस्य दुष्कृतं भवति ॥

(६४)
अथ किमर्थं शयनासनमुद्दिश्यत इत्याह । संस्कारेत्यादि । छिन्नग्रन्थ्यादिकरणं संस्कारः । तत्र स्वात्मावस्थितिः परिभोगः । परिपालनं संरक्षणम् । एवमर्थं सांघिक शयनासनमुद्दिश्यते न व्यसनितयेति दर्शयति ॥

किं पुनः सर्वाण्येव लयनान्युद्देष्टव्यानि? नेत्याह । किं तर्हि हीनमध्येत्यादि । यदि भूयांसि लयनानि सन्ति संवरिणश्चाल्पीयान्सस्तदा आगन्तुकानां भिक्षूणामवस्थितये लयनत्रयं स्थापयितव्यं कीदृशमित्याह । हीनमध्योत्तमम् । यद्यागन्तुका आगच्छन्ति, [त]दा वृद्धाद्यागन्तुकेभ्यस्तदुद्दिशेद्दहरक्रमात् । तेषां त्रयाणां लयनानां मध्ये यदुत्तमं लयनं तद्वृद्धायागन्तुकभिक्षवे उद्देष्टव्यं यन्मध्यं तत्ततो नवकाय, यद्धीनं तत्सर्वनवकायेति ॥

किमर्थं पुनर्भगवानुच्चशयनमहाशयनप्रतिषेधं चकारेत्याह । शयनासनमत्युच्चेति विस्तरः । यस्मादतीवोच्चं शयनासनं यतेः श्रामणेरस्य मदकरं, औद्धत्यकरं, लाकावध्यानस्य च हेतुकारणं, तस्मात्कारणाद्भगवतोच्चशयनमहाशयनं प्रतिषिद्धमिति । जिनाष्टाङ्गुलप्रमाणादतिरेकप्रमाणिकत्वादुच्चशयनं, महाशयनञ्च रुक्मरूप्यमयत्वादिति ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायामुच्चशयनमहाशयनविरतिशिक्षापदं नाम षष्ठम् ॥


(६५)
नृत्तगीतवादित्र[विशोकदर्शनविरति]शिक्षापदमधिकृत्याह । बाहुविक्षेपकमित्यादि । द्वयोर्बाह्वोर्विक्षेपण स्फोरणं कृत्वा यन्नर्तनं तन्नृत्तमुच्यते । एतच्चनृत्तमुन्मत्तत्वमिति भगवानवोचत् । यच्चोच्चैः स्वरेण गीतमेतदार्याणां समुन्मूलिताखिलाकुशलमूलानामज्ञानपटलपाटनपटूनां रुदितं क्रन्दितमिति । यस्माद्भगवानवदत्तस्मात्कारणात्वीणावंशमृदङ्गादिवादित्रं यतिर्न वादयेत् । यस्मिन् क्रीडास्थाने उत्सवादिके गत्वा विगतशोकाः स्युः स्त्रीपुरुषास्तत्क्रीडास्थानं विगतशोकं यतिर्न यायात् । यस्तु श्रामणेरो हृष्टः सन्नृ[त्य]ति गायति वादित्रं वादग्रति, तस्य दुष्कृतं भवति ॥

स्फुटार्थायां श्रीघना[चा]रसंग्रहटीकायां नृत्तगीतवादित्र[विशोकदर्शन]विरतिशिक्षापदं नाम सप्त[मं] ॥


(६६)
गन्धमाल्यविलेपनविरतिशिक्षापदमधिकृत्याह । चन्दनेत्यादि । यतिश्चन्दनादिकं गन्धं धा[र]येत् । कीदृशो यतिरित्याह । व्याधिः संजातो यस्येति व्याधितो, ग्लान इत्यर्थः । कस्य वचनेन धारयेदित्याह । भिषगादेरित्याह । वैद्योपदेशात् । कतमेन विधिनेत्याह । दत्वेत्यादि । पूर्वं मुनये बुद्धाय भगवते चन्दनादिकं गन्धं दत्वा पश्चादात्मना धारयेत् । स्वस्थस्तु यतिः कदाचिदपि चन्दनादिकं गन्धं न धारयेत् ॥

न तिष्ठेदित्यादि । सति प्रकटे देशे चन्दनाद्यनुलिप्तगात्रो यतिः ग्लानोऽपि सन्न तिष्ठेत् । यदि बहिर्निर्गन्तुकामो भवति, तदा क्षालयित्वा बहिर्व्रजेत् । अनेनैव विधानेन धारयेत्कुसुमस्रजमिति । कुसुमं पुष्पं, स्रक्माला, तेन कुसुमस्रजमिति, पुष्पमालामित्यर्थः । किं धारयेत्? अनेनैव विधानेनेति । पूर्वं तावद्बुद्धाय दद्यात्पश्चादात्मना धारयेदिति । कीदृशेन ग्लानेन स्रग्माला धारयितव्येत्याह । नेत्रदुःखेत्यादि । नेत्रदुःखेन शिरःशूलेन पूतनाग्रहेण च रुजितुं शीलं यस्य यतेः स तथोक्तः । तस्य शीर्षं कुसुममालया वेष्टयेत् । न च पुष्पमालायाः मेखलां लम्बयेत् ॥

(६७)
हरितालेत्यादि । हरितालादिचूर्णेन सुगन्धिना वा तैलेन वर्णार्थं रूपनिष्पत्त्यर्थं यतिः वदनादिकं गात्रं न मर्षयेत् ॥

किमर्थं पुनर्भगवता नृत्तादि प्रतिषिद्धमित्याह । यतेरप्रतिरूपत्वादित्यादि । यस्मान्नृत्तगीतवादित्रविशोकदर्शनं गन्धमाल्यविलेपनधारणञ्च यतेरप्रतिरूपरागकरमौद्धत्यकरं जनानाञ्च कोपकारणमवध्या[न]करं तस्माज्जिनैर्बुद्धैर्भगवद्भिर्गर्हितं निन्दितम् ॥

प्रसङ्गेनान्यदपि प्रतिषेधयति । न दर्पण इत्यादिना । आदर्शे तैलभाजने जलभाजने वा मुखं न निरीक्षेत । कृतगण्डादित्वेन शिरोव्यथेन शिरोवेधदुःखेन गदेन व्याधिना च य आतुरो ग्लानः तं मुक्त्वा अन्येन निरीक्षणीयम् । किञ्च विभूषणायेत्यादि । यतिः मण्डनार्थमात्मनो मुखं तैलेन नाभ्यञ्जयेदन्तशः पानीयेनापि । शिरोरोगेत्यादि । शिरसि रोगो व्याधिः, आस्यं मुखञ्च स्फुटितं यस्य यतेः स तथोक्तः । तस्मादृते अन्येनेति यावत् । न कुङ्कुमेत्यादि । यतिश्चन्दनकुङ्कुमादिचूर्णेन वदनं मुखं न मण्डयेत् । पिटकस्य तु शमनार्थं तिलकलापप्रभृतिभिः लेप इष्टोऽभिप्रेत इति यावत् । यस्तु यतिः शैथिलिकत्वादिना यथोक्तं विधिं न संपादयति, तस्य दुष्कृतं भवति ॥

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां गन्धमाल्यविलेपनविरतिशिक्षापदं नामाष्टमम् ॥


(६८)
विकालभोजनप्रतिषेधकारणं प्रदर्शयन्नाह । रात्रेरित्यादि । रात्रेरन्यत्र दिवसे भगवानशनकृत्यं कुर्वन्नल्पाबाधतां सम्यगजानात्स्म, भिक्षव इति श्रावकान् प्रति बभाषे । किमिति । तथैव वः कार्यमिति । यस्मान्मम रात्रेरन्यत्र भुञ्जानस्याल्परोगता बभूव, तस्माद्युष्माभिरपि दिवसे भोक्तव्यं न रात्राविति । अनेन श्लोकेन विकालभोजनविरतिशिक्षापदप्रज्ञप्तेः कारणमाख्यातम् । भूयोऽपि तत्कारणं प्रतिपादनायाह । विण्मूत्रेत्यादि । रात्रौ पिण्डपातमटतामशुचिगर्ते मूत्रगर्ते च पातो भवति । अश्वचोरेण गोचोरेणाहिना सर्पेण च समागमो भवति । एवमपि सति एते यतय उदरस्य कुक्षेः पूरणार्थं रात्रौ नः अस्माकं गृहे पिण्डपातमटन्तीति जनोऽवध्यातवान् । जनैरवध्यातेऽपि ते यतयः दिवाप्रत्यूषसि सायह्नकाले च पिण्डपातमटितुमारब्धाः । तत्रापि जनैरवध्यातमिति दर्शयितुमाह । सायं प्रातश्चेत्यादि श्लोकः । एते भिक्षवः सायह्नकाले प्रातः प्रभाते च सभाचत्वरशृङ्गाटकेषु मन्दिरेषु गृहेषु च अटन्ति भ्रमन्ति भुञ्जते चासत्कृत्यं च कुर्वन्तीति जनैरवध्यातम् । अतस्तस्मात्कारणात्किमित्याह । सुगतः प्राहेत्यादि । प्रशस्तमपुनरावृत्त्या निःशेषं वा गत इति सुगतः, यथाक्रमं सुरूपवत्सुनष्टक्षुखत्सुपूर्णघटवच्च । स प्राह, ब्रतीति स्म । किमिति । यतिः काले भुञ्जीत । कीदृशे काल इत्याह । उदितादित्येत्यादि । केशमात्रेणाप्यनतीतोऽसंक्रान्तो मध्याह्नो येनोदितेनादित्येन स एवमुच्यते, तस्मिन् ।

(६९)
कीदृशं पुनस्तूदितादित्यकाले भोक्तव्यमित्याह । सक्तुरोदनेत्यादि । पञ्चभोजनानि कालिकानिसक्तुभक्तकुल्माषमत्स्यमांसाख्यानि । कदाचिदेतानि पञ्चभोजनानि सप्ताहिकादिसम्मिश्राण्यपि भवन्तीत्याह । यावज्जीविकेत्यादि । यावज्जीविकेन पिप्पल्यादिना तैलादिना पानकैश्च यत्परिवर्जितं तत्कालिकम् । किं पुनरेतदेव पञ्चविधं भोजनं कालिकमुतान्यदपि? अन्यदपीत्याह । यत्किञ्चिदद्यते दन्तैरिति । अनेन खरविशदं वस्त्वभिधीयते । गलके वा प्रवेश्यत इत्यनेन नासिकयापि यत्पीयते तदपि गलकेनेवाभ्यवह्रियत इति, तस्यापि प्रतिषेधः कृतो भवति । अन्यथा हि विकाले क्षीरपानमदोषाय स्यात् । कुक्षिविष्टशब्देनोभयपदाभिहितं वस्त्वभिधीयते । कुक्षेरुपस्तम्भकं परिपूरकं करोतीति कुक्षिविष्टभंकृत्यदे[त]त्सर्वं तत्काले आद्यादित्योदिते, मध्याह्नादर्वाग्यतिर्भक्षयेदित्यर्थः ॥

विकाले तु यद्भोक्तुं लभ्यते, तद्दर्शयन्नाह । सक्त्वाद्यामिषनिर्मुक्तमित्यादि । सक्तुकुल्माषादिभिरामिषैः परित्यक्तम् । कीदृशं? नीरजंरजोरहितं कर्दमादिकम् । देवे वर्षति या शिला पतति, तद्वर्षोपलकमश्नीयात्, भक्षयेत् । पातुमिच्छा पिपासा पानाभिलाषः, तेनार्तः सन् हिमं यतिः पिबेदिति शेषः ।

कथं पुनः कल्पिकोदकं ग्राह्यमित्येनं विकल्प्य अवसरीकर्तुमाह । कल्प्यवारिग्रहमित्यादि । कल्पिकस्य वारिणो ग्रहणं कल्पवारिग्रहः, तस्मिन् । कल्पिकोदकग्रहण (७०) निमित्तमिति यावत् । यावता कालेन द्वौ हस्तौ प्रक्षाल्यमानौ सरुधिरौ भवतः, तावन्तं कालं तौ न प्रक्षालयितव्यौ । नाप्यङ्गुली प्रक्षाल[ने] कल्पिकोदकं ग्राह्यम् । मायेत्यादि । मायया शाठ्येन । युक्तो यतिस्तयोः प्रक्षालनं न कुर्यात्यदि प्रकृत्यैव स्निग्धत्वग्भिक्षुभवति, तस्य स्निग्धत्वचो यतेः यौ हस्तौ तौ सशब्दौ भवतः, तदा शुद्धौ वेद्यौ ॥

किं पुनर्विकाले ग्लानेनापि न भोक्तव्यमित्याह । न दास्यथेत्यादि । क्षुद्बुभुक्षा । तृष्णाशब्देनापि लोकप्रतीतोर्थः पानाभिलाष उच्यते । ताभ्यां पीडितोऽहं मरिष्यामि, यदि मह्यं विकाले भोक्तुं न दास्यथ इत्येवं यदि कश्चिद्विरुक्तो यतिर्बूयात्, तदा स यतिः पूर्णे मण्डकुण्डे प्रक्षेप्तव्यः । आगलकादित्यवशेषम् । अथैवमप्यतिनामयितुं न शक्नोति, तदा किं कार्यमित्याह । अष्टास्वधौतेत्यादि । अष्टाभिः जले धौतं प्रक्षालितं यद्धान्यं कल्पिकेन च वस्त्रेण बद्धं तदनामिषे पात्रे ताम्रभाजने अन्यत्र वा प्रस्थापनं दिशेद्दद्यादित्यर्थः । यदि तु तद्धान्यं स्फुटं स्फुटितं वा सत्ग्लानाय पातुं न कल्पते ॥

प्रसङ्गेनान्यदपि प्रतिषेधयति । लोभोत्थापितेत्यादि । लोभेनाकुशलमूलेन समुत्थापितं यत्कायवाक्कर्म तेन समुपार्जितो यो विहारचीवराहारस्तं सविषभक्तवद्वर्जयेत् । मद्येत्यादि । मद्यविक्रयणं, शस्त्रविक्रयणं, विषविक्रयणं, प्राणिविक्रयणं, (७१) लाक्षविक्रयणं च व्रती स्वयं न कुर्यात्, न च परेण कारयेत्, न च तेन मद्यादिना जीविकां कल्पयेत् । सत्कारेत्यादि । अक्षाण्युच्यन्ते चक्षुरादीन्द्रियाणि । तेषां यः संवरः संयमः लाभसत्कारार्थं, सा कुहना मता । वस्त्रान्नपानादिकस्य तु लाभस्य प्राप्त्यर्थ या चाटुवादिता प्रियवादिता, सा लापना मतेति । नैष्पेषिकत्वमित्यादि । अन्नपानादिप्रतिलंभाय यत्परेषां कुत्सनं तद्नैष्पेषिकत्वमुच्यते । अन्यदीयस्य तु पात्रादेर्यद्वर्णनं गुणोद्भावनं लाभार्थं महयमेतत्पात्रादिकं दद्यादिति तत्रैमित्तिकत्वमुच्यते । लाभेन लिप्सेत्यादि । अल्पेन लाभेन यद्वृद्धिपर्येषणं लाभानां सा लिप्सेत्युच्यते लब्धुमिच्छा लिप्सेति अर्थात् । ये कुहनलपननैष्पेषिकादिभिर्निष्पन्ना लाभाः । तानेतान्मिथ्याजीवान् यतिः परिवर्जयेत् । किं वदित्याह । पुरीषवदशुचिवदित्यर्थः । क्रीडेत्यादि । परेषामपहननं परोपघातः । क्रीडाकौतूहलम् । कायवाक्समुच्छितं सर्वकालम् । विट्प्रदिग्धमिवोरगं, अशुचिलिप्तं सर्पं यथा व्रती परिवर्जयेत् । विपणीत्यादि । विपणिः वणिक्पथमुच्यते, यस्य घट्ट इति प्राकृतजनप्रतीतिः । तरन्त्यस्मिन्निति तरः, क्षेपणतीर्थम् । गुल्मं विटपः । एवमादिके छन्नप्रकटे भूप्रदेशे किं तिष्ठेत्तत्र न चेल्लक इति वक्ष्यते । दुष्टप्रव्रजितायाः दुःशीलापि सतो प्रतिज्ञायामास्ते । आह । प्रव्रजिते वेश्यारूपा जीविकावा । गुरु (७२) कुमारिका स्थले वसता अव्यूढा आस्ते । एताः किं? द्यूतकारगृहं बन्धनागारमन्यच्च यद्वन्धनस्थानं ततगोचरोऽविषय आख्यातः । तस्मात्तत्र न तिष्ठेदिति ।

स्फुटार्थायां श्रीघनाचारसंग्रहटीकायां विकालभोजनविरतिशिक्षापदं नाम नवमम् ॥


(७३)
दशमशिक्षापदमधिकृत्याह । कायेत्यादि । सकलेन कायेन हस्ताभ्यां पादाभ्यां वस्त्रेण छत्रादिना च व्रती रजतं रूप्यं, जातरूपं सुवर्णं न स्पृशेत् । किमिवेत्याह । ज्वलिताग्निवत । प्रज्वालितदहनवदिति । अनेन दशमं शिक्षापदमभिहितम् ॥


(७४)
इदानीं प्रसङ्गैनान्यदप्याचारं संगृह्णाति चम्पूकलहेत्यादिना । तत्र चम्पू हास्यं, कलहः कायकलहो वाक्कलहश्च । दन्तकाष्ठादनं दन्तकाष्ठभक्षणम् । शेषं सुगमम् । चम्पूकलहेत्यादि द्वन्द्वः । चम्पूकलहदन्तकाष्ठादनानि क्रिया यस्य वृद्धान्तिकस्य यतेः स तथोक्तः । स्नानञ्च पानञ्चाशनञ्च स्तोत्रं चेति स्नानपानाशनस्तोत्राणि, तैर्व्यग्रोऽप्राप्तावसरो यः स एवमुच्यते । स्नानादिव्यग्रश्च नग्नश्चैकवस्त्रश्चेति पुनर्विग्रहः । स पूर्वोक्तश्च किं न वन्द्यो यतिना यतिरिति वक्ष्यते । मृत्कर्मेत्यादि । मृण्मयकर्मणा यो व्यापृतोऽप्राप्तावसरः यश्च तूर्णं त्वरितं द्वित्रिभूमिकं विहारमुत्कसति, आशु शीघ्रं च यो व्रजति, यश्च पात्रं पचति, चीवरकर्मणा वा व्यग्रः, स वृद्धान्तिको यतिः द्वित्रिभूमिकं विहारमुत्तिष्ठन् यावत्पात्रं वा पचन् किं न वन्द्यो यतिना यतिरिति वक्ष्यते । चूर्णेत्यादि । चूर्णक्रियायां चैलक्रियायां वस्त्रपात्रादिशोधने च यः आसक्तः, अक्षिणी यश्चाक्ते धूमं वा पिबति, पुस्तकं वा लिखति, वाचयति, सोऽपि न वन्द्यः । विट्प्रस्त्रावेत्यादि । यः श्रामणेरो वर्चकुटि प्रस्त्रावकुटिं वा गच्छति, परस्मै वा उद्दिशति, तमसि अन्धकारे वा तिष्ठति, अन्तर्वासं वा वासयति, उत्तरासंगं वा प्रावृणोति, स वृद्धान्तिको यतिः वर्चकुटिं गच्छन् यावदुत्तरासंगं प्रावृण्वन्न वन्द्य इत्यनेन यादृश्यामवस्थायामवस्थितो वृद्धान्तिको यतिर्नवकेन न वन्दितव्यः, सा अवस्थाभिहिता ॥

(७५)
इदानीं तु यादृग्विधावस्थावस्थितेन नवकेन यतिना न वदितव्यं, तथा दर्शयितुमाह । अवगुण्ठितेत्यादि । अवगुण्ठितं पिधितं शीर्षं शिरो यस्य यतेः तेन समन्तप्रावृतेन वा यतिना किं वन्द्य इति वक्ष्यते । सह उपनहा वर्तेते पादौ यस्य यतेः स सोपानत्कः, तेन उपानहारूढेनेत्यर्थः । जानु च जानु च जानुनी, तयोर्जानुनोर्या जंघा तस्यां जंघायां मुण्डे[न] स्फोटं न दद्यात् । किमिवेत्याह । अविना यथा । अविर्मेषः । यथा अविना मेण्डकेन द्वयोर्जानुनोर्जंघायां हन्यते, तद्वद्यतिरपि वृद्धान्तिकस्य यतेर्जंघायां न वन्देतेति यावत् । भदन्तधर्मावलोकितमित्रस्त्वाह । सोपानत्केन न वन्दितव्य । किमिवेत्याह । रविना यथा । रविरादित्यः । यथासौ रविरुपानहारूढस्तद्वदुपानहारूढेन यतिना न वन्दनीयमित्यकारप्रश्लेषेनावबोधयन् वक्ति । किमेतद्भदन्तमतमेष्टव्यं? नेष्टव्यम् । किं तर्हि अन्वेष्टव्यं विनये मेढकस्यैव दृष्टान्तदानात् ।

विधिं दर्शयन्नाह । समवस्थेत्यादि । समवस्थोपविष्टस्य यतेः पादयुगलं कर्कटग्राहं गृहीत्वा शिरसा वन्दितव्यम् । यदा समवस्थानिषण्णो यतिः पादरोगेण ग्लानः स्यात्तदा विनापि कर्कटग्राहिकया वन्द्यमानस्य न दोषः । यदि कश्चिदागत्यागन्तुकः समवस्थानिषण्णम[भिवादयति], तदानेन वक्तव्यमायुष्मन्, (७६) कति वर्षोसि, कतमस्ते निकायः, कति च तस्य निकायस्य भेदाः, कतमा ते सामयिकेत्यादि । सोऽपि यदि आर्यमहासांघिको भवति, तदानेन वाच्यमार्यमहासांघिकोऽस्मि । तस्य चेद्भेदाः

वादिनश्चार्थसिद्धार्थाः शैलद्वयनिवासिनः ।
भाद्रायना हैमवताः षड्भेदा मूलसांघिकाः ॥

दैर्घी हैमन्तकी ग्रैष्मी वार्षिकी च तथोत्तरा ।
श्रामणेरेण विज्ञेयाः पञ्चैताः सामवायिकाः ॥

इत्येवमन्यदपि विवर्जयितव्यम् । तत्र यो नवकस्तेन वन्दितव्यं, वृद्धेन चारोग्यमस्त्विति वाच्यम् ।

अथारोग्यमिति कोऽर्थः? यथा वातपित्तश्लेष्मादयः कुपिताः सन्तो बाधनार्थेन रोगा इत्युच्यन्ते, तद्वत्रागादयोऽपि क्लेशा रुजनार्थेन रोगशब्दवाच्याः । न रोगः अरोगस्तद्भाव आरोग्यम् । क्लेशप्रहाणं तव भवतु । तथा चाह-

रागादयो ह्यतितरां रुजयन्ति यस्माद्वातादयश्च कुपिताः सकलं जनौघम् ।
तच्छान्तिवाञ्छिन पराः प्रणतेषु तस्मादारोग्यमस्त्विति वचो निगदन्ति बुद्धाः ॥

(७७)
अन्य आह-

यत्तु जरामरणशोकभयैर्विमुक्तं, यद्वर्जितं शशिहुताशनभानुतोयैः ।
यच्छाश्वतं पदमनुत्तरमच्युतञ्च, ........ ॥

स[क]लैर्भिक्षुभिः शिक्षाकामैः विकालभोजनादिकं कृतं कस्माद्वयं न कुर्म इति । आवासकल्पः- अमुष्मिन् विहारे भिक्षवोऽन्योन्यं कायसंसर्गं कुर्वन्ति कस्माद्वयमपि न कुर्म इति । देशकल्पः- अमुष्मिन् देशे वार्द्धुषिकभिक्षवः कस्माद्वयमपि वृद्धि न प्रयच्छामः । स्थविरकल्पः- अमुकस्थविरश्चापि सन्धिकाले भुङ्क्ते, किं वयं न भुञ्जामह इति ॥

भिक्षुविनयात्समुद्धृतमाचारान्तरं न तु स्वमनीषिकयान्यत्कृतमिति दर्शयितुमाह । विनय इति । विनयन्तेऽनेन क्लेशा इति विनयः । समधिगतप्रातिमोक्षसंवरेण भिक्षुविनयसंक्षेपादुद्धृतः । अन्यत्तु शेषं यद्भिक्षुविनये व्यासतो निर्दिष्टम् । अशनवसनादौ यथा प्रतिपत्तव्यं तदुपाध्यायाचार्यवृद्धतरेभ्यः सकाशाद्यतिना श्रोतव्यं, तेन सगौरवेन च भाव्यम् ।

शतद्वयेनेत्यादि । एतदन्तरोक्तं श्रीघनाचारसंग्रहं संहत्य यत्सुकृतं कुशलकृतं तेन सुकृतेन कर्मणा जनो लोकः असंस्कृतं निर्वाणं प्राप्नोतु लभतामित्यनेन श्लोकेन परिणामयति ॥

(७८)
इति जयरक्षिते(न) निबध्य टीकां, सकलजनागममलिम्लुचोपहर्त्री ।
शुभमतिविपुलं मया यदाप्तं भवतु जनोऽखिलस्तु तेन बुद्धः ॥

सुश्रीघनाचारसुसंग्रहस्य कृत्वा हि टीकां यदवापि पुण्यम् ।
जनोऽखिलस्तेन शुभेन तूर्णं जिनोऽस्तु विख्यातगुणोदयश्रीः ॥