सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०४०

विकिस्रोतः तः


अध्याय ४०

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् ।
यत्र सिद्धो महाभागो दैत्यो लोकेषु विश्रुतः ॥ ४०.१ ॥

युधिष्ठिर उवाच -
योऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः ।
कस्य पुत्रः कथं सिद्धः कस्मिन्काले वद द्विज ॥ ४०.२ ॥

मार्कण्डेय उवाच -
पुरा कृतयुगे राजन्मानसो ब्रह्मणः सुतः ।
वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः ॥ ४०.३ ॥
तस्यापि तपसो राशेः कालेन महतानघ ।
पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः ॥ ४०.४ ॥
क्षमा दमो दया दानं सत्यं शौचमथार्जवम् ।
मरीचेश्च गुणा ह्येते सन्ति तस्य च भारत ॥ ४०.५ ॥
एवं गुणगणाकीर्णं कश्यपं द्विजसत्तमम् ।
ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ ॥ ४०.६ ॥
अदितिर्दितिर्दनुश्चैव तथाप्येवं दशापराः ।
यासां पुत्राश्च संजाताः पौत्राश्च भरतर्षभ ॥ ४०.७ ॥
अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान् ।
जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः ॥ ४०.८ ॥
यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ।
तथान्यस्य महाभागो दनोः पुत्रो व्यजायत ॥ ४०.९ ॥
सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः ।
बाल एव महाभाग चचार स महत्तपः ॥ ४०.१० ॥
नर्मदातटमाश्रित्य चातिघोरमनुत्तमम् ।
दिव्यं वर्षसहस्रं च कृच्छ्रचान्द्रायणं नृप ॥ ४०.११ ॥
शाकमूलफलाहारः स्नानहोमपरायणः ।
ततस्तुष्टो महादेव उमया सहितः किल ॥ ४०.१२ ॥
वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः ।
भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ ॥ ४०.१३ ॥
वरं वृणीष्व ते दद्मि ह्यमरत्वमृते मम ॥ ४०.१४ ॥

करञ्ज उवाच -
यदि तुष्टो महादेव यदि देयो वरो मम ।
तर्हि पुत्राश्च पौत्राश्च सन्तु मे धर्मवत्सलाः ॥ ४०.१५ ॥
तथेत्युक्त्वा महादेव उमया सहितस्तदा ।
वृषारूढो गणैः सार्द्धं तत्रैवान्तरधीयत ॥ ४०.१६ ॥
गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः ।
स्वनाम्नात्र महादेवं स्थापयित्वा ययौ गृहम् ॥ ४०.१७ ॥
तदाप्रभृति तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
स्नानमात्रानरस्तत्र मुच्यते सर्वपातकैः ॥ ४०.१८ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
सोऽग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥ ४०.१९ ॥
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
अनिवर्त्या गतिस्तस्य रुद्रलोकं स गच्छति ॥ ४०.२० ॥
अथवाग्निजले प्राणान्यस्त्यजेद्धर्मनन्दन ।
अयुतद्वितयं वस्ते वर्षाणां शिवमन्दिरे ॥ ४०.२१ ॥
ततश्चैव क्षये जाते जायते विमले कुले ।
वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ ४०.२२ ॥
राजा वा राजतुल्यो वा जीवेच्च शरदः शतम् ।
पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः ॥ ४०.२३ ॥
एवं ते सर्वमाख्यातं पृष्टं यद्यत्त्वयानघ ।
तीर्थस्य तु फलं तस्य स्नानदानेषु भारत ॥ ४०.२४ ॥
एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।
पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम् ॥ ४०.२५ ॥
यस्तु श्रावयते श्राद्धे पठेत्पितृपरायणः ।
अक्षयं जायते पुण्यमित्येवं शङ्करोऽब्रवीत् ॥ ४०.२६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करञ्जेश्वरतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥