सूर्यार्यास्तोत्रम्

विकिस्रोतः तः
सूर्यार्यास्तोत्रम्
याज्ञवल्क्यः
१९५३

॥ सूर्यार्यास्तोत्रम् ॥


शुकतुण्डच्छवि सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १
यस्योदयास्तसमये सुरमकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २
उदयाचलतिलकाय प्रणतोऽस्मि विवखते ग्रहेशाय ।
अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३
जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः।
लोकालोकालोकः कमलारुणमण्डल: सूर्यः ॥ ४
प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो रविस्सदा जयति॥ ५
अपनयतु सकलकलिकृतमलपटलं सुप्रतप्तकनकाभः ।
अरविन्दबृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६
उदयाद्रिचारुचामरहरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्ते ॥ ७

उदितवति त्वयि विकसतिः
मुकुलीयति समस्तमस्तमितबिम्बे
नह्यन्यस्मिन्दिनकरसकलं कमलायते भुवनम् ॥ ८
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९
आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १०
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति ॥ ११
निधिरेष दरिद्राणां रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां गाथेयं संस्मृता खेः॥१२
॥ इति श्रीयाज्ञवल्क्यविरचितं सूर्यास्तोत्रं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=सूर्यार्यास्तोत्रम्&oldid=320158" इत्यस्माद् प्रतिप्राप्तम्