सुवर्णप्रभाससूत्रम्

विकिस्रोतः तः
सुवर्णप्रभाससूत्रम्
[[लेखकः :|]]


सुवर्णप्रभाससूत्रम्

॥ सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः ॥

॥ निदानपरिवर्तः ॥

ओं नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः ।
ओं नमः श्रीभगवत्यै आर्यप्रज्ञापारमितायै ॥ तद्यथा ।
ओं श्रुतिस्मृतिगतिविजये स्वाहा ॥
यस्मिन् पारमिता दशोत्तमगुणास्तैस्तैर्नयैः सूचिताः
सर्वज्ञेन जगद्धिताय दश च प्रख्यापिता भूमयः ।
उच्छेदध्रुववर्जिता च विमला प्रोक्ता गतिर्मध्यमा
तत्सूत्रं स्वर्णप्रभानिगदितं शृण्वन्तु बोध्यर्थिनः ॥
श्रुतं मयैकसमये गृध्रकूटे तथागतः ॥
विजहार धर्मधातौ गम्भीरे बुद्धगोचरे ॥ सुव्_१.१ ॥

बोधिसत्त्वसमुच्चयया महाकुलदेवतया, सरस्वत्या च महादेवतया, श्रिया च महादेवतया, दृढया च महापृथिवीदेवतया, हारीत्या च महादेवतया, एवं प्रमुखाभिर्महादेवताभिरनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः सार्धम् । अथायुष्मानानन्दो भगवन्तमेतदवोचत् । किं तासां भगवन्धर्मविनयं भविष्यतीति?

भगवानाह गाथाभिः । भावनं च न दुःपृच्छया विरजस्कं समाधिं धर्मसारं प्रतिष्ठितम् ।

शुद्धेषु विरजस्केषु बोधिसत्त्वोत्तमेषु च ।
निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तममिदम् ॥ सुव्_१.२ ॥
ततो गम्भीरश्रवणेन गम्भीरव्युपपरीक्षणेन ।
दिक्षु चतसृषु बुद्धैरधिष्ठानमधिष्ठितम् ॥ सुव्_१.३ ॥
(बग्छि २)
अक्षोभ्यराजः पूर्वस्मिन्दक्षिणे रत्नकेतुना ।
पश्चिमायाममिताभ उत्तरे दुन्दुभिस्वरः ॥ सुव्_१.४ ॥
तं प्रवक्ष्याम्यधिष्ठानं माङ्गल्यदेशनोत्तमम् ।
सर्वपापविनाशार्थं सर्वपापक्षयंकरम् ॥ सुव्_१.५ ॥
सर्वसौख्यप्रदातारं सर्वदुःखविनाशनम् ।
मूलं सर्वज्ञतत्त्वस्य सर्वश्रीसमलङ्कृतम् ॥ सुव्_१.६ ॥
उपहतेन्द्रिया ये हि सत्त्वा नष्टा हतायुषः ।
अलक्ष्म्या परिविष्टा हि देवतासु पराङ्मुखाः ॥ सुव्_१.७ ॥
कान्तया ते जना द्विष्टाः कुटुम्बादिष्वपद्रुताः ।
परस्परविरुद्धा वा अर्थनाशैरुपद्रुताः ॥ सुव्_१.८ ॥
शोकायासेष्वनर्थे च भये व्यसन एव च ।
ग्रहनक्षत्रपीडायां काखोर्ददारुणग्रहैः ॥ सुव्_१.९ ॥
पापकं पश्यति स्वप्नं शोकायाससमुच्छ्रितम् ।
तेन च स्नानशुचिना श्रोतव्यं सूत्रमुत्तमम् ॥ सुव्_१.१० ॥
शृण्वन्ति य इदं सूत्रं गम्भीरं बुद्धगोचरम् ।
प्रसन्नचित्ताः सुमनसः शुचिवस्त्रैरलङ्कृताः ॥ सुव्_१.११ ॥
तेषां सर्वे तथा नित्यमुपसर्गाः सुदारुणाः ।
तेजसा चास्य सूत्रस्य शाम्यन्ते सर्वप्राणिनाम् ॥ सुव्_१.१२ ॥
स्वयं ते लोकपालाश्च सामात्याः सगणेश्वराः ।
तेषां रक्षां करिष्यन्ति ह्यनेकैर्यक्षकोटिभिः ॥ सुव्_१.१३ ॥
सरस्वती महादेवी तथा नैरञ्जनवासिनी ।
हारीती भूतमाता च दृढा पृथिवीदेवता ॥ सुव्_१.१४ ॥
ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च महर्द्धिकिन्नरेश्वरैः ।
गरुडेन्द्रैस्तथा सार्धं यक्षगन्धर्वपन्नगैः ॥ सुव्_१.१५ ॥
(बग्छि ३)
ते च तत्रोपसंक्रम्य ससैन्यबलवाहनाः ।
तेषां रक्षां करिष्यन्ति दिवारात्रौ समाहिताः ॥ सुव्_१.१६ ॥
इदं सूत्रं प्रकाशिष्ये गम्भीरं बुद्धगोचरम् ।
रहस्यं सर्वबुद्धानां दुर्लभं कल्पकोटिभिः ॥ सुव्_१.१७ ॥
शृण्वन्ति य इदं सूत्रं ये चान्ये श्रावयन्ति च ।
ये केचिदनुमोदन्ते ये च पूजां करोन्ति हि ॥ सुव्_१.१८ ॥
ते पूजिता भविष्यन्ति ह्यनेकैः कल्पकोटिभिः ।
देवनागमनुष्यैश्च किन्नरासुरगुह्यकैः ॥ सुव्_१.१९ ॥ पुण्यस्कन्धमपर्यन्तमसंख्येयमचिन्तितम् ।
यत्तेषां प्रसृतं भोति कृतपुण्यान प्राणिनाम् ॥ सुव्_१.२० ॥
प्रगृहीता भविष्यन्ति सर्वबुद्धैर्दिशो दश ।
गम्भीरचरितेभिश्च बोधिसत्त्वैस्तथैव च ॥ सुव्_१.२१ ॥
चौक्षचीवरप्रावृत्य सुगन्धजलपावनैः ।
मैत्रीचित्तं समुत्थाप्य पूजितव्यमतन्द्रितैः ॥ सुव्_१.२२ ॥
विपुलं विमलं चित्तमात्मानं प्रकरिष्यति ।
प्रसादयंश्च चेतांसि शृणुध्वं सूत्रमुत्तमम् ॥ सुव्_१.२३ ॥
स्वागतं च मनुष्येषु सुलब्धं मनुषं फलम् ।
सुजीविताश्च जीवन्ति सूत्रं शृण्वन्ति ये त्विदम् ॥ सुव्_१.२४ ॥
उप्तकुशलमूलास्ते बहुबुद्धप्रकाशिताः ।
येषामिदं कर्णपुटे देशितं संप्रविश्यतीति ॥ सुव्_१.२५ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे निदानपरिवर्त्तो नाम प्रथमः ॥


_____________________________________________________________



(बग्छि ४)
॥ तथागतायुःप्रमाणनिर्देशपरिवर्तः ॥

तेन खलु पुनः कालेन तेन समयेन राजगृहे महानगरे रुचिरकेतुर्नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः । तस्यैतदभवत्, को हेतु कः प्रत्ययो यद्भगवतः शाक्यमुनेरेवं परीत्तमायुः प्रमाणं यदुताशीतिवर्षाणीति ।

पुनस्तस्यैतदभवत्, उक्तं चैव भगवता द्वौ हेतू द्वौ च प्रत्ययौ दीर्घायुष्कतायाम् । कतमौ द्वौ प्राणातिपातविरमणं भोजनप्रदानं च । अथ बहुन्यसंख्येयकल्पकोटिनियुतशतसहस्राणि भगवाञ्छाक्यमुनिः प्राणातिपातविरतो बभूव । यावद्दशकुशलकर्मपथं समादापयेत्, तावद्भगवता भोजनमाध्यात्मिकं बाह्यानि च वस्तूनि सत्त्वानां परित्यक्तानि । अन्तशः स्वशरीरमांसरुधिरास्थिमज्जया बुभुक्षिताः
सत्त्वाः संतर्पिताः प्रागेवान्येन भोजनेन ।

अथ तस्य पुरुषस्य बुद्धानुस्मृतिमनसिकारस्येमामेवंरूपां चिन्तां चिन्तयमानस्य गृहं विपुलं विस्तीर्णं संप्रवृत्तमभवत् । वैडूर्यमयमनेकदिव्यरत्नप्रत्युप्तं तथागतविग्रहं दिव्यातिक्रान्तेन गन्धेन स्फुटम् । तस्मिंश्च गृहे चतुर्दिशि चत्वारि दिव्यरत्नमयान्यासनानि प्रादुर्भुतान्यभूवन् । तेषु चासनेषु दिव्यानि पर्यङ्कानि दिव्यरत्नपुष्पपत्रैः प्रज्ञप्तानि प्रादुर्भूतानि बभूवः
। तेषु पर्यङ्केषु दिव्यान्यनेकरत्नप्रत्युप्तानि तथागतविग्रहाणि पद्मानि प्रादुर्भूतानि । तेषु च पद्मेषु चत्वारो बुद्धा भगवन्तः प्रादुर्भूताः बभुवुः । पुरान्तिकेन त्वक्षोभ्यस्तथागतः प्रादुर्भूतो दक्षिणेन रत्नकेतुस्तथागतः प्रादुर्भूतः पश्चिमेनामितायुस्तथागतः प्रादुर्भूत उत्तरेण दुन्दुभिस्वरस्तथागतः प्रादुर्भूतः । समनन्तरप्रादुर्भूताश्च ते बुद्धा भगवन्तस्तेषु
सिंहासनेषु ।

अथ तावदेव राजगृहं महानगरं महतावभासेनावभासितं स्फुटं बभूवु । यावत्रिसाहस्रमहासाहस्रलोकधातुर्यावत्समन्ताद्दशसु दिक्षु गङ्गानदीवालुकासमा लोकधातवस्तेनावभासेन स्फुटा बभूवः । दिव्यानि च पुष्पाणि प्रावर्षुर्दिव्यानि च तूर्याणि प्रवादयामासुः । सर्वे चास्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वा बुद्धानुभावेन दिव्यसुखेन समन्वागता बभूवुः । जात्यन्धाश्च सत्त्वा रूपाणि पश्यन्ति
स्म । वधिराश्च सत्त्वाः सत्त्वेभ्यः शब्दानि शृण्वन्ति । उन्मत्ताश्च सत्त्वाः स्मृतिं प्रतिलभन्तेऽविक्षिप्तचित्ताश्च स्मृतिमन्तो बभूवुः । नग्नाश्च सत्त्वाश्चीवरप्रावृता (बग्छि ५) बभूवुः । जिघत्सिताश्च सत्त्वाः परिपूर्णगात्रा बभूवुः । तृषिताश्च सत्त्वा विगततृष्णा बभूवः । रोगस्पृष्टाश्च सत्त्वा विगतरोगा बभूवुः । हीनकायाश्च सत्त्वाः परिपूर्णेन्द्रिया बभूवुः । विस्तरेण
बहूनामाश्चर्याद्भुतधर्माणां लोके प्रादुर्भावोऽभूत् ।

अथ खलु रुचिरकेतुर्बोधिओसत्त्वो महासत्त्वस्तान्बुद्धान्भगवतो दृष्ट्वाश्चर्यप्राप्तो बभूव । कथमेतदिति सन्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन ते बुद्धा भगवन्तस्तेनाञ्जालिं प्रणाम्यकारतस्तान्बुद्धान्भगवतोऽनुस्मरमाणो भगवतः शाक्यमुनेर्गुणाननुस्मरमाणो भगवतः शाक्यमुनेरायुःप्रमाणसंशयप्राप्तस्तां चिन्तां चिन्तयमानः स्थितो बभुव । कथमेतत्,किमेतद्यद्भगवतः
शाक्यमुनेरेवं परीत्तमायुःप्रमाणं यदुताशीति वर्षाणि ।

अथ खलु ते बुद्धा भगवन्तः स्मृताः संप्रजानास्तं रुचिरकेतुं बोधिसत्त्वमेतदवोचन् । मा त्वं कुलपुत्रैवं चिन्तय एवं परीत्तं भगवतः शाक्यमुनेरायुःप्रमाणम् । तत्कस्य हेतोः । न च वै कुलपुत्र तं समनुपश्यामः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां यः समर्थः स्याद्भगवतः
शाक्यमुनेस्तथागतस्यायुःप्रमाणपर्यन्तमधिगन्तुं यावदपरान्तकोटिभिः स्थापयित्वा तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः । समनन्तरोदाहृते तैर्बुद्धैर्भगवद्भिस्तथागतायुःप्रमाणनिर्देशे ।

अथ तावद्बुद्धानुभावेन कामावचरा रूपावचराश्च देवपुत्राः संनिपतिता यावन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि तस्मिन् रुचिरकेतुबोधिसत्त्वस्य गृहे समागता आसन् । अथ ते तथागताः सर्वपर्षदो भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं गाथाभिरभ्यभाषन् ।

जलार्णवेषु सर्वेषु शक्यन्ते बिन्दुभिर्गणयितुम् ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् ॥ सुव्_२.१ ॥
सुमेरुं परमाणवः कृत्वा शक्यं च संख्यया ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् ॥ सुव्_२.२ ॥
(बग्छि ६)
याः काश्चित्पृथिवीः सन्ति यावन्तः परमाणवः ।
शक्यं गणयितुं सर्वा न तु चायुर्जिनस्य वै ॥ सुव्_२.३ ॥
आकाशं यदि वा कश्चिदिच्छेत्प्रमितुं केनचित् ।
न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् ॥ सुव्_२.४ ॥
इत्युक्तानि च कल्पानि कल्पकोटिशतानि च ।
एष तिष्ठेच्च संबुद्धः संख्यातो न हि लभ्यते ॥ सुव्_२.५ ॥
यस्माद्द्वे कारणे तस्य तथैव द्वौ च प्रत्ययौ ।
विरतः परहिंसाया बहु दत्तं च भोजनम् ॥ सुव्_२.६ ॥
यस्मात्तस्य महात्मस्य ह्यायुःसंख्या न लभ्यते ।
इत्युक्तानि च कल्पानि संख्यायां न तथैव च ॥ सुव्_२.७ ॥
तस्मान्न संशयो भो हि मा किञ्चित्कुरु संशयम् ।
न जिनस्यायुःपर्यन्तं काचित्संख्योपलभ्यते ॥ सुव्_२.८ ॥

अथ खलु तस्मिन्समये तत्र पर्षद्याचार्यव्याकरणप्राप्तः कौण्डिन्यो नाम ब्राह्मणोऽनेकैर्ब्राह्मणसहस्रैः सार्धं भगवतः पूजाकर्म कृत्वा तथागतस्य महापरिनिर्वाणशब्दं श्रुत्वा सहसोत्थाय भगवतश्चरणयोर्निपत्य भगवन्तमेवमाह । सचेत्किल भगवन्सर्वसत्त्वानुकम्पको महाकारुणिको हितैषी सर्वसत्त्वानां मातापितृभूतोऽसमसमभूतश्चन्द्रभूत आलोककरो महाप्रज्ञाज्ञानसूर्यसमुद्गतः । यदि त्वं सर्वसत्त्वान्
राहुलं स्वं संपश्यसि मह्यमेकं वरं देहि । भगवांस्तूष्णीम्भूतोऽभूत् ।

अथ बुद्धानुभावेन तस्यां पर्षदि सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमारः । तस्य प्रतिभानमुत्पन्नम् । स आचार्यव्याकरणप्राप्तं कौण्डिन्यं ब्राह्मणमेवमाह । किं नु त्वं महाब्राह्मण भगवन्तमेकं वरं याचसे । अहं ते वरं ददामि । ब्राह्मण आह । अहमस्मिंल्लित्सविकुमार (बग्छि ७) भगवतः पूजोपस्थानाय भगवतः सर्षपफलमात्रं धातुमिच्छामि निक्षेपितुं
चूर्णं धातुमभिप्रयोजनायैनं सर्षपफलमात्रं धातुमभिपूजयित्वा त्रिदशाधिपत्यं लभ्यत इत्येवं श्रूऊयते । शृणु त्वं लित्सविकुमार सुवर्णप्रभासोत्तमसूत्रं दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धानां तादृशैर्लक्षणगुणैः समन्वागतं किल सुवर्णप्रभासोत्तमसूत्रं भावयिष्यति । एवं भो लित्सविकुमार दुर्विज्ञेयं दुरनुबोधं सुवर्णप्रभासोत्तमसूत्रम् । अस्माकमेव
प्रत्यन्तद्वीपिकानां ब्राह्मणानां सर्षपफलमात्रं धातुं करण्डके निक्षिप्य धारणमुचितम् । अहं ते वरं याचे येन सत्त्वाः क्षिप्रमेव त्रिदशाधिपत्यं प्रतिलम्भिनो भविष्यन्ति । त्वं किल भो लित्सविकुमार सर्षपफलमात्रं धातुं तथागतस्य याचितुम् । धातुं रत्नकरण्डके निक्षिप्य धारणात्सर्वसत्त्वानां त्रिदशाधिपत्येश्वरलाभ इतीच्छसे । एवं मया च
लित्सविकुमार इष्टं वरम् ।

अथ सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमार आचार्यव्याकरणप्राप्तं कौण्डिन्यब्राह्मणं गाथाभिरभ्यभाषत ।

यदा स्त्रोतःसु गङ्गाया रोहेयुः कुमुदानि च ।
रक्ताः काका भविष्यन्ति शङ्खवर्णाश्च कोकिलाः ॥ सुव्_२.९ ॥
जम्बुस्तालफलं दद्यात्खर्जूरश्चाम्रमञ्जरीम् ।
तदा सर्षपमात्रं च व्यक्तं धातुर्भविष्यति ॥ सुव्_२.१० ॥
यदा कच्छपलोमानां प्रावारैः सुवृतो भवेत् ।
हेमन्ते शीतहरणो तदा धातुर्भविष्यति ॥ सुव्_२.११ ॥
यदा मशकपादानामट्टकालम्बनं भवेत् ।
दृढं चाप्यप्रकम्पि च तदा धातुर्भविष्यति ॥ सुव्_२.१२ ॥
(बग्छि ८)
यदा तीक्ष्णा महान्तश्च दन्ता जायन्ति पाण्डुराः ।
जलौकानां हि सर्वेषां तदा धातुर्भविष्यति ॥ सुव्_२.१३ ॥
यदा शशविषाणेन निःश्रेणी सुदृढा भवेत् ।
स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति ॥ सुव्_२.१४ ॥
तां निश्रेणीं यदारुह्य चन्द्रं भक्षति मूषिकः ।
राहुं च परिधावेत तदा धातुर्भविष्यति ॥ सुव्_२.१५ ॥
यदा मद्यघटं पीत्वा मक्षिका ग्रामचारिण्यः ।
अगारे वासं कल्पेयुस्तदा धातुर्भविष्यति ॥ सुव्_२.१६ ॥
यदा बिम्बोष्ठसम्पन्नो गर्दभः सुखितो भवेत् ।
कुशलं नृत्यगीतेषु तदा धातुर्भविष्यति ॥ सुव्_२.१७ ॥
यदा ह्युलूककाकाश्च रमयेयुः सहागताः ।
अन्योन्यमनुकूलेन तदा धातुर्भविष्यति ॥ सुव्_२.१८ ॥
यदा पलाशपत्राणां छत्रं हि विपुलं भवेत् ।
वर्षस्य प्रतिपाताय तदा धातुर्भविष्यति ॥ सुव्_२.१९ ॥
यदा सामुद्रिका नावः सयन्त्राः सपताकिकाः ।
स्थलमारुह्य गच्छेयुस्तदा धातुर्भविष्यति ॥ सुव्_२.२० ॥
यदा ह्युलूकशकुनाः पर्वतं गन्धमादनम् ।
तुण्डेनादाय गच्छेयुस्तदा धातुर्भविष्यति ॥ सुव्_२.२१ ॥

एताश्च गाथाः श्रुत्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो ब्राह्मणः सर्वलोकप्रियदर्शनं लित्सविकुमारं गाथाभिः प्रत्यभाषत ।

साधु साधु कुमाराग्र जिनपुत्र महागिर ।
उपायकुशलो वीरः प्राप्तव्याकरणोत्तमः ॥ सुव्_२.२२ ॥
मम कुमार शृणोहि लोकनाथस्य तायिनः ।
तथागतस्य माहात्म्यं यथाक्रममचिन्तितम् ॥ सुव्_२.२३ ॥
अचिन्त्यं बुद्धविषयमसमाश्च तथागताः ।
सर्वबुद्धाः शिवा नित्यं सर्वबुद्धाः समाचराः ॥ सुव्_२.२४ ॥
सर्वबुद्धाः समवणा एषा बुद्धेषु धर्मता ।
न कृत्रिमोऽसौ भगवान्नोत्पन्नश्च तथागतः ॥ सुव्_२.२५ ॥
(बग्छि ९)
वज्रसंहननकायो निर्मितकायदर्शकः ।
नापि सर्षपमात्रं च धातुर्नाम महर्षिणाम् ॥ सुव्_२.२६ ॥
अनस्थिरुधिरे काये कुतो धातुर्भविष्यति ।
उपायधातुनिक्षेपःसत्त्वानां हितकारणम् ॥ सुव्_२.२७ ॥
धर्मकायो हि सम्बुद्धो धर्मधातुस्तथागतः ।
इदृशो भगवत्काय ईदृशी धर्मदेशना ॥ सुव्_२.२८ ॥
एतच्छ्रुतं मया ज्ञात्वाभियाचितं वरं मया ।
तत्त्वव्याकरणार्थाय वरोत्पादं मुनेः कृतम् ॥ सुव्_२.२९ ॥

अथ खलु द्वात्रिंशद्देवपुत्रसहस्राणि तथागतस्य यं गम्भीरमायुःप्रमाणनिर्देशं श्रुत्वा सर्वैरनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि ते प्रहृष्टमनःसंकल्पा एकस्वरनिर्घोषेण गाथामभाषन् ।

न बुद्धः परिनिर्वाति न धर्म परिहीयते ।
सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् ॥ सुव्_२.३० ॥
अचिन्त्यो भगवान्बुद्धो नित्यकायस्तथागतः ।
देशेति विविधान्व्यूहान्सत्त्वानां हितकारणात् ॥ सुव्_२.३१ ॥
Œअथ खलु रुचिरकेतुर्बोधिसत्त्वस्तेषां बुद्धानां भगवतां तयोश्च द्वयोः सत्पुरुषयोरन्तिकाद्भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातश्चोदारेण प्रीतिप्रामोद्येन स्फुटोऽभूत् । अस्मिंस्तथागतायुःप्रमाणनिर्देशे निर्दिश्यमानेऽप्रमेयाणामसंख्येयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् ।
ते च तथागता अन्तरिता इति ।

इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे तथागतायुःप्रमाण निर्देशपरिवर्तो नाम द्वितीयः ॥


_____________________________________________________________




(बग्छि १०)
॥ स्वप्नपरिवर्तः ॥

अथ खलु रुचिरकेतुर्नाम बोधिसत्त्वः स्वुप्तः स्वप्नान्तरगतः सुवर्णां सुवर्णमयीं भेरीमद्राक्षीत् । समन्तादवभासमानां तद्यथापि नाम सूर्यमण्डलं सर्वासु दिक्ष्वप्रमेयानसंख्येयान्बुद्धानद्राक्षीद्रत्नवृक्षमूले सिंहासने वैडूर्यमये प्रतिनिषण्णाननेकशतसहस्रिकायां परिषदायां परिवृतायां पुरस्कृतायां धर्मदेशयमानान् । तत्र च ब्राह्मणरूपेण
पुरुषमद्राक्षीत्तां भेरीं पराहन्तम् । तत्र भेरीशब्दादिमामेवंरूपां गाथां निश्चरमाणामश्रौषीत् ।

अथ खलु रुचिरकेतुर्बोधिसत्त्वः प्रतिविबुद्धः समनन्तरं तां धर्मदेशनागाथामनुस्मरति स्म । अनुस्मरमाणस्तस्या रात्र्या अत्ययेन राजगृहान्महानगरान्निष्क्रम्यानेकैः प्राणिसहस्रैः सार्धं येन गृध्रकूटः पर्वतराजो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते न्यषीदत् ।

अथ खलु रुचिरकेतुर्बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य याश्चैव ताः स्वप्नान्तरे दुन्दुभिशब्देन देशनागाथाः श्रुतास्ता उवाच ।

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे स्वप्नपरिवर्तो नाम तृतीयः ॥


_____________________________________________________________


(बग्छि ११)
॥ देशनापरिवर्तः ॥

एकरात्रमतन्द्रेण स्वप्नान्तरगतं मया ।
दुन्दुभी रुचिरा दृष्टा समन्तकनकप्रभा ॥ सुव्_४.१ ॥
ज्वलमानं यथा सूर्यं समन्तेन विरोचितम् ।
प्रभासिता दश दिशो दृष्टा बुद्धाः समन्ततः ॥ सुव्_४.२ ॥
निषण्णा रत्नवृक्षेषु वैडूर्ये च प्रभास्वरे ।
अनेकशतसाहस्र्या परिषदा प्रभास्कृताः ॥ सुव्_४.३ ॥
दृष्टा ब्राह्मणरूपेण पराहन्यन्ती दुन्दुभी ।
तेनास्यास्ताड्यमानाया इमे श्लोका अभिश्रुताः ॥ सुव्_४.४ ॥
सुवर्णप्रभासोत्तमदुन्दुभेन शाम्यन्तु दुःखा त्रिसहस्रलोके ।
अपायदुःखा यमलोकदुःखा दारिद्रदुःखानि तथैव लोके ॥ सुव्_४.५ ॥
अनेन चो दुन्दुभिशब्दनादिना शाम्यन्तु सर्वव्यसनानि लोके ।
समन्तसत्त्वा हृदयाहता तथा तथाभया शान्तभया मुनीन्द्र ॥ सुव्_४.६ ॥
यथैव सर्वार्यगुणोपपन्नः संसारसर्वज्ञमहामुनीन्द्रः ।
तथैव भोन्तु गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैरुपेताः ॥ सुव्_४.७ ॥
अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्त्वाः ।
स्पृशन्तु बुद्धत्ववराङ्गबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् ॥ सुव्_४.८ ॥
(बग्छि १२)
तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय ।
हनन्तु क्लेशान्विधमन्तु दुःखां शमेन्तु रागं तथ दोषमोहम् ॥ सुव्_४.९ ॥
ये सत्त्व तिष्ठिन्ति अपायभूमौ आदीप्तसंप्रज्वलिताग्निगात्राः ।
शृण्वन्तु ते दुन्दुभिसंप्रवादितां नमोऽस्तु बुद्धाय वचो लभन्तु ॥ सुव्_४.१० ॥
जातिस्मराः सत्त्व भवन्तु सर्वे जातीशता जातिसहस्रकोट्यः ।
अनुस्मरन्तः सततं मुनीन्द्रं शृण्वन्तु तेषां वचनं ह्युदारम् ॥ सुव्_४.११ ॥
अनेन चो दुन्दिभि घोषनादिना लभन्तु बुद्धेहि सदा समागमम् ।
विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि ॥ सुव्_४.१२ ॥
नरासुराणामपि सर्वप्राणीनां याचन्तु तां देशनप्रार्थनाय ।
अनेन चो दुन्दुभिघोषनादिना तत्सर्वि तेषां परिपूरयेयम् ॥ सुव्_४.१३ ॥
ये घोरनरके उपपन्नसत्त्वा आदीप्तसंप्रज्वलिताग्निगात्राः ।
निस्तीर्णशोकाश्च परिभ्रमन्ति निर्वापणं भेष्यति तेषु चामुना ॥ सुव्_४.१४ ॥
ये दुःखसत्त्वाः सुदारुणार्श्च घोरा नरकेषु प्रेतेषु मनुष्यलोके ।
अनेन च दुन्दुभिघोषनादिना सर्वे च तेषां प्रशमन्तु दुःखाः ॥ सुव्_४.१५ ॥
(बग्छि १३)
निस्राणमपरित्राणमशरण्यं कृतानि च ।
त्राता तेषां भवेयं च शरण्यः शरणोत्तमः ॥ सुव्_४.१६ ॥
समन्वाहरन्तु मां बुद्धां कृपाकारुण्यचेतसः ।
अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिताः ॥ सुव्_४.१७ ॥
यच्च मे पापकं कर्म कृतपूर्वं सुदारुणम् ।
तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रतः ॥ सुव्_४.१८ ॥
मातापितॄनवजानन्ता बुद्धानामप्रजानता ।
कुशलं चाप्रजानन्ता यत्तु पापं कृतं मया ॥ सुव्_४.१९ ॥
एश्चर्यमदमत्तेन कुलरूपमदेन च ।
तारुण्यमदमत्तेन यत्तु पापं कृतं मया ॥ सुव्_४.२० ॥
दुश्चिन्तितं दरुक्तं च दुष्कृतेनापि कर्मणा ।
अनादीनवदृष्टेन यत्तु पापं कृतं मया ॥ सुव्_४.२१ ॥
बालबुद्धिप्रचारेण अज्ञानावृतचेतसा ।
पापमित्रवशाच्चैव क्लेशव्याकुलचेतसा ॥ सुव्_४.२२ ॥
क्रीडारतिशाच्चैव शोकरोगवशेन च ।
अतृप्तधनदोषेण यत्तु पापं कृतं मया ॥ सुव्_४.२३ ॥
अनार्यजनसंसर्गादीर्ष्यामात्सर्यहेतुना ।
शाठ्यदारिद्रदोषेण यत्तु पापं कृतं मया ॥ सुव्_४.२४ ॥
व्यसनागमकालेऽस्मिन्कामानां भयहेतुना ।
अनैश्वर्यगतेनापि यत्तु पापं कृतं मया ॥ सुव्_४.२५ ॥
चलचित्तवशेनैव कामक्रोधवशेन वा ।
क्षुप्तिपासार्दितेनापि यत्तु पापं कृतं मया ॥ सुव्_४.२६ ॥
पानर्थां भोजनार्थं च वस्त्रार्थं स्त्रीप्सुहेतुना ।
विविधक्लेशसंतापैर्यत्तु पापं कृतं मया ॥ सुव्_४.२७ ॥
कायवाङ्भानसं पापं त्रिधातुचरितं च तत् ।
यत्कृत्मीदृशैः रूपैस्तत्सर्वं देशयाम्यहम् ॥ सुव्_४.२८ ॥
(बग्छि १४)
यत्तद्बुद्धेषु धर्मेषु श्रावकेषु तथैव च ।
अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम् ॥ सुव्_४.२९ ॥
यत्तत्प्रत्येकबुद्धेषु बोधिसत्त्वेषु वा पुनः ।
अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम् ॥ सुव्_४.३० ॥
सद्धर्मः प्रतिक्षिप्तः स्यादजानन्तेन मे सदा ।
मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम् ॥ सुव्_४.३१ ॥
मूर्खत्वेनापि बालत्वान्मानदर्पावृतेन च ।
रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम् ॥ सुव्_४.३२ ॥
पूजयित्वा दशदिशि लोके दशबलाञ्जिनान् ।
उद्धरिष्याम्यहं सत्त्वान्सर्वदुःखाद्दशद्दिशि ॥ सुव्_४.३३ ॥
स्थापयिष्ये दशभुवि सर्वसत्त्वानचिन्तियान् ।
दशभूमौ हि स्थित्वा च सर्वे भोन्तु तथागताः ॥ सुव्_४.३४ ॥
एकैकस्य हि सत्त्वस्य चरेयं कल्पकोटयः ।
यावच्छक्यं हि तत्सर्वं मोक्षितुं दुःखसागरात् ॥ सुव्_४.३५ ॥
तेषां सत्त्वानां देशेयं गम्भीरां देशनामिमाम् ।
स्वर्णप्रभोत्तमां नाम सर्वकर्मक्षयंकरीम् ॥ सुव्_४.३६ ॥
येन कल्पसहस्रेषु कृतं पापं सुदारुणम् ।
एकवेलं प्रकाशन्तु सर्वे व्रजन्तु संक्षयम् ॥ सुव्_४.३७ ॥
देशयिष्ये इमां धर्मां स्वर्णप्रभामनुत्तराम् ।
ये शृण्वन्ति शुभां तेषां संयान्तु पापसंक्षयम् ॥ सुव्_४.३८ ॥
स्थास्यामि दशभूमौ तान्दशरत्नाकरे वरे ।
आभासयन्बुद्धगुणैस्तरेयं भवसागरात् ॥ सुव्_४.३९ ॥
(बग्छि १५)
यच्च बुद्धसमुदौघं गम्भीरं गुणसागरम् ।
अचिन्तियबुधगुणैः सर्वज्ञत्वं प्रपूरये ॥ सुव्_४.४० ॥
समाधिशतसाहस्रैर्धारणीभिरचिन्तितैः ।
इन्द्रियबलबोध्यङ्गैर्भवे दशबलोत्तमः ॥ सुव्_४.४१ ॥
व्यवलोकय मां बुद्ध समन्वाहृतचेतसा ।
अत्ययं प्रतिगृह्णातु विमोचयतु मां भयात् ॥ सुव्_४.४२ ॥
यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च ।
तस्यार्थे शोकचित्तोऽहं कृपणस्तृष्णयार्दितः ॥ सुव्_४.४३ ॥
विभेमि पापकर्मोऽहं सततं हीनमानसः ।
यत्र यत्र चरिष्यामि न चास्ति मङ्गलं क्वचित् ॥ सुव्_४.४४ ॥
सर्वे कारुणिका बुद्धाः सत्त्वभयहराः जिनाः ।
अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् ॥ सुव्_४.४५ ॥
क्लेशकर्मफलं मह्यं प्रवाहन्तु तथागताः ।
स्नापयन्तु च मां बुद्धाः कारुण्यविमलोदकैः ॥ सुव्_४.४६ ॥
सर्वपापं देशयामि यत्तु पूर्वं कृतं मया ।
यच्च ह्येतर्हि मे पापं तत्सर्वं देशयाम्यहम् ॥ सुव्_४.४७ ॥
आयत्या सर्वमापद्यन्सर्वदुष्कृतकर्मणा ।
न च्छादयामि तत्पापं यद्भवेन्मम दुष्कृतम् ॥ सुव्_४.४८ ॥
त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम् ।
मानसं त्रिप्रकारं च तत्सर्वं देशयाम्यहम् ॥ सुव्_४.४९ ॥
कायकृतं च वाक्कृतं मनसा च विचिन्तितम् ।
कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम् ॥ सुव्_४.५० ॥
दशाकुशल वर्जित्वा सेवित्वा कुशलान्दश ।
स्थास्यामि दशभूमौ च पश्ये दशबलोत्तमम् ॥ सुव्_४.५१ ॥
(बग्छि १६)
यच्च मे पापकं कर्म अनिष्टफलवाहकम् ।
तत्सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः ॥ सुव्_४.५२ ॥
ये चापि जम्बुद्वीपेऽस्मिन्ये चान्यलोकधातुषु ।
कुर्वन्ति कुशलं कर्म तत्सर्वमनुमोदये ॥ सुव्_४.५३ ॥
यच्च पुण्यार्जितं मह्यं कायवाङ्भनसापि च ।
तेन कुशलमूलेन स्पृशेयं बोधिमुक्तमाम् ॥ सुव्_४.५४ ॥
भवगतिसंकटबालबुद्धिना पापं ह्यपि यच्च कृतं सुदारुणम् ।
दशबलसंमुखमग्रतः स्थितस्तत्सर्वपापं प्रतिदेशयामि च ॥ सुव्_४.५५ ॥
तत्पापं समुच्चितं जन्मसंकटे विविधकामप्रचारसंकटे ।
लोकसंकटे भवसंकटे च सर्वमूर्खकृतक्लेशसंकटे ॥ सुव्_४.५६ ॥
चापल्यमदनचित्तसंकटे पापमित्रागमसंकटैरपि ।
संसारसंकटरागसंकटे द्वेषमोहतमसंकटैरपि ॥ सुव्_४.५७ ॥
अक्षयसंकटकालसंकटे पुण्यमपार्जनसंकटैरपि ।
अतुलियजिनसंमुखस्थितः तत्सर्वपापं प्रतिदेशयामि च ॥ सुव्_४.५८ ॥
वन्दामि बुद्धान् गुणसागरोपमान् सुवर्णवर्णानवभासितदिगन्तान् ।
तेषां जिनानां शरणं व्रजामि मूर्ध्रा च तान्सर्वजिनान्नमामि ॥ सुव्_४.५९ ॥
सुवर्णवर्णं ---- कनकाचलाभं वैडूर्यनिर्मलविशुद्धसुलोचनाङ्गम् ।
श्रीतेजकीर्तिज्वलनाकरबुद्धसूर्यं करुणाप्रभं विधमकं तमसान्धकानाम् ॥ सुव्_४.६० ॥
(बग्छि १७)
सुनिर्मलं सुरुचिरं सुविराजिताङ्गं संबुद्धसूर्यकनकामलनिःसृताङ्गम् ।
क्लेशाग्नितप्तमनसां ज्वलनाग्निकल्पं प्रह्लादनं मुनिनिशाकररश्मिजालम् ॥ सुव्_४.६१ ॥
द्वात्रिंशलक्षणधरं ललितेन्द्रियाङ्गमनुव्यञ्जनः सुरुचिरं सुविराजिताङ्गम् । श्रीपुण्यतेजज्वलनाकुलरश्मिजालं संतिष्ठसे तमसि सूर्य इव त्रिलोके ॥ सुव्_४.६२ ॥
वैडूर्यनिर्मलविशालविचित्रवर्णस्ताम्रारुणै रजतस्फटिकलोहिताङ्गम् ।
नानाविचित्रसमलङ्कृतरश्मिजालं त्वं संविरोचसि महामुनि सूर्यकल्पः ॥ सुव्_४.६३ ॥
संसारनद्यपतितव्यसनौघमध्ये शोकाकुले मरणतोयजरातरङ्गे ।
दुःखार्णवे परमकम्पितचण्डवेगे संतारय सुगतभास्कररश्मिजालैः ॥ सुव्_४.६४ ॥
वन्दामि बुद्धान् कनकोज्वलाङ्गान् सुवर्णवर्णव्यवभासिताङ्गान् ।
ज्ञानाकरान् सर्वत्रिलोकसारान् विचित्ररूपान् शुभलक्षणाङ्गान् ॥ सुव्_४.६५ ॥
यथा समुद्रे जलमप्रमेयं यथा मही चाणुरजैरनन्ता ।
यथोपलैर्मेरुरनन्ततुल्यो यथैव चाकाशमनन्तपारम् ॥ सुव्_४.६६ ॥
तथैव बुद्धस्य गुणा अनन्ताः न शक्य ज्ञातुं खलु सर्वसत्त्वैः ।
(बग्छि १८)
अनेककल्पानि तु चिन्तयन्ते न शक्य पर्यन्तगुणानि ज्ञातुम् ॥ सुव्_४.६७ ॥
मही सशैला सगिरिः ससागरा गणं तु कल्पैरपि शक्य जानितुम् ।
जलं च वालाग्रमपि प्रमाणं न शक्य बुद्धस्य गुणाग्रपारम् ॥ सुव्_४.६८ ॥
एतादृशी सत्त्व भवन्तु सर्वे गुणेन वर्णेन यशेन कोट्या ।
गात्रेण ते शोभितलक्षणेन अशीत्यनुव्यञ्जनमण्डितेन ॥ सुव्_४.६९ ॥
अनेन चाहं कुशलेन कर्मणा भवेय बुद्धो न चिरेण लोके ।
देशेय धर्मं जगतो हिताय मोचेय सत्त्वान्बहुदुःखपीडितान् ॥ सुव्_४.७० ॥
जयेय मारं सबलं ससैन्यं प्रवर्तयेयं शुभधर्मचक्रम् ।
तिष्ठेय कल्पानि अचिन्तियानि तर्पेय सत्त्वानमृतेन पाणिना ॥ सुव्_४.७१ ॥
पूरेय षट्पारमिता अनुत्तरा यथैव पूर्वं जिनपूर्वकानाम् ।
हनेय क्लेशान्विधमेय दुःखान् शमेय रागांस्तथ द्वेषमोहान् ॥ सुव्_४.७२ ॥
जातिस्मरो नित्य भवेय चाहं जातिशता जातिसहस्रकोट्यः ।
अनुस्मरेयं सततं मुनीन्द्रं शृण्वीय तेषां वचनं ह्युदारम् ॥ सुव्_४.७३ ॥
(बग्छि १९)
अनेन चाहं कुशलेन कर्मणा लभेय बुद्धेहि सदा समागमम् ।
विवर्जयेयं खलु पापकर्म चरेय पुण्यानि शुभाकराणि ॥ सुव्_४.७४ ॥
सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च पापाः प्रशमन्तु लोके ।
ये सत्त्वा विकलेन्द्रिय अङ्गहीनाः ते सर्वि कुशलेन्द्रिय भोन्तु सांप्रतम् ॥ सुव्_४.७५ ॥
ये व्याधिना दुर्बलक्षीणगात्रा निश्राणभूताश्च दशोदिशासु ।
ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियानि ॥ सुव्_४.७६ ॥
कुराजचौरसमार्जितबध्यप्राप्ता नानाविधैर्मयशतैर्व्यसनोपपन्नाः ।
ते सर्वि सत्त्वा व्यसनागतदुःखिता हि मुच्यन्तु ते भयशतैः परमैः सुघोरैः ॥ सुव्_४.७७ ॥
ये पीडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु संस्थिता हि ।
अनेकआयाससहस्रव्याकुला विचित्रभयदारुणशोकप्राप्ताः ॥ सुव्_४.७८ ॥
ते सर्वे मुच्यन्तु च बन्धनेभ्यः संताडिता मुच्यन्तु च ताडनेभ्यः ।
वध्याश्च मुच्यन्तु जीवितेभ्यो व्यसनागता निर्भया भोन्तु सर्वे ॥ सुव्_४.७९ ॥
ये सत्त्व क्षुत्तर्षनिपीडिताश्च लभन्तु ते भोजनपानचित्रम् ।
(बग्छि २०)
अन्धाश्च पश्यन्तु विचित्ररूपान् वधिराश्च शृण्वन्तु मनोज्ञघोषान् ॥ सुव्_४.८० ॥
नग्नाश्च वस्त्राणि लभन्तु चित्रा दरिद्रसत्त्वाश्च धनांल्लभन्तु ।
प्रभूतधनधान्यविचित्ररत्नाः सर्वे च सत्त्वाः सुखिनो भवन्तु ॥ सुव्_४.८१ ॥
मा कस्यचिद्धावतु दुःखवेदना सुदर्शनाः सत्त्व भवन्तु सर्वे ।
अभिरूपप्रासादिकसौम्यरूपा अनेकसुखसंचित नित्य भोन्तु ॥ सुव्_४.८२ ॥
मनःशान्तपौराः सुसमृद्धपुण्याः वीणा मृदङ्गा पटहा सुघोषा ।
उत्साः सराः पुष्करिणी तडागाः सुवर्णपद्मोत्पलपद्मिनीभिः ॥ सुव्_४.८३ ॥
सहचित्तमात्रेण तु तेष भोन्तु अन्नं च पानं च तथैव वस्त्रम् ।
धनं हिरण्यं मणिमुक्तिभूषणं सुवर्णवैडूर्यविचित्ररत्नम् ॥ सुव्_४.८४ ॥
मा दुःखशब्दाः क्वचि लोकि भोन्तु भा चैकसत्त्वः प्रतिकूलदर्शी ।
सर्वे च ते भोन्तु उदारवर्णाः प्रभाकरा भोन्तु परस्परेण ॥ सुव्_४.८५ ॥
या काचि संपत्ति मनुष्यलोके सा तेषु भोतू मनसोपपत्तिः ।
(बग्छि २१)
सर्वाभिप्राया सहचित्तमात्रैः पुण्येन फलेन परिपूरयन्तु ॥ सुव्_४.८६ ॥
गन्धं च माल्यं च विलेपनं च धूपं च चूर्णं कुसुमं च पूर्णम् ।
त्रिकाले वृक्षेहि प्रवर्षयन्तु गृह्णन्तु ते सत्त्व भवन्तु तुष्टाः ॥ सुव्_४.८७ ॥
कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् ।
सबोधिसत्त्वान् सश्रावकाणां धर्मस्य बोधिप्रतिसंस्थितस्य ॥ सुव्_४.८८ ॥
नीचां गतिं सर्वि विवर्जयन्तु तरन्तु अष्टाङ्गिकवीचिवृत्ताः ।
आसादयन्तु जिनराजमूर्ति लभन्तु बुद्धेहि सदा समागमम् ॥ सुव्_४.८९ ॥
उच्चैः कुलीना हि भवन्तु नित्यं प्रभूतधनधान्यसमृद्धकोशाः ।
रूपेण शौर्येण यशेन कीर्त्या समलङ्कृता भोन्तु अनेककल्पान् ॥ सुव्_४.९० ॥
सर्वा स्त्रियो नित्य नरा भवन्तु शूराश्च वीराश्च विज्ञपण्डिताश्च ।
ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु ॥ सुव्_४.९१ ॥
पश्यन्तु बुद्धान् दशसू दिशासु रत्नोत्तमवृक्षसुखोपविष्टान् ।
(बग्छि २२)
वैडूर्यसिंहासनि संनिषण्णान् शृण्वन्तु धर्मांश्च प्रकाश्यमानान् ॥ सुव्_४.९२ ॥
पापानि कर्माणि मया जितानि पूर्वार्जिता यद्भवसंकटेषु ।
ये पापकर्माभिरता वहन्ते ते सर्वि क्षीयन्तु च निर्विशेषाः ॥ सुव्_४.९३ ॥
ते सर्वसत्त्वा भवबन्धनस्थाः संसारपाशैर्दृढबन्धबद्धाः ।
प्रज्ञाकरैर्भासित भोन्तु बन्धनान्मुच्यन्तु दुःखैरुपजा भवन्तु ॥ सुव्_४.९४ ॥
ये चापि सत्त्वा इह जाम्बुद्वीपे ये चापि अन्यषु च लोकधातुषु ।
कुर्वन्तु गम्भीरविचित्रपुण्यं तत्सर्वपुण्यं ह्यनुमोदयामि ॥ सुव्_४.९५ ॥
तेनैव पुण्याभ्यनुमोदनेन कायेन वाचा मनसार्जितेन ।
प्रणिधानसिद्धिः सफला मयास्तु स्पृशेय बोधिं विरजामनुत्तराम् ॥ सुव्_४.९६ ॥
यो वन्दते तोष्यति दशबलान् सदा च प्रसन्नशुद्धामलमानसेन ।
इमाय परिणामनदेशनाय षष्टिं च कल्पान् जहते अपायान् ॥ सुव्_४.९७ ॥
एतेभि श्लोकेभि च वर्णितेभिः पुरुषाः स्त्रियो ब्रह्मणक्षत्रिया च ।
(बग्छि २३)
यस्तोष्यते मुनिं स कृताञ्जलिभिः स्थिहित्व सर्वत्र जातिस्मरु शतजातिषु ॥ सुव्_४.९८ ॥
सर्वाङ्ग सर्वेन्द्रिय शोभिताङ्गो विचित्रपूर्णेभिर्गुणैरुपेतः ।
नरेन्द्रराजैश्च सुपूजितः सदा एतादृशो भेष्यति तत्र तत्र ॥ सुव्_४.९९ ॥
न तैरेकस्य बुद्धस्य चान्तिके कुशलं कृतम् ।
न द्वयोरपि त्रयेषु न पञ्चसु न दशसु ॥ सुव्_४.१०० ॥
तथा बुद्धसहस्राणामान्तिके कुशलं कृतम् ।
येषामिदं कर्णपुटे देशनं प्रविष्यतीति ॥ सुव्_४.१०१ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे देशनापरिवर्तो नाम चतुर्थः ॥


_____________________________________________________________



(बग्छि २४)
॥ कमलाकरसर्वतथागतस्तवपरिवर्तः ॥

अथ खलु भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन राजा सुवर्णभुजेन्द्रो नामासीत् । एतेन कमलाकरेण सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नान् बुद्धान् भगवतोऽभ्यस्तावीत् ॥

ये जिन पूर्वक ये च भवन्ति ये च ध्रियन्ति दशोदिशि लोके ।
तेष जिनान करोमि प्रणामं तं जिनसंघमहं प्रशयिष्ये ॥ सुव्_५.१ ॥
शान्तप्रशान्तविशुद्धमुनीन्द्रं सुवर्णवर्णप्रभासितगात्रम् ।
सर्वसुरासुरसुस्वरबुद्धं ब्रह्मरुते स्वरगर्जितघोषम् ॥ सुव्_५.२ ॥
षट्पदमौलमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् ।
शङ्खतुषारसुपाण्डलदन्तं हेमविराजितभासितनाभम् ॥ सुव्_५.३ ॥
नीलविशालविशुद्धसुनेत्रं नीलमिवित्पलप्रच्युतिभासम् ।
पद्मसुवर्णविशालसुजिह्वं पद्मप्रभासितपद्ममुखाभम् ॥ सुव्_५.४ ॥
शङ्खमृणालनिभामुखतोर्णं दक्षिणवर्तितवेरुलिवर्णम् ।
सूक्ष्मनिशाकरक्षीणशशीव गात्र मुनेर्म्रमराज्वलनाभम् ॥ सुव्_५.५ ॥Œ(बग्छि २५)
काञ्चनकोटि सुवर्णमृदुरं नासमुखोन्नत पीवरघ्राणम् ।
अग्रधराग्रविशिष्टसुनासं मृदुक सर्वजिनांश सततम् ॥ सुव्_५.६ ॥
एकसमे चित्तरोममुखाग्रं वालसुरोमप्रदक्षिणवर्तम् ।
नीलनिभा ज्वलकुण्डलजातं नीलविराजितमौलिसुग्रीवम् ॥ सुव्_५.७ ॥
जातसमानप्रभासितगात्रं पूजितसर्वि देशोदिशि लोके ।
दुःखमनन्तप्रशान्तत्रिलोके सर्वसुखेन च तर्पितसत्त्वम् ॥ सुव्_५.८ ॥
नरकगातिष्वथ तिर्यग्गतीषु प्रेतसुरासुरमनुष्यगतीषु ।
तेषु च सर्वसुखार्पितसत्त्वं सर्वप्रशान्त अपायगतीषु ॥ सुव्_५.९ ॥
वर्णसुवर्णकनाकनिभासं काञ्चनतप्तप्रभासितगात्रम् ।
सौम्यशशाङ्कसुविमलवक्रं विकासितराजितसुविमलवदनम् ॥ सुव्_५.१० ॥
तरुणतनूरुहकोमलगात्रं सिंहमिवाक्रमविक्रमनागम् ।
लम्बितहस्त प्रलम्बितबाहुं मारुतप्रेरितशाललतेव ॥ सुव्_५.११ ॥
(बग्छि २६)
व्योमप्रभाज्वलमुञ्चितरश्मिं सूर्यसहस्रमिव प्रतपन्तम् ।
निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासित क्षेत्रमनन्तम् ॥ सुव्_५.१२ ॥
चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रशतेषु ।
तेऽपि च निष्ठित सर्वमभूषि बुद्धप्रभासविरोचनतायै ॥ सुव्_५.१३ ॥
बुद्धदिवाकरलोकप्रदिपं बुद्धदिवाकरशतसहस्रम् ।
क्षेत्रमनन्तसहस्रशतेषु पश्यतु सत्त्व तथागतसूर्यम् ॥ सुव्_५.१४ ॥
पुण्यसहस्रशताच्चितकायं सर्वगुणेभिरलङ्कृतगात्रम् ।
शौण्डगजेन्द्रनिभं जिनबाहुं विमलसुलक्षणमण्डितहस्तम् ॥ सुव्_५.१५ ॥
भूमितलोपमरजसमतुल्यं सूक्ष्मरजोपम ये गतबुद्धाः ॥
सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये च स्थिहन्ति ॥ सुव्_५.१६ ॥
तेष जिनान करोमि प्रणामं कायतु वाचमनेन प्रसन्नः ।
पुष्पप्रदानसुगन्धप्रदानैर्वर्णशतेन सुचेतसि चापि ॥ सुव्_५.१७ ॥
जिह्वशतैरपि बुद्धगुणानि कल्पसहस्रशते न हि वक्तुम् ।
(बग्छि २७)
ये गुणसाधुनिवृत्ति जिनानां सा च वराग्रविचित्र अनेकैः ॥ सुव्_५.१८ ॥
एकजिनस्य गुणा न हि शक्या जिह्वशतैरपि भाषितु कश्चित् ।
काममशक्ति हि सर्वजिनानामेकगुणस्य हि विस्तर वक्तुम् ॥ सुव्_५.१९ ॥
सर्वसदेवकुलोक्तसमूहः सर्वभवाग्रभवे जलपूर्णा ।
केशग्रहणेन तु शक्य प्रमातुं नैव च एकगुणा सुगतानाम् ॥ सुव्_५.२० ॥
वर्णित संस्तुत मे जिनसर्वं कायतु वाच प्रसन्नमनेन ।
यन्मम सञ्चितपुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् ॥ सुव्_५.२१ ॥
एवं स्तवित्व नरपति बुद्धमेवं करोति नृपः प्रणिधानम् ।
यत्र च कुत्रचि मह्य भवेत जाति अनागतकल्पमनन्ता ॥ सुव्_५.२२ ॥
ईदृशि भेरि मि पश्यमि स्वप्ने ईदृश देशन तत्र शृणोमि ।
ईदृश जीनस्तुतिकमलाकर जातिषु तत्र लभे स्मरणत्वम् ॥ सुव्_५.२३ ॥
बुद्धगुणानि अनन्तमतुल्या येऽपि च दुर्लभ कल्पसहस्रैः ।
(बग्छि २८)
अमु श्रुणेय च स्वप्नगतोऽपि तेषु च देशयि दिवसगतोऽपि ॥ सुव्_५.२४ ॥
दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभि पि पारमिताभिः ।
बोधिमनुत्तर पश्च लभेयं क्षेत्र भवेत ममा असमर्थ्यम् ॥ सुव्_५.२५ ॥
भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः ।
संमुख पश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् ॥ सुव्_५.२६ ॥
ये इम दारक द्वौ मम पुत्रौ कनकेन्द्र कनकप्रभास्वरः ।
ते उभि दारक तत्र लभेयं बोधिमनुत्तर व्याकरणं च ॥ सुव्_५.२७ ॥
येऽपि च सत्त्व अरक्ष अत्राणा शरणविहीन वियासगताश्च ।
तेषु भवेय अनागत सर्व त्राणपरायणशरणेभिश्च ॥ सुव्_५.२८ ॥
दुःखसमुद्भवसंक्षयकर्ता सर्वसुखस्य च आकरभूतः ।
कल्प अनागत बोधि चरेयं यत्तक पूर्वककोटिगताश्च ॥ सुव्_५.२९ ॥
स्वर्णप्रभोत्तमदेशनताय पापसमुद्र शोषतु मह्यम् ।
(बग्छि २९)
कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विच्छिद्यतु मह्यम् ॥ सुव्_५.३० ॥
पुण्यसमुद्र प्रपूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् ।
विमलज्ञानप्रभासबलेन सर्वगुणान समुद्र भवेया ॥ सुव्_५.३१ ॥
बोधिगुणैर्गुणरत्न प्रपूर्णा देशनस्वर्ण प्रभासबलेन ।
पुण्यप्रभास भविष्यति मह्यं बोधिप्रभास विशोध्यतु मह्यम् ॥ सुव्_५.३२ ॥
कायप्रभास भविष्यति मह्यं पुण्यप्रभास विरोचनता च ।
सर्वत्रिलोकि विशिष्ट भवेयं पूण्यबलेन समन्वित नित्यम् ॥ सुव्_५.३३ ॥
दुःखसमुद्र उत्तारयिता सर्वसुखस्य च सागरकल्प्य ।
कल्पमनागत बोधि चरेयं यत्तकपूर्वककोटिगताश्च ॥ सुव्_५.३४ ॥
यादृशक्षेत्रविशिष्ट त्रिलोके सर्वजिनानमनन्त गुणेन ।
तादृशक्षेत्रमनन्तगुणं भेष्यति मह्यमनागतसर्वम् ॥ सुव्_५.३५ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे कमलाकरसर्वतथागतस्तवपरिवर्तो नाम पञ्चमः ॥


_____________________________________________________________



(बग्छि ३०)
॥ शून्यतापरिवर्तः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत ॥

अन्येषु सूत्रेषु अचिन्तियेषु अतिविस्तरं देशितशून्यधर्माः ।
तस्मादिमे सूत्रवरोत्तमे वः संक्षेपतो देशित शून्यधर्माः ॥ सुव्_६.१ ॥
सत्त्वोऽल्पबुद्धिरविजानमानो न शक्य ज्ञातुं खलु सर्वधर्मा ।
पश्येह सूत्रेन्द्रवरोत्तमेन संक्षेपतो देशित शून्यधर्माः ॥ सुव्_६.२ ॥
अन्यैरुपायैर्नयहेतुभिश्च सत्त्वान कारुण्यवशोदयार्थम् ।
प्रकाशितं सूत्रवरेन्द्रमेतं यथाभिजानन्ति हि सर्वसत्त्वाः ॥ सुव्_६.३ ॥
अयं च कायो यथ शून्यग्रामः षड्ग्राम चोरोपम इन्द्रियाणि ।
तान्येकग्रामे निवसन्ति सर्वे न ते विजानन्ति परस्परेण ॥ सुव्_६.४ ॥
चक्षुरिन्द्रियं रूपमेतेषु धावति श्रोत्रेन्द्रियं शब्दविचारणेन ।
घ्राणेन्द्रियं गन्धविचित्रहारि जिह्वन्द्रियं नित्य रसेषु धावति ॥ सुव्_६.५ ॥
(बग्छि ३१)
कायेन्द्रियं स्पर्शगतोऽभिधावति मनेन्द्रियं धर्मविचारणेन ।
षडिन्द्रियाणीति परस्परेण स्वकं स्वकं विषयमभिधावति ॥ सुव्_६.६ ॥
चित्तं हि मायोपम चञ्चलं च षडिन्द्रियं विषयविचारणं च ।
यथा नरो धावति शून्यग्रामे संग्राम चौरेभि समाश्रितश्च ॥ सुव्_६.७ ॥
चित्तं यथा षड्विषयाश्रितं च प्रजानते इन्द्रिय गोचरं च ।
रूपं च शब्दं च तथैव गन्धं रसं च स्पर्श तथ धर्मगोचरम् ॥ सुव्_६.८ ॥
चित्तं च सर्वत्र षडिन्द्रियेषु शकुनिरिव चञ्चलमिन्द्रियसंप्रविष्टम् ।
यत्र यत्रेन्द्रियसंश्रितं च न चेन्द्रियं कुर्वतु जानमात्मकम् ॥ सुव्_६.९ ॥
कायश्च निश्चेष्ट निर्व्यापारं च असारकः प्रत्ययसंभवश्च ।
अभूतविकल्पसमुत्थितश्च स्थितकर्मयन्त्रमिवं शून्यग्रामः ॥ सुव्_६.१० ॥
(बग्छि ३२)
क्षित्यम्भतेजोऽनिलानि यथा चौरग्रामान्तः स्थित देशदेशे ।
परस्परेणैव सदा विरुद्धा यथैव आशीविष एकवेश्मनि ॥ सुव्_६.११ ॥
धातूरगास्ते च चतुर्विधानि द्वे ऊर्ध्वगामी द्वय हेष्टगामी ।
द्वयाद्वयं दिशि विदिशासु सर्वं नश्यन्ति ता धातुभुजङ्गमानि ॥ सुव्_६.१२ ॥
क्षित्युरगश्च सलिलोरगश्च इमौ च हेष्टा क्षयतां व्रजेते ।
तेजोरगश्चानिलमारुतोरग इमौ हि द्वे ऊर्ध्वगतौ नभोऽन्ते ॥ सुव्_६.१३ ॥
चित्तं च विज्ञानमध्यस्थितं च गत्वा यथा पूर्वकृतेन कर्माणा ।
देवे मनुष्यएषु च त्रिष्वपाया यथाकृतं पूर्वभवे प्रवर्त्त्या ॥ सुव्_६.१४ ॥
श्लेष्मानिलपित्तक्षयान्तप्राप्तः कायः शकृन्मूत्रपरीषपूर्णः ।
निराभिरामः कृमिक्षुद्रपूर्णः क्षिप्तः श्मशाने यथ काष्ठभूतः ॥ सुव्_६.१५ ॥
पश्याहि त्वं देवत एभि एवं कत्यत्र सत्त्वस्तथ पुद्गलो वा ।
(बग्छि ३३)
शून्या हि एते खलु सर्वधर्मा अविद्यतः प्रत्ययसंभवाश्च ॥ सुव्_६.१६ ॥
एते महाभूत अभूत सर्वाश्च यस्मान्महाभूतप्रकृत्यभावा ।
तस्माच्च भूता हि असंभवाश्च अविद्यमाना न कदाचि विद्यते ॥ सुव्_६.१७ ॥
अविद्यतः प्रत्ययसंभवाश्च अविद्यमानैव अविद्यवाचः ।
तस्मान्मया उक्त अविद्य एषा संस्कारविज्ञान सनामरूपम् ॥ सुव्_६.१८ ॥
षडायतनस्पर्श तथैव वेदना तृष्णा उपादान तथा भवश्च ।
जातिजरामरणशोक उपद्रवाणां दुःखानि संस्कार अचिन्तियानि ॥ सुव्_६.१९ ॥
संसारचक्रे च यथा स्थितानि अभूत संभूत असंभवाश्च ।
अयोनिशश्चित्तविचारणं तथा दृष्टीगतं छेत्स्यथ आत्मनैव ॥ सुव्_६.२० ॥
ज्ञानासिना छिन्दथ क्लेशजालं स्कन्धालयं पश्यथ शून्यभूतम् ।
स्पर्शेथ तं बोधिगुणं ह्युदारं विवर्त च मे अमृतपुरस्य द्वारम् ॥ सुव्_६.२१ ॥
संदर्शि तममृतपुरस्य भाजनं प्रवेक्ष्य तममृतपुरालयं शुभम् ।
(बग्छि ३४)
तर्पिष्य ह अमृततरसेन आत्मनां पराहता मे वरधर्मभेरीः ॥ सुव्_६.२२ ॥
आपूरितो मे वरधर्मशङ्खः प्रज्वालिता मे वरधर्म उल्का ।
सुवर्षितं मे वरधर्मवर्षं पराजिता मे परक्लेशशत्रवः ॥ सुव्_६.२३ ॥
उच्छ्रेपितं मे वरधर्मध्वजं प्रतारिता मे भवसत्त्वसमुद्राः ।
पिधितानि मेऽपायपथानि त्रीणि क्लेशाग्निदाहं शमयित्व प्राणिनाम् ॥ सुव्_६.२४ ॥
यस्माद्धि पूर्वमहमनेककल्पानचिन्तिया पूजित्व नायका हि ।
चरित्व बोधाय दृढव्रतेन सद्धर्मकायं परिवेषमाणः ॥ सुव्_६.२५ ॥
हस्तौ च पादौ च परित्यजित्वा धनं हिरण्यं मणिमुक्तभूषणम् ।
नयनोत्तमाङ्गं प्रियदारपुत्रं सुवर्णवैडूर्यविचित्ररत्नानि ॥ सुव्_६.२६ ॥
छिन्दित्वा त्रिसाहस्रायां सर्ववृक्षवनस्पतीम् ।
सर्वं च चूर्णयित्वा तत्कुर्यात्सूक्ष्मरजोपमम् ॥ सुव्_६.२७ ॥
चूर्णराशिं करित्वा तु यावदाकाशगोचरम् ।
अशकद्भभागभिन्नाय धरणीरजःसमानि वा ॥ सुव्_६.२८ ॥
(बग्छि ३५)
सर्वसत्त्वा अनेके हि ज्ञानवत तथैव च ।
सर्वं गणयितुं शक्यं न तु ज्ञातं जिनस्य च ॥ सुव्_६.२९ ॥
एकक्षणप्रवृत्तं तु यज्ज्ञानं च महामुनेः ।
अनेककल्पकोटीषु न शक्यं गणयितुं क्वचित् ॥ सुव्_६.३० ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे शून्यतापरिवर्तो नाम षष्ठः ॥


_____________________________________________________________



(बग्छि ३६)
॥ चतुर्महाराजपरिवर्तः ॥

अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराज उत्थायसनेभ्य एकांसेन चीवराणि प्रावृत्य दक्षिणजानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । अयं भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः सर्वतथागतभाषितः सर्वतथागतावलोकितः सर्वतथागतसमन्वागतः सर्वबोधिसत्त्वगणनमस्कृतः
सर्वदेवगणपूजितः सर्वेदेवेन्द्रगणसंप्रहर्षकः सर्वलोकपालस्तुतः स्तवितो वर्णितः प्रशंसितः सर्वदेवभवनावभासितः सर्वसत्त्वानां परमसुखप्रदायकः सर्वनरकतिर्यग्योनियमलोकदुःखसंशोधकः सर्वभयप्रतिशमनः सर्वपरचक्रप्रतिनिवर्तको दुर्भिक्षकान्तारप्रशमनो व्याधिकान्तारप्रणाशको ज्ञानप्रकाशकः परमशान्तिकरः शोकायासप्रशमनो
विविधनानोपद्रव्यप्रशमयितोपद्रवशतसहस्रप्रणाशयिता । इममस्य भदन्त भगवन् सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य विस्तरेण पर्षदि संप्रकाश्यमानस्यास्माकं चतूर्णां महाराजानां सबलपरिवाराणाम् । एतेन च धर्मश्रवणेन धर्मामृतरसेन च दिव्यात्मभावमहातेजसा विवर्धयिष्यन्ति ॥ अस्माकं कायेषु वीर्यं च बलं स्थाम च संजनितं भविष्यन्ति । तेजश्च श्रियं च लक्ष्मीं
चास्माकं कायेष्वाविशन्ति । वयं भगवंश्चत्वारो महाराजा धार्मिकाश्च धर्मवादिनश्च धर्मराजा धर्मेण वयं भदन्त भगवन् देवनागयक्षगन्धर्वासुरगरुडनरमहोरगाणां राजत्वं कारयिष्यामः । ते वयं भगवन्, चत्वारो महाराजाः सार्धमष्टाविंशतियक्षसेनापतिभिरनेकैश्च यक्षशतसहस्रैः सततसमितं सर्वे जम्बुद्वीपं दिव्येन
विशुद्धेनातिक्रान्तमानुष्यकेण व्यवलोकयिष्याम आरक्षयिष्यामः परिपाचयिष्यामः । तेन हेतुना भदन्त भगवन्नस्माकं चतुर्णां महाराजानां लोकपाल इति संज्ञोत्पादिता ॥

(बग्छि ३७)
ये केचिद्भदन्त भगवन्नस्मिन् जम्बुद्वीपे विपर्यासाः परचक्रेण चोपहता भविष्यन्ति, दुर्भिक्षकान्तरेण वा नानाविधैरुपद्रवशतैरुपद्रवसहस्रैरुपद्रवशतसहस्रैरुपहता भविष्यन्ति, ते वयं भदन्त भगवन् चत्वारो महाराजा इदमस्य सुवर्णप्रभासोओत्तमसूत्रेन्द्रराजस्य तेषां च सूत्रेद्रधारिणां भिक्षूणां संचोदनां करिष्यामः । यदा चेमे भदन्त भगवन् धर्मभाणका भिक्षवो
ऽस्माकं चतुर्णां महाराजानां संचोदनया बुद्धाधिष्ठानेन च येषु विषयेषूपसंक्रमेयुस्तेषु ते विषयेषुः चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण संप्रकाशयेयुः । य इमान्येवंरूपाणि विषयगताति नानाविधान्युपद्रवशतान्युपद्रवसहस्रान्युपद्रवशतसहस्राणि च प्रशमयिष्यन्ति ॥

यस्य च भदन्त भगवन्मनुष्यराजस्य विषये ते सूत्रेन्द्रधारका भिक्षवा धर्मभाणाका उपसंक्रान्ता भविष्यन्ति । अयं च मनुष्यराज इमं सुवर्णप्रभाससूत्रेन्द्रराजं शृण्यात् । श्रुत्वा च तेषां सूत्रेन्द्रधारकाणां भिक्षूणां सर्वप्रत्यर्थिकेभ्य आरक्षां कुर्यात्परित्राणं परिग्रहं परिपालनं कुर्यात् । ते वयं भदन्त भगवन् चत्वारो महाराजास्तस्य
मनुष्यराजस्य सर्वविषयगतानां च सत्त्वानामारक्षां करिष्यामः परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः । यदा च भदन्त भगवन् सर्वमनुष्यराजः सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां सर्वसुखोपधानैः सुखतां कुर्यात् । ते वयं भदन्त भगवन् चत्वारो महाराजास्तं मनुष्यराजं
सर्वराजेभ्यः सत्कृततरं करिष्यामो गुरुकृतं च करिष्यामो मानितं च पूजितं च सर्वविषयेषु च प्रसंशनीयं करिष्यामः ।

अथ खलु भगवांश्चतुर्णां महाराजानां साधुकारमदात् । साधु साधु महाराजाः साधु साधु युष्माकं महाराजाः । यथापि ते यूयं पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता धर्मिकाश्च धर्मवादिनश्च धर्मेण देवानां च मनुष्याणां च राजत्वं कारयध्वम् । यथापि पूर्वदीर्घरात्रं सर्वसत्त्वानां हितचित्ताः सुखमैत्रीचित्ताः
सर्वसत्त्वहितसुखाध्याशयप्रतिपन्नाः (बग्छि ३८) सर्वाहितप्रतिषेधिकाः सर्वसत्त्वानां सर्वहितोपसंहाराभियुक्ताः । ते यूयं चत्वारो महाराजास्तेषां मनुष्यराजस्य च सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य पूजासत्काराभियुक्तानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत । तेन युष्माभिश्चतुर्महाराजैः सबलपरिवारैरनेकैश्च
यक्षशतसहस्रैरतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां धर्मनेत्र्यारक्षिता भविष्यति परिपालिता च परिगृहीता च भविष्यति । तेन युष्माकं चतुर्णां महाराजानां सबलपरिवाराणमनेकेषां यक्षशतसहस्राणां देवानां देवासुरसंग्रामे जयो भविष्यति, असुराणां च परिजयो भविष्यति । सर्वपरचक्रप्रमर्दकस्य सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्यार्थाय
तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत ॥

अथ वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरुढको महाराजो विरूपाक्षो महाराज उत्थायासनेभ्य एकांसानि चीवरैः प्रावृत्य दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । अयं भदन्त भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजोऽनागतेऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु प्रचरिष्यति यस्य यस्य मनुष्यराजस्य
विषयमनुप्राप्तो भविष्यति । कश्चिद्भदन्त भगवन्मनुष्यराजो भगवन् येनानेन देवेन्द्रसमयेन राजशास्रेण राजत्वं कारयेत् । अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवंस्ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्सततसमितं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं शृणुयात् । अनेन धर्मश्रवणेन संचोदनधर्मामृतपुण्यात्मकानामस्माकं चतुर्णां
महाराजानां सकलपरिवाराणामनेकेषां च यक्षराक्षसशतसहस्राणामिमान् दिव्यात्मभावान्महतौजसा विवर्धयेत् । महान्तं वीर्यं च स्थाम च बलं चास्माकं कायेषु तेजःश्रियश्च लक्ष्मी चास्माकं विवर्धयेत् । तेन वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैः (बग्छि ३९) यक्षशतसहस्रैरदृश्यद्भिः कायात्मभावैरेतर्हि चानागतेऽध्वनि
यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामः तत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः प्रचरिष्यति । तेषां च मनुष्यराजानामस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणां मातापितॄणां चारक्षां करिष्यामः । परित्राणं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामः ।
तेषां च राजकुलानां तेषां च राष्ट्राणां तेषां च विषयाणामारक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामः । तांश्च विषयान् सर्वभयोपायासेभ्यः परिमोचयिष्यामः परचक्राणि च प्रतिनिवर्तयिष्यामः ।

यः कश्चित्तस्य मनुष्यराजस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतुर्मानयितुः पूजयितुरन्यः सामन्तकः प्रतिशत्रुराजा भवेत् । यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रो राज्ञ एवं चित्तमुत्पादेत् । सोऽहं चतुरङ्गेन बलकायेन सार्धमस्य विषयमुपसंक्रमेयं विनाशयितुम् । तेन खलु पुनर्भदन्त भगवान् कालेन तेन समयेनास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजोऽनुभावेन तस्य सामन्तकस्य
प्रतिशत्रुराजस्यान्यै राजभिः सार्धं संग्रामे भविष्यति । स्वविषयगताश्च विषयविलोपाश्च भविष्यन्ति । दारुणाश्च राजसंक्षोभा भविष्यन्ति । ग्रहरोगाश्च विषये प्रादुभूता भविष्यन्ति । नानाव्याक्षेपशतानि विषये प्रादुर्भूतानि भविष्यन्ति । यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रुराजस्य स्वविषयगतान्येवंरूपाणि नानोपद्रवशतानि नानाव्यक्षेपशतानि भवेयुः
। स च भदन्त भगवन् सामन्तकप्रतिशत्रुराजश्चतुरङ्गीणीं सेनां योजयित्वा परचक्रगमनाय स्वविषयान्निष्क्रान्तो भवेत् । यत्रायं सुवर्णप्रभासोत्तमः सुत्रेन्द्रराजो भवेत्स प्रतिशत्रुराजः सार्धं चतुरङ्गबलकायेन तं विषयमुपसंक्रमितुकामो भवेत् । तं विनाशितुकामो भवेत् । ते वयं भदन्त भगवञ्चत्वारो महाराजाः सबलपरिवारा
अनेकैर्यक्षराक्षसशतसहस्रैरदृश्यैरात्मभावैस्तत्रोपसंक्रमिष्यामः तं परचक्रमध्वानं मार्गप्रतिपन्नं (बग्छि ४०) तथैव प्रतिनिवर्तयिष्यामो नानाव्याक्षेपशतानि चोपसंहरिष्यामो विघ्नांश्च करिष्यामः । यथा च तत्परचक्रं न शक्ष्यति तत्र विषय उपसंक्रमितुम् । कुतः पुनर्विनाशं करिष्यति ॥

अथ खलु भगवांस्तेषां चतुर्णां महाराजानां साधुकारमदात् । साधु साधु महाराजाः साधु खलु पुनर्युष्माकं महाराजानाम् । यद्यूयमत्या असंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीताया अनुत्तरायाः सम्यक्संबोधेरर्थाय तेषां मनुष्यराजानामस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणामारक्षां करिष्यथ । परित्राणं परिग्रहं परिपालनं
शान्तिस्वस्त्ययनं करिष्यथ । तानि च राजकुलानि तानि नगराणि तानि च राष्ट्राणि तानि च विषयाण्यारक्षयिष्यथ । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यथ । तानि च विषयाणि सर्वमयोपद्रवोपसर्गापायासेभ्यः परिमोचयिष्यथ । परचक्राणि च निवर्तयिष्यथ । सर्वजम्बुद्वीपगतानां चास्य मनुष्यराजस्याकलहयाभण्डनयाविग्रहया
विवादयौत्सुक्यमपपद्यथ । यथा च ते युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामस्मिञ्जम्बुद्वीपे तेषु चतुर्षु नगरसहस्रेषु तानि चतुरशीतिनगरसहस्राणि तेषु तेषु विषयेष्वभिरमेयुस्तेन च राज्यैश्वर्येणाभिरमेयुस्तेन च धनस्कन्धेन परस्परं न विहेठयेयुः । न परस्परं विहेठं जनयेयुः । स्वेन च यथा पूर्वकर्मोपचयेन राजत्वं प्रतिलभेयुः । स्वेन
च राज्यैश्वर्येण च तुष्टा भवेयुः । न च परस्परेण विनाशयेयुः । न विषेय विनाशाय परक्रमेयुः ॥

यथा चास्मिञ्जम्बुद्वीपे तेषु चतुरशीतिषु विषयनगरसहस्रेषु तानि चतुरशीतिराज सहस्राणि परस्परेण हितचित्तानि मैत्रीचित्तानि सुखचित्तानि परस्परेण कलहयाभण्डनयाविग्रहयाविवादया स्वेषु स्वेषु विषयेष्वभिरमेरन्तेन पुण्येन चतुर्णां महाराजानां सबलपरिवाराणामयं च जम्बुद्वीपः स्फीतो भविष्यति । सुभिक्षश्च रमणीयश्च बहुजनसमाकीर्णश्चर्द्धश्चौजोवतरश्च भविष्यति ।
ऋतुमासार्धमाससंवत्सराणि च सर्वाणि समाचारयुक्तानि भविष्यन्ति । अहोरात्रं ग्रहनक्षत्रचन्द्रसूर्याश्च समाग्रहिष्यन्ति । कालेन च वर्षधाराः पृथिव्यां निपतिष्यन्ति । सर्वजम्दुद्वीपगतानि च सत्त्वानि सर्वधनधान्यसमृद्धानि भविष्यन्ति । महाभोगानि चामत्सराणि च भविष्यन्ति । परित्यागवन्ति दशकुशलकर्मपथसमन्वागतानि च भविष्यन्ति । यद्भूयसा सुगतौ स्वर्गलोक उपपत्स्यन्ते । देवभुवनानि चाकीर्णानि
भविष्यन्ति देवैर्देवपुत्रैश्च ॥

(बग्छि ४१)
यत्कश्चिन्महाराजो भवेद्य इत्थमस्य सुवर्णप्रभासत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवेन्मानयिता च पूजयिता च तेषां च सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामौत्सुक्यं सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत् । युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणामनुकम्पार्थाय सततसमितं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजेन्द्रं शृण्वन्
। अनेन धर्मश्रवणसलिलोदकेन युष्माकमेतान्यात्मभावानि संतर्पयेत् । महतौजसा युष्माकमेतानि शरीराणि विवर्धयेत् । महच्च युष्माकं वीर्यं च स्थाम बलं च वपुषः संजनयेत् । तेजश्च श्रियश्च लक्ष्मीश्च युष्माकं विवर्धयेत् । तेन च मनुष्यराजेन मम शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्याचिन्त्या महाविपुलविस्तीर्णा पूजा कृता भविष्यति । तेन तस्य
मनुष्यराजेनातीतानागतप्रत्युत्पन्नानां बुद्धानामनेकेषां तथागतानां कोटीनियुतशतसहस्राणामचिन्त्या महती विस्तीर्णा सर्वोपकरणैः पूजा कृता भविष्यति । तेन तस्य मनुष्यराजस्य महत्यारक्षा कृता भविष्यति । तेन च तस्य राज्ञो रक्षां परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं कृतं भविष्यति । अग्रमहिष्याश्च
राजपुत्राणां च सर्वान्तःपुरस्य च राजकुलस्य च सर्वस्य महत्यारक्षा कृता भविष्यति । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं कृतं भविष्यति । राजकुलनिवासन्यश्च सर्वदेवता ओजोवत्तराश्च चित्तेन सुखसौमनस्येन समन्वागता भवितारो रतिमनुभविष्यन्ति । तानि च राष्ट्राणि तानि च विषयाणि चारक्षितानि भविष्यन्ति । परिपाचितानि चानुत्पीडितानि चाकण्टकानि भविष्यन्ति ।
सर्वपरचक्रान्यवमर्दितानि चानुपसर्गाणि चानुपायासानि चेति ॥

एवमुक्ते वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजस्ते सर्वे भगवन्तमेतदवोचन् । तेन च भगवन्मनुष्यराजेन सुस्नातगात्रेण भवितव्यं सुगन्धवासनधारिणा नवरुचिरवस्त्रप्रावृतेन नानालंकारविभूषितेन भवितव्यम् । आत्मनश्च नीचतरमासनं प्रज्ञपयितव्यम् । तत्रासने निषीदित्वा राज्यमदमत्तेन न भवितव्यम् । न चोच्चै राज्ञा स्वयं प्रज्ञपयितव्यम् । शाठ्यमानमददर्पविवर्जितेन
चित्तेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः । तस्य च धर्मभाणकस्य भिक्षोरन्तिके शास्तृसंज्ञोत्पादयितव्या । तेन मनुष्यराजेन तस्मिन्काले तस्मित्समयेऽग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च (बग्छि ४२) प्रियहिताभ्यां प्रेक्षितव्याः । प्रियवचनैश्चाग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च आलपयितव्याः । नानाविचित्राश्च धर्मश्रवणपूजा
आज्ञापयितव्याः । अचिन्त्ययातुल्यया प्रीत्यात्मानं संतर्पयितव्यम् । अचिन्त्येन प्रीतिसुखेन सुखापयितव्यम् । सुखेन्द्रियेण च भवितव्यम् । आत्मनश्च महाबलेन भवितव्यम् । महता प्रहर्षेणात्मा प्रहर्षयितव्यः । महता प्रेमजातेन धर्मभाणकः प्रत्युत्थातव्यः ॥

एवमुक्ते भगवांस्तांश्चतुरो महाराजानेतदवोचत् । तस्मिंश्च खलु पुगर्महारजाः काले तस्मिन्समये तेन मनुष्यराजेन सर्वश्वेतानि पाण्डुराणि नवरुचिवस्त्राणि प्रावरितव्यानि । नानाविभूषणालंकारैरात्मा समलंकर्तव्यम् । महता राजानुभावेन महता राजव्यूहेन नानाविचित्ररत्नमङ्गलपरिगृहीतैस्ततो राजकुलादभिनिष्क्रमितव्यम् । तस्य च धर्मभाणकस्य भिक्षोः प्रत्युद्गमनाय गन्तव्यम् । तत्कस्य हेतोः?
यावन्ति मनुष्यराजस्तत्र पदानि भावयति तावन्ति कल्पकोटीनियुतशतसहस्राणि संसारात्पराङ्मुखानि करिष्यति तावतां चक्रवर्तिराजकुलकोटीनियुतशतसहस्राणां लाभी भविष्यति । यावन्ति स तत्र पदान्यतिक्रमिष्यति तावतां चैव दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धिष्यते । अनेककल्पकोटीनियुतशतसहस्राणामुदारोदाराणां चावस्थानानां सप्तरत्नमयानां दिव्यविमानानां लाभी भविष्यति
। अनेकेषां च दिव्योदाराणां मानुष्यकाणां राजकुलपुत्रशतसहस्राणां लाभी भविष्यति । सर्वत्र च जातिषु महैश्वर्यप्राप्तो भविष्यति । दीर्घायुष्कश्च भविष्यति । चिरंजीवी च भविष्यति । प्रतिभाणवांश्चादेयवचनश्च यशस्वी च सुविशालकीर्तिश्च भविष्यति । सदेवमानुषासुरस्य लोकस्य सुखितश्च भविष्यति । उदारोदाराणां च दिव्यमानुष्यकाणां सुखानां लाभी
भविष्यति । महाबलश्च महानग्नबलवेगधारी चाभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतश्च भविष्यति । सर्वत्र जातिषु तथागतसमवधानगतो भविष्यति । सर्वकल्याणमित्राणि च प्रतिलप्स्यते । अपरिमितपुण्यस्कन्धस्य परिगृहीतो भविष्यति ॥

इमन्येवंरूपाणि महाराजगुणानुशंसानि संपश्यमानेन तेन राज्ञा धर्मभाणको योजनात्प्रत्युत्थातव्यः । तस्य धर्मभाणकस्यान्तिके शास्तृसंज्ञोत्पादयितव्या । एवं चित्तमुत्पादयितव्यम् । अद्य मम शाक्यमुनिस्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले प्रवेक्ष्यति । अद्य मम शाक्यमुनिस्तथागतोऽर्हन्सम्यक्संबुद्ध इह राजकुले स्वजनमनुशसिष्यते । सर्वलोकविप्रत्ययनीयं धर्मश्रवणं श्रोष्यामि
। (बग्छि ४३) अद्याहमनेन धर्मश्रवणेनावैवर्तिको भविष्याम्यनुत्तरायां सम्यक्संबोधौ । अद्य मया तथागतकोटीनियुतशतशस्राण्यारागितानि भविष्यन्ति । अद्य मयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्या महती विपुला विस्तीर्णा पूजा कृता भविष्यति । अद्य मम नरकगतितिर्यग्योनियमलोकदुःखान्यन्तशः समुच्छिन्नानि भविष्यन्ति । अद्य मयानेकानां
ब्रह्मेन्द्रराजत्वकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति । अद्य मयानेकानां शक्रकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलान्यवरोपितानि भविष्यन्ति । अद्य मयानेकानि चक्रवर्तिराजकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति । अद्य मया सत्त्वकोटीनियुतशतसहस्राणि संसारात्परिमोचितानि भविष्यन्ति । अद्य
मयाचिन्त्यसुविपुलविस्तीर्णापारमितपुण्यस्कन्धः परिगृहीतो भविष्यन्ति । अद्य मम सर्वान्तःपुरस्य महत्यारक्षा कृता भविष्यन्ति । अद्य मम राजकुलेऽचिन्त्या समबिशिष्टानुत्तरा महती शान्तिः कृता भविष्यति स्वस्त्ययनं च । अद्य ममायं सर्वविषय आरक्षितो भविष्यति । परिपालितश्चानुत्पीडितश्चानुत्कण्ठिकश्च सर्वपरचक्रानवमर्दितश्चानुपसर्गश्चानुपायासश्च भविष्यति ॥

यदा च महाराजाः स मनुष्यराजोऽनेनैवंरूपेण सद्धर्मगौरवेण सुवर्णप्रभासोत्तमसूत्रेन्द्रराजधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेद्युष्माकं चतुर्णां महाराजानां सबलपरिवाराणां तेषां च देवगणानामनेकेषां च यक्षशतसहस्राणां महा तथा धर्माङ्गप्रत्यक्षं दद्यात्येन चैवासौ मनुष्यराजः पुण्यभिसंस्कारेण
कुशलाभिसंस्कारेण च तेनैव चात्मभावेन च दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धयिष्यति । दृष्टधार्मिकेणाचिन्त्येन महता राजतेजसा समन्वागतो भविष्यति । श्रिया च तेजसा च लक्ष्म्या चालंकृतो भविष्यति । सर्वप्रत्यर्थिकाश्च सर्वशत्रवश्च सहधर्मेण सुनिगृहीता भविष्यन्ति ॥

(बग्छि ४४)
एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् । यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत्सोऽनेनैवंरूपेण धर्मगौरवेणेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयात् । ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत् । अस्माकं चतुर्णां महाराजानामर्थाय तद्राजकुलं सुशोधितं शोधयेत् । नानागन्धोदकसंसिक्तं कुर्यात् । तं च
धर्मश्रावणमस्माभिश्चतुर्भिश्च महाराजैः सार्धं साधारणं शृण्यादात्मनोऽर्थाय सर्वदेवता च किंचिन्मात्रं कुशलं प्रत्यक्षं दद्यात् । समन्तरनिषण्णस्य च भदन्त भगवंस्तस्य भिक्षोर्धमासनगतस्य तेन मनुष्यराजेनास्माकं चतुर्णां महाराजानामर्थाय नानागन्धा धूपयितव्याः । सहधूपितेषु भदन्त भगवंस्तस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय
नानागन्धेषु नानागन्धधूपलता निश्चरन्ति । तस्मिन्नेव क्षणलवमुहूर्तेऽस्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतान्युपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च गन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेनास्माकं भवनान्यवभासितानि भविष्यन्ति । ब्रह्मणः सहांपतेः शक्रस्य च देवानामिन्द्रस्य सरस्वत्याश्च
महादेव्या दृढायाश्च महादेव्याः श्रियश्च महादेव्याः संजयस्य च महायक्षसेनापतेरष्टाविंशतीनां च महायक्षसेनापतीनं महेश्वरस्य च देवपुत्रस्य वज्रपाणेश्च महायक्षसेनापतेर्माणिभद्रस्य च महायक्षसेनापतेर्हारीत्याश्च पञ्चपुत्रशतपरिवाराणामनवतप्तस्य च नागराजस्य चैतेषां भदन्त भगवन्स्वकस्वकभवनगतानाम् । तेन क्षणलवमुहूर्तेनोपर्यन्तरीक्षे
नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । तया चावभासया सर्वभवनान्यवभासितानि भविष्यन्ति ॥

एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । न केवलं युष्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतानामुपर्यन्तरीक्षगताति नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तत्कस्य हेतोः? सहप्रधूपिताश्च महाराजास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजोपस्थानाय । ततश्चैव धूपकुण्डहस्तपरिगृहीता नानागन्धधूपलता निश्चरिष्यन्ति । तेन क्षणलवमुहूर्तेन
सर्वस्यामस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यत्र कोटीशतं चन्द्राणां (बग्छि ४५) कोटीशतं सुमेरूणां पर्वतराजानां कोटीशतं चक्रवाडमहाचक्रवाडानां पर्वतराजानां कोटीशतं चतुर्महाद्वीपानां कोटीशतं चतुर्महाराजकायिकानां देवानां कोटीशतं त्रयस्त्रिंशानां देवानां कोटीशतं यावन्नैवसंज्ञायतनोपगानां देवानाम् ।
सर्वत्र च तेषु त्रिसाहस्रमहासाहस्रलोकधातुकोटीशतेषु त्रयस्त्रिंशेषु देवनिकायेषु सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाणां च भवनगतानां चोपर्यन्तरीक्षगतानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । ताभिश्चावभासाभिः सर्वभवनान्यवभासितानि भविष्यन्ति
। रत्नच्छत्राणि संस्थास्यन्ति । उदारोदाराञ्च गन्धानाघ्रास्यन्ति सर्वदेवभवनेषु सुवर्णवर्णावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेन सर्वदेवभवनान्यवभासितानि भविष्यन्ति । यथा त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वदेवभवनान्युपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तथा चास्य महाराजाः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजसा कुण्डहस्तेन धूपितास्तेन मनुष्यराजेन नानागन्धा
अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तेन क्षणलवमुहूर्तेन समन्ताद्दशसु दिक्ष्वनेकेषु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकेषां गङ्गानदीवालुकासमानां तथागतकोटीनियुतशतसहस्राणामुपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तेषु वालुकोपमेषु
बुद्धकोटीनियुतशतसहस्रेष्वुदारोदारान्नानागन्धधूपानाघ्रास्यन्ति । सुवर्णवर्णमयावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेन तान्यनेकानि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राण्यभासितानि भविष्यन्ति । समनन्तरप्रादुर्भूतानि च महाराजा इमान्येवंरूपाणि महाप्रातिहार्याणि तान्यनेकानि गङ्गानदीवालुकासमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि प्रतिष्ठितास्तथागतास्तं च धर्मभाणकं
समन्वाहरिष्यन्ति । साधुकाराणि च प्रदास्यन्ति साधु साधु सत्पुरुष साधु पुनस्त्वं सत्पुरुष । यस्त्वमिममेवंरूपं गम्भीरमेवं गम्भीरार्थमेवं गम्भीरावभासमेवमचिन्त्यगुणधर्मसमन्वागतं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयितुकामः । (बग्छि ४६) न चैते सत्त्वा इतरेण कुशलमूलेन समन्वागता भविष्यन्ति । य इमं सुवर्णप्रभासोत्तमं
सूत्रेन्द्रराजमन्तशः श्रोष्यन्ति, प्रागेवोद्ग्रहीष्यन्ति धारयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति । विस्तरेण पर्षदि संप्रकाशयिष्यन्ति देशयिष्यन्त्युद्देक्ष्यन्ति स्वाध्यायिष्यन्ति योनिशो मनसि भावयिष्यन्ति । तत्कस्य हेतोः? सहश्रवणेनास्य पुरुषस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानेकानि बोधिसत्त्वकोटीनियुतशतसहस्राण्यवैवर्तिकानि भविष्यन्त्यनुत्तरायाः
सम्यक्सबोधेः ॥

अथ खलु तानि समन्ताद्दशसु दिक्षु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकानि तथागतकोटीनियुतशतसहस्राणि स्वकस्वकेषु बुद्धक्षेत्रेषु प्रतिष्ठितानि तेन कालेन तेन समयेनैकपादेनैकवाचैकस्वरनिर्घोषेण तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्यैतदूचुः । उपसंक्रमिष्यसि त्वं सत्पुरुषानागतेऽध्वनि बोधिमण्डम् । प्रदर्शयिष्यसि त्वं सत्पुरुष
बोधिमण्डवराग्रगतो द्रुमराजमूलोपविष्टः सर्वत्रैलोक्यप्रतिविशिष्टानि सर्वसत्त्वांस्त्रिकालान्तराणि व्रततपश्चरणबलाधानान्यधिष्ठानान्यधिष्ठितान्यनेकानि दुष्करकल्पकोटीनियुतशतसहस्राणि समलंकरिष्यसि त्वं सत्पुरुष बोधिमण्डम् । परित्रायिष्यसि त्वं सत्पुरुष सर्वांस्त्रिसाहस्रमहासाहस्रलोकधातून् । पराजयिष्यसि त्वं सत्पुरुष द्रुमराजमूलोपविष्टः
कृतिमरूपपरमबीभत्सदर्शनं नानाविकृतरूपमचिन्त्यमारसैन्यम् । अभिसंभोत्स्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतोऽनुपमप्रशान्तविरजस्कगम्भीरामनुत्तरां सम्यक्संबोधिम् । प्रवर्तयिष्यसि त्वं सत्पुरुषार्यसारदृढवज्रासनोपविष्टः सर्वजनाभिसंस्तुतं परमगम्भीरं द्वादशाकारमनुत्तरधर्मचक्रम् । पराहनिष्यसि त्वं सत्पुरुषानुत्तरं धर्मगञ्जवाद्यम्
। आपूरयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मशङ्खम् । उच्छ्रयिष्यसि त्वं सत्पुरुष महाधर्मध्वजम् । प्रज्वलयिष्यसि त्वं सत्पुरुषानुत्तरां धर्मोल्काम् । प्रवर्षयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मवर्षम् । पराजयिष्यसि त्वं सत्पुरुषनेकानि क्लेशशतसहस्राणि । प्रतारयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि
सुभीमान्महाभयसमुद्रात् । परिमोचयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि संसारचक्रात् । आरागयिष्यसि त्वं सत्पुरुषानेकानि तथागतकोटीनियुतशतसहस्राणि ॥

(बग्छि ४७)
एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् । अस्य भदन्त भगवन्सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्येमान्येवंरूपाणि दृप्धार्मिकाणि मारपराजयिकानि च गुणानि संपश्यमानस्य बुद्धसहस्रावरुप्तकुशलमूलस्य मनुष्यराजस्यानुकम्पाच्चापरिमितपुण्यस्कन्धपरिग्रहं संपश्यमानास्ते वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षशतसहस्रैः सार्धं स्वभवनगता
नानागन्धधूपलताछत्राः संचोदिताः समाना अदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्योपगतसंस्कारकूटसुशोधितं नानागन्धोदकसुसंसिक्तं नानालंकारसमलंकृतं राजकुलं तेनोपसंक्रमिष्यामो धर्मश्रवणाय । ब्रह्मा च सहांपतिः शक्रश्च देवानामिन्द्रः सरस्वती च महादेवी श्रीश्च महादेवी दृढा च पृथिवीदेवता संजयश्च
महायक्षसेनापतिरष्टाविंशतिमहायक्षसेनापतयश्च महेश्वरश्च देवपुत्रो वज्रपाणिश्च गुह्यकाधिपतिर्माणिभद्रश्च महायक्षसेनापतिर्हारीती च पञ्चपुत्रशतपरिवारा अनवतप्तश्च नागराजः सागरश्च नागराजः । अनेकानि च देवकोटीनियुतशतसहस्राण्यदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्य तत्र त नानालंकारसमलंकृतं राजकुलं यत्र तस्य धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायां
धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायं धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मासनं प्रज्ञप्तं तत्र भविष्यन्ति धर्मश्रवणाय ॥

ते वयं भदन्त भगवंश्चत्वारो महाराजा अनेकैर्यक्षशतसहस्रैरेभिश्च सर्वैः सार्धं समग्रा भविष्यामस्तस्य मनुष्यराजस्य कल्याणमित्रसहायकस्य कल्याणसंप्रापकस्यानुत्तरमहारसोदारदातुरनेन धर्मामृतरसेन संतर्पिताः संतर्प्य तस्य मनुष्यराजस्यारक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः
। तस्य राजकुलस्य च नगरस्य च विषयस्य च रक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामम् । तच्च विषयं सर्वोपद्रवोपसर्गोपायासेभ्यः परिमोचयिष्याम इति ॥

यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् । यस्य च मनुष्यराजस्य विषयेऽयं सूत्रेन्द्रराजं संप्रचरेत् । यदा चासौ भदन्त भगवन्मनुष्यराजः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य (बग्छि ४८) धारकान् भिक्षुभिक्षुण्युपासकोपासिका न सत्कुर्यान्न गुरुकुर्यान्न मानयेन्न पूजयेत् । अस्माकं चतुर्णां महाराजानामनेकानि यक्षकोटीनियुतशतसहस्स्राण्यनेन धर्मश्रवणेनैनेन धर्मामृतरसेन
न संतर्पयेरन्न प्रतिमानयेरन् । इमानि दिव्यात्मभावानि महता तेजसा न विवर्धयेन्न चास्माकं वीर्यं च बलं च संजनयेत् । तेजश्च श्रियश्च लक्ष्मीं चास्माकं कायेषु न विवर्धयेत् । न तेऽपि वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षकोटीनियुतशतसहस्रैस्तस्य च विषये रक्षां करिष्यामः । भदन्त भगवन्विषयमस्माकमुपेक्षन्तः
सर्वविषयवासिनो देवगणास्तं विषयमुपेक्ष्यन्ति । देवताश्च भदन्त भगवन्तं विषयमुपेक्ष्यन्ते ॥

तत्र तत्र विषये नानाविधा विषयलोपा भविष्यन्ति । दारुणानि च राजसंक्षोभानि भविष्यन्ति । सर्वविषयगतानि च सत्त्वानि कलहजातानि भविष्यन्ति । भण्डनजातानि विगृहीतानि विवादमापन्नानि नानाविधाश्च ग्रहरोगा विषये प्रादुर्भाविष्यन्ति । नानादिगभ्य आगताश्चोल्कापाताः प्रादुर्भविष्यन्ति । ग्रहनक्षत्राणि च परस्परेण विरुद्धानि भविष्यन्ति । सूर्यप्रतिरूपकाणि शशिन उत्पादयिष्यन्ति । चन्द्रग्रहाश्च
भविष्यन्ति । सूर्यग्रहाश्च सततसमितं गगनान्तरगतौ सूर्यचन्द्रमसौ नो दृक्यथगतौ भविष्यतः । उल्कापातसदृशवर्णानि परिवेशकानि गगनान्तरे कालेन कालं प्रादुर्भविष्यन्ति । पृथिवीकम्पाश्च भविष्यन्ति । कूपाश्च पृथिवीगताः संक्षेपन्तः शोक्ष्यन्ति । विषमवाताश्च वास्यन्ति । विषमवर्षाश्च भविष्यन्ति । दुर्भिक्षकान्तारश्च सर्वविषये भविष्यति । परचक्राणि च
तद्विषयं वेक्ष्यन्ति । आयासबहुलं भविष्यति । तेषामस्माकं भदन्त भगवंश्चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणां विषयवासिनां च देवनागानां तं विषयमुपेक्षतस्तत्र विषय इमान्येवं रूपाणि नानाविधान्युपद्रवशतानि भविष्यन्त्युपद्रसहस्राणि वा ॥

(बग्छि ४९)
यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् । य आत्मनो महतीमारक्षां कर्तुकामो भवेत् । चिरं च नानाविधानि राजसौख्यान्यनुभवितुकामो भवेत् । सर्वसुखसमर्पितो न चिरेण राजत्वं कर्तुकामो भवेत् । सर्वविषयवासिनां च सत्त्वानां सुखापयितुकामो भवेत् । सर्वपरचक्राणि च पराजयितुकामो भवेत् । सर्वसुखेन विषयं परिपालयितुकामो भवेत् । धर्मेण राजत्वं कारयितुकामो भवेत् । स्वविषयं
च सर्वभयोपद्रवोपसर्गोपायासेभ्यः परिमोचयितुकामो भवेत् ॥

तेन च भदन्त भगवन्मनुष्यराजेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः । श्रुत्वा चैतास्तद्धारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः । वयं चत्वारो महाराजाः सबलपरिवारा अनेनैव धर्मश्रवणकुशलमूलोपचयेनानेन धर्माकृतरसेन संतर्पयितव्याः । अस्माकं चेमानि दिव्यात्मभावानि महातेजसा विवर्धयितव्यानि । तत्कस्य हतोः?
यद्भदन्त भगवंस्तेन मनुष्यराजेनावश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः ॥

यावन्ति भदन्त भगवन्ब्रह्मेन्द्रेण लौकिकलोकोत्तराणि च नानाविधानि शास्त्राण्युपदर्शितानि । यावन्ति च शक्रेण देवेन्द्रेण नानाविधानि शास्त्राण्युपदर्शितानि । यावन्ति च नानाविधैः पञ्चभिज्ञै ऋषिर्भिर्लौकिकलोकोत्तराणि च सत्त्वानामर्थाय शास्त्राण्युपदर्शितानि । भदन्त भगवंस्तेभ्यो ब्रह्मेन्द्रशतसहस्रेभ्योऽनेकेभ्यश्च शक्रकोटीनियुतशतसहस्रेभ्यः सर्वेभ्यश्च पञ्चाभिज्ञेभ्य ऋषिकोटीनियुतशतसहस्रेभ्यस्तथागतोऽग्रतरश्च विशिष्टतरश्चेमं
सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानामर्थाय संप्रकाशयितः ॥Œयथायं सर्वजम्बुद्वीपगतानां मनुष्यराजानां राजत्वं कारयितव्यम् । यथा च सर्वसत्त्वानि सुखार्पितानि भविष्यन्ति । यथा च सर्वविषयानुत्पीडिताश्च भविष्यन्त्यकण्टकाः । यथा परचक्राणि पराजितानि भविष्यन्ति । पराङ्मुखीभूतानि । यथा च ते विषया अनुपायासाश्च । यथा च सर्वविषयधर्मा अनुपायासाश्च भविष्यन्त्यनुपद्रुताश्च । यथा च तैर्मनुष्यराजैः स्वेषु विषयेषु
महती धर्मोल्काः प्रज्वलिता भविष्यन्त्यादीपिताश्च । यथा च सर्वदेवताभवनानि
(बग्छि ५०) आदीपितानि भविष्यन्ति देवैर्देवपुत्रैश्च । यथ च वयं चत्वारो महाराजाः सबलपरिवारा अनेकानि यक्षशतसहस्राणि सर्वजम्बुद्वीपगताश्च देवगणाः संतर्पिता भविष्यन्ति संप्रसादिताश्च । यथा चास्माकं काये महान्तं वीर्यं च बलं च स्थाम च संजनितं भविष्यन्ति । यथा चास्माकं काये तेजश्च श्रीश्च लक्ष्मीश्च भूयस्या मात्रयाभिनिचिशन्ति । यथा च सर्वजम्बुद्वीपः
सुभिक्षो भविष्यति रमणीयश्च बहुजनाकीर्णमनुष्यश्च । यथा च सर्वजम्बुद्वीपगतानि सत्त्वानि सर्वसुखानि भविष्यन्ति । नानारतिमनुभविष्यन्ति । यथा च सत्त्वान्यनेककल्पकोटीनियुतशतसहस्राण्ययिन्त्यान्युदारोदाराणि सुखान्यनुभविष्यन्ति । बुद्धैश्च भगवद्भिः सार्धं समवधानगतानि भविष्यन्ति । अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्सर्वमेतर्हि भगवता तथागतेनार्हता
सम्यक्संबुद्धेन महता कारुण्यबलाधिष्ठानेन शक्रकोटीनियुतशतसहस्राणि दिव्यातिरेकतरेऽनुत्तरे तथागतज्ञाने नानाविधानेकसर्वपञ्चाभिज्ञर्षिगणकोटीनियुतशतसहस्राणि चातिरेकसम्यक्संबुद्धेन ब्रह्मेन्द्रकोटीनियुतशतसहस्राणि चातिरेकव्रततपोऽधिष्ठानेन स भगवता तथागतोनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण सर्वसत्त्वानामर्थायेह जम्बुद्वीपे संप्रकाशितः ॥

तेन मनुष्यराजेन सर्वजम्बुद्वीपगतानि लौकिकलोकोत्तराणि राजकार्याणि राजशास्राणि राजकरणानि निर्यातानि । यैरिमे सत्त्वाः सुखिनो भविष्यन्ति । तानि सर्वाणि भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमसूत्रेन्द्रराज उपदर्शितः परिदीपितः संप्रकाशितः । तेन भदन्त भगवन्हेतुना तेन प्रत्ययेन च तेन मनुष्यराजेनावश्यमायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः
सत्कृत्य मानयितव्यः सत्कृत्य पूजयितव्यः ॥

एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । तेन हि चत्वारो महाराजाः सबलपरिवारा अवश्यं तेषां मनुष्यराजानामस्य सुवर्णप्रभासोत्तमय सूत्रेन्द्रराजस्य श्रोतॄणां पूजयितॄणां महान्तमौत्सुक्यं करिष्यन्ति रक्षार्थमेताश्च महाराजाः सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका बुद्धक्षेत्रमारात्प्रदर्शन्ते देवमानुषासुरस्य लोकस्य बुद्धकृत्यानि (बग्छि ५१) करिष्यन्ति
। इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यन्ति । अवश्यं युष्माभिश्चतुर्भिर्महाराजैस्तेषां सूत्रेन्द्रेधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षा कर्तव्या । परिपालनं परित्राणं परिग्रहं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं कर्तव्यम् । यथा च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका आरक्षिता भवेयुरनुत्पीडिता
अनुसर्गोपायासां सुखचित्ताः । इमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानां संप्रकाशयितुम् ॥

अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजोत्थायासनेभ्य एकांसानि चीवराणि प्रावृत्योत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य तस्यां वेलायामभिमुखं सारूप्याभिर्गाथाभिर्भगवन्तमभितुष्टुवुः ॥

जिनचन्द्रविमलवपुषं जिनसूर्यसहस्रकिरणाभम् ।
जिनकमलविमलनेत्रं जिनकुमुदतुषारविरजदशनाग्रम् ॥ सुव्_७.१ ॥
जिनगुणसागरकल्प अनेकरत्नाकर जिनसमुद्रम् ।
ज्ञानाम्बुसलिलपूर्णं समाधिशतसहस्रसंकीर्णम् ॥ सुव्_७.२ ॥
जिनचरणचक्रचित्रं समन्तनेभिस्तथा सहस्राभम् ।
करचरणजालचित्रं हंसेन्द्र यथा चरणजालम् ॥ सुव्_७.३ ॥
काञ्चनगिरिप्रकाशं सुवर्णकनकामलं जिनगिरीन्द्रम् ।
सर्वगुणमेरुकल्पं बुद्धगिरीन्द्रजिन नमस्यामः ॥ सुव्_७.४ ॥
आकाशचन्द्रसदृशमुदकचन्द्रनिभं तथागतशशाङ्कम् ।
मायामरीचिकल्प विमलजिन नमस्यामः ॥ सुव्_७.५ ॥

अथ खलु भगवांश्चतुरो महाराजान्गाथाभिर्बभाषे ॥
(बग्छि ५२)

अयं -
सुत्रेन्द्रराजप्रवरः सुवर्णप्रभासोत्तमो दशबलानाम् ।
युष्माभि लोकपालैः पालयितव्यम् ---------- ॥ सुव्_७.६ ॥
येनायं सूत्ररतनगम्भीरः सर्वसत्त्व सुखदाता ।
सत्त्वान हितसुखार्थं चिरं च प्रचरेज्जम्बूद्वीपेऽस्मिन् ॥ सुव्_७.७ ॥
ये च तृसाहस्रमहासाहस्रे लोकधातौ हि ।
सत्त्वा अपायदुःखा शमयित्वा नरकदुःखानि ॥ सुव्_७.८ ॥
ये चेह जम्बुद्विपे गता हि सर्वे राजानस्तु महतः प्रहर्षजाता ।
धर्मेण च पालयन्तु विषया येनायं जम्बूद्वीपः क्षेमश्च भवेत् ॥ सुव्_७.९ ॥
सूभिक्षो रमणीयः सर्वे जम्बूद्वीपे सुखितानि भवन्ति सर्वसत्त्वानि ।
यस्या नास्ति नरपतेर्विषये प्रियात्मसौख्य प्रयता च राजत्वम् ॥ सुव्_७.१० ॥
ऐश्वर्यं प्रियता च श्रोतव्यस्तेन सूत्रराजः परमशत्रुक्षयकरम् ।
परचक्रनिवर्तनकरपरमभयव्यसहारः परमशुभकरोऽयं सूत्रेन्द्रराज ॥ सुव्_७.११ ॥
(बग्छि ५३)
यथा रत्नवृक्षः सुरुचिरस्तु सर्वगुणसंभवः सुगृहः संस्थः ।
तथैवायं सूत्रेन्द्रराज द्रष्टव्यो राजगुणादीनाम् ॥ सुव्_७.१२ ॥
यथा शीतलहिमसलिलं धर्मतं प्रतिलभत उष्ण अपहरणम् ।
तथैवायं सूत्रवरेन्द्रो गुणसुखदाता भवति नरपतीनाम् ॥ सुव्_७.१३ ॥
यथैव हि रत्नकरण्डः सर्वरत्नाकरः करतलस्थः ।
तथैवायं सूत्रेन्द्रराज स्वर्णप्रभासोत्तमो नृपगणानाम् ॥ सुव्_७.१४ ॥
देवगण अर्चितोऽयं देवेन्द्रनमस्कृतश्च सूत्रेन्द्रः ।
आरक्षितश्चतुर्भिर्महर्द्धिकैर्लोकपालैश्च ॥ सुव्_७.१५ ॥
बुद्धैहि दशदिशस्थैः सदा समन्वाहृतोऽयं सूत्रेन्द्रः ।
सूत्रमिदं देशयतः साधूकार ददन्ति संबुद्धाः ॥ सुव्_७.१६ ॥
यक्षशतसहस्राणी रक्षन्ति च विषयं दशसु दिशासु ।
शृण्वन्ति सूत्रेन्द्रमिमं प्रमुदितचित्ताः प्रहृष्टाश्च ॥ सुव्_७.१७ ॥
जम्बुद्वीपगतानि विविक्तानि देवगणानि ।
ते सर्वे देवगणाः शृण्वन्तु सूत्रमिदं प्रमुदिताश्च ॥ सुव्_७.१८ ॥
(बग्छि ५४)
तेजोबलं वीर्यबलं च लभन्ते तेन धर्मश्रवणेन ।
महतौजसा च देवां कायान्विवर्धयिष्यन्ति ॥ सुव्_७.१९ ॥

अथ खलु चत्वारो महाराजा भगवतोऽन्तिकादिमा एवंरूपा गाथाः श्रुत्वाश्चर्यप्राप्ता बभूवुरद्भुतप्राप्ता उद्विल्यप्राप्तास्तद्धर्मवेगेन मुहूर्तमात्रं प्ररुदिता इवाश्रूणि च प्रवर्तयामासुः । ते च संमानैः शरीरै प्रफुल्लिभिरङ्गप्रत्यङ्गैरचिन्त्येन प्रीतिसुखसौमनस्येन समन्वागता भूत्वा पुनरपि भगवन्तं दिव्यमान्दारवैः कुसुमैरवकिरन्ति स्म । अवकिरित्वा प्रकिरित्वोत्थायासनेभ्य एकांसानि चीवराणि प्रावरित्वा दक्षिणानि
जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । वयमपि भदन्त भगवंश्चत्वारो महाराजा एकैको महाराजो वयं पञ्चयक्षशतपरिवारा धर्ममाणकस्य भिक्षोः सदानुबद्धा भविष्यामस्तं धर्मभाणकं मानयनाय परिपालनाय चेति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजो चतुर्महाराज परिवर्तो नाम सप्तमः ॥


_____________________________________________________________



(बग्छि ५५)
॥ सरस्वतीदेवीपरिवर्तः ॥

अथ खलु सरस्वती महादेव्येकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अहमपि भदन्त भगवन् सरस्वती महादेवी तस्य धर्मभाणकस्य भिक्षोर्वाक्परिभूषणार्थाय प्रतिभाणकमुपसंहरिष्यामि । धारणीं चानुप्रदास्यामि । सुनिरुक्ततवराणां भावं संभावयिष्यामि । महान्तं
च धर्मभाणकस्य भिक्षोर्ज्ञानावभासं करिष्यामि । यानि कानि चित्पदव्यञ्जनानीतः सुवर्णप्रभासोत्तमसूत्रेन्द्रराजात्परिभ्रष्टानि भविष्यन्ति । विस्मरितानि च तान्यहं सर्वाणि तस्य धर्मभाणकस्य भिक्षोः सुनिरुक्ततपदव्यञ्जनान्युपसंहरिष्यामि । धारणीं चानुप्रदास्यामि स्मृत्यसंप्रमोषणाय । यथा चायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां
बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् । न च क्षिप्रमन्तर्धापयेत् । अनेकानि च सत्त्वानीमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं श्रुत्वा चिन्त्य तीक्ष्णप्रज्ञा भवेयुः । अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभन्ते च न दुष्टमेव चायुः । सम्पत्तिं प्रतिलभेयुः । जात्यनुग्रहं चापरिमितं च पुण्यस्कन्धं प्रतिगृह्णीयुः । सर्वशास्त्रकुशलाश्च
भवेयुर्नानाशिल्पविधिज्ञाश्च ॥

तदिदं संयुक्तं स्नानकर्म भाषिष्यामि तस्य धर्मभाणकस्य भिक्षोस्तेषां च धर्मश्रवणिकानां सत्त्वानामर्थाय । सर्वग्रहनक्षत्रजन्ममरणपीडा कलिकलहकलुषडिम्बडमरदुःखप्नविषोदकपीडाः । सर्वकाखोर्दवेतालाः प्रशमं यास्यन्ति ।

औषधयो मन्त्रा येन स्नापयन्ति च पण्डिताः ।
वचा गोरोचना स्पृका शिरीषं श्याभ्यकं शमी ।
इन्द्रहस्ता महाभागा व्यामकमगरुः त्वचम् ॥ सुव्_८.१ ॥
नीवेष्टकं सर्जरसं सिह्लकं गुल्गुलूरसम् ।
तगरं पत्रशैलेयं चन्दनं च मनःशिला ॥ सुव्_८.२ ॥
(बग्छि ५६)
समोचकं तुरुष्कं च कुङ्कुमं मुस्त सर्षपाः ।
नरदं चव्य सूक्ष्मेला उशीरं नागकेशरम् ॥ सुव्_८.३ ॥
एतानि समभागानि पुष्यनक्षत्रेण पीषयेत् ।
इमैर्मन्त्रपददैश्चूर्णं शतधा चाभिमन्त्रयेत् ॥ सुव्_८.४ ॥

तद्यथा । सुकृते करजातभागे हंसरण्डे इन्द्रजालमलिलक उपसदे अवतासिके कुत्र कुकलविमलमति शीलमति संधिबुधमति शिशिरि सत्यस्थित स्वाहा ॥

गोमयमण्डलं कृत्वा मुक्तपुष्पाणि स्थापयेत् ।
सुवर्णभाण्डे रूप्यभाण्डे मधुरेण स्थापयेत् ॥ सुव्_८.५ ॥
वर्मिताश्च पुरुषास्ते चत्वारि तत्र स्थापयेत् ।
कन्याः सुभूषिताः न्यस्ताश्चत्वारो घटधारिण्यः ॥ सुव्_८.६ ॥
गुग्गुलुं धूपयन्नित्यं पञ्चतूर्याणि योजयेत् ।
छत्रध्वजपताकैश्च सा देवी समलङ्कृता ॥ सुव्_८.७ ॥
आदर्शनपर्यन्ताश्च शरशक्तीर्नियोजयेत् ।
सीमाबन्धं ततः कुर्यात्पश्चात्कार्यं समारभेत् ।
अनेन मन्त्रपदक्रमेण सीमाबन्धं समारभेत् ॥ सुव्_८.८ ॥

स्याद्यथेदम् । अने नयने हिलि हिलि गिलि खिले स्वाहा ॥ भगवतः पृष्ठतः स्नात्वानेन मन्त्रजापेन स्नानशान्तिं योजयेत् । तद्यथा । सुगते विगते विगतावति स्वाहा ।

ये प्रस्थिता नक्षत्रा आयुः पालयन्तु चतुर्दिशे ।
नक्षत्रजन्मपीडा वा राशिकर्मभयावहम् ।
धातुसंक्षोभसंभूता शाम्यन्तु भयदारुणा ॥ सुव्_८.९ ॥

समे विषमे स्वाहा । सुगते स्वाहा । सागरसंभूताय स्वाहा ॥ स्कन्धमारुताय स्वाहा । नीलकण्ठाय स्वाहा । अपराहितवीर्याय स्वाहा । हिमवत्संभूताय स्वाहा । अनिमिषचक्राय
(बग्छि ५७) स्वाहा । नमो भगवत्यै ब्राह्मण्यै नमः सरस्वत्यै देव्यै सिध्यन्तु मन्त्रपदास्तं ब्रह्म नमस्यन्तु स्वाहा ।

एतेन स्नानकर्मणा तस्य धर्मभाणकस्य भक्षोरर्थाय तेषां च धर्मश्रवणिकानां लेखकानामार्थाय स्वयमेवाहं तत्र गगणसिद्धयक्षदेवगणैः सार्धं तत्र च ग्रामे वा नगरे वा निगमे वा विहारे वा सर्वतो रोगप्रशमनं करिष्यामि । सर्वग्रहकलिकलुषनक्षत्रजन्मपीडान्वा दुःखस्वप्नविनायकपीडान्सर्वकाखोर्दवेतालान्प्रशमयिष्यामि । यथा तेषां सूत्रेन्द्रधारकाणां
भिक्षुभिक्षुण्युपासकोपासिकानां जीवितानुग्रहो भवेत् । संसारनिर्वाणं प्रतिलभेयुः । अवैवर्तिकाश्च भवेयुरनुत्तरायाः सम्यक्संबोधेः ॥

अथ खलु भगवान्सरस्वत्यै महादेव्यै साधुकारमदात् । साधु साधु सरस्वति महादेवि बहुजनहिताय बहुजनसुखाय प्रतिपन्नो यत्त्वया हीमानि मन्त्रोषधिसंयुक्तानि भाषितानि । सा च सरस्वती महादेवी भगवतः पादावभिवन्दनां कृत्वैकान्ते निषण्णा ॥

अथ खल्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो महाब्राह्मणस्तां सरस्वतीमावाहयति स्म ॥

सरस्वती महादेवी पूजनीया महत्तपाः ।
विख्याता सर्वलोकेषु वरदाता महागुणा ॥ सुव्_८.१० ॥
शिखरे समाश्रिता कान्ता दर्भचीवरवासिनी ।
शुभवस्त्रं धारयति एकपादेन तिष्ठति ॥ सुव्_८.११ ॥
सर्वदेवाः समागम्य तां सूत्रवचनं त्विदम् ।
जिह्वाभिमुखं च सत्त्वानां भाषन्तु वचनं शुभम् ॥ सुव्_८.१२ ॥

स्याद्यथेदम् । सुरे विरे अरजे अरजवति हि गुले पिङ्गले पिङ्गले वतिमुखे मरीचिसुमति दिशमति अग्रामग्रीतलवितले च वडिविचरी मरिणिपाणये लोकज्येष्ठके प्रियसिद्धिव्रते भीममुखिशचिवरी अप्रतिहते अप्रतिहतबुद्धि नमुचि नमुचि महादेवि प्रतिगृह्ण नमस्कार । सर्वसत्त्वानां बुद्धिरप्रतिहता भवतु विद्या मे सिद्ध्यतु शास्रलोकतन्त्रपिटककाव्यादिषु । (बग्छि ५८) तद्यथा । महाप्रभावे हिलि हिलि मिलि मिलि । विचरतु मम विचरतु मे माया सर्वसत्त्वानां च भगवत्या
देव्याः सरस्वत्या अनुभावेन कदारके युवति हिलि मिलि आवाहयामि महादेवि बुद्धसत्येन धर्मसत्येन संघसत्येन इन्द्रसत्येन वरुणसत्येन ये लोके सत्यवादिनः सन्ति । तेन तेषां सत्यवचेन आवाहयामि महादेवि । हिलि हिलि मिलि विचरन्तु मम मन्त्रिनो माया सर्वसत्त्वानाम् । नमो भगवत्यै सरस्वत्यै सिद्ध्यन्तु मन्त्रपदाः स्वाहा ॥

अथाचार्यव्याकरणप्राप्तः कौडिन्यो महाब्राह्मणः सरस्वतीं महादेवीमिमाभिर्गाथाभिरभ्यस्तावीत् ॥

शृण्वन्तु मे भूतगणा हि सर्वे स्तोष्यामि देवीं प्रवरोत्तमचारुवक्त्राम् ।
या मातृग्रामे प्रवराग्रदेवी । सदेवगन्धर्वसुरेन्द्रलोके ॥ सुव्_८.१३ ॥
नानाविचित्रा समलंकृताङ्गा सरस्वती नाम विशालनेत्रा ।
पुण्योज्ज्वला ज्ञानगुणैर्विकीर्णा नानाविचित्रोत्तमदर्शनीया ॥ सुव्_८.१४ ॥
स्तोष्यामि तां वाक्यगुणैर्विशिष्टैः सिद्धिकरायै प्रवरोत्तमायै ।
प्रशस्तभूताय गुणाकरायै विमलोत्तमायै कमलोज्ज्वलायै ॥ सुव्_८.१५ ॥
सुलोचनायै नयनोत्तमायै शुभाअश्रयायै शुभदेशनायै ।
गुणैरचिन्त्यैः समलंकृतायै । चन्द्रोपमायै विमलप्रभायै ॥ सुव्_८.१६ ॥
ज्ञानाकरायै स्मृतिसमग्रतायै सिंहोत्तमायै नरवाहनायै ।
(बग्छि ५९)
रत्नमणिबाहुसमलंकृतायै पूर्णशशाङ्कोपमदर्शनायै ॥ सुव्_८.१७ ॥
मनोज्ञवाक्याय मृदुस्वरायै गम्भीरप्रज्ञाय समन्वितायै ।
कार्याग्रसाधनसुसत्त्वतायै देवासुरैर्वन्दितपूजितायै ।
सर्वसुरासुरगणालयवन्दितायै भूतगणैः सदा संपूजितायै ॥ सुव्_८.१८ ॥

नमः स्वाहा ॥

हेऽहं देवि नमस्ते सा मे प्रयच्छतु गुण औघम् ॥

सर्वे सत्त्वा विशिष्टसिद्धिं प्रददातु सर्वकार्या ।
नित्यं च रक्षतू मां सर्वान्सत्त्वांश्च शत्रुमध्ये ॥ सुव्_८.१९ ॥
एतान् समाप्ताक्षरपूर्णवाक्यान् कल्यं समुत्थाय पठेत्सुवीर्यः ।
सर्वाभिप्राये धनधान्यलाभी सिद्धिं च प्राप्नोति शिवामुदारामिति ॥ सुव्_८.२० ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सरस्वतीदेवीपरिवर्तो नामाष्टमः ।


_____________________________________________________________



(बग्छि ६०)
॥ श्रीमहादेवीपरिवर्तः ॥

अथ खलु श्रीर्महादेवी भगवन्तं प्रणम्यैतदवोचत् । अहमपि भदन्त भगवन्भगवती श्रीर्महादेवी तस्य धर्मभाणकस्य भिक्षोरौत्सुक्यतां करिष्यामि । यदिदं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरन्यैश्चोपकरणैर्यथा स धर्मभाणकः सर्वोपकरणसंपन्नो भविष्यति । अवैकल्पतां च प्रतिलप्स्यते । स्वस्थचित्तो भविष्यति । सुखचित्तो रात्रिं दिवा प्रतिनामयिष्यति । इतश्च
सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजान्नानाविधानि पदव्यञ्जनान्युपनामयिष्यति । व्युपपरीक्षिष्यति । येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचतिष्यति । न च क्षिप्रमन्तर्धास्यति । सन्ति सत्त्वाः सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अनेकानि च कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि
सुखानि प्रत्यनुभवेयुः । दुर्भिक्षश्चान्तर्धापयेत् । सुभिक्षश्च प्रादुर्भवेत् । सत्त्वाश्च मनुष्यसुखोपधानेन सुखिता भवेयुः । तथागतसमवधानगताश्च भवेयुः । अनागतेऽध्वति चानुत्तरां सम्यक्संबोधिमभिसंबोधयेयुः । सर्वनरकतिर्यग्योनियमलोकदुःखान्यत्यन्तसमुच्छिन्नानि भवेयुरिति ॥

रक्तकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः । यत्र श्रिया महादेव्या मया कुशलमूलमवरुप्तम् । येनैतर्हि यां यां दिशं सत्त्वानां विहरति । यां यां दिशं सत्त्वान्यवलोकयति । यां यां दिशमुपसंक्रमति । तस्यां तस्यां दिश्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि सर्वसुखोपधानेन सुखितानि भविष्यन्ति । अवैकल्पतां च प्रतिलप्स्यन्ते
। अन्नेन वा पानेन वा धनेन वा धान्येन वा हिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवालजातरूपरजतादिभिरन्यैश्चोपकरणैः सर्वोपकरणसमृद्धानि सत्त्वानि भविष्यन्ति श्रियो महादेव्याः प्रभावेन । तस्य च तथागतस्य पूजा कर्तव्या । गन्धाश्च पुष्पाश्च धूपाश्च दीपाश्च दातव्याः । श्रियो देव्यास्त्रिष्कृतो नामधेयमुच्चारयितव्यम् । तस्याश्च गन्धं पुष्पं धूपं दीपं दातव्यम् । रसविहारा निक्षेप्तव्यानि
। तस्य महाद्रव्यराशिर्विवर्धते । तत्रेदमुच्यते ॥

विवर्धत धरणी रसो धरण्या प्रहर्षिता ।
(बग्छि ६१) भोन्ति च देवता सदा फलशस्यचितोपमम् ।
वृक्षदेवता रोहन्ति शस्यानि सुचित्रभावाः ॥ सुव्_९.१ ॥

सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमुच्चारयितव्यम् । तान्सत्त्वाञ्छ्रीर्महादेवीसमन्वाहरिष्यति । तेषां च महतीं श्रियं करिष्यति ॥

अलकावत्यां राजधान्यां पुण्यकुसुमप्रभोद्यानवने सुवर्णवर्णध्वजनाम्नि सप्तरत्नप्रभवने श्रीर्महादेवी प्रतिवसति स्म । यः कश्चित्पुरुषो धान्यराशिं विवर्धयितुकामो भवेत् । तेन स्वगृहं सुशोधयितव्यम् । शुचिश्वेतवस्रप्रावृतेन सुगन्धवसनधारिणा भवितव्यम् । नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य त्रिष्कृत्वो नामधेयमुच्चारयितव्यम्
। श्रिया महादेव्या हस्तेन तस्य पूजा कर्तव्या । पुष्पधूपगन्धाश्च दातव्याः । नानारसविहाराश्च निक्षेप्तव्याः । तस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानुभावेन तेन कालेन श्रीर्महादेवी तस्य गृह समन्वाहरिष्यति । तस्य च महाधान्यराशिं विवर्धयिष्यति । तेन श्रीर्महादेवीमावाहयितुकामेनेमे विद्यामन्त्राः स्मरयितव्याः । तद्यथा । नमः सर्वबुद्धानामतीतानागतप्रत्युत्पन्नानाम् । नमः सर्वबुद्धबोधिसत्त्वानाम्
। नमो मैत्रेयप्रभृतीनां बोधिसत्त्वानाम् । तेषां नमस्कृत्य विद्यां प्रयोजयामि इयं मे विद्या समृध्यतु । स्याद्यथेदम् । प्रतिपूर्णवरे समन्तगते । महाकार्यप्रतिप्रापणे सत्त्वार्थसमतानुप्रपुरे । आयानधर्मिता महाभागिने । महातेजोपमं हिते । ऋषिसंगृहीते । समयानुपालने ॥

इमे मूर्धाभिषेकधर्मता मन्त्रपदाः । एका शशिपदा अविसंवादना मन्त्रपदाः । समवधारिभिरवरुप्तकुशलमूलैः प्रावृतधारयमाणैः स सप्तवर्षा अष्टाङ्गोपेता सपञ्चासिन पूर्वाह्णे । अपराह्णे । सर्वबुद्धानां भगवतां पुष्पधूपगन्धपूजां कृत्वात्मनश्च सर्वसत्त्वानां च सर्वज्ञज्ञानस्य परिपूरणाय । तेन सर्वे चाभिप्रायाः समृध्यन्तु ॥ क्षिप्रं समृध्यन्तु । तद्गृहं
स चौक्षं कृत्वा विहारं चारण्यायतनं वां गोमयेन मण्डलकं कृत्वा गन्धपुष्पधूपं च दातव्यम् । चौक्षमासनं (बग्छि ६२) प्रज्ञपयितव्यम् । पुष्पा अवकीर्णन्तु मितव्यम् । ततस्तत्क्षणं श्रीर्महादेवी प्रविशित्वा तत्र स्थास्यति । तदुपादाय तत्र गृहे वा ग्रामे वा नगरे वा निगमे वा विहारे वारण्यायतने वा न जातु केनचिद्वैकल्पं करिष्यति । हिरण्येन वा सुवर्णेन वा रत्नेन वा धनेन
वा धान्यादिसर्वोपकरणसमृद्धाभिओः सर्वसुखोपधानेन सुखितानि भविष्यन्ति । कुशलमूलश्च ध्रियते । तेन सर्वं श्रियो महादेव्याः प्रेमप्रभावप्रेषणं दातव्यं यावज्जीवं तत्रोपस्थास्यति न विलम्बिष्यति । सर्वाभिप्रायांश्चैषां परिपूरयिष्यतीति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे श्रीमहादेवीपरिवर्तो नाम नवमः ॥


_____________________________________________________________



(बग्छि ६३)
॥ सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्तः ॥

ओं नमो भगवते रत्नशिखिनः तथागतस्य । नमः सुवर्णरत्नाकरच्छत्रस्कूटस्य तथागतस्य । नमः सुवर्णपुष्पज्वलरश्मिकेतोस्तथागतस्य । नमो महाप्रदीपस्य तथागतस्य । रुचिरकेतुर्नाम बोधिसत्त्वः । सुवर्णप्रभासोत्तमो नाम बोधिसत्त्वः । सुवर्णगन्धो नाम बोधिसत्त्वः । सदाप्ररुदितो नाम बोधिसत्त्वः । धर्मोद्गतो नाम बोधिसत्त्वः । पुरस्थिमेनाक्षोभ्योनाम तथागतः । दक्षिणेन रत्नकेतुर्नाम
तथागतः । पश्चिमेनामितायुर्नाम तथागतः । उत्तरे दुन्दुभिस्वरो नाम तथागतः । सुवर्णप्रभासोत्तमसूत्रेन्द्रराज इमानि बोधिसत्त्वनामानि ये धारयन्ति वाचयन्ति ते बोधिसत्त्वा नित्यं जातिस्मरा भोन्तीति ॥

इति श्रीसुपर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वबुद्धबोधिसत्त्वनाम संधारणिओपरिवर्तो नाम दशमः ॥


_____________________________________________________________



(बग्छि ६४)
॥ दृढापृथिवीदेवतापरिवर्तः ॥

अथ खलु दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानागतेऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्यप्रदेशे वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यति । यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण संप्रकाशयिष्यति । यत्र यत्र भगवन्पृथिवीप्रदेशे तस्य धर्मभाणकस्य भिक्षो ऋजुकायगतस्य धर्मासनप्रज्ञप्तं भविष्यति
। यत्र यत्रासने धर्मभाणको निषद्येमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यति । तत्राहं भदन्त भगवन्दृढा पृथिवीदेवता तेषु पृथिवीप्रदेशेष्वागमिष्यामि । अत्र धर्मासनगतोऽस्म्यदृश्यमानेनात्मभावेनोत्तमाङ्गेन च तस्य धर्मभाणकस्य भिक्षोः पादतलौ प्रतिसंहरिष्यामि । आत्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन संतर्पयिष्यामि
। संप्रतिमानयिष्यामि संपूजयिष्यामि । आत्मानं च संतर्पयित्वा प्रतिमानयित्वा संप्रहर्षयित्वेममष्टषष्टियोजनसहस्राणि पृथिवीस्कन्धमात्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन यावद्वज्रमयं पृथिवीतलमुपादाय पृथिवीरसेनविवर्धयिष्यामि संप्रतिमानयिष्यामि परिपूरयिष्यामि । उपरितश्चेमं समुद्रपर्यन्तं पृथिवीतलमुपादाय पृथिवीमण्डलं
स्निग्धेन पृथिवीरसेन स्नेहयिष्यामि । ओजस्वितरां चेमां महापृथिवीं करिष्यामि । येनास्मिञ्जम्बुद्वीपे नानातृणगुल्मौषधिवनस्पतय ओजस्वितराः प्ररोहयिष्यन्ति । सर्वारामनवृक्षसस्यानि च नानाविधान्योजस्वितराणि भविष्यन्ति । गन्धतराणि स्निग्धतराण्यास्वदनीयानि दर्शनीयतराणि महोत्तराणि च भविष्यन्ति । ते च सत्त्वास्तानि पानभोजनानि नानाविधान्युपभुक्त्वा आयुर्बलवर्णेन्द्रियाणि विवर्धयिष्यन्ति ।
तेजोबलवर्णरूपसमन्वाउअताश्च भूत्वा नानाविधानि पृथिवीगतान्यनेकानि नानाकार्यशतसहस्राणि करिष्यन्त्युत्थास्यन्ति व्यापयिष्यन्ति । बलकरणीयानि कर्माणि करिष्यन्ति ॥

तेन हेतुना भदन्त भगवन्सर्वजम्बुद्वीपः क्षेमश्च भविष्यति । सुभिक्षश्च स्फीतश्चर्द्धश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्च भविष्यति । सर्वजम्बुद्वीपे च सत्त्वानि सुखितानि भविष्यन्ति । (बग्छि ६५) नानाविचित्रां रतिमनुभविष्यन्ति । तानि सत्त्वानि तेजोबलवर्णरूपसमन्वागतानि च भविष्यन्ति । अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां
भिक्षुभिक्षुण्युपासकोपासिकानं धर्मासनगतानामन्तिकमुपसंक्रमेयुः । उपसंक्रमित्वा तानि प्रसन्नचित्तानि सर्वसत्त्वानामर्थाय हिताय सुखाय तान्धर्मभाणकानध्येषयेयुस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य प्रकाशतः । अहं दृढा पृथिवीदेवता सपरिवारौजस्वितरा च भविष्यामि । तेन भदन्त भगवंश्चास्माकं काये महाबलवी र्यस्थामसंजनितं भविष्यति । तेजश्च श्रीश्च
लक्ष्मीश्चास्माकं कायमावेक्ष्यन्ति । मयि च भदन्त भगवन्दृढायां पृथिवीदेवतायामनेन धर्मामृतरसेन संतर्पितायां महातेजोबलवीर्यस्थामवेगप्रतिलब्धायामियं महापृथिवी सप्तयोजनसाहस्रिकायं जम्बुद्वीपो महता पृथिवीरसेन विवर्धयिष्यति । ओजस्वितरा च महापृथिवी भविष्यति । इमानि च भदन्त भगन सर्वसत्त्वानि पृथिवीसंनिश्रितानि वृद्धिविरूढिवैपुल्यतां च गमिष्यन्ति । महन्ति च भविष्यन्ति
। महन्ति च भूत्वा सर्वसत्त्वानि पृथिवीगतानि नानोपभोगपरिभोगान्युपभोक्ष्यन्ति सुखानि चानुभविष्यन्ति । तानि च सर्वाणि नानाविचित्रान्नपानभोज्यवस्त्रशयनासनवसनभवनविमानोद्याननदीपुष्करिण्युत्सरोह्रदतडागादीनीमान्येवंरूपाणि नानाविधान्युपकरणसुखानि पृथिवीसंस्थितानि पृथिव्यां प्रादुर्भूतानि पृथिव्यां प्रतिष्ठितान्युपभुजन्तु । तेन भदन्त भगवन्हेतुना सर्वसत्त्वैरस्माकं कृतज्ञता कर्तव्या । अवश्यमयं
सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः ।

यदा च भदन्त भगवंस्ते सर्वे सत्त्वा नानाकुलेभ्यो नानागृहेभ्यो निष्क्रमेयुस्तेषां धर्मभाणकानामुपसक्रमणाय । उपसंक्रम्य चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । श्रुत्वा च पुनरेव ते सत्त्वाः स्वकस्वकेषु नानाकुलेषु गृहग्रामनगरनिगमेषु प्रविष्टाः स्वगृहगतां परस्परेणैवं कथयेयुः । गम्भीरोऽस्माभिरद्य धर्मश्रवणः श्रुतः
। अचिन्त्योऽस्माभिरद्य पुण्यस्कन्धः परिगृहीतः । तेन धर्मश्रवणेन नरकाः प्रतिमुक्ताः स्युः । तिर्यग्योनियमलोकप्रेतविषयाः परिमुक्ता अद्यास्माभिः । अनेन धर्मश्रवनेनानागतेऽध्वन्यनेकेषु जातिशतसहस्रेषु देवमनुष्योपपत्तिपरिगृहीता (बग्छि ६६) भविष्यन्ति । तेन च नानागृहगता भूत्वा तेषां सत्त्वानामितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकदृष्टान्तमप्यारोचयेयुरन्तश
एकपरिवर्तं वा एकपूर्वयोगं वान्तशश्चतुष्पादिकामपि गाथामन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्येषां सत्त्वानां संश्रावयेयुरन्तशः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमपि परेषां सत्त्वाना संश्रावयेयुः ।

यत्र यत्र भदन्त भगवंस्तानि नानाविधानि सत्त्वानि नानाविधेषु पृथिवीप्रदेशष्विमान्येवंरूपाणि नानाविधानि सूत्रान्तहेतूनि परस्परेणारोचयेयुः संश्रावयेयुश्च । कथासंबन्धं च कुर्वीरन् । सर्वे ते भदन्त भगवन्पृथिवीप्रदेशा ओजस्वितराश्च भविष्यन्ति । स्निग्धतराश्च भविष्यन्ति । सर्वेषां सत्त्वानां तेषु तेषु पृथिवीप्रदेशेषु नानाविधानि पृथिवीरसानि सर्वोपकरणानि
भूयिष्ठतरमुत्पत्स्यन्ते विवर्धयिष्यन्ते वैपुल्यतां गमिष्यन्ति । सर्वाणि तानि सत्त्वानि महाधनानि महाभोगानि च दानाधिमुक्तानि च भविष्यन्ति । त्रिषु रत्नेष्वभिप्रसन्नानि भविष्यन्ति ॥

एवमुक्ते भगवन्दृढां पृथिवीदेवतामेतदवोचत् । ये केचित्पृथिवीदेवते सत्त्वा इतः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकपदमपि शृणुयुस्ते त इतो मनुष्यलोकाच्चवित्वा त्रयस्त्रिंशत्सु देवनिकायेष्वन्यतरान्यतरेषु देवनिकायेषूपपत्स्यन्ते । ये केचित्पृथिवी देवते सत्त्वा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजास्यार्थाय तानि स्थानानि समलंकुर्वीरन्नन्तश एकच्छत्रं वा एकदूष्यं वा समलंकृतानि च देवतास्थानानि
। तेषु सप्तसु कामावचरेषु देवनिकायेषु सप्तरत्नमयानि दिव्यानि विमानानि सर्वालंकारसमलंकृतानि संस्थास्यन्ति ते सत्त्वा इतो मनुष्यलोकाच्च्यावित्वा तेषु सप्तरत्नमयेषु दिव्यविमानेषूपपत्स्यन्ते । ते चैकैकस्मिन्पृथिवीदेवते सप्तरत्नमये दिव्यविमाने सप्तवरा अनुपपत्स्यन्ते अचिन्त्यानि दिव्यानि सुखानि प्रत्यनुभविष्यन्ति ॥

एवमुक्ते दृढा पृथिवीदेवता भगवन्तमेतदवोचत् । तेनाहं भदन्त भगवन्दृढा पृथिवीदेवता तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्य तेषु पृथिवीप्रदेशेष्ववासिष्यामि । अदृश्यमानेनात्मभावेन (बग्छि ६७) तस्य धर्मभाणकस्य भिक्षोरुत्तमाङ्गेन पादतलौ प्रतिसंहरिष्यामि । यथाप्ययं सुवर्णप्रभसोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय
चिरं जम्बुद्वीपे प्रचरेत् । न च क्षिप्रमन्तर्धापयेएत् । सत्त्वानि चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अनागतोऽध्वन्यनेकानि कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः । तथागतसमवधानगतानि च भवेयुः । अनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुः । सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तसमुच्छिन्नानि भवेयुरिति ॥

इति श्रीसुवर्णप्रभासोत्तसूत्रेन्द्रराजे दृढापृथिवी देवतापरिवर्तो नामैकादशः ॥


_____________________________________________________________



(बग्छि ६८)
॥ संज्ञेयमहायक्षसेनापतिपरिवर्तः ॥

अथ खलु संज्ञेयो नाम महायक्षसेनापतिरष्टाविंशतिभिर्महायक्षसेनापतिभिः सार्धमुत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानगतेऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे
वारण्यायतने वा गिरिकन्दरे वा राजकुले वा गृहे वा प्रचरिष्यति । तत्राहं भदन्त भगवन्संज्ञेयो नाम महायक्षसेनापतिः सार्धमष्टाविंशति भिर्महायक्षसेनापतिभिस्तत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्ये वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यामि । अदृश्यमानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षो रक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं
दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वरत्ययनं करिष्यमि । तेषां च सर्वेषां धर्मश्रवणिकानां स्त्रीपुरुषदारकदारिकाणां येषां केषांचिदितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एका चतुष्पादिकापि गाथा श्रुता भवेदन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादेकबोधिसत्त्वनामधेयमपि श्रुतं भवेदुद्गृहीतं वैकतथागतनामधेयं वान्तशश्चास्य
सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयं श्रुतं भवेदुद्गृहीतं वा तेषां सर्वेषामारक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामि । तेषां च कुलानां तेषां च गृहाणां तेषां च नगराणां तेषां च ग्रामाणां तेषां च निगमानां
तेषां चारण्यानां तेषां च राजकुलानामारक्षां करिष्यामि । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामि ॥

तत्कतमेन हेतुना । सर्वधर्माः परिज्ञाताः सर्वधर्मा अवबुद्धाः । यावन्तश्च सर्वधर्माः । यथा च सर्वधर्माः । संस्थिता ये च सर्वधर्माः । सम्यग्ज्ञाताश्च सर्वधर्माः । सर्वधर्मेष्वहं भदन्त भगवन्प्रत्यक्षः । अचिन्त्या मे भदन्त भगवञ्ज्ञानावभासाः । अचिन्त्यो ज्ञानालोकः । अचिन्त्यो ज्ञानप्रचारः । अचिन्त्यो ज्ञानस्कन्धः । अचिन्त्यो मे भदन्त भगवन्सर्वधर्मेषु
ज्ञानविषयः प्रवर्तते । यथा च मे भदन्त भगवन्सर्वधर्माः समम्यग्ज्ञाताः । सम्यक्परीक्षिताः सम्यक्परिज्ञाताः (बग्छि ६९) सम्यग्व्यवलोकिताः सम्यगवबुद्धाः । तेन हेतुना मम भदन्त भगवन्संज्ञेयस्य महायक्षसेनापतेः संज्ञेय इति नामधेयं समुदपादि ॥

अहं भदन्त भगवन्धर्मभाणकस्य भिक्षोर्वाक्यविभूषणार्थाय प्रतिभानमुपसंहरिष्यामि । रोमान्तरेषु च तस्यौजः प्रक्षेप्स्यामि । महान्तं च तस्य स्थाम च बलं वीर्यं च काये संजनयिष्यामि । अचिन्त्यं तस्य ज्ञानावभासं करिष्यामि । स्मृतिं च तस्य बोधयिष्यामि । महन्तं च तस्योत्सहं दास्यामि । यथा च स धर्मभाणको न क्लान्तकायो भवेत् । सुखेन्द्रियकायो
भवेत् । प्रहर्षजातश्च भवेत् । येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् । न क्षिप्रमन्तर्धापयेत् । सत्त्वाश्चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः । अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभेयुः । प्रज्ञावन्तश्च भवेयुः । अपरिमितं च पुण्यस्कन्धं परिगृह्णीयुः । अनागते
ऽध्वन्यनेककल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः । तथागतसमवधानगताश्च भवेयुरनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् । सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तेन समुच्छिन्नानि भवेयुरिति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे संज्ञेयमहायक्षसेनापति परिवर्तो नाम द्वादशः ॥


_____________________________________________________________


Œ(बग्छि ७०)
॥ देवेन्द्रसमयराजशास्त्रपरिवर्तः ॥

नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य । नमस्यस्यानेकगुणकोटीनियुतशतसहस्रसमलंकृतशरीरस्य शाक्यमुनेस्तथागतस्य यस्येयं धर्मोल्का ज्वलति । नमस्तस्या अपरिमितपुण्यधान्यमाङ्गल्यसम्पन्नायाः श्रियो महादेव्याः । नमस्तस्या अपरिमितगुणप्रज्ञासमुदितायाः सरस्वत्या देव्याः ॥

तेन खलु पुनः कालेन तेन समयेन राजा बलदकेतुः पुत्रस्य रुचिरकेतोरचिराभिषिक्तस्य च राज्यप्रतिष्ठितस्यैतदवोचत् । अस्ति पुत्र देवेन्द्रसमयं नाम राजशास्त्रम् । यन्मया पूर्वमचिराभिषिक्तेन च राज्यप्रतिष्ठितेन पितू राज्ञो बलेन्द्रकेतोः सकाशादुद्गृहीतम् । तेन मया देवेन्द्रसमयेन राजशास्त्रेण विंशतिवर्षसहस्राणि राजत्वं कारितं बभूव । नाभिजानाम्यहमन्तश एकचित्तक्षणप्रमाणमात्रेणापि
कस्यचिदधर्मस्थितपूर्वम् । कतमत्तत्र देवेन्द्रसमयं नाम राजशास्त्रम् ॥

अथ खलु कुलदेवते राजा बलदकेतुस्तेन कालेन तेन समयेन पुत्रस्य राज्ञो रुचिरकेतोरिमाभिर्गाथाभिर्देवेन्द्रसमयं नाम राजशास्त्रं विस्तरेण संप्रकाशयति स्म ॥

राजशास्त्रं प्रवक्ष्यामि सर्वसत्त्वहितं करम् ।
सर्वसंशयच्छेत्तारं सर्वदुष्कृतनाशनम् ॥ सुव्_१३.१ ॥
हृष्टचित्ता भवित्वेह सर्वे नृपतयः पृथक् ।
सर्वदेवेन्द्रसमयं शृणुध्वं प्राञ्जलिकृताः ॥ सुव्_१३.२ ॥
वज्रप्राकारगिरीन्द्रेऽस्मिन्देवेन्द्राणां समागमैम् ।
उत्थितैर्लोकपालेभिर्ब्रह्मेन्द्रः परिपृच्छितः ॥ सुव्_१३.३ ॥
त्वं नः सुरगुरुर्ब्रह्मा देवतानां त्वमीश्वरः ।
छेत्ता त्वं संशयानां च च्छिन्दयास्माकं संशयम् ॥ सुव्_१३.४ ॥
(बग्छि ७१)
कथं मनुष्यसंभूतो राजा देवः स प्रोच्यते ।
यदिह मानुषे लोके जायते च भवन्नृपः ॥ सुव्_१३.५ ॥
कथं देवमनुष्येषु राजत्वं च करिष्यते ।
एवं हि लोकपालिभिर्ब्रह्मेम्द्रः परिपृच्छतः ॥ सुव्_१३.६ ॥
सर्वा सुरगुरुर्ब्रह्मा लोकपालानिहाब्रवीत् ।
यदिह लोकपालेभिरेतर्हि मम पृच्छितः ।
सर्वसत्त्वहितार्थाय वक्ष्येऽहं शास्त्रमुत्तमम् ॥ सुव्_१३.७ ॥
नाराणां संभवं वक्ष्ये युक्त्वाहं मनुजालये ।
हेतुना येन राजानो भवन्ति विषयेषु च ॥ सुव्_१३.८ ॥
देवेन्द्राणामधिष्ठाने मातुः कुक्षौ प्रवेक्ष्यति ।
पूर्वमधिष्ठितो देवैः पश्चाद्गर्भे प्रपद्यते ॥ सुव्_१३.९ ॥
किं चापि मानुषे लोके जायते श्रीयते नृपः ।
अपि वै देवसंभूतो देवपुत्रः स उच्यते ॥ सुव्_१३.१० ॥
त्रायस्त्रिंशैर्देवराजेन्द्रैर्भागो दत्तो नृपस्य हि ।
पुत्रस्त्वं सह देवानां निर्मितो मनुजेश्वरः ॥ सुव्_१३.११ ॥
अधर्मशमनार्थाय दुष्कृतानां निवारकः ।
सुकृतौ स्थापयेत्सत्त्वान्प्रेषणार्थं सुरालये ॥ सुव्_१३.१२ ॥
मनुष्यो वाथ देवो वा गन्धर्वो वा नराधिपः ।
राक्षसो वाथ चण्डालो दुष्कृतानां निवारकः ॥ सुव्_१३.१३ ॥
माता पिता वा नृपतिः सुकृतौ कर्मकारिणाम् ।
विपाकफलदर्शी त्वं देवराजैरधिष्ठितः ॥ सुव्_१३.१४ ॥
सुकृतदुष्कृतानां च कर्मणां दृष्टधार्मिकः ।
विपाकफलदर्शी त्वं देवराजैरधिष्ठितम् ॥ सुव्_१३.१५ ॥
यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थितम् ।
नानारूपं न कुर्वीत दण्डं पापजनस्य च ।
दुष्कृतानामुपेक्षायामधर्मो वर्धते भृशम् ॥ सुव्_१३.१६ ॥
(बग्छि ७२)
शाठ्यानि कलहाश्चैव भूयो राष्ट्रे भवन्ति च ।
प्रकुप्यन्ति च देवेन्द्रास्त्रायत्रिंशद्भवनेषु च ॥ सुव्_१३.१७ ॥
यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थिरम् ।
हन्यते विषयो घोरैः शठ्यैरपि सुदारुणैः ॥ सुव्_१३.१८ ॥
विनश्यति च तद्राष्ट्रं परचक्रस्य चाक्रमे ।
भोगानि च बलान्येव धनं यस्यास्ति संचितम् ॥ सुव्_१३.१९ ॥
विविधानि च शाठ्यानि हरन्ति च परस्परम् ।
येन कार्येण राजत्वं नैतत्कार्यं करिष्यति ।
विलोपयति स्वं राष्ट्रं गजेन्द्र इव पद्मिनीम् ॥ सुव्_१३.२० ॥
विषमा वायवो वान्ति विषमा जलवृष्टयः ।
विषमा ग्रहनक्षत्राश्चन्द्रसूर्यौ तथैव च ॥ सुव्_१३.२१ ॥
सस्यं पुष्पं फलं बीजं व सम्यक्परिपच्यते ।
दुर्भिक्षं भवते तत्र यत्र राजा ह्युपेक्षकः ।
अनात्तमानसो देवा भवन्ति भवनेषु च ॥ सुव्_१३.२२ ॥
यदा ह्युपेक्षते राजा दुष्कृतं विचरेत्परम् ।
ते सर्वे देवराजाश्च वक्ष्यन्ति च परस्परम् ॥ सुव्_१३.२३ ॥
अधार्मिको ह्ययं राजा ह्यधर्मपक्षमाश्रितः ।
न चिरेण ह्ययं राजा देवतां कोपयिष्यति ॥ सुव्_१३.२४ ॥
देवतानां परिकोपाद्विषयोऽस्य विनक्ष्यति ।
शस्राणि च अधर्मश्च विषयेऽत्र भविष्यन्ति ॥ सुव्_१३.२५ ॥
शाठ्यानां कलहानां च रोगाणां च समुद्भवः ।
प्रकुप्यति च देवेन्द्र उपेक्ष्यन्ति च देवताः ॥ सुव्_१३.२६ ॥
प्रलुप्यते च यद्राष्ट्रं स नृपः शोकमृच्छति ।
इष्टवियोगं प्राप्नोति भ्रात्रा वाथ सुतेन वा ॥ सुव्_१३.२७ ॥
(बग्छि ७३)
प्रियभार्यावियोगो वा प्राप्यते दुहिताथ वा ।
उल्कापाता भविष्यन्ति प्रतिसूर्यास्तथैव च ॥ सुव्_१३.२८ ॥
परचक्रभयं वापि दुर्भिक्षं वर्धति भृशम् ।
प्रियामात्यश्च म्रियतेऽप्रियस्तु गर्जते वचः ॥ सुव्_१३.२९ ॥
सुताभीष्टं प्रियाश्वासं बालाभार्याविरोधिनः ।
परस्परं हरिष्यन्ति कुलभोगं धनानि च ॥ सुव्_१३.३० ॥
देशे देशे हनिष्यन्ति शस्त्रेण च परस्परम् ।
विवादाः कलहाः शाठ्या भवन्ति विषयेषु च ॥ सुव्_१३.३१ ॥
ग्रहः प्रविशते राष्ट्रे व्याधिर्भवति दारुणः ।
अधार्मिका भविष्यन्ति दिक्षणीयास्तदन्तरम् ॥ सुव्_१३.३२ ॥
अमात्याः परिषद्याश्च भवन्त्यस्याप्यधार्मिकाः ।
अधार्मिकजने पूजा भविष्यन्ति तदन्तरम् ॥ सुव्_१३.३३ ॥
धार्मिकानां च सत्त्वानां निग्रहो भवति ध्रुवम् ।
अधार्मिकजने मानं धार्मिकानां च निग्रहम् ।
त्रयस्तत्र प्रकुप्यन्ते नक्षत्रजलवायवः ॥ सुव्_१३.३४ ॥
त्रयो भावा विनश्यन्ति अधार्मिकजनो ग्रहे ।
सद्धर्मरसनोजश्च सत्त्वोजः पृथिवीरसः ॥ सुव्_१३.३५ ॥
असत्यजनसंमानं सत्यजनविमानता ।
त्रयस्तत्र भविष्यन्ति दुर्भिक्षमथ निर्भरम् ।
फलसस्यरसौजश्च न भवति तदन्तरे ॥ सुव्_१३.३६ ॥
ग्लानेन बहुलाः सत्त्वा भवन्ति विषयेषु च ।
मधुराणि महान्ति च फलानि विषयेऽपि हि ।
परीता च भविष्यन्ति तिक्तः कटुक एव च ॥ सुव्_१३.३७ ॥
पूर्वा रम्याणि भावानि क्रीडाहास्यरतीनि च ।
सभा रम्या भविष्यन्ति आयासशतव्याकुलाः ॥ सुव्_१३.३८ ॥
(बग्छि ७४)
धान्यानां च फलानां च स्निग्घभावो रसः क्षयेत् ।
न तथा प्रीणयिष्यन्ति शरीरेन्द्रियधातवः ॥ सुव्_१३.३९ ॥
दुर्वर्णाः सत्त्वा भविष्यन्ति स्वल्पस्थामाः सुदुर्बलाः ।
बहु च भोजनं भुक्त्वा तृप्तिं नासादयन्ति ते ॥ सुव्_१३.४० ॥
बलं च स्थाम वीर्यं च न लभन्ति तदन्तरे ।
हीनवीर्याणि सत्त्वानि भवन्ति विषयेषु च ॥ सुव्_१३.४१ ॥
सत्त्वा भविष्यन्ति रोगार्ता नानाव्याधिप्रपीडिताः ।
ग्रहा भविष्यन्ति नक्षत्रा नानाराक्षससंभवाः ॥ सुव्_१३.४२ ॥
अधार्मिको भवेद्राजा अधर्मपक्षसंस्थितः ।
त्रैधातुके विरुद्धोऽस्ति सर्वत्रैलोक्यमण्डलम् ।
अनेके ईदृशा दोषा भवन्ति विषयेषु च ॥ सुव्_१३.४३ ॥
यदा पक्षस्थितो राजा दुष्कृतं समुपेक्षते ।
येन कार्येण राजा वै देवेन्द्रेभिरधिष्ठितः ।
न तत्करोति राजत्वं दुष्कृतं समुपेक्षतः ॥ सुव्_१३.४४ ॥
सुकृतेनोपपद्यन्ते सर्वदेवसुरालये ।
दुष्कृतेन च गच्छन्ति प्रेततिर्यग्नरकेषु च ।
त्रायस्त्रिंशद्देवस्थाने प्रतापयन्ति दुष्कृतात् ॥ सुव्_१३.४५ ॥
यदा ह्युपक्षते राजा दुष्कृतं विषये स्थितम् ।
पितॄणां देवराजानां भवेन सापराधिकः ।
न तद्भवति पुत्रत्वं न रजत्वं कृतं भवेत् ॥ सुव्_१३.४६ ॥
यदापि नश्यते कार्यं शाठ्यैरपि सुदारुणैः ।
तस्मादधिष्ठितो राजा देवेन्द्रर्मनुजालये ॥ सुव्_१३.४७ ॥
दुष्कृतानां शमनार्थाय सुकृतानां प्रवर्तकः ।
दृष्टधार्मिकः सत्त्वानां विपाकजनको नृपः ॥ सुव्_१३.४८ ॥
(बग्छि ७५)
सुकृतदुष्कृतानां च कर्मणां यः पृथग्विधः ।
विपाकफलदर्शार्थं कर्त्ता राजा हि प्रोच्यते ।
अधिष्ठितो देवगणैर्देवेन्द्रैरनुमोदितः ॥ सुव्_१३.४९ ॥
आत्मनोऽर्थं परार्थाय धर्मार्थं विषयस्य च ।
दमनार्थाय राष्ट्रेषु शठपापजनस्य च ॥ सुव्_१३.५० ॥
त्यजेच्च जीवितं राज्यं धर्मार्थं विषयस्य च ।
मा चाधर्ममपृच्छित्वा जानन्तं समुपेक्षत ॥ सुव्_१३.५१ ॥
न चान्यस्तादृशो नाशो विषयेऽस्मिन् सुदारुणः ।
यदा शाठ्यसमुत्पन्नः शाठ्यकान्तारनिग्रहः ॥ सुव्_१३.५२ ॥
भूयो भवन्ति शाठ्यानि विषयेऽस्मिन् सुदारुणा ।
विलुप्यते च तद्राष्ट्रं गजैरिव महासरः ॥ सुव्_१३.५३ ॥
प्रकुप्यन्ति च देवेन्द्रा विलुम्पते सुरालयम् ।
विषमाः सर्वभावाश्च भवन्ति विषयस्य हि ॥ सुव्_१३.५४ ॥
तस्माद्दोषानुरूपं स्याद्दमनं पापकारिणाम् ।
धर्मेण पालयेद्राष्टं मा चाधर्मं समाचरेत् ॥ सुव्_१३.५५ ॥
जीवितं च परित्यज्य मा पापे पतितो भवेत् ।
बन्धुजने परजने सर्वराष्ट्रजनेषु च ।
एकापेक्षो भवेद्राजा मा पक्षे पतितो भवेत् ॥ सुव्_१३.५६ ॥
त्रैलोक्यमापूरयते यशसा धार्मिको नृपः ।
हर्षयिष्यन्ति देवेन्द्रास्त्रायस्त्रिंशद्भवेषु च ॥ सुव्_१३.५७ ॥
जम्बूद्वीपे तथास्माकं पुत्रो धर्मात्मको नृपः ।
धर्मेण शास्यते राष्ट्रं सुकृते स्थाप्यते जनम् ॥ सुव्_१३.५८ ॥
(बग्छि ७६)
सुकृतेन च राजा तमिह प्रेषयते जनम् ।
देवैर्देवसुतैः पूर्णं करोति च सुरालयम् ॥ सुव्_१३.५९ ॥
धर्मेण शास्यते राष्ट्रं राजा नः सुप्रहर्षिताः ।
प्रसन्ना भोन्ति देवेन्द्रा रक्षन्ते तान्नराधिपान् ॥ सुव्_१३.६० ॥
सम्यग्वहन्ति नक्षत्रा चन्द्रसूर्यौ तथैव च ।
कालेन वायवो वान्ति काले चैवं प्रवर्षति ॥ सुव्_१३.६१ ॥
सुभिक्षं कुर्वते राष्ट्रे तथा देवसुरालये ।
अमरामरपुत्रेण पूर्णं भोति सुरालयम् ॥ सुव्_१३.६२ ॥
तस्मात्त्यज्येन्नरपतिः प्रियं जीवितमात्मनः ।
आवर्तयेद्धर्मरत्नं येन लोकः सुखी भवेत् ॥ सुव्_१३.६३ ॥
। धार्मिकीं च नयेत्सेवां यो गुणैः समलंकृतः ।
स नित्यं सेवते तुष्टं सदा पापविवर्जितः ॥ सुव्_१३.६४ ॥
धर्मेण पालयेद्राष्ट्रं धर्मे समनुशासयेत् ।
सुकृते स्थापयेत्सत्त्वान्दुष्कृते च विवारयेत् ॥ सुव्_१३.६५ ॥
सुभिक्षं भवते राष्ट्रे तेजस्वी भवते नृपः ।
यथानुरूपं कुरुते दमनं पापकारिणाम् ।
यशस्वी भवते राजा सुखं पालयते प्रजामिति ॥ सुव्_१३.६६ ॥

इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे देवेन्द्रसमयं नाम राजशास्त्रपरिवर्तस्त्रयोदशमः ॥


_____________________________________________________________



(बग्छि ७७)
॥ सुसंभवपरिवर्तः ॥

ससागरा त्यक्त वसुंधरा तदा यदा बभूव नृप चक्रवर्ती ।
चत्वारि द्वीपानि सरत्नपूर्णनिर्याति ता पूर्वजिनेषु मह्यम् ॥ सुव्_१४.१ ॥
न चास्ति तद्वस्तु प्रियं मनापं पूर्वं च मह्यं न व त्यक्तमासीत् ।
तं धर्मकायं परिमार्गणार्थः प्रियजीवितं त्यक्तमनेककल्पान् ॥ सुव्_१४.२ ॥
यथ पूर्वकल्पेषु अचिन्तियेषु रत्नशिखिस्य सुगतस्य शासने ।
परिनिर्वृतस्य सुगतस्य तस्य सुसंभवो नाम बभूव राजा ॥ सुव्_१४.३ ॥
स चक्रवर्ती चतुर्द्वीप ईश्वरः समुद्रपर्यन्तमही प्रशास्यते ।
जिनेन्द्रघोषाय च राजधानीय सुप्तो बभूवा तद राजकुञ्जरः ॥ सुव्_१४.४ ॥
स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा रत्नोच्चयं पश्यति धर्मभाणकम् ।
स्थित सूर्यमध्ये व विरोचमानं प्रकाशयन्तमिम सूत्रराजम् ॥ सुव्_१४.५ ॥
स्वप्नाद्विबुद्धश्च बभूव राजा पीतिस्फुटं सर्वशरीरमस्य ।
अभिनिष्क्रर्म राजकुलानि दृष्टु उपसंक्रमी श्रावकसंघमग्रम् ॥ सुव्_१४.६ ॥
करोति पूजां जिनश्रावकाणां रत्नोच्चयं पृच्छति धर्मभाणकम् ।
(बग्छि ७८)
क्व चास्ति भिक्षूरिह चार्यसंघे रत्नोच्चयो नाम गुणान्वितश्च ॥ सुव्_१४.७ ॥
तेनान्तरेणा रतनोच्चयो हि अन्यत्र गूहान्तर संनिषणः ।
विचित्ररत्नमिम सूत्रराजं स्वध्यायमानः सुख संनिषणः ॥ सुव्_१४.८ ॥
देशेन्ति राजस्य तदन्तरेण रत्नोच्चयं भिक्षु स धर्मभाणकम् ।
अन्यत्र गूहान्तरसंनिषणम् । तं तेन रश्मीश्रियया ज्वलन्तम् ॥ सुव्_१४.९ ॥
एषोऽत्र रत्नोच्चय धर्मभाणको धारेति गम्भीरजिनस्य गोचरम् ।
स्वर्णप्रभासोत्तमसूत्ररत्नं सूत्रेन्द्रराजं सततं प्रकाशयेत् ॥ सुव्_१४.१० ॥
वन्दित्व पादौ रतनोच्चयस्य सुसंभवो राज इदं प्रवीद्धि ।
देशे हि मे पूर्णशशाङ्क चक्रं स्वर्णप्रभासोत्तमसूत्ररत्नम् ॥ सुव्_१४.११ ॥
अधिवासयी सो रतनोच्चयश्च राज्ञश्च तस्यैव सुसंभवस्य ।
सर्वत्रिसाहस्रिकलोकधातौ प्रहर्षितास्सर्वि बभूवु देवताः ॥ सुव्_१४.१२ ॥
वसुधाप्रदेशे परमे विशिष्टे रत्नोदके गन्धजलाम्वुसिक्ते ।
पुष्पावकीर्णां धरणीं स कृत्वा तत्रासनं प्राप्य तदा नरेन्द्रः ॥ सुव्_१४.१३ ॥
समलंकृतं राज्ञ तदासनं च च्छत्रैर्ध्वजैर्घण्टसहस्रनेकैः ।
(बग्छि ७९)
नानाविचित्रैर्वरपुष्पचन्द्रैरभ्योकिरे राज्ञ तदासनं च ॥ सुव्_१४.१४ ॥
देवाश्च नागासुरकिंनराश्च यक्षाश्च यक्षेन्द्रमहोरगाश्च ।
दिव्यैश्च मान्दारवपुष्पवर्षैरभ्यावकीर्णाश्च तदासनं च ॥ सुव्_१४.१५ ॥
अचिन्तियानन्त सहस्रकोटियो ये आगता देवभवाग्रकामाः ।
अभिनिष्क्रमित्वा रतनोच्चयं हि अभ्यो किरन्ति स्म च सालपुष्पा ॥ सुव्_१४.१६ ॥
सो चापि रत्नोच्चय धर्मभाणकः शुभाभगात्रः शुचिवस्त्रप्रावृतः ।
उपसंक्रमित्वा च तदासनं हि कृताञ्जलीभूत्व नमस्यते च ॥ सुव्_१४.१७ ॥
देवेन्द्रदेवानि च देवतानि मान्दारपुष्पं च प्रवर्षयन्ति ।
अचिन्तिया तूर्यशता सहस्रा प्रवादयन्ति स्थित अन्तरीक्षे ॥ सुव्_१४.१८ ॥
अभीरुहित्वा च स संनिषणो रत्नोच्चयो भिक्षु स धर्मभाणकः ।
अनुस्मरित्वा दशसू दिशासु अचिन्तिया बुद्धसहस्रकोट्यः ॥ सुव्_१४.१९ ॥
सर्वेष सत्त्वान कृपांज नित्य कारुण्यचित्तं समुपादयेत्सः ।
(बग्छि ८०)
राज्ञश्च तस्यापि सुसंभवस्य प्रकाशितं सूत्रमिदं तदन्तरे ॥ सुव्_१४.२० ॥
कृताञ्जलीभूत्व स्थिहित्व राजा यः कायवाचा मनुमोदितः सः ।
सद्धर्मवेगाश्रुप्रमुक्तनेत्रः प्रतिस्फटस्तस्य बभूव कायः ॥ सुव्_१४.२१ ॥
इमस्य सूत्रस्य च पूजनार्थं सुसंभवो राज तदन्तरेण
गृह्णित्व चिन्तामणिराजरत्नं सर्वार्थहेतोः प्रणिधिं चकार ॥ सुव्_१४.२२ ॥
वर्षन्तु अद्या इह जम्बुद्विपे ससप्तरत्नाणि च भूषणानि
ये चेह सत्त्वाः खलु जम्बुद्विपे सुखिताश्च भेष्यन्ति महाधनाश्च ॥ सुव्_१४.२३ ॥
चतुर्षु द्वीपेषु प्रवर्षितानि सप्तानि रत्नानि तदन्तरेण ।
केयूरहारा वरकुण्डलानि तथान्नपाने वसनानि चैव ॥ सुव्_१४.२४ ॥
दृष्ट्वा च तं राज सुसंभवश्च रत्नप्रवर्षं खलु जम्बुद्वीपे ।
चत्वारि द्वीपानि सरत्नपूर्णा निर्यातयी रत्नशिखिस्य शासने ॥ सुव्_१४.२५ ॥
अहं च सः शाक्यमुनिस्तथागतः सुसंभवो नाम बभूव राजा ।
(बग्छि ८१)
येनेह मे त्यक्त वसुंधरा तदा चत्वारि द्वीपानि सरत्नपूर्णा ॥ सुव्_१४.२६ ॥
अक्षोभ्य आसीत्स तथागतश्च रत्नोच्चयो भिक्षु स धर्मभाणकः ।
येनास्य राजस्य सुसंभवस्य प्रकाशितं सूत्रमिदं तदान्तरे ॥ सुव्_१४.२७ ॥
यन्मे श्रुतं सूत्रमिदं तदन्तरे एकाग्रवाचामनुमोदितं च ।
तेनैव मह्यं कुशलेन कर्मणा श्रोतानुमोदेन श्रुतेन तेन ॥ सुव्_१४.२८ ॥
सुवर्णवर्णं शतपुण्यलक्षणं लभेयि कायं प्रियदर्शनं सदा ।
नयनाभिरामं जनकान्तदर्शनं रतिंकरं देवसहस्रकोटिनाम् ॥ सुव्_१४.२९ ॥
नवोत्तरं नोतिसहस्रकोट्या कल्पानभूवं नृपचक्रवर्ती ।
अनेक कल्पान सहस्रकोट्यो त्रैलोक्यराजत्व मयानुभूतम् ॥ सुव्_१४.३० ॥
अचिन्तिया कल्प बभूव शक्रः तथैव ब्रह्मेन्द्र प्रशान्तमानसः ।
आरागिता मे बलाप्रमेया येषां प्रमाणं न कदाचि विद्यते ॥ सुव्_१४.३१ ॥
(बग्छि ८२)
तथा प्रमाणं बहु पुण्यस्कन्धं यन्मे श्रुतं सूत्रनुमोदितं च ।
यथाभिप्रायेण मि बोधि प्राप्ता सद्धर्मकायश्च मया हि लब्ध ॥ सुव्_१४.३२ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सुसंभवपरिवर्तो नाम चतुर्दशमः ॥


_____________________________________________________________



(बग्छि ८३)
॥ यक्षाश्रयरक्षापरिवर्तः ॥

यः कश्चिच्छ्रीमहादेवि श्राद्धः कुलपुत्रो वा कुलदुहिता वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्यां महतीं विपुलां विस्तीर्णां सर्वोपकरणैः पूजां कर्त्तुकामः स्यात् । अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां गम्भीरं बुद्धगोचरं परिज्ञातुकामो भवेत् । तेनावश्यं तत्र प्रदेशे विहारे वारण्यप्रदेशे वा यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः
विस्तरेण संप्रकाश्यते । तेनाविक्षिप्तचित्तेनाविरहितश्रोत्रेणायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः ॥

अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संपरिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत ॥

य इच्छेत्सर्वबुद्धानां पूजां कर्तुमचिन्तियाम् ।
गम्भीरं सर्वबुद्धानां गोचरं च प्रजनितुम् ॥ सुव्_१५.१ ॥
सर्वदेशोपसंक्रम्य विहारं लयनं तथा ।
यावद्देशीयते सूत्रं स्वर्णभासोत्तमं त्विदम् ॥ सुव्_१५.२ ॥
अचिन्तियमिदं सूत्रमनन्तगुणसागरम् ।
मोचकं सर्वसत्त्वानामनेकदुःखसागरात् ॥ सुव्_१५.३ ॥
आदिं सूत्रस्य पश्यामि मध्यमनिधनं तथा ।
अतिगम्भीरसूत्रेन्द्र उपमानं न विद्यते ॥ सुव्_१५.४ ॥Œन गङ्गारजसा चैव न धरण्यां न सागरे ।
न चाम्बरतलस्थस्य किंचिच्छक्योपमा कृतुम् ॥ सुव्_१५.५ ॥
धर्मधातुप्रवेशेन प्रवेष्टव्यं तदन्तरम् ।
यत्र धर्मात्मकस्तूपं गम्भीरं सुप्रतिष्ठितम् ॥ सुव्_१५.६ ॥
(बग्छि ८४)
तत्र च स्तूपमध्येऽस्मिन्पश्येच्छाक्यमुनिं जिनम् ।
इदं सूत्रं प्रकाशन्तं मनोज्ञेन स्वरेण च ॥ सुव्_१५.७ ॥
यावन्ति कल्पकोट्यो वै असंख्येया अचिन्तियाः ।
दिव्यमानुष्यकाण्येव सुखानि ह्यनुभूयते ॥ सुव्_१५.८ ॥
यदा स एवं जानीयाद्यत्तत्र सूत्र श्रूयते ।
एवमचिन्तियं मह्यं पुण्यस्कन्धं समार्जितम् ॥ सुव्_१५.९ ॥
आक्रमेद्योजनशतं पूर्णमग्निखदावृतम् ।
यः सकृच्छुणितुं सूत्रं सहेतु वेदनां भृशम् ॥ सुव्_१५.१० ॥
समनन्तरप्रविष्टस्य विहारं लयनं तथा ।
अपगच्छति पापानि सर्वदुःस्वप्नलक्षणा ॥ सुव्_१५.११ ॥
ग्रहनक्षत्रपीडा च काखोर्दग्रहदारुणा ।
समनन्तरप्रविष्टस्य सर्वे भोन्ति पराङ्मुखाः ॥ सुव्_१५.१२ ॥
तादृशमासनं तत्र कुर्वीत पद्मसंनिभम् ।
यादृशं नागराजैश्च दर्शितं सुपिनान्तरे ॥ सुव्_१५.१३ ॥
तत्रासनोपविष्टस्य इदं सूत्रं प्रकाशयेत् ।
लिखितं वाचयेच्चैव तथैव पर्यवाप्नुयात् ॥ सुव्_१५.१४ ॥
अवतीर्यासनादेव अन्यदेशे गतो भवेत् ।
दृश्यन्ते प्रतिहार्याणि तत्रासनगतानि च ॥ सुव्_१५.१५ ॥
धर्मभाणकरूपं च कदाचित्तत्र दृश्यते ।
कदाचिद्बुद्ध रूपं च बोधिसत्त्वं कदाचन ॥ सुव्_१५.१६ ॥
समन्तभद्ररूपाणि क्वचिन्मञ्जुश्रियस्तथा ।
क्वचिन्मैत्रैयरुपाणि दृश्यन्ते तत्र आसने ॥ सुव्_१५.१७ ॥
क्वचित्केवलमाभासं क्वचिद्देवोपदर्शनम् ।
मुहूर्तेनाभिदृश्यन्ते पुनश्चान्तरहायिषु ॥ सुव्_१५.१८ ॥
(बग्छि ८५)
सर्वत्र संसिद्धिकरं प्रशस्तं बुद्धशासनम् ।
धन्यमङ्गलसम्पन्नं संग्रामे च जयावहम् ॥ सुव्_१५.१९ ॥
जम्बुद्वीपमिदं सर्वं यशसा पूरयिष्यति ।
सर्वे च रिपवस्तस्य निर्जिता भोन्ति सर्वथा ॥ सुव्_१५.२० ॥
निहतशत्रुः सदा भोति सर्वपापविवर्जितः ।
सदा विजितसंग्रामः श्रिया स च प्रमोदति ॥ सुव्_१५.२१ ॥
ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च लोकपालास्तथैव च ।
वज्रपाणिश्च यक्षेन्द्रः संज्ञेयश्च नरर्षभः ॥ सुव्_१५.२२ ॥
अनवतप्त नागेन्द्रः सागरश्च तथैव च ।
किंनरेन्द्राः सुरेन्द्राश्च गरुडेन्द्रास्तथैव च ।
एतांश्च प्रमुखान् कृत्वा सर्वाणि देवतानि च ॥ सुव्_१५.२३ ॥
ते च ता नित्यं पूजन्ति धर्मस्तूपमचिन्तियम् ।
प्रहर्षिता भविष्यन्ति दृष्ट्वा सत्त्वाः स गौरवाः ॥ सुव्_१५.२४ ॥
तेऽप्येवं चिन्तयिष्यन्ति देवेन्द्राः सर्व उत्तमाः ।
देवताश्चैव तास्सर्वा वक्ष्यन्ति च परस्परम् ॥ सुव्_१५.२५ ॥
एता पश्यथ सर्वाणि तेजः श्रीपुण्यसंचिता ।
उप्तकुशलमूलेन आग्तास्ते नरा इह ॥ सुव्_१५.२६ ॥
य इमं सूत्रगम्भीरं श्रवणार्थमिहागताः ।
अचिन्तियप्रसादेन धर्मस्तूपे सगौरवाः ॥ सुव्_१५.२७ ॥
एते कारुणिका लोके एते सत्त्वहितंकराः ।
एते गम्भीरधर्माणां सद्धर्मरसभोजनम् ॥ सुव्_१५.२८ ॥
धर्मधातुप्रवेशेन य एते प्रविशन्ति च ।
ये शृण्वन्ति इदं सूत्रं ये चान्याञ्श्रावयन्ति च ॥ सुव्_१५.२९ ॥
(बग्छि ८६)
बुद्धा शतसहस्राणि तेभिस्ते पूर्वपूजिताः ।
एतेन कुशलमूलेन इदं सूत्रं शृण्वन्ति च ॥ सुव्_१५.३० ॥
ते सर्वे देवराजेन्द्राः सरस्वती तथैव च ।
श्रीश्च वैश्रवणश्चैव तथा चतुर्महाधिपाः ॥ सुव्_१५.३१ ॥
यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति दिवारात्रावतन्द्रिताः ॥ सुव्_१५.३२ ॥
महाबलैश्च यक्षेन्द्रैर्नारायणमहेश्वरौ ।
अष्टाविंशतिश्चाप्यन्ये संज्ञेयप्रमुखाणि च ॥ सुव्_१५.३३ ॥
यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति सर्वत्रासभयेषु च ॥ सुव्_१५.३४ ॥
वज्रपाणिश्च यक्षेन्द्रः पञ्चयक्षशतैरपि ।
सर्वेभि बोधिसत्त्वेभिस्तेषां रक्षां करिष्यति ॥ सुव्_१५.३५ ॥
मणिभद्रश्च यक्षेन्द्रः पूर्णभद्रस्तथैव च ।
कुम्भीरोऽटावकश्चैव पिङ्गलश्च महाबलः ॥ सुव्_१५.३६ ॥
एकैकश्चैव यक्षेन्द्रः पञ्चयक्षश्तैर्वृतः ।
तेषां रक्षां करिष्यति येभिः सूत्रमिदं श्रुतम् ॥ सुव्_१५.३७ ॥
चित्रसेनश्च गन्धर्वो जिनराजो जिनर्षभः ।
मणिकण्ठो नीलकण्ठश्च वर्षाधिपतिरेव च ॥ सुव्_१५.३८ ॥
महाग्रासो महाकालः स्वर्णकेशी तथैव च ।
पाञ्चिकश्छगलपादश्च महाभागस्तथैव च ॥ सुव्_१५.३९ ॥
प्रणाली महापालश्च मर्कटो वालिरेव च ।
सूचिरोमः सूर्यमित्रो रत्नकेशस्तथैव च ॥ सुव्_१५.४० ॥
महाप्रणाली नकुलः कामश्रेष्ठश्च चन्दनः ।
नागायनो हैमवतः सातागिरिस्तथैव च ॥ सुव्_१५.४१ ॥
(बग्छि ८७)
सर्वे त ऋद्धिमन्तश्च महाबलपराक्रमाः ।
तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम् ॥ सुव्_१५.४२ ॥
अनवतप्तो हि नागेन्द्रः सागरोऽपि तथैव च ।
मुचिलिन्न्दैरेलापत्रौ उभौ नन्दोपनन्दकौ ॥ सुव्_१५.४३ ॥
नागशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति सर्वतो भयभैरवात् ॥ सुव्_१५.४४ ॥
वली राहुर्नमुचिश्च वेमचित्रश्च संवरः ।
प्रह्रादः खरस्कन्धश्च तथान्ये चासुराधिपाः ॥ सुव्_१५.४५ ॥
असुरशतसहस्रेभिरृद्धिमद्भिर्महाबलैः ।
तेषां रक्षां करिष्यन्ति उत्पातभयभैरवात् ॥ सुव्_१५.४६ ॥
हारीती भूतमाता च पञ्चपुत्रशतैरपि ।
तेषां रक्षां करिष्यन्ति सप्तमातृस्थितानि च ॥ सुव्_१५.४७ ॥
चण्डा चण्डालिका चैव यक्षिणी चण्डिका तथा ।
दन्ती च कूटदन्ती च सर्वसत्त्वौजहारिणी ॥ सुव्_१५.४८ ॥
एते सर्व ऋद्धिमन्तो महाबलपराक्रमाः ।
तेषां रक्षां करिष्यन्ति समन्तेन चतुर्दिशः ॥ सुव्_१५.४९ ॥
सरस्वती च प्रमुखा देवता च अचिन्तिया ।
तथा श्रीप्रमुखाश्चैव सर्वाणि देवतानि च ॥ सुव्_१५.५० ॥
पृथिवी देवता चैव फलशस्याधिदेवता ।
आरामवृक्षचैत्यानि वासिन्योनदि देवता ॥ सुव्_१५.५१ ॥
ते सर्वे देवतासंघाः सुप्रहर्षितचेतसाः ।
तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम् ॥ सुव्_१५.५२ ॥
योजयन्ति च ते सत्त्वा आयुर्वर्णबलेन च ।
श्रीपुण्यतेजलक्ष्मीभिस्ते नित्यालंकरोन्ति च ॥ सुव्_१५.५३ ॥
ग्रहनक्षत्रपीडाश्च सर्वास्ते शमयन्ति च ।
अलक्ष्मीपापदुःस्वप्नं सर्वे ते नाशयन्ति च ॥ सुव्_१५.५४ ॥
(बग्छि ८८)
पृथिवीदेवता चैव गम्भीरा च महाबला ।
सुवर्णप्रभासोत्तमसूत्रेन्द्ररसतर्पिता ॥ सुव्_१५.५५ ॥
अष्टषष्टिसहस्राणि शतानि योजनानि च ।
यावद्वज्रतलस्थानं वर्घते पृथिवीरसैः ॥ सुव्_१५.५६ ॥
पूर्णं च शतयोजनं पुरस्तात्संनिवर्तति ।
ऊर्ध्वं स्नेहयते मही इतः सूत्रश्रवणबलात् ॥ सुव्_१५.५७ ॥
सर्वाश्च देवताश्चापि दशदिक्षु व्यवस्थिताः ।
सुवर्णप्रभसोत्तमसूत्रेन्द्ररसतर्पिताः ॥ सुव्_१५.५८ ॥
ओजोवन्तो वरा भोन्ति लक्ष्मीवीर्यवलान्विताः ।
सुखेन प्रीणिता भोन्ति नानारससमर्पिताः ॥ सुव्_१५.५९ ॥
सर्वत्र जम्बुद्वीपेऽस्मिन्फलशस्यवनदेवताः ।
प्रहर्षिता भविष्यन्ति इह सूत्रे प्रकाशने ॥ सुव्_१५.६० ॥
शस्यानि च तृणान्येव विचित्रकुसुमानि च ।
विचित्राः फलवृक्षाश्च रोहयन्ति समन्ततः ॥ सुव्_१५.६१ ॥
सर्वाणि फलवृक्षाणि आरामाणि वनानि च ।
सुपुष्पितं करिष्यन्ति नानागन्धप्रमोदितम् ॥ सुव्_१५.६२ ॥
विचित्रेभिश्च पुष्पेभिर्विचित्रेभिः फलैरपि ।
सर्वास्तृणवनस्पत्यो रोहयन्ति महीतले ॥ सुव्_१५.६३ ॥
सर्वत्र जम्बुद्वीपेऽस्मिन्नागकन्या अचिन्तियाः ।
प्रहृष्टचेतसोद्भूताः पद्मिनीषूपसंक्रमन् ॥ सुव्_१५.६४ ॥
रोहयन्ति विचित्राणि सर्वासु पद्मिनीषु च ।
पद्मकुमुदोत्पलानि च पुण्डरीकस्तथैव च ॥ सुव्_१५.६५ ॥
धूमात्र जालिनी मुक्तं भवते गगणं शुभम् ।
तमोरजोविनिर्मुक्ता दिशो भोन्ति प्रभास्वराः ॥ सुव्_१५.६६ ॥
(बग्छि ८९)
सूर्यः सहस्रकिरणै रश्मिजालेन सुप्रभः ।
गम्भीरेणावभासेन हर्षितश्चोदयिष्यति ॥ सुव्_१५.६७ ॥
जम्बूनदसुवर्णस्य विमानान्तरसंस्थितः ।
सूर्येन्द्रदेवपुत्राश्च इतः सूत्रात्सुतर्पिताः ॥ सुव्_१५.६८ ॥
उपयान्ति जम्बुद्वीपे सूत्रेन्द्राः संप्रहर्षिताः ।
अनन्तरश्मिजालेन भो भास्यन्ति समन्ततः ॥ सुव्_१५.६९ ॥
सहबोधितमात्रेण रश्मिजालप्रचोदने ।
नानापद्मिनीसंछन्ना कमला बोधयिष्यन्ति ॥ सुव्_१५.७० ॥
सर्वत्र जम्बुद्वीपेऽस्मिन्नानाशस्य फलौषधीः ।
परिपाचयन्ति सम्यक्तं चातपयते महिम् ॥ सुव्_१५.७१ ॥
चन्द्रसूर्यौ विशेषेण अवभासेतां तदन्तरम् ।
सम्यग्वहन्ति नक्षत्रा वातवर्षं तथैव च ॥ सुव्_१५.७२ ॥
सुभिक्षं भवते सर्वं जम्बुद्वीपे समन्ततः ।
विशेषेण च तद्राष्ट्रं यत्र सूत्रमिदं भवेत् ॥ सुव्_१५.७३ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे यक्षाश्रयो नामरक्षापरिवर्तः पञ्चदशमः ॥


_____________________________________________________________



(बग्छि ९०)
॥ दशदेवपुत्रसहस्रव्याकरणपरिवर्तः ॥

एवमुक्ते बोधिसत्त्वसमुच्चया कुलदेवता भगवन्तमेतदवोचत् । केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोत्तप्तवीर्येण कुशलमूलेन यस्य कृतत्वादुपचितत्वादेवतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिशद्देवभवनादागतानि भगवतोऽन्तिके धर्मश्रवणायोपसंक्रामन्ति ।

एतेषां त्रयाणां सत्पुरुषाणां बोधिसत्त्वव्याकरणं श्रुत्वा बोधौ चित्तमुत्पादयन्ति । यथायं रुचिरकेतुः सत्पुरुषोऽनागतेऽध्वनि गणनासमतिक्रान्तेष्वनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु सुवर्णप्रभासितायां लोकधातावनुत्तरां सम्यक्यंबोधिमभिसंभोत्स्यते । सुवर्णरत्नाकरच्छत्रकूटो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते
विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् । यावत्तस्य भगवतः सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मान्तर्हिते सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यकेतुर्नाम दारकः । तस्य तथागतस्यानुसंघौ तत्र चैव विरजध्वजलोकधातौ
सुवर्णजम्बुध्वजकाञ्चनाभो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते । यावत्तस्य सुवर्णध्वजकाञ्चनावभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यप्रभो दारकः । तस्य तथागतस्योनुसंघौ तत्र चैव विरजध्वजलोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । सुवर्णशतरश्मिप्रभासगर्भो नाम तथागतोऽर्हनसम्यक्संबुद्धो
लोक उत्पस्यते विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥ ते सर्व एतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृताः ॥

न चैतेषां भदन्त भगवज्ज्वलनान्तरतेजोराजप्रमुखानां दशानां देवपुत्रसहस्राणां यावद्विस्तीर्णा बोधिसत्वचर्या अभूवन् । न षट्सु पारमितासु पूर्वं चरितवन्तः श्रुतपूर्वा अभूवन् । नयनचरणोत्तमाङ्गप्रियपुत्रभार्यादुहितरः परित्यक्तपूर्वा न श्रूयन्ते । धनधान्यहिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपरजतमरकतरत्नानि (बग्छि ९१) परित्यक्तपूर्वाणि न श्रूयन्ते ।
नानान्नपानवस्त्रयानशयनासनभवनविमानारामपुष्करिणीतडागाः परित्यक्तपूर्वा न श्रूइयन्ते । नानाहस्तिगोऽश्ववडवादासीदासाः परित्यक्तपूर्वा न श्रूयन्ते । यथा तान्यनेकानि बोधिसत्त्वकोटीनियुतशतसहस्राणि पूर्वेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वनेकानामसंख्येयतथागतकोटीनियुतशतसहस्राणामनेकाचिन्त्यैः नानाविचित्रैः पूजाशतसहस्रैः सर्वोपकरणैः पूजां करिष्यन्ति । सर्वरत्नपरित्यागानि
परित्यजिष्यन्ति । करचरणनयनोत्तमाङ्गप्रियपुत्रभार्यादुहितापरित्यागानि करिष्यन्ति । धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाणि परित्यागानि परित्यजन्ति । अन्नपानवस्त्रशयनासनभवनविमानारामोद्यानपुष्करिणीहस्तिगवाश्चवडवादासीदासपरित्यागानि परित्यक्ष्यन्ति । अनुपूर्वेण षट्पारमिताः परिपूरयिष्यन्ति । अनुपूर्वेण षट्पारमिताः परिपूरयित्वानेकानि सुखशतसहस्राण्यनुभविष्यन्ति
। यावद्बुद्धेभ्यो भगवद्भयः तथागतनामधेये व्याकरणं प्रतिलप्स्यन्ते ॥

तत्केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोप्तकुशलमूलेन च तानि ज्वलनान्तरते जोराजप्रमुखानि दशदेवपुत्रसहस्राणीह भगवतोऽन्तिकं धर्मश्रवणायोपसंक्रामन्ति । तान्येतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतानि । यदुतानागतेऽध्वन्यनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु तत्रेव शालेन्द्रध्वजाग्रवत्यां लोकधातावेककुलगोत्रैकनामधेयेनानुपूर्वेणानुत्तरां
सम्यक्संबोधिमभिसंभोत्स्यन्ते । प्रसन्नवदनोत्पलगन्धकूटानाम्ना दशसु दिक्षु दशबुद्धसहस्राणि लोक उत्पत्स्यन्ते विद्याचरणसंपन्नाः सुगता लोकविदोऽनुत्तराः पुरुषदम्यसारथयः शास्तारो देवानां च मनुष्याणां च बुद्धा भगवन्तः ॥

एवमुक्ते भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् । अस्ति कुलदेवते सहेतुरस्ति तत्कारणम् । अस्ति तदुप्तं कुशलमूलं यस्य कृतत्वादुपचितत्वादेतानि ज्वलनान्तरतेजोराजप्रमुखानि (बग्छि ९२) दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिंशद्भवनादिह धर्मश्रवणायोपसंक्रामन्ति । एतेषां त्रयाणां सत्पुरुषाणामिदं बोधिव्याकरणं श्रुत्वा सहश्रवणेन कुलदेवतेऽस्य सुवर्णप्रभासोत्तमस्य
सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रीतिप्रसादप्रतिलब्धा भवन्ति । तावद्विमलवैडुर्यसदृशेन परिशुद्धचित्तेन समन्वागता भवन्ति । विमलविपुलविस्तीर्णगगणकल्पसदृशेन गम्भीरेण चित्तप्रसादेन समन्वागता भवन्ति । अपरिमितं च पुण्यस्कन्धं परिगृहीतवन्तो भवन्ति तावच्चैत्यदैवते ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि सहश्रवणेनास्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रसादप्रतिलब्धा भवन्ति । तावद्विमलवैडूर्यसदृशेन परिशुद्धेन चित्तेन समन्वागता
भवन्ति यावद्याकरणभूमिमनुप्राप्ताः । अनेन कुलदेवते धर्मश्रवणकुशलमूलप्रचयेनापि पूर्वप्रणिधानवशेनैतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । कतमानि च कुलदेवते पूर्वप्रणिधानानीति ।

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे दशदेवपुत्रसहस्रव्याकरणपरिवर्तः षोडशः ॥


_____________________________________________________________



(बग्छि ९३)
॥ व्याधिप्रशमनपरिवर्तः ॥

भूतपूर्वं कुलदेवतेऽतीतेऽध्वन्यसंख्येयतरैर्विपुलैरचिन्त्यैरप्रमेयैर्यदासीत्तेन कालेन तेन समयेन रत्नशिखी नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य
परिनिर्वृतस्य सद्धर्मस्यान्तर्हितस्य सद्धर्मप्रतिरूपके परिवर्तमाने सुरेश्वरप्रभो नाम राजा बभूव । धार्मिको धर्मराजो धर्मेण राज्यं पालयमानो नाधर्मेण मातापितृकल्पः सर्वविषयवासिनां सत्त्वानाम् ॥

तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये जटिंधरो नाम श्रेष्ठी बभूव ॥

वैद्यः चिकित्सकः परमधातुकुशलोऽष्टाङ्गेनायुर्वैद्यशास्रेण समन्वागतो बभूव ।

तेन खलु कुलदेवते कालेन तेन समयेन तस्य जटिंधरस्य श्रेष्ठिनो जलवाहनो नाम्ना श्रेष्ठिपुत्र उत्पन्नो बभूव । अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतो नानाशास्त्रकुशलः सर्वशास्त्रगतिंगतो लिपिसंख्यागणनाकुशलः सर्वशिल्पी बभूव । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषयेऽनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टान्यभूवन्
। नानाव्याधिपरिपीडितानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति ॥

तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य जलवाहनस्य श्रेष्ठिपुत्रस्य तेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपिडितानामर्थाय परमकारुण्यं चित्तमुत्पन्नो बभूव । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितान्येतर्हि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति । अयं च मम पिता जटिंधरः
श्रेष्ठी वैद्यविचिकित्सकः परमधातुकुशलोऽष्टाङ्गायुर्वैद्यशास्त्रेण समन्वागतो वृद्धो जीर्णो (बग्छि ९४) महल्लकोऽध्वगतो वयोऽनुप्राप्तो जीर्णमवस्थाप्य प्रवेपमाणः कायो यष्टिमालम्ब्य यत्र यत्र सर्वत्र ग्रामनगरनिगमराष्ट्रराजधानीषूपसंक्रामति । एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधोभ्यः परिमोचयितुं यं नूनमहमिममेव पितरं
जटिंधरमुपसंक्रमित्वाधिकौशल्यं परिपृच्छेयम् । येन धातुकौशल्येन परिपृष्टेनाहं सर्वत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामि । उपसंक्रम्य तान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्यः परिमोचयिष्यामि ।

तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो येन स्वपिता जटिंधरः श्रेष्ठी तेनोपजगाम । उपेत्य स्वपितुर्जटिंधरस्य पादौ शिरसा वन्दित्वा कृताञ्जलिपुटो भूत्वैकान्तेऽस्थात् । एकान्ते स्थितो जलवाहनः श्रेष्ठिपुत्रः स्वपितरं जटिंधरं श्रेष्ठिनमिमाभिर्गाथाभिर्धातुकौशल्यं पृच्छति स्म ॥

तानीन्द्रियाणि लक्षन्ते परिवर्तन्ति धातवः ।
केन कालेन जायन्ते व्याधयश्च शरीरिणाम् ॥ सुव्_१७.१ ॥
भोजनं च कथं भुक्त्वा काले काले सुखावहम् ।
येनान्तरशरीरस्य कायोऽग्निनोपहन्यते ॥ सुव्_१७.२ ॥
कथं चिकित्सा कर्तव्या वाते पित्ते श्लेष्मिके तथा ।
संनिपाते समुत्पन्ने कथं व्याधिशान्तये ॥ सुव्_१७.३ ॥
किं काले कुप्यते वातः पित्तं कुप्यते कदा ।
किं काले कुप्यते श्लेष्मा येन पीड्यन्ति मानवाः ॥ सुव्_१७.४ ॥

अथ खलु जटिंधरः श्रेष्ठी जलवाहनस्य श्रेष्ठिपुत्रस्याभिर्गाथाभिर्धातुकौशल्यं विदित्वा देशयते स्म ॥

वर्षा चात्र त्रयो मासास्त्रयश्च शारदं स्मृतम् ।
त्रयस्तथैव हेमान्तस्त्रयश्च ग्रीष्मिकस्तथा ॥ सुव्_१७.५ ॥
(बग्छि ९५)
इत्येव मासक्रमः षडृतूनि संवत्सरद्वादशमासिकं स्मृतम् ।
अन्नं च पानं च तथा च जीर्यते वैद्याश्च कौशल्यस्मृतिप्रदर्शिताः ॥ सुव्_१७.६ ॥
ते चापि संवत्सरपर्वमन्तरे परिवर्तन्तीन्द्रियधातवोऽपि ।
परिवर्तमानानि च इन्द्रियाणि विचित्रव्याधिर्भवते शरीरिणाम् ॥ सुव्_१७.७ ॥
तत्रैव वैद्यस्य चतुः प्रकारं त्रिमासपर्वान्तरे षडृतूनि ।
षड्धातुकौशल्यप्रजानितव्यं यथाक्रमं भोजनमौषधं च ॥ सुव्_१७.८ ॥
वाताधिकाराः प्रभवन्ति वर्षे पत्तिप्रकोपः शरदि प्रसन्ने ।
हेमन्तकाले तथ संनिपातं कफाधिकाराश्च भवन्ति ग्रीष्मे ॥ सुव्_१७.९ ॥
स्निग्धोष्णलवणाम्लरसाश्च वर्षे शरत्सु स्निग्धं मधुरं च शीतम् ।
मधुराम्लस्निग्धं च हेमन्तकाले रूक्षोष्णकटुकानि च ग्रीष्मकाले ॥ सुव्_१७.१० ॥
कफाधिकः कुप्यति भुक्तमात्रे पित्ताधिकं कुप्यति जीर्यमाणे ।
वाताधिकः कुप्यति जीर्णमात्रे इत्येव धातुत्रितयप्रकोपः ॥ सुव्_१७.११ ॥
(बग्छि ९६)
संबृहणं कुर्वतु निरात्मकस्य विरेचनं पित्तविवर्धनं च ।
त्रिगुणोपपन्नं तथ संनिपाते प्रशमं च कुर्यात्कफपर्वमन्तरे ॥ सुव्_१७.१२ ॥
वाताधिकं पैत्तिकसन्निपाते कफाधिकं पर्वसु जानितव्यम् ।
यत्काल यद्धातु यदाश्रयं च तदन्नपानौषधि दर्शितव्यमिति ॥ सुव्_१७.१३ ॥

अथ खलु जलवाहनः श्रेष्ठिपुत्रस्तेनैवंरूपेण नैमित्तिकेन धातुकौशल्येन परिपृष्टेन सर्वाष्टाङ्गायुर्वैद्यमधिगतोऽभूत् । तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो राज्ञः सुरेश्वरप्रभस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमित्वा सर्वेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां
नानाव्याधिपरिपीडितानामेवमाश्वासयामास । मा भैषुर्वैद्योऽस्मि वैद्योऽस्मीत्यात्मानं प्रतिज्ञातवानहं युष्माकं नानाव्याधिभ्यः परिमोचयिष्यामि । सहश्रवणेन कुलदेवते तस्य जलवाहनस्य श्रेष्ठिपुत्रस्येदमेवंरूपं वचनं व्याहरमाणस्य सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि महाप्रहर्षजातानि बभूवुः । आश्वासप्राप्तान्यचिन्त्यप्रीतिसौमनस्येन समन्वागतानि बभूवुः । तानि
तेन कालेन तेन समयेन तया प्रहर्षयानेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानारोगेभ्यः परिमोचयितान्यरोगाणि च बभूवुर्विगतव्याधीनि च । यथा पौराणेन स्थामबलवीर्येण समन्वागतानि बभूवुः । तेन खलु पुनः कुलदेवते कालेन तेन समयेन तेषामनेकेषां च सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानां ये केचिद्गाढतरेण स्पृष्टा
च बभूवुः । ते सर्वे येन जलवाहनः श्रेष्ठिपुत्रस्तेनोपसंक्रान्त उपसंक्रम्यैव ये च किंचित्तेषां (बग्छि ९७) सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामौषधिविधानान्यभिनिर्दिशन्ति स्म । तत्तासु राजधानीषु सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि जलवाहनेन श्रेष्ठिपुत्रेण नानाव्याधिभ्यः परिमोचितानि
बभूवुरिति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याधिप्रशमन परिवर्तो नाम सप्तदशः ॥


_____________________________________________________________



(बग्छि ९८)
॥ जलवाहनस्य मत्स्यवैनेयपरिवर्तः ॥

पुनरपरं कुलदेवते राज्ञः सुरेश्वरप्रभस्य विषये जलवाहनेन श्रेष्ठिदारकेण सर्वसत्त्वा आरोगाः कृता अल्पा बाधा यथापूर्वेणोत्साहबलकायेन संवृताः सर्व उत्साहसुखेन रमन्ति स्म । क्रीडन्ति स्म । परिचारयन्ति स्म । दानानि च ददन्ति स्म । पुण्यानि च कुर्वन्ति स्म । जलवाहनः श्रेष्ठिदारको महावैद्यदानानां च सुखानां व्याधिविचिकित्सको नियतप्रत्यक्षेण बोधिसत्त्वेन भवितव्यम् ।
सर्वेनाष्टाङ्गायुर्वैद्यमधिगतोऽभूत् । तस्य खलु पुनः जलवाहनस्य श्रेष्ठिदारकस्य जलाम्बुजगर्भा नाम भार्याऽभूत् । तस्य खलु पुनः कुलदेवते जलाम्बुजगर्भाया द्वौ दारकौ पुत्रावभूताम् । एको जलाम्बरो नाम द्वितीयो जलगर्भो नाम ॥

अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रस्याभ्यां दारकाभ्यां सार्धमनुपूर्वेण ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वनुचङ्क्रमति ॥

अथ खलु पुनः कुलदेवतेऽपरेण तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रोऽन्यतरमटवीकान्तारप्राप्तोऽध्वनि ददर्शात्रान्तरे मांसभक्षा वृकशृगालकाकपक्षिणस्तां दिशं धावन्ति यत्राटवीकान्तारेऽटवीसंभवा पुष्करिणी । तदृटष्ट्वा तस्यैतदभूत् । कस्यार्थमिमे मांसभक्षा वृकशृगालकाकपक्षिण इमां दिशं धावन्ति । तस्यैतदभूत् । यं नूनमहं तां
दिशमुपसंक्रमेयम् । यस्यां दिशीमे मंसभक्षाश्च वृकशृगालकाकपक्षिणो धावन्ति ॥

अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रोऽनुपूर्वेणानुचङ्क्रमन्ननुविचरन्यत्राटवीसंभवा पुष्करिणी तत्र संप्राप्तः । तत्र महापुष्करिण्यां दशमत्स्यसहस्राणि प्रतिवसन्ति स्म । स तत्रापश्यद्बहूनि मत्स्यशतानि जलविप्रहीणानि तत्रास्य कारुण्यचित्तमुत्पन्नम् । तत्राद्राक्षीदर्धकायां देवतां निष्क्रमन्तीम् । सा च देवता जलवाहनं श्रेष्ठिदारकमेतदवोचत् । साधु साधु (बग्छि
९९) कुलपुत्र यस्त्वं जलवाहनो नाम मत्स्यानामुदकं प्रयच्छ । द्वाभ्यां कारणाभ्यां जलवाहन इत्युच्यते । यश्चोदकं वाहयति ततः स्वनामानुरूपं कुल । जलवाहनः प्राह । कियन्तीमानि देवते मत्स्यानि । देवता प्राह । परिपूर्णानि दशमत्स्यसहस्राणि ॥

अथ खलु कुलदेवते जलवाहनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया परमकारुण्यचित्तमुत्पन्नम् । तेन खलु पुनः कुलदेवते समयेनाटवीसंभवायां पुष्करिण्या किंचिन्मात्रमवशिष्टमुदकमभूत् । तानि दशमत्स्यसहस्राणि मृत्युमुखप्रविष्टानि जलविप्रहीणानि धावन्ति ॥

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म । यस्यां दिशि जलवाहनः श्रेष्ठिदारकोऽनुचङ्कमति तस्यां दिशि दशम्त्स्यसहस्राणि जलवाहनं करुणं प्रेक्षन्ते ॥ अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म । उदकं प्रेषयमाणो न चैवात्रोदकमुपलभ्यते । चतुर्दिशं प्रेक्षते । सोऽद्राक्षीन्नातिदूरे महान्तं वृक्षसमूहं
तं वृक्षमभिरुह्य द्रुमशाखाञ्छित्त्वा येन सा पुष्करिणी तेनोपजगाम । उपगम्य तेषां दशानां मत्स्यसहस्राणां द्रुमशाखाभिः सुशीतलाञ्छायां कृतवान् ॥

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकस्तस्यां पुष्करिण्यामुदकागमं पर्येषते कुत उदकस्यागमनं भवेत् । चतुर्दिशं धावति न चोदकमुपलभ्यते । स शीघ्रं शीघ्रं तमुदकस्त्रोतं समनुगच्छति । तस्याः खलु पुनः कुलदेवते अटवीसंभवायाः पुष्करिण्या जलागमा नाम महानदी यतस्तस्यामुदकस्यागमनम् । तेन च समयेन सा न्द्यन्यतरेण पापसत्त्वेन तेषांŒदशानां मत्स्यसहस्राणामर्थेन सा नदीत्यदृष्टे स्थाने महाप्रपाते पातिता यत्तेषां मत्स्यानां न भूय उदकस्यागमनं भविष्यति । स तं दृष्ट्वा चिन्तयति न शक्यत एषा नदी जनसहस्रेणापि तेनैव यथा वाहयितुं किमङ्ग पुनर्मयैकेन शक्यो बाहयितुं स प्रतिनिवृत्तः ॥

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिपुत्रः शीघ्रं शीघ्रमुपसंक्रान्तो येन राजा (बग्छि १००) सुरेश्वप्रभस्तेनोपजगाम । उपगम्य राज्ञः सुरेश्वरप्रभस्य पादौ शिरसा नत्वैकान्ते निषण्णः । इमां प्रकृतिमारोचयाति स्म । मया खलु देवस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानां व्याधयः प्रशमिताः । तत्रामुष्मिन्स्थानेऽटवीसंभवा नाम
पुष्करिणी । तत्र दशमत्स्यसहस्राणि प्रतिवसन्ति जलप्रहीणान्यादित्यपरितापितानि । तद्ददातु मे देवो विंशतिगजा यथा तेषां तिर्यग्योनिगतानां जीवितं ददामीति । यथा मनुष्याणां दत्तमाज्ञप्तं खलु राज्ञा सुरेश्वरप्रभेणामात्यानां ददत महावैद्यराजस्य विंशतिगजान् । अमात्या आहुः । उपसंक्रम महासत्त्व येन हस्तिशाला उपगृह्णीष्व विंशतिगजान् कुरु सत्त्वानां सुखम् ॥

अथ खलु कुलदेवते जलवाहनः सार्धं जलाम्बरेण च स्वपुत्रेण विंशतिगजान् गृहीत्वा नागशौण्डिकानां सकाशाच्छतशो दृशीनां प्रतिगृह्य प्रतिनिवृत्तः । यत्र जलागमा नाम महानदी प्रवहति । तत्रोपसंक्रम्योदकेन ता दृतीः पूरयित्वा गजपृष्ठ उदकमारोप्य शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्तः । उपसंक्रम्य तदुदकं हस्तिपृष्ठादवतार्य तां
पुष्करिणीं चतुर्दिशमुदकेन पूरयित्वा चतुर्दिशं च क्रमति । येन येन जलवाहनोऽनुचङ्क्रमति तेन तेन दशमत्स्यसहस्राण्यनुधावन्ति ॥

अथ खलु कुलदेवते जलवाहनस्यैतदभवत् । किमर्थमेतानि दशमत्स्यसहस्राणि येनाहं तेन प्रधावन्ति । तस्य पुनरेतदभवत् । नूनमेते मत्स्याः क्षुधाग्निना परिपीडिता मम सकाशाद्भोजनं परिमार्गयन्ति । यन्नूनमहं भोजनं प्रयच्छेयम् ॥

अथ खलु कुलदेवते जलवाहनः स्वपुत्रं जलाम्बरमेतदवोचत् । गच्छ कुलपुत्र स्वकं निवेशनं सर्वबलतरं हस्तिनमभिरूह्य च शीध्रं शीघ्रमुपसंक्रम्य पितामहस्य श्रेष्ठिन एवं वदेह भो तात जलवाहन एवं वदति यत्किंचिदत्र गृहेऽभिसंस्कृतं भोजनं स्यान्मातापित्रोर्भ्रातृभगिन्योर्दासीदासकर्मकरस्य (बग्छि १०१) कृतशः सर्वमेकत्र पिण्डीकृत्वा जलाम्बरस्य हस्तिपृष्टमवरोप्य
जलवाहनाय शीघ्रं शीघ्रं विसर्जय ॥

अथ खलु जलाम्बरो दारको हस्तिनमभिरुह्य शीघ्रं शीघ्रं धावति स्म । येन स्वकं निवेशनं तेनोपसंक्रामदुपसंम्यैतां प्रकृतं पितामहस्याग्र आरोचयामास विस्तरेण यथा पूर्वोक्तम् । तत्सर्वं पितामहेन जलाम्बराय विसर्जितम् ॥

अथ खलु जलम्बरो दारकस्तद्भोजनं हस्तिपृष्ठमुपनाम्य हस्तिनमभिरुह्य येनाटवीसंभवा पुष्करिणी तेनोपसंक्रामत् ॥

अथ खलु जलवाहनः स्वकं पुत्रं जलाम्बरमागतं दृष्ट्वा हृष्टस्तुष्ट उदग्रः पुत्रस्यान्तिकाद्भोजनं प्रतिगृह्य च्छित्त्वा तत्र पुष्करिण्यां प्रक्षिपति स्म । तेनाहारेण तानि दशमत्स्यसहस्राणि संतर्पितानि । पुनस्तस्यैतदभवत् । श्रुतं मे परेण कालसमयेनारण्यायतने भिक्षुर्महायानधारयमान इत्याह । यो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य मरणकालसमये
नामधेयं शृणुयात् । स स्वर्गलोक उपपत्स्यतीति । यन्नूनमहमेषां मत्स्यानां गम्भीरं प्रतीत्यसमुत्पादं धर्मं देशयेयम् । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावयेयम् । तेन च समयेन तस्मिञ्जम्बुद्वीपे द्विघादृष्टिः सत्त्वानामभूत् । केचिन्महायानमभिश्रद्धयन्ति केचित्क्लेशयन्ति ॥

अथ खलु पुनर्जलवाहनः श्रेष्ठिपुत्रस्तस्यां वेलायामुभौ पादौ जानुमात्रं तत्र पुष्करिण्यां प्रवेश्यैवं चिदानमुदानयामास । नमस्तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पुर्वबोधिसत्त्वचर्यां चरमाणस्य एवं प्रणिधानमभूत् । ये केचिद्दशसु दिक्षु मरणकालसमये मम नामधेयं शृणुयुस्ते ततश्च्युत्वा देवानां त्रायस्त्रिंशानां सभागतायामुपपद्येयुः


(बग्छि १०२)
अथ खलु जलवाहनः श्रेष्ठिदारकस्तेषां तिर्यग्योनिगतानामिमं धर्मं देशयति स्म । यदुतास्मादिदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्यया संस्कारा । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्यय स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः
। भवप्रत्यया जातिः । जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवत्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यदुताविद्यानिरोधात्संरकारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधः । विज्ञाननिरोधान्नामरूपनिरोधः । नामरूपनिरोधात्षडायतननिरोधः । षडायतननिरोधात्स्पर्शनिरोधः । स्पर्शनिरोधाद्वेदनानिरोधः । वेदनानिरोधात्तृष्णानिरोधः
। तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यते । केवलमस्य महतो दुःखस्कन्धस्य निरोधो भवति । इति हि कुलदेवते तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रस्तेषां तिर्यग्योनिगतानामिमां धार्मिककथां कथयति स्म । सार्धं पुत्राभ्यां जलाम्बरेण जलगर्भेण च पुनरपि
स्वगृहमनुप्राप्तः ॥

अथापरेण कालेन समयेन जलवाहनः श्रेष्ठिपुत्रो महोत्सवं परिभुज्य महोत्सवमत्तो शयने शयितः । तेन च कालेन तेन समयेन महानिमित्तः प्रादुर्भूतः । यत्तस्या रात्र्यामत्ययेन तानि दशमत्स्यसहस्राणि कालगतानि देवेषु त्रायस्त्रिंशत्सु सभागतायामुपपन्नानि । सहोपपन्नानां चैषामेवंरूपश्चेतसः परिवितर्क उत्पन्नः । केन वयं कुशलकर्महेतुनेह देवेषु
त्रायस्त्रिंशेषूपपन्नाः । तेषामेतदभूत् । वयमस्मिञ्जम्बुद्वीपे दशमत्स्यसहस्राण्यभूवन् । ते वयं तिर्यग्योनिगता जलवाहनेन श्रेष्ठिदारकेण प्रभूतेनोदकेन संतर्पिता भोजनवरेण च । गम्भीरश्चास्माकं प्रतीत्यसमुत्पादधर्मो देशितः । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्राविताः । (बग्छि १०३) तेन कुशलधर्महेतुना तेन प्रत्ययेनेह वयं देवेषूपपन्नाः
। यन्नूनं वयं येन जलवाहनः श्रेष्ठिदारकस्तेनोपसंक्रमेमः । उपसंक्रम्य तस्य पूजां करिष्यामः ।

अथ तानि दशदेवपुत्रसहस्राणि देवेषु त्रायस्त्रिंशत्स्वन्तर्हितानि जलवाहनस्य श्रिष्ठिनो गृहे तस्थुः । तेन खलु पुनः समयेन च जलवाहनः श्रेष्ट्युपशयने शयितः । तस्यैतैर्देवपुत्रैर्दशमुक्ताहारसहस्राणि शीर्षान्ते स्थापितानि । दशमुक्ताहारसहस्राणि पादतले स्थापितानि । दशमुक्ताहारसहस्राणि दक्षिणपार्श्वे स्थापितानि । दशमुक्ताहारसहस्राणि वामपार्श्वे स्थापितानि । गृहान्तरे जानुमात्रं
मान्दारवपुष्पवर्षं प्रावर्षत् । दिव्याश्च दुन्दुभयः पराहताः । येन सर्वे जम्बुद्वीताः प्रतिविबुद्धाः । अथ जलवाहनः श्रेष्ठी प्रतिविबुद्धम् ॥

अथ तानि दशदेवपुत्रसहस्राणि खगपथेनोपक्रान्तानि । ते च देवपुत्रा राज्ञः सुरेश्वरप्रभस्य विषये स्थानस्थानान्तरे मान्दारवपुष्पवर्षं प्रवर्षयन्तो येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्ताः ते तत्र पुष्करिण्यां मान्दारवपुष्पं प्रवर्षयन्तस्तत एवान्तर्हिताः पुनरपि देवालयं गताः । तत्र पञ्चभिः कामगुणै रमन्ति स्म । क्रीडन्ति स्म । परिचालयन्ति स्म
। महतीं श्रीसौभाग्यतामनुभवन्ति स्म । जम्बुद्वीपे च रात्रीप्रभाताभूत् ॥

अथ खलु राजा सुरेश्वरप्रभो गणकमहामात्यान्पृच्छति । किमर्थमद्य रात्रावेतानि निमित्तानि प्रादुर्भूतानि । तेऽवोचन् । यत्खलु देवो जानीयात् । जलवाहनस्य श्रेष्ठिदारकस्य चत्वारिंशन्मुक्ताहारसहस्राणि प्रवर्षितानि दिव्यानि च मान्दारवपुष्पाणि निर्गच्छन्ति । राजाह । भवन्तो जलवाहनं श्रेष्ठिनं दारकं प्रियवचनेन शब्दापयन् ॥

अथ ते गणकमहामात्या येन जलवाहनस्य गृहं तेनोपसंक्रान्ताः । उपसंक्रम्य जलवाहनस्य श्रेष्ठिन एतदवोचन् । राजा सुरेश्वरप्रभस्त्वामामन्त्रयते । अथ जलवाहनः श्रेष्ठी महामात्यैः सार्धं येन राजा सुरेश्वरप्रभस्तेनोपजगाम । उपसंक्रम्यैकान्ते निषण्णः । राजा (बग्छि १०४) पृच्छति । जलवाहन किं निमित्तं जानीया यदद्य रात्रावीदृशानि शुभनिमित्तानि प्रादुर्भूतानि । अथ जलवाहनः
श्रेष्ठी सुरेश्वरप्रभस्यैतदवोचत् । जानाभि देव नियतं दशमत्स्यसहस्राणि कालगतानि । राजाह । कथं जानासि । जलवाहन आह । गच्छतु देव जलाम्बरस्तां महापुष्करिणीं प्रविशतु । किं तानि दशम्त्स्यसहस्राणि जीवन्ति अथ कालगतानि । राजाह । एवमस्तु ॥

अथ जलवाहनः श्रेष्ठिदारको जलाम्बरं दारकमेतदवोचत् । गच्छ कुलपुत्राटवीसंभवायां पुष्करिण्यां पश्य । किं तानि दशमत्स्यसहस्राणि जिवन्ति अथ कालगतानि । अथ जलाम्बरो दारकः शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपजगाम । उपसंक्रम्य ददर्श । तानि दशम्त्स्यसहस्राणि कालगतानि महान्तं च मान्दारवपुष्पवर्षं दृष्ट्वा पुनरपि निवृत्तः
पितुरेतदवोचत् । कालगतानीति । अथ जलवाहनः श्रेष्ठी दारको जलम्बरस्य दारकस्यान्तिकादिदं वचनं श्रुत्वा येन राजा सुरेश्वरप्रभस्तेनोपसंक्रम्यैतां प्रकृतिमारोचयति स्म । यत्खलु देवो जानीयात्तानि दशम्त्स्यसहस्राणि सर्वाणि कालगतानि देवेषु त्रायस्त्रिंशत्स्वुपपन्नानि । तेषां देवपुत्राणामनुभावेनाद्य रात्राविदृशानि शुभनिमित्तानि प्रादुर्भूतानि । यदस्माकं गृहे चत्वारिंशन्मुक्ताहारसहस्राणि दिव्यानि च
मान्दारवपुष्पाणि प्रवर्षितानि । अथ स राजा हृष्टस्तुष्ट उदग्रात्तमना बभूव ॥

अथ खलु भगवान्पुनस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् ॥ स्यात्खलु पुनर्युष्माकं कुलदेवतेऽन्यः स तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । दण्डपाणिः शाक्यस्तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव । स्यात्खलु पुनः कुलदेवतेऽन्यः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठी बभूव । न
खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । राजा शुद्धोदनः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठ्यभूत् ॥

(बग्छि १०५)
स्यात्खलु पुनस्ते कुलदेवतेऽन्यः स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारकोऽभूत् । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारकोऽभूत् ॥ स्यात्खलु पुनस्ते कुलदेवतेऽन्या सा तेन कालेन तेन समयेन जलवाहनस्य जलाम्बुजगर्भा नाम भार्याभूत् । न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । गोपा नाम शाक्यकन्या तेन कालेन समयेन जलवाहनस्य
जलाम्बुजगर्भा नाम भार्याभूत् । राहुलभद्रस्तेन कलेन तेन समयेन जलाम्बरो नाम दारकोऽभूत् । आनन्दः स तेन कालेन तेन समयेन जलगर्भो नाम दारकोऽभूत् । स्यात्खलु पुनस्ते कुलदेवतेऽन्यानि तानि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवः । न पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः । अमूनि तानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवुः । यानि मयोदकेन संतर्पितानि
। भोजनवरेण च गम्भीरश्च प्रतीत्यसमुत्पादो धर्मो देशितः । रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावितः । तेन कुशलधर्महेतुना ममान्तिक इहागतानि येनैतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि । अतीव प्रीतिप्रासादप्रामोद्येन धर्मश्रुतिगौरवेण सर्वव्याकरणनामधेयानि प्रतिलब्धानीति ॥

स्यात्खलु पुनस्ते कुलदेवतेऽन्या सा तेन कालेन तेन समयेन वृक्षदेवताभूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतोः । त्वमभूः कुलदेवते तेन कालेन तेन समयेन वृक्षदेवता । अनेन कुलदेवते पर्यायेणैवं वेदितव्यम् । यथा मया संसारे संसरता बहवः सत्त्वाः परिपाचिता बोधौ । ये ते सर्वे व्याकरणभूमिं प्रतिलप्स्यन्तेऽनुत्तरायां सम्यक्संबोधाविति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे जलवाहनस्य मत्स्यवैनेयपरिवर्तोऽष्टादशः ।


_____________________________________________________________



(बग्छि १०६)
॥ व्याघ्रीपरिवर्तः ॥

पुनरपरं कुलदेवते परहितार्थायात्मपरित्यागमपि बोधिसत्त्वभूतेन भवितव्यम् । तत्कथमिदम् । दिवि भुवि च विसृतविपुलविमलविविधगुणशतकिरणोऽप्रतिहतज्ञानदर्शनबलपराक्रमो भगवान्भिक्षुशतसहस्रपरिवृतः पञ्चविधचक्षुप्राप्तः प्रञ्चालेषु जनपदेषु जनपदचारिकां चरमाणोऽन्यतमेव वनखण्डमनुप्राप्तो बभूव । स तत्र ददर्श हरितमृदुनीलशाद्वलतलविविधकुसुमप्रतिमण्डितं पृथिवीप्रदेशं
दृष्ट्वा च भगवानायुष्मन्तमानन्दमामन्त्रयति स्म । रुचिरोऽयमानन्द ! पृथिवीप्रदेशः । अस्मिंश्चास्मिकस्थाननिष्ठा संज्ञायते । एतर्हि तथागतस्यासनं प्रज्ञापय । ततस्येन भगवत आज्ञयासनं प्रज्ञप्तम् । प्रज्ञप्य च भगवन्तमेतदवोचत् । प्रज्ञप्तमासनं भगवन्निषीद ज्ष्ठेष्ठ श्रेष्ठ नृणां वरद वरिष्ठ मोक्षवह परमामृतकथां विसृज नृणां हिताय
भगवन्निधनविप्रयुक्तम् । अथ भगवांस्तस्मिन्नासने निषद्य भिक्षूनामन्त्रयते स्म । इच्छथ यूयं भिक्षवो दुष्करकारिकाणां बोधिसत्त्वानां शरीराणि द्रष्टुम् ॥

एवमुक्ते भिक्षवो भगवन्तमेतदवोचन् ।

अयमृषिवरकालप्राप्त सत्त्वार्थसारमद्वयनीरतस्य द्रष्टुम् ।
अस्माभिरस्थीण्यपरिमित गुणश्रितस्य तत्साधु घाटय ॥ सुव्_१९.१ ॥

अथ भगवान्सहस्रारचक्रचरणविलिखिततलेन स्थूलितनवकमलकोमलेन पाणिना धरणीतलं जघान व्याहतमात्रेण षड्विकारं पृथिवी चचाल । मणिकेन करजातविकृतं च स्तूपं ततोऽभ्युज्जगाम । अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । विघाटयानन्देमं स्तूपम् । अथायुष्मानानन्दो भगवते प्रतिक्षुत्य स्तूपं विघटयामास । स तत्र ददर्श कनकविसृतमुक्तासंछादितं हिरण्यमयं समुद्रकम्
। दृष्ट्वा च भगवन्तमेतदवोचत् । हिरण्यमयं भगवन्समुद्रकः समुद्धृतः । भगवानुवाच । सप्तैते समुद्रकान्सर्व उद्धाटनीयाः । तदोद्धाटयामास । स तत्र ददर्श हिमकुमुदसदृशान्यस्थीनि । दृष्ट्वा च भगवन्तमेतदवोचत् । भगवन्नस्थीन्युपलक्ष्यन्ते । भगवानाह । आनीयतामानन्द महापुरुषस्यास्थीनि ॥

(बग्छि १०७)
अथायुष्मानानन्दस्तान्यस्थीन्यादाय भगवते बुद्धायोपनामयामास । भगवांश्चास्थीनि गृहीत्वा संघस्य पुरतः संस्थाप्योवाच । इमान्यस्थीनि महाप्रवरगुणामुक्तस्य समन्तदमध्यानक्षान्तिप्रवरदृढोत्साहयशःसंस्कृतो भूयः सततसमितं बोधौ मतिमतो दृढोत्साहिनो धृतिमतः सदादाननिरतस्य । ततो भगवान्भिक्षूनामन्त्रयामास । वदन्त भिक्षवो बोधिसत्त्वशरीराणि शीलगुणवासितानि
परमदुर्लभदर्शनानि पुण्यक्षेत्रभूतानि । ततस्ते भिक्षवः कृतकरपुटा आवर्जितमनसस्तानि शरीराणि मूर्ध्ना वन्दन्ते स्म ॥

अथायुष्मानानन्दः कृतकरपुटो भगवन्तमेतदवोचत् । भगवानतीतानागतप्रत्युत्पन्नसर्वलोकाभ्युद्भतः सर्वसत्त्वैर्नमस्कृतः तत्कथं तथागत एवैतान्यस्थीनि नमस्यते । अथ भगवानायुष्मन्तमानन्दमेतदवोचत् । वन्दनीयानीमान्यस्थीन्यानन्द । तत्कस्य हेतोः । एभिरानन्दास्थिभिर्मयैवं क्षिप्रमनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । भूतपूर्वमानन्दातीतेऽध्वन्यनेकधनधान्यवाहनबलोपपन्नो
ऽप्रतिहतबलपराक्रमो महारथो नाम राजाभूत् । तस्य देवकुमारसदृशास्त्रयः पुत्रा बभूवः । महाप्रणादो महादेवो महासत्त्वाश्चेति । अथ राजा क्रीडनार्थमुद्यानमभिनिष्क्रमते स्म । ते च कुमारास्तस्योद्यानस्य गुणानुराधितया कुसुमलोलया चेतस्ततोऽनुविचरमाना महाद्वादशवनगुल्मं प्रविविशुः । तेषु प्रसृतेषु कुमारोपस्थायका अन्योन्यप्रसृता बभूवुः । राजकुमारोत्सृष्टा उद्यानमहत्यामलक्षितायां तं
द्वादशवनगुल्मं प्रविविशुः । अथ महाप्रणादो भ्रातृद्वयमुवाच । भीर्मे हृदयमाविशते । आगच्छत मा वयं श्वापदे विनाशमापद्येम । महादेव उवाच । न मे भयमस्त्यपि त्विष्टजनवियोगाद्धि मे हृदये प्रवर्तते । महासत्त्व उवाच ॥

न च मम भयमिहास्ति नापि शोको वनवरे मुनिजनसंस्तुते विविक्ते ।
परमसुविपुलमहार्थता लाभा हृदयमिदं मम संप्रपुष्पति च ॥ सुव्_१९.२ ॥

(बग्छि १०८)
अथ ते राजकुमारास्तद्द्वादशवनगुल्मविवरं चञ्चूर्यमाणा एकां व्याघ्रीं ददृशुः सप्ताहप्रसुतां पञ्चसुतपरिवृतां क्षुत्तृषपरिकर्षितां परमदुर्बलशरीरां दृष्टा महाप्रणादोऽब्रवीत् । भो कष्टमियं तपस्विनी षडहप्रसुता वा सप्ताहप्रसुता वा भविष्यति । इदानीं भोजनमलभमाना स्वसुतानि भक्षयिष्यति जिघत्सया वा कालं करिष्यति । महासत्त्व
उवाच । किमस्यास्तपस्विन्या भोजनम् । महाप्रणाद उवाच ।

मांसोष्णानि रूधिराणि रससंकाशं भवेद्यदिह ।
एतद्भोजनमुक्तं व्याघ्रतरक्ष्वृक्षसिंहानाम् ॥ सुव्_१९.३ ॥

महादेव उवाच । इहैषा तपस्वीनी क्षुत्तुषपरीतशरीरा अलं प्राणावशेषा परमदुर्बला न शक्यमन्यस्थाने भोजनमन्वेष्टुम् । कोऽस्याः प्राणपरिरक्षणार्थमात्मपरित्यागं कुर्यादिति । महाप्रणाद उवाच । भो दुष्कर आत्मपरित्यागः । महासत्त्व उवाच ।

अस्मद्विधान् दुष्कर शरीर अभियुक्तानामेष नयः ।
अन्येषां परहिताभियुक्तानां सत्पुरुषाण न दुष्करः ॥ सुव्_१९.४ ॥

अपि च ।

कृपाकरुणममवतारिय सत्त्वो दिवि चेह लभ्यते सः ।
स्वदेह शतश इह कृत्व मुदितमनाः परजीवशरीरे ॥ सुव्_१९.५ ॥

अथ ते राजकुमाराः परमसंदीप्ता एषा व्याघ्रीति द्रुतमनिमिषिमनुनिरीक्षन्तः प्रचङ्क्रमुस्ततो महासत्त्वस्यैतदभूत् । अयमिदानीमात्मपरित्यागस्य कालः । कुतः -

सुचिरमपि ऋतोऽयं पूतिकायो महाहैः शयनवसनान्नैर्भोजनैर्वाहनैश्च ।
(बग्छि १०९)
श्तनयकृतधर्माभैदनान्तैरनन्तं न विजहति अनुपूर्वं स्वस्वभावं कृतघ्नुः ॥ सुव्_१९.६ ॥

अपि च ।

नास्ती तस्योपजीव्यं सर्वतु मध्ये भुतत्वात्तं नियोज्य ।
तस्मै जरामरणस्य समुद्रोत्तरणपोतभूतु भविस्सम् ॥ सुव्_१९.७ ॥

अपि च ।

त्यक्त्वाहं पुण्ड्रभूतं भवशतभरितं विष्टान्तः पूर्णम् ।
निःसारफेनकल्पं कृमिशतभरितं कार्यकृत्यं तनु हि ॥ सुव्_१९.८ ॥
निःशोक निर्विकारं निरुपधिममलं ध्यानप्रज्ञादिगुणैः ।
संपूर्णं धर्मकाय गुणशतभरितं प्राप्स्येव सुशुद्धम् ॥ सुव्_१९.९ ॥

स खल्वेवं कृतव्यवसायः परमकरुणोपरिगतहृदयः तयोर्विक्षेपं चकार । गच्छेतां तावद्भवन्तौ स्वकार्येणाहं द्वादशवनगुल्मं प्रवेक्ष्यामीति ॥

अथ स महासत्त्वो राजकुमारः तस्मादुपवनात्प्रतिनिवृत्य व्याघ्र्या आलयमुपगम्य वनलतायां प्रावरणमृत्सृज्य प्रणिधानं चकार । एषोऽहं जगतो हितार्थमनुत्तरां बोधिं विबुध्य शिवां कारुण्यात्प्रददामि निश्चलमतिर्देहं परैर्दुस्त्यजम् । तन्मे बोधिरनामया या जिनसुतैरभ्यर्चिता निर्ज्वला त्रैलिक्यं भवसागरात्प्रतिभयादुत्तारयेयान्माम् । इत्यथ व्याघ्र्या अभिमुखं महासत्त्वः प्रपतितः । ततो व्याघ्री
मैत्रीवतो बोधिसत्त्वस्य न किञ्चिच्चक्रे । ततो बोधिसत्त्वो दुर्बलावर्तोऽयमथेत्युत्थाय शस्त्रं पर्येषते स्म । कृपामतिर्न क्वचिच्छस्त्रमलभत् । सोऽतिबलां वर्षशतिकां वंशलतां (बग्छि ११०) गृहीत्वा तया स्वबालमुत्क्षेप्य व्याघ्रीसमीपे पपात । प्रपतितमात्रे च बोधिसत्त्वे भूमिरियं प्रचरविहीनेव नौः सलिलमध्ये गता षड्विकारं प्रचचाल । राहुग्रस्त इव दिनकरकिरणो न बभ्राजे । दिव्यगन्धचूर्णसंनिश्रितं
च कुसुमवर्षं पपात । अथान्यतरा विस्मया वर्जितमनसा देवता बोधिसत्त्वं तुष्टाव ॥

यथा कारुण्यं ते विसृतमिह सत्त्वेषु सुमते
यथा वै तद्देहं त्यजसि नरवीर प्रमुदितः ।
शिवं श्रेष्ठं स्थानं जननमरणार्थे विरहितं
निरायासं शान्तं त्वमिह न चिरात्प्राप्स्यसि शुभम् ॥ सुव्_१९.१० ॥

अथ खलु सा व्याघ्री रुधिरम्रक्षितशरीरं बोधिसत्त्वमवेक्ष्य मुहूर्तमात्रेण निर्मांसरुधिरमस्थ्यवशेषं चकार ॥

अथ महाप्रणादस्तं भूमिकम्पमनुनिशम्य महादेवमेतदवोचत् ॥

प्रचलित ससमुद्रा सागरा वसुमतिदशदिक्षू सुप्तरश्मिश्च सूर्यः ।
पतति कुसुमवर्षं व्याकुलं वा मनो मे स्वतनुरिह विसृष्टः सांप्रतं भ्रातृणा मे ॥ सुव्_१९.११॥

महादेव उवाच ।

यथा च सो करुणवचो ह्यवोचत समीक्ष्य तां स्वतनायभक्षणोद्यताम् ।
क्षुधान्वितां व्यशनशतैः समन्वितां सुदुर्बला मतिरिह संशया तु मे ॥ सुव्_१९.१२ ॥

अथ तौ राजकुमारौ परमशोकाभिभूतौ वाष्पपरिप्लुताक्षौ तमेनं पन्थानं प्रतिनिवृत्य गच्छन्तौ व्याघ्रीसमीपमेवाभिजग्मतुः । तं ददृश्तुः शतं वंशलतासमायुक्तं प्रावरणं कृष्णविकृष्णानि (बग्छि १११) चास्थीनि रुधिरकर्दमानि । नानादिग्विदिक्षु केशान्विस्तीर्णान्दृष्ट्वा च समूर्च्छन्नौ भूमौ निपेततुः । सचिरात्संज्ञामुपलभ्योत्थायोच्चेयबाहू आर्तस्वरं मुमुचतुः


अहो प्रियभ्रातृक पार्थिवायं तथा जननी सुतवत्सला या
पृच्छिष्यते सा जननी तृतीयः क्व वा युवाभ्यां कमलायतेक्ष्णः ॥ सुव्_१९.१३ ॥
अहो हि अस्माकमिहैव शोभितं ननू प्रदेशे मरणं न जीवितम् ।
कथं महासत्त्वविवर्जिता वयं दास्यामहे दर्शनमम्बतातयोः ॥ सुव्_१९.१४ ॥

अथ तौ राजकुमारौ बहुविविधकरुणं विलाप्य प्रचक्रमतुः । तत्र कुमारस्योपस्थायका दिशि विदिशि प्रधावन्तः कुमारान्वेषणाः परस्परं दृष्ट्वा च पप्रच्छुः क्व कुमारः क्व कुमार इति । तस्मिंश्च समये देवी शयनतलगता प्रियविप्रयोगसूचकं स्वप्नं ददर्श । तद्यथा स्तनौ छिद्यमानौ दन्तोत्पातनं च क्रियमाणं त्रयः कपोतशावकाः प्रतिलम्भमानास्ते भीता एव श्येनेनाच्छिद्यमानाः
। अथ देवी भूमिकाम्पादुत्रस्तहृदया सहसा प्रतिविबुध्य चिन्तापरा बभूव ॥ किमेषा भूतधात्री जलनिधिवसना कम्पति भृशं सूर्यः शूली न रश्मिर्मम च किच भूभजं वयति वा ।

दुःखं कुर्वति मे गात्रं चलति च नयनं स्वस्तनं छिद्यती च ।
स्वस्ति मे स्यात्सुतानां वनविवरमिदं क्रीडनार्थं गतानाम् ॥ सुव्_१९.१५ ॥

अथैवं चिन्तयन्त्याश्चेटी च संत्रस्तहृदया प्रविश्य देव्या निवेदयामास । देवि कुमारपरिचारकाः कुमारमन्वेषन्ते नष्टः श्रूयते । तत्र पुत्रहतश्रवणाच्च देवी संकम्पिताहृदया वाष्पाकुलनयनवदना (बग्छि ११२) राजानमभिगम्योवाच । देव नष्टो मे प्रियसुतः श्रूयते । राजापि संकम्पितहृदयः परमसंत्रासमापेदे । हा कष्टं वियुक्तोऽस्मि प्रियसुतेन । अथ राजा देवीमाश्वासयामास
। मा भीर्देवि पुत्रार्थं वयं कुमारान्वेषणोपलभन्तः । तत्र प्रवृत्ते कुमारान्वेषणाभिद्रुते जनकाय अथाचिरादेव राजा ददर्श दूरत एवागच्छन्तौ राजकुमारौ । दृष्ट्वा राजाब्रवीत् । एतावालभन्तौ कुमारौ न तु सर्वे । हा कष्टं सुतवियोगो नाम ।

न भवति निरुपलम्भे न प्रीतिरेवं नराणां भवति सुतवियोगाद्यादृशं दौर्मनस्यम् ।
ननु वरसुखिनस्ते येन पुंसाभियोगा मरणमुपगता वा ये न जीवन्ति पुत्राः ॥ सुव्_१९.१६ ॥

अथ देवी परमशोकाभिभूता मर्महन्तेव कलभी आर्तस्वरमुवाच ॥

यदि तनयास्त्रयस्य भृत्यवर्गा वनवरे कुसुमाकुले प्रविष्टाः ।
क्व स हृदयसमो समस्तृतीयः सुतमनयापदवैति कनीयसमेतत् ॥ सुव्_१९.१७ ॥

तयोरागतयो राजा पुत्रावेतत्पर्यपृच्छतोत्सुकः कुमारौ परिपृच्छति स्म । क्व दारकः कनीयस इति । ततः शोकार्तावश्रुद्रुतनयनौ परिशुष्कताल्वोष्ठदशनवदनौ न किञ्चिदूचतुः ॥ देव्युवाच ॥

कथयतां लघु विमुह्यति स्मृतिश्च परमभृशं परिपीड्यते च देहः ।
क्व स मम पुत्रस्तृतीय हृदयमिदं स्फुटितं तु संमूर्च्छति वा ॥ सुव्_१९.१८ ॥

अथ तौ कुमारौ विस्तरेण तं वृत्तान्तं निवेदयामास । सहश्रवणेन राजा देवी परिजनाश्च मोहमुपगताः । मोहप्रत्यागताश्च करुणार्तस्वरं रोदमानास्तं देशमभिजग्मुः । अथ राजा देवी च तण्यस्थीन्यपगतरुधिरमांसानि वायुना दिशो विदिशश्च केशविकीर्णा दृष्ट्वा (बग्छि ११३) चाहत इव द्रुमो भूमौ निपतितौ । ततः पुरोहितः सुचिरं तामवस्थां दृष्ट्वा सलिलमलयचन्दनपङ्कै राज्ञो देव्याश्च शरीरं
प्रह्लादयामास । अथ सुचिरात्संज्ञामुपलभ्य राजोत्थाय करुणकरुणं विललाप ॥

हा कष्टं पुत्र क्व मनोरस दर्शनीय मृत्योर्वशं शीघ्रमुपगतासि ।
मृत्योः प्रश्ममेव हि चागतो विना ते परं मम भविष्यति दुःखमन्यत् ॥ सुव्_१९.१९ ॥

देवी च मोहात्यागता प्रकीर्णकेशी बाहुभ्यामुरस्ताडयन्ती स्थान्यां प्लुत इव मत्स्या धरण्यास्तले परिवर्तमाना महिषीव नष्टवत्सा कलभीव नष्टशावका करुणकरुणं रोदिति ॥

हा कान्त प्रियसुत केन व्रजसे भग्नोऽयं पद्मो धरणीतले हि विकीर्णः ।
शत्रुणा मम भुवि केन नाशं गतोऽद्य पुत्रो मे नयनमनोहरचन्द्रः
हा किं शरीरमिह अद्य न याति भग्नं पश्यामि हं सुतवरं निहतं पृथिव्याम् ॥ सुव्_१९.२० ॥
संव्यक्तं हृदयमयो ममैतं धिग्व्यसनमवेक्ष्य नो चेद्भेदयते ।
हा चैतत्पापकं स्वप्नफलं यच्छिन्नाविमावद्य केनचिदसिना ।
स्वप्नान्तरे द्वौ स्तनौ दंष्ट्रोत्पाट्य मे प्रियसुतो नाशं गतः शीघ्रमतः ॥ सुव्_१९.२१ ॥
स श्येनेनापहृतो यथैव इह मे लब्धैः कपोतैस्त्रिभिः ।
सो मेऽद्य त्रिभिरात्मजैः परिवृत एको हतो मृत्युना ॥ सुव्_१९.२२ ॥

(बग्छि ११४)
अथ राजा देवी च बहुविधं करुणकरुणं परिदेवतस्तयोः सर्वभरणान्यवमुच्य महता जनकायेन सार्धं पुत्रस्य शरीरपूजां कृत्वा तस्मिन्पृथिवीप्रदेशे सुवर्णमयचैत्येषु न्यस्तानि तानि शरीराणि ॥

स्यात्ते खलु पुनरानन्दान्यः स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारोऽभूत् । नैवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारोऽभूत् । तदापि मयानन्द राजद्वेषमोहापरिमुक्तेन नरकादिभ्यश्च दुःखेभ्यः कृपया जगदनुगृहीतम् । किं खलु पुनरिदानीं सर्वदोषापगतेन सम्यक्संबुद्धेनेति । एवं ह्येकैकस्य सत्त्वस्यार्थे कल्पं समुदेयं
नरकेषु जातिं संसाराद्विमोचयेयम् । खलु सत्त्वसारैश्च जगत्परिगृहीतं दुष्करमनेकविधविचित्रमिति ॥

अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत ॥

बहूनि कल्पानि मयात्मा त्यक्तः पर्येषयेता इममग्रबोधिम् ।
यथासि राजा यथ राजपुत्रं तथैव त्यक्ता मय आत्मभावाः ॥ सुव्_१९.२३ ॥
अनुस्मरमि पुरिमासु जातिषु महारथो नाम बभूव राजा ।
तस्यापि पुत्रौ महात्यागवन्तो नाम्ना महासत्त्व वरो बभूव ॥ सुव्_१९.२४ ॥
द्वौ तस्य आसीदथ भ्रातरौ च नाम्ना महादेव महाप्रणादः ।
वनखण्ड गत्वा व समानगोत्रैस्तैर्दृष्ट व्याघ्री क्षुधयाभिभूता ॥ सुव्_१९.२५ ॥
तस्याग्रसत्त्वस्य कृपाभिजाता यन्नून हमात्म त्यजेय मांसम् ।
(बग्छि ११५)
एषा हि व्याघ्री क्षुधतर्षपीडिता खादीय एतानि स्वकात्मजानि ॥ सुव्_१९.२६ ॥
पतितश्चासीत्तदा स महारथसुतो महासत्त्वः ।
दृष्ट्वा च व्याघ्रीं क्षुधार्तां व्याघ्रसुतमोक्षार्थम् ॥ सुव्_१९.२७ ॥
करुणामये पतितेऽत्र कम्पित सशैल धरणी विद्रुत पक्षिसंघ विविधानि ।
संत्रस्तो मृगसंघस्तदाकुलसंस्थितोऽभूल्लोकोऽयम् ॥ सुव्_१९.२८ ॥
द्वौ तस्य भ्रातरौ च महाप्रणादस्तथा महादेवः ।
न लभेते महासत्त्वं दृष्ट्वा तत्र महावनखण्डेऽस्मिन् ॥ सुव्_१९.२९ ॥
अतिशोकशल्यहृदया विचरन्ति वनान्तरे विसंज्ञाश्च ।
पर्येषन्ति भ्रातरमश्चुमुखानि विचरन्ति वनमध्ये ॥ सुव्_१९.३० ॥
उभौ तौ राजकुमारौ महाप्रणादस्तथा महादेवः ।
तत्रोपसंक्रमित्व यत्र व्याघ्री सुदुर्बला शयिता व्याघ्रीसुता ॥ सुव्_१९.३१ ॥
दृष्ट्वा रुधिरलिप्ताङ्गानि केशास्थिचर्ममात्रं धरण्याम् ।
अवकीर्ण पतितानि यत्किञ्चिन्मात्रं तस्य पतितं धरणीयं पश्यन्ति ॥ सुव्_१९.३२ ॥
(बग्छि ११६)
उभौ तौ नृपसुतौ संमूर्च्छितौ हि तत्र पतन्ति धरणीयम् ।
नष्टमनाः सर्वपाण्डु रजोलिप्तगात्राः स्मृतीन्द्रियविहीनमूढचित्ताश्च ॥ सुव्_१९.३३ ॥
तेषां चो पार्षद्याः करुणस्वररोदमानशोकार्त्ताः ।
सिञ्चन्ति ते जलेनोत्थितोर्ध्वबहवश्च क्रदन्तः ॥ सुव्_१९.३४ ॥
तस्मिन्पतितमात्रेण सान्तर्जने विप्रियाग्रमहिषी च ।
पश्यति पञ्चस्त्रीशतेभी राजकुलान्तर्गता सुखप्रविष्टकाया ॥ सुव्_१९.३५ ॥
ताभ्यां स्तनाभ्यां क्षीरप्रमुक्तं प्रस्त्रवन्त्य वेगैः ।
सर्वाङ्गमस्या हि सूचीभिरिव भिद्यमानापि ॥ सुव्_१९.३६ ॥
अतिशोकघूर्णहृदया पुत्रवियोगार्त्तशोकशरविद्धा ।
उपसंक्रमित्व नृपतिं सुदीनमनसा अतिशोकसंतप्ता ।
करुणस्वरं रोदमान राज्ञोऽथ महारथस्यैवावोचत् ॥ सुव्_१९.३७ ॥
शृणु मम नृपते नरेन्द्र शोकाग्निना मम दह्यते शरीरम् ।
उभाभ्यां स्तनमुखाभ्यां क्षीरप्रमुक्तमचिरेण ॥ सुव्_१९.३८ ॥
सूचीभिरिवाङ्गमङ्गं पीड्यन्ति स्म तानि मम हृदयं च ।
(बग्छि ११७)
यथा निमित्तं यादृश न भूय पश्यामि दर्शनं प्रियसुतान ॥ सुव्_१९.३९ ॥
पुत्राणां मे विजान ददाहि मम जीवितं क्षेमं कुरुष्व ।
स्वप्नो मया दृष्टस्त्रयो मम कपोतसुतानि योऽस्य तृतीयमहं कपोतसुतं प्रियमना ॥ सुव्_१९.४० ॥
श्येनस्तत्र प्रविष्टः श्येनेनापहृतं कपोतकं च स्वप्नान्तरे च ।
मम ईदृश शोकं प्रविष्टिं हृदयेऽस्मिन् ॥ सुव्_१९.४१ ॥
अतिदाहशोकचिन्ता मरणं मम भविष्यति न चिरेण ।
पुत्राण मे विजान ददस्व मम जीवितं भवान्स्वकारुण्यम् ॥ सुव्_१९.४२ ॥
एवमुक्त्वाग्रमहिषी संमूर्च्छति पतति तत्र धरणीये
स्मृतीय परिहीना विनष्टचित्ता विसंज्ञमना ।
सर्वान्तःपुरणाश्च करुणस्वरं रोदमानाः क्रन्दन्तः ॥ सुव्_१९.४३ ॥
दृष्ट्वा तामग्रमहिषीं संमूर्च्छितपतितां च तत्र धरणीये ।
समनन्तरशोकार्त्तः पुत्रवियोगः सामात्यो राजेन्द्रः ।
अमात्याश्च प्रयुक्ता जिज्ञासार्थं गताः कुमाराणाम् ॥ सुव्_१९.४४ ॥
(बग्छि ११८)
सर्वनगरान्तर्जना नानाशस्त्रगृहीतोत्थिताः ।
तथा आगताश्चाश्रुमुखा रोदमानाः पृच्छिन्ति पथेषु तं महासत्त्वम् ॥ सुव्_१९.४५ ॥
किं जीवितो वां क्व गतः सांप्रतं महासत्त्वः किं द्रक्ष्याम्यहमद्य ।
मनापं सत्त्वदर्शन प्रियमनापं न चिरेण विनष्टश्रमम् ॥ सुव्_१९.४६ ॥
सशोकवदनः प्रयाति विषयेऽस्मिन्दारुणनिर्दनाकरः ।
अनन्तायाससंकटानि घोषः राजा महारथोत्थाय रोदमानः ॥ सुव्_१९.४७ ॥
शोकार्त्तः सिञ्चति सलिलधारैः अग्रमहिषीं च धरणीये पतन्तीम् ।
सिञ्चति उदकेन यावत्स्मृतिं लभ्यते उत्थाय पृच्छिरं दीनमानसा ॥ सुव्_१९.४८ ॥
किं मम पुत्रा हि मृता जीवन्ति राजा महारथश्चाग्रमहिषीं च ।
एवमेवावोच दिशि विदिशासु अमात्या पार्षद्या जिज्ञासार्थं गताः ॥ सुव्_१९.४९ ॥
कुमाराणां मा त्वमतिदीनमानसा भवा हीनायास शोकहृदया ।Œएवं महारथश्च क्षमापयित्वा तदाग्रमहिषीं च कम्पो निष्क्रमे ॥ सुव्_१९.५० ॥
राजकुलतोऽथाश्रुमुखो रोदमानः शोकार्त्तः अमात्यगणपरिवृत्तः ।
सुदीनमनसाथ दीनचक्षुश्च निष्क्रम्य नगरपुरतो जिज्ञासार्थाय ॥ सुव्_१९.५१ ॥
(बग्छि ११९)
राजा पुत्राणां बहुप्राणिनः अश्रुमुखो रोदमानो धावति ।
निर्गतं दृष्ट्वा राजानं पृष्ठतः समनुबुद्धोऽथ समनन्तरनिष्क्रान्तः ॥ सुव्_१९.५२ ॥
राजा स महारथः समनन्तरात्प्रियपुत्रदर्शनार्थं प्रेक्षति ।
दिशतां सुगौलनयनो दृष्ट्वान्यतरं पुरुषं मुण्डितशीर्षं च ॥ सुव्_१९.५३ ॥
रुधिरालिप्ताङ्ग पांशुलशरीरमश्रुमुखं रोदमानं गच्छन्तम् ।
दारुणशोकार्त्तः महारथस्य हृदयस्थोऽश्रुमुखो रोदमानः ॥ सुव्_१९.५४ ॥
स्थित ऊर्ध्वबाहुश्च क्रन्दन्तः अथान्यतमोऽमात्यस्त्वरागत्य ।
शीघ्रभारादुपसंक्रम्य नृपते राज्ञो महारथस्य आवचिंसु ॥ सुव्_१९.५५ ॥
मा शोकचित्तस्त्वं भव नृपते तिष्ठन्ति ते पुत्राः प्रियमनापाः ।
न चिरेणागम्य इह तवान्तिके द्रक्ष्यसि त्वं पुत्रवरं मनापम् ॥ सुव्_१९.५६ ॥
मुहूर्तमात्रमभिगम्य - - राज्ञो द्वितीयोऽमात्य आगतस्ततः ।
रजोऽवकीर्णो मलवस्त्रप्रावृतः साश्रुमुखो राजानमिदमब्रवीद् ॥ सुव्_१९.५७ ॥
द्वै च ते पुत्रै महानृपेन्द्र तिष्ठतः शोकानलसंप्रदीप्तौ ।
एकस्तवो पुत्रवरो न दृश्येत नृप ग्रस्तो महासत्त्व अनित्यतया ॥ सुव्_१९.५८ ॥
(बग्छि १२०)
दृष्ट्वा च व्याघ्रीमचिरप्रसुतां स्वीयाञ्च पुत्रानुपभोक्तुकामाम् ।
तेषां महासत्त्व वरकुमारो महान्त कारुण्य बलं जनेत्वा ॥ सुव्_१९.५९ ॥
बोधौ च कृत्वा प्रणिधिमुदारां सर्वांश्च सत्त्वानिह बोधयिष्ये ।
तं बोधिं गम्भीरमुदारमिष्ट्वा अनागतेऽध्वनि अहं स्पृशेयम् ॥ सुव्_१९.६० ॥
पतितो महासत्त्वो गिरि तटतु सोऽग्रे स्थितो व्याघ्र्यः क्षुधाभिभूतायाः ।
मुहूर्त निर्मासकृतः स अङ्गं च अस्थावशेषं कृतः राजपुत्रः ॥ सुव्_१९.६१ ॥
एवं च श्रुत्वा स वचः सुधारें संमूर्च्छितो राज महारथश्च ।
पतितश्च धरणीय विनष्टचित्तः शोकाग्निना प्रज्वलितः सुदारुणा ॥ सुव्_१९.६२ ॥
आमात्यपार्षद्य करुणास्वररोदमाना शोकार्त सिञ्चन्तिते जलेन ।
सर्वे स्थिता ऊर्ध्वबाहुश्च स कन्दमानाः तृतीयोऽमात्यो नृपमब्रवीत् ॥ सुव्_१९.६३ ॥
दृष्टौ मयाद्य उभौ कुमारौ समुच्छतौ तत्र महावनेऽस्मिन् ।
पतितौ धरण्यां च विनष्टचित्तौ अस्माभिरुदकेन च सिञ्चितानि ॥ सुव्_१९.६४ ॥
यावत्स्मृतिं लभ्यते पुनः स्थितौ हि आदीप्त पश्यन्ति दिशश्चतस्त्रः ।
मुहूर्त तिष्ठन्ति पतन्ति भूमौ कारुणस्वरेण परिदेवयन्ति ॥ सुव्_१९.६५ ॥
(बग्छि १२१)
ता ऊर्ध्वबाहु सततं स्थिहन्ति वर्णमुदीरन्तयोर्भ्रातरस्य
स चैव राजा हृदि दीनचित्तः पुत्रवियोगात्सुविक्षिप्तचित्तः ॥ सुव्_१९.६६ ॥
शोकप्रविद्धः परिदेवयित्वा एवं हि राजा परिदेवयन्ति ।
एकश्च मे पुत्र प्रियमनापः ग्रस्त कनिष्ठो वनराक्षसेन ॥ सुव्_१९.६७ ॥
मा मे इमौ अन्य च द्वौ हि पुत्र शोकाग्निना जीवितसंक्षयं व्रजेत् ।
यन्नून हं शीघ्र व्रजेय तत्र पश्येय पुत्रौ प्रियदर्शनौ तौ ॥ सुव्_१९.६८ ॥
शीघ्रेण यानेन च राजधानीं प्रवेशयेद्राजकुलान्त शीघ्रम् ।
मा एषा मातुर्हि जनेतु कामं शोकाग्निना तद्धृदय स्फटे तत् ॥ सुव्_१९.६९ ॥
पुत्रौ च दृष्ट्वा लभते प्रशान्तिं न जीवितेनालभते वियोगम् ।
राजापि चामात्यगणेन सार्धं द्विपाभिरूढो गत तत्र दर्शितु ॥ सुव्_१९.७० ॥
दृष्ट्वा च पुत्रौ भ्रातृनामाह्वानौ करुणास्वरं क्रन्दतौ आत्तमाना ।
राजा हि तत्पुत्रद्वयं गृहीत्वा प्ररोदमानोपि पुरं व्रजित्वा ।
सा शीघ्रशीघ्रं त्वरमान स्वपुत्रां देवीमदर्शेत्सुतपुत्रकामाम् ॥ सुव्_१९.७१ ॥
(बग्छि १२२)
अहं च स शाक्यमुनिस्तथागतः पूर्वं महासत्त्ववरो बभूव ॥
पुत्रश्च राज्ञो हि महारथस्य येनैव व्याघ्री सुखिता कृतासीत् ॥ सुव्_१९.७२ ॥
शुद्धोदनो हि वरपार्थिवेन्द्रो महारथो नाम बभूव राजा ।
महिषी च आसीद्वरमायदेवी महाप्रणादस्तथ मैत्रियोऽभूत् ॥ सुव्_१९.७३ ॥
महादेवी आसीदथ राजपुत्रो मञ्जुश्रीरभूद्वीरकुमारभूतः ।
व्याघ्री अभूत्तत्र महाप्रजापती व्याघ्रीसुता पञ्चक अमी हि भिक्षवः ॥ सुव्_१९.७४ ॥

अथ महारा आ महादेवी व बहुविधकरुणापरिदेवनं कृत्वा भरणान्येवमुच्य महतो अनकायेन सार्धं पुत्रस्य शरीरपू आं कृत्वास्मिन्प्रदेशे तस्य महासत्त्वस्येमे शरीरा प्रतिष्ठापिता अयं सप्तरत्नयमस्तूपः । तत्र देवेन महासत्त्वेनास्यै व्याघ्र्या आत्मभावं परित्यक्तम् । एवं रूपं च प्रणिधानं करुणया कृतम् । इमं मया शरीरस्य परिदेशनाऽनागतेऽध्वनि गणनासमतिक्रान्तैः कल्पैः सर्वसत्त्वानां
बुद्धकायं च कारिता । अस्मिन्देशने निर्दिश्यमान अप्रमेयाणां सत्त्वानां सदेवमानुषिकायाः प्र आयाः अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । अयं च हेतुरयं च प्रत्ययः । अस्य स्तूपस्येह निदर्शनतायाः । स च स्तूपो बुद्धाधिष्ठानेन तत्रैवान्तर्धानमनुप्राप्त इति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याघ्रीपरिवर्तो नामोनविंशतितमः ॥


_____________________________________________________________



(बग्छि १२३)
॥ सर्वतथागतस्तवपरिवर्तः ॥

अथ खलु तान्यनेकानि बोधिसत्त्वशतसहस्राणि येन सुवर्णरत्नाकरच्छत्रकूटस्तथागतस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य सुवर्णरत्नाकरच्छत्रकूटस्य तथागरस्य पादौ शिरसा बन्दित्वैकान्ते स्थितानि कृताञलिभूतानि तं सुवर्णरत्नाकरच्छत्रकूटं तथागतमभिष्टवित्सुः ॥

सुवर्णवर्णो इनत्यक्तकाय सुवर्णवर्णो व्यवभासिताङ्ग ।
सुवर्णवर्णो गिरिवा मुनीन्द्र सुवर्णवर्णो मुनिपुण्डरीक ॥ सुव्_२०.१ ॥
सुलक्षणैर्लक्षण भुषिताङ्गं सुविचित्रव्यञनविचित्रिताङ्ग ।
सुविरा इतं काञ्चनसुप्रभासं सुनिर्मलं सौम्यमिवाचलेन्द्रम ॥ सुव्_२०.२ ॥
ब्रह्मेश्वरं सुस्वरब्रह्मघोषं सिंहेश्वरं गरितमेघघोषम् ।
षष्टयङ्गवच्चातस्वरनिर्मलेश्वरं मयूरकलविङ्करुतस्वरा इतम् ॥ सुव्_२०.३ ॥
सुनिर्मलं सुविमलते असुप्रभं पुण्यं शतलक्षणसमलंकृतमिनम् ।
सुविमलसुनिर्मलसागरमिनं सुमेरुसर्वसुगणाचितमिनम् ॥ सुव्_२०.४ ॥
परमसत्त्वहितानुकम्पनं परमं लोकेषु सुखस्य दायकम् ।
परमार्थस्य सुदेशकमिनं परिनिर्वाणसुखप्रदेशकम् ॥ सुव्_२०.५ ॥
अमृतस्य सुखस्य दायकं मैत्रीबलवीर्य उपायवन्तम् ।
(बग्छि १२४)
न शक्यं सतगुरवसमुद्रसागरबहुकल्पसहस्रकोटिभिरेकैकं तव प्रकाशितुम् ॥ सुव्_२०.६ ॥
एतत्संक्षिप्तं मया प्रकाशितं किं चिद्गुणबिन्दुगुणार्णवोद्भवम् ।
यच्च समुपचितपुण्यसंचयं तेन सत्त्वः प्राप्न्यतु बोधिमुत्तमाम् ॥ सुव्_२०.७ ॥

अथ खलु रुचिरकेतुबोधिसत्त्व उत्थायासनादेकांसमुत्तरासङ्गं प्रावरित्वा दक्षिंण आनु मण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञलिं प्रणमयित्वा तस्यां वेलायामिमाभिर्गाथाभिरम्यस्तावीत् ।

स त्वं मुनीन्द्र शतपुण्यलक्षण सहस्रश्रीचारुगुणैरलंकृतम् ।
उदारवर्णवरसौम्यदर्शन सहस्ररश्मिरिव प्रसूयते ॥ सुव्_२०.८ ॥
अनेकरश्मि वलनाकुलप्रभं विचित्ररत्नाकुलरत्नसंनिभ ।
नीलावदाताप्यवकाञ्चनाभं वैडूर्यताम्रारणस्फटिकाभम् ॥ सुव्_२०.९ ॥
न भासते व रमिवेन्द्रपर्वतान् प्रभाविलासाभिरनन्तकोटिभिः ।
प्रसीद मे सेन्द्रप्रचण्डभानुना प्रतप्यसे सत्त्वसुखाचरैरिति ॥ सुव्_२०.१० ॥
प्रसन्नवर्णेन्द्रियचारुदर्शन आतप्तरूप अनकान्तरूप ।
अपूर्ववर्णो विर ओ विरा असे यथैव मुक्तं भ्रमराकुलप्रभम् ॥ सुव्_२०.११ ॥
विशुद्धकारुण्यगुणैरलंकृतं समानमैत्रीबलपुण्यसंचितम् ।
(बग्छि १२५)
विचित्रपूर्णैरनुव्यञनार्चितं समाधिबोध्यङ्गगुणैरलंकृतम् ॥ सुव्_२०.१२ ॥
त्वया हि प्रह्लादकरी सुखंकरी शुभाकरं सर्वसुखाकरागमम् ।
विचित्रगम्भीरगुणैरलंकृतं विरोचसे क्षेत्रसहस्रकोटिषु ॥ सुव्_२०.१३ ॥
विरा असे त्वं द्युमणीरिवांशुभिः यथो वलं त्वं गगणेऽर्कमण्डलम् ।
मेरुर्यथा सर्वगुणैरुपेतः संदृश्यसे सर्वत्रिलोकधातुषु ॥ सुव्_२०.१४ ॥
गोक्षीरशङ्खकुमुदेन्दुसंनिभः तुषारपद्माभसुपाण्डुर प्रभः
दन्तावलिस्ते मुखतो विरा अते सद्रा अहंसैरिव चान्तरीक्षम् ॥ सुव्_२०.१५ ॥
त्वत्सौम्यवक्रेन्दुमुखान्तरे स्थितं प्रदक्षिणावर्त सुकुण्डलीनम् ।
वैडूर्यवर्णैमणितोर्णरश्मिभिर्विरोचते सूर्य इवान्तरीक्षे ॥ सुव्_२०.१६ ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्ररा ए सर्वतथागतस्तवपरिवर्तो नाम विंशतितमः ॥


_____________________________________________________________



(बग्छि १२६)
॥ निगमनपरिवर्तः ॥

अथ खलु बोधिसत्त्वसंमुच्चया नाम कुलदेवता हृष्टतुष्टा तस्यं वेलायामिमाभिर्गाथाभिर्भगवन्तं तुष्टाव ॥

नमोऽस्तु बुद्धाय सुविशुद्धबोधये विशुद्धधर्मा प्रतिभामुबुद्धये ।
सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये ॥ सुव्_२१.१ ॥
अहो अहो बुद्धमनक्षते असमहो अहो सागरमेरुतुल्यम् ।
अहो अहो बुद्धमनन्तगोचरमौदुम्बरं पुष्पमिवातिदुर्लभम् ॥ सुव्_२१.२ ॥
अहो अहो कारुणिकस्तथागतः शाक्यकुलकेतुनरेन्द्रसूर्यः ।
येन दृशं भाषित सूत्रमुत्तमं सर्वेषु सत्त्वामनुग्रहार्थम् ॥ सुव्_२१.३ ॥
शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरे प्रविष्टः ।
गम्भीरशास्ता विर आ समाधिः यदनुप्रविष्टो इनबुद्धगोचरे ॥ सुव्_२१.४ ॥
शून्याश्च कायास्तथ श्रावकाणां विहारशून्या द्विपदोत्तमानाम् ।
ते सर्वधर्माः प्रकृत्या च शून्याः सत्त्वापि शून्यात्म न आतु विद्यते ॥ सुव्_२१.५ ॥
(बग्छि १२७)
नित्यं च नित्यं च इन स्मरामि नित्यं च शोचामि इनस्य दर्शनम् ।
सततं च नित्यं प्रणिधिं करोमि संबुद्ध सूर्यस्य च दर्शनार्थम् ॥ सुव्_२१.६ ॥
स्थाप्येह नित्यं धरणीषु आनु अतिशोकतप्तोऽस्मि इनस्य दर्शने ।
रोदिमि कारुण्यविनायकत्वमभिसंतृष्णास्मि सुगतस्य दर्शने ॥ सुव्_२१.७ ॥
शोकाग्निना प्र वलितोऽस्मि समन्त नित्यं ददाहि मे दर्शनतोय शीतलम् ।
सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयेन्मां करुणोदकेन ॥ सुव्_२१.८ ॥
कारुण्यभावं कुरु मह्य नायक ददाहि मे दर्शन सौम्यरूपम् ।
त्वया हि त्राता अगदेव देशितः शून्याश्च कायस्तथ श्रावकाणाम् ॥ सुव्_२१.९ ॥
आकाशतुल्या गगणस्वभावा मायामरीच्युदकचन्द्रकल्पा ।
सर्वे च सत्त्वाः सुपिन स्वभावा महान्तशून्याः स्वय नायकस्य ॥ सुव्_२१.१० ॥

अथ भगवानासनादुत्थाय ब्रह्मस्वरेणावोचत् । साधु साधु ते कुलदेवते शास्ता ददाति साधु ते कुलदेवते पुनश्च साध्विति ॥
(बग्छि १२८)

इदमवोचद्भगवानात्तमनास्ते बोधिसत्त्वा बोधिसत्त्वसमुच्चयाकुलदेवतासरस्वतीमहादेवीप्रमुखा सा च सर्वावती पर्षत्सदेवमानुषासुरगरुडकिंनरमहोरगादिप्रमुखा भगवतो भाषितमभ्यनन्दन्निति ॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्ररा ए निगमनपरिवर्तो नामैकविंशतितमः ॥

इत्यार्यश्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजः परिसमाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=सुवर्णप्रभाससूत्रम्&oldid=393811" इत्यस्माद् प्रतिप्राप्तम्