सुवर्णवर्णावदानम्

विकिस्रोतः तः
सुवर्णवर्णावदानम्
[[लेखकः :|]]



सुवर्णवर्णावदान


१,१
ओं नमो बुद्धाय ॥

१,१ - ५
[१] एवमनुश्रूयते स्थविर महाकाश्यपे परिनिर्वृते स्थविरानन्दो महात्मा शारद्वतीपुत्रसमनुप्रज्ञया समन्वागतस्तथागत इव कारुण्यात्तेषु तेषु ग्रामनगरनिगमपल्लीपत्तनादिषु तांस्तान् वैनेयांस्तैस्तैरुपायविशेषैर्विनयति स्म । यावदपरेण समयेन विनेयवशादनेकानि सत्त्वकोटिनियुतशतसहस्त्राणि सद्धर्म्मदेशनामृतवर्षाभिषेकेण सन्तर्पयन् वैशाल्यां विहरत्याम्रपालीवने ।

१,५ - ३,२
[२] तेन खलु पुनः समयेन राजगृहे नगरे दिवाकरो नाम सार्थवाहः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्द्धी । तेन सदृशात्कुलात्कलत्रमानीतम् । स तया सार्द्ध क्रीडति रमते परिचारयति स्म । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । सोऽपुत्रः पुत्रहेतोरुत्कण्ठितः परितप्यते । देवेषु त्रयस्त्रिंशेष्वन्यतमस्य पुण्यमहेशाख्यस्य देवपुत्रस्य पञ्चपूर्वनिमित्तानि प्रादुर्भूतानि । स बुद्धोत्पादविभूषितं लोकमवलोक्य निर्वाणाभिलाषीच्छति मनुष्येषु प्रतिसंधिं ग्रहीतुम् ।

३,२ - ४,५
[३] अद्राक्षीच्छक्रो देवेन्द्रस्तं देवपुत्रं च्यवनधर्म्माणं बुद्धोत्पादविभूषितं लोकमवलोक्य निर्वाणाभिलाषी इच्छति मनुष्येषु प्रतिसंधिं ग्रहीतुमिति दृष्ट्वा च पुनस्तं देवपुत्रमुपसंक्रम्योवाच । स चेत्त्वं मार्ष इच्छसि मनुष्येषु प्रतिसंधिं ग्रहीतुम् । राजगृहे नगरे दिवाकरस्य सार्थवाहस्य पत्न्याः कुक्षौ प्रतिसंधिं गृहाणेति । स कथयति कौशिकमश्राद्धोऽसौ सार्थवाहस्तस्य बुद्धे प्रसादो नास्तीति । शक्रः कथयति । मार्ष गृहाण त्वमहन् तथा करिष्यामि यथासौ सार्थवाहो बुद्धशासनेऽभिप्रसीदतीति । देवपुत्रः कथयति । कौशिक स चेदसौ सार्थवाहः सपत्नीको यावज्जीवं रत्नत्रयं शरणङ्गच्छेदेवमहं तस्य सार्थवाहस्य पत्न्याः कुक्षौ प्रतिसन्धिं ग्रहीष्यामीति ।

५,१ - ७,३
[४] ततः शक्रो देवेन्द्रो देवेभ्यस्त्रयस्त्रिंशेभ्य अन्तरीक्षे राजगृहे नगरे दिवाकरस्य सार्थवाहस्य गृहे उपरिमे तलके प्रत्यस्थात् । शक्रस्य देवेन्द्रस्य वर्णानुभावेन सर्वत्र गृहं दिव्येनावभासेनावभासितमद्राक्षीद्दिवाकरः सार्थवाहस्तु दिव्यमवभासं दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनश्चतुर्दिशमवलोकयितुमारब्धः यावत्पश्यति शक्रं देवेन्द्रं दृष्ट्वा च पुनः सहसैव तस्य पदयोर्प्रणिपत्योवाच देवेन्द्र लाभा मे सुलब्धा मे त्वं गृहमायातः पवित्रीकृतञ्चेदं गृहं युष्मदागमनेन । तदाज्ञाप्यतां किमागमनप्रयोजनमिति । शक्रो देवेन्द्रः कथयति । सार्थवाह त्वमपुत्रः पुत्राभिनन्दी तदद्याग्रेण सपत्नीको यावज्जीवं रत्नत्रयं शरणं गच्छ । पुत्रस्ते भविष्यतीति ॥ दिवाकरः सार्थवाहो हृष्टतुष्ट उदग्रमनाः कथयति । देवेन्द्र यथा त्वमाज्ञापयसि तथा करोम्येषोऽहमद्याग्रेण सपत्नीको जावज्जीवं रत्नत्रयं शरणङ्गच्छामीत्यथ शक्रो देवेन्द्रो दिवाकरं सार्थवाहं सपत्नीकं शरणगमने प्रतिष्ठाप्य राजगृहादन्तर्हितो देवेषु त्रयस्त्रिंशेष्व्प्रत्यष्टात् । तस्य देवपुत्रस्य भवने ततः शक्रो देवेन्द्रस्तस्य देवपुत्रस्यैतत्प्रकरणं विस्तरेणाख्यातवान् ।

७,३ - ९,१०
[५] यावदसौ देवपुत्रो देवेभ्यस्त्रयस्त्रिंशेभ्यश्च्युतो राजगृहे नगरे दिवाकरस्य सार्थवाहस्य पत्न्याः कुक्षिमवक्रान्तः । स यत एव तस्याः कुक्षिमवक्रान्तस्तत एव तस्याः सार्थवाहपत्न्याः शरीरे परा वर्णपुष्कलता प्रादुर्भूता । मनोज्ञश्च गन्धः प्रवातुमारब्धः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति । विरक्तं जानाति । कालं जानाति । ऋतुं जानाति । गर्भमवक्रान्तं जानाति । यस्य सकाशाद्गर्भोऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । स चेद्दारको भवति दक्षिणं कुक्षिं निशृत्य तिष्ठति । स चेद्दारिका भवति । वामं कुक्षिन्निःसृत्य तिष्ठति । सा आत्तमनात्तमना स्वामिने आरोचयति । दिष्ट्यार्यपुत्र वर्द्धसे । आपन्नसत्त्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । श्रुत्वा च पुनः सोऽप्यात्तमनातमनाः पूर्वकायमभ्युन्नमय्य दक्षिणं बाहुमभिप्रसार्योदानमुदानयति । अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्व्वीत भृतः प्रतिबिभृयाद्दायाद्यं प्रतिपद्येत् । कुलवंशो मे चिरस्थितिकः स्यादस्माकञ्चात्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकञ्च नाम्ना दक्षिणामादेक्ष्यते । इदं तयोर्यत्र तत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति

१०,२ - १२,३
[६] आपन्नसत्त्वाञ्चैनां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति । शीते शीतोपकरणै उष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैर्हारार्धहारविभूषितगात्र्त्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरन्तीमधरिमां भूमिम् । न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता । दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः । उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः सर्वजनमनोनयनहरः सुवर्णपीतैर्वस्त्रैरवगुण्ठितविग्रहः सर्वशरीराच्चास्य चन्दनगन्धो वाति । मुखाच्चास्य नीलोत्पलगन्धः । तस्य जातमात्रस्य तस्मिन् गृहे वस्त्रवर्षं कर्णिकारकुसुमवर्षञ्च पतितम् । तानि च वस्त्राणि सुवर्णवर्णानि ।

१२,३ - १४,३
[७] ततस्तामत्यद्भुतां तस्य च रूपौदार्यसम्पदां दृष्ट्वा दिवाकरस्य सार्थवाहस्य पत्नी परिजनश्च परं विस्मयमापन्नः । दिवाकरश्च सार्थवाहो गृहस्य बहिर्द्वारकोष्ठके स्थितः । तस्य निवेदितं सार्थवाहो दिष्ट्या वर्द्धसे पुत्रस्तु जात इति । स हृष्टतुष्टोदग्रमना गृहं प्रविष्टो यावत्पश्यति कुमारमत्यन्तमभिरूपं दर्शनीयम् । प्रासादिकं सर्वाङ्गप्रत्यङ्गोपेतम् । उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतं सर्वजनमनोनयनहरं सुवर्णपीतैर्वस्त्रैरवगुण्ठितविग्रहं कायाच्चास्य चन्दनगन्धो वाति मुखाच्च नीलोत्पलगन्धः । वस्त्रवर्यं कर्णिकारकुसुमवर्षञ्च पतितम् । तानि च वस्त्राणि सुवर्णवर्णानि दृष्ट्वा च पुनः परमप्रीतिप्रामोद्य उदानमुदानयति अहो लाभा मे सुलब्धाः अहो परिपूणो मे मनोरथो यस्य मे ईदृशः पुण्यमहेशाख्यः पुत्रो जात इति । हृष्टतुष्टप्रमुदितमनास्तानि च वस्त्राणि श्रमणब्राह्मणकृपणवनीपकसुहृत्सम्बन्धिबान्धवेभ्यो दत्तानि ।

१४,३ - १७,३
[८] तस्य च कुमारस्य त्रीणि सप्तकान्येकविंशति दिवसान् विस्तरेण जातमात्रस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । ज्ञातय उचुरयं कुमार उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः । तस्माद्भवतु कुमारस्य सुवर्णवर्ण इति नाम सुवर्णवर्ण इति नामधेयं व्यवस्थापितं सुवर्णवर्णः कुमारोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः । द्वाभ्यामङ्कधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां यावदाशु वर्द्धते ह्रदस्थमिव पङ्कजं स यदा महान् संवृत्तः तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां वस्त्रपरीक्षायां वस्त्रपरीक्षायामिभिपरीक्षायामश्वपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां सोऽष्टासु परीक्षासूद्घाटको वाचकः पण्डितः पटुप्रचारः सम्वृत्तः । स च श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितं प्रतिपन्नः । कारुणिको महात्मा धर्म्मकामः सत्वत्सलस्तेन च शास्त्राण्यधीतानि । सोऽत्यन्तं पुण्यमहेशाख्यो यच्चिन्तयति । यत्प्रार्थयति । वस्त्रादिकन् धनं सर्वन् तत्तथैव सम्पद्यते । किन् तु न विजानात्यहमेव पुण्यमहेशाख्य इति । दिवाकरश्च सार्थवाहो रत्नत्रयशरणगमनप्रभावान्मे पुत्रो जात इति भूयस्या मात्रया भगवच्छासनेऽभिप्रसन्नः स कालेन कालं भगवच्छासने काराङ्करोति स्म ।

१७,३ - १९,५
[९] तेन खलु समयेन राजगृहे नगरे विमलो नाम सार्थवाहो महासमुद्रात्संसिद्धयानपात्रोऽभ्यागतस्तेनार्द्धत्रयोदशपरिवारं बुद्धं भगवन्तं भोजयित्वा एकैको भिक्षुस्त्रिचीवरेणाच्छादितस्तस्य यशसा सर्वो लोक आपूर्णः सार्थस्य सफलं महासमुद्रावतरणं सार्थवाहशब्दश्च येनैवं भगवच्छासने काराः कृता इति । दिवाकरस्य सार्थवाहस्य श्रुत्वा स्पर्द्धा जाता । अहमपि महासमुद्रमवतरामि । यदि ततः संसिद्धयानपात्रोऽभ्यागच्छामि । यावन्तः के चन भगवच्छ्रावका जम्बूद्वीपे प्रतिवसन्ति भगवन्तं विज्ञप्य तानैकध्य सन्निपात्य प्रणीतेनाहारेण सन्तर्प्य एकैकं भिक्षुं महार्हेण त्रिचीवरेणाच्छादयिष्यामीति । तेन पत्न्या एष वृत्तान्तो निवेदितः । सा कथयति स्वामिनृध्यन्तु तव सङ्कल्पाः । परिपूर्यन्तां मनोरथा इति । ततो दिवाकरः सार्थवाहो राजगृहे नगरे यावत्त्रिरपि घण्टावघोषणङ्कारयित्वा पञ्चवणिकशतपरिवारो महासमुद्रमवतीर्णस्तस्य तस्मिन्महासमुद्रेऽवतीर्णस्य भगवान् परिनिर्वृतस्तत्र स्थितस्यैव चास्य स्थविरमहाकाश्यपोऽपि परिनिर्वृतो


१९,५ - २१,३
[१०] यावदपरेण समयेन सुवर्णवर्णः कुमारो वेणुवनङ्गतस्तत्र भिक्षुरनित्यताप्रतिसंयुक्ता गाथा स्वाध्यायति स्म ।

आयुर्दिवा च रात्रौ च चरतो वा स्थितस्य वा ।
स्रोतो महानदीनां वा यात्येव न निवर्तते ।१।
येषां रात्रिनिवासेन आयुरल्पतरं भवेत् ।
अल्पोदके च मत्स्यानां का नु तेषां रति भवेत् ।२।
परिजीर्णमिदं रूपं रोगनीडं प्रभङ्गुरम् ।
भेत्स्यति पूतिसंघातं मरणान्तं हि जीवितम् ।३।
न चिराद्वत कायोऽयं पृथिवीमधिशेष्यते ।
शून्यो व्यपेत विज्ञानो निरस्तं वा कडङ्गरम् ।४।
किमनेन शरीरेण पूतिविस्रवता सदा ।
नित्यं रोगाभिभूतेन जरामरणभीरुणा ।५।
अनेन पूतिकायेन भङ्गुरेणातुरेण च ।
मीमित परमां शान्तिं योगक्षेममनुत्तरमिति ।६।

२१,३ - २३,१
[११] अथैता गाथाः श्रुत्वा सुवर्णवर्णः कुमारः सम्विग्नः संसारान्निर्वाणानुशंसदर्शी । तस्य भिक्षोर्वन्दनां कृत्वा पृच्छति । आर्य किमिदमिति भिक्षुणाभिहितमायुष्मन् बुद्धवचनमिति । तस्य श्रुत्वा भगवच्छासने महान् प्रसाद उत्पन्नः प्रव्रज्याभिलाषो मोक्षाभिलाश्च । ततस्तस्य भिक्षोः सत्कृत्य पादयोर्निपत्य कथयत्यार्य प्रव्रजितुमिच्छामि । तदनुकम्पामुपादाय मां प्रव्राजयितुमर्हसीति । भिक्षुणाभिहितमायुष्मन् किमनुज्ञातोऽसि मातापितृभ्यामिति । स कथयति नेति । भिक्षुः कथयति गच्छायुष्मान्मातापितरौ तावदवलोकय न ह्यननुज्ञातं मातापितृभ्यां वयं प्रव्राजयाम इति । स कथयत्येवङ्करोमीति ।

२३,१ - २६,५
[१२] ततः सुवर्णवर्णः कुमारः संसारभयोद्विग्नमनाः स्वनिवेशनं गत्वा मातुः पादयोर्निपत्य कथयत्यम्बानुजानीहि मां प्रव्रजामि स्वाख्याते धर्मविनये । इति श्रुत्वास्य माता परमविषादमापन्ना । उरसि प्रहारं दत्त्वा कथयति । पुत्र त्वं मे एकपुत्रकः प्रियो मनापः कान्तोऽप्रतिकूलो मनोरथशतैः प्रतिलब्धः । कथन्नाम त्वं मामपहाय प्रव्रजसीति । स कथयत्यम्बावश्यं भावी प्रियविप्रयोगस्तदनुजानीहि मां प्रव्रजामि स्वाख्याते धर्मविनय इति । तस्य श्रुत्वा महान् सम्वेगो जातः सा बाष्पगद्गदकण्ठी प्रोवाच । पुत्र मा मां त्रिरपि वक्ष्यसि । मा मे उष्णं शोणितं मुखादागमिष्यतीति । सा संलक्षयति । यादृशोऽस्य व्यवसायो न शक्ष्यमेवं मया निवारयितुम् । उपायसम्विधानङ्करोमीति । ततः सा कथयति । पुत्र तव पिता बुद्धशासने काराङ्करिष्यातीति महासमुद्रमवतीर्णः । स यावन्नागच्छति । तावत्त्वान्नानुजानामि । यद्यसावागत त्वामनुज्ञास्यति प्रव्रजिष्यसीति । स मातृभक्तः संलक्षयति । यदि भूयोऽप्येनां वक्ष्यामि कदाचिदेषा महान्तं सम्वेगमापस्यते । तद्यावन्मे पिता नागच्छति तावत्तिष्ठामीति । स तुष्णीमवस्थितः । यदा च सुवर्णवर्णः कुमारो वीथीमवतरति । तदा लोकस्तस्य रूपोदार्यसम्पदं दृष्ट्वा निरीक्षमाणो न_अत्र तृप्तिमुपयाति । स महाजनकायस्य वल्लभो जातस्तस्य रूपौदार्य सम्पदा समाकृष्टमनसोऽत्यन्तं कामविमुखतां दृष्ट्वा माता संलक्षयति । धिक्कष्टं यादृशोऽस्य व्यवसायस्तदाप्येष मामपहाय प्रव्रजिष्यतीति । ततो नित्यं शङ्कितमनसा तस्यानुकूलं प्रवर्तितुमारब्धा ॥

२६,३ - २७,२८
[१३] सुवर्णवर्णः कुमारोऽभीक्ष्णं पण्डितान् श्रमणान् ब्राह्मणान् सेवते । स तत्र यत्सुभाषितं मोक्षमात्रानुकूलं शृणोति । तत्पुस्तकेऽभिलिखति । दिवाकरस्य च सार्थवाहस्य राजगृहान्नगराद्बहिरुद्यानं पुष्पफलसलिलसम्पन्नम् । ततः सुवर्णवर्णः कुमारस्तत्पैतृकमुद्यानं दिने दिने गत्वा सुभाषितपुस्तकं वाचयंस्तिष्ठति । तेन खलु समयेन राजगृहे नगरे काशिसुन्दरी नाम वेश्या प्रतिवसति । स्त्रीरूपयौवनसम्पन्ना महाजनवल्लभा राज्ञश्चाजातशत्रोः प्रचण्डनामामात्यस्तस्य राज्ञोऽत्यर्थं बहुमतः । स काशिसुन्दर्यां दारिकायामत्यर्तं संरक्तचित्तस्तया सह दिने दिने स्वमुद्यानङ्गत्वा रतिक्रीडामनुभवति ।

२८,१ - ३१,४
[१४] यावदपरेण समयेन काशिसुन्दरीदारिका सर्वालङ्कारविभूषिता राजगृहान्निर्गत्य प्रचण्डस्यामात्यस्योद्यानं संप्रस्थिता । सुवर्णवर्णश्च कुमारो राजगृहान्नगरान्निर्गत्य स्वमुद्यानङ्गच्छति । अद्राक्षीत्काशिसुन्दरी दारिका सुवर्णवर्णं कुमारमत्यन्तमभिरूपं दर्शनीयं प्रासादिकं सर्वाङ्गप्रत्यङ्गोपेतमुत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतम् । सर्वजनमनोनयनहरं सुवर्णवर्णपीतैर्वस्त्रैरवगुण्ठितविग्रहं दृष्ट्वा च पुनरस्या एतदभवत् । अहो रूपौदार्यसम्पदः । अहो वर्णपुष्कलता कृतभाग्या सा नारी यस्या एष भर्त्ता भविष्यतीति । सा तस्मिनत्यन्तमाक्षिप्ता संलक्षति । मन्दभाग्या सा नारी सा ईदृशेन पुरुषेण सार्द्धं रतिक्रीडान्नानुभवति । वयं रूपजीविन्यः । साधारणपुरुषाणामेष च कुमारः प्रत्यग्रयौवनसमन्वागतः । यन्न्वहमेनं तथा प्रलोभयेयं यथा ममानेन सह संयोगो भवेदिति । सा तस्य पुरतः स्थित्वा निमित्तमुपदर्शयितुमारब्धा । स महात्मा प्रकृत्यैव कामविमुखत्वान्निर्वाणप्रवणत्वाद्वा च न तां समन्वाहरति ।

३१,४ - ३५
[१५] सा संलक्षयति नूनमेष लज्जीयते । तेनेह मां न समन्वाहरत्येष चोद्यानं सम्प्रस्थितोऽहमपि तत्रैव गच्छामि । तत्र चैनं प्रच्छन्ने प्रलोभयिष्यामीति सा तस्य पृष्ठतोऽनुबद्धा सुवर्णवर्णेन कुमारेणोपलक्षिता तेनाग्रतः प्रविश्य तस्योद्यानस्य द्वारं बद्धम् । काशिसुन्दरी दारिका कथयति । कुमार कथमेवं युज्यते । अहं त्वामुद्दिश्यागता । न युक्तं तव मय्येवं नैष्ठुर्यमुपदर्शयितुमिति । स नैव तस्याः प्रतिवचनं ददाति । सा संलक्षयति । द्वाभ्यामत्र भवितव्यम् । अथ वात्यन्तं कामैरनर्थी । अथवा महता दैन्येनावष्टब्धः । सर्वथा न शक्यमेष मया रूपेण वा वचसा वा आराधयितुं स्पर्शेनैनमाराधयिष्यामि । एष च मां दृष्ट्वा द्वारं बध्नाति । क उपायः स्याद्येनाहमेनं प्रच्छन्नमासादयेयम् । अथ वाप्रतिसंविदितमेवास्य श्वः प्रथमतरमागत्य एतमुद्यानं प्रविश्य स्थास्यामि परत एनमागतमालिङ्गनादिभिः गात्रसंस्पर्शनैस्तथाराधयिष्यामि यथा मे वशगो भविष्यतीति । सैवमनुविचिन्त्य प्रतिनिवृत्य नगरं प्रविष्टा । तं च दिवसं प्रचन्ण्डस्यामात्यस्योद्यानं न गता ॥

३३-३५
[१६] प्रचण्डोऽप्यमात्यः स्वे उद्याने तामुदीक्षमानश्चिरं परिखिन्नः सूर्यस्याष्टङ्गमनकालसमये नगरं प्रविष्टस्तेन स्वे गृहे काशिसुन्दर्या दूतोऽनुप्रेषितः किमर्थं त्वमद्य ममोद्यानं नागतेति । काशिसुन्दरी दारिका व्याक्षेपं कृतवती आर्यपुत्राद्य मे शिरोरुजातीव बाधते येनोद्यानं नागतेति । मित्रामित्रमध्यमो लोकस्तस्यापरेणाख्यातम् । न तस्याः शिरोरुजा बाधतेऽपि त्वेषा सुवर्णवर्णस्य कुमारस्य सकाशमुद्यानं गता । तस्मादुद्यानान्मया प्रत्यागच्छन्ती दृष्टेति । श्रुत्वा प्रचण्डस्यामात्यस्य क्रोधपर्यवस्थानमुत्पन्नम् । ततः संलक्षयति तादृशमनर्थं करिष्यामि । यथा श्वः काशिसुन्दरी दारिका न भविष्यति । सुवर्णवर्णश्च कुमार इति । प्रतिक्रुष्टं चैतद्वैराणां यदुत स्त्रीवैरमिति । स क्रोधाग्निना दह्यमानहृदयस्तान्निशां कृच्छ्रेणातिनामितवान् । ततः प्रभातायां रजन्यामन्यतममाप्तपुरुषमामन्त्रयते । खड्गं गृहाण राजगृहाद्बहिरुद्यानं गमिष्यामि तत्रास्ति मे किञ्चिदात्ययिकं प्रयोजनमित्येवं स्वामिन्निति स पुरुषः खड्गमादाय तस्य पृष्ठतोऽनुबद्धस्ततः प्रचण्डोऽमात्यस्तेन पुरुषेण सार्धं राजग्रान्निर्गत्य दिवाकरस्य सार्थवाहस्योद्यानं प्रविश्यावस्थितः ॥

३६,१ - ३९,१
[१७] काशिसुन्दर्यपि दारिका विचित्रवस्त्रालङ्कारालङ्कृतशरीरा राजगृआन्नागरान्निर्गत्य दिवाकरस्य सार्थवाहस्योद्यानङ्गता । सा तत्र प्रविष्टा यावत्पश्यति प्रचण्डममात्यं दृष्ट्वा च पुनः संत्रस्ता । संलक्षयत्येष प्रकृत्यैव प्रचण्डो नियतं मेऽद्य महान्तमनर्थङ्करोतीति प्रतिनिवर्त्तितुकामाभूत् । ततः प्रचण्डोऽमात्यस्तां दृष्ट्वा क्रोधाग्निज्वलितमनास्त्रिशिखां ललाटे भृकुर्टिं कृत्वा प्रधावितस्ततस्तां सरभसं केशेषु गृहीत्वा निर्दयमवाङ्मुखीं पृथिव्यां पातयित्वा समाकृष्टवानेवञ्चाह त्वमिहागत्य सुवर्णवर्णेन कुमारेण सार्द्धं परिचारयसि । मम चैवङ्कथयसि । शिरोरुजातीव मे बाधते । येन त्वत्सकाशण्नागतेति । तदद्य ते तादृशं मर्यादाबन्धां करोमि येन पुनर्न भवती जीवलोकं द्रक्ष्यति । सुवर्णवर्णेन कुमारेण सार्द्धं परिचारयिष्यामीति । तच्छ्रुत्वा काशिसुन्दरी दारिका तदाकर्षणपराकर्षणजं दुःखमगणयित्वा मरणभयभीता बाष्पोपरुद्ध्यमानगदगदकण्ठी हा इदानीन्न भविष्यामीति । कम्पमानगात्री प्रचण्डस्यामात्यस्य पादयोर्निपत्य करुणदीनविलम्वितैरक्षरैरुवाच प्रसीदत्वार्यपुत्रो नार्हसि मां प्रघातयितुमिति नित्यापराधो मातृग्रामः । इतः प्रभृति न भूय एवङ्करिष्यामि । यावज्जीवन् ते दासी भविष्यामि । तदलमनेन साहसेन प्रयच्छ जीवितमिति । तस्य दुरात्मन एवं करुणदीनविलम्वितैरक्षरैरुच्यमानस्य क्रोधाग्निर्वर्धत एव । ततस्तं सहायकमुवाच शीघ्रमस्या अनेन खड्गेनोत्कृत्तमूलं शिरः कृत्वा पृथिव्यान्निपातयेत्य् ॥

३९,१ - ४३,२
[१८] अथ स पुरुषस्तस्य दुरात्मनोऽन्यायवचो दुरक्तमुपश्रुत्य कम्पितुमारब्धः । चिन्तयति च । अहो नैर्घृण्यमेषा हि स्त्री बहुप्रकारमस्योपयुक्ता । तत्कथन्नाम स्वल्पस्यापराधस्यार्थे प्रघातयितुमिच्छति । अहो वयमपि जीविकाभयभीता येन नामास्याशीविषप्रख्यस्य पुरुषाधमस्य पार्ष्वे तिष्ठामः । सर्वथाहं महासङ्कटमनुप्रविष्टः । किमत्र प्राप्तकालमथ वा स्फुटमेनं वक्ष्यामि कदाचिदेव स्फुटमुच्यमानः प्रतिनिवर्तेतास्मात्पापकादसद्धर्मादिति । विदित्वा सम्विग्नमनास्तस्याश्च स्त्रियास्तैरतिकरुणैर्विलापैर्द्रवीकृतसन्तानो बाष्पाम्बुपरिप्लुतॠ_ईक्षणः कृतकरपुटः प्रचण्डममात्यमुवाच । प्रसीदतु स्वामी नार्हसि मामेवंविधेऽकार्ये नियोजयितुन्नाहं निषादो नापि वध्यघातकः कथं हि नाम यत्कर्म्म वध्यघातकानामपि नोत्सहते मनस्तत्कर्मणि प्रतारयति मां स्वामी । एषा च स्त्री प्रकाशात्यर्थमभिरूपा दर्शनीया प्रासादिका सर्वकलाभिज्ञा राजगृहनिवासिनो नानादिग्देशाभ्यागतस्य च विदग्धजनस्यातीव वल्लभा । सामान्यमिदं मनुष्याणां रतिस्थानम् । कथं हि नाम स्वामिन् प्रज्ञातमनुष्यस्य विचक्षणस्यास्मिन्ननुनयस्थाने द्वेष उत्पन्नस्तदलमीदृशेन लोकद्वयविरुधावाहकेन व्यवसायेन । प्रसीद नार्हसि मामात्मनञ्चानेन दुश्चरिताग्निना दग्धुम् । अपि च स्वामिन् ।

एषा हि सुकुमाराङ्गी रूपयौवनशालिनी ।
प्रीतिमेतां मनुष्याणां मन्ये मार्तिमतीमिव ।१।
करुणैः करुणैर्दीनैर्मधुरैरक्षरैरियम् ।
विज्ञपयति स्वामिंस्ते दृणाति मम मानसम् ।२।
कम्पते हृदयं मेऽद्य श्रुत्वा दीप्तं वचस्तव ।
कोऽसौ निर्घृणचित्तः स्याद्य इमां हन्तुमेधते ।३।
म्लेच्छा अपि नैनां हन्तुमुत्सहन्ते सुनिर्घृणाः ।
कथन्नु मम तां हन्तुं स्वामिनुत्सहते मनः ।४।
पशूनामपि यां दृष्ट्वा भवत्यनुनयो महान् ।
तस्याः को मनुष्यो भूत्वा शस्त्रेण प्रहरिष्यति ।५।
तत्प्रसीद तवायुक्तमपि श्रोतुमिदं वचः ।
प्रागेव अचरितुं स्वामिन् कर्म्मेदमतिदारुणमिति ।६।
४३,२ - ४५,४६
[१९] अथ स दुरात्मा विपन्नाशयत्वादेवमपि हृदयग्राहकैर्वचोभिस्तेन पुरुषेणाभिधियमानो नैव स्वचित्तं प्रतिलभते ॥ सरोषभ्रूलताभङ्गरौद्रेण च मुखेन तं पुरुषमुवाच ॥ भोः पुरुष कस्तवास्यामुपर्यनुनयो यन्नाम मदीयामाज्ञां विलङ्घ्य नेच्छस्येनां प्रघातयितुं सर्वथा यदि त्वमेनां प्रघातयिष्यसीत्येवं कुशलन्नो चेन्न प्रघातयिष्यसि तवाद्य जीवितं च भविष्यतीति । ततोऽसौ पुरुषस्तस्य तत्कर्कशं व्यवसायं बुद्ध्वा भीतश्चिन्तयितुं प्रवृत्तः । अहो परमशङ्कटमनुप्रविष्टोऽस्मि । स चेदस्याज्ञां न करिष्यामि नियतमद्य मां जीविताद्व्यपरोपयिष्यति । यो हि नामैवंविधिं मातृग्रामं बहुप्रकारमुपयुक्तं प्रघातयितुमुद्यतः स मां न प्रघातयिष्यतीति । कुत एतत्कथञ्च नाम मनुष्योऽहमित्यात्मानं मन्ये । ईदृश्या जनपदकल्याणिन्याः स्त्रियाः शरीरे शस्त्रं निपातयिष्यामि । सर्वथा कामं स्वजीवितविनाशो न त्वेवास्याः प्रहारं दास्यामीति निश्चयं कृतवांस्तस्य बुद्धिरुत्पन्ना यद्यहं खड्गमादाय निष्पलायेयमेवं मया त्वात्मा परिरक्षितो भविष्यति । काशिसुन्दरी दारिकेति । स खड्गमादाय तस्मादुद्यानाद्निष्क्रम्य सर्वजवेन निःपलानः । प्रचण्डो प्यमात्यस्तस्य पृष्ठतो द्वारकोष्ठं यावदनुबद्धः ।

४६,१ - ४८,४९
[२०] ततः काशिसुन्दरी दारिका गतप्रत्यागतप्राणमिवात्मानं मन्यमनो त्वरितत्वरितमुत्थाय निःपलायामीति प्राकारसमीपमभिगता । सा चोच्चः प्राकारं न शक्नोति विलङ्घयितुम् । प्रचण्डश्चामात्यः प्रतिनिवृत्य यावत्तस्मिन् प्रदेशे काशिसुन्दरीं दारिकान्न पश्यति । इतश्चामुतश्च व्यवलोकयितुमारब्धो यावत्पश्यति प्राकारसमीपमभिगतां स त्वरितत्वरितं तस्याः समीपं गन्तुमारब्धः । तत्र च कृष्णसर्प्पोऽवस्थितः । तेन सा दक्षिणे चरणे दष्टा स तां दृष्ट्वा निष्पलानः । काशिसुन्दरी दारिका संलक्षयति । एषः च प्रचण्डो मामागत्य प्रघातयिष्यतीति । तद्गतमानसा मरणभयत्रस्ता न विजानाति । यथाहं कृष्णसर्पेण दष्टेति । प्रचण्डश्चामात्यस्तमतिमुक्तकलतागहनमनुप्राप्तः । ततस्तेन दुरात्मना निर्घृणहृदयेन तीव्रद्वेषपर्याकुलीकृतमनसा काशिसुन्दरीं दारिकां तस्मादतिमुक्तकलतागहनादाकृष्य तस्याः शिरसि पार्ष्णिप्रहारो दत्तः । सुकुमारा सा स्त्री तेन प्रहारेण विषवेगेन च मूर्च्छिता प्रचण्डोऽप्यमात्यस्तान्निरीक्षितुमारब्धो यावत्पश्यति निश्चेष्टां भूमौ निपतितां तस्यैतदभवन्मृतेयमिदानीं गच्छामीति । ततश्च मां मा कश्चिद्द्रक्ष्यतीति । प्राकारं विलङ्घ्यान्येन पथा राजगृहं प्रविष्टः । तेन प्रविश्य राजपुरुषाः समाज्ञाप्ता । गच्छत दिवाकरस्य सार्थवाहस्योद्यानं प्रत्यवेक्षध्वमिति । ते संप्रस्थिताः ।

४९,१ - ५०,५
[२१] सुवर्णवर्णश्च कुमारो राजगृहान्निष्क्रम्य स्वमुद्यानमनुप्राप्तः । यावत्पश्यति काशिसुन्दरीं दारिकामितश्चामुतश्च समाहृष्टां मुक्तकेशीं निश्चेष्टां भूमौ निपतितां दृष्ट्वा चास्य महासम्वेग उत्पन्नः । तेनोपलक्षितं केनाप्येषा दुरात्मना निर्घृणहृदयेन त्यक्तपरलोकेन वैरानुबद्धेनाहानीय प्रघातिता भविष्यति । धिक्कष्टमीदृशा अपि नाम सत्त्वा भवन्ति । य एवंविधे मातृग्रामे निर्दयाः प्रहरन्तीति । तेन तदुद्यानं सर्वं प्रत्यवेक्षितं यावन्न किञ्चित्पश्यति तस्यैव तदभवदेषा स्त्री प्रज्ञाताऽस्मिन्नुद्याने प्रघातिता । अत्र न किञ्चित्पश्यामि । सर्वथा दुरात्मना केनापि स्वदौरात्म्यमन्तर्गतं प्रकटीकुर्वता मन मस्तकेऽयशोऽशनिर्निपातित इति । स चैवं सम्विग्नमनाः करे कपोलं दत्त्वा चिन्तापरो व्यस्थितः ।

५०,५ - ५२,३
[२२] ते च राजपुरुषाः संप्राप्तः । प्रविश्य च तदुद्यानं प्रत्यवेक्षितुमारब्धाः । यावत्पश्यन्ति काशिसुन्दरीं दारिकामितश्चामुतश्च समाहृष्टां मुक्तकेशीं निश्चेष्टां भूमौ निपतिताम् । दृष्ट्वा सुवर्णवर्णस्य कुमारस्य पूर्वकर्मविपाकसामर्थ्यान्न तां कश्चित्परिच्छिनत्ति । यथेयं मूर्च्छितेति । किन्तर्हि कालगतेति । ततस्ते राजपुरुषाः परस्परमूचुः । भवन्तः एषा स्त्री केनापि प्रघातितेति । तैस्तदुद्यानं सर्वं प्रत्यवेक्षितम् । सुवर्णवर्णं कुमारं मुक्त्वा न कञ्चिदन्यं पश्यन्ति । तैः सुवर्णवर्णः कुमारः पृष्टः । कुमार एषा स्त्री केन प्रघातितेति । स कथयति भवन्तोऽहमपि न जाने मयाप्येषा एव दृष्टेति ।

५२,३ - ५४,५
[२३] अथ ते राजपुरुषाः परस्परं संजल्पं कर्तुमारब्धाः । भवन्त एष कुमारोऽत्यन्तविनीतो नास्येदं कर्म संभाव्यते । अत्र च न कञ्चिदन्यं पश्यामः सर्वथा परमसङ्कटमनुप्रविष्टाः स्मः । कथमत्र प्रतिपतव्यमिति । तत्रैकः कथयति । भवन्तो न वयं परिच्छेत्तुं समर्था । एतां स्त्रियं कुमारञ्च करणमण्डपं नयामस्तत्रामात्या एव परिच्छेत्स्यन्तीति । ततस्ते राजपुरुषास्तां स्त्रियं शिविकामारोप्य सुवर्णवर्णञ्च कुमारमादाय करणमण्डपङ्गतास्तत्र च करणमण्डपे प्रचण्डोऽमात्यः प्रतिपत्त्यैवानुकूलैर्व्यवहारिभिः सार्द्धं सन्निषण्णोऽभूत् । सन्निपतितो यद्भूयसा तानेव राजपुरुषानागमयमानस्तेन ते दूरत एव दृष्टाः । पृष्टाश्च भवन्तः किमिदमिति । तैराख्यातमेषास्माभिः स्त्री दिवारकस्य सार्थवाहस्योद्याने कालगता दृष्टा तञ्चोद्यानमस्माभिः प्रत्यवेक्षिततम् । सुवर्णवर्णं कुमारं मुक्त्वा न कञ्चिदन्यं पश्यामः एष चास्माभिः पृष्टः कुमारः । इयं स्त्री केन प्रघातितेति । अनेनाख्यातमहमपि भवन्तो न जाने मयाप्येषा एवमेव दृष्टेति । तदिदानीं स्वामिन एवं प्रविचारयन्त्विति ।

५४,५ - ५६,४
[२४] प्रचण्डोऽमात्यः कथयति । भवन्तो मूहूर्तं तावदवीक्षध्वं यावदहं राज्ञो निवेदयामीति । तेन राज्ञोऽजातशत्रोर्गृहं गत्वा दौर्वारिकः पुरुषः पृष्टो भोः पुरुषदेवः किं करोतीति । तेनाख्यातमुपरिप्रासादतलगतो निःपुरुषेण तूर्येण क्रीडति रमते परिचारयति । लब्धप्रणयोऽसौ तेन प्रतिहारी प्रेषिता गच्छ देवस्य निवेदयामात्या विज्ञपयन्ति । दिवाकरस्य सार्थवाहस्य पुत्रेणोद्याने काशिसुन्दरी दारिका प्रघातिता । स च न_उभ्युपगच्छति । कथमत्रास्माभिः प्रतिपत्तव्यमिति । तया गत्वा राज्ञो निवेदितं राजा तत्र रतिक्रीडायामतीव शक्तः कथयति । गच्छामात्यानेवं वद यूयमेवं निपुणं प्रविचारयध्वमिति । तया निर्गत्य प्रचण्डस्यामात्यस्य निवेदितमेवं देवः समाज्ञापयतीति ।

५६,४ - ५८,४
[२५] ततः प्रचण्डोऽमात्यः करणमण्डपमागत्य तान् राजपुरुषानुवाच । गच्छत भवन्तो वध्यघातकानाहूयतेति । तैराहूताः प्रचण्डोऽमात्यो वध्यघातकानुवाच । भवन्तोऽनेन कुमारेणेयङ्काशिसुन्दरी दारिका उद्याने प्रघातिता । गच्छतैनं दुराचारं पश्चाद्बाहुबन्धनं गाढं कृत्वा खरस्वरेण पटेन वाद्यमानेन रथ्यावीथीचत्वरशृङ्गाटकेषु श्रवणमुखेष्वनुश्राव्य दक्षिणेन नगरद्वारेण निर्णमय्य महाश्मशान्नीत्वा शूले समारोपयत मृतञ्चैनं काशिसुन्दर्या दारिकया सहैकाञ्चितामारोप्य ध्यापयतेति । अथ ते वध्यघातकाः सुवर्णवर्णं कुमारमत्यर्थमभिरूपमुत्तप्तसुवर्णपर्व्वतशृङ्गमिव परमया श्रिया ज्वलन्तमुद्वीक्ष्य सम्विग्नाः परस्परमूचुः । भवन्तः किञ्चापि वयं वध्यघातकास्तत्कथमीदृशमतिदुर्ल्लभदर्शनं पुरुषविशेषं प्रघातयिष्यामः । सर्वथा काममस्माकं स्वजीवितविनाशो न त्वेवैनं प्रघातयिष्यामः इति ।

५८,४ - ६१,४
[२६] प्रचण्डोऽमात्यस्तान् परस्परं संजल्पं कुर्वाणाङ्दृष्ट्वा पृच्छति । भवन्तः किं स्थीयते । शीघ्रमेनं नयथेति । ते कृताञ्जलयो विज्ञपयितुमारब्धाः । प्रसीद स्वामिन् । किञ्चापि वयं वध्यघातका अपि नोत्सहामहे ईदृशं पुरुषविशेषं महाजनवल्लभं प्रघातयितुमिति । प्रचण्डोऽमात्यः कुपितः कथयति । भवन्तो यदि यूयमेनं न प्रघातयिष्यथ । युष्माकमेवाद्य सपुत्रकलत्रबान्धवानां जीवितानि न भविष्यन्तीति । ते सन्त्रस्ताः परस्परमूचुः । भवन्तोऽस्यामात्यस्यान्यायानुरूपो व्यवहारः । यो हि नाम सुवर्णवर्णं कुमारमेवमतिदुर्लभदर्शनं पुरुषविशेषं परित्यक्तुमुद्यतः योऽस्मान् सपुत्रकलत्रबन्धवान् प्रघातयिष्यतीति । कुत एतत् । तदतिसङ्कटमनुप्रविष्टाः स्मः । कथमत्र प्रतिपत्तव्यमिति । तेषां मरणभयभीतानां बुद्धिरुत्पन्ना । एषा कुमारो महाजनवल्ल्भस्तदेनन् तावद्वीथीमवतरामः । स्थानमेतद्विद्यते यन्महाजनकाय एवैनं प्रतिमोचयिष्यति । को ह्येनं प्रघात्यमानमुपेक्षितुं समर्थ इति । ते तस्य समीपमुपसृष्टाः । पश्चाद्बाहुमेनं बध्नीम इति । तञ्च तथा रूपौदार्यसम्पदा विभ्राजमानमालोक्य न शक्नुवन्ति स्प्रष्टुं ततो वेपमानाङ्गप्रत्यङ्गा बाष्पोपरुध्यमानगद्गदकण्ठाः क्रन्दितुमारब्धाः । हा कष्टमीदृशा अपि वयं पापकर्मकारिणो येनैवम्विधे कार्ये नियोज्यामहे इति ।

६१,४ - ६४,२
[२७] ततः प्रचण्डेनामात्येन भूयः सकर्कशमाज्ञप्ताः किं परिविलम्बध्वे । ते सन्त्रस्ताः सकाशमभ्युपगताः । तैरसौ बाष्पाम्बुपरिप्लुतेक्षणैर्वेपमानैर्गृहीतस्तेनैव सुवर्णपीतेन वस्त्रेण पश्चाद्बाहुको बद्धः । तञ्च पश्चाद्बाहुगाढबन्धनबद्धमालोक्य प्रचण्डममात्यं मुक्त्वा सर्व एव करणमण्डपस्थो जनकायस्तद्वियोगमन्युद्रवीकृतसन्तानोऽश्रूणि प्रपातयितुमारब्धो हा कष्टमिदानीमेव दुर्लभदर्शनः कुमारो न भविष्यतीति । ततस्तैर्वध्यघातकैर्वीथ्यामवतारितो यथास्मिन्नन्तरे कोलाहलो जातस्तञ्च कोलाहलमुपश्रुत्य सस्त्रीपुरुषदारकदारिका राजगृहनिवासीनानादिग्देशाभ्यागतश्च जनकायः सन्निपतितः । सुवर्णवर्णं कुमारं पश्चाद्बाहुगाढबन्धनबद्धमालोक्य सम्विग्नमनाः ससम्भ्रमं प्रष्टुमारब्ध । भवन्तः किमिदमिति । ततस्ते वध्यघातकाः बाष्पोपरुध्यमानगद्गदकण्ठाः क्रन्दन्त ऊचुः । भवन्तोऽनेन कुमारेण किल काशिसुन्दरी दारिका प्रघातितेति वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्राव्यते । न चिरादेव महाश्मशानं नीत्वा प्रघात्यत इति ।

६४,२ - ६६,४
[२८] तच्छ्रुत्वा स महाजनकायस्तद्वियोगदुःखाभ्याहत एकरवेणोच्चैर्विक्रोष्टुमारब्धः । हा हा कथमयं कुमार एवमभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेत उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः सर्वजनमनोनयनहरः । पण्डितो विनीतः पेशलो दक्षः कारुणिको महात्मा धर्म्मकामः सत्त्ववत्सलः प्रघात्यते । किमस्तङ्गताः साधवः किमन्तर्हितो धर्मः किमधर्मस्यैव निःसपत्नं राज्यैश्वर्याधिपत्यं प्रत्युपस्थितम् । धिक्कष्टं भोः ।

रूपलावण्यसम्पद्भिरुत्तमाभिरलङ्कृतम् ।
दृष्ट्वा दृष्ट्वा यमस्माकं परा प्रीतिरभूत्पुरा ।१।
तमेनं साम्प्रतं दृष्ट्वा वध्यघातैरधिष्ठितम् ।
तीव्रशोकाभिभूतानि स्फुटन्तीव मनान्सि नः ।२।
मनोनयनहारित्वाद्यो महाजनवल्लभः ।
तस्योपरि कथन्नाम राज्ञा दण्डो निपात्यते ।३।
निरीक्षमाणा यन्नित्यं तृप्तिन्नायान्ति देहिनः ।
वधाय स कथं त्यक्तो घृणा त्यक्ताद्य मन्त्रिभिः ।४।
चारित्र्यं विनयोपेतं यस्य ख्यातं मुनेरिव ।
कथं संभाव्यते तस्य ह्यपराधोऽयमीदृशः ।५।
अधर्मो वत जागर्ति धर्मः सुप्तोऽथ वा मृतः ।
यदेवं गुणिनोऽप्यस्य वियोगोऽयमुपस्थितः ।६।

६६,४ - ६७,४
[२९] स च स्त्रीणामतीव प्रियस्तत्र काश्चित्स्त्रियस्तद्वियोगदुःखाभ्याहताः पृथिव्यामावर्तनपरिवर्तनं कुर्वन्ति । काश्चिदुरस्ताडयन्ति । काश्चित्सम्मोहमापद्यन्ते । एकैकास्तत्र पुत्रवियोगसदृशं वियोगदुःखमनुभवन्ति स्म । महाजनवल्लभोऽसौ महात्मा राजगृहनगरनिवासी जनकायो यद्भूयसा तद्वियोगदुःखाभ्याहतो विक्रोष्टुमारब्धः । राजगृहं नगरमाकुलाकुलं ज्ञायते । तद्वियोगाभ्याहतङ्कम्पत इति ।

६७,४ - ६९,१
[३०] दिवाकरस्य सार्थवाहस्य गृहाद्दारिका वीथीमवतीर्णा । तया एष वृत्तान्तः श्रुतस्ततः क्रन्दमाना उरस्ताडयन्ती त्वरितत्वरितं गृहं गत्वा येन सुवर्णवर्णस्य कुमारस्य माता तेनोपसंक्रान्ता उपसंक्रम्य तस्याः पुरत आत्मानं क्षिप्तवती । ततः सुवर्णवर्णस्य कुमारस्य माता संत्रस्ता पृच्छति । दारिके किं कथयसीति । सा उच्चैर्विक्रोशन्ती कथयितुमारब्धा । आर्ये सुवर्णवर्णः कुमारः पश्चाद्बाहुगाढबन्धनबद्धो वध्यघातकैरधिष्ठितोऽनेन किलोद्याने काशिसुन्दरी दारिका प्रघातितेत्यविचार्यैव वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्राव्यते । न चिरादेव महाश्मशानं नीत्वा प्रघात्यत इति ।

६९,१ - ७०,३
[३१] तच्छ्रुत्वा सुवर्णवर्णस्य कुमारस्य माता तीव्रदुःखाभ्याहता मूर्च्छिता भूमौ निपतिता । ततो जलाभिषेकप्रत्यागतप्राणा उत्थाय हा पुत्र हा पुत्रेति विक्रोशन्ती केशा लुञ्चमाना उरस्ताडयन्ती कम्पमाना मुहुर्मुहुर्मोहमुपगच्छन्ती गृहान्निर्गत्य वीथीमवतीर्णा । सा पुत्रवियोगशोकाभ्याहता विक्लवहृदया तत्तद्विलपन्ती एकैकं पृच्छति । कतरेण पथा सुवर्णवर्णः कुमारो नीतो भविष्यतीति । हा पुत्रकं न पश्यामि परित्रायध्वं परित्रायध्वं पुत्रकं मे दर्शयतेति । विरुवन्ती वीथीमध्येन संस्थिता ।

७०,३ - ७३,३
[३२] यथा यथा सार्थवाहपत्नी सुवर्णवर्णं कुमारन्न पश्यति । तथा तथा तीव्रतरशोकदुःखाभ्याहता उच्चैर्विक्रोशन्ती एकैकस्य पादयोर्निपत्य कृतकरपुटी विज्ञापयति । परित्रायध्वं परित्रायध्वं मे शीघ्रमवकाशमनुप्रयच्छत यावत्कुमारो नातिक्रम्यते अनेन पथा । अनेन पथा पुत्रको मे सुवर्णवर्णः कुमारो नीयते यथा च तं पश्यामि तथा मे प्रसादं कर्तुमर्हथेति । सा च तत्रावकाशमलभमाना हा कथं भोः पुत्र न लभ इति । सर्वाङ्गिकया पृथिव्यामात्मानं क्षिप्तवती । ततो जलोद्धृतेव मत्सी पृथिव्यामावर्त्तनपरिवर्तनङ्कर्तुमारब्धा । हृतपोतेव कुररी करुणकरुणं विरौति स्म । प्रणष्टवत्सेव गौर्बहुविधहम्भारवैर्विलपिता । हा पुत्रक । हा प्रिय । मनप । हा कान्त । हा अप्रतिकूल । हा मनोरथशतैर्लब्ध । हा अभिरूप दर्शनीय प्रासादिक । हा सर्वाङ्गप्रत्यङ्गोपेत । हा उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागत । हा सर्वजनमनोनयनहर । हा सर्वजनवल्लभ । हा नेत्रानन्दकर । हा पण्डित विनीत विशारद मनोज्ञ दक्ष । हा करुणिक धर्मकाम सत्त्ववत्सल । हा मे कुलोद्योतकर । हा मे पुत्रकुलप्रदीप । हा मे हृदयवल्लभ । हा मे हृदयसर्वस्व । हा मे सारसमुच्चय । हा मे नेत्रामृत । हा मे प्रीतिनिबन्धन । हा मे कुशलसर्वस्व । हा कथमविचार्यैवमनाथो वधाय नीयते स इति ।

७३,३ - ७५,७६
[३३] पुनरपि च कृतकरपुटा पौरान् विज्ञपयन्ती । विक्लवहृदया प्रोवाच ।

हा हतास्मि निरानन्दा किमिदं वर्तते मम ।
स्वप्नोऽयमथ वा मोह आहोस्विच्चित्तविभ्रमः ।१।
पुत्रशोकेन सा साध्वी तीव्रेण क्षिप्तमानसा ।
पौरान् विज्ञापयामास विरुवन्ती मुहुर्मुहुः ।२।
अविनीतो विरूपो वा न च मे हृदयप्रियः ।
यदेवमध्युपेक्षध्वं नीयमानं सुतं मम ।३।
अनुकम्पा स चेदस्ति पक्षपातो गुणेषु वा ।
तथा मे क्रियतां पौरा यथा पश्यामि पुत्रकम् ।४।
न मयाद्य समालब्धश्चन्दनाद्यैर्विलेपनैः ।
मण्डितो नापि बहुधा रोचनाङ्गदबिन्दुभिः ।५।
कटकाद्यैरलङ्करैर्न मया समलङ्कृतः ।
न विश्रब्ध परिष्वक्तो बहुशो नापि चुम्बितः ।६।
न मां प्रदक्षिणीकृत्य कृतानेनाद्य वन्दना ।
एवमेव कथन्नाम नीयते भोः सुतो मम ।७।
शून्या मेऽद्य दिशः सर्वा वेपते मे कडेवरम् ।
दह्यते हृदयञ्चापि मोहमेति च मानसम् ।८।
त्वरितत्वरितं नीतो नृशंसैर्वध्यघातकैः ।
हा हा न भूयो द्रक्ष्यामि सुतं हृदयवल्लभम् ।९।
नूनं कृतन्मया पापमन्यजन्मनि दारुणम् ।
येनैवं पुत्रशोकेन दह्ये कक्षमिवाग्निना ।१०।
येन सत्येन चित्तं मे शत्रुष्वपि न पापकम् ।
मुच्यतां व्यसनादस्मात्तेन सत्येन मे सुत इति ।११।

७६,१ - ७७,५
[३४] दिवाकरश्च सार्थवाहः समुद्रात्संसिद्धयान्पात्रो राजगृहमनुप्राप्तः । स राजगृहन्नगरं प्रविशन्निमित्तान्यप्रशस्तानि पश्यति । तस्य हृदयं कम्पितुमारब्धमङ्गानि सीदितुमारब्धानि । नेत्रं स्फुरितुमारब्धं शकुनयश्चास्य पुरतः खरं वाशितुमारब्धाः । स निमित्तकुशलः शकुनिरुते च कृतवी चिन्तयितुं प्रवृत्तः । यथैतानि निमित्तान्यप्रशस्तानि समनुपश्यामि ध्रुवमद्य सुवर्णवर्णस्य कुमारस्य महानुपद्रवः समुपस्थितो भविष्यति । तथा ह्येतानि निमित्तानि तद्वियोगं सूचयन्तीत्याह च ।

यथा स्फुरति नेत्रं मे यथा रौति विहङ्गमः ।
ध्रुवं मे पुत्रकेनाद्य वियोगः समुपस्थितः ।१।
यथा चाङ्गानि सीदन्ति वेपते हृदयञ्च मे ।
ध्रुवं पुत्रवियोगोऽद्य दारुणः समुपस्थित इति ।२।

७७,५ - ८०,८१
[३५] स एवमनर्थशतसहस्राणि चिन्तयन् सीदमानाङ्गप्रत्यङ्गः । वेपथुरप्रगल्भपदसञ्चारः कथञ्चिद्राजगृहमनुप्रविष्टो यावच्छृणोति महाजनकायस्य क्रन्दनशब्दम् । स तमाक्रन्दनशब्दमनुसरन् वीथीमवतीर्णो यावत्पश्यति महाजनकायं राक्षसोपद्रुतमिव नगरं वियोगदुःखाभ्याहतं क्रन्दमानं तेन सम्मुखागतोऽन्यतमः पुरुषः पृष्टः । भोः पुरुष किमिदमिति । स च तन्न जानाति यथायमेवासौ दिवाकरः सार्थवाह इति । तेनाख्यातं दिवाकरस्य सार्थवाहस्य पुत्रः सुवर्णवर्णो नाम कुमारोऽत्यन्तं रूपादिगुणसम्पदा युक्तस्तेन किलोद्याने काशिसुन्दरी दारिका प्रघातितेत्यविचार्यैव वधाय परित्यक्तो रथ्यावीथीचत्वरशृङ्गाटकेष्वणुश्राव्यते । न चिरादेव महाश्मशानं नीत्वा प्रघात्यत इति । तच्छ्रुत्वा दिवाकरः सार्थवाहः पुत्रवियोगदुःखाभ्याहतः सहसैव मूर्च्छितो भूमौ निपतितः । ततो जलाभिषेकप्रत्यागतप्राण उत्थाय बाष्पोर्मितरङ्गापूर्यमाणवदनकमलः सम्भ्रान्तः स निरीक्षमाण हा कतरेण पथा सुवर्णवर्णः कुमारो नीतो भविष्यतीति । वीथीमध्येन त्वरितत्वरितं संप्रस्थितः । यावत्पश्यति तावत्पश्यति भार्यां मुक्तकेशीमुभाभ्यां पाणिभ्यामुरस्ताडयन्तीमार्तस्वरं तत्तद्विलपन्तीं सुतवियोगजां दुःखां तीव्रां खरां कटुकाममनआपां वेदनां वेदयमानां दृष्ट्वा च पुनस्तीव्रमन्यूपरुद्धगद्गदायमानकण्ठो बाष्पाम्बुपरिप्लुतेक्षणस्तस्याः सकाशमुपसंक्रान्तः ।

८१,२ - ८३,५
[३६] सा तं दृष्ट्वा द्विगुणतरशोकशल्याभ्याहत बाष्पोर्म्मितरङ्गापूर्यमाणवदनकमला ससम्भ्रमा त्वरितं त्वरितमुत्थाय तस्य पुरत आत्मानं क्षिप्तवती । सा ततो दिवाकरेण सार्थवाहेनार्तस्वरं क्रन्दमाना परिष्वज्योत्थापिता । सा तस्य पादयोर्निपत्योवाच । सार्थवाहं परित्रायस्व परित्रायस्व पुत्रभिक्षां मेऽनुप्रयच्छेत्याह च ।

मन्दभाग्यां निरानन्दा मामाश्वासय सांप्रतम् ।
वियुज्यमानां पुत्रेण विरुदन्तीं सुदुःखिताम् ।१।
यस्य जन्मनि ते स्वामिनानन्दअः परमोऽभवत् ।
स एव मारणायाद्य नीयते वल्लभः सुतः ।२।
विनीतः पेशलो दक्षो नैकशास्त्रविशारदः ।
रूपेणानुपमेयश्च नीयते पण्डितः सुतः ।३।
छिद्यते कुलवंशस्ते भिद्यते कुलमेथिका ।
कुलोद्योतकरः श्रीमान् दीपो निर्वाप्यते तव ।४।
एतद्धृदय सर्वस्वमेतत्प्रीतिनिबन्धनम् ।
एतन्नेत्रामृतं नॄणां नीयते वध्यघातकैः ।५।
सर्वमेतद्धि क्रियते एतच्चक्षुर्निरुध्यते ।
पुत्राभिधानं हृदयमेतदुत्पाट्य नीयते ।६।
तच्छीघ्रं क्रियतां यत्न[ः] सुतस्य परिमुक्तये ।
सर्वस्वमपि दत्त्वाद्य पुत्रं माञ्च विमोचय ।७।
ऋध्यन्तु तव सङ्कल्पा ऋध्यत्वाशासितुं मनः ।
अप्येव तञ्च जीवन्तं द्रक्ष्यामि तव पुत्रकमिति ।८।

८३,५ - ८६,८७
[३७] अथ दिवाकरः सार्थवाहः पुत्रवियोगशोकदुःखाभ्याहतोऽपि धैर्यमवलंब्य चित्तेन कृतकरपुटः पौरानुवाच ॥ भोः भोः पौराः श्रूयतां कथन्नाम युक्तं भवताममेदं व्यसनमुपस्थितमुपेक्षितुम् । कथमटव्यामिवाविचार्य नगरमध्येन युष्माकं पश्यतामेव प्रकाशगुणोऽपि मे कुमारो वधाय नीयते । कथमल्पोत्सुकास्तिष्ठथ । कथं प्रतीकारविर्धिर्न चिन्त्यते । कथं कुमारस्य मुक्तये न प्रयत्नध्वमिति । ते कथयन्ति सार्थवाह ईदृशोऽयं कुमारो गुणवांस्तवैवैअक्स्येदं व्यसनमपि तु सर्वेषामेवास्माकं किन् तूपायन्न पश्यामः कुमारस्य प्रतिमुक्तये । येनैव विषण्णामनसस्तिष्ठाम इति । दिवाकरः सार्थवाहः कथयति । भवन्तः परिज्ञात एव युष्माभिरयं कुमारो यथात्यन्तं कारुणिको महात्मा धर्मकामः सत्त्ववत्सलः । चित्तमप्ययमीदृशेऽकार्ये न समर्थ उत्पादयितुं प्रागेवाचरितुम् । ततः कुमारस्य प्रविचारणार्थं यत्न आरभ्यताम् । यदि कुमारः प्रविचार्यते नियतमस्माद्व्यसनात्परिमुच्यते । यूयञ्च साधवः सर्वजनसाधारणास्तद्युष्माकं विज्ञापयतां न कश्चिद्दोषो दृश्यते । नान्यत्र मय्यनुकम्पा दर्शिता भवति । साधुत्वात्गुणानुरागित्वञ्च प्रकाशितं भवति । यत्कारुण्यचित्तं पर्युपस्थाप्य गत्वा राजा विज्ञप्यताम् । तन्मन्त्रिणो वा कदाचिच्च तेऽर्थरुचित्वात्सुयुक्तमपि युष्मद्वचनमन्यथा न मनयन्ति । अहञ्च पुत्रवियोगेनात्यन्तं व्यथितः । ततः सर्वस्वमपि मदीयं दत्त्वा तथा प्रसादः करणीयो यथा कुमारः प्रविचार्यत इति ।

८७,१ - ८९,३
[३८] प्रज्ञातोऽसौ सार्थवाहः कृतमित्रश्च । तेषु वचनात्कुमारगुणानुरागाच्चाभ्युपगतं ततः तैः प्रवीणा व्यवहारिणः पौरिका राजकुलं प्रेषिता उक्ताश्च । स चेदद्य कुमारः पुनर्निपुणतरं प्रविचार्यते वयमपि राज्ञः सुवर्णलक्षमनुप्रयच्छाम इति । ततस्ते पौरिका व्यवहारिणः करणमण्डपङ्गताः प्रचण्डेन चामात्येन दूरत एव दृष्टा उक्ताश्च भवन्तः किमागमनप्रयोजनमिति । तैराख्यातं राजगृहनिवासिनश्च पौरा एवं विज्ञपयन्त्ययं सुवर्णवर्णः कुमारोऽत्यर्थं रूपौदार्यसम्पदा युक्तत्वान्महाजनवल्लभश्चेदस्य वियोगाद्राजगृहनिवासिनो जनकस्य महती पीडा । धर्माभिरतत्वाद्विनयादिगुणोपेतत्वाच्चास्य न कश्चिदेनमपराधमभिश्रद्दधाति । तद्वयं सुवर्णलक्षमनुप्रयच्छामः । दिवाकरश्च सार्थवाहः सर्वस्वमस्मद्विज्ञप्त्या सुवर्णवर्णः कुमारः प्रतिनिवर्त्य पुनर्निपुणतरं प्रविचार्यतामेवं कृते चास्माकं विज्ञाप्तिसाकल्यं कृतं भवति । राज्ञश्च कोषः सम्वर्द्धितो भवति ।

८९,३ - ९१,५
[३९] प्रचण्डोऽमात्यः श्रुत्वा रुषितः कथयति । भवन्तः किमत्र न विचारितं यद्भूयो विचार्यते यच्च कथयत राजकोश एष संवर्द्धितो भवतीति । तत किं वयमन्यायोपात्तैर्द्रव्यै राजकोशं सम्वर्द्धयिष्यामः । न च युष्माभी राज्ञोऽभिप्रायोऽवबुद्धः । सर्वथा यूयमवश्यं वैशालकानां प्रयोगेणास्य राज्ञोऽनर्थङ्कर्त्तुकामा येनैवमुपायेनास्य राज्ञोऽवर्णं निश्चारयितुमिच्छथ । अन्यायकार्येव राजा यदेवमविचार्यं जनपदं विनाशयतीति । तेन ते निर्भर्त्सिताः । स तान्निर्भर्त्सयित्वा चत्वारोऽस्य कृतान्तपुरुषसदृशाः सन्ति मनुष्या अतिरौद्रकर्माणः सतताभ्यासवशान्निर्घृणीकृतसन्ताना निष्करुणास्तानाहूय कथयति । गच्छत शीघ्रं वध्यघातकानधितिष्ठत । अस्माद्वचनाच्च वक्तव्या शीघ्रमेनं नगरान्निष्कास्य यथा सन्दिष्टेन विधिना प्रघातयत । न च युष्माभिर्मां मुक्त्वा राजानं वानयस्य कस्यचिद्वचनेनायं मोक्तव्यः । एवं हि कुर्वतां श्रेयोऽन्यथाहं भवतां महामरार्यादाबन्दङ्करोमीति । एवं स्वामिन्निति ते राजपुरुषास्तस्य प्रतिश्रुत्य खड्गपाणयः संप्रस्थितास्।

९१,५ - ९३,४
[४०] ते वध्यघातका व्याक्षेपशतानि कुर्वाणाः शैनः शैनः सुवर्णवर्णं कुमारं रथ्यावीथीचत्वरशृङ्गाटकेष्वनुश्रावयन्तः परिभ्रामयन्तोऽहो वत कुमारस्य केचित्मोचयितारो भविष्यन्त्यप्येवं वयमीदृशमकार्यं न कुर्म इति । ते राजपुरुषा निकृष्टखड्गपाणयस्सम्प्राप्ता तैस्तेषां वध्यघातकानां यथा सन्दिष्टमाख्यातम् । उक्ताश्च यद्येनं शीघ्रं नगरान्निष्क्राम्य यथा सन्दिष्टेन विधिना न प्रघातयत । वयं युष्मान् साम्प्रतमेव प्रघातयाम इति । ते तानतिसेकनिकृष्टान् खड्गव्यग्रष्टान् यमपुरुषानिवालोक्य संत्रस्तास्ततो मरणभयभीताश्चिन्तयितुं प्रवृत्ताः हा कष्टं न केनचित्कुमारस्य परित्राणं कृतम् । सांप्रतमस्माभिरेव प्रघातयितव्यो भविष्यतीति । बाष्पाम्बुपरिप्लुतेक्षणैस्तै राजपुरुषैरधिष्ठिताः सुवर्णवर्णं नगरान्निष्क्रामयितुमारब्धाः ।

९३,४ - ९६,५
[४१] तञ्च नगरान्निष्कास्यमानमालोक्यानेकानि प्राणिशतसहस्राणि एकरवेणोच्चैर्विक्रोष्टुमारब्धानि हा कष्टमेष । दिवाकरः सार्थवाहः सर्वस्वेन वियुज्यते । एष दिवाकरस्य सार्थवाहस्य मातृकावङ्शश्छिद्यते । एष दिवाकरस्य सार्थवाहस्य कुलप्रदीपो अन्तर्धाप्यते । एष दिवाकरस्य सार्थवाहस्य कुलनन्दनोऽन्तद्र्घाप्यते । एष दिवाकरस्य सार्थवाहस्य कुलचूडामणिरपह्रियते । एष दिवाकरस्य सार्थवाहस्य चक्षुर्निरुध्यते । एतद्दिवाकरस्य सार्थवाहस्य कुलविभूषणमपह्रियते । एतद्दिवाकरस्य सार्थवाहस्य हृदयमुतपाट्यते । अमी दिवाकरस्य सार्थवाहस्य मूर्तिमन्तः प्राणा अपह्रियन्ते । हा कष्टं कथं नाम कुमारोऽटव्यामेवं परिभ्राम्य निष्कासितो न केनचिदस्य परित्राणं कृतम् । एष साम्प्रतं राजगृहान्नगराच्चन्द्रमा मृत्युराहुणा ग्रस्यते । एष राजगृहनगरनभस्तलदिवाकरोऽस्तङ्गच्छति । एतद्राजगृहनगरनिवासिनां पौराणां नेत्रामृतमदर्शनपथे व्यवस्थाप्यते । एतद्राजगृहनगरनिवासिनां पौराणां प्रीतिनिबन्धनं विलुप्यते । एतद्राजनगृहनगरनिवासिनां पौराणां विभूषणमपह्रियते । एष राजगृहनगरनिवासिनां पौराणां चूडामणिरपह्रियते । एष राजगृहनगरनिवासिनां पौराणां हृदयवल्लभो विनाशाय नीयते । कमिदानीं राजगृहनिवासिनः पौरा अनिमिषमवलोकयिष्यन्ति । कमिदानीं दृष्ट्वा प्रीतिमनसो भविष्यन्तीति निराशीभूताः ॥

९६,५ - ९९,२
[४२] प्रचण्डस्यामात्यस्यान्यतयमेन पुरुषेणागत्य निवेदितम् । निःकासितः सुवर्णवर्णः कुमारो राजगृहान्नगरादिति । स श्रुत्वा प्रीतिमनाः सम्वृत्तः । ततस्ते पौरिका व्यवहारिणस्तच्छ्रुत्वा निराशीभूतास्तैरागत्य तेषां पौराणामेतत्प्रकरणं विस्तरेणावेदितम् । तच्छ्रुत्वा तेऽपि पौरा निराशीभूताः । समुद्विग्नाः परस्परमूचुः । भवन्तोऽपि कलिराजेन तादृशः पिता धार्मिको धर्मराजा जीविताद्व्यवरोपितः । इदानीमारब्ध एवंविधानपि प्रख्यातगुणान्महाजनवल्लभान् पुरुषविशेषानसंदृश्यान् प्रघातयितुम् । अहो नैर्घृण्यमहो गुणाज्ञता । अहोऽविशेषज्ञता मन्त्रिणां यो नामैवमत्यन्तरूपौदार्यसम्पन्नत्वाच्च विनीतत्वाच्च पूजामर्हति स एव गुणवान् पुरुषविशेषः कथमविचार्य बधाय परित्यज्यते । अथवा काल एवायमीदृशः समुपस्थितो यदसन्तो विवर्द्धन्ते । एवं गुणयुक्तस्य जनस्यैवंविधो वियोगो भविष्यतीति । कालोपकर्ष्य दौरात्म्यमुद्भावयन्तो दिवाकरस्य सार्थवाहस्य एतत्प्रकरणं विस्तरेणाख्यातवन्तः ।

९९,२ - १०१,१०२
[४३] तच्छ्रुत्वा विहताशो दिवाकरः सार्थवाहस्तीव्र शोकदुःखाभ्याहतो मूर्च्छितो भूमौ पतितः । ततो जलपरिषेकप्रत्यागतप्राणो विषण्णमना निरानन्दः सांप्रतं पुत्रको मे प्रघात्यत इति । उच्चैर्विक्रोष्टुमारब्धः ।

लोचनानन्द हा पुत्र हा मे कुलविभूषण ।
मग्दभाग्यस्य मे तात निराक्रन्दः प्रपात्यसे ।१।
विमुह्यते मे हृदयं भ्रमन्ति च दिशोऽधुना ।
त्वद्वियोगाग्निसंतप्तं दह्यते वत मे मनः ।२।
पण्डितस्य विनीतस्य कारुण्यनिरतस्य च ।
हा कथं दारुणं तात तव व्यसनमागतम् ।३।
त्वज्जन्मजनितां प्रीतिं पुत्र प्राप्यातुलामहम् ।
सत्पुत्र त्वद्वियोगेन सोकाग्नौ पतितः पुनः ।४।
निर्घृणाश्चाविशेषज्ञा अहो राज्ञोऽस्य मन्त्रिणः ।
यैरेवं विनयोपेतस्त्वं पुत्र न विचारितः ।५।
अहो नृपतिना तेन नैर्घृण्यं प्रकाशितम् ।
येनैवमविचार्याद्य परित्यक्तोऽसि पुत्रक ।६।
विशेषो धिक्साधुजनो नूनमस्तङ्गतो हृदि ।
गुणवानपि यत्पुत्र निराक्रन्दः प्रघात्यसे ।७।
तत्किं विप्रोषिताः सर्वा नगरस्यास्य देवताः ।
घात्यमानमुपेक्षन्ते यदेवं गुणिनं जनम् ।८।
सेन्द्राः सलोकपालाश्च देवा ये च महर्द्धिकाः ।
अनुकम्पामुपादाय ते मे रक्षन्तु पुत्रकम् ।९।
सिद्धव्रता महात्मानो मुनयः सन्ति येऽधुना ।
तेऽनुकम्पां पुरस्कृत्य परिरक्षन्तु मे सुतमिति ।१०।

१०२,१ - १०५,४
[४४] तस्य बुद्धिरुत्पन्ना किमर्थमहं विषीदामि यन्न्वहं बुद्धं भगवन्तं सकलजगदेकबान्धवं महाकारुणिकं समुनस्मरेयं स हि भगवाननाथानान्नाथः । अत्राणानां त्राणम् । अशरणानां शरणम् । अपरायणानां परायणम् । तथा हि तेन भगवता कृच्छ्रसङ्कटसम्बाधप्राप्ता बहवः सत्त्वास्तेभ्यस्तेभ्यो महाभयेभ्यः परिमोचिता । तथा महासमुद्रमध्यगता वणिजो मकरस्य भयसन्त्रस्ताः समनुस्मरणमात्रेणैव तस्मान्मरणभयात्परित्राताः । तथा नैक पुरुषघातकेनैकरभसेनोद्यतशस्त्रेणाङ्गुलीमालेन घात्यमाना तज्जननी तस्माज्जीवितोपच्छेदभयात्परित्राता । तथा च पूर्वजन्मवैरानुबन्न्धसामर्थ्यादनेकप्राणिशतसहस्त्रोपघातथमभिप्रज्वालितक्रूरहुताशनस्य मानुषमांसरसास्वादलोभात्श्रवल्लालावलेलिहान_जिह्वा_विकटदीर्घतीक्ष्णदंष्ट्राकरालभीषणमुखस्य यक्षस्याहारार्थमुपनामितस्तद्वद्वनसमीपस्थो हस्तक आटवकस्तस्मान्मरणभयात्परित्राता ॥ समर्थः स भगवान्मे पुत्रमस्मात्सङ्कटात्परिमोचयितुम् । यन्न्वहं तमेव भगवन्तं महाकरुणिकं पर्मवत्सलस्वभावं समनुस्मरेयमिति । समीपस्थमन्यतमुपासकं पृष्टवानिदानीं भगवान् कुत्र विहरतीति । ततोऽसवुपासको भगवन्तमनुस्मृत्य बाष्पोपरुध्यमानगद्गदकण्ठमुवाच । सार्थवाहः

यः सार्थवाहो लोकस्य यो लोके सुखदायकः ।
निर्वृतः स महाशास्ता सर्वलोकैकबान्धवः ।१।
यः प्रदीपोऽप्रदीपानां शरणं यः परायणम् ।
निर्वृतः स जिनो लोके दीपः स्नेहक्षयादिति ।२।


१०५,४ - १११,२
[४५] तच्छ्रुत्वा दिवाकरः सार्थवाहो भगवद्वियोगाद्द्विगुणीकृतशोकशल्याभ्याहतो मूर्च्छितो भूमौ निपपात । ततो जलपरिषेकप्रत्यागतप्राण उत्थाय यस्यां दिशि भगवान् परिनिर्वृतस्तदभिमुखो उच्चैर्विक्रोष्टुमारब्धः ।
हा धर्मराज सर्वज्ञ दोषारिगणसूदन ।
अनाथं जनमुत्सृज्य लोकनाथ गतोऽसि किम् ।१।
हा विभो ख्यातचारित्र सर्वसत्त्वैकबान्धव ।
सर्वयोगाविसंयुक्त निर्वाणपथदेशक ।२।
हा कथं वत लोकोऽयमविद्यावृतलोचनः ।
त्वया नाथेन रहितः संसारे विभ्रमिष्यति ।३।
परानुकम्पशौटीर्ये त्वयि निर्वृतिमागते ।
अनाथः खल्वयं लोकः कं नाथं संश्रयिष्यति ।४।
ये च ते धर्मतो जाता विनेयजनपुत्रकाः ।
त्वया विहीनास्ते सर्वे करिष्यन्ति कमाश्रयम् ।५।
बहूनां सफलामाशां कृत्वा दुःखनिषूदन ।
विहताशं जनं कृत्वा कामाशां त्वं गतो मुने ।६।
यदि पौराः समेष्यन्ति त्वद्वाक्यश्रवणोत्सुका ।
को नु वक्ष्यति सद्धर्ममधुना निर्वृते त्वयि ।७।
हा हतोऽयमन्य लोको लोकः सामरकिन्नरः ।
सुदुल्लर्भेन नाथेन वियुक्तो यत्त्वया मुने ।८।
कथन्नाम करिष्यन्ति प्राणिनो धर्मलालसाः ।
श्रुत्वा तवैकनाथस्य निर्वाणं शासनाप्रियाः ।९।
करुणैकरसं धीरं त्वामाश्रित्यानुकम्पकम् ।
ये गुणाः समवाप्यन्ते कस्तन् भूयो नऽभिधास्यति ।१०।
कथन्नाम त्रिलोकार्थे समुत्पाद्य महाकृपाम् ।
कृपालोकतत्वज्ञ त्वं ह्युपेक्षां समाश्रितः ।११।
कष्टं भो गुणरत्नाढ्या कल्पकोटिसमाहित ।
मृत्युपातालमासाद्य धर्मनौर्विनिपातिता ।१२।
कष्टं भो यदविद्यान्धो बुद्धदैशिकवर्जितः ।
लोकोऽयं जन्मकान्तारे प्रणष्टं श्रयमेष्यति ।१३।
महती वतलोकानां परिहाणिरुपस्थिता ॥
बुद्धरत्नेन महता वियुक्तानामिहाधुना ।१४।
त्वया भिक्षुगणं शून्यमृषभेनेव गोगणम् ।
कथं न विदुषां दृष्ट्वा हृदयन्न विदीर्यते ।१५।
भक्त्यानतोत्तमाङ्गा हि कस्य भूयो दिवौकसः ।
शिरसा धारयिष्यन्ति पदाग्रविहितं रजः ।१६।
सर्वसत्त्वसमा प्राप्ता नृशंसा खल्वनित्यता ।
यया त्वय्यपि नामाद्य पक्षपातो न दर्शितः ।१७।
अष्टाङ्गमार्ग्गभैषज्यक्लेशव्याधिचिकित्सतः ।
महाकारुणिकः शास्ता वैद्यराजो निपातितः ।१८।
हा नृशंसमतिक्षिप्रं निर्वृतो लोकनायकः ।
अन्धभूतस्य लोकस्य चक्षुर्दाता ह्यनुत्तरः ।१९।
निर्वृते त्वयि को मेऽद्य पुत्ररत्नमनागसम् ।
घात्यमानमिहागत्य सहसा मोचयिष्यति ।२०।
त्रातरि त्वय्यनाथानां गते तु परमाङ्गतिम् ।
हा जातः सांप्रतमहं निराशः सुतजीविते ।२१।
अद्य मे तत्सुविहितं यत्त्वयोक्तं महात्मने ।
सर्वैः प्रियैर्विनाभावो भवतीत्युत्तमं वच इति ।२२।

१११,२ - ११५,२
[४६] स एवं बहुविध परिदेव्य तमुपासकमुवाच । भोः कश्चिन्महाश्रावकोऽपि तावत्तस्य भगवतोऽवशिष्यते । कस्य भगवान् शासनमनुपरीक्ष्य परिनिर्वृत इति । ततस्तेनोपासकेनोक्तं सार्थवाह श्रूयते भगवान् स्थविरमहाकाश्यपस्य शासनमनुपरीक्ष्य परिनिर्वृतः । स्थविरमहाकाश्यपोऽपि भगवदाज्ञयैव स्थविरानन्दस्य शासनमनुपरीन्द्य परिनिर्वृतः । स इदानीं स्थविराननन्दो महात्मा शासनधूर्धरः । स इदानीं तथागत इव कारुण्यात्तांस्तान् ग्रामनगरनिगमपल्लीपत्तनादीन् गत्वा विनेयं जनानुग्रहं करोति । तथानवरोपितकुशलमूलानां सत्त्वानां कुशलमूलावरोपणङ्करोति । समुचितकुशलसन्ततीनां परिपाचनङ्करोति । परिपक्वकुशलमूलसन्ततीनां परिमोचयति । तथा क्लेशव्याधिग्रस्तानां सत्त्वानां धर्मदेशनाभैषज्यप्रदानेन विचिकित्सं करोति सुवैद्यवत् । क्लेशान्धकारावष्टब्धानां सत्त्वानां सद्धर्म्देशनारश्मिनिकरेण क्लेशान्धकारं विधमयति सूर्यवत् । वचनकरसमूहेन वैनेयकुमुदवनप्रबोधनं करोति चन्द्रवत् । वैनेयकोट्टराजसहस्त्राणि सद्धर्मदेशनया समनुशास्ति चक्रवर्त्तिवत् । स्वप्रज्ञप्रतिभाननादेन कुतीर्थ्यमृगगणविद्रावणङ्करोति सिंहवत् । समुपदेशवैनेयसार्थनिस्तारणं करोति दैशिकवत् । सद्धर्मपाण्यावतारणं करोति सार्थवाहवत् । कुशलबीजप्ररोहणं करोति महामेघवत् । हिताहितोपदेशं करोति मातापितृवत् । अदान्तान् सत्त्वान् दमयत्यमुक्तान्मोचयत्यनाश्वस्तानाश्वसयत्यपरिनिर्वृतान् परिनिर्वापयति । तथा कृच्छ्रसङ्कटसम्वाधप्राप्तान् सत्त्वान्महाभयेभ्यो मोचयति । संक्षेपात्स महात्मा बुद्धकार्यङ्करोति । तमेव समनुस्मर । समर्थः स तेऽद्य सुतमस्मात्सङ्कटात्परिमोचयतुमिति ।

११५,२ - ११८,४
[४७] तच्छ्रुत्वा दिवाकरः सार्थवाहो गतप्रत्यागतप्राण इव ससंभ्रमस्तमुपासकमुवाच । कुत्रेदानीं स आनन्दो विहरतीति । तेनोक्तं सार्थवाह श्रुतं मया स्थविरानन्द एतर्हि वैशाल्यां विहरत्याम्रपालीवन इति । अथ दिवाकरः सार्थवाहः सहसैवोत्थाय जानुमण्डले पृथिव्यां प्रतिष्ठाप्य येन वैशाली तेनाञ्जलिं प्रणम्य सुतवियोगशोकदुःखाभ्याहतो बाष्पोर्मितरङ्गापूर्यमाणवदनकमलः साश्रुपर्याकुलेक्षणस्तीव्रेणाशयेन स्थविरानन्दमायाचितुं प्रवृत्तः ॥

यदि त्वं परमाचार्य सत्त्वाशयविदुत्तमः ।
आशयानुशयं ज्ञात्वा इममभ्यर्थनां शृणु ।१।
निर्वृतो भगवान् बुद्धः शिष्याश्चास्य महर्द्धिकाः ।
अवशिष्टस्त्वमेको हि तेषां शासनवर्धनः ।२।
त्वं समाश्वासभूतोभूतोऽस्य जगतस्त्वं परायणः ।
व्यवलोक्याधुना कार्यं सर्वसत्त्वहितं त्वया ।३।
तदद्यैवंविधे नाथे तिष्ठत्यारक्षके त्वयि ।
निराक्रन्दः सुतोऽस्माकं कथमेवं प्रघात्यते ।४।
न भवेद्यदि सत्त्वार्थो न तिष्ठेयुर्भवद्विधाः ।
घात्यमानं जनं श्राद्धमेवं कथमुपेक्षसे ।५।
सत्त्वार्थञ्चेच्छरीरं हि त्वं धारयसि सुव्रत ।
तत्कृपां सम्मुखीकृत्य समन्वाहर मे सुतम् ।६।
हतसर्वप्रतीकारमत्राणमपरायणम् ।
शोकपङ्कावलग्नं मां सपत्नीकं समुद्धर ।७।
कं वा विज्ञपयाम्यन्यं कोऽन्योऽप्येवं जगद्धिते ।
निर्दिष्टः शाक्यमुनिना यथा त्वमधुना प्रभो ।८।
त्वदृते पुत्रकस्यान्यस्त्राता नास्ति विभो यतः ।
तस्मात्त्वरितमागम्य पुत्रं मे त्रातुमर्हसि ।९।
पुत्रशोकारिणा ग्रस्तं दुःसहेन दुरात्मना ।
सपत्नीकं निरानन्दमानन्दानन्दयाद्य माम् ।१०।
इत्य्

११८,४ - १२१,१२२
[४८] अथैतस्मिन्नन्तरे स्थविरानन्दः करुणयापूर्य्यमाणश्चिन्तयंस्त्रिरात्रेस्त्रिदिवसस्य श्रावकचक्षुषा लोकं व्यवलोकयति । को हीयते को वर्द्धते कः कृच्छ्रप्राप्तः कः सङ्कटप्राप्तः कः सम्बाधप्राप्तः कः कृच्छ्रसङ्कटसम्बाधप्राप्तः । कोऽपायनिम्नः कोऽपायप्रवणः कोऽपायप्राप्तारः । कमहमपायमार्गादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम् । कस्य कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रदद्याम् । कमार्यधनविरहितमार्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयमित्यद्राक्षीत्स्थविरानन्दः स्थविरशारद्वतीसुतसमेन चक्षुषा सुवर्णवर्णं कुमारमुपचितकुशलमूलसम्भारं कृच्छ्रसङ्कटसम्बाधप्राप्तं च दृष्ट्वा पुनस्तत्रस्थ एव ऋद्ध्या गजभुजसदृशं बाहुमभिप्रसार्य सहसैव राजानमजातशत्रुमुपरिप्रासादतलगतमतिप्रमत्तविहारिणमच्छटाशब्देन प्रबोध्य व्यापिना स्वरेणोवाच । महाराज न शोभनं ते कृतं यत सुवर्णवर्णः कुमारः स्वयमेव न विचारितस्तथाद्यैष न सांप्रतमत्राप्यनपकारी राजगृहान्निष्काश्य महाश्मशानं नीयते प्रघातयितुम् । निवारयेत्यथैतत्स्थविरानन्दवचनमुपश्रुत्य राजा ससम्भ्रमं त्वरितमभिनम्य स्थविरनन्दमुपरिधवलगृहस्थ उत्थाय महता स्वरेण चतुर्दिशमुक्तं भोः श्रूयतां यो महाश्माशानं त्वरित मभिगम्यास्मद्वचनात्सुवर्णवर्णं कुमारं घात्यमानं प्रतिमोचयति तस्याहं सुवर्णपेटकमनु प्रयच्छामि पञ्च च ग्रामवराणि। महाजनवल्लभोऽसौ कुमारः। तद्राज्ञो वचनमुपश्रुत्य प्राणिसहस्राणि प्रधावितानि ॥

१२२,१ - १२३,४
[४९] अथैतस्मिन्नन्तरे वध्यघातकास्तै राजपुरुषैरधिष्ठिताः सुवर्णवर्णं कुमारमादाय महाश्मशानमनुप्राप्ताः । काशिसुन्दरी दारिका स्वकैर्ज्ञातिभिर्नीलपीतलोकहितावदातैर्वस्त्रैः समलङ्कृतायां शिविकायामारोप्य महाश्मशानमभिनिर्हृता तस्या ज्ञातयस्तामेकस्मिन् प्रदेशे स्थापयित्वा काष्ठानि समुदानीय चितामुपरचयितुमारब्धाः । तैश्च वध्यघातकैरुक्ताः । एतावदेषा युष्माभिश्चितायामारोपयितव्या मुहूर्तं तावदुदीक्षध्वम् । यावद्वयं सुवर्णवर्णं कुमारं शूले प्रोतं कृत्वा प्रघातयामो यत्कारणमेष सुवर्णवर्णः कुमारोऽनया काशिसुन्दर्या दारिकया सह एकां चितामारोप्य ध्यापयितव्य इत्युक्त्वा शूलं पृथिव्यां प्रतिष्ठापयितुमारब्धाः ॥

१२३,२ - १२५,३
[५०] अथ सुवर्णवर्णः कुमारः शूलं पृथिव्यां प्रतिष्ठाप्य मानमालोक्य मातरमनुस्मृत्य तीव्रमन्युद्रवीकृतसन्तानोऽश्रूणि प्रपातयितुमारब्धः । सांप्रतं मातुर्मद्वियोगं श्रुत्वा काऽवस्था भविष्यति । या हि नाम पूर्वं यामार्द्धमात्रमपि मामपश्यन्ती परापीडाप्रवेदितवती सा मयाद्यैकपुत्रेण वियुक्ता कथं प्राणान् धारयिष्यति । हा कष्टमीदृशोऽप्यहमेवमधन्यो यन्मामागम्य माता मद्वियोगदुःखं प्रत्यनुभविष्यतीति । ततस्तैर्वध्यघातकैः तत्शूलं पृथिव्यां निखातं परपराङ्च सङ्जल्पङ्कर्तुमारब्धः । कोऽस्माकं कुमारं शूले समारोपयति । तत्र चैकैकोऽपि व्याजं कर्तुमारब्धो यूयमारोपयत । मम शिरोरुजात्यर्थं बाधते । मम पृष्ठशूलं मम पार्श्वशूलमिति न तेषां कश्चिदुत्सहते स्म तदकार्यङ्कर्तुम् ॥

१२५,३ - १२७,१२८
[५१] ततः सुवर्णवर्णः कुमारस्तेषां सञ्जरुपं श्रुत्वा शूलञ्च पृथिव्यां निखातमुद्वीक्ष्य हा साम्प्रतमहं न भविष्यामीति । संसार दोषोद्विग्नो मोक्षमार्ग्गाभिलाषी निरानन्दमात्मानमवगम्य परमभयविषाद विह्वलेक्षणो विक्रोष्टुमारब्धः । हा कष्टमिदानीं मया सुदुर्ल्लभं सद्धर्ममहोत्सवं मनुष्यत्वमासाद्याकृतार्थे नैव मर्त्तव्यं भविष्यतीति । हा पुनरपि संसारे संसरिष्यामि । पुनरपि मया संसारचारके वस्तव्यं भविष्यति । पुनः संसाराटव्यां परिभ्रमितव्यं भविष्यति । पुनः संसारमहागहनं प्रवेष्टव्यं भविष्यति । पुनः संसारमहाप्रपाते पतितव्यं भविष्यति । पुनः संसारमहाजम्बालमध्ये स्थातव्यं भविष्यति । पुनर्मया सञ्जीवनकालसूत्रसंघातरौरवमहारौरवप्रतापनावीच्यादिषु नरकेषूपपत्तव्यं भविष्यति । पुनरपि मया गजगवयमहिषशशशरभमृगरुरुचमरबिडालचित्रासु योनिषूपपत्तव्यं भविष्यति । पुनरपि मया सततं क्षुत्तृष्णादिमहद्दुःखदौर्मनस्यपरीतेषु निर्नष्टपानभोजनशब्देषु मूत्रपुरीषखेटसिंहाणकाद्याहारेषु गलगण्डकादिषु प्रेतेषूपपत्तव्यं भविष्यति ॥

१२८,१ - १३०,१
[५२] श्रूयते च कदाचित्कर्हिचित्तथागता अर्हन्तः सम्यक्सम्बुद्धा लोक उत्पद्यन्ते । तद्यथोदुम्बरे पुष्पं कदाचित्कर्हिचित्तथागतप्रवेदितस्य धर्मविनयस्य लोकेषु दर्शनार्थं प्रज्ञायते । दुर्ल्लभा क्षणसम्पद्दुर्ल्लभं मनुष्यत्वमार्यायतने प्रत्याजातिरिन्द्रयैर्विकलताऽजडताऽनेडमूकताऽहस्तसम्वार्तिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुम् । अहञ्चात्र विरतितोऽद्य न भविष्यामि । तदिदमष्टाक्षणविनिर्मुक्तं मे मनुष्यत्वं विफली भविष्यति । तत किमिदानीङ्करोमि । किं भगवान्महाकारुणिको बुद्धस्तिष्ठति यं समनुस्मारामि यो मामास्यामवस्थायामनाथमत्राणमशरणमपरायणं निरालोकं कृच्छ्रसङ्कटसम्बाधप्राप्तं महाकारुणिकत्वादागत्य परित्रास्यते । स च भगवान्मम भाग्यापराधेन लघु लघु एव परिनिर्वृतः । तत्किमिदानीमस्यामवस्थायां समनुस्मरामि । को मे तथागत इव कारुण्यादागत्य परित्राणङ्करिष्यतीति । निराशीभूतः कम्पितुमारब्धः ॥

१३०,१ - १३३,१३४
[५३] तस्य बुद्धिरुत्पन्ना स्थविरानन्दो महात्मा तिष्ठति । तं समनुस्मरामि । सोऽपि महात्मा श्रूयते सर्वसत्त्वहितावहितचित्तसन्तानः । तस्य भगवता स्थविर्महाकाश्यपेन च सकलं शासनमनुपरीन्दितम् । तेनाधुनावलोक्यावलोक्य सर्वसत्त्वहितं करणीयं महार्द्धिकश्चासौ महानुभावः समर्थश्च स्थविरानन्दो मामस्माद्व्यसनात्परित्रातुं तमेव समनुस्मरामीति विदित्वा वाष्पाम्बुपरिप्लुतेक्षणः । संसारभयोद्विग्नः । परमसम्वेगप्राप्तस्तीव्रेणाशयेन स्थविरानन्दमायाचितुं प्रवृत्तः ॥

संसारभयभीतस्य निरानन्दस्य मे सतः ।
स्थविरानन्द विज्ञप्तिं त्वमिदानीं श्रोतुमर्हसि ।१।
सत्त्वार्थभारं निक्षिप्य सर्वज्ञः करुणात्मकः ।
अयि निर्वृतिमायातः काश्यपे तु महात्मनि ।२।
स्थविरोऽपि कृतार्थोऽसौ काश्यपः परिनिर्वृत्तः ।
त्वय्येव भारं निक्षिप्य जगतोऽस्य विभूतये ।३।
इदानीं निर्वृतिं याते सम्बुद्धे लोकबान्धवे ।
सर्वसत्त्वहितोद्युक्ते काश्यपे च यशस्विनि ।४।
अनाथानां भवान्नाथो भीतानामभयप्रदः ।
विश्रामभूमिं श्रान्तानां शरणं शरणार्थिनाम् ।५।
शास्तृकृत्यं त्वया कार्यं त्वं लोकस्यैकबान्धवः ।
अग्रयस्त्वं बुद्धशिष्याणां त्वञ्च शासनधूर्द्धरः ।६।
त्वमद्य दुःखपातालाद्यदि मां नोद्धरिष्यसि ।
हतोऽस्मि यस्माद्धेतोऽन्यं नाथं नानवैमि सांप्रतम् ।७।
न बिभेमि तथा मृत्योर्जातस्य मरणं ध्रुवम् ।
निःसृतिं त्वं विजानानो यथा संसारसागरत् ।८।
तथाष्टाक्षणनिर्मुक्तं क्षणमासाद्य दुर्लभम् ।
अकृतार्थेन मर्तव्यमिति मे महती व्यथा ।९।
दुर्ल्लभः खलु बुद्धानामुत्पादः सर्वदर्शिनाम् ।
त्वामागम्य यथा नीति वन्ध्यतां मे तथा कुरु ।१०।
तव कारुण्यमचलं सर्वप्राणिषु विद्यते ।
तन्मां नोपेक्षितुं युक्तं मोक्षमार्गाभिलाषिणम् ।११।
यदि च त्वं महाभाग सर्वसत्त्वहितोद्यतः ।
कृच्छ्रसङ्कसम्बाधप्राप्तं मामवलोकय ।१२।
तदेवमपरित्राणं वीक्ष्य दिव्येन चक्षुषा ।
त्वमद्य क्षिप्रमागम्य मां परित्रातुमर्हसी त्य् ।१३।

१३४,१ - १३७,५
[५४] अथास्मिन्नन्तरे स्थविरानन्दो महात्मा सकलजगदर्थसम्पादनावबद्धपरिकरः कारुण्याच्चानेन तथानन्तसत्त्वचेष्टावलोकनाहितचित्तसन्तानपरमदुःखादिव्येन चक्षुषा सुवर्णवर्णं कुमारमस्यामवस्थायां वर्त्तमानमालोक्य करुणया सञ्चोद्यमानचित्तवृत्तिर्दिव्येनावभासेन भुवनमण्डलमवभास्य पञ्चार्हच्छतपरिवारः सहसैव ऋद्ध्या नभस्तलं सन्ध्याभ्रपटलैरिव गगनतलमापूरयन् सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानविग्रहः श्मशानाभिमुखः संप्रस्थितः । अद्राक्षीद्राजाऽजातशत्रुरुपरिधवलगृहस्यावस्थितः । स्थविरानन्दं महताभिक्षुसंघेन सार्द्धमर्द्धचन्द्राकारोपगूढमुपरि विहायसा ऋद्ध्या सन्ध्याभ्रपटलैरिव गगनतलमलङ्कृत्य महाश्मशाणाभिमुखमागच्छन्तं दृष्ट्वा च पुनरस्याभवन्नियतं स्थविरानन्दः सुवर्णवर्णं कुमारमुद्दिश्यागतस्तञ्चागम्य महदाश्चर्याद्भुतन् धर्मं देशयितुकामो भविष्यतीति । गच्छाम्यहं महाश्मशानमिति । ततश्च सहसैव स्थविरानन्दं सपरिवारं नमस्कृत्य शरणपृष्ठात्त्वरितत्वरितमवतीर्य पदभ्यामेव नैक प्राणिशतसहस्रपरिवारो महाश्मशानं संप्रस्थितः । अस्मिंश्चानन्तरे वध्यघातकास्तै राजपुरुषैरुद्यता शस्त्रैस्तर्जिताः किमर्थमेव विलम्बध्वं शीघ्रमेनं कुमारं शूले समारोपयतेति । ततस्ते वघ्यघातकाः संत्रस्ताः सुवर्णवर्णं कुमारं शूले समारोपयामः । इत्युक्त्वा क्षेप्तुमारब्धा । सुवर्णवर्णः कुमारः संसारदोषोद्विग्नचेता निराशीभूतो विक्रोष्टुमारब्धः । हा कष्टमार्यानन्देनाहं परित्यक्तो यन्नाम समन्वाकृत्य न परित्रात इत्य् ॥

१३७,३ - १४१,३
[५५] अथास्मिन्नन्तरे स्थविरानन्दो महात्मा दूरत एवागच्छन् व्यापिना स्वरेण दिशः सर्व्वाः समापूरयन् सुवर्णवर्णं कुमारं समाश्वासयन्नुवाच । मा भैर्वत्स युष्मद्विधानमेव विनेयानामर्थे इममाशीविषप्रख्यं कायमहं धारयामीति तद्वत्स मा भैरहं त्वामद्यास्मात्संङ्कटात्परिमोचयिष्यामि अद्य भगवतो बुद्धस्य मनोरथं परिपूरयामि । अद्य यत्तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्सम्बुद्धेन स्थविरमहाकाश्यपेन च शासनमपि विन्यस्तं तत्सफली करिष्यामि । अद्य तथाग्रश्रावकमहात्म्यमुद्भावयिष्यामि । अद्य ते मनोरथं परिपूरयामि । अद्य तवेदं मरणभयं संसारिकञ्च भयमपनयामि । अद्य विचिकित्साकथं कथाशल्यमुत्पाटयामि । अद्य ते कुदर्शनपटलावष्टब्धे नेत्रे ज्ञानाञ्जनशलाकया शोध्यामि । अद्य ते क्रोधाग्निं नाशयामि । अद्य त्वां विगतरागत्वेनाच्छादायामि । अद्य ते कुशलबीजं प्ररोहयामि । अद्य त्वां संसारपङ्कादुद्धरामि । अद्य त्वां दुःखसमुद्रातुत्तारयामि । अद्य त्वां संसारकान्तारपर्यन्तमुपनयामि ॥ अद्य ते क्लेशबन्धनानि च्छिनद्मि । अद्य ते निवरणकपाटपटलं भिनद्मि । अद्य ते हं तथा करिष्यामि यथा त्वमनन्तकोटिनियुतशतसहस्रदुर्ल्लभतरमशेषक्लेशोपक्लेशप्रहाणादर्हत्वं प्राप्स्यसि ।

अद्य क्लेशान्धनं कृत्स्नं धक्ष्यसे ज्ञानवह्निना ।
अद्य निःशंसयमतिर्भविष्यसि गतज्वर ।१।
अद्य त्वं वत्स सहसा जन्मवृक्षञ्चिरायितुम् ।
ज्ञानवज्रेण महता दुश्छेद्यं छेत्स्यसे भृशम् ।२।
रागतोयमदावर्त्तं मानोर्म्भिभवसागरम् ।
वीर्य प्लवं समारुह्य त्वमद्य प्रतरिष्यसि ।३।
जन्मभोगं जरालिङ्गं मृत्युकन्दरसंकुलम् ।
प्रज्ञावज्रेण महता भेत्स्यसे दुःखपर्वतम् ।४।
कल्पकोटिसहस्रेषु यन्न लब्धं त्वया पदम् ।
तद्वत्स दुर्लभतरं प्राप्स्यस्यद्य निरास्रवमिति ।५।

१४१,३ - १४४,१४५
[५६] अथैतत्स्थविरानन्दादुपश्रुत सुवर्णवर्णः कुमारो गतप्रत्यागतप्राण इवाश्वसितः संहृषिततनुरुहो गगनतलासक्तदृष्टिः स्थविरानन्दावर्जितैकमनसोऽभवत् । ततस्तै राजपुरुषैस्ते वध्यघातका उक्ताः । भवन्त एते भिक्षवो गगनतलमवगाह्यागच्छन्ति । कारुणिका एते कदाचिदागत्य विघ्नं कुर्वन्ति । तच्छीघ्रमेनं कुमारं शूले समारोपयत । मा वो राजशासनातिक्रमान्महाननर्थो भविष्यतीति । ततस्ते वध्यघातकाः पुत्रदारस्वजनबन्धुजीवितविनाशभयभीताः सुवर्णवर्णं कुमारमुत्क्षिप्य शूले प्रतिष्ठापयितुमारब्धाः । ततः स्थविरानन्देन सहसैव तथाधिष्ठितं यथा तस्य शूलस्योपरि चन्द्रमण्डलप्रतिस्पर्द्धि विस्तीर्णकर्णिअकं महाप्रमाणं पद्मं प्रादुर्भूतम् । तस्य च पद्मस्योपरि कर्णिकायां सुवर्णवर्णः कुमारः प्रर्यङ्केण निषन्नः तञ्च पद्मकर्णिकायामुपरि पर्यङ्केन निषन्नमुद्वीक्ष्य गगनतलगतैरनेकैर्देवतानियुतशतसहस्रैर्हाहाकारो मुक्तः ।

अहो शासनममाहात्म्यं सर्वज्ञा(ज्ञस्या)द्भुतं हि यत ।
श्रावको पि करोत्येवं तथागतविकुर्वितम् ।१।
आर्यानन्देन चाद्योच्चैर्माहात्म्यं संप्रकाशितम् ।
कुर्व्वता सुगतेनेव सम्यगत्यद्भुतं महत् ।२।
अस्तङ्गते जिनादित्ये सर्वापत्तिमिरापःः ।
अहोऽयमुदितः श्रीमान् स्थविरानन्दभास्करः ।३।
स्वप्रज्ञागुणमाहात्म्यं रश्मिभिः समलङ्कृतम् ।
स्थविरानन्दचन्द्रेण जगद्गगनमण्डलम् ।४।
सुगतालोकविरहादन्धकारावृतं जगत् ।
आर्यानन्दप्रदीपेन सम्यगद्य प्रकाशितम् ।५।
अन्तर्हिते बुद्धरत्ने सर्वाचिन्त्यगुणान्विते ।
जगच्चूडामणिः श्रीमानार्यानन्दः समुद्गत इति ।६।

१४५,१ - १४६,३
[५७] अथ स्थविरानन्दः शरदमलशाङ्कमण्डलातिरेकद्युतिः सन्ध्याब्भ्रपटलावरुद्ध इव भास्करः सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानमूर्त्तिः स्वतेजसा सूर्यप्रभान्निर्भर्त्सयंश्पञ्चार्हच्छतपरिवारः समनुप्राप्तो गगतलस्थ एव सुवर्णवर्णं कुमारमामन्त्रयामास ।

वत्स
कदाचित्कर्हिचित्लोके उत्पद्यन्ते तथागताः ।
शास्तारो नरदेवानाञ्चक्षुष्मन्तो रणातिगाः ।१।
प्रकाशयन्ति ये धर्मं सर्वदुःखविनोदनं(नम्) ।
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमं (मम्) ॥
आर्याष्टाङ्गिकं मार्ग्गं क्षेमं निर्वाणगामिनं(नम्) ।२।
अस्मिन्धर्मे देश्यमाने सर्वदुःखविनोदने ।
ज्ञानेन हत्वा ह्यज्ञानं नागच्छन्ति पुनर्भवमित्य् ।३।

१४६,३ - १४८,१४९
[५८] अथास्य वचनस्य समनन्तरमेव सुवर्णवर्णेन कुमारेण विंशतिशिखरसमुद्गतं सत्कामदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफल साक्षात्कृतम् । अथ सुवर्णवर्णः कुमारो वणिगिव लब्धलाभः सस्यसम्पन्न इव कर्षकः । शूर इव विजितसंग्रामश्चक्रवर्तिराज्यप्रतिलम्भादिव परमप्रीतिप्रामोद्यजातः । तत्रस्थ एव कृतकरपुटः स्थविरानन्दं प्रतिष्टोतुमारब्धः ।
नमस्ते स्थविरानन्द नमस्ते स्थविरोत्तम ।
नमस्ते जिनपुत्राणां केतुभृत महामुने ।१।
अहो ते करुणा स्फीता अहो कारुण्यमुत्तमम् ।
महतः सङ्कटादस्माद्येनाहं परिमोचितः ।२।
लोकनाथ इति स्थाने शब्दस्ते विसृतो भुवि ।
भयार्त्तो यदनाथोऽहं त्वया नाथेन मोचितः ।३।
दुःखधर्माभिसंतप्तं लोकं ह्लादयितुं भवान् ।
मैत्रीकारुण्यशीतांशुरुदितो मुनिचन्द्रमाः ।४।
तत्कृतं न च मे मात्रा न पित्रा नापि बान्धवैः ।
कल्याणमित्रमागम्य त्वामहं यदवाप्तवान् ।५।
पिहिता दुर्गतिः सर्वा मोक्षद्वारमपावृतम् ।
शोषिता सागरा सर्वे लङ्घिता अस्थिपर्वताः ।६।
संसारोऽनादिमध्यान्तः संक्लेशभयसङ्कुलः ।
धिया समेन गुणितः पर्यन्ते स्थापितस्त्वया ।७।
अनादिकालसंलग्नो दृष्टिशल्यः समुद्दृतः ।
भिषग्वरमिह प्राप्य सुखजातोऽस्मि निर्ज्वर इति ।८।

१४९,१ - १५०,४
[५९] ततो देवताभिः स्थविरानन्दस्य मानसमवलोक्य तत्क्षणादेव महाश्मशानमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपधूपितं समुच्छ्रितध्वजपताकातोरणमामुक्तपट्टदामकलापमतिविचित्रसुरभिकुसुमावकीर्णमतिरमणीयं देवानामिव नन्दनोद्यानं तत्र च स्थविरानन्दस्यार्थे नानारत्नविन्यासविचित्रितभक्तिप्रकाररचितं दिव्यं सर्वसौवर्णं सपादपीठं महत्सिंहासनं प्रज्ञप्तं तेषामपि पञ्चानामर्हच्छतानामर्थे दिव्यान्यासनानि प्रज्ञप्तानि । ततः स्थविरानन्दो गगतलादवतीर्य सिंहासने निषण्णः । तान्यपि पञ्चार्हच्छतान्यवतीर्य प्रज्ञप्तेष्वासनेषु निषण्णानि ॥

१५०,४ - १५३,३
[६०] राजा चाजातशत्रुरनेकप्राणिशतसहस्रपरिवारः समनुप्राप्तो यावत्पश्यति तां विभूतिं सुवर्णवर्णञ्च कुमारं चन्द्रमण्डलप्रतिस्पर्द्धिनं पद्मस्योपरि कर्णिकायां निषण्णं घनपटलनिर्मुक्तमिव शरतकालपूर्णचन्द्रं सुवर्णयूपमिव श्रिया ज्वलन्तमुद्वीक्ष्य परमविस्मयावर्त्तितचित्तसन्ततिः । समुद्दण्डरोमकूपः परमप्रहर्षोर्म्मितरङ्गापूर्यमाणवदनकमलः परमप्रसादवेगावर्जितचित्तसन्ततिः । सर्वशरीरेण स्थविरानन्दस्य पादयोः पतितः ततश्च मुखतुण्डकेन चरणावनुपरिमार्ज्योत्थायोभे जानुमण्डले पृथिव्यां प्रतिष्ठाप्य कृतकरपुटः स्थविरानन्दमुद्वीक्षमाण उवाच ।

नमस्ते परमाचार्य येनाद्यैवं प्रकुर्वता ।
जनस्य परित्राणमहमभ्युद्धृतः स्वयम् ।१।
न समन्वाहृतश्चेत्स्यादहञ्चायञ्च ते जनः ।
धिक्शब्दाशनिपातेन नाशितः स्यादहं मुनेः ।२।
यदित्वन्न भवेस्त्राता समासत्त्व हितो मुनिः ।
अहमद्यैव दग्धः स्यां पश्चात्तापदवाग्निमा ।३।
अहो ज्ञानमहत्वन् ते करुणा चेयमुत्तमा ।
अद्भुतञ्चारितं चेदमहो सम्यक्प्रकाशितम् ।४।
इदमत्यद्भुतं दृष्ट्वा प्रातिहार्यन् तवानघ ।
प्रशान्तिं परमां यातो मन्ये नैवं तथागतः ।५।
कृच्छ्रप्राप्तस्य लोकस्य त्वन्नाथस्त्वं परायणम् ।
त्वं हितः सर्वसत्वानां वत्सलो भगवानिव ।६।
भगवन्तं समालोक्य या मे प्रीतिरभूत्पुरा ।
स एवाद्य त्वां समालोक्य जिनशासनधूर्धरमिति ।७।

१५३,३ - १५६,५
[६१] अथ स राजा स्थविरानन्दनमेवमभिस्तुत्य समुत्थाय च परमप्रहर्षपूर्णमनास्त्वरितत्वरितं शूलसमीपमुपगम्य ततो हस्तौ प्रसार्य सुवर्णवर्णं कुमारं प्रियपुत्रमिव नष्टोपलब्धं परेण प्रेम्णा स्वयमेव तस्मात्पद्मासनादवतार्य गाढं परिष्वज्य मुहुर्मुहः शिरसि परिचुम्बते स्म । हर्षाश्रुपर्याकुलेक्षणश्च सुवर्णवर्णं कुमारमनिमिषमभिवीक्षमाण उवाच ।

राज्यलाभादिव पुरा न सा प्रीतिरभून्मम
मुक्तं त्वां सङ्कटादस्माद्दृष्ट्वा या वर्द्धतेऽधुना ।१।
पूर्णचन्द्रद्युतिहरन्नीलोत्पलदलेक्षणम् ।
मुखाबुजमिदं पुत्र दिष्ट्या पश्यामि तेऽधुना ।२।
उत्तप्तवर्णलावण्यगुणसम्पद्विभूषितम् ।
सर्वावयवसम्पन्नं दिष्ट्वा पश्यामि ते वपुः ।३।
दौरात्म्यं ख्यापितं केन निर्घृणेन दुरात्मना ।
वधायासि परित्यक्तो येन त्वं वल्लभो नृणाम् ।४।
चरितं विनयोपेतं श्रोत्रानन्दकरं वचः ।
रूपमत्यद्भुतञ्चेदं वद कस्य न वल्लभम् ।५।
गुणेषु कस्य प्रद्वेषः को दोषानुगुणः सदा ।
वज्रसारसमङ्कस्य हृदयं को विशेषवित् ।६।
ध्रुवञ्चाश्ममयं तस्य चेतनारहितं कृतम् ।
व्याहृतं हृदयं तस्य त्वं पुत्रक न वल्लभः ।७।
प्रदीप्तं वज्रमारब्धं प्रक्षेप्तुं मम मस्तके ।
कण्ठे वा निशितं शस्त्रं शक्तिं वक्ष्यसि वा धृढाम् ।८।
प्रपातयितुमारब्धः केन मे ह्ययशोऽशनिः ॥
वधो येनाभ्यनुज्ञातस्तव सर्वजनप्रिय ।९।
हा केन दारुणञ्वाचा कर्मेदं तव कारितम् ।
को मे वैरानुबद्धः स्यात्कस्याहं न प्रियो भवेत ।१०।
मृत्युनालिङ्गितः कोऽसौ प्राणाः कस्य न वल्लभाः ।
येन ते वध आज्ञप्तः शीघ्रमाख्यातुमर्हसीति ।११।

१५६,५ - १५८,१५९
[६२] अथ सुवर्णवर्णः कुमारश्चिन्तयितुं प्रवृत्तः । स चेदस्य राज्ञ एवं कथयामि प्रचण्डेनामात्येन ममेदं कर्म कारितमिति । चण्डोयं राजा स्थानमेतद्विद्यते । यतः सांप्रतमेव प्रचण्डममात्यं प्रघातयति । तत्कथमत्र प्रतिपत्तव्यम् ॥ अथ वाक्कर्मस्वकतावलम्बयितव्या । ध्रुवञ्च मया पूर्व्वेषु जन्मान्तरेषु पापकमकुशलं कर्म कृतं यस्यायं विपाको न च पूर्वकर्मविपाकं मुक्त्वा एवमनागसो वधाय परित्यज्यत इति निश्चयमुपगम्य राजानमुवाच ।

मयैवं तत्कृतं कर्म पापकं पूर्वजन्मसु ।
यस्यायमीदृशो देव विपाकः समुपस्थितः ।१।
तदनिष्टञ्च नामाद्य स्वकानामेव कर्मणाम् ।
विपाकं परिभुञ्जानो प्यादेक्ष्यामि कं न्वहम् ।२।

इत्युक्त्वा स्थविरानन्दसमीपमुपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर्निपतितः । स्थविरानन्देन चोक्तो वत्स एषा काशिसुन्दरी दारिका विषवेगेनावष्टब्धा तदुत्तिष्ठैनां सत्याधिष्ठानेन स्वस्थी कुरु महाजनकायश्च प्रत्याय्य इति ।

१५९,१ - १६२,३
[६३] अथ सुवर्णवर्णः कुमारः स्थविरानन्दस्य प्रतिश्रुत्य सर्वसत्त्वाध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुमारब्धः । येन मे सत्येन सत्यवचनेनास्याः काशिसुन्दर्या दारिकाया अन्तिके मन सूक्ष्मोऽपि क्लेशो नोत्पन्नो रागो वा द्वेषो वा मोहो वा विहिंसा वान्यतमन्यतमो वा चैतसिक उपक्लेशोऽनेन सत्येन सत्यवचनेन चास्याः शरीरविषम्विलयमुपगच्छत्वित्यथैतस्मिन् सत्याधिष्ठानसमनन्तरमेव काशिसुन्दरीदारिकायाः शरीराद्विषं विलयमुपगतं स्वस्थीभूतशरीरा च सुप्तप्रबुद्धा इवोत्थिता । तां स्वस्थीभूतशरीरामुत्थितामालोक्य तेन महाजनकायेनानेकैश्च देवताशतसहस्त्रैरेकरवेनोच्चैर्नादो मुक्तः । अहो आश्चर्यमहो कुमारस्याशयविशुद्धता । महर्द्धिकोऽयं कुमारो महानुभावो यत्रेदानीं सत्याधिष्ठानबलादियमनेन काशिसुन्दरी दारिका समुत्थापिता प्रियेण जीवितेनाच्छादितेति । ततः काशिसुन्दरी दारिका समन्तान्निरीक्षितुमारब्धा यावत्पश्यति महाश्मशाने स्थविरानन्दं महता भिक्षुसङ्घेन सार्द्धमर्द्धचन्द्राकारोपगूढम् । नानारत्नप्रद्योतिते दिव्ये महति सिंहासने निषण्णं राजाममजातशत्रुमनेकप्राणिशतसहस्रपरिवारमात्मानञ्च नीलपीतलोहितावदातायां शिविकायामारोपितं दृष्ट्वा च पुनः सम्भ्रान्ता चिन्तयितुं प्रवृत्ता । किमयं स्वप्नमाहो स्विच्चित्तविभ्रमः । अथ वा केनचिदेतन्मायाकर्मविदर्शितं भवतीति । यावत्तस्या ज्ञातिभिरेतद्विस्तरेण समाख्यातम् । उक्ता च सर्वथा यदेतत्तव जीवितं तत्सर्वं स्थविरानन्दमागम्येति

१६२,३ - १६७,५
[६४] तच्छ्रुत्वा काशिसुन्दरी दारिका स्थविरानन्दे समुपजातबहुमाना परं प्रसादं प्रवेदयितुमारब्धा । अथ काशिसुन्दरी दारिका उद्यानं समनुस्मृत्य प्रचण्डञ्चामात्यमुद्विग्नमनसा मरणभयविषादविह्वलेक्षणावस्थान् तामेव परां प्रवेदयन्ती स्त्रीभावमनुशोचितुमारब्धा । अहो स्त्रीत्वं नामातिजघन्यतरं सर्वदुष्खास्पदभूतम् । यदागम्याहमिमामवस्थामनुप्राप्तेति सम्विग्नमानसा त्वरितमुत्थायैकञ्च वस्त्रमादाय स्थविरानन्दसमीपमुपगम्य तदेकं वस्त्रं स्थविरानन्दाय निर्यात्य पादयोर्निपत्य तीव्रेन प्रसादवेगेन स्थविरानन्दगुणानुस्मरणपूर्व्वकं सत्याधिष्ठानं कर्तुमारब्धा ॥ येन सत्येन सत्यवचनेन त्वं विदेहमुने । सर्वेषां बुद्धशिष्याणामग्रप्राप्तोऽतिश्रेष्ठो विशिष्टः प्रवर उत्तरोऽनुत्तरः श्रावकनागः । श्रावकसिंहः । श्रावकऋषभः । श्रावकजानेयः । श्रावकपद्मः । श्रावककुमदः । श्रावकपुण्डरीकम् । श्रावकसारथिः । श्रावकसार्थवाहः । श्रावकचन्द्रः । श्रावकभास्करः । श्रावकरत्नम् । श्रावकचूडामणिः । शासनकर्णधारः । शासनधूर्द्धरः । अर्हन् क्षीणास्त्रवः । कृतकृत्यः कृतकरणीयोऽपहृतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तो महर्द्धिको महानुभावो महादक्षिणीयोऽनेन सत्येन सत्यवचनेनाद्यैव मे स्त्रीन्द्रियमन्तर्द्धातु पुरुषेन्द्रियं प्रादुर्भवतु । अथैतत्सत्याधिष्ठानसमनन्तरमेव तस्याः स्त्रीन्द्रियमन्तर्हितं पुरुषेन्द्रियं प्रादुर्भूतम् । पुरुषो बभूव अतिरुपो दर्शनीयः प्रासादिको विचित्रवस्त्रालङ्कृतशरीरो गगनतलाच्चास्या दिव्यन्विचित्रं मनोरमं वस्त्रवर्यं पतितुम्
आरब्धम् । अपीदानीं वस्त्रवर्येण पतता तथा गगनमण्डलं संच्छन्नं यदा तस्मिन्मुहुर्ते तस्मिन्महाश्मशाने सूर्यरश्मयो न प्रज्ञायन्ते स्म । ततस्तदत्यद्भुतं देवमनुष्यावर्जनकरं स्थविरानन्दस्यगुणमाहात्म्यं दृष्ट्वा गगनतलगतैरनेकैर्देवताकोटिनियुतशतसहस्त्रैर्हाहाकारो मुक्तः । अहो आश्चर्यमहोऽत्यद्भुतम् । अहो स्थविरानन्दस्य गुणमाहात्म्यम् । अहो उदारता । अहो सुविशुद्धं दक्षिणीयं क्षेत्रं यत्र हि नामैकवस्त्रप्रदानमात्रेण प्रणिधानसमनन्तरमेव काशिसुन्दरीदारिकायाः स्त्रीन्द्रियमन्तर्हितम् । पुरुषेन्द्रियं प्रादुर्भूतमियञ्चेदृशी विभूतिरिति । ततस्ताभिर्देवताभिः प्रसन्नमनस्काभिर्दिव्यं पुष्पवर्षं पातितम् । दिव्यानि न वाद्यानि च पराहतानि ॥

१६७,५ - १७०,३
[६५] ततः काशिसुन्दरः पुरुषः स्थविरानन्दगुणमाहात्म्यसामर्थ्यादभिमनोहरमात्मनो यथाभिलषितं सद्यो विपाकफलमुद्वीक्ष्य परमविस्मयावर्जितचित्तसन्ततिः परमप्रीतिप्रामोद्यजातप्रहर्षरोमाञ्चकर्कसीकृतमूर्त्तिरुत्थायजानुमण्डलद्वयमुपनिक्षिप्य भूमौ कृतकरपुटः स्थविरानन्दमभिष्टोतुमारब्धः ।


नमस्ते दुर्लभाचिन्त्य सुविशुद्धगुणैश्चित ।
येनाद्यैवमनाथुस्य दत्तं ये जीवितं त्वया ।१।
यदि त्वन्न भवेस्त्राता विशुद्धज्ञानलोचनः ।
कथं प्राणवशिष्टं स्यां त्वं मे प्राणप्रदो मुने ।२।
अहो ते गुणमाहात्म्यमहो सत्त्वहितैषिता ।
यदेवं सङ्कटाद्घोरात्परित्रातस्त्वया जनः ।३।
अहो ते दक्षिणीयत्वं सुविशुद्धं सुदुर्लभम् ।
यत्रैकवस्त्रत्यागोऽपि प्रयात्येवं महार्घताम् ।४।
तथैकवस्त्रमादाय मया त्वयि महामुने ।
यथाभिलषितं प्राप्तमद्य फलमिदं शुभम् ।५।
आधारमिव यन्मन्ये दोषाणां महतामपि ।
तत्स्त्रीत्वं त्यक्तमद्यैव पुंस्त्वं चाधिगतं मया ।६।
तच्चैष दिव्यसदृशो दिव्यालङ्कारभूषितः ।
गगनाद्वस्त्रवर्यञ्च पतत्यतिमनोहरम् ।७।
एवं गुणिनि सुक्षेत्रे ये वै कारान्न कुर्वते ।
अधन्या वञ्चितास्ते मोहाद्यैः क्लेशशत्रुभिरिति ।८।

१७०,३ - १७१,३
[६६] स एव स्थविरानन्दमभिष्टुत्य कर्मफलप्रत्यक्षदर्शी चिन्तयामास । न मम प्रतिरूपं स्याद्यदहमिष्टानिष्टकर्मफलप्रत्यक्षदर्शी पुनरप्यागारमध्यावसेयमिति ॥ स स्थविरानन्दस्य पादयोर्निपत्योवाच ॥ लभेयाहमार्य स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावञ्चरेयमहं स्थविरस्यान्तिके ब्रह्मचर्यमिति । स स्थविरानन्देन प्रव्राजितस्तथा च समनुशिष्टो यथा यावत्सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम् ।

१७१,३ - १७६,३
[६७]अथास्मिन्नन्तरे दिवाकरः सार्थवाहः सपत्नीकोऽपि पुत्रवियोगशोकदुःखाभ्याहतो राजगृहस्य नगरस्य मध्ये शृङ्गाटकस्य पृथिव्यामुत्थायोत्थायात्मानं पातयति । पुनः पुनः पृथिव्यामावर्तनपरिवर्तनं करोति । उभाभ्यां पाणीभ्यामात्मानं ताडयति । हा पुत्र हा पुत्रेति चार्त्तस्वरं विरौति स्म । अश्रौषीद्दिवाकरः सार्थवाहः स्थविरानन्देन गगनतलेनागत्य सुवर्णवर्णः कुमारः परित्रातो महाश्मशाने आश्चर्या भूतानि वर्तन्त इति । श्रुत्वा च पुनः सपत्निकोऽप्यमृता चाभिषेकाभिसिक्त इव परमानन्दितमनाश्चक्रवर्त्तिराज्याभिषेकाभिषिक्त इव परमप्रीतिप्रामोद्यजातः सहसैवोत्थाय त्वरितगतिप्रचारया राजगृहान्नगरान्निर्ग्गत्य महाश्मशानमनुप्राप्तो यावत्पश्यति सुवर्णवर्णं कुमारं राहुग्रस्तविनिर्मुक्तं शरतकालपूर्णचन्द्रं स्थविरानन्दसमीपे निषण्णं ताञ्च स्थविरानन्दगुणसामर्थ्यजनितां विभूतिं ततस्तस्य तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा स्थविरानन्दे समुपजातबहुमानः परमप्रसादवेगावर्जितचित्तसन्तानः सर्वशरीरेण स्थविरानन्दस्य पादयोः पतितः । उत्थाय चोभे जानुमण्डले पृथिव्यामुपनिक्षिप्य हर्षादश्रूर्मिभिरापूर्यमाणवदनकमलः । कृताञ्जलिपुटः स्थविरानन्दमभिष्टोतुमारब्धः ।

अहो त्वया महाभाग माहात्म्यं सम्प्रकाशितम् ।
यन्महासङ्कटाद्घोरात्परित्रातस्त्वया जनः ।१।
अहोऽनुकम्पामाहात्म्यमहो ज्ञानस्य सम्पदः ।
सर्वज्ञेनैव भवता विशुद्धा सम्प्रकाशिताः ।२।
तथायं पुत्रकोऽस्माकं महतो व्यसनार्णवात् ।
दयाज्ञानप्रभावाभ्यां सम्यगुत्तारितस्त्वया ।३।
यदि वायं त्वयाद्यैव न समन्वाहृतो भवेत् ।
निमग्नो दुःखजम्बाले सपत्नीको ह्यहञ्चिरम् ।४।
त्वामागम्याहमद्याग्रं महाकारुणिकात्मजम् ।
पुत्रशोकार्णवोत्तीर्णः शोकाटव्याश्च निःसृतः ।५।
मुक्तः शोकमयैः पाशैर्निर्गतः शोकचारकात् ।
शोकायसभयाद्भ्रष्टो विमुक्तः शोकपञ्जरात् ।६।
न लग्नः शोकपङ्केऽद्य न क्षतः शोककण्टकैः ।
न दष्टः शोकसर्पेण न विद्धः शोकसायकैः ।७।
न च्छिनः शोकनिस्त्रिङ्शैर्न प्राप्तः शोकशत्रुभिः ।
न ग्रस्तः शोकमकरैर्न दग्धः शोकवह्निना ।८।
त्वयैवं कुर्वता चाद्य भासितोऽयं महाजनः ।
उन्मीलितानि नेत्राणि प्रीणितानि मनांसि च ।९।
आनन्द इति नामेदमहो स्वन्वर्थताङ्गतम् ।
येनैवं कुर्वता त्राणं परमानन्दिता वयमिति ।१०।

१७६,३ - १७७,४
[६८] अथ दिवाकरः सार्थवाहः स्थविरानन्दमभिष्टुत्योत्थाय च सुवर्णवर्णस्य कुमारस्य समीपमुपगम्य सपत्नीकोऽपि सहगाढं कण्ठे परिष्वज्य मुहुर्मुहुः परिष्वजते स्म । प्रहर्षजातोऽश्रुपर्याकुलेक्षणश्च सुवर्णवर्णं कुमारमनिमिषेन समवलोकयन्नुवाच ।

शरत्पूर्णेन्दुबिम्बश्रीकान्तिद्युतिहरम्ब्वपुः ।
मनोरथशतैर्लब्धं दिष्ट्या पश्यामि ते पुनः ।१।
स्निग्धनीलायताताम्रपर्यन्तेक्षणशालिनम् ।
स्थविरानन्दमागम्य पुनः पश्यामि ते मुखमिति ।२।

१७७,४ - १८१,४
[६९] अथ सुवर्णवर्णः कुमारः संसारदोषोद्विग्नचेता मातापितरावनुज्ञाप्य स्थविरानन्दस्य पादयोर्निपत्योवाच । स्थविर लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावञ्चरेयमहं स्वाख्यातधर्मविनये ब्रह्मचर्यमिति । स स्थविरानन्देन प्रव्राजितस्तथा च समनुशिष्टो यथानेन तस्मिन्नेव मुहूर्ते सर्वक्लेशप्रहाणादर्हत्त्वं प्राप्तम् । सोऽर्हत्त्वप्राप्तः पूर्वैकां जन्मपरम्परामवलोकितुमारब्धो यावत्पश्यत्यात्मानमतीव पुण्यमहेशाख्यं तस्यैतदभवत् । क्षुणोऽहं स चेन्मया विज्ञातुमभविष्यदित्यहमेव पुण्यमहेशाख्य इति । मया यावदाप्तं दानानि दत्तानि पुण्यानि कृतान्यभविष्यन् । तदिदानीमपि सत्त्वानां पुण्येषु गौरवोत्पादनार्थं स्वं पुण्यमहात्म्यं प्रकाशयेयमिति । ततस्तेन तानि वस्त्राणि स्वशरीरादवतारितानि तत्समनन्तरमेव चापराणि तादृशान्येव प्रादुर्भूतानि । पुनः पुनरवतारयितुमारब्धस्तथैव चास्य पुनः पुनः प्रादुर्भवन्ति । तेनावतार्यावतार्य स्थविरानन्दस्य पुरस्तान्महान् वस्त्रराशिः कृतः । तञ्च तेषामपि महार्हाणां वस्त्राणां राशिमभिनवोदितदिवाकरकिरण्विच्छुरितमिव जाम्बुनदसुवर्णराशिं कनकायमानमुद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिरुवाच । अहो आश्चर्यमहोऽद्भुतमहो पुण्यानां माहात्म्यमहो सुकृतानि पुण्यानि अनेन महात्मना । यत्र हि नामैवमव्यवच्छिन्नमवतारयतोऽपि चैषामतिमहार्हाणां पर्यन्तमपि नाधिगम्यत इति । ततस्तेन मातापित्रोस्तानि वस्त्राणि निर्यातितानि ताभ्यामपि स्थविरानन्दप्रमुखं भिक्षुसंघमादिं कृत्वा यावानसौ जनकायो महाश्मशानं सन्निपतितः । तत्र च एकैकः प्राणीवस्त्रयुगलेनाच्छादितः । सुवर्णवर्णस्य तु भिक्षोः पुण्यानुभावेनासौ वस्त्रराशिर्नैव क्षीयते ।

१८१,४ - १८४,१८५
[७०] ततः सुवर्णवर्णो भिक्षुरुपरि विहायसमभ्युद्गम्य ऋद्ध्या राजगृहन्नगरं गत्वा मध्ये शृङ्गाटकस्य सुवर्णवर्णानां वस्त्राणां स्वशरीरादव(६)तार्यावतार्य महाप्रमाणं राशिं कृत्वा स्वरेण राजगृहन्नगरमापूरयन्नुवाच । भवन्तो मयैतानि वस्त्राणि परित्यक्तानि यस्य वो यावद्भिः प्रयोजनं स तावन्ति प्रतिगृह्णात्विति । श्रुत्वा तत्क्षणादेवानेकानि प्राणिशतसहस्त्राणि सन्निपातितानि । यावत्पश्यन्ति नगरमध्ये शृङ्गाटकस्य तेषां सुवर्णपीतानां वस्त्राणामतिमहाप्रमाणं राशिमरुण्किरणपरामृष्टमिव जाम्बूनदसुवर्णराशिमिव मिलिमिलायमानमायुष्मान्तं च सुवर्णवर्णमुत्तप्तकाञ्चनगिरिशृङ्गमिव परमया श्रिया ज्वलन्तं गगनतलगतमुद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिः परमप्रहर्षोर्मितरङ्गापूर्यमाणवदनकमलश्चिन्तयामास अहो आश्चर्यमहोऽद्भुतं तत्किं पुनरनेन महात्मना कृतं भवेद्येनायमेवं महर्द्धिको महानुभावो यदि च वयं जानीमो वयमपि तत्कुर्यामहे येन वयमप्येवं महर्द्धिकां स्याम इति । समुत्पन्नाभिलाषाः सन्देहदोलारुढाश्च परस्परं संजल्पं कर्तुमारब्धाः । तेषामेतदभवदेष एव महात्मा महर्द्धिको महानुभावः सिद्धव्रतो दिव्यज्ञानसमन्वागतश्च एतमेव परिपृच्छाम इति । ततोऽसौ जनकायः परमविस्मयोत्फुल्ललोचनः कृतकरपुटो गगनतलासक्तदृष्टिरायुष्मन्तं सुवर्णवर्णमेकरवेण प्रणम्योवाच ।

उपेतस्त्वं महाभाग दिव्येन ज्ञानचक्षुषा ।
येनैवं त्वं महेशाख्यस्त्वं समाख्यातुमर्हसि ।१।
येन प्राप्नोति सम्पत्तिमिह लोके परत्र च ।
भोगानाञ्च गुणानाञ्च तान् स्वयं ख्यातुमर्हसी ति ।२।

१८५,२ - १९६,३
[७१] ततस्तान् स महासत्त्वः करुणाक्षिप्तमानसः ।
ह्लादयन्महता वाचा स्वरेणापूरयन् दिश ।१।
अमुमेवार्थमुद्दिश्य मयेदं दर्शितं हि वः ।
अनुपूर्वेण वक्ष्यामि शृणुतेदं वचो मम ।२।
पुण्यैराप्नोति सम्पत्तिमिह लोके परत्र च ।
भोगानाञ्च गुणानाञ्च पुण्यैश्चाहं महर्द्धिकः ।३।
यदि वो न प्रियं दुःखं प्रियाश्च सुखसम्पदः ।
क्षिप्रं कुरुध्वं पुण्यानि सुखं पुण्यस्य सञ्चयः ।४।
या काचित्सुखसम्पत्तिरिह लोके परत्र च ।
प्राप्यते निवृत्तिश्चापि पुण्यानामेव तत्फलम् ।५।
धनिनः श्रेष्ठिनो विप्राः सार्थवाहादयश्च यान् ।
भुञ्जते विपुलान् भोगान् पुण्यानामेव तत्फलम् ।६।
मनोऽभिरामा स्त्रीभृत्यपुत्रमित्रादिसम्पदः ।
यद्भवन्ति मनुष्याणां पुण्यानामेव तत्फलम् ।७।
रूपलावण्यसम्पत्तिर्मनोनयनहाररिणीम् ।
लब्ध्वा यद्राजन्ते मर्त्याः पुण्यानामेव तत्फलम् ।८।
अभेद्यं परिवारत्वमक्षयां दानसम्पदः ।
लभन्ते खलु यन्मर्त्याः पुण्यानामेव तत्फलम् ।९।
जातिस्मरत्वं सौभाग्यं श्रुतमादेयवाक्यताम् ।
प्राप्नुवन्ति मनुष्या यत्पुण्यानामेव तत्फलम् ।१०।
विस्तीर्णा भोगसम्पत्ति ज्ञातिभिः सहिताः सदाः
यन्मर्त्या मुञ्जते हृष्टाः पुण्यानामेव तत्फलम् ।११।
यद्भवन्ति मनुष्याणामसंख्या धनसम्पदः ।
निःसपत्नाः स्थिराश्चैव पुण्यानामेव तत्फलम् ।१२।
यदुत्तरकुरौ द्वीपे ह्यममा अपरिग्रहाः
मनुष्या नियतायुष्काः पुण्यानामेव एव तत्फलम् ।१३।
यत्तण्डुलफलं शालिमकृष्टोप्तं महार्हम् ।
मनुष्या भुञ्जते तत्र पुण्यानामेव तत्फलम् ।१४।
कल्पदूष्याणि चित्राणि यत्तत्राभरणानि च ।
आच्छादयन्ति मनुजाः पुण्यानामेव तत्फलम् ।१५।
यत्तदुत्तरकुरौ द्वीपे मनुष्यास्तदनन्तरम् ।
च्युता देवा भविष्यन्ति पुण्यानामेव तत्फलम् ।१६।
सुधाभक्तादिसम्पति यन्नागा देवपुत्रवत् ।
पाताले भुञ्जते दिव्याः पुण्यानामेव तत्फलम् ।१७।
यत्प्रभावादिराजश्रीसम्पदं प्राप्य देववत् ।
मनुजेन्द्रा विराजन्ते पुण्यानामेव तत्फलम् ।१८।
बलेन चक्रवर्त्तित्वं यदवाप्य महीभुजाः ।
देवेन्द्रवद्विराजन्ते पुण्यानामेव तत्फलम् ।१९।
अशेषमनुजां कृत्सां सप्तरत्नादिसम्पदम् ।
बुङ्क्ते यच्चक्रवर्ती च पुण्यानामेव तत्फलम् ।२०।
त्रिदशेन्द्र समां लक्ष्मीं प्राप्य यत्परिभुङ्क्ते ।
वेमचित्रादयो दैत्याः पुण्यानामेव तत्फलम् ।२१।
चत्वारो लोकपाला यां विभूतिं धनदादयः ।
भुञ्जते मुदिताश्चित्रां पुण्यानामेव तत्फलम् ।२२।
नन्दनादिवनोद्यानविभूतिं भुञ्जते सुराः ।
यत्सार्द्धं देवकन्याभिः पुण्यानामेव तत्फलम् ।२३।
विचित्रां देवराज्यादिसम्पदं त्रिदशाधिपः ।
यत्सदा मुदितो भुङ्क्ते पुण्यानामेव तत्फलम् ।२४।
यथाभिलषितान् दिव्यान् भोगान् यत्परिभुञ्जते ।
विमानवासिनो देवाः पुण्यानामेव तत्फलम् ।२५।
यत्केचिद्दशभिः स्थानैरायुर्वर्णबलादिभिः ।
देवेभ्योऽप्यधिका देवा पुण्यानामेव तत्फलम् ।२६।
कामधातूत्तमाञ्चित्रां यद्दिव्यां भोगसम्पदः ।
कामधात्वीश्वरो भुङ्क्ते पुण्यानामेव तत्फलम् ।२७।
यथाभिलषितान् कामान् देवेषु मनुजेषु च ।
लभन्ते यदयत्नेन पुण्यानामेव तत्फलम् ।२८।
यद्ब्रह्मादयो देवा ध्यायिनो ध्यानभूमिषु ।
प्राप्नुवन्त्युत्तमं सौख्यं पुण्यानामेव तत्फलम् ।२९।
ध्यायिनो ध्यानजं यच्च तृष्णाक्षयसुखञ्च यत् ।
प्राप्नुवन्ति सुखं शान्तिं पुण्यानामेव तत्फलम् ।३०।
सम्बुद्धश्रावका ये च भवन्त्युग्रगुणान्विताः ।
महर्द्धिका महात्मानः पुण्यानामेव तत्फलम् ।३१।
प्राप्नुवन्ति महात्मानो येऽपि कल्पशतात्ययात् ।
बोधिं प्रत्येकसम्बुद्धाः पुण्यानामेव तत्फलम् ।३२।
अप्रमेयैर्निरुपमैर्गुणैर्यत्समलङ्कृताः ।
भवन्ति सम्यक्सम्बुद्धाः पुण्यानामेव तत्फलम् ।३३।
रूपयौवनशालिन्यः पुंभिः कुलविभूषणाः ।
स्त्रियः पुण्यैरवाप्यन्ते पुण्यानामेव तत्फलम् ।३४।
पुण्यैरवाप्यते स्वर्गः पुण्यस्य अप्सरसः फलम् ।
प्राप्यन्तेऽभिमताः पुण्यैः सर्वकामसमृद्धयः ।३५।
पुण्यैरवाप्यते तीक्ष्णा तथा च विमला मतिः ।
पुण्यैरायतनैः श्रद्धाः पुण्यैः पटुतरा स्मृतिः ।३६।
पुण्यैः प्रियत्वं वक्तृत्वं सुस्वरत्वं यशस्वता ।
सर्वाः पुण्यैरवाप्यन्ते शुभा गुणविभूतयः ।३७।
न तदस्ति सुखं लोके यत्पुण्यैर्नाधिगम्यते ।
तस्मात्सुखार्थिभिर्नित्यं कर्त्तव्यः पुण्यसंचयः ।३८।
स्वल्पं पुण्यं मया कृत्वा विपश्यिनि तथागते ।
यथाभिलाषितं प्राप्तमत्यन्तविपुलं फलम् ।३९।
षट्सु देवनिकायेषु राज्यैश्वर्याधिपत्यताम् ।
जातिकोटिसहस्त्राणि सुखं संभुक्तवानहम् ।४०।
अमितान्यसपत्नानि मनुष्येषूत्तमास्तथा ।
चक्रवर्त्त्यादिभूतेन भुक्ता मे भोगसम्पदः ।४१।
तस्य पुण्यस्य माहात्म्याद्यत्र यत्रोपपन्नवान् ।
तत्र तत्र बभूवाहं महेशाख्यः सुखान्वितः ।४२।
रूपवान् गुणसम्पन्नो मुखेनोत्पलगन्धिना ।
प्रियश्चादेयवाक्यश्च सुमनोज्ञाः सुरान्वितः ।४३।
इदानीमपि तस्यैव पुण्यस्याभिमतामिमाम् ।
रूपादिगुणसम्पत्तिं पश्यतेमां मनोरमाम् ।४४।
महाधने महाभोगे जातोऽस्मि विपुले कुले ।
वस्त्रैर्जाम्बूनदाकारैरवगुण्ठित विग्रहः ।४५।
कायाद्वहति सर्वस्माद्गन्धाश्चन्दनसन्निभः ।
गन्धो नीलोत्पलस्यैव तथा वाति मुखाच्च मे ।४६।
यत्किञ्चिदभिकाङ्क्षामि वस्त्ररत्नादिसम्पदाम् ।
तच्च संङ्कल्पमात्रेण मम सर्वं समृध्यति ।४७।
प्रव्रज्या च मया लब्धा साक्यसिंहस्य शासने ।
अर्हत्वञ्च मया प्राप्तं शीतीभूतोऽस्मि निर्वृतः ।४८।
इयं मे पश्चिमा जातिर्म्मम नास्ति पुनर्भवः ।
पुनर्नाभ्यागामिष्यामि निवास्यामि निराश्रयम् ।४९।
यस्तेन कर्मणा क्षिप्तो विपाकफलविस्तरः ।
तस्य नावैमि पर्यन्तमद्याप्येवंविधोऽपि सन् ।५०।

१९६,३ - १९७,३
[७२] तदत्यद्भुतमपरिमितमचिन्त्यं च तस्य सकाशात्पुण्यमाहात्म्यं श्रुत्वानेकैः प्राणिकोटिनियुतशतसहस्त्रैः परमप्रसादवेगावर्जितचित्तसन्ततिभिर्भगवच्छासनसत्कारपराङ्मिखैरपि यथेच्छं दानानि दत्त्वा पुण्यानि कृत्वा प्रणिधानानि कृतानि । अथायुष्मान् सुवर्णवर्णास्य महाजनकायस्यैवमनेक प्रकारं पुण्येषु गौरवोत्पादनार्थञ्च पुण्यमाहात्म्यं प्रकाश्य

१९७,३ - १९९,५
[७३] तत एवोपरि विहायसा सद्यो महाश्मशानमागत्य स्थविरानन्दप्रमुखं भिक्षुसंघमनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः । राज्ञा चाजातशत्रुणा श्रुतं यथा किल प्रचण्डेनामात्येनेर्ष्याप्रकृतेनोद्याने काशिसुन्दर्या दारिकाया अयञ्चायञ्चानर्थः कृतः । सुवर्णवर्णस्याभ्याख्यानं दत्त्वा निरपराध एव वधाय परित्यक्त इति । श्रुत्वा च पुनस्तीव्रक्रोधपर्याकुलेक्षणो भृत्यानामन्त्रयते भवन्तः । कथन्नामानेन दुरात्मनैवं व्यवहर्त्तव्यं सवर्था परित्यक्तो मे प्रचण्डोऽमात्य इति । प्रचण्डश्चामात्यस्तत्रैव सन्निपतितोऽभूत् । अथ प्रचण्डोऽमात्य एतद्राज्ञो वचनमुपश्रुत्य मरणभयविषादविहवलेक्षणः प्रवेपमानः सर्वाङ्गावयवः सहसैवोत्थाय निष्पलायितुमारब्धो महाजनप्रद्विष्टोऽसौ तस्योपर्यनेकानि प्रणिशतसहस्राणि प्रधावितानि समन्ताच्च परिवार्य महाजनकायेन गृहीतो गृहीत्वा च खरचपेटपार्ष्णिप्रहारादिभिस्तं ताडयितुमारब्धाः । स ताड्यमानः प्रगाढदुःखवेदनाभ्याहतो विक्रोष्टुमारब्धः आर्यानन्द परित्रास्यस्व मामनाथमत्राणमशरणमपरायणं निरालोकं प्रियेण जीवितेनाच्छादयेति ॥

२००,१ - २०३,२०४
[७४] स्थविरानन्देन चासौ महाजनकायोऽभिहितो भवन्तो मैनं प्रघातयताहं राजानमजातशत्रुमनुसंज्ञापयिष्यामीति । ततस्तेन महाजनकायेनासौ स्थविरानन्दवचनमुपश्रुत्य प्रतिमुक्तः स्थविरानन्दश्च राजानं निरीक्षितुमारब्धः । राजोवाच । किमाज्ञापयसीति । स्थविरानन्देनोक्तम् । महाराज मुञ्चैनमिति २००,५-२०१,१ राजोवाच । समयतो मुञ्चामि यदि स्वाख्याते धर्मविनये प्रव्रज्य स्थविरानन्दस्यं यावज्जीवमुपस्थानं करोतीति । स्थविरानन्देनोक्तमेवमस्त्विति । स च तेन जनकायेन निर्दयं ताडितः । प्रगाढदुःखवेदनाभ्याहतो मुर्च्छितस्तिष्ठति । स्थविरानन्देन चायुष्मान् सुवर्णवर्णोऽभिहितः सत्याधिष्ठानेन प्रचण्डस्यामात्यस्य शरीराद्दुःखवेदनां प्रस्तम्भयेति । अथायुष्मान् सुवर्णवर्णः सर्वसत्त्वहिताध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुमारब्धः । येन सत्येन सत्यवचनेनास्य प्रचण्डस्यामात्यस्यैवमत्यन्तापकारिणोऽप्यन्तिके मम सूक्ष्मोऽप्याघातो नोत्पन्नः । तेन सत्येन सत्यवचनेनास्य शरीराद्दुःखवेदना प्रतिप्रश्रभ्यतामिति । सत्याधिष्ठानसमनन्तरमेव प्रचण्डस्यामात्यस्य शरीराद्दुःखवेदना प्रविगता स्वस्थीभूतशरीरश्च समुत्थाय भगवच्छासने समुपजातबहुमानः स्थविरानन्दसमीपमुपगम्य पादयोर्निपत्योवाच । लभेयाहं स्थविरानन्द स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावञ्चरेयमहं स्थविरानन्दस्यान्तिके ब्रह्मचर्यमिति । स स्थविरानन्देन प्रव्राजितस्तथा च स्वमनुशिष्टो यथा तेन तस्मिन्नेव मुहूर्ते सर्वक्लेशप्रहाणादर्हत्वं प्राप्तम् । सोऽर्हत्वप्राप्तो गगनतलमभ्युद्गम्य विचित्रैः प्रातिहार्यं महाजनमनान्सि प्रह्लादयन् गगनतलादवतीर्य स्थविरानन्दप्रमुखं भिक्षुसंघमनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः ।

२०४,१ - २०५,५
[७५] ततस्तदत्यद्भुतं स्थविरानन्दस्य महात्म्यं दृष्ट्वा सा परत्स्थविरानन्देऽत्यर्थमभिप्रसन्ना । ततस्तां पर्षदं तथाभिप्रसन्न्मनस्कामालोक्य स्थविरानन्देन तथा विधा धर्मदेशना कृता यां श्रुत्वानेकैः प्राणिशतसहस्रैस्महान् विशेषोऽधिगतः । कैश्चित्स्रोतआपत्तिफलं प्राप्तम् । यावदर्हत्त्वं साक्षात्कृतम् । कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि । कैश्चिद्यावद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भरा व्यवस्थिता दिवाकरेण च सार्थवाहेन सपत्नीकेन सत्यानि दृष्टानि । अनेकैश्च देवताशतसहस्त्रैस्ततस्ताभिर्देवताभिः प्रसन्नमनस्मभिः दिव्यं वस्त्रवर्यं पातितम् । दिव्यानि च वाद्यानि पराहतानि दिव्यैश्चोत्पलपद्मकुमुदपुण्डरीकमान्दारकाद्यैर्जानुमात्रेणोच्छ्रेन सर्वं महाश्मशानं विचित्रैः पुष्पैरवकीर्णम् ।

२०५,५ - २०८,५
[७६] अथ राजाऽजातशत्रुस्तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा परमप्रसादावर्जितचित्तसन्तान उदानमुदानयामास । अहो आश्चर्यमहोऽत्यद्भुतमहो आर्यानन्देन स्वगुणमाहात्म्यं प्रकाशितमहो तथागतशासनमाहात्म्यमुद्भावितमहो यत्तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्सम्बुद्धेन स्थविरमहाकाश्यपेन चास्य शासनं विनयस्तं तत्सफलीकृतम् ॥ अहो तथागतादित्यऽस्तङ्गते आर्यानन्दभास्करेण स्वगुणकिरणजालैरुद्योतिता दिशः । अहो तथागतशशिन्यनित्यतासुरेन्द्रराहुणा ग्रस्ते आर्यानन्दचन्द्रेण स्वमतिमयूखविसरैर्वैनेयकुमुदवनानि प्रबोधितानि । अहो तथागतवियोगतीक्ष्णदुःखार्ककिरणसन्तपितः स्थविरानन्द_महामेघेन स्ववचनामृतवर्येण प्रह्लादितो लोकः । अहो तथागतस्य मनोरथाः सम्यक्परिपूरिताः । अहो तथागतशासनकर्णधारत्वं प्रकाशितम् । अहो तथागतशसनधूर्द्धरत्वं प्रकाटीकृतम् । अहो अग्रः श्रावकः शब्दः सफलीकृतः । अनेनैवात्यद्भुतेन स्वगुणमाहात्म्यं सामर्थ्यादन्तसत्त्वहितसम्पादनेन सर्वज्ञगुणमाहात्म्यं प्रतिविवृतम् । अहो दर्शितानेन महात्मना तस्य भगवतो महाकारुणिकस्य प्रत्युपकारबुद्धिरित्य् ॥

२०८,५ - २११,५
[७७] अथ राजा स्थविरानन्देन प्रशादवेगावर्जितचित्तसन्ततिः । स्थविरानन्दसमीपमुपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर्निपतितः । उत्थाय उभे जानुमण्डले पृथिव्यामुपनिक्षिप्य प्रसादरोमाञ्चकर्कशीकृतमूर्तिः कृतकरपुटः स्थविरानन्दमभिष्टोतुमारब्धाः ।

नमस्ते पुरुषश्रेष्ठ नमस्ते श्रुतशागराः ।
नमस्तेऽत्यद्भुताचिन्त्य जिनशासनधूर्द्धर ।१।
बुद्धशासनमाहात्मयमहो सम्यक्प्रकाशितम् ।
अचिन्त्यमद्भुतं तेऽद्य कुर्वता जगते हितम् ।२।
यत्तद्भगवता चार्यकाश्यपेन च धीमता ।
शासनं त्वयि विन्यस्तं तदद्य सफलीकृतम् ।३।
इदमत्यद्भुताचिन्त्यं सत्त्वार्थं कुर्वता महत् ।
सर्वज्ञगुणमाहात्म्यमद्य ते प्रतिबिम्बितम् ।४।
किञ्चित्रं यदि सम्बुद्धः सर्वार्थं कृतवांस्तथा ।
सर्वज्ञः सर्वदर्शी च महाकरुणिको ह्यसौ ।५।
इदञ्चित्रतरं मन्ये श्रावकेण सता त्वया ।
महाकारुणिकेनैव यत्सत्त्वार्थं महत्कृतम् ।६।
अहो सुलब्धलाभोऽहं मागधश्च जनो ह्ययम् ।
येषामेवं प्रमत्तानां त्वं हितावहितः सदा ।७।
स्थाने तथागतेनेदं त्वयि शासनमर्पितम् ।
येनाद्य सुगतेनेव कृतमत्यद्भुतं महत् ।८।
ततोऽसौ स्थविरानन्द गुणमाहात्म्यविस्मितः
सम्बुद्धं समनुस्मृत्य नमस्कारं सदाकरोत् ।९।
नमोऽस्तु ते महावीर सम्बुद्ध द्विपदोत्तम ।
यस्य ते श्रावकोऽप्येवं सदा सत्त्वहितोद्यतः ।१०।
तथागतेन माहात्म्यमुच्चैः सम्यक्प्रकाशितम् ।
अशून्यमिव मन्यामस्त्वयैनां जनतां यथेति ।११।

२११,५ - २१३,२१४
[७८] ततो राजा स्थविरानन्दं पप्रच्छ स्थविर किं दिवाकरेण सार्थवाहेन सपत्नीकेन कर्म कृतम् । यस्य कर्मणो विपाकेनाढ्यो महाधनो महाभोगः ससंवृत्तः । भगवच्छासने च सत्यदर्शनः कृतः । काशिसुन्दरेण प्रचण्डेन च भिक्षुणा किं कर्म कृतं येनाढ्यो महाधने महाभोगे कुले जातो भगवच्छासने च प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम् । सुवर्णवर्णेन च भिक्षुणा किं कर्म कृतम् । यस्य कर्मणो विपाके नाद्य महाधने महाभोगे कुले जातः । एवमभिरुपो दर्शनीयः । प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेत उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः । सर्वजनमनोनयनहरः सुवर्णवर्णैर्वस्त्रैरवगुण्ठितविग्रहः । कायाच्चास्य चन्दनगन्धो वाति । मुखाच्च नीलोत्पलगन्धो जन्मनि चास्य वस्त्रवर्यं कर्णिकारकुसुमवर्यं च पतितम् । तानि च वस्त्राणि सुवर्णवर्णानि एवमत्यार्थ महर्द्धिको महानुभावो भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमिति ।

२१४,१-३
[७९] स्थविरानन्दः कथयति । महाराजा एभिरेव पूर्वमन्यासु जातिषु ।
कर्माणि कृतानि यावत्फलन्ति खलु देहिनाम् ॥

२१४,३ - २१५
[८०] भूतपूर्वं महाराज इत एकनवते कल्पे भगवां विपश्यी नाम तथागतो लोक उदपादि विद्याचरणसमम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । स बन्धुमतीं राजधानीमुपनिःसृत्य विहरति बन्धुमतीयके दावे ।

२१५,१ - २१६,१
[८१] तेन खलु समयेन बन्धुमत्यां राजधान्यां कर्णो नाम सार्थवाहः प्रतिवसत्याढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्द्धी बन्धुमत्यां राजधान्यामग्रकुलिकस्तेन सदृशात्कुलात्कलत्रमानीतम् । स तया सार्द्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा सम्वृता यावत्कर्णः सार्थवाहः पञ्चवणिकशतपरिवारो महासमुद्रमवतीर्णः ॥

२१६,१ - २१८,२
[८२] स च गर्भो यथा वृद्धिसु गच्छति । तथा कर्णस्य सार्थवाहस्य यदावारीगतं क्षेत्रगतं देशान्तरगतं वार्थजातं तत्र किञ्चिदग्निना दग्धं किञ्चिच्चौरैरपहृतं किञ्चित्पौरुषेया गृहीत्वा निःपलानाः । यावत्सार्थवाहपत्नी परिपूर्णे काले प्रसूता दारको जातः कृष्णच्छविरत्यन्तविरूपोऽष्टादशभिरवलक्षणैर्दूषितगात्रस्तस्य कायान्मुखाच्च तादृशोऽत्यन्तविरसो गन्धः प्रवातुमारब्धो यं घ्रात्वा तद्गृहस्थाः परिजनाः परं वैमुख्यमुपगताः । तस्य दारकस्य जातमात्रस्य तस्मिन् गृहेऽग्निः प्रादुर्भूतो येन तद्गृहं निरवशेषञ्च स्वापतेयं दग्धम् । सार्थवाहपत्नी कथञ्चिद्दारकमादाय तस्माद्गृहान्निर्गता । यदा च सोऽग्निस्तद्गृहं निरवशेषञ्च स्वापतेयं दग्ध्वा स्वयमेव निर्वाणः । तदा सार्थवाहपत्नी तत्रार्द्धभग्ने खण्डाववरके प्रविश्य पटार्द्धं पृथिव्यां प्रसार्य दारकं शायित्वा दीर्घमुष्णञ्च निःश्वस्य कर्णं सार्थवाहमनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टमीदृशो मे विपर्ययः समुपस्थित इति ।

२१८,२ - २१९,४
[८३] कर्णस्य सार्थवाहस्य ये दासीदासकर्मकरपौरुषेयास्ते तां विपत्तिं दृष्ट्वा यामो मा वयमपि विनङ्क्ष्याम इति भीताः कर्णस्य सार्थवाहस्य पत्नीमपहाय निःपलानाः । तत्रैका प्रेष्यदारिका संलक्षयति । मया कर्णस्य सार्थवाहस्य गृहे नैकप्रकारा सम्पदनुभूता । न मम प्रतिरूपं स्याद्यदहमस्यामवस्थायां सार्थवाहपत्नीमनाथमेकाकिनीं च्छोरयित्वा निःपलायेयमिति । सैवैका सार्थवाहपत्न्याः पार्श्वेऽवस्थिता । तस्याश्च सार्थवाहपत्न्याः सर्वन् तत्स्वापतेयमग्निना दग्धमेकदैवसिकमपि भोक्तव्यन्नास्ति ।

२१९,४ - २२१,३
[८४] ततः सा प्रेष्यदारिका ककर्णस्य सार्थवाहस्य ये सुहृत्सम्बन्धिबान्धवास्तेषां सकाशङ्गत्वा कथयति भवन्तः । कर्णस्य सार्थवाहस्य पत्न्या इदृश्यवस्था वर्त्तते । योगोद्वहनं कुरुतेति । यत एव ते तस्या योगोद्वहनं कर्तुमारब्धास्तत एवैतेषामपि कुलेष्वनर्थशतानि प्रादुर्भूतानि । तैरुपलक्षितमयङ्कर्णस्य सार्थवाहस्य पुत्रोऽत्यन्तं न मङ्गलोऽस्यापुण्यसामर्थ्यात्कर्णस्य सार्थवाहस्य सर्वो गृहविभवादिविस्तरो विनाशङ्गतस्तद्यदि वयमप्यस्य योगोद्वहनं करिष्यामोऽस्माकमपि गृहेषु न चिरादेवेयमीदृश्यवस्था भविष्यति । तद्यथा कर्णस्य सार्थवाहस्य । सर्वथा न तस्य युक्तं नामापि ग्रहीतुमपि तु तैः सा प्रेष्यदारिकाभिहिता न भूयस्त्वयास्मन्निवेशनान्युपसंक्रमितव्यानीति ॥

२२१,३ - २२२,४
[८५] सा तैर्निर्भत्सिता चिन्तयामास । इदानीं सार्थवाहपत्नी सर्वेण सर्वनिशक्रन्दा जाता । कथमत्र प्रतिपत्तव्यम् । अथवा गृहीतोऽयं मया भारः सुतरामेवाधुना सार्थवाहस्य पत्नी परिपालयितव्येति । ततः परगृहाणि गत्वा भृतकया कर्म कर्तुमारब्धा । तत्र च यन्मूल्यं लभते तेन सार्थवाहपत्नीमात्मानञ्च दारकञ्च पोषयितुमारब्धा । तस्य च दारकस्य परमविरूपत्वाद्विरूप इति नाम व्यवस्थापितम् । दैवात्सा प्रेष्यदारिका प्रतिदिवसमपचीयमानं मूल्यं प्रतिलभते । ततस्ते त्रयः प्राणिनोऽति कृच्छ्रेण यापयितुमारब्धाः ॥

२२२,४ - २२४,५
[८६] सार्थवाहपत्नी संलक्षयति । अहं हि सर्वैर्दासीदासकर्मकरपौरुषेयैः सुहृत्सम्बन्धिबान्धवैश्च परित्यक्ता यत किञ्चिन्मम जीवितं सर्वं तदेनां प्रेष्यदारिकामागम्य । एषा हि मे मातृकल्पा स्नेहेन । तत्कियन्तं कालमेकाकिनी कर्म कुर्वाणा सा परिखेदं गमिष्यति । यावच्च मूल्यं लभते । तावता न शक्यते यापयितुम् । तदहमपि स्वकर्मापराधमनुभवाम्यहमपि भृतिकया कर्म करोमीति विचिन्त्य तया प्रेष्यदारिकया सह परगृहाणि गत्वा भृतिकया कर्म कर्तुमारब्धा सा परमसुकुमारा क्षुद्दुःखादिपरिपीडिता च कर्म कुर्वाणा मुहुर्मुहुर्मोहमुपगच्छति । ततश्च परिखिन्ना दीर्घमुष्णञ्च निःश्वस्य कर्णं सार्थवाहमनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टमीदृशो मे विपर्ययः समुपस्थितो यन्नाम सकलनगरोत्कृष्टा श्रीसम्पदमनुभूयेदानीमिहैव जन्मनि सकलनगरोत्तमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद्दुःखदौर्मनस्यं प्रत्यनुभवामीति ।

२२४,५ - २२७,२२८
[८७] ताञ्च तथा दुःखपरिपीडितां रुदन्तीमालोक्य सा प्रेष्यदारिका रोदितुं प्रदत्ता । हा कष्टमिहैव जन्मनि सार्थवाहपत्नी काशिशूक्ष्मातिविचित्रां वरधारणी विविधसुरभिगन्धकुसुममालाविभूषितगात्री । नैकसुगन्धद्रव्ययोजितमुखवासकावासितकपोला अप्सरस इव नन्दनवनोद्यानगता । अन्नपानवस्त्रालङ्कारादिभिर्दासीदासकर्मकरपौरुषेयसुहृत्सम्बन्धिबान्धवादीन् यथार्हं सम्विभज्य_ इदानीमिहैव जन्मनि उद्धृतशिरस्का मलपटलदिग्धगात्री क्षुद्दुःखादिदुःखेन परिशुष्कसर्वगात्रावयवा सटितसाटकात्यन्तमलिनेन खण्डचोटकेन यूकाशतनिकेतभूतेन प्रच्छादितकटिप्रदेशा सकलनगराधमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद्दुःखदौर्मनस्यं प्रत्यनुभवत्यहो भाग्यविपर्ययः । अहो चञ्चला भोगसम्पदः । अहो कर्मणां वैचित्र्यमित्याह च ।

पटंशुकादीन् प्रावृत्य सर्वालङ्कारभूषिता ।
अप्सरा इव या पूर्वमिदं रथ्यामुखङ्गता ।१।
तदेवं साम्प्रतं याता सैव भाग्यविपर्ययात् ।
निवास्य मलदग्धाङ्गी सटितं खण्डचोटकम् ।२।
देवकन्येव या पूर्वं पुंसां नेत्रामृतं ह्यभूत् ।
प्रेतीं वा सांप्रतं दृष्ट्वा तामेवोद्विजते मनः ।३।
या पूर्वन् धनसम्पत्त्या नगरस्योत्तमाभवत् ।
कृपणानामपि गता सैवाद्यात्यन्तहीनताम् ।४।
परिभुक्तवती हृष्टा या महासम्पदं पुरा ।
इमामद्य दशां प्राप्य सैव शोचति दुःखिनी ।५।
अहो संसारदौरात्म्यमहो सम्पदनित्यता ।
यदेवं सुखिता भूत्वा दुःखभाजनताङ्गतेति ।६।

२२८,१ - २३१,५
[८८] ततः सार्थवाहपत्नी तया प्रेष्यदारिकाया सह अनयानुपूर्व्या परगृहेषु भृतिकया कर्म कर्तुमारब्धा । विरूपस्य च कुमारस्यापुण्याधिपत्येन प्रातिदिवसमपचीयामानं मूल्यं लभते । यावदपरेण समयेना सूर्यास्तं दिवसं कर्म कारयित्वा न किञ्चिल्लभ्यते । यावत्कर्मऽपि न कश्चित्कारयति । यावत्सार्थवाहपत्नी तत्या प्रेष्यदारिकया सह सञ्जल्पं कर्तुमारब्धा । अपीदानीं कर्मापि न कश्चित्कारयति । सर्वथा भिक्षामटाम इति । ते मल्लकमादाय भिक्षामटितुमारब्धा । यदा च विरूपः कुमारः पर्यटितुं समर्थो जातः तदा तस्य मात्राभिहितं पुत्र त्वमिदानीं स्वयमेव भिक्षामटित्वा भुङ्क्ष्वेति । तया तस्य मल्लको दत्तः । स तं मल्लकमादाय वीथीमवतीर्णः । तञ्चातिकृष्णं विरसच्छविमत्यन्तविरूपमष्टादशभिरवलक्षणैर्विदूषितगात्रमवलोक्य लोकोऽत्यन्तविमुखो जातोऽधोमुखः प्रक्रामति । स येषां गृहद्वारं गच्छति ते तस्य तदतिविरसं कायाद्गन्धमाघ्राय सहसैव नाशापुटद्वयं पिधाय काष्ठपाषाणशर्करादिभिस्ताडयित्वा निष्काशयन्ति शीघ्रमस्माद्गच्छेति । स जङ्गम इव नगरविस्तारजम्बाले यत्र यत्र गच्छति तत्र तत्र काष्ठपाषाणशर्करादिभिस्ताडयित्वा निष्काश्यते । सैकभिषामप्यलब्ध्वा काष्ठपाषाणशर्करादिभिस्ताडितस्तेन मल्लकेन भग्नेन क्रन्दमानो मातुरन्तिकमागत्य भृशतरमन्युमान् भूत्वा विक्रोष्टुमारब्धः । ततः सा तं दृष्ट्वोद्विग्ना उरसि प्रहारं दत्त्वा कथयति ।

हा कष्टं कस्य ते पुत्र अपराद्धन् तु किं भवेत् ।
कृपामपास्य येनैवं प्रहृतं त्वयि दुःखिते ।१।

ततो विरूपः कुमारः सस्वरः प्ररुदन्नुवाच ।

येषां येषां गृहद्वारमहं गच्छामि याचितुम् ।
ते ते कठल्लपाषाणैः काष्ठाद्यैस्ताडयन्ति मामिति ।२।

२३१,५ - २३४,२३५
[८९] तच्छ्रुत्वा सार्थवाहपत्नी विरूपं कुमारं कण्ठे परिष्वज्य सस्वरं प्ररुदन्ती प्रोवाच ।

नूनं कृतं त्वया घोरं पापं पुत्रान्यजन्मषु ।
भृशन्निराधोऽपि येनैवं ताड्यसे परैः ।१।

धिक्कष्टं भोः ।

इममत्यन्तविरसं सौख्यविवर्जितम् ।
दीनं याचन्तमालोक्य कृपोत्पन्ना न चेतसि ।२।
हा हतास्मि विनष्टाहं केन ते पुत्र मल्लकः ।
भग्नो भग्नशरीरेण भिक्षामात्रोपजीविनः ।३।
पित्रा मात्रा विमुक्तस्य मुक्तस्य च गृहाश्रमात् ।
केन पुत्र दयां हित्वा तव भग्नोऽद्य मल्लकः ।४।
उत्सन्नसर्वतन्त्रस्य वर्जितस्य सुहृज्जनैः ।
मित्रन्नाथो गुरुश्चैव भग्नस्ते केन मल्लकः ।५।
हा पुत्र केन वा वीर्यं त्वयि दर्शितमातुरे ।
दीने च हा हतोऽसि पुत्रक हतः पूर्वकर्मणा स्वेन ।६।
हा पुत्र मृदु शूरः कः कस्य कृपा नावगाहतेहृदयम् ।
पाषाणोपलक्ठिनं हृदयं कस्य कथय मेऽद्य ।७।
हा कथं त्वां पराहन्तुं दीनं मुखशतैर्हतम् ।
भिक्षामटन्तं दुःखार्तं लोकस्योत्सहते मनः ।८।
क्षुत्पिपासापरिक्लान्तं सर्वसम्पद्विंवर्जितम् ।
रोगदुःखाभितप्तं हा हतं को हन्तुमुद्यतः ।९।
कृपणं दीनवदनं रुदन्तं क्षुतप्रपीडितम् ।
संशुष्ककण्ठं दृष्ट्वाद्य कृपा केन कृता न ते ।१०।
ताडितोऽसि कथं पुत्र जातिगर्वमदाकुलैः ।
रुजाभिभूते केनाद्य कृपा त्यक्तातिदुःखिते ।११।
हा त्वया यत्क्षुधार्तेन भिक्षया समुपार्जितम् ।
स्तोकमन्नं तदप्यद्य श्वभिः काकैश्च भक्षितम् ।१२।
हा पुत्र मन्दभाग्याहमधुना किं करोमि ते ।
कृतपूर्वेण पापेन विधात्रानिष्टकर्मणेति ।१३।

२३५,१ - २४४,२
[९०] एवं साऽनेकप्रकारमात्मननमनुशोचन्ती तस्यैव खण्डाववरकस्याग्रतस्तं पुत्रं विरूपं रुधिरधारावशिक्ताङ्गं परिष्वज्यातिबहुसङ्कारशर्करामेध्यस्थाणुकण्टकान्वितायां भूमौ निषाद्य शनैः शनैः पाणिना मदयितुमारब्धाः । यावत्सा वीथीमध्येन गच्छतः पश्यत्यनेकान् श्रेष्ठिपुत्रान् सार्थवाहपुत्रांश्चान्यांश्चोत्सदान् ब्राह्मणगृहपतीन् काशिकदुकूलकोटम्बककौशेयसूक्ष्मातिमहार्हविचित्रवस्त्रहर्षकटककेयूराङ्गदकुण्डलहारार्द्धहारविचित्रालङ्कारसमलङ्कृतशरीरान् विविधविकचसुरभिकुसुमकलापविभूषितविग्रहांस्तांश्चात्मीयमनतिकष्टामवस्थामालोक्य तञ्च विरूपं पुत्रं तथातिदीनवदनं दीर्घमुष्णञ्चाभिनिश्वस्य साश्रेक्षणातिदीनैर्वचोभिरुच्चैं प्रोवाच ।

सम्पन्नैकसताकीर्णे रत्नैः सागरसन्निभैः ।
कुले सुविप्रुले भूत्वाप्यनुभूय सुखं परम् ।१।
विपत्तिभागिनौ जातौ सङ्कारोदरवासिनौ ।
सुकृच्छ्रेणापि यावावां नाप्नुवोऽन्नं बुभुक्षितौ ।२।
शोकार्णवं दुःखजालोर्मिभीमं सन्तापनक्रोग्रशताभिकीर्णम् ।
हा हा हता वेति विमुक्तनादं दारिद्रतोयौघनिधिं प्रविष्टौ ।३।
विपत्तनानक्रसहस्त्रसंकुलं विपत्तिभीमोर्मितरङ्गचञ्चलाम् ।
महारुजाविद्धभयप्रचण्डां नदीं हि दारिद्रमयीं प्रपन्नौ ।४।
दुःखोपलव्याधिखरावकीर्णं सन्तापसिंहध्वनिपूर्णकुञ्जम् ।
शोकाण्डजावासशताभिकीर्णं दारिद्रदुःखालयमभ्युपेतौ ।५।
नूनं पुरा साधुजने न दत्तं दानं प्रमादस्खलिताशयाभ्याम् ।
दीनाविदानीमिह मन्दभाग्यौ पश्याव यद्दृप्तमुखानि नित्यम् ।६।
प्रायेण याचनकायाचनकं न दत्तं क्लीबेसु भाग्यरहितेषु विमोहिताभ्याम् ।
आवासमात्रविकलावपि येन जातौ क्लीबौ यतो व्यसनमुग्रतरं प्रपन्नौ ।७।
नूनं पृथिव्यां गुरुसम्मतान् यान् संप्राप्य सत्कृत्य विमानितास्ते ।
येनाधुनावान् तु विमाननीयौ जातौ जनास्याद्य विपत्तिभाजौ ।८।
ताडिता बहवो नूनं पूर्वजन्मसु संयता ।
येनावान् ताडयत्येष जनः पाषाणलोष्टकैः ।९।
परिभाषापथं नीतो नूनं गुरुजनः पुरा ।
यदेवं परिभवः कष्टमनुजातो सुदारुपः ।११।
अतिथिभ्यो न दत्तानि आवाभ्यां पूर्वजन्मनि ।
वस्त्राणि येन वासांसि न भवन्त्यधुनावयोः ।१२।
रोदनानादबहुला बहवः कारिता जनाः ।
येन बन्धुविहीनौ हि चिरं रोदिव दुःखितौ ।१३।
चित्रसंव्यानसंवीतं न दत्तं शयनं पुरा ।
शर्करोपलसंकीर्णे स्वपिवो येन भूतले ।१४।
आसनानि विचित्राणि न च दत्तानि साधुषु ।
आसनं पृथिवी येन बहुकण्टसङ्कटा ।१५।
पूर्वं नोपानहौ दत्तौ न च यानं सुखावहम् ।
येन वा कण्टकाकीर्णे विचरावो महीतले ।१६।
आवासमत्स्रतया खलु नैव दत्तं प्रायेण चार्थिनि जने गृहवासमात्रम् ।
उग्रांशुपङ्क्तिपरिराजितमध्यभागं संकारकूटमिह येन वयं प्रपन्नाः ।१७।
संशुष्ककण्ठपरिशुष्ककपोलवक्त्रान् पानाभिलाषमनसः समुपदीक्ष्य पूर्वम् ।
नूनन्न दत्तामिति तेषु जालं सुशीतं येनाधुना वयमतीव विशुष्कवक्त्राः ।१८।
नैव्ž_अन्नमथिर्नि जने कृपणे प्रदत्तन्ं न ज्ञातयो न च सुहृन्न च बन्धुवर्गाः ।
सत्कृत्य वान्नविधिना परिभोजिताश्च तेनेह भक्ष्यरहितौ विपरिभ्रामवः ।१९।
आरोषिताः परहितप्रतिपत्तिदक्षा नूनं भवान्तरगतैः सुबहुप्रकारम् ।
येनेह साम्प्रतमपि तु इतरेऽपि लोके आक्रोशभाजनपरत्वमुपागताः स्मः ।२०।
आवाभ्यां बहवो नूनं जातिगर्वमदाश्रयात् ।
ताडिता गुणवन्तोऽपि जाता येनाधुना खराः ।२१।
संसारसागरे चेतः सर्वव्याधिभयापहम् ।
भैषज्यं न पुरा दत्तं येन रोगाभि पीडितौ ।२२।
न स्नापिता पितृवयस्यजना न माता आप्यपिता न गुरवो न च दीनलोकः ।
आस्नानपानरहितौ विधिना प्रजातौ येनेह दुःखशतभाग्यहतावनाथौ ।२३।
क्षुतपिपासपरिक्लान्तौ भक्ताच्छादनवर्जितौ।
रोगदुःखाभिसन्तप्तौ को न्वावां पालयिष्यति ।२४।
कस्य दासौ भवावोऽद्य कस्य वा परिचारकौ ।
यो नोऽद्य जीवितं दद्यादस्मिन् लोके सुदुर्लभम् ।२५।
अहो दुःखं हि दारिद्रयमहोऽप्यकृतपुण्यता ।
एवं स्फीतेऽपि नगरे नाथो नास्ति यथावयोरिति ।२६।

एवमन्यथा च सा सार्थवाहपत्नी क्षुधापरिगतहृदयात्मानमनुशोचन्ती तिष्ठति ॥

२४४,३ - २४६,४
[९१] कर्णश्च सार्थवाहो महासमुद्राद्भग्नयानपात्रः कथञ्चित्फलकमासाद्य दारकसहायो जलात्स्थलमुत्तीर्यायातः । महता कृच्छ्रेण भिक्षामटन् बन्धुमतीं राजधानीमागतः । स तत्र बहिः क्षेत्रके रात्रिं वासमुपगतः । तत्र चान्यतमो भृतकपुरुषः क्षेत्रपालकस्तेनासौ प्रत्यभिज्ञातः । तस्यैतदभवदेष सार्थवाहोऽतिक्षामशरीरो विपन्नसर्वस्वन् द्रविणसञ्चयो दारकसहायोऽभ्यागतः । तत्कथमस्य गृहप्रवृत्तिमारोचयिष्याम्यपि तु स्वयमेव ज्ञास्यतीति विदित्वा तेन तस्य हस्तप्रक्षालनोदकं दत्वा माषपूपवद्वयमनुप्रदत्तम् । ततः कर्णेन सार्थवाहेन एकं माषपूपकं स्थापितम् । मा रिक्तहस्तको गृहं प्रवेक्ष्यामीति विदित्वा दारकस्य हस्ते स्थापितम् । एवं त्वर्द्धार्द्धिकं कृत्वानाहारशरीरेण तेन दारकेन सार्द्धं भक्षितम् । अथापरस्मिन् दिवसे कर्णः सार्थवाहस्तं माषपूपकमादायातिपरमरुक्षक्षामशरीरोऽतिमलिनैकशाटकमात्रसारो बन्धुमतीं राजधानीं प्रविश्य गृहं संप्रस्थितः ॥

२४६,४ - २४७,२
[९२] विरूपोऽपि प्रभातकाल एव क्षुत्तृष्णापरिक्षामवदनः किं मया मन्दभाग्येनात्र तिष्ठता जीवता वा प्रयोजनम् । गच्छाम्यात्मानं प्रघातयामीति तां मातरमुवाच । अम्ब गच्छामि पैतृकमुद्यानमित्युक्त्वा तदुद्यानं संप्रस्थितः ।

२४७,१ - २५१,५
[९३] कर्णोऽपि सार्थवाहः स्वगृहसमीपङ्गतो यावत्पश्यति चिराद्धवस्तं शान्तालयवर्णं मृत्तिकापुञ्जशेषं दृष्ट्वा च पुनः किमिदमिति विचिन्त्य तं खण्डाववरकं प्रवृष्टो यावत्पश्यति तां भार्यां तस्मिन् खण्डाववरके दास्या सार्द्धमवस्थितामतिक्षाम दीनवदनां मलिनखण्डचोटकावच्छादितकटिप्रदेशां मलपटलदग्धाङ्गीं दृष्ट्वा च पुनः हा किमिदमित्युक्त्वा मूर्च्छितः पृथिव्यां निपतितः शीतेन वायुना संस्पृष्टश्चिराच्च चेतनां लब्ध्वा तत्या भार्यया सार्द्धं किमिदमित्युच्चैर्विक्रोष्टुमारब्धः । ततो भार्यासकाशादुपलब्धवृत्तान्तो दीर्घमुष्णञ्चाभिनिश्वस्य कथयति । नूनं मया दक्षिणीयक्षेत्रे न काराः कृता येन मे ईदृशी विपत्तिस्। तत्किमिदानीमहामधुना करिष्यामि कं शरणमनुव्रजामि । कस्य मुखावलोकको भविष्यामि । को लोके हीनदीनानुकम्पकः । कमागम्याहमिदं दारिद्रमहासमुद्रमुत्तरिष्यामि कमागम्य विपत्तिपङ्कं प्रक्षालयिष्यामि कमागम्येमामनन्तां शोकनदीमुत्तरिष्यामि । कमागम्येमं दारिद्रशत्रु पराजेष्ये कमागम्येमां सर्वदुःखमातृकां दारिद्रलतामुत्पाटयिष्यामि कमागम्येमं दारिद्रवृक्षमुन्मूलयिष्यामि । कमागम्येमं क्षुदुःखदंष्ट्राकरालवदनं हाहाकारभैरवमहारावं दारिद्रमहाराक्षसं निर्वासयिष्यामि । कमहमागम्येमं दारिद्रमहामल्लं पराजिष्ये । कमागम्येमं क्षुत्तृष्णादिप्रदीप्तज्वालं दारिद्रवर्द्धनं निर्वापयिष्यामि । कमहमागम्येमं
विषदावलिप्तदारिद्रमहाहस्तिनं दमयिष्यामि । कमहमागम्येममनेकदुःखविषमविषस्वासं दारिद्रमहाप्रन्नगं निर्विषीं करिष्यामि । कमागम्याहमिमं सर्वस्यापहारिणं दारिद्रमहावीरं निवारयिष्यामि । कमागम्याहमिमं सर्वदुःखदुःस्वभावं दारिद्रनिगडं भेत्स्यामि । कमहमागम्येमं दारिद्रचारकमतिक्रमिष्यामि । कमहमागम्येमं दारिद्रकपाटं पाटयिष्यामि । कमहमागम्येमं दारिद्रान्तकं निरासीकरिष्यामि । कमहमागम्येमं विषादौघं प्रतरिष्यामि । कमहमागम्येमं दारिद्रमहाकान्तरं निष्तरिष्यामीत्येवमनेकप्रकारकरुणदीनविलम्बितैरक्षरैर्विक्रोशति स्म ।

२५१,५ - २५९,२
[९४] अत्र चान्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम् । धर्मतां खलु बुद्धानां भगवतां शरदरुणकरनिकरविसरपरिखचितपरिकपिलमणिगुणतरुणदिवसकरसकलामलकिशलयकलापकुवलयमरकतेन्दुकोमलायुधविमलसौदामिनीवलयघृतधाराभिषेकसुसमृद्धधारानलज्वालाकलापमङ्गलयूखकिरणबहलामिततिमिरनिकरविजर्जरीकृतजरामरणभवपञ्जराणामनेककुशलशतसमाधानबलभूतकुमुदशङ्खकुदामलतारहारतुषारमृणालामलकरिदशनसंकलितजाम्बूनदाचविकटकोटकोटिस्थितदशशतनयनरुचिरचापवक्रीकृतविसृतविमलकरभासुरानन्तगगनैकशतनयनशशाङ्कधवलमृदुस्निग्धप्रदक्षिणव्यामप्रभामणिनिबिडभ्रुवद्वयोद्गीर्णोर्णानां विराजितप्रबुद्धनवजलजसदृशवदनानाम् । त्रिभिः कल्पासंख्येयैः करचरणनयनवदनौत्तमाङ्गस्वमांसरुधिरबालाब्जसदृशवदनैकपुत्रदारगजतुरगरथालङ्कारवस्त्रान्नासनशयनमणिकनकरजतसर्वस्वराज्यादिपरित्यागसंवर्धितानुत्तरबोधिसंभाराणां निसङ्गानामनङ्गबलप्रमथनादमलशरत्कालेन्दुमण्डलावदातस्फुट्यशोनिकरसहस्रमालिनामुदयाचलेन्द्रोद्गीर्नचन्द्रमरीचिलताजटिलमण्डलतरुणदिवसकरगभस्तिसंघातजलदविनिःसृततडिद्गुणसहस्रसुरपतिद्विरददन्तकुन्ताघातभिन्नकनकगिरि- रुचकक्षुभितपातालक्षीरोदतरलाविरलपल्लवेन्दुकार्मुकशिखिशिखाखरमकरतमणिदलेन्दुसकलकमलदलफणीन्द्रोदरवैदूर्यशिलोत्कृष्टचम्पकोत्करामलतलप्रभामण्डलावगुण्ठितविग्रहाणां स्वयमधिगतज्ञानानलभस्मीकृताशयगहनानां प्रणिपतितसुरसहस्रचरणोन्मौलिविलग्नमणिकनकमुञ्जरीप्रसेकान्तरञ्जितचरणारविन्दानां तरुणगजतालुसान्द्रालक्तकपद्मसरसन्ध्याभ्रपुञ्जशोककुसुमभस्तस्तबकताम्रचरणानाम् । तनुताम्रनखचन्द्रिकाहासविमलपादपद्मानाम् । उत्पाटिततृष्णालतानां विध्वस्ताशेषमोहान्धकाराणाम् । सकलजगद्बन्धुभूतानाम् । निष्कारणपरमवत्सलस्वभावानाम् । अचिन्त्यज्ञानगोचराणाम् ।
उद्गृहीतमहारागोरगविषाणं दुष्करशतसहस्रोपात्तोत्तमगुणसमूहसम्भराणाम् । पुण्यसम्भारोपार्जितप्रज्ञाबलोद्धृताशेषक्लेशतरुमूलानाम् । ब्रह्मेन्द्रोपेन्द्रानलनिलयमवरुणकुबेरशानाद्भिर्देवैरभिष्टुतशासनानाम् । महाकारुणिकानाम् । लोकानुग्रहप्रवृत्तानाम् । एकारक्षाणामद्वितीयानाम् । अद्वयवादिनाम् । शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानाम् । चतुरोघोत्तीर्णानाम् । चतुऋद्धिपादचरणतलसुप्रतिष्ठितानाम् । चतुर्षु सङ्ग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानाम् । षडङ्गसमन्वागतानाम् । षट्पारमितापरिपूर्णानाम् । सप्तबोध्यङ्गकुसुमआढ्यानाम् । अष्टाङ्गमार्गदेशिकानाम् । नवानुपूर्वविहारसमापत्तिकुशलानाम् । दशबलबलिनाम् । दशदिक्समापूर्णयशसाम् । दशशतवशवर्तिप्रतिविशिष्टानाम् । त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयन्ति ।

२५९,२ - २६१,३
[९५] को हीयते । को वर्द्धते । कः कृच्छ्रप्राप्तः कः शङ्कटप्राप्तः । कः सम्बाधप्राप्तः । कः कृच्छ्रशङ्कटसम्बाधप्राप्तः । कोऽपायनिम्नः । कोऽपायप्रवणः । कोऽपायप्राप्तः । कोऽपायप्राग्भारः । केऽद्य मया संसारमहासमुद्रादुद्धर्त्तव्यः । कोऽद्य मया क्लेशमहारक्षसावलुप्यमानो मोचितव्यः । कोऽद्य मया दारिद्रपन्नगैरुपद्रूयमाणः परित्रातव्यः । कोऽद्य मया द्वेषानलसन्तप्यमानमूर्तिः सद्धर्मवत्षेणाभिषिक्तव्यः । कोऽद्य मया महामोहान्धकारान्तरप्रविष्टसन्तानो तिमिरतरालोकमनुत्तरं समाधिवरशिखरमारोपयितव्यः । कस्याद्य मया सर्वदुःखक्षयकरं सन्मार्गाष्टाङ्गभैषज्यमुपदेष्टव्यम् । कस्याद्य मया दारिद्रकपाटपुटानन्तपाटनं वक्तव्यम् । कस्याद्य मया ज्ञानतिमिरावष्टब्धनयनस्य ज्ञानाञ्जनमनुप्रदेयम् । कोऽद्य महानिगडबबन्धनान्मोचयितव्य इत्याह च ॥

अप्येवातिक्रमेद्वेलां सागरो मकरालयः ।
न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेतित्य् ।१।

२६१,३ - २६२,५
[९६] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः सकलमिमं लोकमवलोकयति स्म । अद्राक्षीद्भगवां कर्णं सार्थवाहमतिदरिद्रव्यसनपङ्के निमग्नमतीवात्मानमनुशोचन्तं दृष्ट्वा च पुनर्महाकरुणासञ्चोद्यमानहृदयः पात्रचीवरमादाय बन्धुमतीयकाद्दावान्निष्क्रमय बन्धुमतीं संप्रस्थितः । बन्धुमत्यां राजधान्यां विपश्यिनं सम्यक्सम्बुद्धं पिण्डाय प्रविशन्तमवलोक्य राजामात्यश्रेष्ठिब्राह्मणगृहपतिपौरजनपदसार्थवाहाः । अयं भगवान् विपश्यी सम्यक्सम्बुद्धः पिण्डाय प्रविशतीत्यहमेवेदं भगवतः पात्रं पूरयिष्यामीत्यनेकानि प्राणिशतसहस्राणि खादनीयभोजनीयं गृहीत्वावस्थितानि ।

२६२,५ - २६५,२
[९७] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः कर्णस्य सार्थवाहहस्यानुकम्पया वीथीमध्येन प्रशान्तमतिरभिनवोदितदिवसकराधिकतररुचिरदीप्ततनुः सन्ध्याभ्ररेखावगुण्ठित इव शकलशरचन्द्रमाः कल्पद्रुम इव सुरपुरोपवनादमृतविद्रुमलतालङ्कृत इव सुवर्णयूपः काञ्चनस्थालोपनिहित इव तैलप्रद्योतः । समुद्गतानेकविविधरत्नाङ्कुरखचित इव रत्नपर्वतः कनकमलरेणुधूसारित इव राजहंसः । ऐरावत इव मन्दाकिनीकम(६)लरेणुविभूषितः सिंह इव मनःशिलाधातुदिग्धः सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानमूर्तिरिव पादाभ्यामतिपरमसुहृतरथचरणसुरुचिररचिततलाभ्यां प्रतिनवविकचकमलसुकुमारकोमलतलाभ्यां श्रीवत्सस्वस्तिकनन्द्यावर्त्तवर्धमानमीनविभूषिततलाभ्यां तरुणशशाङ्कबिम्बताम्रसुपरिगतार्चिसुरुचिरनखाभ्याम् । सुनिर्मलैकप्रकाशसुनिविष्टदर्शनीयुतुङ्गनखाभ्यां नखतिलकपङ्क्तिखचित्ताप्रतिमसुजातदीर्घवृत्तायतां गुलिभ्यां मृदुसुकुमारतूलसंस्पर्शपार्ष्णिभ्यां श्रिया देदीप्यमानो गगनतल इव भास्करः सकलमिदं दिग्मण्डलमवभासयन् कर्णस्य सार्थवाहस्य तं खण्डाववरकमनुप्राप्तः ।

२६५,२ - २६८,२
[९८] ततो विपश्यिना सम्यक्सम्बुद्धेन प्रतप्ततरकनकरसरागप्रचुरा । घृताहुतिवर्षासेकादीपिताननप्रफुल्लकिंशुक्_अआशोकरक्तोत्पलकुरण्टकरवीरसन्ध्याभ्रचम्पककुसुम्भमण्डगजतालुपद्मरागारुणतडित्सहस्रातिरेका प्रभा समुत्सृष्टा । यया सहसैव खण्डाववरकं सान्तर्ब हिर्विलीनकनकावभासं संवृत्तम् । तदालोच्य कर्णः सार्थवाहः किमिदमिति समुत्थितः । पश्यति भगवन्तं विपश्यिनं सम्यक्सम्बुद्धं द्वात्रिङ्शम्महापुरुषलक्षणालङ्कृतमूर्तिं मूर्तिमन्तमिव धर्मं हव्यावसिक्तमिव हुतवहम् । तप्तकनकरसरागकर्णिकारकुङ्कुमकुसुम्भहरितालमनःशिलारक्तोत्पलशरत्सन्ध्यानुरञ्जितजलदशिखिवलाहमेचककाञ्चनराजपट्ठिङ्गुलकातिमुक्तकुरण्टकप्रभामण्डलावगुण्ठितविग्रहं दृष्ट्वा च पुनः कर्णस्य सार्थवाहस्यातिमहाप्रसादो जातः ॥ किमहं भगवतेऽनुप्रदास्यामीत्येवमात्मानो विभवमवलोकयन् पश्यति माषपूपकमेकं स तं गृहीत्वा पत्न्याः कथयति भद्रे मया माषपूपकोऽयं मा खल्वहं रिक्तहस्तो गृहं प्रवेक्ष्यामीत्यानीतः । अयञ्च भगवान् विपश्यी सम्यक्सम्बुद्धः परमदक्षिणीयो हीनदीनानुकम्पकोऽत्र च स्वल्पमपि दानबीजमुप्तं दारिद्रव्यसनोन्मूलकं भवति । तदहमिमं माषपूपकं भगवतेऽनुप्रयच्छामीति । सा कथयत्यार्यपुत्र शोभनमेवं क्रियताम् । एतदपि तावत्कुशलमूलं संसारसुखहेतुभूतं भवतीत्य्

२६८,२ - २७०,५
[९९] एवमुक्ते कर्णः सार्थवाहः संलक्षयति । परीत्तमिमं माषपूपकं कथमहं तादृशोऽस्मिन्नेव पुरे भूत्वा अधुना ईदृशं यदि परीत्तं पश्यातामेव राजामात्यब्राह्मणगृहपतिपौरजनपदसार्थवाहानां भगवतेऽनुप्रदास्याम्यपि तु पत्रे बध्वा दास्यामेवमनभिलक्ष्यो भविष्यामीति विदित्वा तं खण्डाववरकं प्रविश्य पत्त्रं गवेष्टुमारब्धो न किञ्चित्पत्त्रमारागितवान् । अथ सः सार्थवाहः सुतरां सम्विग्नमानसः हा कष्टमीदृशोऽहं मन्दभाग्य इति दीर्घमुष्णञ्चाभिनिश्वस्य सहसैव तस्मात्खण्डाववरकान्निष्क्रम्य महता प्रमादवेगेन तं माषपूपकं विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपादितवान् । प्रतिपाद्य च पादयोः प्रणिपत्य प्रणिधानं कर्तुमारब्धोऽनेन अहं भगवन् कुशलमूलेन देयधर्मपरित्यागेन इत एव जन्म प्रभृति मा कदाचिदेकदिवसमपि दरिद्रः स्याम् । आढ्यतरः स्याम् । परिपूर्णजीवितोपकरणः । समनन्तरमेव कर्णस्य सार्थवाहस्य सहसैव विपश्यिनः सम्यक्सम्बुद्धस्य पादयो निपतत मात्रस्यैव याऽतिपरमविरूपा क्षामता सान्तर्हिता सैव पूर्वका वर्णनिभाभिनिवृत्ता ।

२७०,५ - २७२,२७३
[१००] अथ कर्णः सार्थवाहः प्राणिधानं कृत्वोत्थितो विपश्यी सम्यक्सम्बुद्धस्तत एव प्रतिनिवृत्य बन्धुमतीयं दावं गतोऽथ कर्णः सार्थवाहस्तैर्बन्धुमतीयकैः श्रेष्ठिभिः सार्थवाहैश्च प्रत्यभिज्ञातस्तत्रैकः सार्थवाहस्तान् पौरिकानिदमवोचत् । न वयं भवन्तः कर्णं सार्थवाहमवसीदन्तमप्युपेक्षामहे पटञ्च प्रसार्याह ॥ भवन्तः शक्यं बहुभिरेकः समुद्धतुं न त्वेकेन बहवस्तद्येन वात्र यत्परित्यक्तव्यं तदस्मिन् पटेऽनुप्रदीयतामित्युक्ते हर्षकटककेयूराङ्गदकुण्डलहारार्द्धहाराङ्गुलीयकान्यनेकालङ्कारशतसहस्राण्यनुप्रदत्तानि । अनेकानि च काशिदुकूलकोटाम्बकौशेयापरान्तकशूक्ष्मातिमहार्हविचित्रवस्त्रयुगलशतान्यनेकानि तस्य तस्मिन्नेव क्षणे वस्त्राणामलङ्काराणाञ्चातिमहान् राशिः सम्वृत्तः । ततः कर्णः सार्थवाहस्तां विभूतिमवलोक्य पत्न्याः कथयति । भद्रे पश्य सुक्षेत्रेदानवीजस्याङ्कुरः प्रादुर्भूत इति । सापि प्रीतिप्रामोद्यजाता विपश्यिनं सम्यक्सम्बुद्धं नमस्यन्ती तानि वस्त्राणि अलङ्काराणि चाववरकं प्रवेशयितुमारब्धा ।

२७३,१ - २७४,२
[१०१] विरूपोऽपि दारकस्तत्पैतृकमुद्यानं प्रविश्य क्षुस्द्दुःखोपतप्तमानसस्तामात्मीयां परमविरूपतामेव पुनः पुनः संशोचयन् संलक्षयति । किं मया पापकर्मकारिणा परमदुःखभागिनाऽतिविरूपेणाधन्यदर्शनेन जीविता प्रयोजनं सर्वथा प्रघातयाम्यात्मानमित्युद्विग्नमनः सहसैव पाटलावृक्षस्याग्रशाखामारुढो वृक्षशाखा च भग्ना सहसैव सार्द्धं वृक्षशाखया पतितो वेदनार्त्तश्चावतिष्ठते ।

२७४,२ - २७८,३
[१०२] अत्र चान्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टम् । अविदितमवज्ञातमद्राक्षीद्विपश्यी सम्यक्सम्बुद्धो दिव्येन बुद्धचक्षुषा विशुद्धेनातिक्रान्ता मानुष्यकेन विरूपदारकं तथा दुःखितं दृष्ट्वा च पुनर्महाकरनीयो सञ्चोद्यमानो ऋद्धया तत्स्थानं गत्वा स्वशरीरप्रभामुत्सृष्टवान् । कल्पशतसम्भृताश्च भगवतो मैत्र्यांशव उत्सृष्टाः ॥ यैः स्पृष्टमात्रस्यैव विरूपस्य या शरीरे दुःखवेदना सा प्रतिविगता तच्च क्षुत्तृषदुःखं प्रतिप्रस्रब्धम् । सहसैवोत्थितः पश्यति विपश्यिनं सम्यक्सम्बुद्धं कल्पकोटिनियुतशतसहस्रदुर्लभदर्शनमुत्तप्तं द्वात्रिङ्शन्महापुरुषलक्षणद्योतितविग्रहं सह दर्शनाच्चास्य भगवतो विपश्यिनः सम्यक्सम्बुद्धस्योपरि प्रसादो जातः । तेन च हरिद्रारक्तकं हस्तमात्रं वस्त्रखण्डं प्रावृतमासीत्तेन तत्प्रसादाविष्टेन शरीरादवतार्य महता प्रसादवेगेन सहसैव विपश्यिनः शास्तुरुपरि निक्षिप्तमेकञ्च कर्णिकारकुसुमन् तच्च भगवता विपश्यिना तथागतेनार्हता सम्यक्सम्बुद्धेन तथाधिष्ठितं यथा तद्वस्त्रखण्डकं तथागतस्य कायप्रमाणिकं भूत्वा कायं प्रतिच्छादितवान् । कर्णिकारकुसुमञ्चोपविशकटचक्रमात्रं भूत्वा च्छत्त्रवदवस्थितम् । तच्च दृष्ट्वा विरूपस्य दारकस्यातिमहान् प्रसादो जातः । स महता प्रशादवेगेन विपश्यिनः सम्यक्सम्बुद्धस्य पादयोर्निपत्य महता स्वरेण प्रणिधानं कर्तुमारब्धः ।

अनेन द्विपदां श्रेष्ठ दानेनेह विरूपताम् ।
अद्य प्रभृति संत्यज्य लभेयाहं सुरूपताम् ।१।
सुवर्णवर्णवासोऽति हैमवर्णैर्विगुण्ठितः ।
चन्दनोत्पलगन्धश्च कायाद्वक्त्राच्च मे भवेत् ।२।
सुवर्णवर्णसंकालः सर्वलोकमनोहरः ।
सर्वामयवि निर्मुक्तः सर्वशास्त्रार्थपारगः ।३।
सर्ववाचाथसंयुक्तः सर्वानर्थविवर्जितः ।
सर्वोत्तमः सर्वदर्शी सर्वाकारविभूषितः ।४।
सर्वार्थसिद्धः सम्बुद्धो भवेयं सत्त्ववत्सलः ।
सर्वामलगुणः श्रीमान् सर्वद्रव्यान्वितः सुखी ।५।

२७८,३ - २८०,२
[१०३] अथैतत्प्राणिधानकरणसमकालमेव विरूपस्य दारकस्य सहसैव सा विरूपतान्तर्हिता सुरूपः सम्वृत्तो दर्शनीयः प्रासादिकः सुवर्णवर्णगात्रच्छविः सहसैव चास्याकस्मादा काशादागत्य सुवर्णवर्णैर्वस्त्रैः शरीरामाच्छादितम् । महार्हैश्चाङ्गदकुण्डलादिभिरलङ्कारविशेषैर् । देवताभिश्च कर्णिकारोत्पलचम्पकपद्मकुमुदमान्दारकादिकं महत्कुसुमवर्षं पातितम् । दिव्यञ्चन्दनागुरुकुङ्कुमतमालपत्रचूर्णवर्षं प्रमुक्तमेवञ्चोद्घुष्टमहो तथागतावरोपितस्य दानबीजस्य्_इष्ठो विशिष्ठश्चाङ्कुरः समुत्पन्न इति । तेन च दिव्येन पुष्पचूर्णवर्षेण सर्वन् तदुद्यानं जानुमात्रेणौघेनावस्थितमथ भगवान् विपश्यी सम्यक्सम्बुद्धस्तस्मादुद्यानान्निष्क्रम्य बन्धुमतीयकं दावङ्गतः ।

२८०,२ - २८३,२
[१०४] कर्णोऽपि सार्थवाहो भार्यामुवाच । भद्रे सोऽस्माकं पुत्रः क्व गतो यमागम्यास्माकमीदृशी विपत्तिरभूदिति । सा कथयत्युद्यानं गच्छामीति तेन समाख्यातम् । तद्गच्छ शीघ्रं मा स तत्रोद्विग्नमना आत्मानं प्रघातयिष्यतीति । कर्णः सार्थवाहः कथयति । किन्नामासावस्माकं पुत्रः कीदृशो वेति । सा कथयत्यार्यपुत्र परमविरूपदर्शनो विरूपाख्यश्चेति ॥ ततः सार्थवाहस्त्वरितगतिप्रचारतया तदुद्यानं गतः पश्यति च विरूपकुमारं सुवर्णवर्णकायमतिमहार्हसूक्ष्मसुवर्णपीतवस्त्राच्छादितशरीरं सर्वालङ्कारविभूषितमतिमनोहरं दर्शनदेवकुमारमिव परमयाश्रिया देदीप्यमानं दृष्ट्वा च पुनरहो धन्यः सः पुरुषो यस्यायं पुत्रः इत्येवमुक्त्वा तं कुमारमुवाच ॥ दारक कस्य त्वं पुत्र इति । स कथयति कर्णो नाम सार्थवाहस्तस्याहं पुत्र इति । कर्णः सार्थवाहः संलक्षयति । विहेठितोऽहमनेन कुमारेएति विचिन्त्य समभिवृद्धकुतूहलोऽनिमिषमभिवीक्ष्यमाणः पुनस्तं कुमारमुवाच । भोः कुमारः सत्यं कथय कस्य त्वं पुत्र इति विरूपः कथयति किमत्र विचार्यते । सत्यमेवाहं कर्णस्य सार्थवाहस्य पुत्र इति । स कथयत्यहोऽहमनेन कुमारेण सुविडम्बितः कृत इति । मत्वा कथयति । कुमार श्रुतं मयातिविरूप स इति त्वं चाभिरूपः । तत केनोपायेनाभिरूपता तवाभिनिवृत्तेति ॥

२८३,२ - २८७,३
[१०५] विरूपः कुमारः प्रीतिविकसिताक्षो महता स्वरेणोवाच ।

अद्य दारिद्रदुःखाग्निपरितापितचेतसा ।
वृक्षशाखामारुह्य मया ह्यात्मा निपातितः ।१।
पतितश्चाङ्गभङ्गार्तो मूर्छामहमुपागतः ।
निश्चेष्टोऽहं निरुच्छ्वासः क्षणमात्रमवस्थितः ।२।
ततो विपश्यी सम्यक्सम्बुद्धः सत्वानां ह्यनुकम्पकः ।
ममानुकम्पया नाथ उद्यानमिदमागतः ।३।
द्वात्रिंशल्लक्षणधरः सूत्तप्तकनकच्छविः ।
विलीनकनकाभाभिः पूरयन् दिशो दशा ।४।
प्रभया तस्य गात्रं मे स्पृष्टमात्रं सुशीतया ।
प्रह्लादितमिदं सर्वमतुलामृतधारया ।५।
क्षुत्तृष्णापातदुःखञ्च निःशेषमशिवं मम ।
तत्क्षणं प्रशमं यातं चेतनाञ्चाप्तवानहम् ।६।
किमेतदिति सोत्साहमुत्थितोऽहं मुनिन् तदा ।
पश्यामि कान्तमत्यन्तं जनलक्ष्मीनिकेतन ।७।
दृष्ट्वा द्रष्टव्यरत्नं मे तन्नाथं परया श्रिया
विद्योतन्तं दिशः कृत्स्नाः प्रसादो ह्यभवत्पूरा ।८।
ततः प्रहृष्टचित्तेन वस्त्रखण्डलकं मया
हारिद्रारक्तकं क्षिप्तं तस्यैव परया मुदा ।९।
कर्णिकारस्य मे पुष्पं कं तस्यैव सद्यतेः ।
क्षिप्तं तच्चोपरि मुनेः छत्त्रवत्समवस्थितम् ।१०।
तत्रापि हृष्टचित्तेन प्रणिपत्य च पादयोः ।
मया प्रसादजातेन प्रणिधानमिदं कृतम् ।११।
अनेन नाथ दानेन अद्यैवाहं विरूपताम् ।
परित्यज्य सुरूपश्च भवेयं हि भवार्णवे ।१२।
सुवर्णवर्णैर्वस्त्रैश्च हेमपीतैर्विगुण्ठितः ।
चन्दनोत्पलगन्धश्च कायाद्वक्त्राच्च मे भवेत् ।१३।
इत्येतत्प्रणिधानञ्च मया कृतमिदञ्च मे ।
रूपमेवम्विधं वर्णं प्रादुर्भूतन्मनोरमम् ।१४।
महार्हाणि च वस्त्राणि पीतान्यतिमृदूनि च ।
सहसैवाद्य काये मे प्रादुर्भूतानि तत्क्षणात् ।१५।
देवताभिरिदं मुक्तं पुष्पवर्षन्नभस्तलात् ।
चन्दनागुरुचूर्णञ्च तमालतगरादिकम् ।१६।
हाहाकारो महांश्चैव दुन्धुभिश्च मनोहरः ।
नमस्ते भगवन् बुद्ध इति घोष उदीरितः ।१७।
एतत्कृत्वाद्य कुशलं ममेदं रूपमीदृशम् ।
प्रादुर्भूतं मनापञ्च वर्णं काञ्चनसन्निभम् ।१८।
इत्य्

२८७,३ - २८८,३
[१०६] अथैतदुपश्रुत्य कर्णः सार्थवाहः सहसैव सहस्रैः प्रसादकण्टकितसर्वरोमकूपः कृताञ्जलिर्विपश्यिनं तथागतं मुहुर्मुहुर्नमस्यमानः परमप्रीतिसौमनस्य जातः सुरूपं पुत्रमनिमिषमभिवीक्ष्य प्राह । पुत्र आगच्छ गच्छाव इत्यथ सुरूपः कुमारः पितायं ममेत्युत्पन्नबहुमानः पितुः पादाभिवन्दनं कृत्वा स्वागतं तातेत्युक्त्वा पित्रा सार्द्धं गन्तुं संप्रस्थितः ।

२८८,३ - २९०,२९१
[१०७] शक्रस्य देवानामिन्द्रस्याधस्ताज्ज्ञानदर्शनं प्रवर्तते । तस्यैतदभवतयं कर्णः सार्थवाहो भगवति बुद्धे कृताधिकारः तन्नायमर्हति तृणागारे वस्तुमिति विदित्वा विश्वकर्माणं देवपुत्रमामन्त्रयते । गच्छ विश्वकर्मन् कर्णस्य सार्थवाहस्य चतूरत्नमयञ्चतुर्द्वारमर्धाष्टमतलकं गृहमभिनिर्मिमीष्वेति । ततो विश्वकर्मणा शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य तत्क्षणादेव बन्धुमतीराजधानीमागत्य चतूरत्नमयेष्टकस्तम्भसञ्चितमुत्तुङ्गरुचिराट्टालकं गवाक्षनिर्यूहकपोतमालासुविन्यस्ताङ्गाफलकनागदन्तकमत्युच्चार्द्धाष्टमतलकमतिरमणीयतोरणोपशोभितद्वारं शरजलधराभ्रकूटहिमनिकरराशिशिकरमृणालावदातोच्छ्रितच्छत्रध्वजपताकमामुक्तपटुदामकलापं सकलपुरवरोपशोभानिकेतभूतमतिरुचिरकनकमयाभिनवविनिःसृतताम्रचूतपल्लवोपशोभितमुखमष्टाङ्गशीतलाम्बुपरिपूर्णकुम्भोपशोभितद्वारमपरिमितरजतवैदूर्यस्फटिकमुसारगल्वेन्द्रनीलमहानीलादिरत्नपरिपूर्णानेकनिधिसहस्रापूर्यमाणं शेषानर्धद्रव्योपकरणपरिपूर्णं गृहवरमभिनिर्मितम् ॥

२९१,१ - २९८,२
[१०८] अथ कर्णः सार्थवाहो गृहमागतो भार्यया चास्य हृष्टतुष्टप्रमुदितया सौवर्णेन भृङ्गारेणार्घमनुप्रदत्तम् । उक्तश्चार्यपुत्र त्वत्पुण्यानुभावादीदृशः केनापि भवनवरमभिनिर्मितमित्यथ कर्णः सार्थवाहस्तं भवनवरमभिवीक्ष्य परमप्रीतिसौमनस्य जातः सुतरां बुद्धे भगवति उत्पन्नप्रसादोपजनितरोमाञ्चः शिरसि कृतकरपुटाञ्जलिर्नमस्तस्मै भगवते तथागतायार्हते सम्यक्सम्बुद्धायाचिन्त्याचिन्तामणयेऽनुत्तराय पुण्यक्षेत्रायेत्युक्त्वा प्रहर्षपूर्णवदनकमलः प्राह ॥

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्र न्यस्तं मया बीजमद्यैव फलदायकम् ।१।
क्व तत्परीत्तं दानं मे सर्वसंस्काववर्जितम् ।
क्व चेदं रम्यमुत्तुङ्गं हेमरत्नमयं गृहम् ।२।
क्व तत्कुड्यावशेषन्मे गृहं शोकविवर्धनम् ।
क्व चेदमभ्रनिर्मुक्तशशाङ्करपाण्डुरम् ।३।
क्व च तन्मूषिकाकीटच्छिद्रवातायनं गृहम् ॥
क्व चेदं प्रवरानेकरत्नवातायनं गृहम् ।४।
क्व तत्क्रुद्धैः श्वभिर्व्याप्तं कण्टकामेध्यसंकुलम् ।
गृहमेतत्पुरा चित्रं क्व चेदं रत्नसञ्चितम् ।५।
क्व तद्भुजङ्गनिर्मोकप्रलम्बाम्बरसंकुलम् ।
क्व चेदं सूक्षवस्त्रश्रीचित्रचामरलम्बितम् ।६।
क्व तच्छ्वभिरुपनीतं सितास्थिप्रकरं गृहम् ॥
क्वेदं सुरभिसत्पुष्पामुक्तप्रकरशोभितम् ।७।
क्व तच्छोकाश्रुधाराभिः सदासिक्ततलं गृहम् ।
क्वेदं मृगमदामोदवारिसंसिक्तचन्दनम् ।८।
क्व तद्वह्निअशिखाप्लुष्टवायसाशुचितोरणम् ।
क्व चेदं हेमसद्रत्नामुक्ताहारोपशोभितम् ।९।
क्व तद्भग्नैककटकद्वारावरणकं गृहम् ।
क्व चेदं स्फटिकोत्कीर्णं कपाटपुटसंयुतम् ।१०।
क्व तन्मम चिराध्वस्तं खण्डाववरकं गृहम् ।
क्वेदं मणिमयस्तम्भनिर्यूहप्रतिमण्डितम् ।११।
क्व तदाक्रन्दशब्देन समापूरितचत्वरम् ।
क्व चेदं तूर्यनिघोषवीणास्वरसमन्वितम् ।१२।
क्व तत्कपालसंकारराशिपूर्णं गृहं पुरा ।
क्व चेदं रुचिरानेकरत्नराशिचितान्तरम् ।१३।
क्व तत्पातितनिःशेषनागदन्तकबन्धनम् ।
क्व चेदमिन्द्रनीलान्तप्रविष्टस्फटिकं महत् ।१४।
क्व तदासननिर्मुक्तमिष्टकैकपरायणम् ।
क्व चेदं चित्रपट्टान्तमसूरकशान्वितम् ।१५।
क्व तच्छर्कराकीर्णे भूतले शयनं पुरा ।
क्व चेदं पट्टविपुलं श्रीपयङ्कं मनोरमम् ।१६।
क्व तत्तृणाशृतं भूमौ शयनं मेऽतिकर्कशम् ।
क्व चेदं तूलिकास्तीर्णमद्यातीव मनोरमम् ।१७।
क्व तच्छ्वासुविसंकीर्णन् दुर्गन्धान्तर्गृहं गृहम् ।
क्वेदं सुरभिसङ्गन्धवासित_न्तःपुरं पुरम् ।१८।
क्व तच्चीरावचीरञ्च गृहमन्तर्बहिः पुरा ।
क्वेदं विविधसद्रत्नभक्तिचित्रमनोहरम् ।१९।
क्व तत्काक_शुचिश्वेतरेखाशतविलम्बितम् ।
क्व चेदं विपुलानेकमुक्ताहारोपशोभितम् ।२०।
क्व च दुःखविलापोक्तसमुच्छ्रितभुजं गृहम् ।
क्व चेदममलचत्त्रपताकोच्छायभूषितम् ।२१।
नमोऽस्तु तस्मै नाथाय पुण्यक्षेत्राय तायिने ।
यमागम्याहमद्यैव तीर्णो दारिद्रसागरम् ।२२।
नमोऽस्तु लोकनाथाय सर्वज्ञाय विपश्यिने ।
यमागम्य मयाऽद्यैव प्राप्ता सम्पत्तिरीदृशी ।२३।
वैजयन्तमिवाचिन्त्यमनेकगुणभूषितम् ।
यमागम्य मयाऽद्यैव प्राप्तं भवनमुत्तमम् ।२४।
तं समासाद्य शास्तारं कैलाशशिखरोच्छ्रितम् ।
भवनं प्राप्यमुत्तुङ्गं शरत्कालेन्दुपाण्डुरम् ।२५।
अद्यैवास्मिन् पुरेऽणाथो भूत्वा दारिद्रदुःख्वान् ।
अद्यैव सर्वश्रेष्ठत्वं महाधनवताङ्गतः ।२६।
उप्तमात्रं यदद्यैव बीजं मे फलदायकम् ।
लोकश्रेष्ठं विभुं कस्तं प्रजयितुमर्हति इत्य् ।२७।

२९८,२ - २९९
[१०९] अथ कर्णः सार्थवाहस्तीव्रप्रसादवेगावर्जितचित्तसन्ततिः संलक्षयति । भगवन्तमागम्य मयैवं विभूतिरासादिता यन्न्वहं प्रथमतो भगवन्तं विपश्यिनं तथागतमस्मिन् गृहे प्रवेश्य सश्रावकगणं भोजयेयमिति विदित्वा महता सत्कारेण विपश्यिनं तथागतं सश्रावकसंघमन्तर्गृहे उपनिमन्त्र्य शतरसेनाहारेण सप्ताहं भोजयित्वा पादयोः प्रणिपत्य यावज्जीवं सर्वोपकरणैः प्रवारितवान् ।

२९९,२ - ३०७,४
[११०] अथापरस्मिन् दिवसे स क्षेत्रपालको भृतकपुरुषः प्रत्युषसि स्वामिनानुरूपदत्तां भक्तपुटिकामादय क्षेत्रं संप्रस्थितोऽश्रौषीदन्तर्मार्गे स भृतकपुरुषोऽन्यतरस्योपासकस्यान्तिकाद्यथा कर्णेन सार्थवाहेन माषपूपकमेकं बुद्धे भगवत्यनुप्रदायैवम्विधा श्री प्राप्तेति श्रुत्वा च पुनः स पुरुषस्तमुपासकमुवाच । भोः साधो के तस्य भगवतो गुणा इति । स उपासकः कथयति । भद्रमुख का मे शक्तिस्तस्य भगवतो विशेषविहितान् गुणान् वक्तुम् । एक ही संक्षेपतः श्रूयताम् । स हि भगवान् सम्यक्सम्बुद्ध प्रवरपुरुषलक्षणालङ्कृतः काञ्चनाद्रिप्रकाशः शशाङ्कार्कतुल्यातिरेकप्रभः सूरतः सुव्रतः शान्तचित्तः सुवाक्यः सुवेष्टः सुगात्रः सुवक्त्रः सुनेत्रः सुकर्मा सुधर्मा क्षमावान् प्रतिभावान् । विनेता सुनेता नयज्ञो दमज्ञः कृतज्ञः सुचक्षः प्रशान्तेन्द्रियः सुइनीतेन्द्रियाश्वो महाधर्मराजो महासत्त्वसारो महालोकनाथो महाज्ञानकेतुस्महावादिशूरो महापुण्यकोशो महाधर्महेतुस्महासार्थवाहो धर्मदाता महाकर्णधारो महादक्षिणीयः तृषाच्छेदको महामोहविनासकः क्रोधनिर्वापको मोक्षसंस्थापकः कापथाच्च्यावकः सत्पथोद्देशकः शंसयच्छेदकः सत्यसंदर्शकः क्लेशनिर्वापको मारविध्वंसको लोकनिस्तारको ब्रह्मणाभ्यर्च्चितः शक्रसंपूजितः सर्वलोकाधिकः सर्वलोकार्थकृत्सत्त्वोत्तमः सर्वदुःखान्तकृत सर्ववित् । अनयविनयविशारदोऽतीतसर्वास्रवो वादिमुख्यैर्नाधिष्ठितः सर्वदोषैरसंभ्रामितः सर्वार्थमभ्युद्यतः रूपवान् शीलवान् ध्यायवान्
वीर्यवान् ज्ञानयुक्तस्तथा निःस्पृहो निर्ज्वरो निष्प्रपञ्चो निरायासवृत्तिः प्रवृत्तिक्षयोपायसंदर्शकः सर्वसत्वेषु मैत्रासयो पापमुक्तोऽधिमोक्षान्वितोऽनुत्तरो नायको दैशिकः क्लेशरोगार्दितानां महावैद्यभूतः स्वयम्भूः विभुः संयतात्माप्रमेयप्रभावोऽल्पकृतः सुसन्तोषवान् कालवानर्थवान् ज्ञानवान्निर्जितक्लेशशत्रुः प्रशान्ताग्निरक्षोभ्यधर्मो महादक्षिणीयः परं दुःखितं लोकमज्ञानपङ्के निमग्नं समवलोक्य तस्मात्स्वयञ्चापि शक्तः समुद्धर्तुमात्माप्रभावानुरूपात्मनः सर्वसत्त्वानुकम्पार्थमेवं प्रकारोत्तमा बुद्धि तस्माच्चैवमुत्तारेयं जगद्दुःखितं मोचयेयं कथं भीतानामाश्वासयेयं कथं संसारमग्नमभ्युद्धरेयं कथं दह्यमानमाह्लादयेयं दृढं चित्तमेवं समुत्पाद्य वीर्यञ्च कृत्वा परं जन्मकोटीसहस्रेषु पूर्ववच्चान्नपानाश्रयोपानहोभोजनछत्रयानासनादीन् रम्याणि हस्त्यश्वदारात्मजान् दासदासी शिरोलोचनान्यात्ममांसानि चोत्कृत्य सेष्माणिसद्वज्रेणे स्येनरूपाय वुद्धात्मना सर्वसत्वेषु सर्वैरुपायैर्हितं चिन्तयन् सर्वकालञ्च जीर्णातुरसन्नसंूढसंभ्रान्तसंक्षुभ्यमानानवस्थितानवेक्ष्य सर्वात्मानाश्वास्य सन्तोऽप्यसन्तो यथाचार्य संशेविना दानशीलक्षमासत्त्वसप्रज्ञाध्यानाद्यैर्गुणैर्जन्मकोटीसहस्रैरनेकैर्शिवां बोधिमग्र्यामनुप्राप्तवानपि च । कस्तस्य सर्वाग्रसत्त्वस्य सम्यक्सम्बुद्धस्य विख्यातकीर्तेः कृपाख्यातविश्वासधर्मस्य विज्ञानपूर्णस्य विस्तीर्णवीर्यस्य निस्तीर्णसर्वप्रतिज्ञस्य निर्मुक्तदोषस्य निर्वान्तमोहस्य शान्तस्य दान्तस्य सर्वेन्द्रियार्थेष्वशक्तस्य विश्वेश्वरस्यान्तिकं देहमासादित तस्याप्रमेयप्रभावप्रभालङ्कृतज्ञानकोशस्य
सम्पूर्णचन्द्रप्रकाशातिरेकाननस्य सुरेन्द्रासुरेन्द्रोरगैश्च भक्त्या प्रसादेन नित्यवन्द्यस्य प्रदीप्तौजसा पुण्यकीर्तेर्महर्षिप्रसूतस्य निष्क्रान्तहेमप्रकाशस्य धर्मेश्वस्याग्रधर्मेषु पारङ्गतस्याग्रसत्त्वस्य नाथस्य नागस्य मुक्तस्य धीरस्य वीरस्य देवातिदेवस्य सम्यक्सम्बुद्धस्य कस्तस्य शक्नोत्यशेषान् गुणान् वक्तुम् ॥

३०७,४ - ३०८,३०९
[१११] अपि च
सर्वसद्रूपलावण्यसम्पद्भिः समलङ्कृतम् ।
वपुर्बुद्धादृते नास्ति अन्यस्येदृशमुत्तमम् ।१।
नास्ति बुद्धसमो वक्ता नास्ति बुद्धसमः सुधीः ।
नास्ति बुद्धसमो बोद्धो नास्ति बुद्धसमो सुधीः ।२।
नास्ति बुद्धसमं पात्रं नास्ति बुद्धसमः सुखी ।
नास्ति बुद्धसमो दान्तो नास्ति बुद्धसमः प्रभुः ।३।
नास्ति बुद्धसमः शास्ता नास्ति बुद्धसमः पिता ।
नास्ति बुद्धसमो बन्धुर्नास्ति बुद्धसमः सुहृत् ।४।
निर्ममो निर्मदो निर्भी निरायासो निरङ्गणः ।
निस्तीर्ण भवकान्तारो निःसपत्नो निरामयः ।५।
कान्तः शान्तः शुचिर्दान्तः स्मृतिमान् बलवान् वशी ।
हृतकृतसर्वसत्त्वानां नास्ति बुद्धसमो परः ।६।
समासतो गुणैः सद्भिर्विशेषैर्विधिवद्यतः ।
त्रैलोक्येऽपि न बुद्धेन सदृशोऽस्तीति गृह्यताम् ।७।

३०९,२ - ३१२,५
[११२] तच्छ्रुत्वा भृतकपुरुषः प्रसादकण्टकितः सहसैवोत्पन्नातिदुर्ल्लभप्रतिभानस्तमुवाच ॥ कर्णेन सार्थवाहेन तृष्णयानुप्रदत्तं माषपूपकमेवंविधे परमदक्षिणीये भगवति विपश्यिनि तथागते तत्क्षणादेवैष सार्थवाहोऽदरिद्रः स्यामित्येवंविधं चिन्तामणिरत्नभूतं तथागतमासाद्यातिपरीत्तविभवमात्रकहेतभूतं प्रणिधानं कृतवान् । अहन् तु पुनर्यद्भगवन्तं तथागतमर्हन्तं सम्यकसम्बुद्धमनेककल्पकोटीनियुतशतसहस्रैरप्यनासाद्य दर्शनमतिदर्शनीयमनुत्तरमनन्तरकल्पशतसहस्रसम्भृताशेषसत्त्वप्रवृतोत्तमपुण्यसम्भारानुप्रवृत्तकारुण्यमनेकविधसांसारिकक्लेशविषमहोरगोपदष्ट_अतिदीनानुकम्पकं पतितजनविशेषवत्सलमनुपकृतबान्धवमनेककालानासादितविभवोऽहमनयाभिपरीत्तया क्षेत्रपालितार्जितया भक्तभिक्षया प्रतिपादयितुमासादयामि । तदा तादृशं प्रणिधानं करिष्यामि येन सर्वसत्त्वोत्तमो भविष्यामीत्याशयोद्गीर्णवचनावसानसमनन्तरं भगवान् विपश्यी सम्यक्सम्बुद्धस्तस्य चेतसो चित्तमाज्ञाय ऋद्धया गत्वाग्रतः स्थितोऽद्राक्षीत्स भृतकपुरुषो विपश्यिनं तथागतमसेचनकदर्शनमभिरुचिरचारुचामीकरामरगिरिशिखरतररुणविकिरणविसरचितान्तरोद्भासितभासुरतरशरीरद्युतिं दृष्ट्वा च पुनः परमप्रीतिसौमनस्य जातोऽतिमहता प्रसादवेगेन तां भक्तपुटिकामादाय भगवतो विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपाद्य तीव्रेण प्रसादवेगेन पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः ॥

३१२,५ - ३१४,३
[११३] अनेन नाथ पुण्येन इतः प्रभृति जन्मनः ।
सर्वसत्त्वहिताध्यायी भूयशः करुणात्मकः ।१।
यथा त्वं लक्षणोपेतोऽनुत्तरा बोधिमाप्तवान् ।
तथाहमपि सम्बोधिमतुलां समवाप्नुयाम् ।२।
यथा देशयसे धर्मसर्वज्ञत्वं यथा त्वया ।
प्राप्तं तथाहमप्येव सर्वज्ञत्वमवाप्नुयाम् ।३।
निर्जितस्ते यथा मारो धर्मचक्रं प्रवर्तितम् ।
तथाहमपि निर्जित्य धर्मचक्रं प्रवर्तये ।४।
तीर्णस्तारयसे नाथ यथा संसारसागरात् ।
अत्वान् बहूंस्तथा चाहं ताराये मुनिसत्तम ।५।

अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैरुवाच । भद्रमुख ।

अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैरुवाच । भद्रमुख ।

भविष्यसि त्वं हि महानुभावः सर्वार्थसिद्धो भुवि नाम शास्ता ।
जित्वेह मारं सबलं प्रसह्य भीमं समन्तादभिनिष्पतन्तम् ।६।
इत्य्

३१४,३ - ३१६,३
[११४] अथ विपश्यी सम्यक्सम्बुद्धस्तं पुरुषमनुत्तरायां सम्यक्सम्बोधौ व्याकृत्य प्रक्रान्तोऽयञ्च वृत्तान्तो बन्धुमत्यां राजधान्यां समन्ततो निःसृतः । यावद्राज्ञां बन्धुमता श्रुतम् । श्रुत्वा च पुनस्तेन स्वयमेवागत्य ततकुशलमूलसंभारोत्साहितमतिना स पुरुषोऽति महता सत्कारेण हस्तिस्कन्धे समारोप्य भवनं नीत्वार्धासनं निषाद्यार्द्धराज्यानुप्रदानेन पूजितः । स कथयति । महाराज नाहं कामैरर्थी तदनुजानीस्व मां प्रव्रज्य ब्रह्मचर्यञ्चरामीति । स राज्ञानुज्ञातः स्वाख्याते धर्मविनये प्रव्रजितः स तत्र यावदाप्तब्रह्मचर्यं चरित्वा कालगतो निर्माणरतिषु देवेषूप्रपन्नः । बन्धुमानपि राजा कालगतः । तस्य पुत्रो राज्ये प्रतिष्ठितः । सोऽपि किञ्चित्कालं राज्यं कारयित्वा कालगतोऽमात्यैर्महता सत्कारेण सुरूपो राज्ये प्रतिष्ठापितस्तेन षष्ठिवर्षहस्राणि धर्मेण राज्यं कारितम् । ततः कालं कृत्वा तुषितदेवनिकाये उपपन्नः ।

३१६,४ - ३१८,५
[११५] किं मन्यसे महाराजान्यः स तेन कालेन तेन समयेन सुरूप्रो नाम राजाऽभूदिति । न खल्वेवं दृष्टव्यम् । अपि त्वेष सुवर्णवर्णः स तेन कालेन तेन समयेन सुरूपोऽनाम राजाभूद्यदनेन विपश्यिनि तथागते हरिद्रारक्तं वस्त्रखण्डमनुप्रदतं प्रणिधानञ्च कृतं तस्य कर्मणो विपाकेनानेन देवमनुष्येष्वनन्तं देव्यमानुष्यकं सुखमनुभूतं यत्र यत्रोपपद्यते तत्र तत्र सुवर्णकायः सुवर्णवर्णवस्त्राच्छादितशरीरः कर्णिकारकुसुमवर्षं चास्य जातिसमये प्रपतति स्म ॥ यावदेतर्ह्यप्येवं पुण्यमहेशाख्यो यत्कायादसकृदपनीते वस्त्रेऽन्यद्वस्त्रं तत्क्षणादेव शरीरे समुत्पद्यत इति । योऽसौ कर्णः सार्थवाहोऽयमेवासौ दिवाकरः सार्थवाहस्तेन कालेन तेन समयेन या सा कर्णस्य सार्थवाहस्य भार्या । एषैव दिवाकरस्य सार्थवाहस्य भार्या । दासी काशिसुन्दरी दासः प्रचण्डोऽग्रामात्यस्तेन कालेन तेन समयेन ।

३१८,५ - ३२०,३२१
[११६] पुनरपि राजाऽजातशत्रुः स्थविरानन्दमिदमवोचत् । किं भदन्तानन्द सुवर्णवर्णेन भिक्षुणा कर्म कृतम् । यस्य कर्मणो विपाकेनादूश्यनपकारी शूले समारोपितः । प्रव्रज्यञ्चार्हत्वं प्राप्तमिति । स्थविरानन्दः कथयति । भूतपूर्वं महाराजातीते ध्वनि चन्द्रो नाम सम्यक्सम्बुद्धो लोक उदपादि तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानाञ्च मनुष्यानाञ्च बुद्धो भगवानसौऽन्यतमां राजधानीमुपनिःसृत्य विहरति स्म । तेन खलु समयेनान्यतमस्मिंश्च विहारेऽन्यतमो भिक्षुः धार्मकथिकः स कालेन कालमागतागतानां ब्राह्मणगृहपतीनां धर्मं देशयति । तस्य महान् लाभसत्कार उत्पद्यते ।


३२०,३ - ३२३,४
[११७] यावदपरेण समयेनाजितो नाम भिक्षुः धार्मकथिको युक्तमुक्तप्रतिभानश्चित्रकथो मधुरकथो । जनपदचारिकाञ्चरन् तं विहारमागतः स चतसृणां पर्षदां धर्म देशयत्यादौ कल्याणं मध्ये कल्याणं पर्यवशाने कल्याणं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सम्प्रकाशयति । तेन सर्व एवासौ कर्वटनिवासीजनकायोऽभिप्रसादितः । स लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । तस्य नैवासिकस्य धार्मकथिकस्य भिक्षोर्लाभसत्कारसमुच्छिन्नस्तस्यैतदभवदजितेन मे भिक्षुणा लाभसत्कार समुच्छेदः कृतः । तद्यावदेष इहावतिष्ठते तावत्कुतो मे लाभसत्कारो भविष्यति । उपायमस्य गमनाय चिन्तयितव्यमिति । पुनश्चिन्तयति । असत्कारभीरवश्चैव बहुश्रुताः । असत्कारोऽस्य प्रयोक्तव्य इति विदित्वान्यतमां ब्राह्मणकुमारिकामाह । भगिन्यहन् ते वासोयुगमनुप्रदास्याम्येतमजितं भिक्षुं दूषय मया सार्द्धमब्रह्मचारीति । सा कथयत्यार्य यद्यहमेवं वक्ष्यामि तत्को मां परिणेष्यति । ननु यावज्जीवं मातापितृपोष्या भविष्यामीति । स कथयत्यहं तथा करिष्यामि यथा न महाजनविदितं भविष्यति । यदा त्वं स्वैरालापेन कथयिष्यसीति । अपि तु यदायं तृभिश्चतुर्भिः परैर्भिक्षुभिः सार्द्धं निषण्ण इहावतिष्ठते । तया प्रतिज्ञातमेवं करिष्यामीति ।

३२३,४ - ३२६,४
[११८] यावदपरस्मिन् दिवसे स धार्मकथिको भिक्षुर्भिक्षुभिः सार्द्धं लयनद्वारे निषण्णः कथासांकथ्येनावतिष्ठते तया च ब्राह्मणदारिकया गत्वाभिहितः । आर्य प्रव्रजिता यूयमिति कृत्वा वयमिह विस्रब्धा उपसंक्रमितव्यं मन्यामहे । तत्कथमेतद्युक्तं यदहमनेनाप्यजितेन भिक्षुणा हठाद्गृहीत्वा विकुमारी कृतेति । ततस्तैर्भिक्षुभिः कर्णौ पिधायाभिहितम् । भगिनि मैवं वद नैतच्छ्रोतव्यमिति । ततस्तेन धार्मकथिकेन भिक्षुणा न साधु कृतं न साधु कृतमित्युक्त्वा अजितस्य भिक्षोरवर्णो निश्चारितः । यावच्छ्रवणपरंपरयाऽजितेन भिक्षुणा श्रुतं श्रुत्वा कथयति । क एवमाहेति । एष धार्मकथिको भिक्षुरिति । स येन धार्मकथिको भिक्षुस्तेनोपसंक्रान्तः । उपसंक्राम्य कथयति । भदन्त किं मया तवापराधं कृतं यदेवमवर्णनिश्चारणं मे कृतवानसीति । तेन तस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तादृशं त्वया पापकर्म कृतं येन त्वं शुलमर्हसीति । तच्छ्रुत्वा अजितस्य भिक्षोरेतदभवत् । दुःखितोऽयं तपस्व्युपहतश्चेति विदित्वा पात्रचीवरमादाय यथापरिभुक्तं शयनासनं प्रतिशमाय्य तस्माद्विहारान्निष्क्रम्य संप्रस्थितः । तञ्च संप्रस्थितमवलोक्य भिक्षवो भिक्षुण्यः स च कर्वटकनीवासीजनकायस्तं निवर्त्तयितुकामाः पृष्ठतोऽनुबद्धा ॥

३२६,४ - ३२९,३३०
[११९] तस्य धार्मकथिकस्य भिक्षोः कौकृत्यमुत्पन्नं न शोभनं मया कृतं यल्लाभसत्कारकारणादीदृशमपायगतिसम्वर्तनीयं कर्म कृतमित्युत्पन्नवैमनस्यो गच्छाम्येनं क्षमापयामीति त्वरितत्वरितं तस्माद्विहारान्निष्क्रम्यातिसम्विग्नमना अश्रुधारावसिच्यमानदीनवदनो बालदारक इवोच्चैः प्ररुदरन् पश्यता तेषामनेकेषां ब्राह्मणगृहपतिशतसहस्राणामजितस्य भिक्षोः पादयोर्निपत्यात्ययमत्ययतो देशयितुमारब्धः । क्षमस्व भदन्त यथा बालेन यथा मूढेन यथाव्यक्तेनाकुशलेन लाभसत्काराभिभूतेन मया तवाभूतेनावर्णो निश्चारितस्तदत्ययमत्यतो देशयत क्षमस्वानुकम्पामुपादयेति । अजितो भिक्षुः कथयति । आयुष्मान् क्षान्तमित्युक्त्वातीवसंविग्नचित्तोऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य तेन तस्मिन्नेव परमसम्वेगद्रवीकृतचेतसा उद्यच्छता घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा यावत्सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च सम्वृत्तः । स विततपक्ष इव हंसराजो गगनतलमुत्पत्य तस्य महतो जनकायस्य मनांस्यभिप्रसाद्यन् विविधानि प्रातिहार्याणि प्रदर्शयितुमारब्धः । स च धार्मकथिको भिक्षुस्तं गगनतलस्तमवलोक्य हा कस्टमीदृशस्य मया महर्षेरन्तिके चित्तं प्रदूषितमित्युक्त्वा मूर्छितः पृथिव्यां निपतितः ॥

३३०,१ - ३३२,३३३
[१२०] अत्रान्तरे भगवांश्चन्द्रः सम्यक्सम्बुद्धो महाकरुणया परिगतहृदयः मा खल्वयं धार्मकथिको भिक्षुरुष्णं शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा ऋद्धया तं कर्वटकमागतः । ततो भगवता चन्द्रेण सम्यक्सम्बुद्धेन चक्रस्वस्तिकनन्द्यावर्तजालाववद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण करेण स धार्मकथिको भिक्षुः शिरसि परामृष्टः । स्पृष्टमात्रश्च भगवता स भिक्षुश्चेतनां प्रतिलभ्योत्थितोऽत्ययमत्ययतो देशयितुमारब्धाः ॥ अथ भगवांश्चन्द्रः सम्यक्सम्बुद्धस्तस्यां वेलायां गाथा भाषते ।

पुरुषस्य हि जातस्य कुठारी जायते मुखे ।
च्छिन्नत्ति हि ययात्मानं वाचा दुर्भाषितं वदन् ।१।
यो निन्द्यजनं प्रशंसति प्रशंस्यञ्च जनं विनिन्दति ।
स चिनोति मुखेन तं कलिं कलीनां येन सुखं न वन्दति ।२।
अल्पमात्रो ह्ययं कलिर्य इहाक्षैः स्वधनं पराजयेत् ।
अयमत्र महत्तरः कलिर्यः सुगतेषु मनः प्रदूषयेत् ।३।
शतं सहस्राणि निरर्बुदानां षट्त्रिङ्शतं पञ्च चैवार्बुदानि ।
यानार्यगर्ही नरकानुपैति वाचं मनश्च प्रणिधाय पापकम् ।४।
( fओर वेर्से इन् तिबेतन् चोर्रेस्पोन्दिन्ग्तो उदानवर्ग विइइ.६)
चित्तप्रदूषणाहेतोः सत्वा गच्छन्ति दुर्ग्गतिम् ।
चित्तप्रसादनाहेतोः सत्वा गच्छन्ति सद्गतिम् ।५।

इत्येष भगवांश्चन्द्र सम्यक्सम्बुद्धस्तां पर्षदं धार्मया कथया यावत्संप्रहर्ष्योत्थायासनात्प्रक्रान्तः ॥

३३३,२ - ३३६,५
[१२१] किं मन्यसे महाराजान्यः स तेन कालेन तेन समयेन धार्मकथिको भिक्षुरभूदिति । न खल्वेवं द्रष्टव्यमपि त्वेष एव सुवर्णवर्णः तेन कालेन तेन समयेन तस्य भिक्षोरन्तिके चित्त प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पञ्चजन्मशतानि नरकेषु पत्त्वा मनुष्येषु चोत्पन्नः पञ्चजातिशतानि अदूष्यनपकारी शूलमारोपितो यावदेतर्ह्यपि तेनैव कर्मवशेणादूष्यनपकारी शूलमारापितो यद्यनेन तत्कर्म कृत्वा नात्ययमत्ययतो देशितं स्यात्तदेष पञ्चजन्मशतान्येकैकस्मिं महानिरये पक्वः स्यात् । पञ्चजन्मशतानि प्रेतेषु पञ्चजन्मशतानि तिर्यक्षुपपन्नः स्यात् । यदनेन भगवतश्चन्द्रस्य सम्यक्सम्बुद्धस्य शासने ब्रह्मचर्यञ्चरितं तस्य कर्मणो विपाकेनैतर्ह्यनेन भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमिति ॥ तस्मात्तर्हि महाराज आत्मनो दुःखमन्विच्छता न परेषामन्तिके चित्तप्रदूषणं कर्तव्यम् ॥ अयशोभीतेन च न परेषामयशोऽनुप्रदेश्यम् । आत्मनः सुखमन्विच्छता परेषामपि सुखोपसंहारः कर्तव्य इत्यथास्मिन् धर्मपर्याये भाष्यमाणेऽनेकैः प्राणिशतसहस्रैर्महां विशेषोऽधिगतः । कैश्चित्श्रोतापत्तिफलं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलं कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम् । कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि । कैश्चित्श्रावकबोधौ । कैश्चिच्चरणगमनशिक्षापदानि गृहीतानि । यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यस्थापिता ॥

३३६,५ - ३३९,३
[१२२] अथ दिवाकरः सार्थवाह एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृतकरपुटः स्थविरानन्दमेतदवोचत् । आर्यानन्द मया बुद्धप्रमुखो भिक्षुसंघोऽन्तर्ग्गृहे उपनिमन्त्र्य षड्रसेनाहारेण भोजयित्वा एकैको भिक्षुः शतसहस्रकेण चीवरेणाच्छादयितव्य इति विचिन्तितं स च भगवान् परिनिर्वृतस्तदिच्छाम्यायीनन्दप्रमुखं भिक्षुसंघमधुना भोजयितुमिति ॥ स्थविरानन्दः कथयति । सार्थवाहैवं कुरुष्वाहं तथा करिष्यामि सर्व एव जाम्बूद्वीपावस्थिता भगवतः श्रावका इहागमिष्यन्तीति । अथ दिवाकरः सार्थवाहः प्रहर्षपूर्णमना राजगृहस्य नगरस्य बहिर्मण्डलवाटकमपगतपाषाणशर्करकठलं समुच्छ्रितध्वजपताकं चन्दनवारिसिक्तमामुक्तपट्टदामकलापां नानापुष्पावकीर्णं सुरभिधूपघटिकोपधूपघटिकोपनिबद्धमतिरुचिरवितानतोरणमतिरमणीयं कारयित्वा तामेव रात्रिं शुचिप्रणीतं खादनीयं समुदानीय काल्यमेवोत्थायासनप्रज्ञप्तिं कृत्वोदकमणी प्रतिष्ठाप्य स्थविरानन्दस्य दूतेन कालमारोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं कालं मन्यसे । इत्य्

३३९,३ - ३४१,५
[१२३] अथ स्थविरानन्दो नभस्तलमुत्प्लुत्य ऋद्ध्या सकलमिदं जम्बुद्वीपं विलीनकनक_वभासया प्रभयावभास्य स्वयमेव गण्डीमाकोट्य सजलजलधरगम्भीरओदात्तेन स्वरेणोद्घोषितवान् ये भगवतः श्रावका ऋद्धेर्लाभिनस्ते स्वकीयया ऋद्ध्या आगच्छन्तु ये पृथग्जनास्ते मदीयया ऋद्ध्या आगच्छन्त्विति । ततस्तां गण्डीमुपश्रुत्य हिमवद्विन्ध्यमलयपारियात्रकगन्धमादनसुमेरुयुगन्घरेषाधारखदिरकसुदर्शनाश्वकर्णनिमिन्धरादिषु सकाननसरितसुसीता समुद्रपत्तनवरद्रुमविहारावशषु मेठीशून्यागारश्माशानादिषु च ये भिक्षवः समाधिसमापत्तिसुखलाभिन्नः प्रतिवसन्ति तत्क्षणआत्सर्वमिदं नभस्तलमशोककिंशुसदृशैः सन्ध्यालोहितैरिव जीमूतवृन्दैराच्छादयन्तो राजगृहनगरमागत्य तस्मिं मण्डलवाटेऽवतीर्णाः । तत्क्षणादेव तिस्रः कोट्यो भिक्षुण्याःऽसन्निपतितः । एका क्षीणास्रवणाम् । द्वितीय शैक्षणाम् । तृतीया पृथकग्जनकल्याणकानां ततो यथा वृद्धिकया प्रज्ञप्तेषु स्वेषु स्वेष्वाशनेषूपविष्टाः ॥

३४१,५ - ३४५,१
[१२४] अथ दिवाकर सार्थवाहः सुखोपनिषण्णमार्यस्थविरानन्दप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति । यावद्भिक्षुसंघं भुक्तवदन्तं विदित्वा धौतहस्तमपनीतपात्रं शतसहस्रेण त्रिचीवरेणाच्छादयितुकामस्तं भिक्षुसंघमवलोक्य प्रीतिमना अभवत् । सुवर्णवर्णश्च तस्याशयमवगम्याह अल्पोत्सुक त्वं भव हि । अहमेव भिक्षुसंघं सुवर्णवर्णपीतेन त्रिचीवरेणाच्छादयामीति ॥ ततः सुवर्णवर्णेन भिक्षुणा तस्मिन्नेव क्षणे स्वशरीरात्सुवर्णपीतानि वस्राणि अवतार्यावतार्य शतसहस्रमूल्यानां यथा वृद्धिकया तिसृणां भिक्षुकोटीनां त्रिचीवरमनुप्रदत्तम् ॥ अत्रान्तरेऽनेकैर्देवतासहस्रैर्हा हाकारो मुक्तः । विविधानि च वाद्यानि संप्रवादितानि । दिव्यञ्च पुष्पपूर्णवर्षमुत्सृष्टं यथासौ नानादिग्देशाभ्यागतो जनकायो राजा चाजातशत्रुः सान्तःपुरकुमारामत्यपौरजानपदसहायस्तं तथाविधमाश्चर्यमवलोक्य विस्मयोत्फुल्ललोचनस्त्रिरुदानमुदानयत्यहो पुण्यफलविपाकः अहो पुण्यानां सामर्थ्य अहो दक्षिणीयक्षेत्रावरोपितस्य दानबीजस्यानतिक्रान्तो विपाकस्तत्केन नाम विदुषा एवंविधं पुण्यफलविपाकमभिसमीक्ष्य तद्दक्षिणीयक्षेत्रे दानं न देयमित्येवमनेकानि प्राणिशतसहस्राणि शिरस्याञ्जलिमुपनिधाय नमो बुद्धायेत्युच्चैर्घोषितवन्तोऽथ स्थविरानन्देन दक्षिणादेशना कृता ।

३४५,१ - ३४६,३
[१२५] ततो दिवाकरः सार्थवाह उथायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिब्यां प्रतिष्ठाप्य येन स्थविरानन्दस्तेनाञ्जलीं प्रणम्य त्रिरुदानमुदानयतीदं भदन्तास्माकं न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण पूर्वप्रेतेन श्रवणब्राह्मणैर्यदानन्देनास्माकं कृतं प्रच्छोषिता रुधिराश्रुसमुद्रा इति ॥

जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय ।
भवसहस्रसुदुर्लभं दर्शन सफलमद्य मुनेस्तव दर्शनम् ।१। इत्य्

३४६,३ - ५
[१२६] अथ स्थविरानन्दस्तां सराजिकां पर्षदं धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संग्रहर्ष्य तैर्देवताशतसहस्रैरनेकैश्च राजगृहवासिभिः प्राणिशतसहस्रैर्नमस्यमान उत्थायासनात्प्रक्रान्तः । एवमल्पमपि भगवति बुद्धे कृतमनल्पफलं भवतीति ।

३४६,५ - ३४७,३
ये धर्मा हेतुप्रभवा हेतुं (६) तेषान् तथागतो ह्यवदत् ।
तेषाञ्च यो निरोध एवम्वादी महाश्रमणः ।१।

[१२७] देयधर्मोऽयं प्रवरमहायानयायिनः शाक्यभिक्षुबुद्धाकरगुप्तस्य यदत्र पुण्यन् तद्भवत्वाचार्योपाध्यायमातापितृपूर्वङ्गमं कृत्वा सकलसत्त्वराशेरनुत्तरज्ञानफलवाप्तय इति ॥

"https://sa.wikisource.org/w/index.php?title=सुवर्णवर्णावदानम्&oldid=393813" इत्यस्माद् प्रतिप्राप्तम्