सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००२

विकिस्रोतः तः
← अध्यायः १ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः २
वेदव्यासः
अध्यायः ३ →


अध्याय २
सूत उवाच ॥ २.१ ॥
नर्मदायास्तु माहात्म्यं कृष्णद्वैपायनोऽब्रवीत् ।
तत्तेऽहं सम्प्रवक्ष्यामि यत्त्वया परिपृच्छितम् ॥ २.२ ॥
विस्तरं नर्मदायास्तु तीर्थानां मुनिसत्तम ।
कोऽन्यः शक्तोऽस्ति वै वक्तुमृते ब्रह्माणमीश्वरम् ॥ २.३ ॥
एतमेव पुरा प्रश्नं पृष्टवाञ्जनमेजयः ।
वैशंपायनसंज्ञं तु शिष्यं द्वैपायनस्य ह ॥ २.४ ॥
रेवातीर्थाश्रितं पुण्यं तत्ते वक्ष्यामि शौनक ।
पुरा पारीक्षितो राजा यज्ञादीक्षासु दीक्षितः ॥ २.५ ॥
संभृते तु हविर्द्रव्ये वर्तमानेषु कर्मसु ।
आसीनेषु द्विजाग्र्येषु हूयमाने हुताशने ॥ २.६ ॥
वर्तमानासु सर्वत्र तथा धर्मकथासु च ।
श्रूयमाणे तथा शब्दे जनैरुक्ते त्वहर्निशम् ॥ २.७ ॥
यज्ञभूमौ कुलपते दीयतां भुज्यतामिति ।
विविधांश्च विनोदान्वै कुर्वाणेषु विनोदिषु ॥ २.८ ॥
एवंविधे वर्तमाने यज्ञे स्वर्गसदःसमे ।
वैशंपायनमासीनं पप्रच्छ जनमेजयः ॥ २.९ ॥

जनमेजय उवाच -
द्वैपायनप्रसादेन ज्ञानवानसि मे मतः ।
वैशंपायन तस्मात्त्वां पृच्छामि ऋषिसन्निधौ ॥ २.१० ॥
ब्रूहि मे त्वं पुरावृत्तं पितृणां तीर्थसेवनम् ।
चिरं नानाविधान्क्लेशान् प्राप्तास्त इति मे श्रुतम् ॥ २.११ ॥
कथं द्यूतजिताः पार्था मम पूर्वपितामहाः ।
आसमुद्रां महीं विप्र भ्रमन्तस्तीर्थलोभतः ॥ २.१२ ॥
केन ते सहितास्तात भूमिभागाननेकशः ।
चेरुः कथय तत्सर्वं सर्वज्ञोऽसि मतो मम ॥ २.१३ ॥
वैशंपायन उवाच ॥ २.१४ ॥
कथयिष्यामि भूनाथ यत्पृष्टं तु त्वयाऽनघ ।
नमस्कृत्य विरूपाक्षं वेदव्यासं महाकविम् ॥ २.१५ ॥
पितामहास्तु ते पञ्च पाण्डवाः सह कृष्णया ।
उषित्वा ब्राह्मणैः सार्धं काम्यके वन उत्तमे ॥ २.१६ ॥
प्रधानोद्दालके तत्र कश्यपोऽथ महामतिः ।
विभाण्डकश्च राजेन्द्र मुरुश्चैव महामुनिः ॥ २.१७ ॥
पुलस्त्यो लोमशश्चैव तथान्ये पुत्रपौत्रिणः ।
स्नात्वा निःशेषतीर्थेषु गतास्ते विन्ध्यपर्वतम् ॥ २.१८ ॥
ते च तत्राश्रमं पुण्यं सर्वैर्वृक्षैः समाकुलम् ।
चम्पकैः कर्णकारैश्च पुन्नागैर्नागकेसरैः ॥ २.१९ ॥
बकुलैः कोविदारैश्च दाडिमैरुपशोभितम् ।
पुष्पितैरर्जुनैश्चैव बिल्वपाटलकेतकैः ॥ २.२० ॥
कदम्बाम्रमधूकैश्च निम्बजम्बीरतिन्दुकैः ।
नालिकेरैः कपित्थैश्च खर्जूरपनसैस्तथा ॥ २.२१ ॥
नानाद्रुमलताकीर्णं नानावल्लीभिरावृतम् ।
सपुष्पं फलितं कान्तं वनं चैत्ररथं यथा ॥ २.२२ ॥
जलाश्रयैस्तु विपुलैः पद्मिनीखण्डमण्डितम् ।
सितोत्पलैश्च संछन्नं नीलपीतैः सितारुणैः ॥ २.२३ ॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
आडीकाकबलाकाभिः सेवितं कोकिलादिभिः ॥ २.२४ ॥
सिंहैर्व्याघ्रैर्वराहैश्च गजैश्चैव महोत्कटैः ।
महिषैश्च महाकायैः कुरङ्गैश्चित्रकैः शशैः ॥ २.२५ ॥
गण्डकैश्चैव खड्गैश्च गोमायुसुरभी युतम् ।
सारङ्गैर्मल्लकैश्चैव द्विपदैश्च चतुष्पदैः ॥ २.२६ ॥
तथाच कोकिलाकीर्णं मनःकान्तं सुशोभितम् ।
जीवंजीवकसंघैश्च नानापक्षिसमायुतम् ॥ २.२७ ॥
दुःखशोकविनिर्मुक्तं सत्त्वोत्कटमनोरमम् ।
क्षुत्तृषारहितं कान्तं सर्वव्याधिविवर्जितम् ॥ २.२८ ॥
सिंहीस्तनं पिबन्त्यत्र कुरंगाः स्नेहसंयुतम् ।
मार्जारमूषकौ चोभाववलेहत उन्मुखौ ॥ २.२९ ॥
पञ्चास्याः पोतकेभाश्च भोगिनस्तु कलापिनः ।
दृष्ट्वा तद्विपिनं रम्यं प्रविष्टाः पाण्डुनन्दनाः ॥ २.३० ॥
मार्कण्डं दृष्टवांस्तत्र तरुणादित्यसन्निभम् ।
ऋषिभिः सेव्यमानं तु नानाशास्त्रविशारदैः ॥ २.३१ ॥
कुलीनैः सत्त्वसम्पन्नैः शौचाचारसमन्वितैः ।
धीसंगतैः क्षमायुक्तैस्त्रिसंध्यं जपतत्परैः ॥ २.३२ ॥
ऋग्यजुःसामविहितैर्मन्त्रैर्होमपरायणैः ।
केचित्पञ्चाग्निमध्यस्थाः केचिदेकान्तसंस्थिताः ॥ २.३३ ॥
ऊर्ध्वबाहुनिरालम्बा आदित्यभ्रमणाः परे ।
सायंप्रातर्भुजश्चान्ये एकाहारास्तथा परे ॥ २.३४ ॥
द्वादशाहात्तथा चान्ये अन्ये मासार्धभोजनाः ।
दर्शे दर्शे तथा चान्ये अन्ये शैवालभोजनाः ॥ २.३५ ॥
पिण्याकमपरेऽभुजन् केचित्पालाशभोजनाः ।
अपरे नियताहारा वायुभक्ष्याम्बुभोजनाः ॥ २.३६ ॥
एवंभूतैस्तथा वृद्धैः सेव्यते मुनिपुंगवैः ।
ततो धर्मसुतः श्रीमानाश्रमं तं प्रविश्य सः ॥ २.३७ ॥
दृष्ट्वा मुनिवरं शान्तं ध्यायमानं परं पदम् ।
प्रादक्षिण्येन सहसा दण्डवत्पतितोऽग्रतः ॥ २.३८ ॥
भक्त्यानुपतितं दृष्ट्वा चिरादादाय लोचनम् ।
को भवानित्युवाचेदं धर्मं धीमानपृच्छत ॥ २.३९ ॥
तस्य तद्वचनं श्रुत्वा दारकस्तत्समीपगः ।
आहायं धर्मराजस्ते दर्शनार्थं समागतः ॥ २.४० ॥
तच्छ्रुत्वादारकेणोक्तं वचनं प्राह सादरः ।
एह्येहि वत्सवत्सेति किंचित्स्थानाच्चलन्मुनिः ।
तं तु स्नेहादुपाघ्राय आसने उपवेशयत् ॥ २.४१ ॥
उपविष्टे सभायां तु पूजां कृत्वा यथाविधि ।
वन्यैर्धान्यैः फलैर्मूलै रसैश्चैव पृथग्विधैः ॥ २.४२ ॥
पाण्डवा ब्राह्मणैः सार्द्धं यथायोग्यं प्रपूजिताः ।
मुहूर्तादथ विश्रम्य धर्मपुत्रो युधिष्ठिरः ॥ २.४३ ॥
पृच्छति स्म मुनिश्रेष्ठं कौतूहलसमन्वितः ।
भगवन्सर्वलोकानां दीर्घायुस्त्वं मतो मम ॥ २.४४ ॥
सप्तकल्पानशेषेण कथयस्व ममानघ ।
कल्पक्षयेऽपि लोकस्य स्थावरस्येतरस्य च ॥ २.४५ ॥
न विनष्टोऽसि विप्रेन्द्र कथं वा केन हेतुना ।
गङ्गाद्याः सरितः सर्वाः समुद्रान्ताश्च या मुने ॥ २.४६ ॥
तासां मध्ये स्थिताः काः स्वित्काश्चैव प्रलयं गताः ।
का नु पुण्यजला नित्यं कानु न क्षयमागता ॥ २.४७ ॥
एतत्कथय मे तात प्रसन्नेनान्तरात्मना ।
श्रोतुमिच्छाम्यशेषेण ऋषिभिः सह बान्धवैः ॥ २.४८ ॥

श्रीमार्कण्डेय उवाच -
साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ।
कथयामि यथा न्यायं यत्पृच्छसि ममानघ ॥ २.४९ ॥
सर्वपापहरं पुण्यं पुराणं रुद्रभाषितम् ।
यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ॥ २.५० ॥
अश्वमेध सहस्रेण वाजपेयशतेन च ।
तत्फलं समवाप्नोति राजन्नास्त्यत्र संशयः ॥ २.५१ ॥
ब्रह्मघ्नश्च सुरापी च स्तेयी गोघ्नश्च यो नरः ।
मुच्यते सर्वपापेभ्यो रुद्रस्य वचनं यथा ॥ २.५२ ॥
गङ्गा तु सरितां श्रेष्ठा तथा चैव सरस्वती ।
कावेरी देविका चैव सिन्धुः सालकुटी तथा ॥ २.५३ ॥
सरयूः शतरुद्रा च मही चर्मिलया सह ।
गोदावरी तथा पुण्या तथैव यमुना नदी ॥ २.५४ ॥
पयोष्णी च शतद्रुश्च तथा धर्मनदी शुभा ।
एताश्चान्याश्च सरितः सर्वपापहराः स्मृताः ॥ २.५५ ॥
किं तु ते कारणं तात वक्ष्यामि नृपसत्तम ।
समुद्राः सरितः सर्वाः कल्पे कल्पे क्षयं गताः ॥ २.५६ ॥
सप्तकल्पक्षये क्षीणे न मृता तेन नर्मदा ।
नर्मदैकैव राजेन्द्र परं तिष्ठेत्सरिद्वरा ॥ २.५७ ॥
तोयपूर्णा महाभाग मुनिसंघैरभिष्टुता ।
गंगाद्याः सरितश्चान्याः कल्पे कल्पे क्षयं गताः ॥ २.५८ ॥
एषा देवी पुरा दृष्टा तेन वक्ष्यामि तेऽनघ ॥ २.५९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवामाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥