सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५१

विकिस्रोतः तः
← अध्यायः ५० स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →


अध्याय ५१

उत्तानपाद उवाच -
काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर ।
यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत् ॥ ५१.१ ॥

ईश्वर उवाच -
पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् ।
इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः ॥ ५१.२ ॥
विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु ।
मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश ॥ ५१.३ ॥
अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ ५१.४ ॥
आषाढस्यैव दशमी माघस्यैव तु सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ॥ ५१.५ ॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा ॥ ५१.६ ॥
मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः ।
अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत् ॥ ५१.७ ॥
कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका ।
पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः ॥ ५१.८ ॥
अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च ।
श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम् ॥ ५१.९ ॥
मधुमासे सिते पक्ष एकादश्यामुपोषितः ।
निशि जागरणं कुर्याद्विष्णुपादसमीपतः ॥ ५१.१० ॥
धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः ।
अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम् ॥ ५१.११ ॥
ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ५१.१२ ॥
प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः ।
दानं दद्याद्यथाशक्ति गोहिरण्याम्बरादिकम् ॥ ५१.१३ ॥
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ।
श्राद्धदस्तु व्रजेत्तत्र यत्र देवो जनार्दनः ॥ ५१.१४ ॥
त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके ।
दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः ॥ ५१.१५ ॥

उत्तानपाद उवाच -
गुहामध्ये महादेव लिङ्गं परमशोभितम् ।
येन प्रतिष्ठितं देव तन्ममाख्यातुमर्हसि ॥ ५१.१६ ॥

ईश्वर उवाच -
त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः ।
दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम् ॥ ५१.१७ ॥
गुहामध्यं प्रविष्टोऽसौ योगाभ्यासमुपाश्रितः ।
लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम् ॥ ५१.१८ ॥
तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः ।
तत्र जागरणं कुर्वन् दद्याद्दीपं प्रयत्नतः ॥ ५१.१९ ॥
देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस्तथा ।
यथा शक्त्या समालभ्य पूजां कुर्याद्यथाविधि ॥ ५१.२० ॥
स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर्द्विजातयः ।
सावित्र्यष्टसहस्रं तु शताष्टकमथापि वा ॥ ५१.२१ ॥
एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् ।
चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि ॥ ५१.२२ ॥
पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता ।
पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम् ॥ ५१.२३ ॥
दाता स गच्छते तत्र यत्र भोगाः सनातनाः ।
गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः ॥ ५१.२४ ॥
नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते ।
शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि ॥ ५१.२५ ॥
विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु ।
केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे ॥ ५१.२६ ॥
सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ।
अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते ॥ ५१.२७ ॥
गयादिसर्वतीर्थानां फलमाप्नोति मानवः ।
विधिमन्त्रसमायुक्तस्तर्पयेत्पितृदेवताः ॥ ५१.२८ ॥
कुलानां तारयेद्विंशं दश पूर्वान् दशापरान् ।
दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः ॥ ५१.२९ ॥
न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पिकाम् ।
शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा ॥ ५१.३० ॥
वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।
वानस्पत्यं भवेत्षष्ठं प्राजापत्यं तु सप्तमम् ॥ ५१.३१ ॥
अष्टमं शिवपुष्पं स्यादेषां शृणु विनिर्णयम् ।
वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः ॥ ५१.३२ ॥
आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ।
पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम् ॥ ५१.३३ ॥
प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना ।
अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ॥ ५१.३४ ॥
तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् ।
ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम् ॥ ५१.३५ ॥
सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यन्ति देवताः ।
भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप ॥ ५१.३६ ॥
छत्रमावरणं दद्यादुपानद्युगलं तथा ।
तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः ॥ ५१.३७ ॥
स्वर्गलोके वसेत्तावद्यावदाभूतसम्प्लवम् ।
शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः ॥ ५१.३८ ॥
पञ्चामृतैः पञ्चगव्यैर्यक्षकर्दमकुङ्कुमैः ।
समालभेत देवेशं श्रीखण्डागुरुचन्दनैः ॥ ५१.३९ ॥
नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः ।
निशि जागरणं कुर्युर्दीपदानं प्रयत्नतः ॥ ५१.४० ॥
धूपनैवेद्यकं दद्यात्पठेत्पौराणिकीं कथाम् ।
तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः ॥ ५१.४१ ॥
श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् ।
वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम् ॥ ५१.४२ ॥
ब्राह्मणान् पूजयेद्भक्त्या पूजयित्वा प्रणम्य च ।
नानाविधैर्महाभोगैः शिवलोके महीयते ॥ ५१.४३ ॥
अग्निमित्यादि जाप्यानि ऋग्वेदी जपते तु यः ।
रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ॥ ५१.४४ ॥
इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च ।
गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च ॥ ५१.४५ ॥
एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद्यदि ।
देवव्रतं वामदेव्यं पुरुषर्षभमेव च ॥ ५१.४६ ॥
बृहद्रथान्तरं चैव यो जपेद्भक्तितत्परः ।
स प्रयाति नरः स्थानं यत्र देवो महेश्वरः ॥ ५१.४७ ॥
पादशौचं तथाभ्यङ्गं कुरुते योऽत्र भक्तितः ।
गोदाने चैव यत्पुण्यं लभते नात्र संशयः ॥ ५१.४८ ॥
ब्राह्मणान् भोजयेत्तत्र मधुना पायसेन च ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥ ५१.४९ ॥
सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजोत्तमे ।
तर्पितास्तेन देवाः स्युर्मनुष्याः पितरस्तथा ॥ ५१.५० ॥
चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ।
देवार्चनं ये च कुर्युर्जपं होमं विशेषतः ।
दद्याद्दानं यथाशक्ति ब्राह्मणे वेदपारगे ॥ ५१.५१ ॥
अश्वं रथं गजं यानं तुलापुरुषमेव च ।
शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम् ॥ ५१.५२ ॥
सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ ।
गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ॥ ५१.५३ ॥
अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता ।
यतोऽसौ सर्वभूतानि दधाति धरणी किल ॥ ५१.५४ ॥
ततो विप्राय सा देया सर्वसस्यौघमालिनी ।
अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम् ॥ ५१.५५ ॥
यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ ५१.५६ ॥
येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् ।
पृथ्वी दत्ता भवेत्तेन सशैलवनकानना ॥ ५१.५७ ॥
तारयेन्नियतं दत्ता कुलानामेकविंशतिम् ।
रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम् ॥ ५१.५८ ॥
ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे ।
तेषां संख्यां न जानामि पुण्यस्याब्दशतैरपि ॥ ५१.५९ ॥
सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप ।
चन्द्रसूर्योपरागे च दानसंख्या न विद्यते ॥ ५१.६० ॥
यत्र गौर्दृश्यते राजन् सर्वतीर्थानि तत्र हि ।
तत्र पर्व विजानीयान्नात्र कार्या विचारणा ॥ ५१.६१ ॥
पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद्गमनं नरः ।
अथवा म्रियते योऽत्र रुद्रस्यानुचरो भवेत् ॥ ५१.६२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥