सौन्दरनन्दकाव्यम्/चतुर्दशः सर्गः

विकिस्रोतः तः
← त्रयोदशः सर्गः सौन्दरनन्दकाव्यम्
चतुर्दशः सर्गः
[[लेखकः :|]]
पञ्चदशः सर्गः →

सर्ग १४

अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरं ।
भोजने भव मात्राज्ञो ध्यानायानामयाय च ।। १४.१ ।।

प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति ।
कृतो ह्यत्यर्थं आहारो विहन्ति च पराक्रमं ।। १४.२ ।।

यथा चात्यर्थं आहारः कृतोऽनर्थाय कल्पते ।
उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते ।। १४.३ ।।

आचयं द्युतिं उत्साहं प्रयोगं बलं एव च ।
भोजनं कृतं अत्यल्पं शरीरस्यापकर्षति ।। १४.४ ।।

यथा भारेण नमते लघुनोन्नमते तुला ।
समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ।। १४.५ ।।

तस्मादभ्यवहर्तव्यं स्वशक्तिं अनुपश्यता ।
नातिमात्रं न चात्यल्पं मेयं मानवशादपि ।। १४.६ ।।

अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति ।
अवच्छन्न इवाल्पोऽग्निः सहसा महतेन्धसा ।। १४.७ ।।

अत्यन्तं अपि संहारो नाहारस्य प्रशस्यते ।
अनाहारो हि निर्वाति निरिन्धन इवानलः ।। १४.८ ।।

यस्मान्नास्ति विनाहारात्सर्वप्राणभृतां स्थितिः ।
तस्माद्दुष्यति नाहारो विकल्पोऽत्र तु वार्यते ।। १४.९ ।।

न ह्येवक्विषयेऽन्यत्र सज्यन्ते प्राणिनस्तथा ।
अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणं ।। १४.१० ।।

चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी ।
क्षुद्विघातार्थं आहारस्तद्वत्सेव्यो मुमुक्षुना ।। १४.११ ।।

भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा ।
भोजनं प्राणयात्रार्थं तद्वद्विद्वान्निषेवते ।। १४.१२ ।।

समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ ।
पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ ।। १४.१३ ।।

एवं अभ्यवहर्तव्यं भोजनं प्रतिसंख्यया ।
न भूषार्थं न वपुषे न मदाय न दृप्तये ।। १४.१४ ।।

धारणार्थं शरीरस्य भोजनं हि विधियते ।
उपस्तम्भः पिपतिषोर्दुर्बलस्येव वेश्मनः ।। १४.१५ ।।

प्लवं यत्नाद्यथा कश्चिद्बध्नीयाद्धारयेदपि ।
न तत्स्नेहेन यावत्तु महौघस्योत्तीर्षया ।। १४.१६ ।।

तथोपकरणैः कायं धारयन्ति परिक्षकाः ।
न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया ।। १४.१७ ।।

शोचता पीड्यमानेन दीयते शत्रवे यथा ।
न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये ।। १४.१८ ।।

योगाचारस्तथाहारं शरिराय पयच्छति ।
केवलं क्षुद्विघातार्थं न रागेण न भक्तये ।। १४.१९ ।।

मनोधारणया चैव परिणाम्यात्मवानहः ।
विधूय निद्रां योगेन निशां अप्यतिनामयेः ।। १४.२० ।।

हृर्दि यत्संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव ।
गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ।। १४.२१ ।।

धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि ।
नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया ।। १४.२२ ।।

आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः ।
परेभ्यश्चोपदेष्टव्याः संचिन्त्याः स्वयं एव च ।। १४.२३ ।।

प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः ।
चार्या दृष्टिश्च तारासु जिजागरिषुणा सदा ।। १४.२४ ।।

अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः ।
अविक्षिप्तेन मनसा चङ्क्रम्यवास्व वा निशि ।। १४.२५ ।।

भये प्रीतौ च शोके च निद्रया नाभिभूयते ।
तस्मान्निद्राभियोगेषु सेवितव्यं इदं त्रयं ।। १४.२६ ।।

भयं आगमनान्मृत्योः प्रीतिं धर्मपरिग्रहात् ।
जन्मदुःखादपर्यन्ताच्छोकं आगन्तुं अर्हसि ।। १४.२७ ।।

एवमादि क्रमः स्ॐय कार्यो जागरणं प्रति ।
वन्ध्यं हि शयनादायुः कः प्राज्ञः कर्तुं अर्हति ।। १४.२८ ।।

दोषव्यालानतिक्रम्य व्यालान्गृहगतानिव ।
क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर्महद्भयं ।। १४.२९ ।।

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ।। १४.३० ।।

तस्मात्तम इति ज्ञात्वा निद्रां नावेष्टुं अर्हसि ।
अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्ग्रुषु ।। १४.३१ ।।

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ।। १४.३२ ।।

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया ।
प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ।। १४.३३ ।।

यामे तृतीये चोत्थाय चरन्नासीन एव वा ।
भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः ।। १४.३४ ।।

अथासनगतस्थानप्रेक्षितव्याहृतादिषु ।
संप्रजानन्क्रियाः सर्वाः स्मृतिं आधातुं अर्हसि ।। १४.३५ ।।

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः ।
धर्षयन्ति न तं दोषाः पुरं गुप्तं इवारयः ।। १४.३६ ।।

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।
चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति ।। १४.३७ ।।

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा ।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ।। १४.३८ ।।

अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति ।
निर्णेता दृष्टिरहितो विषमेषु चरन्निव ।। १४.३९ ।।

अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखाः ।
यद्भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणं ।। १४.४० ।।

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः ।
विकीर्णा इव गा गोपः स्मृतिस्ताननुगच्छति ।। १४.४१ ।।

प्रनष्टं अमृतं तस्य यस्य क्विप्रसृता स्मृतिः ।
हस्तस्थं अमृतं तस्य यस्य कायगता स्मृतिः ।। १४.४२ ।।

आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते ।
यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः ।। १४.४३ ।।

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदं ।
प्रनष्टं अमृतङ्यस्य स दुःखान्न विमुच्यते ।। १४.४४ ।।

तस्माच्चरन्चरोऽस्मीति स्थितोऽस्मिति च धिष्ठितः ।
एवमादिषु कालेषु स्मृतिं आधातुं अर्हसि ।। १४.४५ ।।

यगानुल्ॐअं विजनं विशब्दं शय्यासनं स्ॐय तथा भजस्व ।
कायस्य कृत्वा हि विवेकं आदौ सुखोऽधिगन्तुं मनसो विवेकः ।। १४.४६ ।।

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तं ।
स क्षण्यते ह्यपर्तिलब्धमार्गश्चरन्निवोर्यां बहुकण्टकायां ।। १४.४७ ।।

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।
चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौरिव सस्यमध्यात् ।। १४.४८ ।।

अनीर्यमाणस्तु यथानिलेन प्रशान्तिं आगच्छति चित्रभानुः ।
अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिं उपैति चेतः ।। १४.४९ ।।

क्व चिद्भुक्त्वा यत्तद्वसनं अपि यत्तत्परिहितो
वसन्नात्मारामः क्व चन विजने योऽभिरमते ।
कृतार्थः सज्ञेयः शमसुखरसज्ञः कृतमतिः
परेषां संसर्गं परिहरति यः कण्टकं इव ।। १४.५० ।।

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये
विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः ।
ततः पीत्वा प्रज्ञारसं अमृतवत्तृप्तहृदयो
विविक्तः संसक्तं विषयकृपणं शोचति जगत् ।। १४.५१ ।।

वसञ्शुण्यागारे यदि सततं एकोऽभिरमते
यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव ।
चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं
ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखं ।। १४.५२ ।।


Sऔन्दरनन्दे महाकाव्य आदिप्रस्थानो नाम चतुर्दशः सर्गः ।