सारतमाख्यापञ्जिका

विकिस्रोतः तः
सारतमाख्यापञ्जिका
[[लेखकः :|]]


रत्नाकरशान्तिविरचिता
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमाख्या पञ्जिका

१. सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः ॥
नमः सर्वबुद्धबोधिसत्त्वेभ्यः ।

भवति बहुतरार्के केवलं यस्य लोके
दिनमुदयसमृद्ध्या रात्रिरस्तङ्गमेन ।
प्रतिविषयविसारी शुद्धिमानस्तु वंशः (?)
स गुरुगुणनिधेर्वो जायतां बुद्धबोधः ॥
.............नमः शरणं दशबलास्ते वा (?) ॥
यस्याः कतिपयवर्णा धृताः कर्णपुटैरपि ।
बोधेर्भवन्ति बीजानि जिनमाता प्यत्यसौ ।
मैत्रेयस्य विभोरलंकृतिमयः पोतो यदर्थार्णवे
निर्णीतं बहुविस्तराकृतिसमैर्यस्या निजांशेरपि ।
व्याचष्टे वचसा स्फुटेन लघुना मन्दोऽपि रत्नाकारः
प्रज्ञापारमितां.......न महतां (तीं) तामष्टसाहस्रिकाम् ॥
(र्स्त्_२) अथ कस्मादियं व्याख्यायते?

सूत्रं गेयं व्याकरणं गाथा उदानं निदानमवदानमितिवृत्तकं जातकं वैपुल्यमद्भुता धर्माः उपदेशाश्चेति ।

तत्र सूत्रं कतमत्? यत्र गम्भीरपदैरर्थसूचनम् । गेयं कतमत्? सूत्रमेव [यद्गीयते] । यच्च नेयार्थं सूत्रं तदपि गेयं गम्यत्वात् । व्याकरणं [कतमत्? यत्र] श्रावकोऽभ्यतीतः कालगत उपपत्तौ व्याक्रियते । यच्च नीतार्थं सूत्रं तेन हि [स्फुटाभिप्रायेण] व्याख्यानात् । गाथा कतमा? यत्र [द्विपदा त्रिपदा चतुष्पदा पञ्चपदा] षट्पदा च । उदानं कतमत्? यदुद्दिश्य भाषितम् । सोत्पत्तिशिक्षाप्रज्ञप्तिभाषितं वा । अवदानं कतमत्? सदृष्टान्तकभाषितम् । इतिवृत्तकं कतमत्? पूर्वयोगप्रतिसंयुक्तम् । [जातकं कतमत्? बोधिसत्त्वचर्याप्रतिसंयुक्तम् । वैपुल्यं कतमत्?] यद्बोधिसत्त्वपिटकप्रतिसंयुक्तम् । सर्वसत्त्वहितसुखाधिष्ठानत्वात् । अद्भूता धर्माः कतमे? यत्र श्रावकबोधिसत्त्वबुद्धानामाश्चर्याद्भुता धर्मा देश्यन्ते । उपदेशाः कतमे? यत्राविपरीतं धर्मलक्षणमुपदिश्यते [तत्रोपदेशेऽन्तर्गतेयं भगवती सूत्ररत्नम् ।]

परमपुरुषार्थसाधनस्य परमगम्भीरस्य धर्मस्य सर्वैराकारैः सूचनात् । अथैषा कतिभिः पदार्थैरभिधेयैर्दर्शिता? कतमे वत इति प्रश्ने शास्त्रम्-

[१] प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता ।
सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता [ततः] ॥ १-३ ॥

(र्स्त्_३)
[२] [सर्वा]काराभिसम्बोधो मूर्द्धप्राप्तोऽनुपूर्विकः ।
एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥ १-४ ॥

इति । स्वार्थेऽधाऽ प्रत्ययः । इमे तेऽष्टावित्यर्थः । बोध्यभिमुखः सम्यग्बोधिऽऽभिसम्बोधःऽ । अत एवा....... । अभिसमीयते सप्तभिः प्राप्यते यतः । मूर्धा प्रकर्षः । तं प्राप्तोऽमूर्धप्राप्तःऽ । अनुपूर्वमनुक्रमः । तद्योगात्ऽअनुपूर्विकःऽ । उभयत्रापिऽसम्बोधऽ इति वर्तते ।

पुनः शास्त्रम्-

[३] लक्षणं [तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः ।]
[तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थ] संग्रहः ॥ ९-१ ॥

अथवा........षडर्थाः । यत आदौ त्रिविधा सर्वज्ञता तत्ऽलक्षणंऽ प्रज्ञापारमितायाः । ततश्चत्वारोऽस्याः प्रयोगः प्रयोगप्रकर्षः प्रयोगानुक्रमः प्रयोगनिष्ठा चेति । ........ ।

पुनः शास्त्रम्-

[४] विषयास्त्रितयो हेतुः प्रयोगश्चतुरात्मकः ।
धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ ९-२ ॥

अथवातिसंक्षेपतोऽस्यां त्रयोऽर्थाः । तथा हि त्रिविधः प्रयोगविषयः सर्वज्ञतात्रयश्च[तद्धेतुः]ऽविषयःऽ ।ऽप्रयोगश्चतुरात्मकऽ । सर्वाकारा हि सम्बोधादिः । तस्य हेतोःऽफलं धर्मकायःऽ तत्ऽकर्मऽ च ।

तदेवमष्टौ षट्त्रयो वास्य सूत्रस्यार्थाः साकल्येन । प्राधान्येन पुनरेक एव वार्थः । अन्यथा एकवाक्यतापि न स्यात् । दशदाडिमादिपसमूहवत् । अवयवार्थैः परस्परो[पर]क्तस्य स्वार्थेन (?) एकत्वादुपसंहारात् । तस्मात्सम्बद्धान्(नु)गुणोपायात् । सम्यक्सम्बोधिरत्र (र्स्त्_४) प्राधान्येनोच्यत इत्येके । तदसत् । यतः सम्यक्सम्बोधिः श्रावकपिटकेऽप्यतिप्रतीतत्वादजिज्ञासिता । प्रज्ञापारमिता तु तत्राविदितत्वाज्जिज्ञासितेति । सैव [शास्त्रे प्राधान्येन]अभिधीयते । [दुरधिमोक्षा] गम्भीरत्वात् । भगवतस्तु वचनात्[प्रतिलब्धाद्] अधिमुच्यते.............. । ततोऽपीयं प्राधान्येन भगवता वक्तव्या । यथा यथा चेयमधिमच्यते तथा तथा बोधेरासन्नीभवति । ततोऽपीयं प्राधान्येन वचनीया । अष्टासु चाभिसमयेषु यथा [सारं तथेयं] विस्तरेणोच्यमाना कथं प्राधान्येन नोच्यते? प्रज्ञापारमितैव मार्गः सम्बोधेः । शेषाणामपि तथैव मार्गीकरणात् । इत्येवमियमुच्यमाना सुतरां प्राधान्येनोच्यत इत्यलमतिविस्तरेण । अत एव प्राधान्येन व्यपदेशादेतत्सूत्रं प्रज्ञापारमिता । [न सम्यक्सम्बोधि]रिति । तस्मात्प्रज्ञापारमितैवः....... ।

एवं मयेत्यादि । अथ कस्येदं वचनम्? संङ्गीतिकारस्य । सङ्गीतत्वेन लोके संप्रत्ययार्थम् । तत्किं ........प्रक्षेपः? नैवम् । भगवदाज्ञयैवं तेन पाठात् । उक्तं हि भगवता [श्रुतं मया] इति सङ्गीतिकारः अडकवतीनिवासी वज्रपाणिर्महाबोधिसत्त्वः । स हि भाद्रकल्पिकानां तथागतानां रूपकायस्य धर्मकायस्य च रक्षाधिकृतः पृष्ठतोऽवगतः । एवं ते (तैः?) प्रत्यर्पितशासनश्च....... । ............. .......... यतोऽस्यामच्यु (?)तसमाधिनिश्रितो महान् धर्मावभासस्तस्मात्प्रभाकरी । यतोऽस्यां बोधिपक्ष्यैः संक्लेशेन्धनदहनं तस्मादर्चिष्मती । यतोऽस्यां लौकिकलोकोत्तरयोर्विद्यासत्यज्ञानयोरन्योन्यविरोधाद्दुष्करः परिजयस्तस्मात्सुदुर्जया । यतोऽस्यां प्रतीत्यसमुत्पादप्रविचयादभिमुखो भवत्यसङ्गमुखाख्यः प्रज्ञापारमिताविहारस्तस्मादभिमुखी । यतोऽस्यां बोधिपक्ष्यसत्य[प्रतीत्य] समुत्पादालम्बनो निर्निमित्तविहार आभोगवाही तस्माद्दूरंगमा । यतोऽस्यां स एव स्वरसवाहित्वादचलः तस्मादचला । यतोऽस्यां प्रतिसंविभ्दिर्धार्मकथिकत्वाद्बोधिसत्त्वः साधुस्तस्मात्साधुमती । यतोऽस्यां बोधिसत्त्वोऽभिषिच्यते यौ[व]राज्याय तस्माद्धर्ममेघा । ..........एताः प्रत्येकं षड्भिः पारमिताभिः संगृहीताः यथाक्रमम् । एतासु दश पारमिता अतिरिच्यते ।

कतमा दश?

(र्स्त्_५)
"दानं शीलं क्षमा वीर्य ध्यानं प्रज्ञा उपायता ।
प्रणिधानं बलं ज्ञानमेताः पारमिता दश ॥"

तत्र यत्पारमितोपचितस्य कुशलमूलस्यानुत्तरायां सम्यक्सम्बोधौ सम्यक्परिणामनमुपादाय पारमिता तेनोपायेन तस्याक्षयीकरणात् । आह च । "आबोधे क्षयमिति स्वल्पमपि न बोधिपरिणतं कुशलम् । आसमन्तात्पतितः पयोनिधौ सलिलबिद्नुरिव" इति । भद्रचर्यादिकं प्रणिधानपारमिता यया प्रतिजन्म यत्पारमिताश्चरति । भावनाबलं प्रतिसंख्यानबलं च बलपारमिता । यया प्रत्यहं प्रतिक्षणं ताश्चरति । यथाभिप्रायमयथारुतं महायानस्य परिज्ञानं ज्ञानपारमिता ।

भूमीनां विस्तर आर्यदशभूमकादौ । परिकर्माणि पुनरासां महत्योर्भगवत्योरुद्दिष्टानि निर्दिष्टानि च भूमीनां परिकर्माण्यधिकृत्य शास्त्रे त्रयोविंशतिः श्लोकाः । तानि यथाभूमि पृथक्कृत्य वक्ष्यामः ।

[५] लभ्यते दशमा (प्रथमा) भूमिदर्शधा परिकर्मणा ।
आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ १-४८ ॥
[६] त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा ।
सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ १-४९ ॥
[७] धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते ।
ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः ॥ १-५० ॥

ऽदशधाऽ इति दशविधेन । तच्चाशयादि ॥ऽआशयःऽ श्रद्धाछन्दौ ।ऽहितवस्तुत्वंऽ सर्वसत्त्वहितैषिता । हेतुरस्याःऽसत्त्वेषु प्रशमचित्तताऽ ।ऽत्यागोऽ दानपारमिता ।ऽएषणाऽ पर्येषणा । सा चऽसद्धर्मालम्बनाऽ धर्मपर्येष्टिरित्यर्थः । गृहवासान्निष्क्रमणं निष्क्रमः । स्वार्थे ष्यञ्ऽनैष्क्रम्यंऽ तच्चित्तता ।ऽस्पृहाऽ इत्यत्र सदेति वर्तते ।ऽसत्यंऽ चोक्तमिति सत्यवचनं तद्दशमम् ।ऽएषांऽ इत्याशयादीनाम् ॥

[८] शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा ।
गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥ १-५१ ॥

(र्स्त्_६)ऽशीलंऽ शीलपरिशुद्धिः ।ऽक्षान्तिःऽ क्षान्तिबलम् । प्रमोद एवऽप्रामोद्यम्ऽऽमहतीऽ सर्वसत्त्वापरित्यागितया ।ऽगौरवंऽ गौरवार्हेषु ।ऽगुरूशुश्रूषाऽ कल्याणमित्रेष शास्तृसंज्ञा ।ऽदानादिकेऽ इति पारमितासु ।ऽअष्टमऽ ग्रहणादष्टावेव परिकर्माणि द्वितीयायाम् ।

[९] अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् ।
बुद्धक्षेत्रस्य संशुद्धिः संसारोपरिखेदिता ॥ १-५२ ॥
[१०] ह्रीरपत्राप्यमित्येतत्पञ्चधामननात्मकम् ।

ऽश्रुतंऽ बाहुश्रुत्यम् ।ऽसंशुद्धिःऽ परिशुद्धिः । सा तस्यामेव पुण्यपरिणामनात् ।ऽअमननात्मकंऽ तेनामननात् ।ऽपञ्चधाऽ इति वचनात्पञ्चैव परिकर्माणि तृतीयायाम् ।

वनाशाल्पेच्छता तुष्टिर्धुतसंलेखसेवनम् ॥ १-५३ ॥
[११] शिक्षाय अपरित्यागः कामानां विजुगुप्सनम् ।
निर्वित्सर्वास्तिसंत्यागा[वन]वलीन[त्वान्]पेक्षते ॥ १-५४ ॥

वनस्य (ऽवानाशा) अरण्यवासस्तत्कार्यत्वात् ।ऽतुष्टिःऽ सन्तुष्टिः ।ऽधुतऽ गुणऽसंलेखस्यऽऽसेवनंऽ अनुत्सर्गः ।ऽनिर्वित्सर्वास्तिसंत्यागौऽ इति निर्वेदः सर्वसतां त्यागश्च ।ऽअनवलीनत्वानपेक्षतेऽ इति । अनवलीनचित्तता सर्ववस्तुनिरपेक्षता च । अनवलीनत्वमसंकुचुतत्वम् । दशेति वक्ष्यमान(ण)मनुवर्तते । ततो दशैव परिकर्माणि चतुर्थ्याम् ।

[१२] संस्तवं कुलमात्सर्य स्थानं सङ्गणिकावहम् ।
आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ १-५५ ॥
[१३] मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् ।
विवर्ज[य]न् समाप्नोति दशैतान् पञ्चमीं भुवम् ॥ १-५६ ॥

ऽसंस्तवोऽ गृहिप्रव्रजितैः ।ऽकुलेषुऽ उपसं[क्र]मणीयागृहेषुऽमात्सर्यम्ऽ ।ऽसङ्गणिकाऽ अप्रतिरूपकथा ।ऽउत्कर्षणम्ऽ ।ऽअवज्ञाऽ (र्स्त्_७) पंसनम् ।ऽकर्ममार्गाःऽऽकर्मपथाःऽ ।ऽमानःऽ चित्तोन्नतिः ।ऽस्तम्भोऽ गुरूष्वप्रणतकायता ।ऽविपर्यासोऽ विपरातार्थग्राहः ।ऽविमतिःऽ विचिकित्सा ।ऽक्लेशमर्षणंऽ रागद्वेषमोहाधिवासनम् ।ऽएतान्ऽ इति संस्तवादीन् ।

[१४] दानशीलक्षमावीर्यध्यानप्रज्ञा प्रपूरकः ।
शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ १-५७ ॥
[१५] याचितोऽनवलीनश्च सर्वत्यागेप्यदुर्मनाः ।
कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥ १-५८ ॥

षण्णां पारमितानां प्रत्येकं पूरक इति षड्धर्माः । श्रावकस्पृहायाः प्रत्येकबुद्धस्पृहायाः परित(त्र)सनचित्तस्य च परिवर्जक इति त्रयः । याचितस्यानबलीनचित्तता, सर्वस्वत्यागेऽप्यदौर्मनस्य, दौर्बल्येपि न याचकानां क्षेप इति त्रयः । एभिर्द्वादशभिर्धर्मैः षष्ठिं भूमिं प्राप्नोति ।

[१६] आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वते ।
निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ १-५९ ॥
[१७] त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता ।
रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥ १-६० ॥
[१८] शून्यतयां विशा(षा)दश्च तद्विरोधश्च विंशतिः ।
कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ १-६१ ॥
[१९] त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धिता ।
करुणा मनना धर्मसमतैकनयज्ञता ॥ १-६२ ॥
[२०] अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा ।
कल्पनायाः समुद्घातः संज्ञादृक्लेशवर्जनम् ॥ १-६३ ॥
[२१] शमथस्य च निध्यप्तिः कौशलं च विदर्शने ।
चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥ १-६४ ॥
(र्स्त्_८)
[२२] श(स)क्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् ।
सर्वत्र स्वात्मभावस्य दर्शनं चेति [विंशतिः] ॥ १-६५ ॥

द्वितीयात्ऽविंशतिऽ शब्दादूर्ध्वं गुणाः......आत्मग्रहादयोऽविंशतिःऽ ।ऽकलङ्काःऽ दोषाः । यस्यऽविच्छिन्नाःऽ प्रहीणाः । त्रिविमोक्षमुखज्ञानादयश्च विंशतिः गुनाः (णाः) परिपूर्णाः स सप्तमीं भूमिं प्राप्नोतीति समासतोऽर्थः ।

ऽ ग्रहोऽऽभिनिवेषः(शः) । तस्य विशेषणमात्मादिरायतनपर्यन्तः । शाश्वतोच्छेद..........................रत्नादि (?) दृष्टिः । तस्यांऽअभिनिवेषि (शि)ताऽ निश्रयः ।ऽविषादःऽ खेदः ।ऽतद्विरोधःऽ शून्यताया बाधनम् ।ऽसमंऽ इति सहेत्यर्थः ।

तत्र कलङ्कनिर्देशानामा(म)र्थः । आत्मग्राहः । सत्त्वग्राहः । जीवग्राहः । पुद्गलग्राहः । उच्छेदग्राहः । शाश्वतग्राहः । निमित्तग्राहः । हेतुग्राहः । स्कन्धग्राहः । [धातुग्राहः । आयतनग्राहः ।] त्रैधातुके अध्यवसानम् । त्रैधातुके आलयः । बुद्धिदृष्टिनिश्रयः । धर्मदृष्टिनिश्रयः । सङ्घदृष्टिनिश्रयः । शीलदृष्टिनिश्रयः । शून्या धर्मा इति विषाढः । शन्यताविरोधश्चेति ।

गुणानिर्देशानामर्थः । शून्यतापरिपूर्तिः । आनिमित्तसाक्षात्क्रिया । अप्रणिहितज्ञानम् । [त्रिमण्डलविशुद्धिता । करुणा । मनना] । सर्वधर्मसमतादर्शनम् । भूतनयप्रतिवेधः । अनुत्पादक्षान्तिज्ञानम् । एकनयनिर्देशः । सर्वधर्माणां कल्पनासमुद्धातः । संज्ञादृष्टिविवर्तः । क्लेशविवर्तः । शमथनिध्यप्तिः । विपश्यनाकौशल्यम् । दातुचित्तता । अनुनयस्याभूमिः । यथेच्छक्षेत्रगमनम् । तत्र चबुद्धपर्षन्मण्डे[स्वात्मभाव]दर्शनमिति ॥

[२३] [सर्वसत्त्वमनोज्ञान] मभिज्ञाक्रीडनं शुभा ।
बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ १-६६ ॥
[२४] अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः ।
सञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम् ॥ १-६७ ॥

इति ।ऽशुभा निष्पत्तिःऽ इति सम्बन्धः । परिशुद्धेत्यर्थः ।ऽअष्टाधाऽ इति वचनाताष्टवेव परिकर्माण्यष्टम्याम् । तद्यथा । सर्वसत्त्वचित्तानुप्रवेशः । अभिज्ञाचित्ता [नुक्रिडनम् ।] । बुद्धक्षेत्रनिष्पादनम् । बुद्धानां सेवा च परीक्षणं चेत्येकीक्रियते । इन्द्रियपरापरज्ञानम् । बुद्धक्षेत्रपरिशोधनम् । (र्स्त्_९) मायोपमस्य समाधेरभीक्ष्णं समापत्तिः सञ्चित्य भवो[प]पत्तिश्च । द्विविधं बुद्धक्षेत्रम् । आदौ भाजनलोकः पश्चात्सत्त्वलोक इति ।

[२५] प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता ।
नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ १-६८ ॥
[२६] कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः ।
नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः ॥ १-६९ ॥

अष्टमानन्तरं नवमी । तस्याः परिकर्माणि द्वादश । अनन्तं प्रणिधानम् । देवादिरुतज्ञानम् । परिपूर्णं प्रतिभानम् । गर्भावक्रान्तिसम्पत् । कुलसंपत् । जातिसंपत् । गोत्रसंपत् । परिवारसंपत् । जन्मसंपत् । नैष्क्रम्यसंपत् । बोधिवृक्षसंपत् । गुणपूरिसम्पच्च ।

[२७] नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते ।
येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ १-७० ॥

ऽनवभूमीःऽ इति गोत्रादिभूमिः । तत्र गोत्रभूमिः निर्वाणगोत्रकाणम् । अष्टमकभूमिः श्रोतआपत्तिफलप्रतिपन्नकस्य । दर्शनभूमिः श्रोतआपन्नस्य । तनुभूमिः सकृदागमिनः । वीतरागभूमिरनागामिनः । "कृतं करणीयं" इति ज्ञानात्कृतावी अर्हन् । तस्य भूमिः कृताविभूमिः । श्रावकभूमिः श्रावकस्य । सैव षड्विधा प्रत्येकबुद्धस्य । बोधिसत्त्वभूमिः बोधिसत्त्वस्य । पूर्वोक्ता नवभूमयः । एता नवभूमीरतिक्रम्य येन ज्ञानेन बोधिसत्त्वो बुद्धभूमौ प्रतिष्ठितो भवति सा दशमि बोधिसत्त्वभूमिः । इति भूमिसम्भरः ।

प्रति[पक्ष]मधिकृत्य शास्त्रम्-

[२८] प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः ।
ग्राह्यग्राहविकल्पानामष्टानामुपशान्तये ॥ १-७१ ॥

ऽअभ्यासोऽ भावना । ग्राह्यो, ग्राहकः । दर्शनमार्गे द्वौ ग्राह्यविकल्पौ । वस्तुमात्राधिष्ठानः प्रतिपक्षधिष्ठानश्च । द्वौ ग्राहकविकल्पौ । पुद्गलद्रव्याधिष्ठानः पुद्गलप्रज्ञप्त्यधिष्ठानश्च । [एवं भावनामार्गे विकल्प]प्रहाणाय अष्टौ प्रतिपक्षाः । प्रतिपक्षसम्भारः ॥

(र्स्त्_१०)
तत्र दर्शनमार्गे तथतादीनां रूपादीनां स्वप्नादीनां च ग्राह्यवस्तूनामुपलम्भो विकल्पः । तद्धर्मतोपलम्भलक्षणोऽनुपलम्भः प्रतिपक्षः । दानादीनां बुद्धधर्मपर्यन्तानां प्रतिपक्षवस्तूनामुपलम्भो विकल्पः । अनुपलम्भः प्रतिपक्षः । अ................अनुपलम्भप्रतिपक्षः । नामसंकेतव्यवहारादेरुपलम्भो विकल्पः । अनुपलम्भः प्रतिपक्षः । भावनामार्गे तु न स्थिता नास्थिताः सर्वधर्मा अस्थानयोगेन । धर्मधातुयोगेनेत्यर्थः । इति ग्राह्यवस्तूनामनुपलम्भः । दानादीनां प्रतिपक्षवस्तूनामनुपलम्भः । श्रोत आपन्न.......पुद्गलप्रज्ञप्त्याश्रयाणां श्रोतआपत्तिफलादीनामनुपलम्भः । इति प्रतिपक्षसंभारः । समाप्ता च संभारप्रतिपत्तिः ॥

निर्यास्यतीत्येतेन निर्याणप्रतिपत्तिः प्रस्ताविता । तामधिकृत्य शास्त्रम्-

[२९] उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने ।
अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ १-७२ ॥
[३०] सर्वाकारज्ञातायां च निर्याणं मार्गगोचरम् ।
निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ १-७३ ॥

एतदाह । एवमुक्ते इत्यादिना सुभूतिरवोचदिति । किमवोचत? महायानमित्यादि । यस्मादनेन सदेवमानुषासुरं लोकमभिभूय बोधिसत्त्वो निर्यास्यति । तस्मादिदं यानं महायानमित्युच्यते । अभिभूय निर्यास्यतीति समानकाले क्त्वाप्रत्ययः । संमील्य हसतीत्यादिवत् । कस्मादसौ सर्वलोकमभिभवति? तदलभ्यस्य माहात्म्यस्य लाभात् । किं पुनस्तत्? सत्त्वराशेरग्रतासंपादनम् । सत्त्वराशिमहत्तया प्रहाणमहत्तया अधिगममहत्तया च महत् । इतीदमुद्देशनिर्याणम् ॥

आकाशमहत्तया तन्महायानमिति । तद्यानं महदुच्यत इति सम्बन्धः । आकाशसमतयेति । कथं समता? यथाकाशं न दिग्भिर्भिद्यते । अवर्णसंस्थानमप्रतिघमनिर्दर्शनमनन्तममध्यन्न हीयते न वर्धते नोत्पद्यते न निरुध्यते न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधतुपर्यापन्नम् । तथैव महायानम् । तस्माद्यथाकाशसमतया महत्तद्यानम् । इति समतानिर्याणम् ।

(र्स्त्_११)
यथा आकाशे इत्यादि । आकाश अवकाशोऽन्तर्भावात् । महायाने अवकाशः । तेन तेषामर्थकरणात् । लोकधातुभिः संख्याभिर्दिग्भिश्चापरिच्छिन्नत्वात् । अप्रमेया असंख्येया अपरिमाणाः । पर्यायेणेति प्रकारेण । कथं च तावतामवकाशः यतः सत्त्वासत्तया आकाशासत्ता । आकाशासत्तया महायानासत्ता । महायानासत्तया सर्वधर्मासत्ता । इति हि सत्त्वाश्चाकाशं च महायानं च सर्वधर्माश्चारूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । एवमियता सत्त्वानां महायाने अवकाशः । इति सत्त्वार्थनिर्याणम् ॥

नैवास्येत्यादि । आगमः आगमनम् । निर्गमः निर्गमनम् । स्थानं गतिनिवृत्तिः । त्रयं महायानस्य नास्ति । अचला हि सर्वधर्माः । यतस्तेषां प्रकृतिर्न क्वचिद्गच्छति न कुतश्चिदागच्छति न क्वचित्तिष्ठति । परिष्यन्दश्चाभोगः । इति अनाभोगनिर्याणम् ।

एवमस्येत्यादि । एवमित्याकाशस्यैव । अस्येति महायानस्य । पूर्वान्त इत्यतीतोऽर्थः । अपरान्त इत्यनागतोऽर्थः । मध्यः प्रत्युत्पन्नः । त्रयमप्येतन्महायानस्य नोपलभ्यते । त्रयध्वसमं तद्यानं तस्मान्महायानम् । कथं त्र्यध्वसमम्? यतोऽतीतोऽर्थोतीतार्थेना (न) शून्यः । अनागतोऽर्थोऽनागतार्थेना(न) शून्यः । अनागतोऽर्थोऽनागतार्थेना(न) शून्यः । प्रत्युत्पन्नः प्रत्युत्पन्नेन । त्र्यध्वसमता त्र्यध्वसमतया । महायानं महायानेन । बोधिसत्त्वो बोधिसत्त्वेन शून्यः । न च शून्यता अतीता व अनागता वा प्रत्युत्पन्ना वा । न तस्यां संक्लेश उपलभ्यते न व्यवदानम् । न संसारो न निर्वाणम् । तस्मात्त्रयध्वसमं तद्यानम् । इत्यन्ताभावादत्यन्तनिर्याणम् ।

अथ खलु भगवानित्यादि । अत्र भगवानाह । यानशब्दार्थनिर्देशे सुभूतेः साधुकारं दत्वा अत्र शिक्षित्वेत्यादिना प्राप्तिनिर्याणं प्ररतौति । अत्र सर्वज्ञतेति सर्वाकारज्ञता । अथ खल्वित्यादिना पूर्णस्य प्रश्नः । प्रज्ञापारमिताधिकारे महायानस्य परेषामप्रस्तुतत्वाशङ्कानिवृत्त्यर्थः । बुद्धानुभावाद्भगवनित्येतत्पर्यन्तेन परिहारः । अनुलोमं निर्दिशसि इति त्वं हि अर्वधर्मान्महायाननिःस्वभावान्निर्दिशसि । निःस्वभावताज्ञानं च तेषां प्रज्ञापारमितैव । तस्मादनुलोमं निर्दिशसीति भावः । अपि तु खलु पुनरित्यादिना प्रकृतमेव प्राप्तिनिर्याणमधिकृत्य तस्यां पाप्तौ द्वादशविशेषान् द्वादशभिर्वाक्यैराह । अत एव विशेषद्योतनार्थोऽपितुशब्दः । तत्र अपि तु खल्वित्यादि प्रथमम् । तत्कस्येत्यादि द्वितीयम् । रूपं बोधिसत्त्व इत्यादि तृतीयम् । एवं भगवन्नित्यादि चतुर्थम् । बुद्ध (र्स्त्_१२) इत्यादि पञ्चमम् । यथा आत्मेत्यादि षष्ठम् । एवमभावस्वभावाः सर्वधर्मा इति सप्तमम् । कतमत्तदित्याद्यष्टमम् । एवमेतेषामित्यादि नवमम् । तत्किमित्यादि दशमम् । न चेत्याद्येकादशम् । स चेत्यादि द्वादशम् । कल्पितेषु अनभिनिवेशाभ्यासनिष्ठायां तदभिनिवेशजन्मनः परन्तत्रस्य सर्वथा निवृत्तौ सर्वाकरज्ञता बोधिसत्त्वेन प्राप्यत इति समुदायार्थः ।

अवयवार्थस्तूच्यते । उक्तं भगवता "अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्व महासत्त्वाः सर्वाकारज्ञतामनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति चेति । तत्र न पूर्वान्त उपलभ्यते नापरान्तो न मध्यः । ततो न सत्त्वा न सर्वधर्मा न बोधिसत्त्वः" इति । सत्त्वाश्च सर्वधर्माश्च बोधिसत्त्वश्च पूर्वान्तापरान्तमध्यानि च सर्वमेतदद्वैधीकारम् । तस्मात्पूर्वान्तादिषु बोधिसत्त्वो नोपैतीति प्रथमस्यार्थः । तत्कस्य हेतोरिति । तत्पूर्वान्तादीनामसत्त्वं कुतः? हेतुमाह । रूपापर्यन्ततयेत्यादि । रूपादय आकाश(श)समाः । रूपादिशून्यतामुपादाय । अत एतेऽपर्यन्ताः । पूर्वान्तापरान्तमध्यरहिताः । एवं बोधिसत्त्व इति द्वितीयस्यर्थः ॥

रूपादिकं बोधिसत्त्व इति नोपैति नावगच्छति । यस्मातिदमपि न विद्यते नोपलभ्यते रूपादि शून्यतामुपादाय । न हि शून्यताया रूपादिकमस्ति नापि बोधिसत्त्व इति तृतीयस्यार्थः ॥

एवमिति प्रतिभासमानेन रूपेण । बोधिसत्त्वधर्ममिति । बोधिसत्त्वाख्यरूपादि । सर्वेणेति स्कन्धधात्वादिवर्गभेदेन । सर्वेण सर्वमिति सर्वयथा भवति पूर्णावयवत्वाद्वर्गाणाम् । पुनः सर्वमिति तेषु वर्गेष्वेकैकम् । सर्वं सर्वथेति स्वेन स्वेन इतरेतरैश्च सर्वैरनुपलभमानः । तैः शून्यत्वात् । सर्वज्ञतामपीति सर्वाकारभूतामपि । सोऽहमित्यादि । तं धर्ममिति बोधिसत्त्वाख्यम् । प्रकरणाद्गम्यते प्रज्ञापारमितामपि सर्वाकारज्ञतामपीति । धर्ममिति बोधिसत्त्वाख्यम् । धर्मेणेति प्रज्ञापारमिताख्येन । धर्मे इति सर्वाकारज्ञताख्ये प्राप्तस्य । अववदिष्यामि प्राप्तये । नैव कश्चित्केनचित्क्वचिदित्यर्थः । एवमेव वादाभाव अनुष्ठानाभावान्न कस्चिन्न केनचिन्न क्वचित्प्राप्नोतीति चतुर्थस्यार्थः ॥

बुद्ध इति बुद्धत्वं सर्वाकारज्ञतेत्यर्थः । नामधेयमात्रमिति । अर्थशून्यं नाम । तथाहि नार्थस्य स्वभावो नाम प्राक्सङ्केतार्थमात्रदर्शनात् । (र्स्त्_१३) नापि नाम्नः स्वभावोआर्थः । अविदितार्थस्य नाम्नः केवलस्यैव प्रतीतेः । असत्येपि चार्थे शब्दप्रयोगात् । निरर्थकं नाम । अत एव तच्च नामधेयमनभिनिवृत्तं नामधेयत्वेनासिद्धम् । अतोऽनभिनिवृत्तेन बोधिसत्त्वनाम्ना अनभिनिर्वृत्तं सर्वाकारज्ञता नाम न प्राप्यत इति पञ्चमस्यार्थः ।

एवं तावत्पञ्चभिर्वाक्यैर्धर्मनैरात्म्यमुखेन नामधेयमुखेन च कल्पितस्य प्राप्तिः प्रतिषिद्धा । पुगलनैरात्म्यमुखेनापि तत्प्रतिषेधाय षष्ठं चोक्तम् । यथा आत्मा आत्मेति च भगवन्नुच्यते आत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मेति । अत्यन्ततयेत्येकान्तेन । अनभिनिर्वृत्त इत्यसद्भूतः । यथालक्षणमसत्त्वात् । यथाशब्दात्प्रकरणाच्च गम्यते तथ सर्वधर्मा बोधिसत्त्वश्चेति ॥

परतन्त्रस्वभावमधिकृत्य सप्तमं चोक्तम् । एवमभावस्वभावाः सर्वधर्मः इति । कुतः एतत्? यतो महत्योर्भगवत्योर्द्वादशभिरेभिर्वाक्यैरुद्देशः सुभूतिना कृते तत एषां द्वादशानामभिधानकारणप्रश्नेषु शरिपुत्रेण कृतेषु थविरसुभूतिः कारणानि क्रमेण ब्रुवाणः सप्तमस्थानकेन कारणेनऽअभावस्वभावाः सर्वधर्मा इतिऽ प्रश्नमनुद्याभावस्वभावतायां कारणमुक्त्वाऽअनेन पर्यायेण, शारिपुत्र, अभावस्वभावाः सर्वधर्माःऽ इत्युपसंहारं कृतवान् । तत एष पाठः प्रतीयते । सुभूतेः प्रश्नानुवादकारणाख्यानतदुपसंहारा इह ज्ञापका न तूद्देशः । उद्देशेऽपि सप्तमवाक्यस्य प्रायेण पाठभ्रंसा(शा)त् । यतः सप्तमवाक्ये त्रयो विप्लवाः कालेन जाताः । उत्तरेण ग्रन्थेन सहैकवाक्यता प्रथमो विप्लवः । एकवाक्यतार्थे प्रथमां विभक्तिमपनीय षष्ठिविभक्तिः कृतेति द्वितीयो विप्लवः । अभावस्वभावतां चापनीय अस्वभावत पठितेति तृतीयो विप्लवः । अर्थं ब्रूमः । एवमिति परतन्त्रेण स्वभावेन अभावस्वभाव एषामिति अभावस्वभावाः सर्वधर्माः । यदाह । नास्ति सम्योगिकः स्वभावः प्रतीत्यसमुत्पन्नत्वादिति । कारणसंनिधिः संयोगस्तस्मिन् सत्येव भवतीति संयोगिकः । संयोगिको यः स्वभावः सोऽभावः कारणवियोगे सत्यभावात् । अपि च । यः प्रतीत्यसमुत्पन्नः सोऽनित्यत्वात्पश्चादभावः । न च विद्यमानस्य पश्चादभावो घटते विरोधात् । तस्मादेकक्षण एव यो भावः स एकक्षणान्तरेष्वभावः । तस्मादभाव एषां स्वभावः । किं च, यदनित्यं तत्दुःखं दुःखं च प्रहातव्यम् । ततोऽप्यभावस्वभाव
एषाम् । तस्मात्परतन्त्रेणापि स्वभावेन बोधिसत्त्वो न प्राप्नोतीति सप्तमस्यार्थः ॥

(र्स्त्_१४)
नन्वियमभावस्वभावता कल्पितस्यापि रूपादेः प्राप्नोति । यतः कुलालाद घटः कुविन्दात्पट उत्पद्यमानो दृश्यते । अत आह । कतमत्तदित्यादि । कतमत्तत्कल्पितम् । रूपादि यत[न]भिनिर्धूत्तम् । नैव किञ्चित्सर्वं कल्पितमसंस्कृतमित्यर्थः । अत एव निर्देशवाक्ये सुभूतिना युक्तिरुक्ता- असंस्कृताः सर्वधर्माः संस्कर्तुरभावादिति । कुलालकुविन्दादेरपि कल्पितस्यासत्वादित्यर्थः । तस्मात्कल्पितस्योत्पादनिरोधादिप्रतिषेधोऽष्टमस्यार्थः ।

अस्यां तु भगवत्यां ग्राह्यतापि कल्पितस्य प्रतिषिद्धा । बालग्राह्यत्वात्तस्य । अष्टमादूर्ध्वं त्रीणी वाक्यानि परिनिष्पन्नं स्वभावमधिकृत्य एवमित्यादि । एवमिति कल्पितेन स्वभावेन एतेषामिति परत्नत्ररूपाणां या अस्वभावता शून्यता सानभिनिर्वृत्तिरिति । स परिनिष्पन्नस्वभाव इत्यर्थः । यद्येवं तदा धर्मताया धर्मादव्यतिरेकाद्भ्रान्तिक्षये शून्यतापि क्षीयेत । अथ शून्यता शाश्वती तदा तदव्यतिरेकाद्भ्रान्तिक्षये शून्यतापि क्षीयेत । अथ शून्यता शाश्वती तदा तदव्यतिरेकाद्भ्रान्तिरपि शास्व(श्व)ती भवेदित्यत आह । या चेत्यादि । यत्परिनिष्पन्नं रूपं न ते भ्रान्तिस्वभावाः परतन्त्रा धर्मा इत्यर्थः । तदेवं शून्यतायाः परतन्त्रादव्यतिरेकप्रतिषेधो नवमस्यार्थः ॥

तत्किमित्यादि । अव्यतिरेके निषिद्धे व्यतिरेकः स्यात् । तत्किमिति तदा कथम् । अनभिनिर्वृत्तिमिति शून्यतामात्रं बोधिसत्त्वम् । अनभिनिर्वृत्त्यामिति शून्यतामात्रं प्रज्ञापारमितायामववदिष्यामि । न कथंचित् । नहि जात शक्योऽववदितुम् । नापि जातोऽर्थः प्रज्ञापारमितेति व्यतिरेकप्रतिषेधो दशमस्यार्थः ।

ननु परतन्त्ररूपं भ्रान्तिरेव । निर्वृत्तायां च भ्रान्तौ प्राप्तिस्तदा क आश्रयः शून्यतायाः? अथ निराश्रया न तर्हि कस्यचित्धर्मता । को वा तस्याः शशविषाणाद्विशेष? शशविषाणकल्पस्य च बोधिसत्त्वस्य कुतः प्राप्तिरित्याह । न चेत्यादि । सर्वधर्मा इति ज्ञेयाः स्कन्धादयः । बुद्धधर्मा इति प्राप्तव्या दशबलवैशारद्यादयः । बोधिसत्त्वधर्मा इति पूर्वलब्धा गुणाः । यो वा बोधाय चरेदिति बोधिसत्त्वः । सर्व एते प्राप्तिकालेऽनभिन्रिवृतितोऽन्यत्रेति शून्यताव्यतिरेकेण नोपलभ्यन्ते । सुविशुद्धज्ञानाव्यतिरेकिणी सर्वशून्यतैव तदानीं ख्यातीत्यर्थः । इदमप्यनेन सूचितम् । य एष बुद्धबोधिसत्त्वपृथग्जनावस्थानगामित्वाद्धर्मधातुवदेव शास्व(श्व)तप्रकाशस्तस्यासौ धर्मता । यावत्परतन्त्रस्तावत्परतन्त्रधर्मता उच्यते । परतो बुद्धधर्मता । स्वाभाविकश्च कायो बुद्धानामुच्यत इत्यमेकदशस्यार्थः ।

(र्स्त्_१५)
द्वादशं व्यक्तम् । स चेदित्यत आरभ्य तत्कस्य हेतोरित्यतः प्राक् । अत्र चित्तं नावलीयत इत्यादिभिः पञ्चभिः पदैः शमथस्य पञ्चाकारा उच्यन्ते । न भग्नपृष्ठी भवतीति । एकपदेन चत्वार आकाराः । शमयति व्युपशमयति एकोतीकरोति चित्तं समादधातीति । एषामभावे समाधये चित्तस्य पश्चाभ्दङ्गप्रसङ्गात् । अतस्तैरेव चतुर्भिः पृष्ठभङ्गप्रतिषेधात्न भग्नपृष्ठीभवति मानसम् । एवं षड्भिः पदैर्नवाकारः शमथ उक्तः । भूतप्रत्यवेक्षणालोकः उद्योतः । उद्योतात्त्रासस्तदकरणम् । अकरणे[न] प्रतिषेधकरणात् । ततो नोत्तस्यतीत्येकेन पदेन विपश्यना । न सन्त्रस्यति न सन्त्रासमापद्यत इति पदद्वयेन युगनद्धो मार्गः । तथा हि न संत्रस्यतीति न समाधेस्त्रस्यति तदत्यागादिति शमथाङ्गः । संप्रज्ञानात्त्रासः संत्रासः । तन्नापद्यत इति विपश्यनाङ्गः । चरति प्रज्ञापारमितायामिति उद्देशः । शेषेण निर्देशः । भावयतीति शमथेन । उपपरीक्षत इति विपश्यनया । उपनिध्यायतीत्युपनिरीक्षमाणो निपुणं ध्यायति युगनद्धेन मार्गेणेति । द्वादशस्यार्थः ।

अस्योपपत्तये त्रयोदशं चोक्तम् । तत्कस्य हेतोरित्यत आरभ्य प्राक्सर्वाकारज्ञतानिर्याणा(णा)त् । तत्कस्य हेतोरिति प्रश्नः । उत्तरं यस्मिन्हीत्यादि । इमान् धर्मानिति सर्वधर्मान् प्रज्ञापारमितायां संमुखीभूतायाम् । रूपं कल्पितं यावद्विज्ञानं यावद्बुद्धधर्मान्नोपैतीति नोपलभते, तदप्रतिभासात् । नोपगच्छति न विकल्पयति निर्विकल्पत्वात्प्रज्ञापारमितायः । इति स्वभावविकल्पौ प्रतिषिद्धौ । विशेषविकल्पौ प्रतिषेद्धुमाहः । न रूपादेरुत्पादनिरोधौ । पूर्व्वमुत्पन्नो रूपादिरिदानीं निरुद्ध इति न पश्यति । कल्पितस्य हि यथालक्षणमसत्वादुत्पादनिरोधौ न स्तः । तस्मादुभौ न पश्यति । ननु परतन्त्रस्यानिवृत्तौ दुष्परिहरः कल्पितस्य प्रतिभासः । तत्कुतस्तन्नोपेति? अथ षड्भिर्वाक्यैः कल्पितेष्वनभिनिवेशाभ्यासात्तदभिनिवेशजन्मनः परतन्त्रस्य तदानीं निर्वृतिरिष्यते । अपूर्वस्यानुत्पदात्पूर्वस्य च स्वरसेन व्ययात् । तौ तर्ह्यनुत्पादव्ययौ तस्य स्वभावौ अभावस्वभावाः सर्वधर्मा इति परतन्त्रं स्वभावमधिकृत्य वचनात् । सर्वमेतच्चेतसि निधाय पृच्छति तत्कस्य हेतोरिति । उत्तरं तथा हित्यादि । यौ हि रूपादेरनुत्पादव्ययौ तौ तस्याभावौ । अभावौ च न भावौ विरोधात् । यत्पुनरुक्तमभावस्वभावाः परतन्त्रा इति । अभावद्वयव्यभिचारस्तत्र स्वभावार्थो न पुनस्तादात्म्यं विरोधात् । एवमभेदं प्रतिषिध्य भेदप्रतिषेधायाह । इत्यनुत्पादव्ययौ च रूपादिश्च अद्वयमेतदद्वैधीकारमिति । ननु तदानीं रूपादेरभावादद्वयीभावो न युक्त इत्यत (र्स्त्_१६) आह । यत्पुनरित्यादि । नट्र परतन्त्रं रूपादि गृह्यते । किं तर्हि? यदद्वयमुत्पादव्ययविरहात्परिनिष्पन्नमित्यर्थः । परिनिष्पन्नो हि स्वभावो धर्माणां कल्पिताभावलक्षणः । अनुत्पादव्ययावपि धर्माणामभावलक्षणौ । तत एकरसत्वादेषां त्रयाणामद्वयीभाव इति भावः । इति प्राप्तिनिर्याणम् ॥

सर्वाकारज्ञातानिर्याणमिदानीं वक्तव्यम् । तत्रादौ चत्वारो धर्मा उपपरीक्षणीयाः । कतमो बोधिसत्त्वः कतमा सर्वाकारज्ञता कतमा प्रज्ञापारमिता कतमा उपपरीक्षणेति । तत्र बोधिरेव सत्त्वस्तेनोच्यते बोधिसत्त्वः । तया बोध्या यत्सर्वधर्माणां सर्वाकारज्ञानं निरभिनिवेशं सा तत्र सर्वाकारज्ञता । आरता आरमिता । ग्रसितस्कभितादिवच्छान्दस इहागमः । विकल्पाद्यः (द्ये)पान्तीति पाः । विकल्पप्रतिपक्षा धर्माः । तेभ्योऽप्यारता विरता या प्रज्ञा सेह प्रज्ञापारमिता । यत्सर्वधर्मान्नित्यसुखात्मशान्तशून्यनिमित्तप्रणिहितविविक्तानां प्रत्येकं तद्विपरीतानां च षोडषानामाराणां प्रतिषेधेन व्युपपरीक्षते । तदत्रोपपरीक्षणं महत्योर्भगवत्योरुक्तम् । तत्रोर्ध्वमधरमुपपरीक्षणं तयोरुक्तम् । तदेवास्यां दर्शयितुमाह । एवं भगवन्नित्यतः प्रभृति अथ खल्वायुष्मानित्यतः प्राक् । अर्थः पूर्ववत् । अथ खल्वायुष्मानित्यदि । तेन हीति येनाद्वयस्यैषा गणाना कृता । अद्वयश्च धर्मधातुः । तेन कारणेन बोधिसत्त्वोप्यनुत्पादः । उत्पादविरहाद्धर्मधातुरित्यर्थः । परतन्त्रस्तु स्वभावो नेह गण्यते । तस्य परमार्थत्वात् । परमार्थस्य नेहाधिकारात् । कोत्र दोष इति चेदाह । यदि चेतित्यादि । दुष्करस्य कर्मणश्चारिका चरणम् । तां किं कस्माच्चरति? प्रयोगवीर्येण । आस्टां प्रयोगवीर्यम् । यानि दुःखानि करचरणशिरः शरीरदानानि सत्वानां कृतशः सत्त्वानामर्थाय तानि वा प्रत्यनुभवितुं कस्मादुत्सहेत । संनाहवीर्येणापि तदा दुष्करचारिकां न चरेन्न वाद्यवसेत् । तथा हि कारणपरतन्त्रत्वेनापरमार्थत्वात् । अपरमार्थस्य चानभ्यसनीयत्वात् । विशेषतो दुष्करस्येति चोद्यम् । एवमुक्त इत्यादिना सुभूतेःपरिष्काराः । तत्रानभ्युपगमेन प्रथमो नाहमित्यादिना । यो हि दुष्करचारिकामिच्छति
तस्य सा न स्यादित्यनिष्टापादनं दोषः स्यात् । न हीति । कुतो नेच्छसीति चेत् । दुष्करसंज्ञया दुष्करं चरतो विप्रतिसारिणः सम्यक्सम्बोधेर्व्यावृत्तिप्रसङ्गात् । नापीत्यादिना द्वितीयः परिहारः । न भवतीति न निष्पद्यत इत्यर्थः । अपि तु इत्यादिना तृतीयः । (र्स्त्_१७) पुनरपरमित्यादिना चतुर्थः । यथा आत्मेत्यादि । सर्वदुःखानि सर्वसाश्रवाः पञ्चस्कन्धाः । तेभ्यः सर्वेभ्यः परिमोचयितव्याः । सर्वेणेति धातुगतियोन्यादिभेदेन । सर्वेण सर्वमिति सर्व यथा भवति तिसृभिर्दुःखाताभिः । सर्वथेति सर्वव्यवसायैः सर्वमिति निरवशेषं मोचयितव्याः । दुःखस्कन्धादिति दुःखराशेः । चित्तप्रदोषः प्रतिघः । यथा आत्मा न विद्यते सर्वेणेति आत्मसत्त्वजीवपोषपुरुषादिभेदेन । सर्वेण सर्व यथा भवति दृश्यादृश्यभेदात् । सर्वथेति स्कन्धधात्वादिभ्यो भेदेन । अभेदेन च । कथमभेदेन सर्वं यथा भवति? प्रतिवर्गं समस्तेभ्यो व्यस्तेभ्यश्च यथा आत्मा तथा सर्वधर्मा न विद्यन्ते । सर्वेणेति स्कन्धधात्वादिवर्गभेदेन सर्वेण सर्व यथा भवति । वर्गाणां परिपूर्णावयवत्वात् । पुनःसर्व यथा भवति प्रतिवर्ग ते सर्व इत्यर्थः । सर्वथेति । सर्वेषु प्रभेदेषु आत्मनि परेषु च समस्तव्यस्तेष्वित्यर्थः । तदेवं दुष्करचारिकाचरणा भावप्रसङ्ग(ङ्गाः) चत्वार उक्ताः । चतुर्थेन परिहारेणैतदपि सूचितम् । दुष्करचारिकाया अप्यनुत्पाद एव तत्त्वं तदेव तत्त्वं पश्यता सा चरितव्या यतासौ शक्ता च भवेन्महाफला च । अनुत्पादे सर्वदुःखानामप्रतिभासनात्तत्त्वदर्शनाच्च । सर्वाकारसर्वधर्मविकल्पप्रबिषेधाय हेतुः स्थविरो यदप्यायुष्मानित्येतदारभ्य सन्निहितादेवमुक्तःशब्दात्प्राक् । अत्र सर्वज्ञतापीति सर्वाकारज्ञतापि बुद्धोपीत्यर्थः । ततः
प्राप्तिविकल्पप्रतिषेधार्थमाह । एवमुक्त इत्यत आरभ्य अत्यंतं प्रतिभातीति यावत् । सर्वज्ञतेति सर्वाकारज्ञता अनुप्राप्तैव भवतीत्यादित एव सर्वेषां धर्मधातुमात्रत्वात्धर्मधातोश्च प्रकृत्यैव सर्वथा विशुद्धत्वादिति भावः । एवमुक्त इत्यादिना सुभूतेरुत्तरम् । अनुत्पन्नस्य धर्मस्येति बोधिसत्त्वाख्यस्य धर्मधातोः । प्राप्तिमिति प्राप्तत्वम् । नाहमिच्छामि नाप्यभिसमयमिति नापि प्राप्ताभिसमयम् । यदिहीच्छेयं तदानुत्पादमिच्छतो मे प्राप्तिः प्रसज्येत । नैव त्विच्छामीति न युक्तः प्राप्तिप्रसङ्गः । युक्तिमप्याह नापीत्यादिना । सर्व एव धर्मोऽनुत्पाद इत्यस्मिन् पक्षे ह्येषः प्रसङ्गः । तत्र अनुत्पन्नेन बोधिसत्त्वेन अनुत्पन्ना सर्वाकारज्ञता नापि प्राप्यते । अयुक्तत्वादिति भावः । उभयोरणा[ना]दिमत्त्वेन प्राप्त्ययोगात् । आहेति शारिपुत्र आह । किं पुनरित्यादि । यस्तूभयोरनुत्पन्नत्वे प्राप्तिरयुक्ता । तत्किमन्यतरोत्पत्तौ युक्तेत्यर्थः । आहेति सुभूतिरन्यतरोत्पत्तिपक्षं विमोचयितुमाह किं पुनरित्यादि । एवकारो भिन्नक्रमत्वादन्तं नेतव्यः । अनुत्पन्नो धर्मः (र्स्त्_१८) पश्चादुत्पन्नो वा स्यात्पश्चादनुत्पन्न एव वा । तत्र द्वीतीयविकल्पे कथमन्यतरोत्पतिः? आद्ये तु विकल्पे धर्मधातोरुत्पत्तिविरोध इति भावः । तस्मादुभयोरनुत्पादात्साधूक्तं नाप्यनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यत इति युक्तः प्राप्तिविकल्पप्रतिषेधः । तस्मात्सर्वधर्माणां परमार्थो धर्मधातुः । स च प्रकृतिप्रभास्वरत्वादनादिनिधनत्वाच्च न प्राप्यते नापि प्राप्नोति, केवलं द्रष्टव्यः । यत्तस्य दर्शनं सैव कल्पितानां सर्वधर्माणामनुपलब्धिः । सैव निरतिशया प्रज्ञापारमिता । तया परिकल्पितधर्माभिनिवेशक्षयात्तदभिनिवेशहेतुकाः सर्वावरणसंग्राहिणः सर्वाभूतपरिकल्पाः परतन्त्राख्याः क्रियन्ते । पूर्वेषां स्वरसनिरोधात् । कारणाभावेन परेषामनुत्पादात् । ततः
प्रकृतिप्रभास्वरोपि बोधिसत्त्वाख्यो धर्मधातुरागन्तुकैरावरणमलैर्मलिनीकृतः । तेन तेषां क्षये सति तत्र क्षयलक्षणा विशुद्धिरपूर्वत्वात्प्राप्यते । तद्यथा प्रकृत्या विशुद्धमाकाशमागन्तुकैस्तुहिनरजस्तमोऽभ्रधूमादिभिरावरणैर्मलिनीक्रियते । पश्चात्तदपाये [क्षय?]लक्षणा विशुद्धिस्तेन प्राप्यते । सर्वविभ्रमनिवृत्तौ च सुविशुद्धसर्वधर्मधर्मताज्ञानलक्षणा सर्वाकारज्ञता यापूर्वत्वाव्दोधिसत्त्वेन लभ्यते । सैव तस्या विशुद्धेरात्मभूतायाः संवेदनाप्राप्त्यभिसमयः संपद्यत इति सिद्धान्तः ।

तत्रेदानीमागन्तुकावरणविशुद्धिः स्थविराभ्यां वक्तव्या । तां शारिपुत्र आरभते । आहेति शारिपुत्र आह । किं पुनरित्यादि । उत्पद्यत इत्युत्पादः । पर[त]न्त्रः स्वभावः । किं पुनः पश्चादनुत्पादः? कारणाभावादनुत्पत्तेरित्येक पक्षः । उताहोऽनुत्पादः? सर्वाकारज्ञता तेषां धर्मः । पूर्वमनुत्पन्नत्वाद्यः पश्चादुत्पद्यत इति द्वितीयपक्षः । तत्राद्ये पक्षे अनुत्पन्नायाः सर्वाकारज्ञतायाः कुतः प्राप्तिः? द्वितीयपक्षे सर्वाकारज्ञतायाः कारणं वक्तव्यम् । अभूतपरिकल्पश्च शाश्वतो भवेत्क्षयाभावादिति भावः । सुभूतिराहेति परिहारमाह । उत्पाद उत्पत्तिः धर्मः सर्वाकारज्ञतायाः । अनुत्पादोऽनुत्पत्तिः धर्मोऽभूतपरिकल्पस्येति य एष भेदः । नासौ प्रतिभाति जल्पितुं न रोचते वक्तुम् । सर्वधर्मशून्यतालम्बने चित्तसन्ताने यैव सर्वभ्रान्तीनां निवृत्तिः सैव सर्वाकारज्ञताया उत्पत्तिः । अतोऽस्या न कारणं वक्तव्यम् । नाप्यभूतपरिकल्पः शाश्वतो भवतीति भावः । शारिपुत्र आहेति । जल्पविकल्पप्रतिषेधायाह । अनुत्पादोपीत्यादि । अनुत्पादः प्रमान(णा)सिद्धत्वात्प्रतिभात्येव रोचत एव वक्तुम् । कुतो न प्रतिभातीति काङ्क्षा प्रश्नः । आहेति सुभूतिरुत्तरमाह । अनुत्पाद एवेत्यादि । जल्प इति मानसः शब्दः । प्रतिभातीति जल्पाभिधेयं वस्तु । प्रतिभानमिति सजल्पा बुद्धिः । त्रयमेतदनुत्पाद एव सर्वाकारज्ञतायां धर्मताशरीरेणैव (र्स्त्_१९) सर्वधर्माणां तस्यां प्रतिभासादिति भावः । एवमेव अत्यन्तं प्रतिभातीत्युपसंहारः । इति सर्वाकारज्ञतानिर्याणम् ॥

एवमुक्त इत्यादिना शारिपुत्रः प्रकृतमेव सुभूतेर्वचनं प्रशंसन्मार्गनिर्याणप्रस्तावनां करोति । स्थापयितव्यो निःसंशयं गणयितव्यः । यतो यत एवेति यत्र यत्रैव स्थाने निःसरति उत्तरति न चलति न भ्रश्यति न वि[रो]धयति न व्याकुलयति । एवमुक्त इति । एवं प्रस्तावनायां कृतायामेतदिति मार्गनिर्याणे । अनिश्रिता अनभिनिविष्टा धर्मा यैस्तथोक्ताः । न व्यतिवर्तन्त इति न भ्रस्य(श्य)न्ति । एवमुक्त इति सर्वधर्मानिश्रिततायामुक्तयाम् । अत्रेति अनन्तरोक्ता सर्वधर्मानिश्रिता चासौ परमत्वात्पारमिता च । कतमेति षण्णां पारमितानां मध्ये कतमा । सार्वयानिकी यानत्रयसाधारणी । यश्चैषा प्रज्ञापारमितैव । न तहर्यस्येत्यत आह । सर्वधर्मेत्यादि सुगमम् । इति हीति यत एवं तस्मात् । अवलीनत्वं विषादः कांक्षायितत्वं संशयालुता । दन्धायितत्वमप्रतिपत्तिः । अन्यथात्वं पराङ्मुखीभावः मनसिकारेणेति निर्विकल्पेन मनसा । कथमायुष्मन्नित्यादि विकल्पकं मनसिकारं मत्वा शारिपुत्रस्यायं प्रश्नो मनसिकारेण विहरन्तीति यावत् ।

तत ऊर्ध्वमेवमुक्त इत्यादिना सुभूतेः साधुकारपूर्वकं वचनम् । तत्र विस्तरेण चोद्यकरणात्साधुकारः । अपि त्वित्यादिना परिहारः । अर्थ एवेति । अस्मदिष्टमेव । इच्छालक्षणत्वादर्थस्य । भूतपदाभिधानेनेति विकल्पमनसिकारस्य विपर्ययो भूतपदं भूतं वस्तु । तस्याभिधानेन सविस्तरेण । अनिष्टापादनं हि । चोद्यम् । नेष्टाभिधानमित्युपालम्भः । युक्तितश्चेयमिच्छति दर्शयितुं स्वयमेव पृच्छति । तत्कस्येत्यादि । तभ्दू तपदं कुतः? सत्त्व आत्मा स इह दृष्टान्तः । मनसिकारो विकल्पः । स दार्ष्टान्तिकः । अस्वभावतादिर्वैदितव्येति साधारणं हेतुकं नेतव्यः । तत्र अस्वभावता स्वलक्षणशून्यता । लक्षणमनयोर्ग्राहकत्वम् । अतश्च यथा आत्मनोऽस्वभावता तथा मनसिकारस्यापि । ग्राहकत्वायोगादिति हेतुः । शेषेषु अस्वभावत्वादिति हेतुः । सभ्दावो भावत्वं तद्विरहोऽसद्भावता । विविक्तता अभावता अचिन्त्यता तदीयचिन्तायां निर्विषयत्वात् । अनभिसंबोधनता सम्यग्ज्ञानाविषयत । अयथाभूतार्थत्वेन मिथ्यावस्तुत्वेना भिसंबोधनं संयग्ज्ञानमस्येति अयथाभुतार्थाभिसंबोधनता । अनेनेति (र्स्त्_२०) यथोक्तेन । एवंरूपेणेति भूतार्थप्रत्यवेक्षकेण । विहारेणेति शमथरूपेण । इतिशब्दः परिवर्तपरिसमाप्त्यर्थः ॥

सर्वाकारज्ञतायां चर्या चरणम् । चित्तोत्पादादयो दशार्थाः । तद्द्योतकः परिवर्तस्तत्परिवर्तः ॥

[आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः] सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां प्रथमः परिवर्तः ॥


२. शक्रपरिवर्तो नाम द्वितीयः ।

उक्ता सर्वाकारज्ञता । इतः प्रभृति मार्गज्ञता वक्तव्या । तस्यामेकादशवस्तूनि । यतः शास्त्रम्-

[३१] ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ ।
महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः ॥ १-७ ॥
[३२] कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसितः(ताः) ।
पारिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ १-८ ॥
[३३] निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः ।
विज्ञानां बोधिसत्वानामिति मार्गज्ञतोदिता ॥ १-९ ॥

ऽध्यामीकरणतादिऽ श्रावकमार्गः ।ऽमहानुशंसोऽ बोधिसत्त्वस्य दर्शनमार्गः । भावनामार्गस्यऽकारित्रम्ऽ ।ऽअधिमुक्तिऽमनस्कारः ।ऽस्तुतस्तोभितसं(शं)सिताःऽ ।ऽपरिणामनाऽमनस्कारः ।ऽअनुमोदनाऽमनस्कारः ।ऽअभिनिर्हारःऽ ।ऽअत्यन्तशुद्धिश्चेऽति । एकादशवस्तूनिऽमार्गज्ञताऽ सा चऽबोधिसत्त्वानांऽ इत्यर्थः ।

तत्रोदौ ध्यामीकरणतादीनि यतः शास्त्रम्-
[३४] ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति ।
विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ २-१ ॥

(र्स्त्_२१)
अस्यांऽयोग्यतांऽ चित्तोत्पादः द्वितीयो (प्रथमो)ऽर्थः ।ऽतां प्रतिऽ तदर्थम् ।ऽध्यामीकरणताऽ मन्दच्छायीकरणंऽदेवानाम्ऽ ।ऽभाभिःऽ इति भगवतः प्रकृतिप्रभया सा द्वितीयोऽर्थः ।ऽविषयो नियतःऽ इति । तस्या एव विषयप्रतिनियमस्तृतीयोऽर्थः । विषयऽव्याप्तिऽश्चतुर्थः ।ऽस्वभावःऽ पञ्चमः ।ऽकारित्रंऽ षष्ठः । यद्यमी षडर्थाः कथमेतदेकं वस्तु? इह मार्गज्ञताया मूलं चित्तोत्पादः । तद(द्) रहितानां तस्यामयोग्यत्वात् । अत एवासौ योग्यतोच्यते । तत एवासौ प्रधानम् । शेषस्तस्याः परिच्छेदः । प्रधानेन च व्यपदेशादेकवस्तूच्यते ।

तत्र ध्यामीकरणतामधिकृत्याह । तेन खलु पुनरित्यादि । तेन समयेनेति तस्मिन् काले । विवक्षातः कारकाणि भवन्तीति करणत्वम् । खलु शब्दो वाक्यालङ्कारे । पुनः शब्दो विशेषार्थः । अभिसमयभेदो विशेषः । सन्निपतितः समागमात् । सन्निषण्णो निषदनात् । त्रयस्त्रिंशानां कायो निकायः । तस्मिन् भवा इति ठल् । चत्वारो महाराजा वैश्रवणधृतराष्ट्रविरूढकविरूपाक्षा चतुरादिषु दिक्षु । तेषां कायः । तस्मिन् भवाः । एष एव त्रिसाहस्रो लोकधातुः सहा । तस्याः पतिः । ब्रह्मणः कायस्तस्मिन् भवाः । इह तूत्तरपदवृद्धिः । चतुर्थस्य ध्यानस्याश्रयं च शुद्धावासाः । अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्चेति । कुतः शुद्धावासाः? आर्याणामेव तेषूत्पादात् । तेषां पञ्चानां निकायानां पञ्चैव सहस्त्राणि । एतावन्त एत रूपिणो देवनिकाया यथोध्वमुत्कृष्टाः प्रभाप्रभावादिभिः । योपीत्यादि । तेपि सन्निषण्णाः । योपि तेषामवभासः सोप्यभिभूतो ध्यामीकृतोऽभूत् । समकालमेवेति योपिसोपि शब्दार्थः । योग्यता हि चित्तोत्पादस्तदर्थ ध्यामीकरणम् । सर्वाभिभूर्भगवानिति विदित्वा तभ्दावे स्पृहोत्पादनात् । अवभासः प्रभा । स्वकर्मणो विपक्तिर्विपाकः । तस्माज्जातः सहजो नाभिसंस्कारिक इत्यर्थः । केन कारणेनाभिभूतः? बुद्धाधिष्ठानेन बुद्धसन्निधानेन । केन कर्त्रा? बुद्धतेजसा बुद्धस्य भगवतः प्रकृतिप्रभया । ननु तेपि महानुभावाः कस्मान्न प्रतिचक्रुरित्यत आह बुद्धानुभावेनेति । बुद्धानुभावेन सर्वानुभावः प्रतिहन्यतः इति भावः । ध्यामीकरणता ॥

अथ खल्वित्यादि । अन्तिकादिति सकाशात् । प्रज्ञापारमितामिति बोधिसत्वानां महासत्वानामित्यनेन सम्बन्धः । मार्गज्ञतामित्यर्थः । (र्स्त्_२२) उपदिश्यत इति उपदेशः । तस्या एवार्थस्यावगमाय वादोऽववादः तदनुबन्धाय शासनी तत्सहिता सेति समासः ।

स्थातव्यं श्रुतमय्या प्रज्ञया । शिक्षितव्यं चिन्तामय्या । योगमापत्तव्यं भावनामय्या ।

आनुभावादयः प्रभावपर्यायाः । तदानुभवेनेत्युद्देशः । इतराभ्यां निर्देशः । तेजसेति प्रतिभानशक्ते रोधाय । केन प्रभावेन? अधिष्ठानेनेति प्रबोधकेन । इयता ग्रन्थेन योग्यतायाः प्रस्तावनां कृतायां तामाह । यैरित्यादिना उत्पादितव्यान्तेन इति योग्यता ॥

येत्वित्यादि । हीनमार्गलभ्यं निर्वाणं सम्यक्त्वं तस्मिन्नियमः सम्यक्त्वनियामः । तमवक्रान्ताः प्राप्ताः । बद्धसीमानो बद्धसेतवः । तद्यथा श्रोतआपन्नसप्तक्तभ्दवपरमः । द्वित्रिजन्मा कुलंकुलः । अनुत्तरा (र)सम्यक्संबोधिनिमित्तं यत्पुनः पुनः संसरणं तस्मै चित्तमुत्पादायतुमभव्याः । इति शमैकयानैः श्रावकैरुत्तमबोधेः कदाचिदप्यकामनाद्योग्यताया विषयप्रतिनियमः ॥

अपि त्वित्यादि उत्पादयेरन्नित्येतदन्तेन व्याप्तिः । श्रावकैरपि बोधिपरिणतिकैः सम्यक्सम्बोधौ चित्तस्योत्पादनात् । ते हि स्वां बोधिमधिगम्यापि बुद्धबोधिसत्त्वानां लोकोत्तरां विभूतिं दृष्ट्वा वञ्चितमिवात्मानं मन्यमानास्तथागतैरधिष्ठितास्तद्वोधौ चित्तमुत्पाद्याचल्यभूमिकबोधिसत्त्ववन्निर्मिताभिरुपपत्तिभिर्बोधिचर्यां चरित्वा परां बोधिमधिगच्छन्तीति व्याप्तिः ॥

नाहं कुशलमूलस्यान्तरायं करोमीति । स्वभावः कुशलराशिः । सर्वकुशलधर्मसंग्राहकत्वाच्चित्तोत्पादस्येति कुशलपक्षत्वं योग्यतायाः स्वभावः । विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्या इति कारित्रम् । विशिष्टेभ्य इति बोधिचित्तसंगृहीतेभ्यः । हेतौ पञ्चमा । विशिष्टतमा धर्मा इति महायानसंगृहीताः फलहेतुभूताः । अध्यालम्बितव्या इति प्राप्तव्याः । तस्मान्नान्तरायं करोमीति शब्दार्थः । इति द्विविधमहायानप्रापणं बोधिचित्तस्य कारित्रम् ॥

तदेवं केचिद्वोधिचित्तोत्पादनार्थमुत्साहिताः पुर्वमुत्पादितबोधिचित्तास्तु संप्रहर्षिताः । एवमुत्पादितबोधिचित्त्वत्वादुभयेपि ते बोधिसत्त्वा (र्स्त्_२३) महासत्त्वाः सन्तो मार्गज्ञतायामुत्साहिताः । अत आह । अथ खल्वित्यादि । साधुस्त्वमिति महतः परार्थस्य करणात् । भगवतः कृतज्ञैरित् । यथा पूर्वं जिनपुत्रस्य भगवतस्तच्छ्रावकैर्बहुकृतं तथास्माभिर्भगवतः श्रावकैर्भगवत्पुत्राणां बोधिसत्त्वानां बहुकर्तव्यमिति कृतज्ञतार्थः । तत्कस्य हेतोरिति । तत्कृतज्ञत्वं केन प्रकारेण? पूर्वका एव पौर्वकाः । ब्रह्म निर्वाणं तस्मै चरणं ब्रह्मचर्यम् । तच्चरणं बोधायेति बोधये । बोधिचर्यां चरतीति यावत् । यैरिति विभक्तिप्रतिरूपको निपातो यथार्थः अवोदित इति सम्प्रसारणम् । वद व्यक्तायां वाचित्यस्य यजादित्वात् । अववदित इति क्वचित्पाठः । तत्र वद स्थैर्य इत्ययं धातुरनेकार्थत्वात् । अनुपरिग्रहीतव्या इत्यववदितव्याः । अनुपरिवारयितव्या इति अनुशासितव्याः । उत्तरयोः पदयोः संशब्दः सम्यगर्थः । अस्माभिरपीति श्रावकैरपि । आत्मस [जा]तीयेष्वप्यात्मव्यवहारात् । साधु चेत्यवहितश्रोत्रतया । सुष्ठु चेत्यवहितमनस्कतया । मनसिकुर्विति चिन्ताभावनाभ्याम् । प्रज्ञापारमितायां स्थातव्यमिति मार्गज्ञतायां वेदितव्यम् ।

तत्रादौ श्रावकमार्गः । तत्र दर्शनमार्गमधिकृत्याह । शून्यतायामित्यादि । अविपरीतत्वाच्चत्वारि सत्यानि । आर्याणां सत्यत्वेन प्रतिभान्ति न बालानां तस्मात्तान्येवार्यसत्यानि । दुःख समुदयो निरोधो मार्गश्च । तत्र दुःखं संसारिणः स्कन्धाः । दुःखहेतुः समदयः । दुःखक्षयो निरोधः । तत्प्रापकं ज्ञानं मार्गः । एषां चतुर्णामार्यसत्यानां य आकारास्तेषां शून्यतायां तिष्ठता शून्यतां पश्यता प्रज्ञापारमितायामिति श्रावकीये दर्शनमार्गे स्थातव्यं समाहितेन चेतसा । शून्यतादर्शनं चानुपलम्भ एव । ततः शास्त्रम्-

[३५] चतुर्णामार्यसत्यानामाकारानुपलम्भतः ।
श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ २-२ ॥

श्रावकपिटके च सत्यनां षोडशाकाराः पठयन्ते । दुःखमनित्यतो दुःखतोऽनात्मतः शून्यतश्च परिज्ञेयम् । समदयो हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च । निरोधो निरोधतः शान्ततः प्रणीततो निःश(स)रणतश्च । मार्गो मार्गतो न्यायतः प्रतिपत्तितो निर्याणिकतश्चेति ॥ अमी नेह गृह्यन्ते । ये तु महत्योर्भगवत्योः पठितास्त इह गृह्यन्ते । प्रत्यासत्तेः श्रावकबोधेश्च लाघवेनेति (र्स्त्_२४) प्रापणात् । तत्र दुःखं चतुर्भिराकारैर्मनसिकरोति पूर्ववत् । अनित्यतो दुःखतोऽनात्मतः शान्ततश्च यथाक्रममुदयव्यययोगित्वात्प्रतिकूलत्वातात्मविलक्षणत्वात् । आत्मशून्यत्वाच्च । आत्मशून्यो हि शान्तः । तद्यथा कुणपः । समुदयमेकादशभिराकारैः । तत्र चतुर्भिराकारैः प्रहाणार्हत्त्वज्ञापनार्थम् । रोगतो गण्डतः शल्यतोऽघतश्च दुःखहेतुत्वाद्दःखोत्कर्षहेतुत्वादुरुद्धरत्वात् । ऐहिकामत्रिकदुःखहेतुत्वेन पापसाधर्म्याच्च । पुनश्चतुर्भिः श(स)क्य(त्य)त्वपरिज्ञापनार्थम् । परतः प्रलोभधर्मतश्चलतः प्रभड्गुरतश्च । आत्मा हि हातुमशक्तोऽयं तु परः । प्रतिक्षणविनाशित्वात् । प्रलोपधर्मा च । अर्हभ्दिरुन्मूलितत्वात् । चलश्च प्रकृतेन मार्गेण भङ्गित्वात्प्रभङ्गुरश्च । आतप्तकारितार्थ पुनस्त्रिभिः । भयत उपद्रवत उपसर्गतश्च । अशनिपातादिवभ्दयहेतुत्वात् । भूतराक्षसादिसाधर्म्यात्दुर्भिक्षपरचक्रादिसाधर्म्याच्चेति । प्रतिलोमः प्रतीत्यसमुत्पादो अविद्यानिरोधात्संस्कारनिरोध इत्यत आरभ्य एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति यावत् । तत्र निरुद्धिर्निरोध इति निरोधसत्यम् । निरुध्यतेऽनेनेति निरोधो मार्गसत्यं सप्तभिराकारैः । अनात्मतः शान्ततो विविक्ततः शून्यत आनिमित्ततः अप्रणिहिततोऽनभिसंस्कारतश्च । आत्मा हि योगिनो दुःखात्मनः स्कन्धाः । अतो दुःखाभावादनात्मा क्लेशोपशमाच्छान्तः
। दुःखक्लेशावशुची तयोरूपशमाद्विविक्तः । शूचिरित्यर्थः । आत्मात्मीयविरहाच्छून्यः । सर्वसंस्कृतनिमित्ताभावादानिमित्तः । त्रैधातुके प्रणिधानं प्रणिहितम् । तत्क्षयादप्रणिहितः । आयत्यां कर्माभिसंस्काराभावादनभिसंस्कारः । मार्गसत्यमप्येभिरेव सप्तभिराकारैः । निरोधप्रापको हि मार्गः । ततोऽनात्मशान्तविविक्तादिप्रापकत्वान्मार्गोप्यनात्मा शान्तो विविक्तः शून्य आनिमित्तोऽप्रणिहितोऽनभिसंस्कारश्च । एवमेकोनत्रिंशदाकार इह श्रावकमार्ग आसु तब्दोधिप्रापणात् । स चैषामाकाराणामनुपलम्भेन मार्गज्ञतायां प्रविशति ।

तेन हीत्यादि । येन हीनमार्गं भावयतो बोधिसत्त्वस्यानुपायकुशलस्य हीनबोधौ पात आशंक्यते । तेन हि कारणेनास्यां मार्गज्ञतायां महासन्नाहो महदुपायकौशलम् । सन्नद्धेन तद्धर्मितेन भवितव्यमात्मरक्षार्थम् । तत्रायं महान् सन्नाहो यदुत सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्भावना कर्त्तव्या । व्युत्थितेन च सर्वं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम् । तच्चानुपलम्भयोगेनेति । इति श्रावकाणां दर्शनमार्गः ॥

(र्स्त्_२५)
इत ऊर्ध्वं निरोधभागीयानि । न रूपे स्थातव्यमित्येतदारभ्यानेन मनसिकारेणेति यावत् । तत्र न बुद्धत्वे स्थातव्यमित्येतदन्ते ऊष्मा । तत ऊर्ध्व इति हि बुद्धत्वमिति न स्थातव्यमित्येतदन्तेन मूर्धा । ततो विज्ञानं शून्यमुपलभ्यते वेत्येतदन्तेन क्षान्ति । शेषाण्यग्रधर्मः । तत्र रूपादिष्वस्थानम [न] भिनिवेश ऊष्मा । रूपादीनामिदन्तया स्वलक्षणानुपलम्भो मूर्धा । रूपादीनां द्वयानुपलम्भः क्षान्तिः । शून्यमित्यनुपलम्भ उपलभ्यत इति उपलम्भः । तस्मात्शून्यमुपलभ्यतेवेत्यपि द्वयम् । श्रोतआपत्तिफलादीनां विशेषेष्वस्थानमग्रधर्मः । तस्मादस्यां भगवत्यामन्यथैव शास्त्रपाठ उन्नेयः-

अस्थानमूष्मा रूपादौ मूर्धा तदिति हीति यत् ।
क्षान्तिर्न नित्यं नानित्यं रूपादीत्यस्थितिद्वये ॥
फल (लं) पुंसामिहार्याणां विशेषेष्वस्थितिस्तु या ।
सैवाग्रधर्मो विज्ञेय आर्यश्रावकवर्त्मनि ॥

अत्र न चक्षुः संस्पर्शे स्थातव्यमिति । इन्द्रियविषयविज्ञानसन्निपाते सति यः सुखादिवेदनोत्पत्त्यनुकूलस्येन्द्रियविकारस्य परिच्छेदकः सादृश्यमात्रेण स सुखादिवेदनाजनकःचैतसिकः स्पर्श इत्युच्यते । इन्द्रियविकारं सादृश्येन स्पृशतीति कृत्वा । अत इन्द्रियभेदाच्चक्षुःसंस्पर्शो यावन्मनःसंस्पर्शः । उक्त चाभिधर्मे "त्रिकसन्निपाते इद्रियविकारपरिच्छेदः स्पर्शः वेदनोत्पत्तिसन्निश्रयदानकर्मकः" इति । शुभं शुचि अशुभमशुचि । असंस्कृतप्रभावितं क्लेशाविद्याक्षयस्यासंस्कृतत्वात् । इमं लोकमितिकामधातुम् । तत्रैवेति अकामिनि लोके । इहैवेत्यस्मिन्नेव जन्मनि । अनुपधिशेष इति उपधयः स्कन्धाः । त एव शेषाः सोपधिषेशे तद्विपर्ययादनुपधिशेषः । बुद्धपरिनिर्वाणेति । संसारनिर्वाणयोरप्रतिष्ठितेन । यथाक्रमं सर्वेषां क्लेशिकधर्मपरिक्षयात्, अनाश्रवाणां च धर्माणामनन्तानां जगदर्थाय यावदाकाशमवस्थानात् । न च ततो व्युत्थित इति प्राप्तापरिहाणितः । न स्थितो नास्थित इत्यप्रतिष्ठितमानसत्त्वादव्युत्थानाच्च । न विष्ठितो नविष्ठित इति प्रवाहयोगेन पूर्ववत् । शेषं सुबोधमित्यग्रधर्मः । इत्युक्तानि श्रावकमार्गनिर्वेधभागीयानि ॥

(र्स्त्_२६)
बुद्धानुभावात्खङ्गमार्गप्रस्तावनाय केषाञ्चिद्देवपुत्राणां वितर्कोऽभूत्तमाह । अथ खलु तत्रेत्यादिना । केषाञ्चिदिति ये श्रावकमार्गमपि सुभूतिना देश्यमानं गंभीरं मेनिरे । कथं यक्षाणाम्? तैरुच्चारणात् । कथं यक्षरुतादीनि? तभ्दाषात्वात् । तत्र रुतानीत्युद्देशः । शेषेण निर्देशः । मन्त्रितानि वाक्यानि । प्रव्याहृतानि वाक्यसमूहाः । भाषते पदवाक्यैः । प्रव्याहरति वाक्यसमूहैः । देशयतीत्यववदती । उपदिशतीत्यनुशास्ति । अथ खल्वायुष्मानित्यादि । इदमितिलब्धावसरत्वादुद्दिष्टं खङ्गज्ञानं परामृषति । न विज्ञायते न विज्ञायत इति द्विर्वचनमवधारणार्थम् । परतो न विज्ञायते एव चरमभवखङ्गैःखङ्गज्ञानम् । परोपदेशस्य तेषु वैयर्थ्यात् । यतः स्वयंभूत्वेन तेषां स्वयमेव तत्संमुखीभवतीति परोपदेशवैयर्थ्यम् ॥

तथाहीति । ईदृश्येव हि धर्मता धर्माणाम् । कीदृशीत्याह नात्रेत्यादि । अत्रेति स्कन्धधात्वायतनादौ । न किञ्चिदिति न कश्चिद्धर्मः सूच्यत इति देश्यते । श्रूयते श्रोत्रा निःश्वभावत्वात्सर्वधर्माणाम् । तद्यथा निर्मितबुद्धेन निर्मितानां परिषदां धर्म देश्यमाने न किञ्चिद्देश्यते न कश्चिद्देशयिता न कश्चिच्छ्रोतेति । अथ खलु तेसामित्यादि । उत्तानमगम्भीरहर्षाद्विवेचनम् । इतीत्येवमस्माभिर्वितर्किते । अनार्याणामगोचरत्वेन दूरात् । निष्प्रपञ्चत्वेन सूक्ष्मात् । दुखगाहत्वेन गम्भीराच्छ्राव (क) मार्गा दूरतरं सूक्ष्मतरं गम्भीरतरं ज्ञानम् । प्रविशति चेतसा । देशयति ग्रन्थतः । भाषते अर्थतः । तथा हि नात्रेत्यादिना । इति ज्ञानगम्भीरता । अतः शास्त्रम्-

[३६] परोपदेशवैयर्थ्यं स्वयंबोधात्स्वयंभुवाम् ।
गम्भीरता च ज्ञानस्य खङ्गानामभिधीयते ॥ २-६ ॥

अथ खल्वायुष्मानिति । नेमांक्षान्तिमनागम्येति । तथाहि नात्रेत्यादिनोक्तम् । ग्राह्याभावज्ञानं नाप्राप्य प्राप्यैवेत्यर्थः । अतश्च श्रावकैरपि तज्ज्ञानं तथागतैरप्युपादेयं सुतरां खङ्गैरधिगन्तव्यामिति भावः । इति खङ्गानां ग्राह्यविकल्पप्रहाणम् ॥

(र्स्त्_२७)
अथ खलु पुनरपीत्यादि । मन्त्रादिबलेन प्रतिभासमानो मिथ्यापुरुषो माया । ऋद्धिसन्दर्शितो निर्मितः । ताभ्यां सदृशाः । मायोपमास्ते सत्त्वा न मायेति । मिथ्यात्वमेव मायात्वं मन्यन्ते । सुभूतिस्तु मन्यते मिथ्याविशेषो माया च स्वप्नं च ताभ्यां सादृश्यं मिथ्यात्वमेव । तस्मान्माया च सत्त्वाश्चेत्यद्वयं मिथ्यात्वेन निर्विशेषत्वादिति । तदेवं मायापुरुषवत्पुरुषद्रव्याणामसत्त्वमुक्तम् । सर्वधर्मा अपीति । पुरुषधर्मा अपि सर्वे मायोपमाः । असति पुरुषद्रव्ये तद्धर्माणामप्यभावात् । अथ खल्वायुष्मान् शारिपुत्र इत्यादि नास्या आयुष्मन्त इत्यादिना न कश्चित्प्रत्येषको भविष्यत्येतदन्तेन स्थविरसुभूतिर्धार्मश्रवणिकवत्प्रत्येषकानामप्यभावमाह । प्रतीक्षन्तीति प्रत्येषकाः । तेषामभावः प्रत्येषकपुरुषद्रव्याभावात् । सूच्यत इत्यस्फुटं भाष्यते । परिदीप्यत इति स्फुटम् । प्रज्ञप्यत इति वक्तृश्रोतृभिर्व्यवह्रियते । तस्मात्सर्वथा न सन्ति पुरुषद्रव्याणि । केवलमध्यात्मिकेषु च स्कन्धादिषु पुरुषप्रज्ञप्तिः । ततः पुरुषप्रज्ञप्त्याश्रये स्कन्धादौ ग्राहक ग्राहमेषामस्तीति खङ्गानां ग्राहकविकल्पाप्रहाणम् ।

अथ खलु शक्रस्येत्यादिना न तत्पुष्पमित्येतदन्तेन खङ्गानां गोत्रमुच्यते । अत्र धर्मपर्यायो धर्मप्रभेदः । खङ्गमार्गः । यन्नुशब्दो । वाक्यालङ्कारे । सुभूतिमिति । धर्मभाणकपूजया धर्मपूजनात् । एतदितिवक्ष्यमानं(णं) वितर्कितमभूत् । शक्रमनु शक्रं प्रति व्याहरणायेति वितर्कं विदित्वा भाषणाय । इमानीति प्रकृतानि । पुष्पाणीत्यमलत्वेन पुष्पसाधर्म्यात्खड्गमार्गसंगृहीतानि कुशलानि । देवेषु प्रचरन्तीति अवचरन्ति न दृष्टानि, अनाश्रवत्वेन धातुपतितत्वाभावादिति भावः । अभ्यवकीर्णानीति परिषदि निर्मितपुष्पैः सूचितानि । निर्मितानि यथादर्शनमसत्त्वात् । कुत इत्याह । नैतानीत्यादि । मनोमयानीत्युपसंहारः । मनोनिर्जि(र्मि) तानीत्यर्थः । शक्रस्तु मनोमयत्वमपि निषेद्धुमाह । अनिर्जातानीति । यथा हि ग्राह्यत्वाद्वृक्षादयो न सन्तीति न तेभ्यो निर्जातानि तानि । तथा मनोपि नास्ति ग्राहकत्वादिति ततोप्यनिर्जातानि सुभूतिराह । यत्कौशिकानिर्जातं न तत्पुष्पमिति यत्तयोर्नित्याभिसम्बन्धान्न तत्पुष्पं न स खड्मार्गः स्यादित्यर्थः । एवं मन्यते । निर्विशेषं जातं निर्जातम् । अतः सजातीयं कार्यमाश्रितम् । कारणमाश्रयः । खड्गमार्गश्च खड्गाश्रितः । न च खड्गस्य संस्कृतो धर्मो मार्गस्याश्रयो युज्यते सास्रवस्य विजातीयत्वात् । अनास्रवस्यापि संस्कृतस्यादिमत्वादादित एव निराश्रयस्यानुत्पत्तिप्रसङ्गात् । तस्मादनास्रवत्वेन सजातीयः खड्गस्य धर्मधातुरेव खड्मार्गस्याश्रय आधारः प्रतिष्ठागोत्रमिति खड्गमार्गस्याधारः ॥ अतः शास्त्रम्-

(र्स्त्_२८)
[३७] ग्राह्यार्थकल्पनाहानात्ग्राहकस्याप्रहाणतः ।
आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः ॥ २-८ ॥

अथ खड्गानां कथं परार्थक्रियां? इच्छामात्रेण तत्सिद्धेः । कथं तेभ्यः श्रवणम्? सूश्रूषामात्रेण । यतः शास्त्रम्-

[३८] सुश्रूषा यत्र यत्रार्थे यस्य यस्य यथा यथा ।
स सोऽर्थः ख्यात्यशब्दोपि तस्य तस्य तथा तथा ॥

ऽयस्य यस्यऽ विनेयस्य ।ऽयत्र यत्रार्थेऽ इति निर्वेधभागीयेष्वार्यमार्गे वा ।ऽयथा यथाऽ इति येन येनाकारेण । अथ खलु शक्रेत्यादि । द्वितीयादथ खलु शक्रशब्दात्प्राक्निर्वेधभागीयानि वक्तव्यानि । तत्र बुद्धधर्मेषु शिक्षत इत्येतदन्तेन ऊष्मा । नामपदैः प्रज्ञप्तिः व्यवहारः । तान्निर्दिशति । न च विरोधयति तां चोत्तानीकरोति । तामेव चोपदिशति । तथा हि प्रज्ञप्तिमात्रं रूपं प्रज्ञप्तिमात्रमेव धर्मतेत्युपदिशति इत्यूष्मा ।

योऽप्रमेयेष्वित्यादिना न परिहाणायेत्येतदन्तेन मूर्धा । कथं न शिक्षते, अनुपलम्भादिति । इति मूर्धा । यो न रूपस्य विवृद्धय इत्यादिना अथ खल्वायुष्मानित्यतः प्राक्क्षान्तिः । अत्र रूपादेरपरिग्रहयुक्तिर्महत्योर्भगवत्योरुक्ताऽअध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादायऽ इति । इति क्षान्तिः । अथ खल्वायुष्मानित्यादिना अथ खलु शक्र इत्यतः प्रागग्रधर्मः । एवं चेति बुद्धिस्थं हेतुः परामृशति । महत्योर्भगवत्योर्य उक्तः तथा हि "न स रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं नावदानं न चयं नापचयं नो हानिर्न वृद्धिम्" इत्यग्रधर्माः । अतः शास्त्रम्-

[३९] प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः ।
ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ २-९ ॥
[४०] अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् ।
क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ २-१० ॥

इत्युक्तः प्रत्येकबुद्धमार्गः ॥

बोधिसत्त्वस्य मार्गो वक्तव्यः । तमधिकृत्य शास्त्रम्-

[४१] क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः ।
मार्गज्ञतायां दृङ्मार्गः सानुसं (शं) सोयमुच्यते ॥ २-११ ॥

(र्स्त्_२९)
इति संक्षेपेण सूत्रार्थः । द्वे क्षान्ती द्वे च ज्ञाने प्रतिसत्यम् । दुःखे धर्मज्ञानक्षान्तिर्दुःखे धर्मज्ञानम् । दुःखे अन्वयज्ञानक्षान्तिर्दुःखे अन्वयज्ञानम् । एवं समुदयनिरोधे मार्गे च । एभिः प्रतिसत्यं चतुर्विधैः क्षणैर्बोधिसत्त्वस्य दर्शनमार्गज्ञतायामुच्यते सहानुसं(शं)स्यैः । एषां तु क्षणानां विशेषलक्षणमधिकृत्य शास्त्रे पञ्च श्लोकाः-

[४२] आधाराधेयताभावात्तथताबुद्धयोर्मिथः ।
पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ २-१२ ॥
[४३] परिमाणात्तथताभावो रूपादेरवधारणम् ।
तस्यां स्थितस्य बुद्धत्वेऽनुग्रहात्यागतादयः ॥ २-१३ ॥
[४४] मैत्र्यादि शून्यताव्याप्तिर्बुद्धत्वस्य परिग्रहः ।
सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ २-१४ ॥
[४५] निर्वाणग्राहसा (शा)न्तत्वं बुद्धेभ्यो रक्षणादिकम् ।
अप्रमाणि (अप्राणि) वधमारभ्य सर्वाकारज्ञता नये ॥ २-१५ ॥
[४६] स्वयं स्थितस्य सत्वानां स्थापनं परिणामनम् ।
दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः ॥ २-१६ ॥

मार्गज्ञतायां बोधिसत्त्वस्य दर्शनमार्गक्षणा इत्यर्थः ।

इमां तु भगवतीमधिकृत्याद्यं पादत्रयमन्यथा कर्तव्यम् । तत्राद्यः क्षणः पादद्वयेन-

रूपादितो धीर्नानन्या न चान्या परमार्थतः ।

धीः प्रज्ञापारमिता सा रूपादिभ्यो नाभिन्ना लक्षणभेदात् । न च भिन्ना परमार्थतः । तथा हि । या प्रज्ञापारमिता यद्रूपादि या रूपादितथता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शनाप्रतिघा एकलक्षणा यदुतालक्षणाः, न संयुक्ता न विसंयुक्ता इति । नाभिन्नाः न भिन्नाः कल्पिता नामत्वात् । भेदाभेदयोश्च भावधर्मत्वात् । अत एव रूपस्कन्धाभावादरूपिणः । चक्षुर्विज्ञानाभावादनिदर्शनाः । स्वदेशे परस्योत्पत्तेरविबन्धनादप्रतिघाः । भेदप्रतिभासानामस्तङ्गमादेकलक्षणाः । यदुतालक्षणा इति तथतामात्रलक्षणाः । अत आद्यस्य क्षणस्य प्रस्तावना । अथ खलु शक्र इत्यादिना तत्कस्य हेतोरित्यतः प्राक् । तत उर्ध्वमाद्यक्षण एवमुक्त इत्यतः प्राक् । इति दुःखे धर्मज्ञानक्षान्तिः ।

चतुर्णां क्षणानां विशेषलक्षणं शास्त्रेण-

(र्स्त्_३०)
[४३ ] तस्या [:] चतुष्टयं यत्तु महत्ता साप्रमाणता ।
परिमाणान्तताभावौ रूपादेः

सह अप्रमाणतयाऽसाऽप्रमाणताऽ ।ऽमहत्ताऽ अप्रमाणता चेत्यर्थः । अन्त एवान्तता । परिमाणश्चान्तता । च तयोरभावौ अपरिमाणता । अनन्तता चेत्यर्थः ।ऽतस्याःऽ इति प्रज्ञापारमितायास्तन्महत्तादिऽचतुष्टयं यत्रूपादेःऽ इति सम्बन्धः । रूपादेर्महत्त्वादिना तदालम्बनायाः प्रज्ञापारमिताया महत्त्वादि । महापारमिता । अप्रमाणपारमिता । अपरिमाणपारमिता । अनन्तपारमिता चेत्यर्थः । एतच्च महापारमिताविज्ञानं निरभिनिवेशं द्रष्टव्यम् । एवं महापारमितेति कौशिक नाभिनिविशत इत्यादेः सूत्रपाठात् । अत एवमुक्ते शक्रेण तेषामुद्देशः । स्थविर इत्यादिकः सुभूतिना सश्लाधानुवादः । ततः सुभूतिनैव निर्देशः तत्कस्येत्यादि । तत्र रूपादीनां महत्ता- अमुष्मिन् काले भावोऽमुष्मिन्नभावः- इत्येवं कालतोऽपरिच्छेदात्तदालम्बनत्वात्तस्य महत्त्वम् । इति दुःखे धर्मज्ञानम् ॥

आकासो(शो)पमेन तथताशरीरेण प्रमाणतोऽपरिच्छेदादप्रमाणतेति । दुःखेऽन्वयज्ञानक्षान्तिः ॥

संख्यया अपरिच्छेदादपरिमाणतेति दुःखेऽन्वयज्ञानम् ॥

देशतोऽपरिच्छेदादनन्तता आरम्बणनन्ततया च । आरम्बणं सर्वधर्मा न च तेषामन्ततो(ता)ऽस्ति गणनातिक्रान्तत्वात् । अपि च सर्वधर्मा अनन्ता असत्त्वेन तेषामुत्पादविनाशान्तयोरभावात् । सत्त्वा अप्यालम्बनमुभयनैरात्म्यज्ञाने । ते चानन्ताः । शक्र आह । तत्कथमनन्ता इति । सुभूतिराह । न गणना अयोगेन गणनाबहुत्वेन वेति । न गणनातिक्रान्तत्वेन । नाप्यनन्ताख्यया संख्ययेत्यर्थः । कथं तर्हीति तर्हि शब्दोऽक्षमायाम् । न धर्माधिवचनमिति धर्म आत्मद्रव्यं न तस्याधिवचनं तस्याभावात् । धर्मत्वेन स्वार्थाभिधानात्नाधर्माधिवचनम् । प्रक्षिप्तमिति सूत्रैः प्रयुक्तम् । कुतः? यत आगंतुकं सति विचारे चलत्वात् । यतोऽवस्तुकमात्मद्रव्याभावात् । आत्मसम्बन्धादप्यात्मेति किञ्चिदुच्यते । तदपि नास्त्यात्मनोऽत्यन्तमसत्त्वादित्यनात्मीयम् । अथवा आत्मप्रज्ञप्तिविषयः स्कन्धादिरात्मीयस्तस्याप्यभावादनात्मीयम् । अथवा नाम संज्ञा तस्यात्मीयः संज्ञी । तदभावादनात्मीयम् । आरम्बणं विषयस्तदभावातानारम्बणम् । अत्रेति शास्तृशासने । (र्स्त्_३१) एतच्चाप्तवचनादपि नैरात्म्यसिद्धिं दर्शयितुमाह । का सत्वानन्ततेति । गणनाति क्रान्तत्वेन न काचित्प्रमाणसिद्धेपि नैरात्म्येआप्तवचनादपि नात्मसिद्धिरिति दर्शयितुमाह । सचेत्यादि । स्वरेणेति वचनेन । अनन्तस्य लोकस्य विज्ञप्तिरर्थज्ञापनो घोषः शब्दोऽस्येति तथोक्तेन । तथाप्यतिमांसलत्वात्गम्भीरो निर्घोषस्तूर्यनिर्घोषवद्विचित्रः शब्दोस्येति तथोक्तेन । अवितिष्ठमान इति अविश्राम्येन । अपि न्विति किन्नु । आदिशुद्धत्वमादित एवासत्त्वपरिशुद्धत्वं सर्वत्रासत्त्वम् । अनेनापि पर्यायेण प्रकारेण । अनन्तपारमितेयम् । कतमेनेत्यत आह । एवं सत्त्वानन्तयेति । सत्वानामुत्पादनिरोधान्तविरहात्सत्त्वानन्ततयेति । एवं चेत्येवमेव । न गणानतिक्रान्तत्वेनेति समुदये धर्मज्ञानक्षान्तिः ॥

अवधारणम् ॥

तस्यां स्थितस्य बुद्धत्वे,

ऽतस्यांऽ प्रज्ञापारमितायां स्थितायां यद्ऽबुद्धत्वेऽवधारणंऽ बुद्ध एव स दृष्टव्य इति स षष्ठः क्षणः । तस्य प्रस्तावना । अथ खलु सेन्द्रका इत्यादिना । इन्द्र शक्रः । ब्रह्मा सहापतिः । प्रजापतयश्चत्वारो लोकपालाः । विशिष्ट धर्मश्रवणप्रहर्षादप्रयत्नजं वचनमुदानं ततुदानयन्ति स्म । उदीरतवन्तः । अहो इत्याश्चर्ये । धर्म इति देशनाधर्मः । पुनः धर्म इति धर्मप्रकाशितो दर्शनमार्गः । तस्यैव धर्मस्य धर्मता प्रकृतिस्तथा गतोत्पादनम् । अत एवाहुः य इत्यादि । प्रादुर्भाव उत्पादोऽनाश्रवलक्षणः सूच्यते । तद्वचनात्किलादौ प्रतीतेः । ततः क्रमेन(ण) स्फुटेन स्फुटतरं स्फुटतमं च प्रतीतेः । देश्यते प्रकाश्यते प्रभाव्यते च । तथागतमित्यादिना तमेव षष्ठं क्षणमाहुः । अद्याग्रेणेति । अद्य प्रभृति धारयिष्यामः । अविरहितो प्राप्तापरिहाणात् । विहरिष्यति संमुखीभावात् । तथागतं तु स्वयमवधारयिष्याम इति यदुक्तं तत्तथागतत्वे नियतमविशेषलाभात् । तल्लाभे च व्याकरणम् । तत आह यदाहमित्यादि । अल्पवयो हि श्रोत्रियो माणवक इत्युच्यते । तस्यामन्त्रणंमाणवक, भविष्यसि बुद्धो भगवान् स्वयमभिसंबोधात् । बुद्धिरतिशयेनास्यास्तीति बुद्धः । तादृशं प्रत्येकबुद्धोपीति । तद्वयवच्छेदार्थं भगवद्ग्रहणम् । षडिवधेन भगार्थेन तस्य योगात् । भगवान् बोधिसत्त्वोपि । तद्वयवच्छेदार्थं बुद्धग्रहणं तस्यानभिसम्बोधात् । यथा धर्मास्तथैव गदनात्तथागतः । गदेः पचाद्यच् । नैरुक्तस्तकारः । अरयः क्लेशास्तान् हतवानिति अर्हन् । सम्यगविपरीतं समस्तं बुद्धमनेनेति सम्यक्संबुद्धः । एतेन (र्स्त्_३२) शास्तृत्वसंपदुक्ता । न ह्यवक्ता विपरीतवक्ता वा
शास्ता भवति । विपरीतवचनं च क्लेशवशादज्ञानाद्वा भवेत् । तच्चोभयमस्य नास्ति यथाक्रममर्हत्वात्सम्यक्सम्बुद्धत्वाच्च् । संसारिणः कथमी[दृशी] शक्तिरिति चेदाह सुगत इति । गतः पुनर्भवात्मुक्तः । सुशब्दः प्रस (श)स्तापुनरावृत्तिनिःशेषार्थः, सुरूपवत्सुनष्टज्वरवत्सुपूर्णघटवच्च । बाह्यशैक्षाशैक्षाणां व्यवच्छेदाय यथाक्रमम् । तत्र लोकोत्तरेण मार्गेण गतत्वात्प्रशस्तं गतः । नैवं बाह्याः । सावधिकत्वेन तन्मोक्षस्यामोक्षत्वात् ।

"पुनरावृत्तिरित्युक्तौ जन्मदोषसमुभ्दवौ ।"

तौ च शैक्षाणाम् । अशैक्षस्तु भगवांस्तस्मादपुनरावृत्त्या गतः । शेषमक्लेशनिर्ज्वरम् ।

"कायवाक्बुद्धिवैगुण्यं मार्गाक्षपटुतापि वा ।"

तदशैक्षाणामपि हीनयानर्हतां यथासम्भवमस्ति । न तु भगवतः । ततो निःशेषगमनात्सुगतः । कथमेकः सुशब्दस्त्रीनर्थानाह? तन्त्रेण न्यायेन । तद्यथा श्वेतो धावति । अलम्बुमाणां यातेति । श्वेतः शुक्लः श्वा इतः श्वेतः । अलम्बुमा नाम ग्रामः । तस्य याता गन्ता बुमा अपि ग्रामः । तस्यालङ्गन्तेति । कथं सुगतः? यतो विद्याचरणसम्पन्नः । विद्या अधिप्रज्ञं शिक्षा, अधिशीलमधिचित्तं च । शिक्षाचरणं विद्या पुरश्चरणत्वात्तयोः । अतो विद्यया चक्षुषेव पश्यन् । इतराभ्यां चरणाभ्यामिव तथा गमनात्सुगतः । तदनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरूक्तः । लोकविदिति लोकस्य विनयनकालाकालादिपरिज्ञानाल्लोकवित् । पुरुषा एव दम्या दमनीया विनेयत्वात् । तेषां सारथिः सम्यग्विनेता । तस्य सदृशः सारथिरस्त्येव । तदन्यः सुगतस्ततोधिकस्तु । नास्तीति अनुत्तरः पुरुषदम्यसारथिः । अनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरुक्तः । अथास्य कर्मणो विषयः । किं दुर्गतिं गता अपि? नेत्याह । शास्ता देवानां च मनुष्याणां चेति । इति समुदये धर्मज्ञानम् ॥

अथ खलु त इत्यादिना सप्तमं क्षणमाहुः । आश्चर्यमाहारिकार्थे । परमाश्चर्यमनुपरिग्राहिकाथे । यावच्छब्दः पर्यन्तार्थः । दानपारमिताया शीलपारमिताया यावत्सर्वज्ञतायाः सर्वाकारज्ञताया इत्यर्थः । आहारिकेत्याकर्षिका । अनुपरिग्राहिकेत्यनुशब्दोऽन्वयार्थः । अन्वयो युक्तिर्न्यायः । अपरिग्रहोनुत्सर्गयोगः । अपरिग्रहानुत्सर्गयोगयोः साहित्यम् । अन्वयेन परिग्राहिका यथा न परिगृण्हाति न चोत्सृजति तथा परिग्राहिकेत्यर्थः । अत्र शास्त्रम्-

(र्स्त्_३३)
अनुग्रहात्यागतादयः ॥

इति । आदानमादिपरिग्रहः । अनुग्रहोऽविकल्पनम् । अयमपरिग्रहार्थः । अत्याग एव अत्यागता । अयमनुत्सर्गार्थः । बोधिसत्त्वाः परिगृण्हन्ति । भगवती तान् परिग्राहयतीति समुदयेऽन्वयज्ञानक्षान्तिः ॥

शक्रेण प्रस्तावकत्वादुपलक्षितः परिवर्तः शक्रपरिवर्तः ॥

आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वितीयः परिवर्तः ॥


३. अप्रमेयगुणधारणपारमितास्तूपसत्कारो नाम तृतीयः ।

ऽमैत्र्यादिऽ इति शास्त्रम् । मैत्री करुणामुदितोपेक्षाश्चत्वार्यप्रमाणानि मैत्र्यादि । तदात्मकं दर्शनमष्टमः क्षण इत्यर्थः । तद्देशना निदानम् । अथ खलु भगवानित्यादिना आमन्त्रयते स्मेत्येतदन्तेन संगीतिकार आह । साक्षीकरणमष्टमे क्षणे हीनयानपतनप्रतिपक्षगौरवातिशयोत्पादनाय । तमेव क्षणम् । भगवानाह । यो हीत्यादिना प्रज्ञापारमितामिति प्रकरणाद्दर्शनक्षणः । प्रज्ञा सैव पारंगतेति पारमिता । कस्य पारम्? हीनयानपतनभूमेः । का चासौ? या चतुर्(र्णां) अप्रमाणात्मकं दर्शनम् । तथाहि तत्प्राप्तो बोधिसत्त्वः सर्वसत्त्वेष्वात्मसमतादर्शी तानशरणान् हित्वा नात्मनः केवलस्य हितमीहते येन हीनयाने निपतेत् । तस्मान्मैत्र्यादिरूपं दर्शनमत्र प्रज्ञापारमिता । सैव चाष्टमः क्षणः । तां यः कश्चिद्ग्रहीष्यति यावत्पर्यवाप्स्यति साक्षात्करणात् । प्रवर्तयिष्यतीति परेभ्यः प्रकाशितायास्तस्यास्तैरुद्ग्रहणात् । यावत्प्रवर्तनात् । न तस्येत्यादिरनुशंस्तः (सः) प्रवर्तयिष्यतीति यावत् । इति समुदये अन्वयज्ञानम् ।

ऽशून्यताव्याप्तिःऽ इति शास्त्रम् । षोडशानां शून्यतानां दर्शनेन या व्याप्तिः सर्वासां दर्शनं स नवमः क्षणः इत्यर्थः । तमाह । न च खल्वित्यादिना । (र्स्त्_३४) इहापि दर्शनक्षणः प्रज्ञापारंगतेति पारमिता । कस्य पारम्? शून्यतानां षोडशानामपि । तासां दर्शनात् । अत्रानुशंसः । आद्वितीयादथ । खलु शब्दात् । अच्छन्नः प्रदेशो अवकाशः । निपन्नः शयितः । भविष्यति प्रबन्धेन प्रवक्ष्यति । रक्षावरणसहिता गुप्तिः । तत्र शस्त्रादिना रक्षा रक्षनियोगादावरणम् । स्वयमुपसंक्रम्य तस्याधिष्ठानात्गुप्तिः । अथवा शरीरस्य सर्वसुखोपसंहरणं रक्षा । बाह्योपक्रमनिवारणमावरणम् । आध्यात्मिकरोगादिनिवारणं गुप्तिः । तेषां संविधानं सम्यक्प्रयोगो वा वा मनसा वा । इति निरोधे धर्मज्ञानक्षान्तिः ॥

ऽबुद्धत्वस्य परिग्रहःऽ इति । बुद्धस्य भावो बुद्धत्वम् । येन बुद्धो भवति तस्य परिग्रहलक्षणः प्रभास्वरसमाधिधारणासम्पत् । अबुद्धकेषु च बुद्धक्षेत्रेषु बुद्धरूपस्यात्मनः संदर्शनम् । तमाह । अथ खलु शक्र इत्यादिना । इमां प्रज्ञापारमितामितिं दर्शनक्षणम् । इमान् गुणानिति लक्षणसम्पदादीन् । इयत इत्यभ्युन्नतान् । दृष्टधार्मिकानिति दृष्टो धर्मः प्राप्तं जन्म । तत्रभवान् । प्रतिलभत इत्युद्देशः । परिगृण्हातीति निर्देशः । इति निरोधे धर्मज्ञानम् ॥

ऽसर्वस्य व्यवदानस्यऽ इत्येकादशः । व्यवदायन्त्यनेनेति व्यवदानम् । दानपारमितादि । तस्य सर्वस्य परिग्रहः । तमाह । किं पुनरित्यादिना पुनरपरमित्यतः प्राक् । इति निरोधे अन्वयज्ञानक्षान्तिः ।

ऽसर्वाधिव्याधिशातनंऽ इति । आधयो व्यसनानि । तीर्थिकैराभिमानिकैश्च सह विग्रहविवादनि(वि)रोधास्तेषां शातनम् । तथा च तच्छतनं यथा तेषां पश्चात्तत इमां श्रुतवतां त्रिभिर्यानैः क्लेशदुर्गतिसंसारारुया व्याधयः क्षीयन्ते । तस्मात्सर्वाधिशातनम् । दर्शनं द्वादशः क्षणः । तमाह पुनरपरमित्यादिना संस्थाप्यन्त इत्येतदन्तेन । धर्ममिति शासनम् । विग्रहीतव्यं ताडनेन । विवदितव्यं कलहेन । विरोधयितव्यं परस्परद्वेषेण । तेऽभिप्राया इति विग्रहाद्यभिप्रायाः । एवं ह्येतभ्दवतीति । एषैव हि धर्मतेत्यर्थः इमामिति द्वादशक्षणलक्षणाम् । [ओषधी] ओषः प्रभावः । स धीयतेऽस्यामिति दधातेः क्विप्प्रत्ययः । जातिरेषा तत ओषधेरजातावित्यण भवति । स्त्रीलिङ्गश्चायं ततः कृदिकारादक्तिङिति दीर्घविकल्पः । आशीः सर्पस्य दंष्ट्रा । तस्यां विषमस्येति आशीविषः सर्पः । जन्तुर्देही । (र्स्त्_३५) प्राणकजात इति तिर्यग्विशेषः । तेजसेति प्रभावेन । बलेनेति बाधकत्वेन । स्थामत इत्यबाध्यत्वेन । बलाधानेनेति तद्योगेन सामर्थ्याधानात् । इति निरोधे अन्वयज्ञानम् ।

ऽनिर्वाणग्राहशान्तत्वंऽ इति । ग्राहोऽभिनिवेशः । एतदाह तत्कस्य हेतोरित्यादिना । प्रज्ञापारमितेति त्रयोदशः क्षणः । इति मार्गे धर्मज्ञानक्षान्तिः ॥

ऽबुद्धेभ्यो रक्षणादिकंऽ इति बुद्धेभ्यो रक्षणम् । आदिशब्दाद्देवादिभ्यः । एतदाह । चत्वारश्चेत्यादिना भविष्यतीत्येतदन्तेन । प्रज्ञापारमि[तामि]ति चतुर्दशक्षणः । इति मार्गे धर्मज्ञानम् ॥

ऽअप्राणिवधमारभ्य सर्वाकारज्ञता नये ।
स्वयं स्थितस्य सत्त्वानां स्थापनंऽ

इति प्राणातिपातविरतिरप्राणिवधः । तमादिं कृत्वा यत्पारमितादौ यावत्सर्वाकारज्ञतायां स्थितस्य तत्रैव यत्परेषां स्थापनं स पञ्चदशक्षणः । एतदाह पुनरपरमित्यादिना । प्रज्ञापारमितादीनां परेभ्य उपदेशो वचनम् । आदेयं ग्राह्यम् । तदस्य स्वयमपि तेषु स्थितत्वादित्यादेयवचनः । मृदु प्रियं वचनमस्येति मृदुवचनः । दानादीनां तेषु च स्थितानां वर्णभाषणात् । मितवचनो हितस्यैव वचनात् । अप्रकीर्णवचनो हितस्याप्यहितमिश्रस्यावचनात् । इति मार्गे अन्वयज्ञानक्षान्तिः ॥

ऽपरिणामनंऽऽदानादीनां च सम्बोधौऽ इति षोडश क्षण । तमाह । न च क्रोधाभिभूत इत्या[र]भ्य स्वाध्यास्यतीत्येतदन्तेन । परिदमयति क्रोधासंशमनात् । परिणामयति उन्नतिलक्षणस्य मानस्य क्षयनयनात् । उपनाहो वैरम् । व्यापादः सत्त्वविद्वेषः । अनुशयो वैरानुबन्धः । स्मृतिर्मैत्री चेति । तयोः स्मृतिमाह । तस्यैवमित्यादिना । तेनेति व्यापादेन । परिभेदो विकारः । धक्ष्यत इति दहेः प्रयोगः । एतेन सपरिवायोर्द्वेषमानयोः प्रहाणमुक्तम् । द्वेषेण हि परेषामनुग्रहं न कुर्वीत । तस्मात्तावुभौ प्रहाय दानादीनामात्मनः कुशलानामनुत्तरायां सम्यक्संबोधौ त्रिभिर्यानैः सर्वसत्त्वपरिनिर्वापणाय परिणामेन परं दर्शनं षोडश क्षण इत्युक्तं भवति । इत्युक्तो बोधिसत्त्वानां दर्शनमार्गः ॥

(र्स्त्_३६)
लोकोत्तर एव दर्श[न]मार्गो भावनामार्गस्तु द्विधा लौकिको लोकोत्तरश्च । तावुभौ यथाक्रमं पश्चाद्वक्तव्यौ । आदित एव लोकोत्तरस्य भावनामार्गस्य कारित्रं ग्रन्थलाभवादभिधेयम् । तत्र शास्त्रम्-

[४७] सर्वतो दमनं नामः सर्वतः क्लेशनिर्णयः ।
उपक्रमाविषह्यत्वं बोधिराधारपूयता ॥ २-१७ ॥

नमनंऽनामःऽ सर्वत इति वर्तते ।ऽसर्वतःऽ इति परिशुब्दार्थः । परिदमनं परिणमनं चेत्यर्थः । ते उभे यथाक्रमं द्वेषमानयोः परिक्षयात् । ते द्वे । एवमुक्ते शक्र इत्यादिना महासत्त्वानामित्येतदन्तेनाह । एषु षट्सु कारित्रेषु प्रज्ञापारमिताशब्देन बोधिसत्त्वानां भावनामार्ग उच्यते । यथेयमित्यर्थः । इति परिदमनपरिणामनकारित्रे ।

ऽसर्वतः क्लेशनिर्जयःऽ इति । स्वपरक्लेशानामत्यन्तजयात् । तमाह भगवानित्यादिना नैतत्स्थानं विद्यत इत्येतदन्तेन । जीवितान्तरायो वेति । तत्रैव शस्त्रसम्पाते परोपक्रमेण वेति । मृगयादिमध्यगतोपि परस्यैष उपक्रमः । परेषां तेन । स्वपरक्लेशार्जनया भगवत्या तेन निर्जितास्तस्यैष निष्यन्द इति भावः । इति क्लेशनिर्जयाकारित्रम् ॥

जीवितान्तरायाय कृताः परैरुपक्रमास्तस्मिन्न प्रभवन्तीतिऽउपक्रमाविषह्यत्वम्" । तदाह । सचेदित्यादिना नोभयव्याबाधाय चेतयत इत्येतदन्तेन । तत्रेति शरीरे । तत्कस्य हेतोरिति तदपतनं कुतः? उत्तरं महाविद्येत्यादिना । सर्वकालं सर्वत्र देशे सर्वविपक्षेषु वाप्रतिहतप्रभावत्वाद्यथाक्रमं महती । अप्रमाणा अपरिमाणा च । ततोऽधिकाभावादनुत्तरा । समाभावादसमा । समेन समः समसमः । किञ्चिदूनजाती[य]त्वात्समसमा । तस्या अप्यभावादसमसमा । आत्मनो आबाधः । उपघातः । एवं परेषामुभयस्य च तदर्थ न चेतयते । न चित्तं व्यापारयति । तस्मात्परोपक्रमैरविषह्यत्वमस्याः कर्मेति । उपक्रमाविषह्यत्वकारित्रम् ॥

ऽबोधिःऽ इति । अनुत्तरा सम्यक्संबोधिः । पञ्चमं कारित्रम् । तदाह । अचैतन्येषु सर्वज्ञज्ञानेन । व्यवलोकयिष्यतीति । विनयनाद्यर्थम् । तत्कस्य हेतोरिति तत्सर्वज्ञज्ञानं कुतः? न तक्तिञ्चिदस्ति यन्न प्राप्तमिति । सर्वे हि बुद्धधर्माः प्राप्तव्याः । ते च प्रत्यात्मवेद्याः । ततो यद्यनेन प्राप्ता न स्युर्नायं सर्वविभ्दवेत् । तस्मान्न तत्किञ्चिदस्ति यदस्य न प्राप्तं स्यात् । ततः प्राप्यमितरच्च सर्वं जानातीति न तत्किञ्चिदस्ति यदस्य न ज्ञातं स्यात् । प्रकर्षगतं च साक्षात्कारिज्ञानमिह गृह्यते । तत आह । न (र्स्त्_३७) किञ्चिदस्ति यदसाक्षात्कृतं स्यात्? इति वाशब्दाः परस्परापेक्षया विकल्पार्थाः । तस्मादसौ सर्वज्ञः । तस्य ज्ञानं सर्वज्ञज्ञानम् । सैव सम्यक्सम्बोधिः । तथा हि सम्यग्ज्ञानं सम्बोधिः । सम्यगिति साक्षात् । सैव बोधिविवक्षातः सर्वोत्कर्षगतः सम्यक्सम्बोधिः सर्वज्ञानं चेति । व्यवहारतो भेदो न वस्तुतः । अभिसंभोत्स्यत इति प्रतिलप्स्यते । इति सम्बोधिकारित्रम् ॥

ऽआधारपूज्यताऽ इति । द्विविध आधारः । एक पुस्तकगतायाः तस्या अपर उद्गृह्यमानाया यावदुद्दिश्यमानायाः तस्य पूज्यता तद्वदेव द्विविधा । तत्र गतानां सत्त्वानां परैरविहेठनीयता । ते द्वे यथाक्रमं पुनरपरबाह्यद्वयेन परिगृण्हातीत्येतदन्तेनाह । अन्तश इति परमापचये । न सत्करिष्यत इति स्थापनादूर्ध्वम् । अवतारो रन्ध्रमवकाशः । स्थापयित्वेति बहिष्कृत्य । पूर्वजन्मनोऽपरपर्यायवेदनीयं नियतविपाकमकुशलं पूर्वकर्म । तस्य विपाकोऽनिष्टफलम् । इममिति यथोक्तम् । तद्यथेत्यादिना दृष्टान्तः । एवमेवेत्यादिना दार्ष्टान्तिकः । बोधिमण्डगत इति । मण्डः सारः । बोध्यर्थे मण्डो बोधिमण्डः । तस्मिन्निषध बोधेरधिगमात् । कस्य सारः? काञ्चनमय्याः पृथिव्याः । तथाहि विवर्ति(र्त) स्यादौ । काञ्चनमय्यां पृथिव्यामभिनिर्वृत्तायां चतुरत्नमये मेरौ सप्तसु काञ्चनपर्वतेषु सप्तसु सितासु बाह्यमहोदधौ, अयमेव चक्रवाते(व्ठे) अभिनिर्वृत्ते, काञ्चनमय्याः पृथिव्याः सारो वज्रमयः समभ्युद्गतः । यो मृन्म (ण्म)येषु चतुर्षु द्वीपेष्वष्टासु चान्तरद्वीपेष्वभिनिर्वृत्तेषु जम्बूद्वीपस्य नाभिः संवृत्तः स च वज्रमयत्वाद्वोधासनत्वाच्च वज्रासनमित्युच्यते । स बोधिमण्डः । तं गताः प्राप्ताः । समन्ते भवः सामन्तः । वेष्टनपरिसामन्तः परिवेष्टः । अभ्यन्तरं मध्यम् । बोधाय वृक्षो बोधिवृक्षः । तन्मूले निषध बोधेरधिगमात् । तस्य मूलं मूलाभिनिवेशपरिच्छिन्नः प्रदेशः । तद्गतः । वाशब्दाः परस्परापेक्षया विकल्पार्थाः । विहेठयितुमिति विहिंसितुम् । व्यापादयितुमिति निहंतुम् । आवेशयितुमिति भूतपिशाचादिप्रवेशनात् । भयादिप्रतिपक्षत्वात्
। अभयमवैरमनुत्त्रासं महामैत्रीनामेकमप्रमाणम् । प्रभावयन्तीति निष्पादयन्ति प्रकाशयन्तीति ससैन्यस्य मारस्य विघ्नतोपि क्रमणात् । चैत्यभूत इति । चायृ पूजायाम् । चाय्यते देवता अस्मिन्निति चैत्यम् । कृत्यल्युटो बहुलमित्यधिकरणे ण्यत् । आय एद्भावश्च स्तूप इत्यर्थः । तद्भूतस्तत्तादृशः । निर्माल्यादेरकर्षार्हत्वात् । अपचायनीयः । यतश्चैत्यभूतस्तमन्ये न हिंसन्ति । यतः शरणादिस्ततस्तत्रगता अवध्या भवन्ति । तत्र सन्निहितं त्रायत इति त्राणम् । अभ्युपगच्छतो भयं शृणातीति शरणम् । अभया लीयन्ते अस्मिन्निति लयनम् । परमयनं परायणं परा गतिः । इति षष्ठमाधारपूज्यताकारित्रम ॥

(र्स्त्_३८)
लौकिको भावनामार्गः । आदौ वक्तव्य आद्यत्वात् । स च त्रिविधः । अधिमुक्तिमनस्कारः परिणामनामनस्कारोऽनुमोदनामनस्कारश्च । तत्राधिमुक्तिमनस्कारमधिकृत्य शास्त्रम्-

[४८] अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका ।
परार्थिकैवेति

स्वस्यैव स्वपरयोः परस्यैव चार्थः प्रधानमाशयतो यस्यां सा यथाक्रमंऽस्वार्थाऽऽस्वपरार्थाऽ परार्थैवऽ च । ततः शास्त्रम्-

एषा च प्रत्येकं त्रिविधेष्यते ॥ २-२८ ॥

[४९] मृद्वी मध्याधिमात्रा च

ऽएषाऽ इति स्वार्थादिः ।ऽत्रिविधाऽ मृद्वयादिभेदेन । ततः शास्त्रम्-

मृदुमध्यादि भेदतः ।
सा पुनस्त्रिविधा

मृद्वयादीनां प्रत्येकं मृद्वयादिभेदात् । तद्यथा स्वार्थादिमृदुमृद्वी मृदुमध्यामृद्वधिमात्रा । मध्यमृद्वी मध्यमध्या मध्याधिमात्रा । अधिमात्रमृद्वी अधिमात्रमध्या अधिमात्राधिमात्रा च । एवं स्वपरार्था । एवं परार्था च । तत शास्त्रम्-

इत्येवं सप्तविंशतिधा मता ॥ २-२९ ॥

ऽइत्येवंऽ त्रीणि वाराणि त्रिभिर्भेदात्ऽसप्तविंशतिधाऽ इष्यते ।

अधिमुक्तिः श्रद्धाछन्दौ संप्रत्ययाभिलाषलक्षणौ क्वाधिमुक्ति? सूत्रसूत्रार्थरूपायां भगवत्यां तच्चर्यायां च लेखनादिकायां तत्पूजायां च पुष्पादिभिर्बहुविधात्ताभिः । चर्यापूजोभ्दवे च पुण्ये यथा सूत्रम् । तत्र प्रथमा । एवमुक्ते शक्र इत्यादिना यः प्रज्ञापारमितायै पूजां करिष्यतीत्येतदन्तेन । लिखित्वेति स्वयम् । पुस्तकगतां वा कृत्वेति परेण । दिव्याभिरिति विशिष्टाभिः । जवान्क(?)पुष्पादिवर्जनात् । पुष्पाणि मुक्तकुसुमानि । माल्यानि स्रजः । गन्धा गन्धदारूणि । विलेपनानि स (त)माल भवानि । चूर्णा अगरुचन्दनादीनाम् । चीवराणि वस्त्राणि । पूजाभिरिति निवेद्यादिभिः । बहुविधाभिरिति भक्ष्यलेह्यादिभेदात् । पुष्पादिभिः सत्कुर्यादिति सम्बन्धः । पूजयेदित्यर्थः । गुरुकुर्यादिति गौरवेण । मानयेदिति (र्स्त्_३९) प्रेम्ना(म्णा) । पूजयेदिति प्रणामाञ्जलिस्तुत्यादिभिः । अर्चयेदिति दक्षिणावर्तैः । अपचायेदिति निर्माल्याद्यपनयनैः । शरीराणीति धातून । स्तूपेष्विति चेत्येषु प्रतिष्ठापयेदवस्थापयेत् । परिगृण्हीयात्करण्डादीन् कृत्वा । धारयेद्वा करण्डादिवहनात् । तांश्चेति स्तूपकरण्डादीन् । योयं सर्वज्ञतात्मभाव इति सर्वज्ञतैवात्मभावः । स निर्वर्तितः । कतमस्यां प्रतिपदि शिक्षमाणेन यावत्सम्यक्सम्बुद्धेन । का पुनः सर्वज्ञतेत्याह । अनुत्तरासम्यक्सम्बोधिः सर्वज्ञतेति । अभिनिर्वर्तितार्थः । क इत्याह । अस्याप्यर्थमाह । प्रतिलब्धेति । इहैवेति अस्यामेव । आत्मभावश्चासौ आत्मप्रज्ञप्तेः शरीरं च रूपकायस्तथागतो गच्छति । किं गच्छति तथागत इति । संख्यां गणनाम् । प्रज्ञापारमिता च उपायकौशल्यं च ताभ्यां निर्जातः सन् । प्रभावनान्ताश्चत्वारो निर्देशाः । लोके प्रतीतिः प्रभावना । अयमेवैति भगवतीपूजकः । तत्र इति तथागतशरीरपूजकात् । शेषं सुबोधम् । इति स्वार्थाधिमुक्तिः
मृदुमृद्वी ॥

एवमुक्ते शक्र इत्यादिना हीनप्रज्ञैरित्येतदन्तेन द्वीतिया । लिखिष्यन्ति यावत्पर्यवाप्स्यन्तीति स्वार्थः । तत ऊर्ध्व परार्थः । तत्र प्रवर्तयिष्यन्तीत्युद्देशः । त्रिभिर्निर्देशः । देशयिष्यन्तीत्यर्थतः । उपदेक्ष्यन्तीतित्यवदिष्यन्ति । उद्देक्ष्यन्तीति ग्रन्थतः । स्वाध्यास्यन्तीति स्वाध्यान(य)म(मि)त्यभ्यासः । महार्थिका महाफला । सा कृता सती एवं भविष्यतीति महाफलैव भविष्यतीति । न ज्ञास्यन्तीति न श्रोष्यन्ति शब्दतः । न वेत्स्यन्तीति पुस्तकं न लप्स्यन्ते । न वेदयिष्यन्तीति । वेदनं वेदः अर्थज्ञानम् । तत्करोतीतिणिच् । अर्थं न ज्ञास्यन्तीत्यर्थः । उतेति प्रकारान्तरम् । अवेत्येति लोकोत्तरेण ज्ञानेन सत्यान् ज्ञात्वा । प्रसादः चित्तगतो धर्मः । येन चित्तमत्यन्तमकलुषीक्रियते । उदकमिव दकप्रसादेन मणिना । श्रोतस आपत्तिः सैव फलम् । सकृदागामिनोऽनागामिनश्च फलम् । अर्हतो भावोऽर्हत्वं चतुर्थफलम् । आत्मानमेकं प्रति बोधिः प्रत्येकबोधिः । उपवृंहयित्वेति ल्यप्कस्मान्न भवति? उपबृहंनमुपबृंहः तं कृत्वेत्येके । तथापि प्राप्नोति । चुरादौ संग्रामयतिपाठस्य नियमार्थत्वात्ऽ संग्रामयतेरेव सोपसर्गात्नान्यस्मादिति । तस्मात्प्रादिप्रतिरूपको यन्न प्रादिः प्रदत्तादिवत् । अविनिवर्तनाय हिता अविनिवर्तनीया । दुरभिसम्भेवेति दुर्लभा । वीर्यं कुशले कर्मण्युत्साहः । कुत्सितकर्मणि सक्तः कुसीदः । सीदतेः सप्रत्ययोऽरविन्दवत् । सत्त्वं धैर्यः । चित्तं समाधिः । संज्ञा स्मृतिः । अधिमुक्तिः श्रद्धा । तत्त्वप्रविचयः प्रज्ञा । श्रद्धादिन्द्रियाणां दौर्बल्यं हीनवीर्यादिपदैरुच्यते । तत्र हीनवीर्यः कुसीदैरिति विर्येन्द्रियस्य हीनसत्त्वैः । हीनचित्तैरिति समाधीन्द्रियस्य । हीनसंज्ञैरिति स्मृतीन्द्रियस्य । हीनाधिमुक्तिकैरिति (र्स्त्_४०) श्रद्धेन्द्रियस्य । हीनप्रज्ञैरिति
प्रज्ञेन्द्रियस्य । भगवत्या दुरभिसम्भवत्वज्ञानं सोपत्तिकं चर्यातिरेकः । पुण्यातिरेक ऊह्यः । शेषं पूर्ववत् । इति स्वार्थाधिमुक्तिर्मृदुमध्या ॥

तस्मात्तर्हीत्यादिना प्रतिसर्तव्यान्तेन तृतीया । अभीक्ष्णं श्रवणादि परिप्रश्नश्च संशयच्द्देदार्थः । प्रतिसर्तव्यतायाश्च सोपत्तिकं ज्ञानमन्ते चर्यातिरेक ऊह्यः । शेषं पूर्ववत् । इति स्वार्थाधिमुक्तिर्मृद्वधिमात्रा ॥

तस्मात्तर्हीत्यादिना द्वितीयप्रसवतिपर्यन्तेन चतुर्थी । सप्तरत्नानि तद्यथा सुवर्ण रूप्यं वैडूर्य मुसारगल्वम् । अश्मगर्भः लोहितिका मुक्ता कर्केतनं च । तन्निदानमिति तद्धेतुकं भगवत्यां श्रद्धधिमोक्षप्रसादाः । चित्तोत्पादोऽध्याशयतः । श्रवणादिकमर्थविवरणं मनसा अन्ववेक्षा परिमीमांसा च । पुस्तकगतां वा कृत्वा सद्धर्मचिरस्थिति हेतोर्नेत्र्य वैकल्याय च । अवस्थापनं चर्यातिरेकः पुण्यातिरेकः । यथापाठं शेष पुर्ववत् । इति स्वार्थधिमक्तिर्मध्यमृद्वी ॥

तिष्ठन्तु खल्वित्यादिना द्वितीय प्रसवतिपर्यन्तेन पञ्चमी । एष एव द्वितीयो मूरजफलेन महता जम्बुवृक्षेण लक्षितत्वात्जम्बूद्वीपः । ततो निदानमुत्पत्तिरस्येति तथोक्तम् । शेषं सुबोधम् । इतः प्रभृति यत्रानुशंसः पठ्यते न चर्यातिरेकस्तत्र यद्यथोक्तानुशंस श्रद्धादिकं स चर्यातिरेकः । इति स्वार्थाधिमुक्तिर्मध्यमध्या ॥

तिष्ठन्त्वित्यादिना द्वितीयप्रसवत्यन्तेन षष्ठी । चत्वारो महाद्वीपा आस्मिन्निति चातुर्महाद्वीपः । स्वार्थे अण । लोकधारणात्लोकधातौ । शेषं तथैव । इति स्वार्थाधिमुक्तिर्मध्याधिमात्रा ॥

तिष्ठन्त्वित्यादि द्वितीयप्रसवतिपर्यन्ता सप्तमी । चतुर्द्वीपकानां सहस्रं परिमाणमस्येति साहस्रः । स एव परिपुर्णत्वेन चूडायोगात्चूडिकः । इति स्वार्थाधिमुक्तिरधिमात्रमृद्वी ॥

तथोभयान्ता अष्टमी । द्वीःसाहस्रं परिमाणमस्येति द्विसाहस्रः साहस्रसहस्रमित्यर्थः । स च मध्यमः साहस्रमहासाहस्रयोर्मध्यत्वात् । इति स्वार्थधिमुक्तिरधिमात्रमध्या ॥

तथैवान्तौ नवम्याम् । त्रिःसहस्रं परिमाणमस्येति त्रिसाहस्रम् । (र्स्त्_४१) द्वि(त्रि)साहस्राणां सहस्रमित्यर्थः । स एव महासाहस्रः । इति स्वार्थाधिमुक्तिरधिमात्राधिमात्रा ॥

तिष्ठन्त्वादिर्भवतिपर्यन्ता दशमी । त्रिसाहस्र एव लोकधातुः । किन्तु तस्मिन् सर्वसत्त्वा मनुष्या भवेयुः । न पूर्वं न चरममस्मिन्नित्यपूर्वाचरमं सहेत्यर्थः । अतो ज्ञायत इह सत्त्वा एव सत्त्वाः पूर्वत्र मनुष्या एवेति । परिकल्पः कल्पना । यावज्जीवं चैत्यपूजा सर्वासु । इह तु कल्पं वा कल्पावशेषं वा । अस्यां च सर्वगीतवाद्यैः सर्वपुष्पादिभिश्चैत्यपूजातिरेकः । भगवतीपूजापुण्यातिरेकोपपत्तिज्ञानमन्ते । सोऽस्यां चर्यापूजातिरेक । इति परार्थधिमुक्तिर्मृदुमृद्वी ॥

तिष्ठन्त्वित्यादिना प्रज्ञापारमिता महासमुद्रादित्येतदन्तेनैकादशी । गङ्गानदीवालिकोपमेषु त्रिसाहस्रेष्विति स्तुपसत्कारे विशेषः । शेषं दशमीवत् । भगवतीचर्यापूजासु सोपपत्तिकमनुशंसविस्तर परिज्ञानमतिरेकः । इदृशत्वेन चित्तातिक्रमादचिन्त्या सदृशाभावादतुल्यम् । पुण्याभिसंस्कारः पुण्यकर्म । शततमीमपीत्यादि । आदावन्ते च कलां नोपैतीति वचनं मध्येपि सम्बन्धार्थम् । अत्र च भागः कला । नोपैतीति नार्घति । न लभत इत्यर्थः । न केवलं कलां नोपैति तुलनार्थम् । किं तर्हि संख्यामपि कलामपि गणनामपि । अपिशब्दैः परस्परापेक्षया समुच्चयः । उक्तं यथा कलां नोपैति । कथं संख्या? संख्याभिरेकै [र] प्यतुलनात् । पूर्वकस्य पुण्यस्य शतमपि सहस्रमपि यावत्कोटीशतसहस्रमपि पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति । गणना गणितं प्रत्युत्पन्नादिः । तां कथं नोपैति? तदतिरेकेप्यतुलनात् । पूर्वकस्य पुण्यस्य पञ्चगुणापि विंशतिर्दशगुणमपि स (श)तं यावल्लक्षगुणापि कोटी पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति । उपमामप्यौपम्यपि उपनिशामपि न क्षम [त] इति परेण सम्बन्धः । उपमितिरूपमा । सैव औपम्यम् ।ऽस्वार्थे प्यञ् । उपनिशानमुपनिशा । तत्राभिन्नमुपमानमुपमा संख्यातमुपमानमौपम्यम् । गणितमुपमानमुपनिशा । तदपि त्रयं तुलनाय न क्षमते । तद्यथा कलाप्रसृतोपमेनापि पूर्वकेण न शक्यमुत्तरं तुलयितुम् । दशप्रसृतोपमेनापीति । उपनिषदमपि न क्षमत इति । एवमत्यन्ततुलनाभावात्तुलनार्थया उपनिषत्समीपनिषदनं पार्श्वतोऽवस्थितिः, तामपि नार्हतीत्यर्थः । मार्षेति आमन्त्रणम् । आर्येत्यर्थः । समुदाचारा अभिप्रायाः । समन्वाहारः स्मरणम् । (र्स्त्_४२) स्वाध्यायो मनो जापः । महाविद्यादिपद त्रयं व्याख्यातम
। अतोऽधिकाया विद्याया अभावान्निरुत्तरा । अतोधिकस्य धर्मस्याभावादनुत्तरा । तुल्यविद्यान्तराभावा दसमा । असमैस्तथागतैः समत्वादसमसमा । प्रभाव्यन्त इति प्रकाशन्ते । सप्तभिर्बोध्यङ्गैः सम्प्रयुक्तानि तं निश्रयत्वात् । तैः परिगृहीता अधिष्ठिताः । बुद्धानां ज्ञानं स्वयं भावात्स्वयम्भू । चित्तातिक्रमादचिन्त्यम् । पूर्वश्रुतेनेति पूर्वश्रुतोभ्दवेन । औषधीतार इति औषध्यश्च ताराश्च । अवभासयन्तीत्यवभासं कुर्वन्ति । धर्मो निर्वाणं सर्वधर्मोत्कृष्टत्वात् । स एव समः यानत्रयस्य धारणत्वात् । स एव स (श)मः क्लेशदुःखोपसमत्वात् । तस्मै चर्या । कुशलं सुचरितं तस्य चर्या । विषमो मृत्युहेतुः । तस्यापरिहारो विषमापरिहारः । अयमुद्देशः । शेषो निर्देशः । दण्ड उपवासनादिः । परिगृहीतत्वं प्रत्युपस्थितेति । तत्स्वभावेन तथाभावात् । व्याडाः चण्डमृगाः । सरीसृपाः सर्पाः कुटिलं गमनात् । तेषां कान्तारः । स्थापयित्वेत्यादि यत्पूर्वकर्मविपाकेन तं बहिष्कृत्य । समन्वाहारो मनसिकरणम् । प्रतिहतचित्ता इति सद्वेषचिताः । विचक्षुः विमनाः । बलकायो बलसमूहः । तस्य चत्वार्यङ्गानि गजवाजिपत्तिरथाः । व्यूहः सन्निपातः । बिम्बिसारो मगधाधिपः । प्रसेनजित्स्रावस्तीपतिः । शाक्याः शाक्यकुलजाः क्षत्रियाः । लिच्छवयो वैशालकाः । प्रत्यु[दा]वृत्तो निवृत्तः । विहायसान्तरीक्षगता इति आकाशेनाकाशङ्गताः । चिरस्येति चिरेण । उपावृत्तेति पुनरायाता । अवरकेणेति अल्पकेन । यथा प्रज्ञापारमिता तथाभावं तथात्वम् । प्रज्ञापारमितैव महासमुद्रः । इति स्वपरार्थाधिमुक्तिः मृदुमध्या ॥

अथ खल्वित्यादिना द्वितीय परिणायिकान्तेन द्वादशी । षट्पारमितानायिकत्वादिज्ञानं सोपत्तिकश्चर्यातिरेकः पुण्यातिरेक उक्तः । शेषं पूर्ववत् । वर्णः स्तोत्रं गुणा वा । पूर्वङ्गमेति अग्रेश्वरी । नायिकेति संग्राहिका । परिणायिकेति संवर्धिका । प्रज्ञापारमिता हि स्वयेमेव परमत्वात्पारमिता । इतरास्तयैव सर्वज्ञतायां परिणामितत्वेन । शेषं सुबोधम् । इति स्वपरार्थधिमुक्तिर्मृद्वधिमात्रा ।

अथ खल्वित्यादिना गुणान् वदामीत्येतदन्तेन त्रयोदशी । योप्येनां पुस्तकगतां सद्धर्मचिरस्थितिहेतोः स्थापयित्वा पूजयेत् । तस्यापि सर्व एतेऽनुशंसा इति ज्ञानमत्र चर्यधिक्यम् । इति स्वपरार्थाधिमुक्तिर्मध्यमृद्वी ।

(र्स्त्_४३)
एवमुक्त इत्यादिर्द्वितीयपुनरपरात्प्राक्चतुर्दशी । र्यातिरेको यथाभूतम् । इति स्वपरार्थाधिमुक्तिर्मध्यमध्या ।

पुनरपरमित्यादिना यत्र खलु पुनरित्यतः प्राक्पञ्चदशी । प्रत्यनुयोगः प्रश्नः । इति स्वपरार्थाधिमुक्तिर्मध्याधिमात्रा ॥

यत्र खल्वित्यादिना एवमुक्त इत्यतः प्राक्षोडशी । सर्वदेवोपसंक्रमणश्रद्धा तेभ्यश्च धर्मदानचर्यातिरेकः । इति स्वपरार्थाधिमुक्तिरधिमात्रमृद्वी ॥

एवमुक्त इत्यादिना दृष्टधार्मिकान् गुणान् परिगृण्हातीत्येतदन्तेन सप्तदशी । देवाद्यागमनार्चनज्ञानात्प्रहर्षो भगवतीप्रभावेन श्रद्धादिकं चर्यातिरेकः । संजानीत इति संलक्षयति । निष्ठेति निश्चयः । गन्तव्येति कर्तव्या । अमानुषं सत्त्वमिति मनुष्येषु भवो मानुषः । न तथा अमानुषः । अशुच्यभावात्चौक्षः । पुष्पादियोगात्शुचिः । अपक्रमणमपमरणम् । क्लमथः पीडा । उदारो महान् । प्रतिभोत्स्यत इति बुध्यतेः प्रयोगः । गृद्धिः अभिलाषः । संज्ञा स्मृति । इति स्वपरार्थाधिमुक्तिरधिमात्रमध्या ॥

पुनरपरमित्यादिना आपरिवर्तसमाप्तेरष्टादशी । चर्यातिरेको यथासूत्रम् । इति स्वपरार्थाधिमुक्तिरधिमात्राधिमात्रा ॥

अप्रमेयेत्यादि । अत्र स्तूपश्चैत्यम् । पारमिता प्रज्ञापारमिता । धारणं द्विविधम् । पुस्तकगतां कृत्वा यदस्याः सद्धर्मचिरस्थितये बहिःस्थापनम् । यच्चोद्ग्रहणधारणादिभिरध्यात्ममेव स्थापनम् ॥

अप्रमेयगुणधारणं यस्याः सा तथोक्ता । तथोक्ता च सा परामिता च सा च स्तूपश्चेति द्वन्द्वः । तयोः सत्कारः पुष्पादिभिः पूजा । तदभिधायी परिवर्तोऽप्रमेयगुणधारणस्तूपसत्कारपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां तृतीयः परिवर्तः ॥


(र्स्त्_४४)
४. गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः ।

अधिमुक्तयोऽधिकृताः । तत्र नव स्वार्था नवैव च स्वपरार्था उक्ताः । अस्मिंस्तु परिवर्ते नवैव परार्था वक्तव्याः । तत्रादौ तथागतशरीरेष्वित्येतदन्तेन ऊनविंशतितमी । प्रज्ञापारमितैव धर्मकायत्वादत्यन्तपूज्या । तथा रूपकायः सत्यकायत्वादित्येतस्मिन्नर्थे यौ श्रद्धाप्रसादौ सामर्थ्यगम्यश्च मात्रातिरेकः स इह चर्यातिरेकः । तथागतानां शरीराणि धातवः । करणे षष्ठी । तैः परिपूर्णः । किं व्याप्तिमात्रेण? नेत्याह । चूडिकाबद्ध इति । दीयेत इति उपन्यस्येत । एकतरेण प्रवार्यमाण इति । अनयोरेकं गृहाणेति निमन्त्र्यमानः । चित्रीकारो गौरवातिशयः । गुरुतरा हि भगवती तेभ्यः । एतद्धि शरीरमिति । या प्रज्ञापारमिता । भूतार्थस्तथ्यार्थः । तद्योगात्भूतार्थिकम् । सीदतीति सत् । अनित्यः । सच्चासौ कायश्चेति सत्कायो रूपकायः । धर्मकायपरिनिष्पत्तित इति । अत्रार्यमार्गो धर्मः । स च प्रकर्ष गतः प्रज्ञापारमितैव । नानित्यः प्रवाहनित्यत्वात् । भूतकोटिप्रभावित इति । भूतानि तत्त्वानि तेषां कोटिरग्रम् । ततोऽधिकस्य तत्त्वस्याभावात् । तस्यामेव प्रभावितो व्यहृतस्तादात्म्यात् । कतमः काय इत्याह । यदुतेत्यादि । तथतामात्रपरमार्थं तद्दर्शनी प्रज्ञापारमिता न ततो भिद्यत इति भावः । तत्किं तथागतधातुष्वगौरवमेव? नेत्याह । न खल्वित्यादि सुबोधम् । इति परार्थाधिमुक्तिर्मृदुमृद्वी ॥

अपि त्वित्यादिना तिष्ठतु खल्वित्यतः प्राग्विंशतितमी । अपितुशब्दो विशेषार्थः । यद्यपि तेषु मे गौरवं तथापीत्यर्थः । पुनःशब्दस्तु पूर्वमपि विशेषयोक्तत्वात् । निर्जातानीति विशेषणत्वेपि हेतुत्वं गम्यते निर्जातत्वादित्यर्थः । तद्यथापीत्यादिना दृष्टान्तः देवसभाधिकरणत्वात्देवसभा महती शाला यस्यां शक्रस्त्रयस्त्रिंशेभ्यो धर्म देशयति । अत एव सा सुधर्मेत्युच्यते । [अ] स्य च सुदर्शनस्य देवनगरस्य दक्षिणपश्चिमदिग्भाग इति । ईषो (शो) महापुरुषः । तस्याख्या प्रतिभासो रूचिः । महती शाखा अस्येति महेशाख्यः । महान्मना इत्यर्थः । स चेह ज्ञानात्मा सम्यक्संबुद्धः । तस्य हेतुप्रत्ययभूतो हेतुस्वभावो प्रत्ययस्वभावो च । अत एवाह । तथागतस्येत्यादि । तत्र सर्वज्ञज्ञानं शक्रवत् । तथागतधातवो नास्य हेतुप्रत्ययभूताः । (र्स्त्_४५) शक्रस्य तदासनवत् । पूर्वत्र कायस्याधारभूतो रूपकाय एवोक्तः । इह तु महेशाख्यस्य ज्ञानकायस्यासनस्थानीयः । इत्यस्मिन्नर्थे यौ श्रद्धाप्रसादौ स चर्यातिरेकः । इति परार्थाधिमुक्तिर्मृदुमध्या ॥

तिष्ठत्वित्यादिना तथागतशरीरेष्वित्येतदन्तेन एकविंशतितमी । इहोक्तभगवतीमाहात्म्ये यौ श्रद्धाप्रसादौ स एव चर्यातिरेकः । इति परार्थाधिमुक्तिर्मृद्ववधिमात्रा ॥

अपि त्वादि तथागतशरीरान्तात्द्वाविंशतितमी । तथागतो हि सर्वलोका (के) भ्युद्गतत्वात्पूज्यतरः पूज्यतमः स च सर्वज्ञज्ञानम् । ततो यदि धातवस्तदाधारत्वात्पूज्यास्तदा तज्जननी ततोपि पूज्यतमा का कथा धातूनामित्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः । इति परार्थाधिमुक्तिर्मध्यमृद्वी ॥

अपि त्वित्यादिना भाजनभूतान्यभूवन्नित्येतदन्तेन त्रयोविंशतितमी । प्रज्ञापारमितायाः सर्वज्ञज्ञानस्य च गुणा इहोक्तमणिरत्नानुसारेण वेदितव्याः । यथा चोद्धृतेपि तस्मिं मणिरत्नकरण्डकः स्पृहणीयो भवति । एवं बुद्धस्तन्मात्रो गुणैः परिनिर्वृतेपि भगवति धातवः पूज्या भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः । इति परार्थाधिमुक्तिर्मध्यमध्या ॥

यथा च भगवा(व)नित्यादिना तथागतशरीरेष्वित्येतदन्तेन चतुर्विशतितमी । यथा प्रज्ञापारमितानिर्जातत्वाद्देशनाधर्मः परैरपि निर्देश्यमानः पूज्यो भवति । राजपुरुषश्च राजानुभावादकुतोभयः सर्वत्र पूज्यः । एवं प्रज्ञापारमितानिर्जातत्वात्तदनुभावाच्च धातवः पूज्या इत्यस्मिन्नर्थे पुण्यातिरेके च श्रद्धादिकं चर्यातिरेकः । इति परार्थाधिमुक्तिर्मध्याधिमात्रा ॥

अपि त्वित्यादिना पूजा कृता भवतीत्येतदन्तेन पञ्चविंशतितमी । भगवतीपूजया त्रैयध्विकतथागताः पूजिता भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः । इति परार्थाधिमुक्तिरधिमात्रमृद्वी ॥
पुनरपरमित्यादिना द्वितीयं पश्यतिपर्यन्तेन षड्विंशतितमी । त्रैयध्विकतथागतानां धर्मतया दर्शयित्री भगवत्येवेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः । धर्मता धर्मकायः स च प्रज्ञापारमितैवेति भावः । अपरिसमाप्ते एव शक्रवाक्ये भगवानाह एवमेतदित्यादि । अहमप्यभिसंबुद्ध इति यावत् । आगम्येति प्राप्य हेतुंकृत्य । इयतापि भगवत्याः सम्यक्संबोधिकारणत्वमुक्तं न तु धर्मकायत्वम् । तदुपसूचनाय पुनः शक्र (र्स्त्_४६) आह । महापारमितेत्यादि । सम्यक्प्रजानातीति निष्प्रपञ्चेन ज्ञानेन वेत्तीत्यर्थः । संपश्यतीति सर्वाकारं पश्यतीत्यर्थः । स्फुटीकर्त्तु भगवानाह । एवमेतदित्यादि । इति परार्थाधिमुक्तिरधिमात्रमध्या ॥

अथ खलु शक्र इत्यादिना आपरिवर्तसमाप्तेः सप्तविंशतितमी । सर्व महायानं पारमिताभिः संगृहीतम् । तासु भगवती प्रधानं पूर्वङ्गमत्वात्संग्राहकत्वाच्चेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः । उपायकौशल्येन परिगृहीतानामित्युद्देशः । प्रज्ञापारमितया सर्वाकारज्ञतायां परिणामितानामिति निर्देशः । तत्र प्रकृतिपारमितानां दृष्टान्ता नानापुष्पादिका वृक्षाः । एकरसा तु छाया तेषामुपायकौशल्यपरिगृहीतानां दृष्टान्तः । इति परार्थाधिमुक्तिरधिमात्राधिमात्रा ॥

प्रकृतत्वात्प्रज्ञापारमितायाः ये गुणास्तेषां परिकीर्तनः परिवर्तस्तथोक्तः ।

आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां चतुर्थः परिवर्तः ॥


५. पुण्यपर्यायपरिवर्तो नाम पञ्चमः ।

उक्तंऽकारित्रमधिमुक्तिश्चऽ ।ऽस्तुतिस्तोभितशंसिताःऽ वक्तव्याःऽस्तुतंऽ सुतिः ।ऽस्तोभितंऽ स्तोत्रः । सुब्धातोर्भावे क्तः । शंसनं शंसः । सोऽस्यास्तीति शंसी । तभ्दावःऽशंसिताऽ प्रशंसेत्यर्थः । अतः शास्त्रम्-

[५०] स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति ।
अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २-२० ॥

प्रज्ञापारमिताया योऽधिमोक्षः पूर्वमुक्तः स्वार्थोभयार्थपरार्थभेदेन त्रयोधिमुक्तिनवका इत्यर्थः । तस्य गुणोभ्दावनंऽमात्राणांऽ प्रभेदानांऽत्रिभिर्नवकैःऽ यथाक्रमम् ।ऽस्तुतिः स्तोभः प्रशंसा चऽऽइष्यतऽ इत्येकवचनं स्तुत्यादिभिः प्रत्येकमभिसम्बन्धात् । तत्र गुणोभ्दावनस्य मृदुमध्याधिमात्रभेदाः (र्स्त्_४७) स्तुतिस्तोभप्रशंसाः । तासामपि मृदुमृद्वादयोऽधिमात्राधिमात्रपर्यन्ताः प्रभेदास्त्रयो नवका इत्यर्थः । तासां द्वौ हेतू बोधिसत्त्वस्य परार्थकरणशक्तिः परार्थप्रधानता च ।

तत्रादौ पुनरपरमित्यतः प्राक्प्रथमा । अस्यां परार्थकरणशक्तिस्त्रिषु वस्तुष्वधिमोक्षो दृढतरः । कर्तव्योपदेशे भगवतीगुणे स्वयं च तस्याः कर्तव्यतयादौ शक्र आह । य इत्यादिना अधिमुञ्चेदित्येतदन्तेन । यो भगवन् कुलपुत्रो वा कुलदुहिता वाधिमुञ्चेदिति सम्बन्धः । किमधिमुञ्चेदित्याह । इमामित्यादि सर्वम् । इमां प्रज्ञापारमितामध्याशयतः शृणुयादुद्गृण्हीयात् । यावन्नेत्र्यवैकल्येनेति । कथमित्याह । बोधाय बोधये चित्तमुत्पाद्य । कीदृशः प्रसन्नचित्तोऽस्यामेव । कथम्? अधिमुच्य । इमामविपरीतत्वेनात्यन्तमवधार्य । तच्च श्रद्धयेति दर्शयितुमाह । अभिश्रद्दधदवकल्पयन् । इमामेव । हेतौ शतृप्रत्ययः । अस्यामेव श्रद्धयेत्यर्थः । आसे(शे)रते कुशला धर्मा अस्मिन्नित्याशयः । जलाशयवत् । स पुनः श्रद्धाच्छन्दौ । अधिकः प्रकष्ट आशयो अध्याशयः । तेन शृणुयाद्ग्रन्थतोऽर्थतश्च । उद्गृण्हीयादावर्तयेत् । धारयेदिति हृदये स्थापयेत् । वाचयेत्पाठयेत् । पर्यवाप्नुयादिति सर्वथा अवगच्छेत । इयता स्वार्थो उक्तः ।

प्रवर्तयेदिति परेषु सञ्चारयेत् । अयमुद्देशः । परो निर्देशः । देशयेद्ग्रन्थतो भाषणात् । उपदिशेदर्थतः । उद्दिशेदित्यववदेत् । इयतो परार्थः ।

स्वाध्यायेदिति सुतरामभ्यसेत् । पुनः पुनः स्वार्थकरणात् । परेभ्यश्च सम्प्रकाशयेदिति सन्ततं प्रकाशयेद्ग्रन्थतः । विस्तरेणेति बहुभ्यः प्रकाशनात् । विवृणुयादिति विस्तरेणेति वर्तते । मनसान्ववेक्षेतेति चित्तेनानुबुध्य संयोज्य पश्येत् । स(श)मथोत्पादनात् । परिमीमांसामिति विचाराणां विपश्यनोत्पादनात् । इयता चर्योक्ता ।

अस्या अभावे पक्षान्तरमाह । पुस्तकेत्यादिना । अत एव अन्तशःशब्दः । पुस्तकगतामिति । इमामेव धारयेदिति । अविनश्वरी कुर्यात् । स्थापयेदिति स्वगृहादौ । तिसृभिराशंसाभिः । सन्त आर्याः । तेषां धर्ममार्ग इति सद्धर्मः । तस्य चिरस्थितिः । तद्धेतोः तदर्थम् । इयं हि साधारणः । सद्धर्म इति प्रथमेयमाशंसा सर्वार्यानधिकृत्य । बुद्धाश्च लोकगुरवस्तेषां च कृतज्ञैरस्माभिर्भवितव्यम् । तेषामियं नेत्री बोधेः प्रापिका प्रज्ञा । तैस्त्रिकल्पासंख्येया परिश्रमेणोत्पाद्य सम्यगनागतजनतार्थाय स्ववंशेऽवस्थापिता । (र्स्त्_४८) यावदस्मानुपगता । ततो मा बुद्धनेत्री समुच्छेदोभूदित्यपीमां स्थापयेत् । इति द्वितीयेयमाशंसा बुद्धानधिकृत्य । बोधिसत्त्वानां चानुग्रहोपसंहारः करणीयः । स च कृतो भविष्यति । अनया स्थायितया नेत्र्यवैकल्येन । इत्यपीमां स्थापयेदिति तृतीयेयमाशंसा बोधिसत्त्वानधिकृत्य । इति शब्दः पूर्वत्रापि सम्बध्यते मा भूदिति । इयता द्विविधः कर्तव्योपदेश उक्तः ।

इमं निर्देशमिति कर्तव्योपदेशम् । एवं महार्थिकेत्यादि । महानर्थकार्यमस्या इति महार्थिका । अयमुद्देशः । परो निर्देशः । महानुशंसा यथोक्तरैणु(नु)शंसः । महाफला स्त्रोतआपन्नत्वेन, सकृदागामित्वेन, अनागामित्वेन, अर्हत्त्वेन, प्रत्येकबोध्या, सम्यक्सम्बोध्या च । महाविपाका सर्वाभिश्चर्याविभूतिभिः । बहुमहागुणसमन्वागतेत्युपसंहारः । इयता भगवतीगुण उक्तः ।

अपरित्यजनीया परिग्रहादनुत्सर्गाच्च । रक्षितव्या अग्निमूषिकादिभ्यः । गोपायितव्या चौरादिभ्यः । यस्मात्परमदुर्लभा । इयता स्वयं कर्तव्यमुक्तम् ।

इतीति । एतद्वस्तुत्रयमधिमुञ्चेत् । एवमेवेत्यवधारयेत् । असत्यां च प्रवृत्तौ नाधिमोक्षो दृढः स्यात् । तत इयता परार्थकरणशक्तिरुक्ता । तस्यां सत्यां यः परार्थ स्वल्पमपि न करोति स्वल्पं वा करोति सोऽल्पपुण्यः । इतरस्तस्मात्बहुतरपुण्यः । तस्यैता स्तुतिस्तोत्रप्रशंसाः । अतः स्वयमेव चेत्यादिना द्वितीयप्रसवतिपर्यन्तेन स्तुतिः प्रथमा ॥

स्वयमेव चेति चकारो य इत्यस्यानुकर्षणार्थः । न तु परां(रैः) पूजाः(जां) कारयतीत्येवकारार्थः । संपूज्येति सर्वपूजाः कृत्वा । अर्थनमर्थः । पूजायामिच्छा तद्योगादर्थिकाय । अतिशयेन तद्योगाच्छन्दिकाय । याचमानायेति पूजयितुं भगवतीं प्रार्थयमानाय । दद्यादित्यभ्युपगच्छेत् । उपनामयेत्सन्निपातयेत् । निर्यातयेत्ग्राहयेत् । परित्यजेदविप्रतिसारात् । अन्तशः इति यावदित्यर्थः । पुस्तकगतामपि कृत्वेति स्वयं लिखित्वा तेन वा लिखित्वा तन्मूल्येन वा स्वमूल्येन वा लेखयित्वा परित्यागो दानं तस्मै बुद्धिरिच्छा अस्येति तद्बुद्धिः । संप्रकाशयेदिति गुणतः स्वरूपतश्च । दद्यात्पूजनाय । संविभजेदिति स्फरतामधिकानां वा दानात् । विस्तारो वैपुल्यम् । तेन चरतीति वैस्तारिकी । प्रत्यात्ममित्यात्मनैव । शेषं सुबोधम् । इति मृदुमृद्वी स्तुतिः ।

पुनरपरादिः प्राक्पुनरपरात्द्वितीया । ततिति प्रथमस्तुतात् । इति मृदुमध्या स्तुतिः ॥

(र्स्त्_४९)
पुनरपरादि तिष्ठन्तुशब्दात्प्राक्तृतीया । समादापयेदिति सम्यक्ग्राहयेत् । प्रतिष्ठायेतनतिक्रमात् । अभिश्रद्दधदिति भगवतीगुणान् । अन्यथा न सम्यक्दाता स्यात् । अभिश्रद्दधत इति । अन्यथा न स दानपात्रं स्यात् । एवमुत्तरेष्वपि वेदितव्यम् । किलासिता कुसीदः । अकिलासिता वीर्यम् । तया सम्पादयेद्यथोक्तं कार्यम् । उद्युक्तोऽभियुक्तः सन्नमुं बोधिसत्त्वं भगवतीं ग्राहयेत् । बोधिसाधनत्वेन प्रतिपादयेद्वाचा । तथैव सन्दर्शयेद्युक्तिभिः । ततः समादापयेद्वाचनार्चनादिषु प्रवृत्तेः । प्रवृत्तं समुत्तेजयेदुत्साहयेत् । वीर्यकौसीद्ययोर्गुणदोषाख्यानात् । आरब्धवीर्य स्तुतिभिः संप्रहर्षयेत् । विपर्यस्तो लोकस्ततो नेदं शक्यमिति चेदाह । वाचेत्यादि । त्रिविधो लोकः श्राद्धो विमुख उदासीनश्च । तत्र श्राद्धं वाचैव नेष्यति । स हि संभावितस्य वाचैव गच्छति । विमुखं विनेश्यति । कुदृष्टीनां युक्तिभिर्बाधनातुदासीनमनुनेष्यति । अनुरञ्जयिष्यति भगवत्या तद्गुणाख्यानात् । एवं पात्रीकृतो य अर्थमस्या अस्मै संप्रकाशयिष्यति । एवं चेति प्रकाशिते वार्थेऽस्यचित्तं शोधयिष्यति । कुद्दष्टीनां बाधनात् । तथापि संशयिनं निर्विचिकित्सं करिष्यति युक्त्यन्तरैः । शिक्षस्वतिसृभिः शिक्षाभिः । अत्र हीत्यादिना त एवाह । शिक्षमाणः चिन्तया । चरण(न) समर्थेन (शमथेन) व्यायच्छमानो विपश्यमानया । सत्त्वधातुः सत्त्वराशिः । आत्यन्तिकत्वादनुत्तरे । उपधयः स्कन्धाः सास्रवाः सास्रवानास्रवा वा । तेषां संक्षयः समस्तक्षयः । तन्निमित्तम् । अभिविनेश्यसि सर्वावरणक्षयात् । भूतकोटिप्रभावनता तन्मात्रशेषता । परित्यागबुद्ध्येति सर्वाकारया त्यागबुद्धया । तत इति द्वीतीयायां स्तुतात्दशकुशलप्रतिष्ठापकाच्च
। इति मृद्धधिमात्रा स्तुतिः ॥

इत ऊर्ध्व पञ्चानां स्तुतीनां तिष्ठन्त्वादिः प्रतिष्ठापयेदन्तः पूर्वो भागः । तत ऊर्ध्व तत्किं मन्यस इत्यादि पुनपरात्प्राक्पश्चिमो भागः । आसु च सूत्रोक्ते पुण्यातिरेकैः श्रद्धादिकं सामर्थ्यगम्यश्च मात्रातिरेकश्चर्यातिरेकः । एतेन पर्यायेणेति प्रकारेण वस्तुत्रयाधिमोक्षे स्थित्वेत्यर्थः । इति यथाक्रमं मध्यमृद्धी मध्यमध्या मध्याधिमात्रा अधिमात्रमृद्वी अधिमात्रमध्या च स्तुतिः ॥

पुनरपरादि पुनरपरात्प्राक्पञ्च तिष्ठन्तुका नवमी । एकस्या एव नवम्याः क्रमेणाभिधानात् । तथाप्यष्टमीतो महदन्तरमिति चेत् । नायं दोषः । एकलोकधातुकातो गंगावालुकोपमात्लोकधातुवत् । सूत्रोक्तपुण्यातिरेकैः श्रद्धादिकं चर्यातिरेकः । ऊनपाठाः पूर्वापरैः पूरणियाः ।

(र्स्त्_५०)
चतुर्षु ध्यानेष्विति । अत्र सूत्रम्-ऽविविक्तं कामैर्विविक्तं पापकरैकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति । स वितर्कविचारणां व्युपशमादध्यात्मं संप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति । स प्रीते विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं च कायेन प्रतिसंवेदयते । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानमुपसम्पद्य विहरति । स सुखस्य च प्रहाणात्दुःखस्य च पूर्वमेव प्रहाणात्सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति" इति ॥

विविक्तं कामैरिति । क्लेशकामस्यासंप्रयोगात् । वस्तुकामानामनालम्बनात् । विविक्तं पापकैरकुशलैर्धमैरिति । क्लेशकामहेतुकैः कामवाङ्मनोदुश्चरितैः । सवितर्क सविचारमिति । कामप्रतिपक्षाभ्यां वितकविचाराभ्यां संप्रयोगात् । विवेकजमिति । कामविवेकाज्जातम् । प्रीतिसुखमिति । ईप्सितार्थसिद्धितः कायचित्तप्रश्रब्धितश्च प्रीतिसुखसहगतम् । प्रथमं ध्यानमुपसंपद्येति समापद्य । विहरतीति प्रत्यनुभवति । स इति । स एव योगी । वितर्कविचारेषु चित्तक्षोभकरत्वदोषदर्शनात्तेभ्यश्चित्तं व्यावर्त्य समादधानः । वितर्कविचाराणां व्युपशमादिति समाधिबलेन । चेतस एकोतीभावादिति वितर्कविचाराणां निरन्तरमप्रवृत्तेः । अवितर्कमविचारमिति तेषां सर्वेण सर्व प्रहाणात् । प्रीतेर्विरागादिति । औदारिकात्तस्याः । उपेक्षक इति । वितर्कविचारप्रीतिनामुपेक्षणात् । स्मृतिमान् संप्रजानन्निति । प्रीतेरनकवकाशदानाय प्रज्ञाबहुलीकारात् । सुखमिति । वेदितसुखं प्रश्रब्धिसुखं च । कायेनेति । रूपकायेन मनःकायेन च । आर्या इति । श्रावका बुद्धाश्च । यावत्सुखविहारीति । एष एवासौ ध्यायीति शेषः ।

तत्र सुखस्य प्रहाणं चतुर्थेन ध्यानेन । दुःखस्य प्रथमेन । अत एवाह । पूर्वमेवेति । सौमनस्यस्य तृतीयेन । दौर्मनस्यस्य द्वितीयेन । पूर्वमेवेत्यनुवृत्तेः । उपेक्षैवात्र वेदना । तत आह । अदुःखासुखमिति । तयोरिहात्यन्तं विशुद्धिलाभात् ॥

तत्र प्रथमस्य ध्यानस्य पञ्चाङ्गानि । वितर्कविचारौ प्रतिपक्षाङ्गः(ङ्गम्) । प्रीतिसुखे अनुशंसाङ्गः(ङ्गम्) । चितैकाग्रता तदुभयसन्निश्रयाङ्गः(ङ्गम्) ॥ द्वितीयस्य चत्वार्यङ्गानि । अध्यात्मं संप्रसादः प्रतिपक्षाङ्गम् । शेषे अङ्गेपूर्ववत् ॥ तृतीयस्य पञ्चाङ्गानि । उपेक्षास्मृतिः संप्रजन्यं च प्रतिपक्षाङ्गम् । (र्स्त्_५१) सखमनुशंसाङ्गम् । निश्रयाङ्गः(ङ्गं) पूर्ववत् ॥ चतुर्थस्य चत्वार्यङ्गानि । उपेक्षापरिशुद्धिः प्रतिपक्षाङ्गः(ङ्गम्) । अदुःखासुखा वेदना अनुशंसाङ्गः(ङ्गम्) । निश्रयाङ्गः(ङ्गं) पूर्ववत् ॥

एतेषु चतुर्षु ध्यानेषु प्रतिष्ठापयेत् । शेषं पूर्ववत् । इत्यधिमात्राधिमात्रा स्तुतिः ॥

पुनरपरादिः प्रभवनतान्तः प्रथमः स्तोभः । ऊनपूरणं पूर्ववत् । चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतुर्ष्वारूप्यसमापत्तिषु पञ्चस्वभिज्ञासु यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्यभिज्ञासु प्रतिष्ठापयेदिति ।

उक्तानि ध्यानानि । मैत्र्यादयः कामावचराः सत्त्वालम्बनाश्चत्वारो ब्रह्मविहाराः । अप्रमाणसत्त्वालम्बनाश्चत्वार्यप्रमाणानि । मैत्री करूणा मुदिता उपेक्षा च । अहो वत सर्वसत्त्वाः सुखेन युज्येरन् दुःखेन वियुज्येरन् सुखेन मा वियुज्येरन् संक्लेशान्मुञ्चेरन्नित्येभिराकारैः सुखसंयोगाशयो दुःखवियोगाशयः सुखावियोगाशयोऽसंक्लेशाशयश्च । अधिमुक्तिचर्याभूमौ चतस्त्रोपि सत्त्वालम्बनाः । प्रमुदितासु सप्तसु तथतालम्बनाः । अचलादिष्वनालम्बनाः ।

अप्रमाणेषु सूत्रम्- "मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासम्पन्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकं दिशं स्फरित्वोपसंपद्य विहरति । यावद्दशदिशः स्फरित्वोपसंपद्य विहरति । एवं करुणासहगतेन । एवं मुदितासहगतेन । एवमुपेक्षसहगतेन" इति ॥

तत्र मैत्रीसहगतेन चित्तेनेति गुणिनो निर्देशः । शेषेण गुणानाम् । विपुलेनेत्याशयतो महत्त्वम् । महद्गतेनेति वर्धनतः । अप्रमाणेनेत्यालम्बनतः । अद्वयेनेति एकात्मकेन निर्विकल्पत्वात् । अवैरेणेति विपक्षप्रहाणात् । तत्र मैत्र्यादीनां विपक्षो यथाक्रमम् । व्यापादो विहिंसा अरतिः, अनुनयप्रतिघौ च । असंपन्नेनेति स्त्यानमिद्धोपशमात् । अनावरणेनेत्यौद्धत्यकौकृत्योपशमात् । अव्याबाधेनेत्येभिरेव त्रिभिश्चेतसो अकालुष्यात् । सर्वत्रानुगतेनेति मित्रोदासीनशत्रुषु त्रिष्वपि प्रवृत्तत्वात् । सुभावितेनेति त्रिष्वपि समप्रवृत्तत्वात् । उक्तेन प्रकारेण स्फरित्वेति व्याप्य । लोकमिति सत्त्वलोकम् । सर्वावन्तमिति देवनागयक्षादिभेदैः सर्वैर्युक्तम् । एकं दिशमिति एकदिग्गतम् । क्वेत्याह । लोक इति भाजनलोके धर्मधातुपरम इति । धर्मधातुवदनन्ते (र्स्त्_५२) आकाशधातोरिव पर्यवसानमस्येति तथोक्ते । उपसंपद्य विहरतीति चित्तं समाधाय विहरत्यार्यविहारेण । दशदिश इति दशदिग्गतान् । शेषं सुबोधम् ॥

आरूप्यसमापत्तयश्चत्वार आरूप्याः । तेषु सूत्रम् "सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात्नानात्वसंज्ञानाममनसिकारातनन्तमाकाशमिति आकाशानन्त्यायतनमुपसम्पद्य विहरति । स सर्वश आकाशानन्त्यायतनसंज्ञासमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति । स सर्वश विज्ञानानन्त्यायतनसंज्ञासम्तिक्रमात्नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरति । स सर्वश आकिञ्चन्यायतनसंज्ञासमतिक्रमात्नैवसंज्ञा नासंज्ञायतनमुपसम्पद्य विहरति" इति ॥

रूपसंज्ञा नीलपीतादिसंज्ञाः । तासु विरक्तस्य सर्वत्राकाशसंज्ञा भावनात् । तासामतिक्रमातप्रतिभासात् । प्रतिघसंज्ञानामिति भित्तिप्राकाराद्यावरणसंज्ञानाम् । नानात्वसंज्ञानामिति प्रासादोद्यानगिरिसरिच्चन्द्रसूर्यादिसंज्ञानाम् । अनन्तमाकाशमित्येवमाकाशानन्त्यायतनमालम्वनमस्येति तथोक्तम् । कथमाकाशानन्त्यायतनसमतिक्रमः? स येन ज्ञानेनाकाशानन्त्यायतनमधिमुक्तवांस्तदेवानन्तमधिमुच्य सर्वत्राकाशसंज्ञाव्यावर्तनात् । विज्ञानानन्त्यायतनसमतिक्रमादिति । स तस्मादुच्चलितो न किञ्चिदालम्बनं पश्यति नार्थं न विज्ञानम् । सोऽकिञ्चनतामेवालम्बनीकृत्य समापद्यते । आकिञ्चन्यायतनसमतिक्रमादिति । स आकिञ्चन्यसंज्ञायामपि विरक्तस्तामपि व्यावर्तयति । किञ्चनसंज्ञा तु प्रागेव निवृत्ता । ततो नैव संज्ञा । सूक्ष्मा तु संज्ञा प्रवर्तत एव ततो नासंज्ञा । नैव संज्ञा नासंज्ञा यस्मिन्नायतने समाधाने तत्तथोक्तम् ।

पञ्चाभिज्ञाः । ऋद्धिविधिज्ञानम् । दिव्यश्रोत्रम् । परचित्तज्ञानम् । पूर्वेनिवासानुस्मृतिज्ञानम् । दिव्यचक्षुश्चेति । अत्र सूत्रम्- "सोऽनेकविधमृद्धिविधं प्रत्यनुभवति । पृथिवीमपि कम्पयति । एको भूत्वा बहुधा भवति । बहुधापि भूत्वा एको भवति । आविर्भात्रं तिरोभावमपि प्रत्यनुभवति । तिरः कुड्यं तिरः प्राकारं तिरःपर्वतमप्यसक्तो गच्छति । आकाशमपि क्रामति । पृथिव्यामपि उन्मज्जननिमज्जनं करोति । उदकेपि पृथिव्यामिव गच्छति । धूमायत्यपि प्रज्वलत्यपि" इति विस्तारः ॥ "स दिव्येन श्रोत्रधातुना अतिक्रान्तमानुष्यकेन शब्दान् शृणोति दिव्यान्मानुषकांश्च । स परसत्त्वानामपि परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति । एवं [सरागं] विगतरागं सदोषं वीतदोषं समोहं वीतमोहं चित्तमिति यथाभूतं (र्स्त्_५३) प्रजानाति यावदनुत्तरं चित्तमिति यथाभूतं प्रजानाति । स एकां जातिमनु स्मरति । द्वे तिश्रो (स्रो) यावज्जातिकोटीनियुतशतसहस्राण्यप्यनुस्मरति । एकं दिवसं द्वे त्रीणि यावत्कल्पकोटीनियुतशतसहस्राण्यप्यनुस्मरति । अमुत्राह मासमेवं नामा एवं गोत्र एवं जातिरेवमाहार एवं चिरस्थितिक एवमायुष्यपर्यन्तः । सोहं ततश्च्युतः सन्नमुत्रोपपन्नो यावत्ततश्च्युत इहोपपन्न इति यावत्साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वेनिवासमनुस्मरति ॥ स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति । च्यवमानानुपपन्नानपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति । अमी भवन्तः सत्त्वाः कायसुचरितेन वाक्सुचरितेन मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः । तेन कायवाङ्मनःसुचरितहेतुना कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इमे पुनर्भवन्तः सत्त्वाः
कायदुश्चरितेन वाग्दुश्चरितेन मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयश्च मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात्परंमरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते । इउति हि दिव्येन चक्षुषा अतिक्रान्तमानुष्यकेन दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षङ्गतिकानां सत्वानां च्युतोपपादं यथाभूतं प्रजानाति" इति ॥

एतासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु व्यस्तसमस्तासु प्रतिष्ठापयेदिति सम्बन्धः । शेषं सुबोधमिति प्रथमः स्तोभः ॥

इत ऊर्धं तिष्ठत्वादयः प्रतिष्ठापयेदन्ताः प्रत्येकं परेण तत्किं मन्यस इत्यादिना प्रभावनतान्तेन सहिता यथाक्रमं द्वितीयतृतीयचतुर्थ पञ्चमषष्ठः स्तोभः ।

इति मृदुमध्यो मृद्वधिमात्रः मध्यमृदु मध्यमध्यो मध्याधिमात्रश्च स्तोभः ॥

पुनरपरादि पुनरपरात्प्राक्सप्तमः । भगवत्योः परेभ्यो दानं पूर्वकेष्वप्यस्ति । इह तु स्वयं च वाचनं परेभ्यश्च लिखित्वा दानं चर्यातिरेक इत्यधिमात्रमृदुस्तोभः ॥

पुनरपरादि पुनरपरात्प्रागष्टमः । अर्थमस्या विवृणुयादिति यत्पूर्वमुक्तं तत्पारमितादीनामौदारिकं रूपं प्रतिहतानां प्रसादकरमभिप्रेत्य । इह तु कोटित्रयानुपालम्भादिकं परमार्थमभिप्रेत्याह । अर्थकुशलादित्यादि । तत्रार्थकुशलस्य वाचनं तमेवार्थं मनसिकृत्य वाचनात् । सार्थामिति तेनैवार्थेन (र्स्त्_५४) सहिताम् । सव्यञ्जनामिति तस्यैवार्थस्य वाचका व्यञ्जना । उपदिशेत्तस्यार्थस्य सूत्रेण संस्यन्दनात् । परिदीनीपयेद्युक्तिभिः । अयमष्टमे चर्यातिरेकः । अयमित्यष्टमे वर्तमानः । तत इति सप्तमे वृत्तात् । इयमप्युपदेष्टव्येति काक्वा शिरःकायेन वा प्रश्नः । नैवोपदेष्टव्या परिस्फुटादिति भावः । अबुध्यमानस्येति जडधियः । तस्य युक्त्यागमाभ्यां सम्यग्ग्राहितस्य परवाचा चलनात् । कः पुनरेनं चालयिष्यतीति । एतदाह तत्कस्य हेतोरिति । अत्रोत्तरम् । उत्पत्स्यते हित्यादि । भगवतीदेशकेनैव या तस्या विपरीतार्थवर्णना सा तस्याः प्रतिवर्णिका । तयैव जडस्य श्रद्धालोर्वञ्चनात् । उत्पत्तौ ण्वुच्पर्यायार्हर्णोत्पत्तिषु ण्वुजिति वचनात् । तत्रेति तथा सति । मा प्रणंक्षीदिति संबोधिमार्गात्प्रणष्टो भ्रष्टो मा भूदित्यर्थः । णस (श) अदर्शने रधादिः । पुषादिश्च । तस्मा [त].......अयं प्रयोगः । तथाप्यङ्वृद्धी न भवतः । परस्मैपदेषु तयोर्विधानात् । संज्ञापूर्वकस्य च विधेरनित्यत्वात् । यथा चास्याः प्रतिवर्णिका भवति यथा च न भवति तदुभयं महत्योर्भगवत्योर्विस्तरेणोक्तं- "यो रूपं वेदनां यावत्सर्वाकारज्ञतामनित्यदुःखनात्मशून्याशुभाकारैर्निमित्तयोगेन उपलम्भयोगेन भावयति स प्रज्ञापारमितां भावयति । स प्रथमां बोधिसत्त्वभूमिं यावद्दशमीं यावदनुत्तरां सम्यक्सम्बोधिमधिगमिष्यतीति । य एवमुपदेक्ष्यति स प्रतिवर्णिकामुपदेक्ष्यति ॥ कथं
नोपदेक्ष्यति? रूपं स्वभावेन शून्यम् । यश्च रूपस्य स्वभावः सोऽभावः । यश्चाभावः सा प्रज्ञापारमिता । तस्यां रूपमेव नास्ति कुतो नित्यमनित्यं वा भविष्यतीत्येवमादि । य एवमुपदेक्ष्यति नासौ प्रतिवर्णिकामुपदेक्ष्यति" इति ॥ अत इहापि कथं भगवन्नित्यादिना प्रतिवर्णिकापरिज्ञानाय शक्रस्य प्रश्नः । भविष्यन्ति कौशिकेत्यादिना भगवत उत्तरम् । रूपीणी पञ्चेन्द्रियाणि कायसंगृहीतत्वात्परमाणुसञ्चयत्वाद्वा कायाः । ते अभाविता अनभ्यस्तसंवरत्वाद्येषां ते तथोक्ताः । असंवृतेन्द्रियत्वातभावितशिलाः । ततोऽभावितचित्ता अनभ्यस्तसमाधयः । ततो अभावितप्रज्ञाः समाहितचित्तस्यैव यथाभूतप्रज्ञानात् । ततो दुष्प्रज्ञा विपरीतदृष्टयः । तत एडमूकाः सूक्तीनामश्रवणात् । ......प्रज्ञापरिहीणाः सम्यग्दृष्टिभङ्गात्रूपानित्यतेत्युपलक्षणम् । दुःखतादयोपि द्रष्टव्याः । नित्यं न भवतीत्यनित्यता महायाने । तद्व्यवच्छेदार्थ विनाशग्रहणम् । विनाशलक्षणा अनित्यतेत्यर्थः । न हि सतां विनाशो नाप्यनुप(त्प)न्नानाम् । तस्माद्विनाशदर्शी तान्वस्तुधर्मानुपलभेत । सत्ता(ता)मुत्पादविनाशौ च । तदेवं (र्स्त्_५५) नित्यतादिचतुर्विपर्यासप्रतिपक्षेण हिनयानसंगृहीतायाः सम्यग्दृष्टेः प्रज्ञापारमितात्वेन या देशना सा तस्याः प्रतिवर्णिकेत्युक्तं भवति ।

अथैषां रूपादीनामनित्यतादुःखादिभावना बोधिसत्त्वेन भावयितव्या न चेत्यत आह । न खलु पुनरित्यादि । द्रष्टव्येति भावयितव्येत्यर्थः । यदि भावयेत्को दोषः स्यादत आह । स चेदित्यादि । प्रतिवर्णिकायामिति हीनयान इत्यर्थः । एवमस्यां भगवत्यां समासतः प्रतिवर्णिकां दर्शयित्वा तस्या चर्या प्रतिषिद्धा । यथा तु प्रतिवर्णिका न भवति तत्प्रथमत एव सूचितमर्थकुशलो वाचयेदित्यादिना । यः पुनः शून्यतानिःस्वभावतादिपदेषु माहायानिकम्मन्यानां विपर्यासस्तत्प्रतिपक्षेण धर्मकायकारित्रप्रकरणेऽविपर्यासकारित्रं महत्योर्भगवत्योरुक्तम् । अस्यामपि भगवत्या मध्येऽविपर्यासः प्राप्तिनिर्वाणे सर्वाकारज्ञतानिर्याणेऽष्टविधे च गाम्भीर्ये परिस्फुटमुक्तः । तस्मात्तत एवावधारणीयः ॥ इत्यधिमात्रमध्यस्तोभः ॥

पुनरपरादिः पुनरपरात्प्राक्पञ्चतिष्ठतुर्नवमः । स्त्रोतआपत्तिफल एवं प्रभाव्यत इति तावत्सत्त्वेषु निष्पाद्यते । इत्यधिमात्रस्तोभः ।

पुनरपरादिः पुनरपरात्प्राक्पञ्चतिष्ठतुः प्रथमा । सकृदागामिनः फलम् । इति मृदुमृद्वी प्रशंसा ॥

पुनरपरादिः पुनरपरात्प्राक्पञ्चतिष्ठतुद्वितीया । अनागामिनः फलम । इति मृदुमध्या प्रशंसा ॥

पुनरपरादिः पुनरपरात्प्राक्पञ्चतिष्ठतुस्तृतीया । अर्हत्वमर्हतो भावः । इति मृद्धधिमात्रा प्रशंसा ॥

पुनरपरादिस्तिष्ठतोः प्राक्चतुर्थी । स्वयमभिसंबोधाब्दुद्धः, एकमात्मानं प्रतिबुद्धः प्रत्येकबुद्धः । इतिमध्यमृद्वी प्रशंसा ॥

तिष्ठत्वादिपञ्चकेन पञ्चमी । इति मध्यमध्या प्रशंसा ॥

पुनरपरादिस्तिष्ठतोः प्राक्षष्ठी । कश्चिदेवेति प्रथमः । यश्चेति द्वितीयः । यो वेति तृतीयः । उपनामयेदिति दद्यात् । केनाशयनेत्याह । अत्रैवेत्यादि । वृद्ध्यादिकं गतः प्राप्तः । अयमिति तृतीयः । तस्मादिति प्रथमाद्द्वितीयाच्च । इति मध्याधिमात्रा प्रशंसा ॥

(र्स्त्_५६)
तिष्ठत्वादिपञ्चमेन सप्तमी । इत्यधिमात्रमृद्धी प्रशंसा ॥

पुनरपरादिस्तिष्ठतो प्रागष्टमी । संख्यापि भगवन्नित्यादि । तत्र संख्या पूर्वकात्पुण्यादुत्तरं पुण्यं शतगुणं सहस्रगुणमित्यादि । गणना दशगुणितशतगुणमित्यादि । उपमा गङ्गानदीवालुकागुणमित्यादि । औपम्यं दशगङ्गानदीवालुकागुणमित्यादि । उपनिशा दशगुणितशतगङ्गानदीवालुकागुणमित्यादि । परिमाणस्यात्यन्तमसम्भवात्तदर्थ या उपनिषत्समीपे निषदनम् । सापि न सुकरा कर्तुम् । इत्यधिमात्रमध्या प्रशंसा ॥

तिष्ठत्वादिपञ्चकेन नवमी । यथायथेत्यादिना कौशिकः पुण्यातिरेकोपपत्तिमाह । साधु साध्वित्यादिना तं सुभूतिः सोपपत्तिकं प्रोत्साहयति । इत्यधिमात्राधिमात्रा प्रशंसा ॥

पुण्यस्य पर्याया भेदास्तद्द्योतकः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चमः परिवर्तः ॥


६. अनुमोदनापरिमाणमनापरिवर्तो नाम षष्ठः ।

उक्ताः स्तुतिस्तोभप्रशंसाः । परिणामनामनस्कारो वक्तव्यः । तमधिकृत्य शास्त्रम्-

[५१] विशेषपरिणामस्तु तस्य कारित्रमुत्तमम् ॥
नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २-२१ ॥
[५२] विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः ।
सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ २-२२ ॥
[५३] त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा ।
मृदुमध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ २-२३ ॥

सर्वसत्त्वानां दानशीलभावनामयात्पुण्यौघो विशिष्यते प्रकृष्यतेऽनेनेतिऽविशेषःऽ । स पुनरस्याः सर्वसत्त्वानामग्रतायै सम्यक्संबोधिकरणता । (र्स्त्_५७) "सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति तच्चानुपलम्भयोगेन" इति महत्योः पाठात् । तेन विशेषेणऽपरिणामःऽ ॥

तमाह । अथ खलु मैत्रेय इत्यादिना । बोधिसत्त्वस्येति । उत्पादितबोधिसचित्तस्य । यथोक्तविशेषविशिष्टत्वान्महासत्त्वः, परिणामना व्यवसायोऽस्येति महासत्त्वस्य । अनुमोदनासहगतं कुशलमनुमोदना । सा चानुपलम्भपरिणामस्यादौ विस्तरेण वक्ष्यते । तस्याः परिणामना । तया सहगतम् । इदमेव इत्यस्य परेण पुण्यक्रियावस्तुशब्देन सम्बन्धः । तत इति सर्वसत्त्वानां दानादिमयात्पुण्यात्सकाशात् । अग्रमाख्यायते यावदसमसममाख्यायते । तस्मादग्रादि । अग्रादिफलहेतुत्वात् । तदपि कुतः? यथाक्रमं प्रमुदिताद्येकादशभूमिसंगृहीतस्वपरार्थसंपत्तिहेतुत्वात् । पर्यायत्वेपि सर्वेषामुपादानसामर्थ्यात् । असमाबुद्धास्तेषां साधारणो विशेषोऽसमसमः । समन्तप्रभासायां भूमौ । कथं धर्ममेघायामसमः? असमसाधर्म्यात् । "दशभूमीश्वरस्तु बोधिसत्त्वो बुद्ध एव द्रष्टव्यो न तु सम्यक्संबुद्धः" इति वचनात् । तदेवमग्रादिपदेभ्यः पूर्वेण ग्रन्थेन विशेषपरिणाम उक्तः । अग्रादिपदैस्तस्यैवऽकारित्रमुत्तमंऽ इति विशेषपरिणामः सकारित्रः ॥

एवमुक्त इत्यादिना अनुपलम्भपरिणाममाह । दशदिशोऽस्मिन्निति दशदिशि लोके, आकाशपरिमाणे भाजनलोके । सर्वत इति तासु सर्वासु दिक्षु । सर्वत्रगतयेति व्यापितया घनतयेत्यर्थः । अप्रमेयादिषु वीप्सा दिग्भिः प्रत्येकमभिसम्बन्धार्थम् । अनन्तापर्यन्तेष्वित्यनन्तानन्तेषु । तदियमर्थतो द्विरुक्तिर्न शब्दतः । तत्र दिग्देश्यानामपरिच्छेदातप्रमेयाः । संख्याया अपरिच्छेदातसंख्येयाः । दिग्वैपुल्येनापरिच्छेदातपरिमाणाः । प्रत्येकं चिन्तयितुमशक्यत्वातचिन्त्याः । तास्वेव चिन्तास्वन्तगमनातनन्ताः । एवं साकल्येन प्रतिदिशमनन्तेषु त्रिसाहस्रेषु प्रतिदिशं य एकैकस्त्रिसाहस्रः । तस्मिनप्रमेयाप्रमेयाणां यावतनन्तापर्यन्तानां तथागतानामिति सम्बन्धः । इहाप्येकैकेन त्रिसाहस्रेण सम्बन्धार्थ वीप्सा । नन्वेकस्मिंस्त्रिसाहस्रे एक एव तथागतो नाप्रमेयादिरिति चेदाह । अतीतेऽध्वनि इति । एकदा त्रैकस्तथागतो न सर्वदा । अतीतः पुनरध्वा अनादित्वातप्रमेयः तत एकस्मिन्नपि लोकधातावतीतेऽध्वनि अप्रमेयास्तथागताः कालदैर्ध्येणापरिच्छेदात् । तावन्तश्च ते संख्यया अपरिच्छेदातसंख्येयाः । मनसा तिर्यक्संनिवेश्य वैपुल्येनापरिच्छेदातपरिमाणाः । एकैकचिन्तया अचिन्त्याः । एकैकचिन्तायामन्तागमनातनन्ताः । ईदृशानां तथागतानां परिनिर्वृतानामिति न तु तिष्ठताम् । अरयः क्लेशास्तान् हतवन्त इति अर्हताम् । अविपरीतसर्वधर्मज्ञानात्सम्यक्सम्बुद्धानाम् । अनेन पदद्वयेन प्रहाणज्ञानसम्पदावुक्ते ।

(र्स्त्_५८)
भवपथत्वाद्धर्मे अस्मिमाणो(नो) [वर्त्मनिः] । वृतेरनिप्रत्ययः । सरणिधरणिवत् । मुडागमश्च । वर्त्मनिस्तृष्णा भवपदवीत्वात् । यथोक्तं- "अस्मिमानः पिता उक्तो माता तृष्णेति चोच्यते" इति । तयोरून्मूलनात्छिन्नवर्त्मनां छिन्नवर्त्मनीनां च । प्रपञ्चो द्वयकल्पना, भवः संसारः । तयोर्नेत्र्यौ नायिके यथाक्रमं धर्मदृष्टिः पुद्गलदृष्टिश्च । तयोः परिक्षयात्छिन्नप्रपञ्चभवनेत्रीकानां पर्यात्तबाष्पाणामिति । पुनर्भवाभावे न पुनर्बन्धनो न शोको नाश्रु । ततः परिक्षीणबाष्पाणाम् । कण्टकसाधर्म्यात्कण्टकाः कुदृष्टयः । तेषां क्षोदनात्मर्दितकण्टकाः । शेषं निदान एव व्याख्यातम् । प्रथमचित्तोत्पादो यः पृथिवीसमः । तमुपादाय तत आरभ्य । एतस्मिन्नन्तर इत्येतावत्यवकाशे । शीलादिस्कन्धः शीलादिराशिः । बोधिसत्त्वानामपि बलादयः सन्ति । न तु ते पारङ्गताः । ततस्तद्व्यवच्छेदाय पारमिताग्रहणम् । अनाश्रवो मार्गः परिज्ञः । सर्वज्ञज्ञानं सम्यक्सम्बोधिः । पूर्वं बुद्धगुणादिभिः संप्रयुक्तानि । ये चेत्यादिना बुद्धगुणादिनप्याह । सम्यक्सम्बोधिरेव सुखमुपशमसुखत्वात् । सर्वधर्मेषु ऐश्वर्य वशिता । ऋद्धेरभिसंस्कार क्रिया । अनावरणं शुद्धत्वात् । असङ्गमनपेक्षत्वात् । अप्रतिहतं सर्वस्मिन् सर्वाकारज्ञेयप्रवृत्तेः । अनुपम तस्यानुमानाय विशेषदृष्टान्तभावात् । परितोऽवच्छेदः परिमान(णम्) । अशेषविशेषान्तरायात्रूपग्राहि प्रत्यक्षम् । तस्य तस्मिन् परेषामभावादपरिमेयम् । तथागतानां यथाभूतज्ञानसम्यग्ज्ञानम् । तदेव बलं सर्वाभिभूतत्वात् । यद्बुद्धज्ञानबलमिति । बुद्धज्ञानस्य बलं शक्तिर्निरवधिसर्वाकारविश्वार्थक्रियायै । बलानां यद्बुद्धैः
ज्ञानदर्शनं प्राप्तिसाक्षात्करणम् । चतुर्वैशारद्येन सुपरिपूर्णोऽधिगमः स्वधर्माणां यश्च धर्माधिगम इति सम्बन्धः । स कथम्? सर्वधर्माणां परमार्थस्य सम्यग्ज्ञानस्याभिनिर्हारेण निष्पादनेन । त्रिपरिवर्त द्वादशाकारं लोकोत्तरं ज्ञानं धर्मः । स एव चक्रं देवमनुष्येषु चंक्रमणात् । तस्य प्रवर्तनं दशसु दिक्षु । अयमुद्देशः । अस्य निर्देशो नवभिरङ्गैः । तस्यैव धर्मस्य द्योतनी वाग्धर्मोक्ता । तस्याः प्रग्रहणं मनसा व्यवस्थापनम् । सैव वाग्धर्मभेरी । तस्याः संप्रताडनं विनेयजयश्रावणम् । सैव वा धर्मशङ्खः । तस्य पूरणं विनेयैरेव ज्ञानम् । तस्य धर्मशङ्खस्य प्रव्याहरणम् । तमेवालम्ब्य तदर्थाकारेण मनसि कुर्वतां चिन्ताभावनयोः परिनिष्पत्तिः । भावानाबलादुत्पन्नं तदेव लोकोत्तरं ज्ञानं धर्मखङ्गः । तेन प्रहरणं क्लेशानां विध्वंसनम् । तस्यैव भूयसि जने प्रवृत्तिः धर्मवृष्टिः । तस्याः प्रवर्षणम् । स एव यज्ञो निरर्गडत्वात् । तस्य यजनम् । तस्य धर्मस्य दानेन सर्वसत्त्वानां सन्तपणं संप्रवारणं च परिवेषनं(णम्) । विनीताः स्मृत्युपस्थानैः (र्स्त्_५९) सत्येष्ववतारणात् । शिक्षिताः सम्यक्प्रहाणर्द्धिपादैः । अधिमुक्ता इन्द्रियबलैरेकान्तनिश्चयात् । नियता अविनिवृत्तेः । बुद्धानां परिषदामिति व्यधिकरणे षष्ठि । परिनिर्वा[प]यतामिति ओखै शोषणे । बुद्धानामस्येति क्षेत्रीकृत्य मानसो भावनं रञ्जनम् । तस्मै हिता मनोभावनीयाः प्रसादकरा इत्यर्थः । निरवशेषमभिसंक्षिप्य अनवशेषमनुमोदेतेति सम्बन्धः ।
ऐकध्यमित्यैकराश्येन । अभिसंक्षिप्येत्यस्य विवरणं पिण्डयित्वेति तुलयित्वेति । समाहितेनेति मनसा निरूप्य । अनुमोदेतेति प्रीत्यालम्बनं कुर्यात् । अनुमोदनयेति प्रीत्योत्पादनया । अग्रयेति प्रकृष्टया । कथं तर्हि एकादशपदानि? एकादशविधेप्यालम्बने तस्याः प्रकर्षात् । तत्कुतः? मध्ये दशसु च दिक्षु ये तथागताः तेषां सपरिच्छदेन यानि कुशलमूलानि तदालम्बनत्वात्तस्याः । कथं परिउणामयतीत्यत आह । बोधेराहारकमाकर्षकं भवत्विति ।

तदेवमुक्त इत्यादिना विस्तरेण स्थविरसुभूतिर्यथानुमोद्य यथा बोधिसत्त्वः परिणामयति तदुक्तवान् । यथा तु तत्रानुपलम्भयोगः कर्तव्यस्तदुपदर्शनायार्यमैत्रेयं तत्रेत्यादिना पृच्छति । यैर्वस्तुभिरिति दशदिक्तथागतादिभिः । येरालम्बनैरिति तदीयैः कुशलमूलैः । येराकारेरिति शीलसमाधिस्कन्धादिभिः । तच्चित्तमित्यनुमोदनाचित्तम् । अपि त्विति किन्तु । उपलभ्येरन्निति शक्तौ लिङ्ग । उपलब्धुं शक्यत इति प्रश्नः । निमित्तीकरोतीति विकल्पयति । अन्यथा अनुमोदनापरिणामनयोरयोगात् ॥

आर्यमैत्रेय आह । न तानीत्यादि स्थविर आह । एवन्तर्हि विपर्यासाः स्युरिति । असत एव निमित्तोद्ग्रहात्ग्रहणात्सन्तीरणाच्च यथोक्रमं संज्ञायाश्चित्तस्य दृष्टेश्च विपर्यासः । एषां साधनार्थ रागो दृष्टान्तः अथापीति परमतमाशङ्कते । यादृशो यक्षस्तादृशो बलिरिति भावः । चित्तमिति परिणामनाचित्तम् । सर्वधर्मा इत्युद्देशः । सर्वधातव इति निर्देशः ।

यदि चेत्यादिना दोषमाह । कतमैर्वस्त्वादिभिरिति । अनुमोदनाचित्तसम्बन्धिभिः । चित्तमिति परिणामनाचित्तम् । तस्यापि निःस्वभाअवत्वात् । क्वेति कस्याम् । परिणामनैव न स्यादिति भावः ॥

अत एवार्यमैत्रेय आह । नेदमित्यादि । यदपि हि स्याद्भवेत् । क्व? अनुमोदनापरिणामनादौ । मात्रग्रहणमनुष्ठानव्यवच्छेदार्थम् । श्रद्धा संप्रत्ययः । प्रेम प्रीतिः । प्रसादो मनसः कालुष्यविगमः । गौरवं भक्तिः । (र्स्त्_६०) उपस्तब्धः स्थिरीकृतः । अवलयश्चित्तस्याव[न]तिः । संलयः सन्नतिः । विषादः खेदः । वि[षा]दापत्तिः खेदप्रवाहः । त्रासोद्यम उत्त्रासः । समग्रस्त्रासः संत्रासः । तत्प्रवाहः संत्रासापत्तिः । एवं चेति । अवलयाद्यभावे । येनेत्यादि । यदित्यनुमोदकं चित्तम् । क्षीणमित्युद्देशः । निरुद्धं विनष्टत्वात् । विगतमस्थितत्वात् । विपरिणतं तदिति न किञ्चिन्निःस्वभावत्वात् ।

समवधानं तुल्यकालता । चित्तं निरुद्धं चित्तधर्मता शाश्वती चेदाह । न चेत्यादि । तस्या असंस्कृतत्वेन परिणामायोगात् । सुगृहीतवचनं दुर्गुहीतस्य सुपरिणामितत्वायोगात् । आरभ्येत्यधिकृत्य । कथमित्याह । अधिष्ठानं प्रश्नाधिकरणं कृत्वेति । तत्कथम्? इह मैत्रेयेति वचनात् । आमन्त्रयते स्मेति ब्रूते स्म । इह मैत्रेयेत्यत आरभ्य कथं संज्ञादिविपर्यासो न भवतीति यावत् । एवमार्यमैत्रेय उत्तरमाह । स चेदित्यादि । येन चित्तेन यत्परिणामयतीति यच्चित्तं परिणामयति । तस्मिन्नित्युभ्यस्मिन् । एवमिति सुगृहीतत्वात् । परिणामितमिति सुपरिणामितम् । स्फुटीकर्त्तुमाह । यथेत्यादि । एवमित्यादिनोपसंहारः । कदा तर्हि विपर्यासः स्यादित्यत आह । अथेत्यादि । इयता विपर्यासप्रसंगे चोद्यं परिहृय प्रकृतानुपलम्भख्यापनायाह । स चेदित्यादि । एवं सञ्जानीत इत्युद्देशः । एवं समन्वाहरतीति निर्देशः । अविपर्यासेन मनसिकरोतीत्यर्थः । तदित्यादि । तत्चित्तमेवं समन्वाह्रियमाणमिति सम्बन्धः । क्षोणमित्यादिभिः पर्यायैर्मनसि करोति । न तच्छक्यमिति । असत्त्वाच्छशविषाणवत् । सव धर्मतेति निःस्वभावतैव । धर्मेष्विति बुद्धधर्मेषु । स चे दित्यादिनोपसंहारः । एवमित्यनुपलम्भेन । सर्वत्र शून्यतैकरसेन मनसिकारेणेत्यर्थः । इतीदमार्यमैत्रेयोऽतीतान् बुद्धानधिकृत्योक्तवान् । अनागतानधिकृत्याह पुनरपरमित्यादि । प्रत्युत्पन्नानधिकृत्याह पुनरपरमित्यादिभिः । अनुपलम्भपरिणामो द्वितीयः ॥

पुनरपरमित्यादि । अत्र संक्षेपेण त्र्यैयध्विकबुद्धादीनां पुण्यानुमोदना । अग्रादित्वं पुर्ववत् । अत्राविपर्यासं दर्शयितुमाह । तस्य कथमित्यादि । एवं समन्वाहरतीति समन्वाहारः सम्यग्मनसिकारः । ते धर्मा इति ये परिणामयितव्याः । स च धर्मोऽक्षय इति । अनुत्तरा सम्यक्सम्बोधिः सुविशुद्धधर्मतालक्षणा । एवं परिणामितं भवतीत्यविपर्यासादिति भावः । न धर्मो धर्म परिणामयतीति निःस्वभावत्वात्सर्वधर्माणाम् । इत्यपीति । एवमपि पूर्ववत् । अत एवाह । एवं भदन्तेत्यादि । स चेदित्यादिना प्रकारान्तरमाह । अयमित्यादिनोपसंहारः । इत्यविपर्यासपरिणामस्तृतीयः ॥

(र्स्त्_६१)
स चेदित्यादि । पुण्याभिसंस्कारः पुण्यकर्म । संज्ञानमभिनिवेशः । कथं तर्हि परिणामयतीत्याह । स चेदित्यादि । विविक्तः शान्तश्च यथाक्रमं स्वपरैः स्वपरलक्षणैश्च शून्यत्वात् । पुनः स चेदित्यादिनैतदाह । विविक्तशान्तत्वज्ञानेपि यदि तभ्दावाभिनिवेशः स्यात्तदा न सम्यक्परिणामयति । एवमित्यादिनोपसंहारः । प्रज्ञापारमितेति वचनम् । तयैव सम्यक्परिणामनादिति विविक्तपरिणामश्चतुर्थः ॥

यदपीत्यादिना स्मरणम् । यादृश एवेत्यादिना निरूपणम् । यादृश एव स परिणाम इत्यनुत्तरा सम्यक्संबोधिर्धर्मधतुस्वभावा तादृशमेव तदिति लभ्यते नित्याभिसम्बन्धात् । धर्मधातुस्वभावमेव तदित्यर्थः । तादृशमेव तत्कुशलमूलमिति यदनुमोदनासहगतम् । येनापीति परिणामनाचित्तेन । तदपीति तदप्युभयम् । तज्जातिकमिति सैव जातिः सामान्यं यस्य । तल्लक्षणमिति तदेव सामान्यलक्षणं यस्य । तन्निकायमिति तद्रासि(शि)कम् । तत्स्वभावमिति तत्प्रकृतिकम् । स चेदेवं संजानीत इति । यद्यनेनापि तादृशत्वादिना तत्त्वेनाभिनिविशते तदा न सम्यक्परिणामयति ।

यच्चातीतमित्यादिना अपरं तत्त्वविकल्पमाह । असंप्राप्तमनुत्पन्नम् । स्थितिर्नास्तीति प्रकृत्यैव नश्वरत्वात् । तस्मात्त्रयमपि नोपलभ्यते ततोऽसत् । ततो नैव निमित्तमकारणत्वात् । नाकारणं विषयः । स चेदित्यादि । एवमिति क्षीणत्वादिना तत्त्वेन । निमित्तीकरोतीत्युपलभते । तदा न समन्वाहरति न सम्यग्मनसिकरोति । तदा न सम्यक्परिणामयति ।

यदा तर्ह्यनवबोधादस्मरणाद्वा न निमित्तीकरोति तदा सम्यक्परिणामः स्यादिति चेदाह । अथेत्यादि । एवमपीति । एवमनिमित्तीकरणेपि न परिणामयति । परिणामनामात्रस्याप्यभावादिति भावः । कदा तर्हि सम्यक्परिणामितं भवत्यत आह । अथेत्यादि । य(अ)थशब्दो यद्यर्थः । तदिति तादृशत्वादिकम् । अनिमित्तं सविषयत्वञ्च । निमित्तमिति सम्यग्ज्ञानालम्बनम् । समन्वाहरतीति सम्यग्मनसिकरोति । न च निमित्तीकरोतीति न सञ्जानाति नाभिनिविशते । एवमत्रेत्यादिनोपसंहारः । एवं बौद्धपुण्यौघस्य यः स्वभावो धर्मता तया अनुस्मरणम् । अनुमोद्यादीनामिति बौद्धपुण्यौघस्वभावानुस्मृतिपरिणामः पञ्चमः ॥

इदं तदित्यादि । इवमिति यदेनदुभ[यं] तत्त्वस्य मनसिकारो न च निमित्तीकरणम् । तच्छब्दः प्रसिद्धौ । उपायकौशलं यत्प्रसिद्धमिदं तत् । य इत्यादिना अनुशंसमाह । अथास्मिनुपायकौशले क उपाय इत्यत (र्स्त्_६२) आह । अत्र चेत्यादि । इयमेवेति । सूत्रात्मिकैव । अश्रुतवतेति इमामस्यां वेति शेषः । प्रज्ञापारमिताया या परिणामना सैव पुण्यक्रिया । सेयं प्रवेष्टुमवगाहितुं न हि शक्येति सम्बन्धः । तत्रेति तथा सति । स मैवं वोचदिति स्याद्वचनीय । कोसावित्याह । य इत्यादि । इति सोपायपरिणामः षष्ठः ॥

तत्कस्येत्यादि । इदं तदिति यदुक्तं तत्कुत इत्यर्थः । आत्मभावाः कायाः । संस्कारः कुशलमूलानि । अतश्च ते शान्ता विविक्ताः निःस्वभावा इत्यर्थः । अतश्च विरहिता उपलब्ध्या नोपलभ्यन्त इत्यर्थः ।

अपि त्विति । यद्यपि नोपलभ्यन्ते तथापि यथाभूतमविपरीतं निरुद्धत्वादिकम् । निमित्तीकृत्येत्युद्ग्रहतः । विकल्प्य चेत्यभिनिवेशतः । अयथाभूते विकल्पप्रतिभासे यथाभूतनिरुद्धादिसंज्ञी । उपलम्भमात्मीयमनुपलम्भे सम्यक्संबोधौ परिणामयेत् । ततः किमित्याह । तस्येत्यादि । परिनिर्वाणमपीति । अपिशब्दोऽतिशयार्थः । तस्यात्यन्तं निमित्तीकरणाद्ययोगात् । सविषः सशल्यश्च ताद्धर्म्यात् । इत्यनिमित्तपरिणामः सप्तमः ॥

तद्यथापीत्यादि । प्रणीतं वर्णादिप्रकर्षात् । किं चापीति यद्यपीत्यर्थः । अपि त्विति तथापीत्यर्थः । खलु पुनरिति वाक्यालंकारो मन्येतेति वर्णादिलाभात् । स्वादनं स्वादः परिभोगः । परिणामे चेति अवसाने च । विपाकफलम् । दुर्गहीतेनेति मिथ्याश्रुतेन । दुरुप [ल]क्षितेनेति दुर्वितर्कितेन । दुःस्वाध्यातेनेति दुरभ्यासेन । सुभाषितम् । इति करणसमाप्त्यर्थः । एवं स इति योयमुक्तः । सविषत्वादिति । अनर्थकरणशक्तिरत्र विषम् । तस्मादित्युपसंहारः ।

कथमित्यादिना प्रश्नाः । इहेत्यादिकमुत्तरम् । अभ्याख्यानं निन्दा । अभूतवादितया ख्यापनात् । परिग्रहीतव्यादिपदेषु परिग्रहेणानुमोदना लक्ष्यते । नान्तरीयकत्वात् । बुद्धज्ञानेन ज्ञा(जा)नन्ति बुद्धचक्षुषा पश्यन्तीति सम्बन्धः । एवं चास्येत्युपसंहारः । निर्विषत्वादिकं सर्व कुत इत्याह अध्याशयेनेत्यादि । इति बुद्धानुज्ञातपरिणामोऽष्टमः ॥

पुनरपरमित्यादि । शीलादीति तथागतः शीलादिस्कन्धः । अपर्यापन्नमनन्तर्भूतम् । त्र्यध्वत्रैधातुकापर्यापन्नत्वादिति । अध्वत्रये धातुत्रये चानन्तर्गतत्वादित्यर्थः । धर्मधातुमात्रत्वात्तेषां शीलादीनामिति भावः । परिणामोपीति परिणामनापि । यत्रापि धर्म इति सम्यक्सम्बोधौ । अविनष्ट इत्यदुष्ट । अपर्यापन्नः । बुद्धानुज्ञातपरिणामयोर्धर्मधातुपरिणामत्वेन समतां (र्स्त्_६३) दर्शयितुमाह । तत्रेत्यादि । अत्र द्वितीयादिशब्दात्परेण वार्थो गम्यते । योयं धर्मधातुपरिणामनया परिणामः । अयं सम्यक्परिणाम इति सम्बन्धः । कतमयेत्याह । अनयेत्यनन्तरोक्तया । अपर्यापन्नपरिणामनयेत्यर्थः । यथा बुद्धा भगवन्त इत्यादिकया बुद्धानुज्ञातपरिणामनयेवेत्यर्थः । एवं चेत्युपसंहारः । इत्य पर्यापन्नपरिणामो नवमः ।

अथ खल्वित्यादि । यो ह्ययमिति योह्यपर्यापन्नाख्यः । अस्यामेवेत्यादिना परिणामयतीत्येतत्पर्यन्तेन बुद्धानुज्ञातपरिणामस्य निर्देशः । अत्रेत्यनयोर्धर्मधतुपरिणामनयोः । अग्रादित्वं प्रमु[दि]ताद्येकादशभूमिगतप्रकर्षहेतुत्वात् । शेषं सुबोधम् । यावत्पञ्चानामभिज्ञानां लाभिनो भवेयुरिति । इहोक्ते महापुण्योदये यच्छद्धादिकं स पूर्वकाद्विशेषहेतुरिति मृदुर्महापुण्योदयपरिणामो दशमः ॥

तिष्ठत्वित्यादि सुबोधं यावत्प्रत्येकबुद्धा भवेयुरिति । इहोक्तपुण्यातिरेके श्रद्धादिकं पूर्वकाद्विशेषहेतुरिति मध्यो महापुण्योदयपरिणाम एकादशः ॥

तिष्ठत्वित्यादि । ये सुभूत इत्यादिना दद्युरित्येतदन्तेनोद्देशः । एतेन पर्यायेणेत्यादिना दद्युरित्येतदन्तेन निर्देशः । एतेनेति वक्ष्यमाणेन । ग्लानं ग्लानिः । तत्प्रत्ययानि तद्धेतुकानि भैषज्यानि । परिष्काराः परिश्रावणादयः । सुखहेतवः सुखाः । तेषामुपधानैः ढोकनैः । सुखस्पर्शः सुखानुभवः । तेन ये विहाराः चंक्रमादयः । तान् सर्वसत्त्वानेककं परिकल्प्येति । उपस्थेयत्वेन पृथगवस्थाप्य । तांश्च सर्वबोधिसत्त्वानिति । एकैकं परिकल्प्येति वर्तते । उपस्थापकत्वेन पृथगवस्थाप्य । एकंको बोधिसत्त्व इति । उपतिष्ठदिति सम्बन्धः । किमुपतिष्ठेत्? प्रकृतत्वात्तानेव सर्वसत्त्वान् । एकंकस्तेषां सर्वबोधिसत्त्वानामिति निर्धारणे षष्ठी । तेषां मध्ये एकैकः दानं दद्यादिति । तेभ्य एव सर्वसत्त्वेभ्यः । तावच्चिररात्रसञ्चितमिति । तावता दीर्घकालेन सञ्चितम् । तथा महाविस्तरसमुदानीतमिति । तावन्महाविस्तरेणोत्पादितम् । तिष्ठतु खलु पुनरित्यादि । पूर्वत्र गंगानदीबालुकोपमलोकधातुवीर्याः सर्वबोधिसत्त्वा उपस्थापकाः प्रत्येकं गंगानदीबालुकोपमलोकधातुवीर्यानां सत्त्वानाम् । तत्र यावन्त उपस्थेयाः सत्त्वा इह तावन्त उपस्थापका बोधिसत्त्वाः प्रत्येकं गङ्गानदीवालुकोपमा लोकधातुवीर्यानां सत्त्वानामिति विशेषः । तान्सर्वसत्त्वान् (र्स्त्_६४) एकैकं परिकल्पितांश्च सर्वबोधिसत्त्वानिति पूर्ववत् । शेषं सुबोधम् । इत्यधिमात्रो महापुण्योदयपरिणामो द्वादशः ॥

समाप्तश्च परिणामनामनस्कारः ॥

अनुमोदनामनस्कारो वक्तव्यः । तमधिकृत्य शास्त्रम्-

[५४] उपायानुपलम्भाभ्यां शुभमूलानुमोदना ।
अनुमोदे मनस्कारभावनेह विधीयते ॥ २-२४ ॥

एतदाह । अथ खल्वायुष्मानित्यादिना । निरवशेष्येति निरवशेषीकृत्य । अग्रत्वादीनि चतुर्दशोक्ताः । कियता अग्रता भवतीति प्रश्नः । इयता भवतीत्युत्तरम् । कोत्राभिप्रायः? अग्रत्वमेव दशदिग्मध्यत्र्यध्वकुशलालम्बनत्वाच्चतुर्दशविधं भवतीति । यत्र तर्हि त्रयोदशपदानि तत्रापि दशदिक्त्र्यध्वभेदात्त्रयोदशविधम् । तत्र कथं मध्यमलोकधातोः संग्रहः? तन्मध्ये सूक्ष्ममवधिं कृत्वा दिशां ग्रहणात् । लोकधात्वेकदेशेष्वपि लोकधातुव्यपदेशात् । तद्यथा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूतेति । यदा हि त्रिंशद्रात्रा मासास्तदाष्टौ । यदा मासैकदेशोपि मासस्तदा नव । न गृण्हीते ग्राह्यत्वेनाप्रतिभासात् । न मन्यते वस्तुत्वेनाप्रतिभासात् । नोपलभते स्वरूपतो अप्रतिभासात् । न कल्पयति सामान्यलक्षणेन । न विकल्पयति विशेषलक्षणैः । न पश्यति दृष्ट्या अनभिनिवेशात् । न समनुपश्यति सन्ततमनभिनिवेशात् । कल्पना अभूतपरिकल्पः । तथा विठपिताः संदर्शिताः । अजाता निर्बीजत्वात् । अनिर्जाता अनिष्पत्तेः । अनागतिका अनागतादध्वनःपूर्वलोकाद्वा । अगतिका अतीताध्वनि परलोके वा । एवं यावत्नापि निरुध्यत इति । निःस्वभावत्वात्परिकल्पतत्वाद्वेति हेतुः । एवमिति परिकल्पितेन स्वभावेन । इत्थं भूतानेतान् धर्मानिति परतन्त्ररूपान् कुशलान् । धर्मतेति बालबुद्धिगोचरैः स्वभावैः शून्यता । अनुमोदनाधिकारेपि तथा अनुमोद्य तथैव परिणामयतीति वचनमवश्यपरिणामनीयत्वात् । शेषं व्याख्यतमेव यावत्न क्षमत इति । इत्यनुपलम्भानुमोदना प्रथमा ॥

पुनरपरमित्यादि । विमुक्तिर्निर्वाणम् । तच्च धर्मधातोः सर्वावरणविशुद्धिता परमार्थतस्तथैव सर्वं दानादीत्यर्थः । सङ्गस्तृष्णा । तदभावाद्(र्स्त्_६५) असक्तानां तृष्णाहेतुकस्य जन्मनोऽभावादबद्धानाम् । ततो अमुक्तानाम् । अपरिणामनायोगे तस्याप्यनुपलम्भात् । स कथमित्याह । असंक्रान्तितो अविनाशत इति । तथाह्यवस्थान्तरसंक्रान्तिः परिणामः पूर्वविनाशापरोत्पत्ती वा । न च धर्मधातोरवस्था । न च संक्रमो नापि विनाश इति ।

समादायोति गाचरतः (?) सावधिकमादाय । आक्रुष्टः शप्तः । अभिहतस्ताडितः । परिभाषितो भूताभूतदोषस्थानैः । समानिति सन्नित्यर्थः । स्त्यानं च मिद्धं च तेनाभिभूता इति सम्बन्धः । तत्र स्त्यानं चित्तस्याकर्मण्यता स्तैमित्यम् । स्तैमित्यलक्षणा या चित्तस्याकर्मण्यता स्वालम्बनप्रतीतये तत्खलु स्त्यानम् । मिद्धमस्वतन्त्रवृत्तिश्चेतसोऽभिसंक्षेपः । चेतसोऽभिसंक्षेपश्चक्षुरादीन्द्रियद्वारेणाप्रवृतिः । स चेदस्वाधीना । चेतसो वृत्तिस्तन्मिद्धम् । शेषं सुबोधमापरिवर्तसमाप्तेः । उपायो विमुक्तिसादृश्यम् । तेनेयं धर्मधातोरनुमोदनानुपलम्भेनेत्युपायानुमोदना द्वितीया ॥

अनुमोदना च परिणामना च तस्याः । तयोरभिधायकः परिवर्तो अनुमोदनापरिणामनापरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां षष्ठः परिवर्तः ॥


७. निरयपरिवर्तो नाम सप्तमः

लौकिको भावनामार्गस्त्रयो मनस्काराः । तदुक्तः । लोकोत्तरस्तु भावनामार्गोऽनिर्हारः शुद्धिरत्यन्तंऽ इति पूर्वमुद्दिष्टः । तत्र निर्हारमधिकृत्य शास्त्रम्-

[५५] स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः ।
नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २-२५ ॥

पञ्चाङ्गानि निर्हारस्य ।ऽतस्यऽ इति भावनामार्गस्य प्रज्ञापारमिताविशेषस्यऽस्वभावःऽ सर्वज्ञज्ञानपरिनिष्पादकत्वादिधर्मचक्रप्रवर्तकत्वपर्यन्तः ।ऽश्रेष्ठताऽ षट्पारमितासु । अभिनिर्हारः सर्वधर्माणांऽअनभिसंस्कारःऽ । अनुपलम्भेन सर्वधर्मानर्पयतीतिऽअर्पणाऽ । सर्वधर्मानुपलम्भेनैव बोधेः प्रापणात्ऽमहार्थताऽ इति । अत आह । अथ खल्वित्यादि । अस्य हि भावनामार्गस्य स्वभावः प्रज्ञापारमिता । कीदृशीत्याह । सर्वज्ञज्ञानस्य (र्स्त्_६६) परिनिष्पत्तिः यतः सा तथोक्ता । सर्वज्ञत्वमिति सर्वावरणवासनानुसन्धिप्रहीणं ज्ञानम् । प्रहाणसम्पत्सहिता ज्ञानसम्पदित्यर्थः । तदपि सर्वज्ञत्वमेव । अत्रोपपत्तिरवभासकरोति । सर्वावरणतमःप्रहाणमवभासः । तत्करेति प्रहाणसम्पत् । सर्वधर्मपरमार्थप्रतिभासो वा अवभासः । तत्करेति ज्ञानसम्पत् । अतश्चैनां नमस्करोमि सांप्रतम् । नमस्करणीयेति । आयत्यां प्रतिक्षणम् । एकेन पदेन द्वे सम्पदावुक्ते । इदानीं पदद्वयेन प्रहाणमाह । अनुपलिप्तेति सर्वावरणमलक्षयात् । सर्वलोकनिरुपलेपेति त्रिअधातुकमलक्षयात् । इदानीं पदत्रयेण ज्ञानमाह । सर्वधर्मपरमार्थप्रतिभास आलोकः । तत्करा । अत्र द्वौ हेतू पदद्वयेनाह । तिमिरमज्ञानम् । तद्विपर्ययो वितिमिरं ज्ञानमित्यर्थः । सर्व समग्रं त्रैधातुक त्रैधातुकपरमार्थः । तस्मिन्वितिमिरम् । तत्करा । इत्यालम्बनव्याप्तिः । क्लेशाश्च दृष्टयश्च ता एवान्धकाराः । सर्वे च ते ते च तेषामपनेत्रीति सर्वविपक्षक्षयः । इयता सर्वेण स्वार्थसम्पत्तिरुक्ता । परार्थसम्पत्तिमधिकृत्याह । आश्रयणीयेत्यादि । आश्रयणीया सर्वपदप्रेप्सुभिः । अग्राणि पदानि स्त्रोत आपत्तिः सकृदागामित्वं यावत्प्रत्येकबोधिः । तत्करा । तेषामुपायः सप्तत्रिंशद्बोधिपक्ष्याः । तेषां क्षमकरी विघ्नहरणात् । यावन्न लोकोत्तरज्ञानं
तावदन्धाः । तेषां तदुत्पादनादालोककरी । सर्वभयोपद्रवैः प्रहीण आलोको लोकोत्तर एव भावनामार्गः । तत्करा । इयता हीनयानिकानामर्थ उक्तः ।

बोधिसत्त्वार्थमधिकृत्याह । पञ्चचक्षुरित्यादि । ते हि परार्थप्रधानाः । तस्य सैव साधनमालम्बनभेदेन पञ्चचक्षुःपरिवारा । अभेदेन सैव चक्षु सर्वधर्मपरमार्थदर्शनात् । व्यापिनो दर्शनस्य त्रयो विबन्धाः । मोहतमरितमिराणि । तत्र मोहो अज्ञानम् । तमोन्धकारम् । तिमिरं चक्षुरोगः । तेषां विकरणी विध्वंसनी । संक्षेपतो वितिमिरकरणी तिमिरसामान्यात् । किमुत्पादयतीत्यत आह । सर्वधर्माणामकरणीति । सर्वधर्माः स्कन्धधात्वायतनानि । तेषां त्रयः स्वभावाः । कल्पितः परतन्त्रः परिनिष्पन्नश्च । तत्र कल्पितं न करोति तस्य यथालक्षणमसत्त्वात् । परतन्त्रो अभूतपरिकल्पः । तत्र करोति तत्प्रतिपक्षत्वात् । परिनिष्पन्नो धर्मधातुः । तमपि न करोत्यनादिनिधनत्वात् । सम्यग्ज्ञानं करोतीति चेत्? न । अनादिनिधनचित्तसन्तानभ्रान्तिनिवृत्यैव सम्यग्ज्ञानसिद्धे । किं तर्हि करोतीत्यत आह । उत्पथेत्यादि । उत्पथो धर्माणां परिकल्पना तेन प्रयातानाम् । मार्गे धर्मनैरात्म्यज्ञाने अवतारणी । कस्य मार्गे? सर्वज्ञतायाः । इयता सर्वज्ञज्ञानपरिनिष्पत्तिरिति यदुक्तं तत्परार्थेपि दर्शितम् । यदुक्तं सर्वज्ञत्वमिति तत्परार्थेप्याह । सर्वज्ञतैवेत्यादिना । यदा हि वासनानुसन्धिप्रहीणता तस्यास्तदासौ सर्वज्ञतेत्यर्थः । सा तर्हि प्रज्ञापारमिता उत्पादिका (र्स्त्_६७) निरोधिका उत्पन्ना निरुद्धा च । नेत्याह । अनुत्पादिकेत्यादि । अनुत्पादिका सर्वधर्माणामिति वैयवदानिकानाम् । अनिरोधिका सर्वधर्माणामिति सांक्लेशिकानाम् । अनुत्पन्नानिरुद्धेति स्वयम् । परमार्थतो यथाप्रतिभासं चेति भावः । परमार्थो ह्येषां धर्मधातुः । तेनैषामनादिनिधनत्वाद्वालप्रतिभासिना रूपेणात्यन्त- । समत्वान्नैषामुत्पादनिरोधौ । अत एवाह । स्वलक्षणशून्यतायामुपादायेति प्रतीत्यसमुत्पन्नं पुनरेषां तृतीयं स्वभावमुपादायाह । मातेत्यादि । माता जननी । कुतः?
सर्वबुद्धधर्मा एव रत्नानि तेषां दात्रीत्वात् । तान्येव हि समग्राणि हेत्ववस्थानि बोधिसत्वानां शरीरं तत इयं तद्दानात्तेषां जननी । बुद्धग्रहणाब्दुद्धजननीत्वमर्थाद्गम्यते । न पुनस्तावता बुद्धानामतिशयो गम्यते । अतो विशिष्टैर्गुणैः पुनस्तदाह दशबलेत्यादिना ।

दश तथागतबलानि । तत्करा । कतमानि दश? "स्थानास्थानज्ञानबलम् । कर्मविपाकज्ञानबलम् । नानाधातुज्ञानबलम् । नानाधिमुक्तिज्ञानबलम् । इन्द्रियपरापरज्ञानबलम् । सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम् । पूर्वेनिवासानुस्मृतिज्ञानबलम् । च्युतोपपादज्ञानबलम् । आश्रवक्षयज्ञानबलं च" इति । लक्षणमेषां यथोक्तं महत्यो र्भगवत्योः । तत्र सम्भवासम्भवौ स्थानास्थाने । तद्यथा दुश्चरितानामनिष्टो विपाक [:] स्थानमिष्टोऽस्थानमिति । कर्म च विपाकश्च । नानाधातुः पुण्यापुण्यादिजनकोऽध्याशयः । नानाधिमुक्तिस्तद्यथा रागद्वेषादौ स्थितानां द्वेषरागादौ रुचिः । इन्द्रियाणि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाः । तेषां परापरत्वं विमात्रता । अयं मृद्विन्द्रियोऽयं मध्येन्द्रिय इत्यादि । सर्वत्रगामिनीप्रतिपत् । रागस्य प्रतिपक्ष इयं प्रतिपत् । इयं द्वेषस्येत्यादि । चतुर्णा ध्यानानामष्टानां विमोक्षाणां त्रयाणां समाधीनां सवितर्कसविचारादीनां चतसृणामारूप्यसमापत्तीनां नवानां चानुपूर्वविहारसमापत्तीनां संक्लेशादिकम् । तत्र संक्लेश आस्वादनादिना । व्यवदानमनुपलम्भादिना । व्युत्थानं सिंहविजृम्भितेन वा अवस्कन्दकेन वा । पूर्वे निवासः पूर्वजन्म । तस्मिन्ननुस्मृतिः स्मरणम् । च्यु[त्यु]पपादौ सत्त्वानां मरणोत्पत्ती । आश्रवाः क्लेशास्तेषां यः क्षयो येन च मार्गेण क्षयस्तदुभयमाश्रवक्षयः । सत्त्वानाम् । एषां स्थानास्थानादीनां सर्वथा सर्वदा सम्यग्ज्ञानं तदिह स्थानास्थानादिज्ञानम् । तदेव बलमितरैरघृष्यत्वात्, तेषां वाभिभवनात् ।

अनवमर्दनीयेत्यभिभवितुमशक्या । कुत इत्याह । चतुर्वैशारद्यकरीत्वादिति । सिंहवदत्यन्तनिःशंको युक्तवादी विशारदः । तस्य भावो वैशारद्यम् । (र्स्त्_६८) चत्वारि वैशारद्यानि । अभिसंबोधिवैशारद्यम् । आश्रवक्षयवैशारद्यम् । आन्तरायिकध[र्म]वैशारद्यम् । नैर्याणिकधर्मवैशारद्यं च । अभिसम्बोधिस्तथागतस्य ज्ञानसम्पत् । आश्रवक्षयः प्रहाणसम्पत् । तदुभयं स्वार्थः । आन्तरायिका धर्मा निर्वाणस्य विबन्धकाः नैर्याणिका धर्मा निर्वाणस्य प्रापकाः । एतदुभयं परार्थः । परेभ्यस्तदाख्यानात् । तेषु वैशारद्यम् । तत्प्रतिज्ञाप्रतिष्ठापनेष्वित्यर्थः । तत्करा । अनाथाः सत्त्वा अनादौ दुःखसागरे भ्रमतामेषामद्यापि त्रातुरभावात् । तेषां नाथस्त्राता भगवान् बुद्धः । तत्करा । इयता सर्वज्ञज्ञानपरिनिष्पत्तिरेषेति समर्थितः । एषैव सर्वज्ञत्वमिति समर्थयितुमाह । संसारेत्यादि । संसारः साश्रवाः स्कन्धाः । तस्य प्रतिपक्षा हन्त्री । धर्मधातुरेव तस्य हन्तेति चेदाह । अकूटस्थतामुपादायेति । धर्मधातुर्हि कूटस्थो अनादिनिधनैकरूपत्वात् । स चेत्प्रतिपक्षः स्यात्तदा आदित एव संसारो न स्यात् । प्रज्ञापारमिता पुनरादिमती, उत्तरोत्तरगामिनी चेति सैव तस्य प्रतिपक्षः । अनेन प्रहाणसम्पदुक्ता । ज्ञानसम्पदमाह सर्वेत्यादिना । सर्वधर्माणां स्वभावः परमार्थः । तस्य विदर्शनी तत्प्रतिभासत्वात् । स्वस्य परेषाञ्च परार्थमधिकृत्याह । परिपूर्णेत्यादि । परिपूर्णमेकेनाप्यनूनत्वात् । त्रिपरिवर्तद्वादशाकारं च यद्धर्मचक्रम् । धर्मः शासनम् । तदेव चक्रं विनेयसन्तानेषु चंक्रमणात् । तस्य प्रवर्तनो प्रवर्तयित्री । बुद्धानां तथैव तस्य प्रवर्तनात् ।

तत्र धर्मचक्रं सत्यचतुष्टयम् । तस्य त्रयः परिवर्ताः । इदं दुःखम् । अयं दुःखसमुदयः । अयं दुःखनिरोधः । इयं दुःखनिरोधगामिनी प्रतिपदिति । सत्यचतुष्टयस्य स्वभावपरिच्छेदः प्रथमः परिवर्तः । तस्यैव यथाक्रमं परिज्ञेयप्रहेयसाक्षात्कर्तव्यभावयितव्यत्वपरिच्छेदो द्वितीयः परिवर्तः । तस्यैवात्मना परिज्ञातप्रहीन(ण)साक्षात्कृतभावितत्वपरिच्छेदस्तृतीयः । तस्मात्त्रिपरिवर्तं तत् । दुःखसत्यस्य दुःखस्वभावः परिज्ञेयत्वं परिज्ञातत्वं चेति त्रय आकाराः । समुदयसत्यस्य तत्स्वभावः प्रहेयत्वं प्रहीणत्वं चेतिं त्रय आकाराः । निरोधसत्यस्य तत्स्वभावः साक्षात्कर्तव्यत्वं साक्षात्कृतत्वं चेति त्रय आकाराः । मार्गसत्यस्य तत्स्वभावो भावयितव्यत्वं भावितत्वं चेति त्रय आकाराः । तस्मात्द्वादशाकारं तत् ।

ननु प्रतीत्यसमुत्पन्नेनापि स्वभावेनेयं [न] निरोधिका शां(सां)क्लेशिकानां विनाशहेतूनामकिञ्चित्करत्वात् । नाप्युत्पादिका वैयवदानिकानां मिथ्याज्ञाननिवृत्तौ चित्तमात्रादेव सम्यग्ज्ञानोत्पत्तेः । नैतदस्ति । बन्ध्यक्षणोत्पादनस्यैव सन्ताननिरोधत्वात् । अग्निना शीतनिरोधवत् । प्रज्ञापारमितयैव मिथ्याज्ञाननिरोधे (र्स्त्_६९) सति भगवतः प्रागभूतस्य सम्यग्ज्ञानस्य तद्धेतुकत्वात् । निरोधस्य चावस्तुनो हेतुत्वायोगात् । चित्तस्यैव च निरुद्धविपक्षस्य सम्यग्ज्ञानत्वात् । अन्यथा हि सर्वभ्रान्तिनिवृत्तिकालेपि व्यापि सम्यग्ज्ञानं न स्यादिति भावनामार्गस्य स्वभावः ॥

कथमित्यादिना सर्वज्ञतानुप्राप्तय इत्येतदन्तेन श्रेष्ठता । स्थातव्यमिति वर्तितव्यम् । पूजाभिः मनसिकर्तव्या गुणानुस्मरणैः । नमस्कर्तव्या कायवाक्चित्तैः । निदानं प्रस्तावः पृच्छायाः । हेतुस्तु भगवत्याः श्रेष्ठता । प्रज्ञापारमिताया यत्कौशल्यपरिगृहीतस्य बोधिसत्त्वस्यानुमोदनासहगतं पुण्यमौपलम्भिकानां पञ्च पारमितामयात्पुण्याद्विशिष्यत इतीदं निदानमनन्तरोक्तत्वात् । यत इयं तासां परिणायिका ततः श्रेष्ठेति हेतुः । अपरिणायकमिति परिणायकरहितम् । अभव्यमयोग्यम् । जात्यन्धभूतं जात्यन्धसदृशम् । शेषं सुबोधम् । इति श्रेष्ठता ॥

अथ खल्वायुष्मानित्यादिना अभिनिर्हारो द्वितीयातेवमुक्तात्प्राक् । प्रज्ञापारमितेति भावनामार्गः । यः पञ्चानां स्कन्धानां यावत्सर्वधर्माणामनभिसंस्कारोऽनुपलम्भः सोऽस्य अभिनिर्हारः परिनिष्पादनम् । अवयवार्थः सुबोधः । इत्यभिनिर्हारः ॥

एवमुक्त इत्यादि यावत संख्यां गच्छतीति । कतमं धर्ममित्यनाश्रवः । न कश्चिद्धर्ममिति । धर्माणामर्पणायाश्चानुपलम्भादित्यर्पणा ॥

अथ खलु शक्र इत्यादि शारिपुत्रवचनात्प्राक् । यदि न कञ्चिद्धर्ममर्पयति न तर्हि सर्वज्ञतामपीति मत्वा शक्र आह । किमियमित्यादि । अर्पयत्येव केनचित्पर्यायेण । यथा तु नार्पयति तद्भगवानाह न यथेत्यादि । उपलम्भो बालग्राहेण रूपेण । नाम संज्ञा । संस्कारः कल्पना । यथा त्वर्पयति तत्पृच्छति । कथं तर्हीत्यादिना । उत्तरं यथेत्यादिना । यथा नार्पयतीति धर्माणामर्पणायाश्चाविकल्पनात् । तथेति । अविकल्पनया । न कञ्चिदित्यादि । धर्माणामुत्पादादीनां चाविकल्पनादिति भावः । अनुत्पादायानिरोधायेति नोत्पादाय न निरोधायेत्यर्थः । असमर्थसमासत्त्वात् । अतश्च अनुपस्थितेत्यकिञ्चित्करत्वात् । एवमपीति सर्वज्ञतार्पकत्वेनापि । दूरीकरिष्यतीत्यसंमुखीभावात् । रिक्तीकरिष्यतीति संमुखीभूतस्य ज्ञानस्य तल्लक्षणाभावात् । तुच्छीकरिष्यतीति तत्फलाभावात् । न करिष्यतीति नोत्पादयिष्यति । अस्त्येष पर्याय इति यथा त्वयोक्तः । तत्कस्य हेतोरिति तद्दूरीकरणादिकं कुतः? परिदीपितायामिति निर्दिष्टायाम् । न रूपं यावन्न बुद्धत्वमिति न किञ्चिद्धर्म (र्स्त्_७०) इत्यर्थः । तस्मात्कञ्चिद्धर्म पश्यन् दूरीकरिष्यतीति । यावन्न करिष्यतीमाम् । कतमेन पर्यायेणेति । किं महार्थतयेति भावः ॥

सुभूतिराह नेत्यादि । निःस्वभावेषु सर्वधर्मेषु द्वयाभावादिति भावः । असंक्षिप्ता विक्षिप्तेति । अद्वयत्वात् । एवमपीति महार्थतयापि । किम्पुनः शब्दादतिशयार्थः । एवमित्युक्त्वा । तदेवाह । एवमहमित्यादिना । निःष्यन्द इति तत्पृष्ठभावी निश्चयः । यः सत्त्वोपलम्भ इति सम्बन्धः । सत्त्वः पुद्गलद्रव्यं तद्वदस्वभावजातिकास्वभावलक्षणम् । जातिरुत्पत्तिः । ताभ्यां रहिता । अस्यैव निर्देशः सत्त्वास्वभावतयेत्यादिना । परिशेषाद्गम्यते सत्त्वाजातिकतया अजातिकतेति । विविक्तता शून्यता । अचिन्त्यता चित्तानालम्बनता । अभिसंबोधनं साक्षात्क्रिया । तदभावादनभिसंबोधनता । यथाभ । सद्भुतो अर्थः । तस्यानभिसंबोधनमग्रहणं सत्त्वः । तद्वत्प्रज्ञापारमिता । यथा सत्त्वस्य बलसमुदागमनं बलनिष्पादनं न किञ्चित्तथा तथागतस्य प्रज्ञापारमितयेति महार्थता ॥

अभिनिर्हारस्य पञ्चाङ्गान्युक्तानि । षष्ठसप्तमेपि स्तः । अधिमोक्षहेतुः प्रतिपक्षहेतुश्च । तेऽधिकृत्य शास्त्रम्-

[५६] बुद्धसेवा च दानादिरुपाये यच्च कौशलम् ।
हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ २-२६ ॥
[५७] माराधिष्ठानगम्भीरधर्मतानधिमुक्तते ।
स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ २-२७ ॥

अत्राधिमुक्तिहेतवस्त्रय उक्ताः पादत्रयेण । धर्मव्यसनं प्रतिक्षेपः । तस्य चत्वारो हेतव इतरैः पञ्चभिः पादैः ।ऽअनधिमुक्तताऽ अनधिमुक्तिः । तत्राधिमोक्षोऽस्मिन्नेव भावनामार्गेऽधिमुक्तिः । तमाह । अथ खल्वित्यादिना न धन्धयिष्यतीत्येतदन्तेन । अधिमोक्षयिष्यतीति निश्चिते वस्तुन्येवमेव नान्यथेत्यवधारणमधिमोक्षः । तं करिष्यतीत्यर्थः । तत्करोतीति चुरादौ पाठाण्णिच् । तस्याधिमोक्षस्य लक्षणं त्रिभिः पदैर्गत्यन्तरप्रतिषेधायाह । तत्र कांक्षा बाधा । अबाध्यबाधनस्य कांक्षामात्रत्वात् । विचिकित्सा संशय एव । धन्धायनमप्रतिपत्तिरिति त्रीणि गत्यन्तराणि । धन्धोऽप्रतिपत्तौ । धन्धो भविष्यतीति धन्धायिष्यति । लोहितादेराकृतिगणत्वात्क्यष् । इत्यधिमोक्षः ॥

अधिमोक्षस्य त्रयो हेतवः । तत्र द्वौ पृच्छति । कुतश्च्युत्वेहोपन्नः कियच्चिरचरितावी चेति । स इति योऽधिमोक्ता । अधिमुक्तोऽधिमुक्तिकारित्रेण (र्स्त्_७१) लक्ष्यते । अतस्तदाह । य इत्यादिना । अर्थत इत्यष्टाभिरभिसमयैः । अर्थनयत इति यथास्वं तेषामेव वस्तुभिः । धर्मत इत्येभिरेव नामपदव्यञ्जनैः । धर्मनयत इति समासव्यासादिभिः । अनुगमिष्यंत्यनुसरणात् । अनुभोत्स्यते तथा ज्ञानात् । अनुबोधयिष्यति तथैव परान् ।

तत्कस्य हेतोरिति कुतो लिङ्गात् । यः कश्चिदित्यादिना लिङ्गमाह । मे दृष्ट इति मया दृष्टः । सम्बन्धविवक्षायां षष्ठी । तद्यथा सुभाषितस्य शिक्षते, नाग्निस्तृप्यति काष्ठानामिति । अवदधाति सावधानं करोति । सत्कृत्येति भक्तितो रुचितो वा । नोपच्छिनत्ति विच्छेदाकरणात् ।

चिरेत्यादिनोपसंहारः । चिरचरिताः पारमिता अवितुं शीलमस्येति चिरचरितावी । बहवो बुद्धाः पर्युपासिता येन स तथोक्तः । इति बुद्धसेवादानादिचर्या ॥

तृतीयोऽधिमोक्षहेतुरुपायकौशल्यम् । तदाह । अथ खल्वित्यादिना स्थविरः सुभूतिरित्यतः प्राक् । शक्या पुनरिति कांक्षा प्रश्नः । श्रोतुं शब्दतः । उपलक्षयितुमर्थतः । समन्वाहर्तुं कालान्तरे स्मर्तुम् । उपपादयितुं चिन्ताकाले । उपधारयितुं भावनाकाले चेतसि स्थिरीकरणात् । इयमिति प्रतिभासमाना । इहामुत्र वेति प्रतिभासमाना धारा । अनेनेति प्रतिभासमानेन । आकारेणेति लक्षणेन । तद्यथा गौः सास्नादिमत्वेन । लिङ्गेनेति कृत्रिमेण चिन्हेन । तद्यथा गौर्घण्टादिना । निमित्तेनेति स्वाभाविकेन चिन्हेन । तद्यथा गौःशुक्लत्वादिना । निर्देष्टुं परस्मैः । श्रोतुं परस्मात् ।

भगवानाह । उत्तरं नो हीत्यादि । स्कन्धादिश इति स्कन्धादिभिः । रूपस्कन्ध इति वा यावद्धर्मायतनमिति वेत्यर्थः । कुत इत्याह । सर्वधर्मैस्तैरेव विविक्तत्वादस्याः । तदपि कुतः? निःस्वभावत्वात्तेषाम् । परिकल्पितेन धर्मस्वभावेनेति भावः । न चान्यत्रेति । न चान्या तत्परमार्थत्वादिति भावः । अत एव तदित्यादिना प्रश्नः । स्कन्धेत्यादिनोत्तरम् । विज्ञप्तिरूपं स्कन्धादिकमेव । शून्यं परिकल्पितेन स्कन्धादिस्वभावेन । सा तस्य तेन शून्यता विज्ञप्तिमात्रता प्रज्ञापारमिता । तस्मादद्वयमेतद्द्वंवीकारम् । ननु शून्यताया इदं लक्षणं न प्रज्ञापारमिताया इत्यत आह । शून्यत्वादित्यादि । नोपलभ्यते स्कन्धादि यथालक्षणम् । योनुपलम्भः सर्वधर्माणामिति तद्विविक्तप्रकाशमात्रोपलम्भलक्षणः । न तूपलम्भनिवृत्तिमात्रम् । "नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा" इति वचनात् । योऽनुपलम्भः सा प्रज्ञापारमिता प्रकृष्टज्ञानत्वात्पारगत्वाच्च । तथापि नासौ प्रज्ञापारमिता । स्याद्यदि स्कन्धादिशून्यतामनुभूय (र्स्त्_७२) स्कन्धाद्यवसीयेत । रजताद्यवसाये शुक्तिदर्शनवत् । एतद्दर्शयितुमाह । यदेत्यादि । यदा तु यथानुभूतनिश्चयं जनयति न स्कन्धा न धातुर्नायतनमिति तदा प्रज्ञापारमितैव । तन्निस्यन्दत्वात्स्कन्धाद्यभावनिश्चयस्य । शुक्तिनिश्चये शुक्तिदर्शनवत् । प्रामाण्यात् । तद्येवं यद्यथास्ति यथा च नास्ति यथा च प्रज्ञापारमिता स्यान्न स्याद्वा तस्य सर्वस्य सम्यग्बोध उपायकौशलं तृतीयोऽधिमोक्षहेतुः ।

धर्मव्यसनं वक्तव्यम् । स च सद्धर्मप्रतिक्षयः । कुतः? धर्मव्यसनहेतुत्वात् । धर्मस्य व्यसनं विपत् । दीर्घदुर्गतिवासेन तस्य श्रवणाद्यभावः । दुर्गतिचिरवासहेतुत्वाद्धर्मव्यसनहेतुत्वम् । तस्माद्धर्मव्यसनम् । तदेव धर्मव्यसनसंवर्तनीयं कर्म । तत्संवर्ततेऽस्मादिति कृत्वा । तदेव प्रस्तौति स्थविर इत्यादिना । प्रज्ञापारमिता । एष एव भावनामार्गः । तस्यां योगापत्तिः समाधानप्राप्तिः ।

विभज्येति । कथं विभज्य? केषाञ्चि[च्चि]रचरिताविना(ता) भवति केषाञ्चिन्नेति । तत्कुतः? इन्द्रियाणां श्रद्धादीनां विमात्रतया नानात्वेन । तामाह स्यादित्यादिना । अस्यामगौरवता तेषामभूदिति सम्बन्धः । बुद्धानामन्तिकादिति । अन्तिके दूरान्तिकार्थेभ्य इति पञ्चमी । तत्सन्निधावित्यर्थः । अगौरवता अशु(सु)शूषणता अश्रद्दधानता च । भगवत्यामपर्युपासनता अपरिपृच्छनता च बुद्धेषु । तत इति श्रद्धावियोगात् । धर्मव्यसनसंवर्तनीयं कर्म सद्धर्मप्रतिक्षेपः । कृतं सकृत्करणात् । सञ्चितं पुनः पुनः करणात् । आचितं परिपूर्णम् । उपचितं विपाकदनशक्तिलाभात् । कायेन सामग्री श्रोतुमागमनम् । चित्तेन निर्विक्षेपता । वाचा अप्रस्तुतानभिधानम् । एवं सामग्रिमददाना इति सम्यगशृण्वन्तः । न जानन्ति ग्रन्थतः । न पश्यन्ति अर्थतः । न बुध्यन्ते स्वभावत्रयभेदेन । ततो न वेदयन्ते विपरीतबोधात् । अश्रद्दधाना इत्यादि तूक्तम् । तस्योपसंहार एवं त इत्यादिना । प्रत्याख्यानं मनसा परित्यागः । प्रतिक्षेपो वाचा । प्रतिक्रोशनं निन्दा । उपहत्येति दूषयित्वा । दग्धेति कुशलमूलदाहात् । छन्दो वशीभावः । विपर्ययाद्विच्छन्दः शिथिलः । अतो विच्छन्दयिष्यन्तीति शिथिलीकरणात् । विवेचयिष्यन्तीति मनसा त्याजनात् । विवर्तयिष्यन्तीति पुनरग्रहणात् । इयता प्रत्याख्यानमुक्तम् ॥

प्रतिक्षेपमाह नात्रेत्यादिना । प्रतिक्रोषणमाह नैतदित्यादिना । अपक्रान्ताः परिमुक्ताः परिबाह्या इत्येकोऽर्थः । सर्व यथा भवन्ति तथा सर्वेण अङ्गेन । सर्व यथा भवति तथा सर्वः प्रकारः । कर्माभिसंस्कारः कर्म क्रिया । उपस्थापितेनेति कृतेन । समुत्थापितेनेत्युपचितेन । संवर्तनी (र्स्त्_७३) प्रलयः । आअवीचितलादा च ब्रह्मलोकाद्यस्यामग्निना क्षीयते सा तेजःसंवर्तनी । क्षेप्स्यन्ते अन्तराभवशरीरेण । उपपत्स्यन्ते उपपत्तिभवशरीरेण । समाना सन्तः । बहु वत दुःखं च तद्वेदनीयं यस्मात्तथोक्तम् ।

प्रतिवर्णिकादिपदत्रयं समानार्थम् ।ऽलाभसत्कारं तेभ्य एव । यदर्थ ते दृश्येरण्(दूष्येरन्) । तत्कस्य हेतोरिति । तत्तेषामदर्शनादिकं कुत इत्यर्थः । कसम्बकं पूतिपूर्णम् । तदत्यक्तमन्यान्यपि पर्णानि नाशयति । जातिर्जातम् । कसम्बकवज्जातमेषामिति कसम्बकजाताः । कृष्णा तृणविशेषः । प्राकृतभाषया कण्डा । सापि क्षेत्रादनपनीता क्षेत्रं नाशयति । निर्जातिर्निष्पत्तिः । कृष्णावन्निर्जातिरेषामिति कृष्णानिर्जातिकाः । कृष्णो हि कृष्णसर्पः सविषः संश्रृ(सृ)ष्टान् दष्टो सविषीकरोति । अनयेनेति तेभ्यः श्रुतश्रद्धादिनामार्गेण । व्यसनं निरयादिदुःखम् । आगाढमाबाधमिति महतीं पीडाम् । निगच्छेत्स्पृशेदिति प्राप्नुयादित्यर्थः । आलोकः प्रकृतस्य कर्मणो विपाकज्ञानम् । शुक्लांशः कुशलभागः । तद्योगात्शुक्लांशिकः । समवधानं योगः । शेषं सुबोधम् । इति धर्मव्यसनम् ॥

एवमुक्त इत्यादि । अत्र माराधिष्ठित इत्यादिना माराधिष्ठानमुक्तम् । गम्भीरेषु धर्मेष्वनधिमुक्तिस्तेषु श्रद्धाप्रसादाभावेनोक्ता ॥

पुनरपरमित्यादिना चतुरो हेतूनाह । आत्मोत्कर्षी परपंसको दोषान्तरप्रेक्षीत्येको राशिः । अत एवाह । एभिरपि चतुर्भिरित्यादि । तदत्र धर्मव्यसनहेतवः षडुक्ताः । शास्त्रे तु संक्षेपतश्चत्वारः । शेषाणां स्कन्धाद्यभिनिवेशेऽन्तर्भावात् । आत्मोत्कर्षणादिनां स्कन्धाद्यभिनिवेशे ।

निर्हारपरिवर्तोऽयं सप्ताङ्गस्य निर्हारस्य द्योतनात् । तथापि निरयग्रन्थस्य बहुत्वान्निरयपरिवर्त इत्युच्यते ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तमः परिवर्तः ॥


(र्स्त्_७४)
८. विशुद्धिपरिवर्तो नामाष्टमः ।

लोकोत्तरस्य भावनामार्गस्य निर्हारः सप्तमपरिवर्तेनोक्तः । शुद्धिरष्टमस्यादौ वक्तव्या । तस्याः शुद्धेर्दुरधिमोचतां तावदाह । अथ खल्वित्यादिना । अनर्थिकेनेति मन्दच्छन्देन । उपस्तब्धो विस्मितः । अशुश्रूषणापरिपच्छकजातीयेनेति कल्याणमित्रेषु सुभूतेः प्रश्नः । कियदगम्भीरेत्यादि । कियता गम्भीरा यतो दुरधिमोचेत्यर्थः । भगवत उत्तरं रूपं सुभूत इत्यादिना । रूपादयो रूपादीनां च पूर्वापरमध्यान्ता अबद्धा अमुक्ताः स्वभावेनाध्वत्रयेण च निःस्वभावत्वादित्यर्थः । परमदुरधिमोचेति परमगम्भीरत्वादिति भावः । प्राक्प्रवृत्तो हि बन्धः प्रागशुद्धिः पश्चात्तन्निवृत्तिलक्षणो मोक्षः शुद्धिरिति प्रसिद्धम् । इह तु बन्धमोक्षयोरत्यन्ताभावः शुद्धिरिति परमगम्भीरं विशुद्धिलक्षणं शास्त्रे-

[५८] फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदिरिता ॥ [२-२६] ॥

ऽफलशुद्धिःऽ साध्या । सा चऽरूपादिशुद्धिरेवऽ । यस्मात्ऽतयोःऽऽअभिन्नाच्छिन्नताऽऽइति शुद्धिरुदीरिताऽ । शुद्धेर्लक्षणमुक्तं सुत्रे । कतमस्याः शुद्धेः? यस्यादुरधिमोचत्वमुक्तम् । तत्कस्य हेतोरित्यादि । तदस्या दुरधिमोचत्वं कुत इत्यर्थः । उत्तरं येत्यादिना । यत इदं तस्या लक्षणमिति भावः । अद्वयं तादात्म्यात् । अद्वैधीकारमव्यभिचारात् । अनयोरेव निर्देशो अभिन्नमच्छिन्नमिति । येत्यनुवादः सेति विधिः । अनूद्यमानश्च धर्मो विधीयमाने नियत इति ख्यापितः । अतः सामान्याधिकरणादभिन्नमुभयम् । अन्योन्यनियमादन्योन्याव्यभिचारः । तस्मादच्छिन्नमुभयम् । तदेवं यैव स्कन्धानामेकशो विशुद्धिः सैव फलविशुद्धिः । यैव फलविशुद्धिः सैवेतरा । अन्योन्याव्यभिचारात् । अन्योन्यलिङ्गता । स चाव्यभिचारस्तादात्म्यात् । अत आह । फलविशुद्धित इत्यादि पुनरपरमित्यतः प्राकिति विशुद्धिलक्षणम् ।

विशुद्धिभेदाश्वत्वारो महत्योर्भगवत्योरुक्ताः सर्वसंग्रहार्थम् । अस्यां तु नोक्ता बोधिसत्त्वमार्गाधिकारात् । मार्गस्य विशुद्धिरुच्यते । स च भूमौ भूमौ नवविधो मृदुमृद्वादिभेदादधिमात्राधिमात्रादिभेदात् । नवविधस्यैव दोषस्य प्रतिपक्षेण (र्स्त्_७५) भूमयस्तु शुद्धेस्ताश्चैव नव । कामधातुरष्टौ च रूपारूप्याः । अतः शास्त्रम्-

[५९] मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अभिमात्राधिमात्रदेर्मलस्य प्रतिपक्षतः ॥ २-३० ॥

अतो नवविधं मार्गमाह । पुनरपरमित्यादिना अत्यन्तानुपपत्तिरित्यतः प्राक् । सर्वज्ञतेति सर्वाकारज्ञता । तस्या विशुद्धिर्द्विविधा । या स्कन्धानामेकशो विशुद्धिः पारमितानां च सा सर्वाकारज्ञताविशुद्धिः । या च तस्याः सा तेषामित्येका सर्वाकारज्ञताविशुद्धिः । अध्यात्मशून्यतादीनां स्कन्धादीनां च यावदावेणिकबुद्धधर्माणमेकशो या विशुद्धिर्या च प्रज्ञापारमिताया या च सर्वाकारज्ञतायाः सर्वमेतदभिन्नमच्छिन्नमिति द्वितीया सर्वाकारज्ञताविशुद्धिः । तदस्यां न पठ्यते उपलक्षणत्वात्तद्ग्राह्यम् । इति मृदुमृदुमार्गो मृदुमध्यश्च ॥
अथ खल्वित्यादि । इतः प्रभृति प्रज्ञापारमितेति प्रज्ञापारमिताविशुद्धिरित्यर्थः । सा गम्भीरा दुरवगाहा सर्वधर्माणां विशुद्धत्वादत्यन्तशून्यत्वादिति मृद्वधिमार्गः ॥

सावभासकरी तमोपहा विशुद्धत्वात्सर्वधर्माणामिति मध्यमृदुमार्गः ॥

सा आलोको दर्शनं विशुद्धत्वादिति मध्यमध्यो मार्गः ॥

सा अप्रतिसन्धिरसंक्रान्तिर्भवान्तरे विशुद्धत्वादिति मध्याधिमात्रो मार्गः ॥

सा असंक्लेशो विशुद्धित्वात्प्रकृत्यसंक्लिष्टत्वात्सर्वधर्माणामित्यधिमात्रमृदुमार्गः ॥

सा अप्राप्तिरनभिसमयो विशुद्धत्वात्सर्वधर्माणामप्राप्तेरनभिसमयाच्चेत्यधिमात्रमध्यो मार्गः ॥

सा अनभिनिर्वृत्तिर्विशुद्धत्वातनभिनिर्वृत्तत्वात्सर्वधर्माणामित्यधिमात्राधिमात्रो मार्गः ॥

आह । अत्यन्तानुपपत्तिरित्यादिकमामार्गज्ञतापरिसमाप्तेः । अतः शास्त्रम्-

[६१] त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः ॥ २-३१ ॥

(र्स्त्_७६)
तस्यांऽत्रिधातुप्रतिपक्षत्वंऽ यदाह । अत्यन्तानुपपत्तिः प्रज्ञापारमिता । कामधात्वादिषु विशुद्धत्वात् । कामधात्वादिष्वभावानुपपत्तेः इति त्रिधातुप्रतिपक्षत्वम् ।

अत्र चऽसमता मानमेययोःऽ । यदाह । आहेत्यादि । न जान तीति न गृण्हाति । न संजानीत इति न विकल्पयति । स्फुटीकर्तु प्रश्नः किं पुनरित्यादि । उत्तरं रूपमित्यादि । विशुद्धत्यादित्यत्यन्तसमत्वात् । तदेवं यथा स्याज्ज्ञेयं ग्राह्यं न भवति तथैषापि तस्य ग्राहिका न भवतीति ज्ञेयमानसमता ।

योयं विशुद्धिलक्षणो भावनामार्ग उक्तो न स युक्तः । यतोऽस्मिन्नष्टौ दोषा इत्यत आह ।ऽमार्गः स चेष्यते तस्य चोद्यस्य परिहारतः ।ऽ चकारोऽवधारणे । भिन्नक्रमश्च । चोद्यस्येति जातावेकवचनम् । भावनामार्ग एव स इष्यते तदीयचोद्यानामित ऊर्ध्वं परिहारादित्यर्थः । अत्र च सिद्धान्त एव काक्वा कुत एतदिति हेतुसापेक्षाश्चोद्यसूचनाद्यानि । सिद्धान्तहेतवः परिहाराः । तत्र द्वे चोद्ये शारिपुत्रस्य षट्सुभूतेः ।

नापकारं करोति न चोपकारमिति सिद्धान्तः । स कुतः? यदि ह्यकिंचित्करी कथं सा मार्ग इति चोद्यम् । विशुद्धित्वादिति परिहारः । सर्वज्ञता हि धर्मधातुविशुद्धिः स च विशुद्धः प्रकृतिशुद्धः । ततः सा अस्याकिञ्चित्करी । केवलमागन्तुकावरणक्षयं [प्रति] व्याप्रियते । न गृण्हाति न त्यजतीति सिद्धान्तः । स कुतः? यदि ह्यसौ गृण्हाति विकल्पः स्यात् । अथ न गॄण्हाति प्रज्ञैव न स्यादिति चोद्यम् । विशुद्धत्वादि परिहारः । यथा हि यत एवासौ धर्मान् धर्मलक्षणैर्न पश्यत्यत एव धर्मतया पश्यति । अत एव विशुद्धः । विशुद्धत्वात्न गृण्हाति न च त्यजतीति । स्कन्धविशुद्धितः फलविशुद्धिः सर्वज्ञताविशुद्धिश्चोक्ता । सा च तेषां विशुद्धिरात्मविशुद्ध्या । यथा ह्यात्मनो विशुद्धिरत्यन्तमसत्ता तथा तेषामपीति सिद्धान्तः । स कुतः? यदि हि स्कन्धफलसर्वज्ञतानामत्यन्तमसत्ता तदैता(ते)न किञ्चिदिति चोद्यम् । अत्यन्तविशुद्धित्वादिति परिहारः । अत्यन्तमसन्त एव धर्माः स्वलक्षणैः । अत एव तच्छून्यतालक्षणया धर्मतया सन्तीत्यर्थः । आत्मविशुद्धितो न प्राप्तिर्नाभिसमय इति सिद्धान्तः । चोद्यं पुर्ववत् । अत्यन्तविशुद्धत्वादिति परिहारः । यत एव धर्मलक्षणैर्धर्मा अत्यन्तमसन्तः तत एव धर्मतया सन्तः । सा च प्रकृत्यैव शुद्धा तच्छुद्धिरेव च सर्वज्ञतेति न तस्याः प्राप्तिर्नाभिसमय इत्यर्थः । आत्मापर्यन्ततया रूपवेदना दीनामपर्यन्ततेति सिद्धान्तः । स कुतः । दृश्यते (र्स्त्_७७) हि स्कन्धादीनां पर्यन्तस्तत्कथमपर्यन्ता इति चोद्यम् । अत्यन्तविशुद्धत्वादिति परिहारः । यथा ह्यात्मनोऽत्यन्तमसत्ता तथा रूपादीनामपि स्वलक्षणैः । ततोऽसतां तेषां कः पर्यन्तः? धर्मतया सन्तीति चेत्.............पर्यन्तः । सर्वधर्मसामान्यलक्षणत्वात्रूपादिकस्य । न, भेदस्यापरमार्थत्वात् । तस्माद्यैव रूपादिविशुद्धिः सैव
फलविशुद्धिः सर्वज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिश्चेत्यर्थः ॥

य एवमत्यन्तासत्तया सर्वधर्माणामवबोधः स प्रज्ञापारमितेति सिद्धान्तः । स कुतः?....................बोधो न तर्हि सात्यन्तविशुद्धिरिति चोद्यम् । अत्यन्तविशुद्धित्वादिति परिहारः ।

एवं समाप्ता अष्टावत्यन्तभावनामार्गमार्गज्ञताधिकाराः ॥

प्रथमपरिवर्तेन सर्वाकारज्ञतोक्ता । इतोऽर्धसप्तमैः परिवर्तैर्मार्ज्ञता । अष्टमनवमयोः परिवर्तयोरर्धाभ्यां सर्वज्ञता वक्तव्या । तस्य अष्टौ वस्तूनि । यथोक्तं प्राक्

[६१] प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः ।
अनुपायेन दूरत्वमुपायेनाविदूरता ॥ १-१० ॥
[६२] विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च ।
दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १-११ ॥

इति । अत्र शास्त्रम्-

[६३] नापरे न परे तीरे नान्तराले तयोः स्थिता ।
अध्वनां समतायोगात्प्रज्ञापारमिता मता ॥ ३-१ ॥

ऽप्रज्ञापारमिताऽ इति सर्वज्ञता ।ऽनापरे तीरेऽ इति संसारे ।ऽन परे तीरेऽ इति निर्वाणे । नापि तयोरन्तराले स्थिताऽ । त्रयं नोपलभ्यत इत्यर्थः । कुत इत्याह ।ऽअध्वानां समतायोगाद्ऽ इति । धर्मतयाप्यध्वसमत्वात् । धर्माणां च यथालक्षणमनुपलम्भत् । एतदाह । आयुष्मानित्यादिना । सेति समाधानं पूर्वमुक्तत्वात् । इयमिति सर्वज्ञताख्येन विशेषेण वक्तव्यत्वात् । अत एवाह । विप्रकृतेति । विशेषेण प्रकृतत्वात्वर्तमानत्वाद्वा । अथवा कुतो न स्थिता? यतो विप्रकृता त्रयानुपलम्भेन बाधिता । भगवान् हेतुमाह । अत्यन्तविशुद्धत्वादिति । स्वैर्लक्षणैरसतां धर्माणां धर्मतालक्षणेन नित्यविशुद्धत्वादित्यर्थः । श्रावकास्तु (र्स्त्_७८) स्वदुःखक्षयमात्रैषिणः संसारं परिकल्प्य तेनात्यन्तमुद्विग्ना निर्वाणं परिकल्प्य तस्मिन्नतीवोत्कण्ठिता लघु लध्वेव परिनिर्वान्ति । नैवं बोधिसत्वाः, सर्वसत्त्वार्थं निरुत्तरबोधिकामा इति संसारनिर्वाणाप्रतिष्ठता ॥

शास्त्रम्-

[६४] अनुपायेन दूरं सा सनिमित्तोपलम्भतः ।

ऽसनिमित्तमुपलम्भोऽनुपायःऽ । तेन सा दूरीभवति । तदाह । आयुष्मानित्यादि । एवमपीति नामतोपि निमित्ततोपि । रिञ्चिष्यति त्यक्ष्यति नामतः । दूरीकरिष्यति निमित्ततः । इति दूरीभावः ।

उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ ३-२ ॥

निःसङ्गा वृत्तिः सम्यगुपायकौशलम् । तेनासन्नीभवति । तदाह । एवमुक्त इत्यादिना । सङ्गः सक्तिरभूतपरिकल्पः । सा नामतो स्यान्निमित्ततोपि । तयोरपि भूतेऽर्थेऽभावात् । आख्याता षोडशभिर्दृष्टिमार्गलक्षणैः । सुनिर्दिष्टा द्वादशभिः प्रयोगैः । सुपरिनिष्ठिता संसारनिर्वाणयोरप्रतिष्ठानात् । सुपरिशुद्धा सङ्गकोटीनां विवर्जनात् । यत्र हीति वाक्यालङ्कारे । नामेत्याश्चर्ये । इमेपि सङ्गा इति सङ्गापि वक्ष्यमाणाः । अतः सङ्गवर्जनमुपायकौशलमित्या सन्नीभावता ।

ते पुनः सङ्गाः सामान्येनोक्ताः । विशेषतो वक्तव्याः । अतः शास्त्रम्-

[६५] रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च ।
दानादौ बोधिपक्षेषु चर्या संज्ञा विपक्षता ॥ ३-३ ॥

रूपादीनां सर्वधर्माणां स्कन्धो राशिः । तस्य शून्यतायां त्रैयध्विके परधर्मेसु पारमिता बोधिपक्ष्यविषयायां च चर्यायां याऽसंज्ञाऽ नामतो निमित्ततो वा साऽविपक्षताऽ । स्वार्थे तल्देवतावत् । स विपक्षः स सङ्ग इत्यर्थः ।

एतदाह । अथ खल्वित्यादिना । अस्यां भगवत्यांऽचर्यासंज्ञाऽ न पठ्यते । सा पठितानामुपलक्षणत्वान्नोच्यते । दानपारमितां यावत्प्रज्ञापारमितां स्मृत्युपस्थानानि यावदार्याष्टङ्गमार्ग चरामीति सञ्जानीते सङ्ग इति । अस्यामधिकसङ्गमाह । इयन्तमित्यादिना । ये सङ्गास्त उक्ताः । यथा ते सङ्गास्तन्नोक्तम् । ततः शक्रस्य प्रश्नोऽथ खल्वित्यादिना । पर्यायेणेति प्रकारेण । इदं तु प्रथमं बोधिचित्तमिति । एष विकल्पः प्रथमः सङ्गः । बोधौ परिणामयामीति । (र्स्त्_७९) एवं विकल्प्य परिणामना द्वितीयः । कथमिमौ सङ्गौ? तस्य चित्तस्यातीतत्वेनासत्त्वात् । बोधेश्चानागतत्वेन । चित्तप्रकृतिः सदास्तीति चेदाह । न चेत्यादि । न शक्या इति नित्यस्य परिणामायोगात् । तस्मादुभौ विकल्पौ । अभूतकल्पनात् । शेषास्तु यथा सङ्गास्तथा पुर्वमेवोक्तम् ।

सङ्गाः तेषां वर्जनमर्वागुक्तं भवति । अतः शास्त्रम्-

[६६] दानादिष्वनहङ्कारः परेषां तन्नियोजनम् ।
सङ्गः कोटी निषेधोऽयं

ऽदानादिष्वनहंकारःऽ सामर्थ्यात् । पूर्वमुक्तः ।ऽपरेषां तन्नियोजनंऽ आह तस्मात्तर्हीत्यादिना । तस्मादिति स्वयं सङ्गविवर्जनात्कारणात् । तर्हीति परेषां सन्दर्शनादिकाले । सन्दर्शयतेति पूर्वमश्रुतवतः रोचयता । समादापयतेति । अनुष्ठानाय सम्यग्ग्राहयता । सम्प्रहषयतेति मन्थरान् प्रोत्साहयता । सम्प्रहर्षयतेति । आरब्धवीर्यान् साधुकारैः । भुतानुगमः सङ्गत्यागात् । एवं समादाय तेष्वपराद्धं (?) दर्शयितुमाह । एवमित्यादि । न क्षिणोतीति बुद्धेष्वपराद्धं न करोति । स्वयम्भूतानुगमेऽनुशंसमाह । इमाश्चेत्यादिना । तदेवं यन्नऽदानादिष्वनहङ्कारोऽ यन्नऽपरेषां तत्र नियोजनंऽ, एष द्विविधः सङ्गकोटीनां स्थूलानां निषेधः ।

शास्त्रम् ।

सूक्ष्मः सङ्गो जीनादिषु ॥ ३-४ ॥

बुद्धादौ यः सङ्गः स सूक्ष्मः । तमाह अथ खलु भगवानित्यादिना । न सा शक्या परिणामयितुमिति त्र्यध्वप्रसङ्गात् । न निमित्तीकर्तुं नारम्बणीकर्तुमिति । अपूर्वत्वेनाकारणत्वात् । दुर्बोधत्वाच्च । यतो न सा दृष्टश्रुतमतविज्ञात चक्षुषा श्रोत्रेण घ्राणजिव्हाकायैर्मनसा वाप्रतीतत्वात्यथा क्रमम् । गम्भीरा प्रज्ञापारमिता विविक्तत्वात् । प्रकृतिगम्भीरा प्रकृतिविविक्तत्वात् । अतश्च नमस्करणिया । सर्वधर्मा अपि प्रकृतिविविक्ताः । या तेषां प्रकृतिविविक्तता सा प्रज्ञापारमिता । यतोऽकृतास्ते भगवताभिसम्बुद्धाः । यतस्ते प्रकृत्यैव न किञ्चित् । या चैषां प्रकृतिः साभावः । यश्चाभावः सैषां प्रकृतिः । एकलक्षणत्वात्यदुतालक्षणत्वात् । एवमशेषाः सङ्गकोटयो विविर्जिता भवन्ति । अचिन्त्या चिन्तातीतत्वात् । नहि सा रूपं न वेदना यावन्न बुद्धधर्माः । शेषं सुबोधम् ।

नापि सा दृष्टश्रुतमतविज्ञातेत्यादिना यदुक्तम् । अत्र शास्त्रम्

(र्स्त्_८०)
[६७] तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः ।
एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ ३-५ ॥
[६८] दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता ।
रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ ३-६ ॥

ऽविवेकाद्ऽ इति विविक्तत्वात् ।ऽधर्मपद्धतिःऽ धर्मराशिः । धर्माणां ज्ञानमिति सम्बन्धः । एका तेषां प्रकृतिः ख्यातिर्यस्मिंस्तथोक्तम् । तन्न विपक्षप्रतिपक्षौ वक्तव्यौ । सङ्गासङ्गौ कस्मादुक्तौ? अतः शास्त्रम्-

[६९] एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ ३-७ ॥

ऽएवं कृत्वाऽ इति सङ्गासङ्गव्यपदेशं कृत्वा ।ऽयथोक्तंऽ इति । यथोक्तो विभागःऽसर्वज्ञतानयेऽ । सर्वोऽयंऽविपक्षप्रतिपक्षयोःऽ वेदितव्यः । तथा हि । सङ्ग उपलम्भो विकल्पः । असङ्गोऽनुपलम्भः प्रज्ञापारमिता । तस्मात्सङ्गो विपक्षोऽसङ्गः प्रतिपक्षः इति विपक्षप्रतिपक्षौ ॥

प्रयोगस्तत्समता च वक्तव्या । अतः शास्त्रम्-

[७०] रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः ।
तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ ३-८ ॥
[७१] अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा ।
यथाभव्यं फलप्राप्तेरबन्ध्योऽभिमतश्च सः ॥ ३-९ ॥
[७२] अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः ।

ऽतदनित्यादौऽ इति । रूपादेरनित्यत्वनित्यत्वादौ । इट्रधादिभ्य इति इञ्चापरिपुरिः । परिप्रपूरेः भाव इति परिप्रपूरः असङ्गः । विवक्षावशात्तच्छब्देन सङ्गो गृह्यते । समाहारद्वन्द्वः । सङ्गासङ्गत्वयोरित्यर्थः । एकशेषस्तु न भवत्यन(?)भिधानात् ।ऽरूपादौऽ रूपादेरनित्यत्वनित्यत्वादौ । रूपादेरपरिपूर्णत्वपरिपूर्णत्वयोः । रूपादेः सङ्गासङ्गयोश्च । याऽचर्याऽ चरणं तत्प्रतिषेधेन प्रज्ञापारमितायां चरणंऽप्रयोगोऽ रूपाद्यादिषु । अमी च चत्वारः । उत्तरे चाष्टौ ।ऽअविकारोऽकर्ताऽ । [उद्देश] दुष्करः कारित्रदुष्करोऽबन्ध्योऽपरप्रत्ययः सप्तधाख्यातिवेदकश्चेति द्वादशविधः प्रयोगः । अतस्तं पृच्छति । आह । तेन हीत्यादिना कथं चरितव्यमिति । कथं प्रयोगः कर्तव्यः? अत्र रूपादयः सर्वधर्माः । स्कन्धास्तूपलक्षणम् । रूपे यावद्विज्ञाने न चरतीति रूपादीन्न सञ्जानीत इत्यर्थः । तदा चरति प्रज्ञापारमितायामिति रूपादिप्रयोगः ॥

(र्स्त्_८१)
स चेद्रूपमनित्यं यावद्विज्ञानमनित्यमिति न चरति । तथा नित्यमिति सुखमिति शून्यमित्यशून्यमिति आत्मेति अनात्मेति शुभमिति अशुभमिति न चरति तदा चरति प्रज्ञपारमितायामिति रूपाद्यनित्यत्वादिप्रयोगः ॥

स चेद्रूपं यावद्विज्ञानमपरिपूर्ण परिपूर्ण वा । तदेव रूपादेरपरिपूर्णत्वं परिपूर्णत्वं तदेव रूपादि इति न चरति । तदा चरत्यस्यामित्यपरिपुरिपरिपूरिप्रयोगः ॥

एवमुक्त इत्यादिना चतुर्थं प्रस्तौति । भगवांस्तमाह । रूपं ससङ्गमित्यादिना चरितव्यान्तेन । अत्रैव एवं चरन्नित्यादिनानुशंसमाह । असक्तेत्यादि । सर्वसङ्गाभावादसक्ता । ततो न बद्धा क्लेशैस्त्रैधातुके । ततो न मुक्ता क्लेशैः । न समतिक्रान्ता त्रैधातुकम् । एवं हीत्यादिनोपसंहारः । इति रूपादिसङ्गासङ्गप्रयोगः ॥

सुभूतिराहेत्यादिना परिहाणिर्भवेदित्येदन्तेन पञ्चमः । हानिवृद्धयोरभावादविकारता । आकाशवत् । वर्णो गुणः । इत्यविकारप्रयोगः ॥

तद्यथापीत्यादिना स्थविरशब्दात्प्राक्षष्ठः । संक्लिश्यते शब्दस्यार्थः प्रतिहन्यत(?) इति । द्वितीयस्यानुनीयत इति । देशनया हानिवृद्धयोरकरणादकर्तृप्रयोगः ॥

स्थविर इत्यादिनाभिसम्बोद्धकामान्तेन सप्तमः । त्रिविधां दुष्करतां वक्तुं भगवती भावनादुष्करतामनुषङ्गादाह । तस्यामेव स्थितानामुद्देशादेर्दुष्करत्वात् । चरन्निति शमथेन । न संसीदति लयेन । नोत्प्लवते औद्धत्येन । न प्रत्युदावर्तते निवर्तते । आकाशभावना । एकलक्षणताप्रतिभासात् । अयं सन्नाह इति यः सर्वसत्त्वार्थाय सम्यक्सम्बोधौ । आकाशेनेति । आकाशनिभेन योगेन तदत्यागात् । ततो दुष्करता सत्त्वानामनुपलम्भादनन्ताच्च । विश्वार्थमुद्दिश्य बोधेः । स चोद्देशः सन्नाह इत्युद्देशदुष्करताप्रयोगः ॥

आकाशमित्यादिना सन्नह्यत इत्येतदन्तेनाष्टमः । उच्चैर्गतिर्विबन्धपातनं(?) परिमोचनम् । उच्चैर्नयनमुत्क्षेपः । एतावान्सत्त्वार्थाय प्रयोगः । स च दुष्करः । आकाशवत्सत्त्वराशेरनन्तत्वादरूपित्वादद्रव्यत्र्वाच्चेति प्रयोगदुष्करताप्रयोगः ॥

अथ खल्वित्यादिनाथ खल्वित्यतः प्राङ्नवमः । प्रयोगस्य फलं कारित्रम् । सांक्लेशिकधर्मप्रहाणं वैयवदानिकधर्मोत्पादनं च । तदुभयं दुष्करं भगवत्या तयोरकरणादिति कारित्रदुष्करताप्रयोगः ॥

(र्स्त्_८२)
अथ खल्वित्यादिनाथ खल्वित्यतः प्राग्दशमः । य एवं योगमापत्स्यत इति हेत्ववस्थायाम् । क्व स इति फलावस्थायाम् । आकाश इति आकाशं तारापथम् । इह तु तत्साधर्म्यादनुत्तरा बोधिः । अभ्यवकाशं भूमेरूपरिष्ठादच्छन्नमरूपिष्ठानम् । इह तु तत्साधर्म्याद्धीनबोधिः । तदुभयं फलम् । तस्य यथाभव्यं प्राप्तेरवन्ध्यप्रयोगः ॥

अथ खल्वित्यादिना अवतारमित्येतदन्तमेकादशः । शक्रस्तस्य बोधिसत्त्वस्य रक्षावरणगुप्तिं कर्तुकामः । रक्षावरणाभ्यां सहिता गुप्तिस्तथोक्ता । तं सुभूतिराह । किमेनं प्राप्स्यसीति । स आह नेति । ततः किमित्याह एवमित्यादि । एवमिति । सर्वधर्मानुपलम्भेन । शेषं सुगमम् । एवमन्वयव्यतिरेकाभ्यां प्रज्ञापारमिताधीनैव तस्य रक्षा न पराधीनेत्यपरप्रत्ययप्रयोगः ॥

अपि चेत्यादिना परिजानातीत्येतदन्तेन द्वादशः । महत्योर्भगवत्योः सप्तधा ख्यातिः पठ्यते । "मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरोपमाः सर्वधर्माः" इति । या च सप्तधा ख्यातिः सा सर्वाप्यन्वाख्यातिः । द्वयशून्येन स्थितानां सर्वधार्माणां परतन्त्रस्वभावानां द्वयेन ख्यातिः । सा एकेनापि दृष्टान्तेन शक्या दर्शयितुम् । यथा हि शब्देऽसति प्रतिशब्दोऽसम्प्रख्याति । तथा सति द्वयशून्ये स्वभावे धर्मा असता द्वयरूपेण प्रख्यान्तीति । तस्मादस्यां भगवत्यां प्रतिश्रुत्कोपमतैव पठ्यते । अत एनां प्रति शास्त्रपाठोऽन्यथा कर्तव्यः ।ऽयोऽपरो ख्यातिवेदकःऽ इति । द्विविधा प्रज्ञापारमिता लोकोत्तरा शुद्धा लौकिकी च । यथोक्तं द्रुमविकल्पप्रवेशायां धारण्याम अविकल्पधातुप्रतिष्ठितो बोधिसत्त्वो ज्ञेयनिर्विशिष्टेन ज्ञानेन आकाशसमतलान्सर्वधर्मान् पश्यति । तत्पृष्ठलब्धेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बोदकचन्द्रनिर्मितसमान्सर्वधर्मान्पश्यति" इति । अतो लोकोत्तरमधिकृत्याह । आकाशस्येत्यादि ।

शुद्धलौकिकीमधिकृत्याह । तत्किमित्यादि । परिजानातीति । ततः किं तस्य रक्षणीयं प्रतिभासानामलीकत्वादिति भावः । इत्यन्यथाख्यातिवेदकप्रयोगः ॥

उक्ताः प्रयोगाः । प्रयोगसमता वक्तव्या । तामधिकृत्य शास्त्रम्-

चतुर्धामनना तस्य रूपादौ समता मता ॥ ३-१० ॥

(र्स्त्_८३)
रूपाद्यधिष्ठानं चतुर्विधममननं प्रयोगसमतेत्यर्थः । यथोक्तं महत्योः । "रूपं न मन्यते । रूपेण न मन्यते । रूपं ममेति न मन्यते । रूपेपि न मन्यते । एवं वेदनादिषु" इति । इमां तु भगवतीं प्रति शास्त्रपाठोऽन्यथा कर्तव्यः-

अष्टधामननं तस्य रूपादौ समता मत ।

चतुर्धा ग्राहकस्य चतुर्धा च ग्राह्यस्याकल्पनं प्रयोगसमतेत्यर्थः । तदाह अतश्चेत्यादिना अथ खल्वित्यतः प्राक् । अतश्चेति यतः प्रतिश्रुत्कोपमाः सर्वधर्माः । अतश्च तानिति सर्वधर्मान्न मन्यते भावाभिनिवेशेन । न समनुपश्यति दृष्ट्या । न जानाति ग्रहणेन । न सञ्जानीते कल्पनया । इति चतुर्विधं ग्राहककल्पनम् । तथैव ग्राह्यविकल्पनमाह ते चेत्यादिना । न वेद्यन्त इति सत्त्वेन न मन्यन्ते । न संदृश्यन्त इति न दृश्यन्ते । न संविद्यन्त इति न गृह्यन्ते । नोपलभ्यन्त इति न विकल्प्यन्ते । इत्येवमष्टधा ग्राह्यग्राहकयोरकल्पनेन विहरतीति सर्वधर्मेषु चरति । ततः किं स्यादित्याह स चेदित्यादि सुबोधम् । इति प्रयोगसमता ।

प्रयोगसमतानुसङ्गाद्देशनासमतायामप्यस्यां देशनायामभिसम्प्रत्ययार्थमाह । अथ खल्वित्यादिना आपरिवर्तसमाप्तेः । लोकधाताविति.......... ।

[विशुद्धिपरिवर्तो नामाष्टमः परिवर्तः ॥]


९. स्तुतिपरिवर्तो नाम नवमः ।

[७३] आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः ।
मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १-१२ ॥

समता
(र्स्त्_८४)
[७४] भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा ।
सर्वाकारभिसम्बोध एष सोपायकौशलः ॥ १-१३ ॥

आकाराः, प्रयोगाः, गुणाः, दोषाः, लक्षणानि, मोक्षभागीयं, निर्वेधभागीय, अवैवर्तिकसंघः, संसारनिर्वाणसमता, बुद्धक्षेत्रपरिशुद्धिः, उपायकौशलं चेत्येकादशवस्तूनि सर्वाकाराभिसम्बोधः । यथोद्देशं निर्देशात्प्रथमत आकाराणां निर्देशः ।

[७५] वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् ।
सर्वज्ञतानां त्रैविध्यात्त्रिविधा एव ते मताः ॥ ४-१ ॥

ऽवस्तुऽ आलम्बनं चतुःसत्यादि । तस्यऽज्ञानम्ऽ । तस्यऽप्रकाराःऽ । यैः प्रकारैस्तत्परिक्षेपः तेषांऽआकाराऽ इति लक्षणत्वात् ।ऽसर्वज्ञतानांऽ इति जातौ वहुवचनम् । सर्वज्ञताया इत्यर्थः । कथं तस्यास्त्रैविध्यम्? सर्वज्ञता मार्गज्ञता सर्वाकारज्ञता चेति । तत्रादौ सर्वज्ञताकाराः सप्तविंशतिः । शास्त्रम्-

[७६] असदाकारमारभ्य यावन्निश्चलताकृतिः ।
चत्वारः प्रति सत्यं ते मार्गे पञ्चदश स्मृताः ॥ ४-२ ॥

असत्पारमितेयमिति असदाकारामारभ्य यावदचलपारमितेयमित्यचलाकाराः । तेषु चत्वारश्चत्वारो दुःखसमुदयनिरोधसत्येषु परिविष्टाः । पञ्चदश मार्गसत्ये । असदाकारपारमिता । असत्पारमिता । एवमुत्तरा अपि सर्वाः । तत्र दुःखे चत्वारःसत्समताविविक्तानवमृद्य ।

आकाशसमतामिति । आकाशवद्रूपादेरसत्ताम् । यथा ह्याकाशस्य रूपिद्रव्याभावो लक्षणं तथा रूपादीनां स्वलक्षणाभावः । सर्वधर्मानुपलब्धिसमतामिति । सर्वधर्मानुपलब्धिरेव सुखदुःखयोः समता । अत्यन्तशून्यतामिति । पुद्गलेन स्वभावेन च शून्यतामित्यर्थः । बाधकं दुःखं बाध्यत्वादवमृद्य आत्मा । अनवमृद्यानात्मा । तदाकारत्वातनवमृद्यपारमिता । सर्वधर्माणां बाध्यबाधकानामनुपलब्धितां निरूपलम्भतां [उपादाय] ।

समुदये चत्वारः । तथा हि- पदं हेतुः प्राक्तनाः स्कन्धाः । स्वभाव आत्मनो भावः । कायकर्म । वचनं वाक्कर्म । नाम मनस्कर्म क्लेशाश्च । एषामभावो यथाक्रमं.....अस्वभावः । ......तदाकारत्वात्तत्पारमिता । अनामाशरोरतामिति । नाम अरूपिणः स्कन्धाः । शरीरं रूपस्कन्धः । तयोरभावोऽनामशरीरता । गत्यागती कायकर्म । तदभावोऽनागतिरगतिश्च । वाचां हेतुर्विकल्पः । तदभावोऽविकल्पता ।

(र्स्त्_८५)
निरोधे चत्वारः । तथा ह्यसौ गमनं वा स्यात्ग्राह्यं वा क्षयो वा उत्पत्तिर्वा । एषामभावो यथाक्रममगमनं, असंहार्यं, अक्षयः, अनुपपत्तिः । तदाकारत्वात्तत्पारमिता । सर्वधर्माणामगमनता गत्यभावः । सर्वधर्माणामग्राह्यता । न हि धर्मो धर्मं गृण्हातीति । क्षय एव धर्मः । तेन योगः । तदभावादक्षयधर्मयोगता । अभिनिर्वृत्तिरुत्पत्तिः । तदभावादनिर्वृत्तिता ।

मार्गे पञ्चदश- अकारकाजानकापश्यकासंक्रान्त्यविनय-स्वप्न-प्रतिश्रुत्क-प्रतिभास-मरीचि-मायासंक्लेशाव्यवदानानुपलेपाप्रपञ्च अमननाचला । अकारकाद्याकारत्वात्तत्पारमिता । अकारको मार्गस्तेन कारकानुपलब्धेः । अजानकापश्यको मार्गस्तेन जानकपश्यकानुपलब्धेः । असंक्रान्तिर्मार्गस्तेन च्युत्युपपत्त्योरयोगदर्शनात् । अविनयो मार्गस्तेन त्र्यध्वसमाया धर्मप्रकृतेरविनयात् । स्वप्नादितुल्यत्वात्स्वप्नो मार्गः विनैव द्रष्टारमन्धःकारात्(?) । प्रतिश्रुत्को मार्गः । असति शब्दे शब्दोपलम्भात् । प्रतिभासः प्रतिबिम्बं स मार्गः । असत्यर्थेऽर्थदर्शनात् । मरीचिर्मार्गः । तज्जलस्कन्धवदसतो लोकधातोः प्रतिभासात् । माया मार्गो निमित्ताप्रतिभासात् । अनुत्पादविज्ञापनतामिति । यतः पञ्चभिरप्येभिरनुत्पादो मार्ग आदीप्यते । प्रतिभासहेतुमन्तरेण तथा तथा प्रतिभासात् । असंक्लेशो मार्गस्तेन रागाद्यनुपलब्धेः । अव्यवदानं मार्गस्तेन क्लिष्टसत्त्वानुपलब्धेः । अनुपलेपो मार्गः । आकाशवन्निरुपलेपस्य धर्मधातोस्तेन दर्शनात् । अप्रपञ्चो मार्गः प्रपञ्चप्रतिपक्षत्वात् । अमनना मार्गः । सर्वमननासमुद्धातित्वात् । अचलो मार्गः । धर्मधातुशरीरत्वेन शाश्वतत्वात् । इति सर्वज्ञताकाराः ॥

अथ मार्गज्ञताकाराः षट्त्रिंशत् ।

[७७] हेतौ मार्ग च दुःखे च निरोधे च यथाक्रमम् ।
अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ ४-३ ॥

हेतुः समुदयः । अतः समुदयमार्गौ प्रथमत उक्तौ फलोपायत्वात् । दुःखनिरोधौ पश्चादुक्तौ फलत्वात्तेष्वाकारा यथाक्रमम् ।ऽअष्टौ सप्त पञ्च षोडशेति च कीर्तीताःऽ सूत्रे तत्र समुदयेऽष्टौ-विरागासमुत्थान-शान्तनिर्दोष-निष्क्लेश-निःसत्त्व । कथं तदष्टौ? यतो निर्दोषे त्रितयः-अरागाद्वेषामोह । प्राक्तना हि पञ्चस्कन्धाः समुदयः । रज्यन्तेऽस्मिन्निति रागः । परिकल्पितः स्वभावो धर्माणाम् । विगतो रागोऽस्मादिति विरागः समुदयः । सर्वधर्माणामवितथतामिति । वितथेन कल्पितेन स्वभावेन शून्यताम् । समुत्थानं क्लेशहेतुर्विकल्पः । तस्यास्मिन्नभावादसमुत्थानः समुदयः । सर्वधर्माणां निर्विकल्पतामिति । अग्राहकत्वात् । शान्तः समुदयः । निरोध इत्यर्थः । तत्कुतः? सर्वेषां (र्स्त्_८६) धर्मनिमित्तानां धर्मप्रतिभासानां परमार्थप्रतिभासेऽनुपलब्धेः । अत एव अरागपारमिता अदोषपारमिता अमोहपारमिता च । गुणपारमितामिति रागदोषमोहक्षयपारमिताम् । सर्वक्लेशाभावान्निष्क्लेशः समुदयः । परिकल्पासत्तामिति ग्राहकासत्ताम् । अपि च सर्वत्र क्लिष्टः स्याद्दुःखी च (?) । तदभावान्निःसत्त्वः समुदयः । भूतकोटितामिति धर्मपुद्गलशून्यताम् ।

मार्गे सप्तेति- अप्रमाणान्तद्वयाननुगमासम्भिन्नापरमृष्टाविकल्पाप्रमेयासङ्ग । अप्रमाणो मार्गः । सर्वधर्माणां समुत्थानस्यासमुत्थानतामलोकत्वमुपादाय । अन्तद्वयाननुगमो मार्गः । सर्वधर्मेष्वनभिनिवेशतामिति । यथाप्रतिभासं भावस्य तच्छून्यतया वा भावस्याननुगमः । असम्भिन्नो मार्गः । असम्भेदनतामिति भेदानुपलब्धिम् । अपरामृष्टो मार्गस्तेन हीनयानास्पृहणात् । अविकल्पो मार्गः । विकल्पसमतामिति विकल्पानामनुपलब्धिम् । अप्रमेयो मार्गः । अप्रमाणधर्मतामुपादायेति । अप्रमाणधर्मतालम्बनत्वात् । असङ्गो मार्गः । सर्वधर्मेष्वसङ्गतामिति निरुपलम्भताम् ।

दुःखे पञ्च- अनित्य-दुःख शून्यानात्म-लक्षण । सास्रवाः पञ्चस्कन्धा दुःखम् । तदत्रानित्यं भवत्येवेति (?) । सर्वधर्माणामसंस्कृततामिति यथाप्रतिभासमनुत्पन्नताम् । दुःखं दुःखं सुखविलक्षणत्वादाकाशवत् । शून्यं दुःखं सर्वधर्मानुपलब्धेः । अनात्मा दुःखं यथाप्रतिभासं सर्वधर्मेष्वभिनिवेशायोगात् । त्रीणि संस्कृतलक्षणानि । जातिर्जरानित्यता च । तदभावादलक्षणं दुःखम् । अनभिनिवृत्तितामिति यथाप्रतिभासं यथा परमार्थं चासंस्कृतताम् ॥

निरोधे षोडश । तथा हि निरोधः शून्यतैव विशुद्धा । न च शून्यता भिद्यते भेदकानामनुपलब्धेः । तस्मादाकाशवदनन्तापर्यन्तो निरोधः । अनुक्रमेण विस्तारेण वा परिच्छेदाद्यथाक्रमं ततः षोडश शून्यताः सन्त्येकरसाः । अत आह । सर्वशून्यतापारमितेयमनन्तापर्यन्ततामुपादायेति । अध्यात्मशून्यतापारमितेयं बहिर्धाशून्यतापारमितेयं यावदभावस्वभावशून्यतापारमितेत्यादि । अतश्च निरोधसत्ये षोडशाकाराः । इति मार्गज्ञताकाराः ।

सर्वाकारज्ञताकाराः दशोत्तरं शतम् । यतः शास्त्रम्-

[७८] स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः ।
शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ ४-४ ॥
[७९] सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः ।
त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ४-५ ॥

(र्स्त्_८७)
तानधिकृत्य स्मृत्युपस्थानादीत्यादिकमापरिवर्तसमाप्तेः । स्मृत्युपस्थानादिबोधिपक्ष्यधर्मपारमितेयमिति । स्मृत्युपस्थानादयः सप्तवर्गा अनेकशो विभक्ताः सप्तत्रिंशब्दोधिपक्ष्या धर्मा भवन्ति । प्रत्येकं तेषामनुपलम्भात्तदाकाराः पारमिताः............ [स्तुतिपरिवर्तो नाम नवमः ॥]


१०. धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः ।

......बोधिर्धर्मचक्रप्रवर्तनपर्यन्ता नाहेतुत्वादिति फलरत्नप्रदाताप्रयोगः ॥

शुद्धराशिरित्यादि प्रगाश्चर्यात् । तेषामेव फलानामाकाशवद्विशुद्धिदर्शनादिति शुद्धकः प्रयोगः ॥

आश्चर्यमित्यादि । अथ खल्वायुष्मानित्यतः प्राक् । लिख्येतेति लिखितुं शक्यते । लिखितर्व्यैवेति तावतैव कालेन लिखितव्या भवेत् । दृढसमादानस्य विघ्नाभावादिति भावः । तत्कस्य हेतोरिति कुत इदमासं (शं)कितमित्यर्थः । एवं हीत्यादिनोत्तरम् । धर्मतेयमिति भावः ।

किञ्चापीति यद्यपि । न प्रसहिष्यत इति न प्रभविष्यति । अच्छिद्रसमादानस्यत्यखण्डसमादानस्य इत्यवधेरण(न)तिक्रमात्सावधिः प्रयोगः ॥

उक्ताः प्रयोगाः । गुणा वक्तव्याः । तानधिकृत्य शास्त्रम्-

[८०] माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः ।

गुणाः प्रयोगानुशंसाः मारशक्तिव्याघातादयश्चतुर्दश । तत्रादौ अथ खल्वित्यादि न हि शारिपुत्रेत्यतः प्राक् । बुद्धानामानुभावेनेति । तेन मारशक्तिव्याघातादिति भावः । प्रसत्तेः(?)अदर्शनात्पृच्छति । तत्कस्य हेतोरिति । समन्वाहरिष्यन्तीति स्मरिष्यन्ति । परिग्रहीष्यन्तीत्यानुकूल्ये चावस्थानादिति मारशक्तिव्याघातगुणः ॥

(र्स्त्_८८)
न हि शारिपुत्रेत्यादि । एवमुक्त इत्यतः प्राक् । इति बुद्धसमन्वाहारज्ञानगुणः ॥

एवमुक्त इत्यादि बुद्धचक्षुषेति यावत् । अनुभावः प्रभावः । अधिष्ठानमधिकशक्त्याधानम् । परिग्रहः स्वीकारः । कुतस्तेषां बुद्धाधिष्ठानं बुद्धपरिग्रहो वेत्यत आह ज्ञातास्त इत्यादि । ज्ञाताः समन्वाहृताः । अधिष्ठिताः स्वीकृताः । दृष्टा मांसचक्षुषा । व्यवलोकिता बुद्धचक्षुषा । इति बुद्धावलोकितत्वगुणः ॥

ये ते बोधिसत्त्वा इत्यादि येपीत्यतः प्राक् । तथत्वायेति सम्यक्सम्बोध्यासन्नीभावगुणः ॥

येपीत्यादि । इमे खल्वियतः प्राक् । महार्थिक आयत्यां बोधिसत्त्वभूमिभिः । महानुशंसो बोधिसत्त्वसम्पत्तिभिः । महाफलः पश्चादनुत्तराया बोध्याः । महादिपाकः चरमभवभाविनीभिः कुलगोत्रलक्षणादिसम्पत्तिभिः । परिश्रमः क्लमथः । परिष्प(स्प)न्दो व्यापारः । इति महार्थतादिगुणः ॥

इमे खल्वित्यादि न सन्त्रासमापद्यन्त इति यावत् । सूत्रान्ता इति प्रज्ञापारमिताप्रभृतयः । अत्ययेनेति परिनिर्वाणेन । वर्तन्यामिति पूर्वदेशे । ननु मध्यदेशे षोडशेषु महानगरेषु भगवता धर्मो देशितः । तस्य कथं ततोऽन्यत्र प्रचार इत्यत आह । नवमण्ड इत्यादि । नवमण्डोऽभिनवः सारः । स प्राप्तो विनेयैरस्येति तथोक्ते धर्मविनये । धर्मश्चासौ देशनाधर्मत्वाद्विनयश्च क्लेशविनयादिति धर्मविनयः । भगवति परिनिर्वृते सद्धर्मस्य लोकेऽवस्थानं पञ्चवर्षसहस्राणि ततोऽन्तर्धानकालः । तत्समये सन्निधाने । ततः किमित्याह । समन्वाहृता इत्यादि । उत्तरस्यां दिशीति दिगन्तराणां व्यवच्छेदः । उत्तरे दिग्भाग इति । तस्या अपि भागान्तराणां विस्तारेण चरतीति वैस्तारिकी । उत्तरापथ इति वचनं दक्षिणापथादेर्व्यवच्छेदाय ।

बहव इत्यल्पकपक्ष्यस्य सुबहव इति बहुत्वप्रकर्षाय । किञ्चापीति यद्यपि । शेषं सुबोधम् । अत्र चतुर्भिः कारणैः शासनापचय उक्तः । भगवतोऽत्ययेन । नवमण्डप्राप्तत्वेन । अन्तर्धानकालसन्निपातेन । प्रवर्तकाल्यत्वेन च । तथापि शासनं तानबलंब्य प्रवर्तिष्यत इति शासनावलम्बत्वगुणः ॥

चिरयानेत्यादि यावत्सम्बोधिमारभ्येति । प्रश्नः पृच्छा । तत्करणात्परिपृष्टाः परिज्ञातपृच्छाः परिपृच्छाः । तथा करणात्परिपृच्छिताः । (र्स्त्_८९) परिहतप्रश्नाः कृताः परिपुरिप्रश्नोकृताः । शीलेष्विति बहुवचनमाद्यर्थं शीलादिष्वित्यर्थः । शेषं सुबोधम् । इति शुक्लधर्मपरिपूरणगुणः ॥

तत्कस्येत्यादि सम्यक्सम्बोधिमारभ्येति यावत् । जातिव्यतिवृत्तानामपीति तां तदुत्तरां च जातिमतिक्रान्तानामपि समुदाचाराः प्रयोगाः । अभिनन्दनमभिलाषः शेषं सुगमम् । इति कथापुरुषतागुणः ॥

तेषु चेत्यादि यावत्सम्यक्सम्बोधाविति । छन्दतो मन्त्रतो वेति । अभिप्रायेण व्यवचारेण वा । शेषं सुबोधम् । इति अभेद्यतागुणः ॥

तां चेत्यादिना सम्यक्सम्बोधावित्येतदन्तेन बहुजनकुशलमूलोत्पादनगुणः ॥

तत्कस्येत्यादि एवं चेत्यतः प्राक्प्रस्थापयिष्याम इति प्रस्थानमात्रेण । सम्प्रभावयिष्याम इति भावनाप्रकर्षसंपादनात् । प्रतिष्ठापयिष्याम इति स्थिरीकरिष्यामः । शेषं सुबोधम् । इति प्रतिज्ञातपरार्थसंपादनगुणः ॥

एवं चेत्यादि भविष्यन्तीति यावत् । एवं चेति यथोक्ते परार्थसंपादने सति । उदाराधिमुक्तिका भविष्यन्तीति । यथोक्तं महत्योस्तदेव संक्षिप्य ब्रूमः । "ते खलु उदाराधिमुक्तिका भविष्यन्ति । रूपशब्दगन्धरसस्पर्शधर्मेषु त उदाराणि दानानि दत्वा उदाराणि कुशलमूलान्यभिसंस्कृत्य उदारं विपाकं परिगृह्य सत्त्वानामर्थाय विपाकाद्विपाकं परिगृहीष्यन्ति" इति उदारफलपरिग्रहगुणः ॥

यदित्यादि एवमुक्त इत्यतः प्राक् । यदिति यस्मादुदाराधिमुक्तिकत्वात् । अध्यालम्बितव्यानीति संक्रमितव्यानि । शेषं सुबोधम् । इति वैस्तरिकपरार्थसंपादनगुणः ॥

एवमुक्त इत्याद्यापरिवर्तसमाप्तेः । पारमितानां कृतश इति तदर्थम् । तासां परिशुद्धये । अर्थायेति हिताय । अन्वेषिष्यन्ते प्रज्ञापारमिता क्वैषा लभ्यतामिति । पर्येषिष्यन्त इतस्ततो गत्वा गवेषिष्यन्ते । इह लप्स्यत इति श्रुत्वा । अभिवदनी (न्ती) ति सम्यग्वदन्ति । उपगमिष्यन्ति सन्निधानतः । उपपत्स्यन्ते प्रयत्ने सति लाभात् । उपनंस्यन्ते अयत्नेनैव लाभात् । शेषं सुबोधम् । इति षट्पारमितानियतलाभगुणः ॥

इत्युक्तो गुणः ॥

यथोक्तेषु प्रयोगेषु चेतसः स्थापनं धारणम् । तस्य गुणा अनुशंसाश्चतुर्दश । तेषां परिकीर्तनश्चासौ परिवर्तश्च ।

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां दशमः परिवर्तः ॥


(र्स्त्_९०)
११. मारकर्मपरिवर्तो नामैकादशमः ।

दोषाः प्रयोगान्तरायकराः । ते वक्तव्याः । तमधिकृत्य शास्त्रम्-

दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ ४-१२ ॥

दोषाः षट्चत्वारिंशदित्यर्थः । अत आह । अथ खल्वित्यादि । केचिदिति प्रश्नः । काङ्क्षाकिमर्थगतेः । अथवा चिच्छब्दो न पठितव्यः । बहूनीति सामान्येनोक्ते विशेषजिज्ञासया प्रश्नः । कियद्रूपाणोति । तेषामित्याद्युत्तरम् । वक्ष्यमाणानि षट्चत्वारिंशदिति भावः । भाषमाणादिपदानि सर्वचर्याणामुपलक्षणानि । चिरेण प्रतिभानमुत्पत्स्यत इति चिरेण पारमितानां पूरणम् । ततश्चिरेणैव बोधिः स्यात् । इति चिरप्रतिभानदोषः ॥

तदपि चेत्यादि । विक्षेप्स्यत इति । उद्धतं भविष्यति । अनुपायकुशलस्य क्षिप्रतरं तदुत्पत्तौ मानोत्पत्तेः । ततोऽन्यान् बोधिसत्त्वानवमन्यमानस्य नीचकुलेषूत्पत्त्या चिरेणैव बोधिः स्यादित्याशुप्रतिभानदोषः ॥

जृम्भमाणा इति सदर्पकायप्रसाराः । हसन्त इति अट्टहासान् कुर्वन्तः । उच्चवग्घयन्त इति दर्पादुत्तिष्ठन्तः । इति कायकर्मवैगुण्यम् ॥

विक्षिप्तचित्ता इत्यसमाहिता । अन्योन्यविज्ञानसमङ्गिन इति परैः स्मरयितव्याः । स्वयं तु स्मृतिं न प्रतिलप्स्यन्ते । भिन्नेष्वपीर्यापथेषूद्देशविस्मरणाद्वेति चित्तवैगुण्यदोषः ॥
परस्परमित्यादि । उच्चग्घमाना इति परस्परमुच्चग्घयन्तः । विक्षिप्तचक्षुष इतस्ततः । विसामग्रीति यावतामागमने पुस्तकमाकृष्यते तावतामसमग्रतेत्ययोगविहितस्वाध्यायादिता दोषः ॥

न वयमित्यादि पुनरपरमित्यतः प्राक् । चित्तोत्पादैस्तथा तथेति पूर्वोक्तम् । न निर्जायन्ते न निष्पद्यन्ते । इति वैमुख्यनिमित्तग्राहिता दोषः ॥

पुनरपरमित्यादि तद्यथापीत्यतः प्राक् । विवर्ज्य चेतसा । उत्सृज्य कायवाग्भ्याम् । निर्याणं शिक्षापर्यन्तगमनम् । इति हेतुभ्रंशदोषः ॥

(र्स्त्_९१)
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । पिण्डमाहारः । छोरयित्वा त्यक्त्वा । कवडं ग्रासम् । पत्रः पल्यसम्पत्समूहः । पलाशोपमप्रतिपन्न इति पलाशोपमेषु सूत्रान्तेष्वभियुक्ताः । दमयिष्यामः पञ्चेन्द्रियदमनात् । शमयिष्यामः चेतसो दमनात् । परिनिर्वापयिष्यामः पुनर्भवक्षयात् । कुशलमूलानामभिसंस्कारो निष्पादनानि तदर्थाः प्रयोगव्यापाराः । न च तैर्मन्तव्यमिति । तेषामात्मनश्चानुपलम्भादिति प्रणीतास्वादभ्रंशदोषः ॥

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । प्रकाशमिति सालोकम् । उपनिध्यायेदिति पश्येत् । वर्णसंस्थान इति वर्णाकारौ । इत्युत्तमयानभ्रंशदोषः ॥

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । केवलमात्मदमशमथमेवेति । संवर्णत इति वर्तते । इत्यपीत्यादि । प्रतिसंलयनं समाधिः । तदपि इत्येवम् । आत्मदमशमथार्थमेव संवर्ण्यते । इत ऊर्ध्वमितीत्यादि सुगमम् । इति दृष्ट एवेत्यादि । दृष्टे धर्मे प्राप्ते जन्मनि । अनुपादायेति न किञ्चित्परिगह्य । नित्यकालमित्याबोधेः । सततं चैतत्प्रतिजन्मभावात् । समितं च प्रत्यहं भावादिति सततसमितम् । शेषं सुबोधम् । इत्युद्देशभ्रंशदोषः ॥

इति प्रथमं दशकम् ॥

तद्यथापीत्यादि तद्यथापित्यतः प्राक् । पलगण्डः सूत्रधारः । मेरुपृष्ठे सुदर्शनं नाम शक्रस्य सौवर्ण नगरम् । तन्मध्ये शक्रस्य वैजयन्तो नाम प्रासादः । प्रतिपार्श्वं योजनशतद्वयं सार्धम् । एकत्वेन योजनसहस्रम् । सूर्याचन्द्रमसोस्तु मेरोरर्द्धाद्वहिराकाशगामिस्फाटिकं वर्तुलं विमानम् । यथाक्रममेकपञ्चशत्पञ्चाशच्च योजनानि मध्यसूत्रेण । तन्मध्ये यस्तयोः प्रासादो बहुभूमेस्तदिह तयोर्विमानं वक्तव्यम् । तच्च वैजयन्तादतीवाल्पप्रमाणम् । निर्माणं विशेषवती क्रिया । उपनयन्ति प्रापयन्तीत्युपा[य]संमोहदोषः ॥

तद्यथापीत्यादि । भगवानाह । तद्यथापीत्यतः प्राक् । लोके चक्रस्य प्रवर्तनात्चक्रवर्ती । तत्पुनश्चक्रमपौरुषमाकाशगामि सहस्रारं सनाभिकं सनेमिकमायसं ताम्रं रौप्यं सौवर्ण वा यथायोगम् । वर्णो जाम्बुनदनिभः । संस्थानं द्वात्रिंशन्महापुरुषलक्षणोपेतम् । तेजः सर्वमभिभूः प्रभावः प्रभामण्डलश्च । ऋद्धिः सम्पत्तिः । विशेषतः सप्तरत्नानि- चक्ररत्नं हस्तिरत्नं (र्स्त्_९२) अश्वरत्नं परिणायकरत्नं गृहपतिरत्नं मणिरत्नं चेति । धन्धयति मोहयत्यपरिस्फुटत्वादल्पत्वाच्चेति धन्धकः । यस्माद्धेतोर्बोधिसत्त्वः समुदेति स बोधिसत्त्वसमुदागमः । अवाप्य लाभमात्रेण । समासाद्य श्रवणादिभिः । विवर्ज्य त्यक्त्वा । विवर्त्य पराङ्मुखीभूय । इति चक्रवर्तिसाधर्म्यान्निर्माणकायभ्रंशदोषः ॥

भगवानाह । तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । रसाः षट् । द्रव्यभेदात्परस्परसांकर्याच्च शतं भवति । ततः शतरसं भोजनम् । षष्टिकाः षष्टिरात्रेण पच्यन्ते तेषामोदानः षष्टिकोदनः । शकन्ध्वादिषु दर्शनात्पररूपम् । उत्सृज्य चेतसा । विवर्ज्य कायेन । इति शतरसभोजसाधर्म्यात्सम्भोगकायभ्रंशदोषः ॥

तद्यथापीत्यादि प्राक्पुनरपरशब्दात् । गम्भीरं परमार्थशेखरत्वात् । प्रभास्वरं परमनिर्मलालोकत्वात् । इत्यनर्ध्यमणिरत्नस्य धर्माद्धर्मकायभ्रंशदोषः ॥

इत ऊर्ध्वं गद्यद्वयेन भगवत्यां पञ्च विपर्यासाः प्रतिशे(षे)ध्याः (?) । पुनरपरमित्याद्येवमुक्ते इत्यतः प्राक् । बहूनि प्रतिभानानीति रूपादीनां सर्वाकारज्ञतापर्यन्तानां प्रतिभानानि । भगवत्यामसंविद्यमानत्वाच्चित्तविक्षेपकराणीति तत्तभ्दावप्रतिभानदोषः ॥

एवमुक्त इत्यादि पुनरपरात्प्राक् । ये केचित्प्रज्ञापारमिता लिखितेति, असतीति, अक्षराणीति, अनक्षरेति वा मन्यन्ते सर्वं तन्मारकर्म । तथा हि न सा लिखिता अपगन्धादिविरहात् । नासती परमार्थसत्त्वात् । नाक्षराणि सर्वधर्माणामनक्षरत्वात् । नानक्षरा तन्निष्यन्दत्वादेषामक्षराणाम् । एभिरेव च तस्याः सूचनात् । एतान्येव च तेनार्थेनालम्ब्य तस्या अधिगमात् । तदेवं लिखनाभिनिवेशोऽसत्त्वाभिनिवेशोऽक्षराभिनिवेशोऽनक्षराभिनिवेशश्चेति चत्वारो दोषाः ॥

पुनरपरमित्यादि । देशो मालवादिः । शतेन सहस्रेण वा संख्यातगृहोऽनाढ्यानां निवासो ग्रामः । सहस्रेण लक्षेण वा संख्यातगृह आढ्यानां निवासो नगरम् । नगरमेव च वस्तुभूयिष्ठं निगमः । मण्डलं काश्यादि जनपदः । तत्समूहो राष्ट्रम् । राजाध्युषितं नगरं राजधानी । आख्यानं गद्यकाव्यम् । गुल्मो घहाः(ट्टः?) । विशिखा रथ्या । शिविका याप्ययानम् । जीवितार्थाः परिष्काराः जीवितपरिष्काराः । इतिहासः पुरावृत्तम् । शेषं सुबोधम् । इति गन्तव्यादिनानार्थमनसिकारविक्षेपदोषः ।

(र्स्त्_९३)
इति द्वितीयं दशकम् ॥

पुनरपरमित्यादिना द्रष्टव्यराजादिमनसिकारविक्षेपदोषः ॥
पुनरपरमित्यादिना प्राप्तव्याग्न्यादिमनसिकारविक्षेपदोषः ॥

पुनरपरमित्यादि प्राक्पुनरपरात् । अन्तराया विघाताः । लाभश्चीवरादिप्राप्तिः । सत्कार आदरः । श्लोको यशः । तैरास्वाद उद्धर्षः । चित्तोत्पीडा चीवरादिविघातैः । इत्युत्पीडास्वाददौषौ ॥

पुनरपरमित्यादि प्राक्पुनरपरात् । किञ्चापीति यद्यपि । उपायकौशल्यमिति येन हीनबोधौ न पतेदिति । उपायकौशल्यरहितस्य गम्भीरसूत्रान्ते अतन्मार्गणदोषः ॥

इति ऊर्ध्वं वैधुर्याणि बाहुल्येन वक्तव्यानि । तानि धर्मभाणकेन सह धार्मश्रवणिकानां विसामग्री । धर्मस्य भान(ण)को वक्ता गुरुः । धर्मश्रवणं प्रयोजनमेषामिति धार्मश्रवणिकः शिष्यः । समग्रभावः सामग्री । विपर्यासात्विसामग्री । तत्रादौ पुनरपरवाक्यद्वयम् । किलासं कौसीद्यम् । बहुकृत्यता गृहिणाम् । सपि कौसीद्यमिति च्छन्दकिलासवैधुर्यम् ।

ततः पुनरपरवाक्यद्वयम् । अन्तश इत्यधिकमेव लिखितुकामः । गतिमान् शब्दज्ञानात् । मतिमानर्थज्ञानात् । स्मृतिमानुभयोर्धारणात् । क्षेप्स्यत इति कर्मे कर्त्तरिप्रयोगः । गमिष्यतीत्यर्थः । उदघटितज्ञः सामान्योक्ते विशेषज्ञानात् । विपञ्चितज्ञः किञ्चिदप्युक्तौ विशेषपरिज्ञानात् । अनभिज्ञः पदपरमः । स हि यदुच्यते तदेव जानाति नाधिकम् ॥

इमानि चत्वारि वैधुर्याणि । च्छन्ददेशान्तरगमनवैधुर्यम् । उद्घाटितज्ञतेतरतावैधुर्यम् । अभिज्ञतेतरतावैधुर्यम् ॥

तृतीयं दशकम् ॥

पुनरपरमित्यादि आमिषं द्रव्यम् । तद्गुरुकबहुमानादस्येति आमिषगुरुकः । एवं लोभादिगुरुकः । यावता स्वयं वर्तते तावदिच्छतीति अल्पेच्छः । सन्तुष्टो अधिकानिष्टेः । प्रविविक्तो गृहस्थैरसंस्तुतत्वात् । इयता प्रव्रजितस्य दानाशक्तिरुक्ता । अर्थवा न दातुकाम इति सन्तमप्यर्थ गृहीमात्सर्यात् । इत्यामिषार्थितादानानार्थितावैधुर्यम् ॥

पुनरपरमित्यादि पुनरपरात्प्राक् । श्राद्धो भविष्यति । ततः श्रोतुकामः शब्दतः । अवबोधु(द्ध)कामोऽर्थतः । अर्थ दातुकामः परित्यक्तुकाम इति निरक्षेपदानात् । धर्मभाणकस्तु न वक्ष्यति । अश्राद्धत्वात्, धनैरण(न)र्थिकत्वात्, (र्स्त्_९४) धर्ममात्सर्याद्वा । इमानि त्रीणि वैधुर्याणि । श्राद्धेतरतावैधुर्य दानार्थिताग्रहणानर्थितावैधुर्य श्रोतुकामताधर्ममात्सर्यवैधुर्य च ॥

पुनरपरमित्यादि । तानि सूत्राणीति यानि श्रोतुकामः । धर्मान्तरायो धर्मव्यसनम् । तदस्यास्ति पूर्वजन्मसद्धर्मप्रतिक्षेपादिति धर्मान्तरायिकः । तत्तया तभ्दावेन न सम्भविष्यन्ति न भविष्यन्ति । नावतरिष्यन्ति नान्यत आगमिष्यन्ति । अप्राप्तधर्मभाणिन इत्यप्राप्तधर्मभाणकस्य । प्रतिवाणी प्रत्याख्यानम् । इति सूत्रान्तरा[य]सम्भवतदर्थितावैधुर्यम् ॥

पुनरपरमित्यादि । न श्रोतुकामो भविष्यतीति धर्मान्तरव्यग्रतया । अत इदं च्छन्दकिलासवैधुर्यादन्यच्छन्दवैधुर्यम् ॥

ततः पुनरपरवाक्यद्वयेन मिद्धगुरुकच्छन्दिकतावैधुर्यम् ॥

पुनरपरवाक्येन दुर्गतिदुःखभयाभ्दववैमुख्यदोषः ॥

पुनरपरवाक्येन सुगतिसुखानामपि दुःखत्वाभ्दववैमुख्यदोषः ॥

ततः पुनरपरवाक्येन एकाकिता पर्षद्गुरुकतावैधुर्यम् । अनुबन्धुकामता अनवकाशदानवैधुर्यम् । दुर्भिक्षादिदिग्गमनागमनवैधुर्यं च । तत्रैकाकितापर्षद्गुरुकतावैधुर्यान्तं चतुर्थं दशकम् ॥

एकेन पुनरपरवाक्येन सभयदिग्गमनागमनवैधुर्ये ॥

पुनरपरमित्यादि कुलावलोकनबहुकृत्यतया धार्मश्रवणिकानां प्रत्याख्यानदोषः ॥

इति हीत्यादिना मारकर्मणां बाहुल्यं बुद्धाविवर्जनीयतां मारस्य च तेष्वभियोगकारणमाह । पुनरपरमित्यादि । श्रमणवेशागतेन मारेण संशयप्रक्षेपदोषः ॥

पुनरपरमित्यादि । निर्मितभिक्षुसङ्घेन स्वयं बुद्धवेषेण मारेण गम्भीरधर्मचारिणां हीनबोधिव्याकरणदोषः ॥

एवं सुभूत इत्यादिना आपरिवर्तान्ताच्चतुरोऽर्थानाह । मारमर्मणां बाहुल्यं तत्कारणं तेभ्यश्च विना तामल्पबुद्धित्वादिकम् । यथा च मारस्य तेष्वभियोगस्तथा सर्वबुद्धानां बोधिसत्त्वपरिग्रहेष्विति षट्चत्वारिंशदन्तरायाः ॥

मारकर्माण्यते एवान्तरायाः । तद्द्योतकः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्चिकायां रत्नाकरशान्तिविरचितायामेकादशः परिवर्तः ॥


(र्स्त्_९५)
१२. लोकसंदर्शनपरिवर्तो नाम द्वादशः ।

उक्ता दोषाः । लक्षणं वक्तव्यम् । तदधिकृत्य शास्त्रम्-

[८१] लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत ।
ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ ४-१३ ॥

ऽयेन लक्ष्यतेऽ तल्लक्षणमिति ज्ञेयम् । करणे ल्युट् । तच्च विविधंऽज्ञानं विशेषः कारित्रंऽ चेति । यश्च लक्ष्यते तदपि लक्षणम् । कर्मणि ल्युट् । स चऽस्वभावऽ एवेति चतुर्विधं लक्षणम् । तत्रादौ ज्ञानं वक्तव्यम् । तत्र सर्वज्ञताकारेण तावत् ।

[८२] तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके ।
सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ १-१४ ॥
[८३] अक्षयाकारतायां च सरागादौ प्रविस्तृते ।
महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ १-१५ ॥
[८४] अदृश्यचित्तज्ञानं(ने) च तदुन्मिञ्जादिसंज्ञितम् ।
पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ १-१६ ॥
[८५] तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् ।
सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ १-१७ ॥

ज्ञानग्रहणं सप्तम्यन्तैः सहः संबध्यते ।ऽतथागतस्य निर्वृत्तौऽ इति भगवत्याः सकाशात्तथागतस्य निष्पत्तौ ज्ञानं तदाह । अथ खल्वित्यादिना अथ खल्वित्यतः प्राक् । तत्रादौ दृष्टान्तः । एवमेवेत्यतः प्राक् । मातुर्ग्लानाया इति मातरि ग्लानायाम् । स्पर्शविहार इति स्पर्शप्रचारः । अमनआप इति अमनोज्ञः दुःखहेतुत्वात् । सुधृता धारयेयुरिति सुपुष्टां पुष्टीयुः । तथा पुष्टीयुः यथा सुपुष्टा स्यात् । गोपायनं रक्षणम् । केलायनं सोधनं व्याधिहरणात्केलाशब्दः । कण्ड्वादिदुःखो वा स्पर्श इति । विषयेन्द्रियविज्ञानसन्निपातजश्चैत[सि]कः स्पर्शः । स च दुःखहेतुर्दुःख । चक्षुष इति पञ्चमी । आपातोऽमनुष्याणाम् । उत्पातो विद्युदादिः । ममकारेण ममा [ये]युः । समन्वाहरन्तीत्येतत्कुत इत्याह । येपि ते लिखन्तीति तामेव । तथागतस्येति शाक्यमुनेः । (र्स्त्_९६) येपीति न केवलं शाक्यमुनिः । तिष्ठन्तीति सन्ति । ध्रियन्त इति अवतिष्ठन्ते । यापयन्तीति यावदायुरवतिष्ठन्ते । औत्सुक्यमापद्यन्ते । कथमित्याह । किमितीत्यादि । किदृशी मातेत्यत आह । जनयित्रीति । अस्याः सर्वज्ञतायाः । दर्शयित्रीति प्रापिका । एवमिति जनकत्वेनैव । इति तथागतस्य निर्वृत्तौ ज्ञानं प्रथमम् ॥

लोकस्य सन्दर्शयित्रीत्युक्तम् । अतः पृच्छत्यथ खल्वित्यादिना । एवमुक्त इत्यादि उत्तरम् । लोक इत्याख्याता इति लुजो विनाशे । लुज्यन्ते प्रलुज्यन्ते क्षणिकत्वात्सन्ताननिरोधाच्चेति लोकाः । कर्त्तुर्युच् । नैरुक्तो वर्णव्यत्ययः । कथं लोक इति दर्शिता इति । यदि लुञ्जन्त इति लोकाः । तदास्याः कोऽतिशय इति भावः । विश्वादर्शितमिति(?)लुजत्वादन्यत्(?) । यतोऽतिशयः स्यादित्यर्थः । न लुज्यन्त इत्यादि । ननु तथापि व्याहतमे[त]त्न लुज्यन्ते न प्रलुज्यन्ते तस्माल्लोक इति? नास्ति व्याघातः । यस्यायमत्र सम्बन्धः । लोक इति पञ्चस्कन्धाः । ते भगवत्या प्रज्ञापार[मि]तया न लुज्यन्ते न प्रलुज्यन्त इति दर्शिताः । तत्कस्य हेतोरित्यादिना प्रश्नः । शून्यतेत्यादिनोत्तरम् । यथा शून्यता एवमनिमित्तादय इत्याह न चेत्यादिना । कथमिति पृष्टम् । अत एवमित्यादिनोपसंहारः । इति लोकज्ञानं द्वितीयम् ॥

सत्त्वानां चित्तचर्यास्वित्यनेनाप्रमेयाणां सत्त्वानां चित्तचरितज्ञानं निर्दिष्टम् । तच्च न विनाशत्वाप्रमेयताज्ञानेन । ततः पुनरपरमित्यादिना सत्त्वाप्रमेयताज्ञानमुक्त्वा योपीत्यादिना तच्चित्तचरितज्ञानमाह । तत्र कथं सत्त्वानामप्रमेयताज्ञानम्? यतस्तेषां निःस्वभावतया न प्रमाणं न संख्या । कथं तच्चित्तचरितानां ज्ञानम्? सत्त्वासत्तया तेषामप्यसत्त्वात् । लोकस्य सन्दर्शयित्रीति सत्त्वानामपि लोकत्वात् । इत्यप्रमेयसत्त्वचित्तचरितज्ञानं तृतीयम् ॥

ऽतत्संक्षेपे बहिर्गतौऽ इति । बहिर्गतिर्विक्षेपः । तस्य चित्तस्य संक्षेपसहिता बहिर्गतिस्तत्संक्षेपबहिर्गतिः । अतश्चित्तस्य संक्षेपविक्षेपज्ञानं पुनरपरगद्यद्वयेनाह । स संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानातीति । संक्षेपो हि चित्तस्य प्रकृतौ स्थानम् । तच्चास्य क्षय एव । स चाक्षयश्चित्तप्रकृतेरक्षयत्वात् । तस्मात्स तथागतः संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानाति । धर्मतात इत्यादि । ल्यब्लोपे पञ्चमी । चित्तधर्मतामपेक्ष्य तानि विक्षिप्तानि बहिर्मुखत्वात्प्रजानाति । स्वलक्षणापेक्षया कीदृशानीत्याह । अक्षीणानीत्यादि । (र्स्त्_९७) न क्षीणानि नाप्यंशतः क्षीणानि ततो न संक्षिप्तानि । अविक्षिप्तानीति नापि विक्षिप्तानि । कुत इत्याह । अलक्षणानि हीति । यस्मात्स्वलक्षणैः शून्यानीत्यर्थः । इति चित्तसंक्षेपविक्षेपज्ञानं चतुर्थम् ॥

ऽअक्षयाकारतायां चऽ इति क्षयपाठो महत्यौ प्रति । इमां तु प्रतिऽअमेयाक्षयतायां चऽ इति पाठः । अस्यां हि पठ्यते अप्रमेयाक्षयानि चित्तानीति । तदाह । पुनरपरमित्यादिना । कथं चेति प्रश्नः । उत्तरं तस्येत्यादिना । अधिष्ठितमिति न कदाचिन्न स्थितमनादिनिधनमित्यर्थः । धर्मतयेति भावः । अत एव संस्कृतलक्षणाभावादनिरोधमनुत्पादमस्थितम् । अनाश्रयं षण्णामपीन्द्रियाणां तस्मिन्नव्यापारात् । प्रमाणाभावादप्रमेयम् । क्षयाभावादक्षयम् । येनेति येनाधिष्ठितत्वादिना । आकाशेत्यादि । यथा आकाशस्याप्रमेयताक्षतया तथा चित्तस्य । एवमित्यादिनोपसंहारः । इति अप्रमेयाक्षयताज्ञानं पञ्चमम् ॥

अप्रमेयाक्षयतायां चेति चकारोऽनुक्तसमुच्चयार्थः । तेन संक्लिष्टासंक्लिष्टज्ञानं लीनप्रगृहीतज्ञानं साश्रवानाश्रवज्ञानं च परिगृह्यते । तत्राद्यं पुनरपरगद्यद्वयेनाह । असंक्लेशसंक्लिष्टानीति संक्लिष्टिः संक्लेशः क्लेशोपक्लेशैर्मलिनीकरणम् । न संक्लेशोऽसंक्लेशः । तेन संक्लिष्टानि । यतोऽसंकेतानि । कित्निवासे । चित्तधर्मता(त)या न सम्यक्स्थानं तेषामागन्तुकत्वात् । प्रकृतीत्यादि । चित्तधर्मता हि प्रकृत्यैव प्रभास्वरा निर्मला नित्यमसंक्लिष्टेति संक्लिष्टासंक्लिष्टचित्तज्ञानं षष्ठम् ॥

द्वितीयं पुनरपरगद्यद्वयेनाह । अनालयलीनानीति । अनालयोऽलयनम् । अलयनेनैव लीनानि । चित्तं हि लीनं न चित्तप्रकृतिः । न हि चित्तप्रकृतिर्न मह्यं न मेति वा । अग्राह्याणि तानि चित्तानि न प्रग्रहीतव्यानीति । अग्रहणं प्रग्रहः । प्रशब्दस्य प्रतिषेधार्थत्वात् । प्रस्थानवत्प्रवासवच्चेति भावः । इति लीनप्रगृहीतचित्तज्ञानं सप्तमम् ॥

पुनरपरगद्यद्वयेन तृतीयमाह । अस्वभावानीत्यादि । आत्मन्येव भावः स्वभावः । तदभावादस्वभावानि । विसरत्येभिश्चित्तमित्यास्रवा असंकल्पाः । तद्योगात्सास्रवाणि । कुतः? यतोऽसत्संकल्पानि । असतां कामरूपारूप्यभवानां कल्पनात् । अभावगतिकानीत्यादि । अभावः शून्यता । सा गतिरेषामिति तथोक्तानि । तस्मादनाभोगानि कामरूपारूप्यभवेषु विसरणात् । ततोऽनास्रवाणीत्यर्थः । इति सास्रवानास्रवचित्तज्ञानमष्टमम् ॥

(र्स्त्_९८)
ऽसरागादौऽ इति । सरागवीतरागज्ञानं सदोषवीतदोषज्ञानं समोहवीतमोहज्ञानं च । तत्रादौ पुनरपरगद्यद्वयेनाह । या चित्तस्य सरागतेत्यादि । चित्तस्य सरागता न चित्तप्रकृतेः । तस्माद्विनैव रागं सरागाणीत्यर्थः । यश्चित्तस्य विगम इत्यादि । विगमः शून्यता । न सा सरागतेति सैव वीतरागतेत्यर्थः । इति सरागवीतरागचित्तज्ञानं नवमम् ॥

पुनरपरगद्यद्वयेन द्वितीयम् । तत्सुबोधम् । इति सदोषवीतदोषचित्तज्ञानं दशमम् ॥

ततः पुनरपरगद्यद्वयेन तॄतीयम् । इति समोहवीतमोहचित्तज्ञानमेकादशम् ॥

"प्रविस्तृते महद्गतेऽप्रमाणे च" इति शास्त्रम् । प्रविस्तृतं विपुलमनन्तं कामधात्वालम्बनं ब्रह्मविहारादि । महद्गतं रूपधात्वालम्बनम् । कामाद्रूपस्य प्रकृष्टत्वादारूप्यधात्वालम्बनम् । त्रिधात्वालम्बनमनालम्बनं चाप्रमाणम् । अतस्त्रीणि ज्ञानानि महत्योः । विपुलचित्तज्ञानं महद्गतचित्तज्ञानमप्रमाणचित्तज्ञानं च । इमां तु भगवतीं प्रतिऽअप्रमाणे चऽ इति चकारोऽनुक्तसमुच्चयार्थश्चाद्ययोरभिसम्बध्यते । विपुलेऽविपुले च । महद्गतेऽमहद्गते च । अप्रमाणे चेति । तस्मादस्यां त्रीणी ज्ञानानि । अविपुलविपुलज्ञानम्, अमहद्गतमहद्गतज्ञानम्, अप्रमाणज्ञानं चेति । तत्राद्यं पुनरपरगद्यद्वयेनाह । असमुत्थानेत्यादि समुत्थानं विस्तारः । तद्योगप्रतिषेधादसमुत्थानयोगानि । अतिप्रसारप्रतिषेधादसमुत्थानपर्यापन्नानि धर्मतया । तस्मादविपुलानि । न हीयन्त इत्यादि । न हीयन्ते नापचीयन्ते तस्मान्नाविपुलानि । न विवर्धन्ते तस्मान्न विपुलानि न विगच्छन्तीति न विशेषं गच्छन्ति । तस्मान्न विपुलानि नाविपुलानि । अविगमत्वादेवेति निर्विकारत्वादेव चित्तानामिति चित्तधर्मतायाः इति विपुलाविपुलचित्तज्ञानं द्वादशः ॥

पुनरपरगद्यद्वयेन द्वितीयमाह । अनागतिकानीत्यादि । दूरादन्तिके गतिरागतिः । अन्तिकाद्दूरगतिर्गतिः । परितो गतिः पर्यापन्न

[लोकसन्दर्शनपरिवर्तो नाम द्वादशः ॥]


[अचिन्त्यपरिवर्तो नाम त्रयोदशः ॥]
थिसध्याय इस्मिस्सिन्गिनोरिगिनल्तेxत्


[औपम्यपरिवर्तो नाम चतुर्दशः ॥]
थिसध्याय इस्मिस्सिन्गिनोरिगिनल्तेxत्


(र्स्त्_९९)
१५. देवपरिवर्तो नाम पञ्चदशः

...........त्याह । यान्येनमित्यादि । कानि पुनरस्य कल्याणमित्राणीत्यत आह तान्येवेत्यादि । तान्यस्मै कथमर्थमुपदेक्ष्यन्तीत्यत आह एवं चेत्यादि । एवमनेनाकारेण । एहि त्वमित्यादिना कार्षीरित्येतदन्तेन । योगमिति प्रयोगमभियोगं वा । मा परामृक्ष इति तभ्दावेन मा ग्रहीः । अपरामृष्टेति सर्वधर्मैरविकल्पिता । परिजयोऽभ्यासः । एवं हीत्यादिना उपसंहारः । सम्यक्सम्बोधी सम्यक्परिणामनमनास्वादः । इत्यनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः ॥

उक्तो विशेषः षोडशविधः । कारित्रं दशविधं वक्तव्यम् । तत्र शास्त्रम्-

[८६] हितं सुखं च त्राणं च शरणं लयनं नृणाम् ।
परायणं च द्वोपं च परिणायकसंज्ञकम् ॥ ४-२७ ॥
[८७] अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ ४-२८ ॥

एतदाह सुभूतिरित्यादिना । तच्च दुष्करेत्यादिना सुभूतिः प्रस्तौति । एवमेतदित्यादिना भगवानाचष्टे । ये लोकहिताय सम्प्रस्थिता इति बोधिमभिसम्बुध्य पञ्चभ्यो गतिभ्यः सत्त्वान् परिमोच्य तेषामभये निर्वाणे प्रतिष्ठापनादिति हितकारित्रम् ॥

लोकसुखाय लोकानुकम्पायै सम्प्रस्थिता इति बोधिमभिसम्बुध्य सत्त्वान् दुःखदौर्मनस्योपायासेभ्यः परिमोच्य तेषां सुखे निर्वाणे प्रतिष्ठापनमिति सुखकारित्रम् ॥

लोकस्य त्राणं भविष्याम इत्यादिना त्राणादिकारित्राणामुद्देशः । इत्येवंरूपं वीर्यमारभन्त इति सम्बन्धः । यथोद्देशमष्टाभिः कथञ्चवाक्यैर्निर्देशः । तत इति तेभ्यो दुःखेभ्यः । एनमिति लोकम् । व्यायच्छन्त इति संरक्षन्ति । वीर्यमिति प्रयोगम् । त्राणं भवन्ति त्राणकरणादिति त्राणकारित्रम् ॥

इत्यादिरेव........... ..........(र्स्त्_१००) [अविद्या]ण्डजमस्मिन्निति कृत्वा । स एव पटलं दृष्टिरोधकत्वात् । अविद्यैवाण्डकोशपटलं तेन पर्यवनद्धा अवगुण्ठिताः । तमो मोहः । तेनाभिभूता अन्धीकृताः । अवभासयन्तः आलोकं कुर्वन्तः । विधुन्वन्ति अपनयन्ति । एवमालोककरणादालोका भवन्तीत्यालोककारित्रम् ॥

अनुत्पादश्चानिरोधश्चेति समाहारद्वन्द्वः । प्रकृतिः सर्वधर्माणां धर्मता । तया तेषामनुत्पादानिरोधाय धर्मदेशनात्परिणायकाः परितो नेतारः परमार्थबोधका इति परिणायककारित्रम् ॥

अनाभोगं त्रिभिर्यानैः फलसाक्षात्क्रियात्मकम् ।
पश्चिमं गतिकारित्रं [इदं कारित्रलक्षणम्] ॥

इति त्रिभिर्यानैरनाभोगतः फलसाक्षात्क्रियात्मकं गतिकारित्रमित्यर्थः ।

ग्रामस्य (?) हि गतिः प्राप्तिरेव । यदाभोगेन गमनेन यानत्रयफलस्यापि गतिः प्राप्तिरेव सा तु निराभोगा । न हि पुमान् कायेन चेतसा वा गन्त्वा तत्प्राप्नोति किन्त्वाभोगत एव । तथा ह्याकाशगतिकाः सर्वधर्माः । न ह्याकाशस्य गतिरागतिर्वा । स्वभाव एवास्य गतिः । तस्मादाकाशगतिका इत्याकाशसमाः । कुत इत्याह । यथा हीत्यादि । अकृतमनुत्पादितत्वात् । अविकृतमवस्थान्तरानुत्पादनात् । अनभिसंस्कृतं हेतुप्रत्ययैः सम्भूय तस्याकरणात् । स्थितमुत्पद्य वृत्तेः । संस्थितं समन्ततः स्थितेः । व्यवस्थितं क्वचिदेव स्थितेः । एषां विपर्यासादास्थितमसंस्थितमव्यवस्थितम् । आकाशकल्पत्वादविकल्पा निराभोगाः । धर्मतामात्रत्वाद्धर्माणामिति भावः ।

यथा वाकाशगतिका एवं शून्यतादिगतिकाः । तदेवमगतिगतिकाः सर्वधर्मा इति........गतिकारित्रम् ॥

उक्तं दशविधं कारित्रम् ।

..........शास्त्रम्-

[८८] क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः ।
विवेको दुष्करकान्तावुद्देशोऽनुपलम्भकः ॥ ४-२९ ॥
[८९] निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः ।
विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः ॥ ४-३० ॥
[९०] तथतानुपलम्भश्च स्वभावः षोडशात्मकः ।
लक्ष्मीव लक्ष(क्ष्य)ते चेति चतुर्थं लक्षणं मतम् ॥ ४-३१ ॥

(र्स्त्_१०१)
यः स्वभावश्चतुर्थं लक्षणमिष्टं स षोडशविधः । सर्वकर्मसाधनं लक्षणम् । लक्ष्यत इति कृत्वा । अत एवाहऽलक्ष्यते चेतिऽ । लक्षणान्तरमप्याहऽलक्ष्मीवऽ इति । लक्ष्मयोगाल्लक्ष्मी लक्षणयोगाल्लक्षणमित्यर्थः । कथंऽषोडशात्मकःऽ? इत्यत आहऽक्लेशलिङ्गेऽत्यादि । अतोऽस्य प्रस्तावना सुभूतिराहेत्यादिना भगवानाहेत्यतः प्राक् । चरिताः षट्पारमिता रक्षन्तीति चरिताविनः । कतमे त इत्याह । य इमामित्यादि । किंस्वभावा इत्यनेन पदेन स्वभावप्रश्नः । उत्तरं भगवानाहेत्यादिना । विनयोऽपनयः । तमर्हन्तीति वैनयिकाः । तैर्विविक्तः स्वभाव एषामिति तथोक्ताः । इयता चत्वारः स्वभावा उक्ताः । क्लेशविवेकः । क्लेशलिङ्गविवेकः । क्लेशनिमित्तविवेकः । विपक्षप्रतिपक्षविवेकश्च । तत्र क्लेशो रागादिः । क्लेशलिङ्गं क्लेशकृतं कायादिदौष्ठुल्यम् । क्लेशनिमित्तमयोनिशो मनसिकारादि । विवक्षप्रतिपक्षौ रागारागौ द्वेषाद्वेषो मोहामोहौ च । सुभूतिराहेत्यादिना सुभूतिराहेत्यतः प्राक् । एतदाह । एष एव स्वभावो गतिः यामभिसम्बुध्य देशयिष्यन्तः सत्त्वानां गतिर्भविष्यन्तीति ॥

सुभूतिराहेत्यादि बुद्धभूमिर्वेति यावत् । अत्र न रूपादिसम्बद्ध इति न रूपादिस्वभावायै(य) स्वबोधये । न रूपादेरर्थायेति न रूपादिस्वभावानां सत्त्वानामर्थाय । एवं न भूमित्रय स्वभावानां (?) । स्वबोधये । नापि । नापि बोधित्रयस्वभावानां सत्त्वानामर्थाय । तदित्यादिना प्रश्नः । उत्तरं सर्वेत्यादि । न प्रतिकांक्षितव्यानीति न लभ्यत्वेन द्रष्टव्यानि । अत्र त्रीणि न द्रष्टव्यानीत्येकमेव स्थानं द्रष्टव्यमिति भावः । इति दुष्करस्वभावः ॥

दुष्करसहित एकान्तोऽदुष्करैकान्तःऽ । एवमुक्त इत्यादि येनायमित्यतः प्राक् । अभिमतोऽर्थोऽर्थवशः । तं च स्वयमेव भगवानाह । अस्थानं हीत्यादिना बुद्धभूमिर्वेत्येकान्तः । इत्यैकान्तिकस्वभावः ॥

येनायं सर्वसत्त्वानां कृतशः सन्नाहः सन्नद्ध इत्युद्देशस्वभावः ॥

सुभूतिराहेत्यादि कच्चिदित्यतः प्राक् । गम्भीरेति प्रतिज्ञा । चत्वारो हेतवः परे भावनानुपलब्धेः । अध्वत्रयेपि भावकानुपलब्धेः । भाव्यस्य प्रज्ञापारमितावस्तुनोऽनुपलब्धेः । तदालम्बनानां चानुपलब्धेरिति । असिद्धत्वपरिहाराय तत्कस्येत्यादिना प्रश्नः । न हीत्यादिनोत्तरम् । परिनिष्पन्नो वस्तुभूतः । अतश्चाकाशभावनैषा सर्वधर्मभावना च धर्मतामात्रदर्शनाद्धर्माणां चानुपलब्धेः । अत एवासङ्गभावनैषानन्तभावना च सर्वधर्मेष्वनुपलब्धेरव्याघाताद्धर्माणां (र्स्त्_१०२) चानन्त्यात् । असतो भावनासद्भावना ग्राह्यानुपलम्भात् । अपरिग्रहभावना ग्राहकानुपलम्भात् । उपपरीक्षितव्यो वेदितव्यः । इत्यनुपलम्भकस्वभावः ॥

कच्चिदित्यादिना सुभूतिराहेत्यतः प्राक् । अनभिनिवेशस्वभावः ॥

सुभूतिराह । यो भगवन्नित्यादि अथ खलु शक्र इत्यतः प्राक् । व्यवचारितेत्यालम्बिता । निम्नप्राग्भावप्रवणशब्दा आधारार्थाः । तैः सह बहुव्रीहिः । सन्ततिश्चित्तसन्तानः । आकाशनिम्नयेति आकाशोपमत्वात्सर्वज्ञतायाः । इयं सा व्यवचारणेति प्रज्ञापारमिताया इति शेषः । तदित्याकाशोपमत्वं तस्याः कुतः? उत्तरम् । अप्रमेया हीत्यादिना । देशतः कालतश्च प्रमातुमशक्त्यत्वादप्रमेया । तथैव प्रमाणविरहादप्रमाणा । न तद्रूपं यावन्नापि क्वचित्प्रदेशे स्थितमिति । सर्वेषामेषां देशकालव्यापित्वेन प्रमाणाविषयत्वादप्रमेयस्य ताद्रूप्यायोगात् । अपि त्वित्यादि । तदिति वर्तते । केनचिदिति । केनचिद्रूपादिना स्वभावेन । रूपादीनां प्रमाणावत्त्वादिति भावः । तत्कस्येति प्रश्नः । उत्तरं रूपमेव हीत्यादि । रूपादिशब्दैरत्र रूपादिधर्मतोच्यते । तस्मादविरोधः । न च रूपादिभेदेपि धर्मताया भेदो रूपादीनामलीकत्वेनाभेदकत्वात्तदानीमस्तङ्गमाच्चेत्यालम्बनस्वभावः ॥
अथ खलु शक्र इत्याद्यापरिवर्तसमाप्तेः । गम्भीरा दुरधिमोचत्वात् । दुरवगाहा चिन्तामय्या प्रज्ञया दुर्दृशा लौकिकभावनामय्या । दुरनुबोधा लोकोत्तराया । चिकीर्षितस्याकरणमल्पोत्सुकता । अवनतमावर्जितम् । यत्र न कश्चिदित्यादिना त्रैयध्विकक्रियानिषेधः । आकाशेत्यादिना कर्मनिषेधः । आत्मेत्यादिना कर्तृनिषेधः । सर्वधर्माणां लभ्यानामनागमनतया हेयानामगमनतया च गम्भीरः । विप्रत्यनीको विपरीतः । यतोऽनुग्रहायाविकल्पनायैष धर्म उद्ग्रहे च लोकश्चरति । लोकविपरीता प्रतीतिर्विप्रत्ययः । इति विप्रत्ययस्वभावः ॥

देवैः शक्रादिभिरुपलक्षितः परिवर्तो देवपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चदशः परिवर्तः ॥


१६. तथतापरिवर्तो नाम षोडशः ।

अथ खल्वित्यादि । नायं क्वचित्प्रतिहन्यत इति सर्वत्रास्य बाधकाभावात् । अतश्च अप्रतिहतलक्षणोऽप्रतिहतस्वभावः । (र्स्त्_१०३) आकाशसमतयेति । यत आकाशसमं ततस्तद्वदेवाप्रतिघम् । कुतः समतेत्यत आह । सर्वपदानां सर्ववस्तूनामनुपलब्धितः । अप्रतिमो निरुपमः अद्वितीयत्वादिति सदृशाभावात् । प्रतिबोधकं लक्षणमस्येति प्रतिलक्षणः । तदभावादप्रतिलक्षणः । निष्प्रत्यर्थिकत्वादिति विरोधरहितत्वात् । इत्यप्रतिहतस्वभावः ।

पदं प्रतिष्ठा सुगतिदुर्गतिनिर्वाणानि । तदभावादपदः । अनभिनिर्वृत्तत्वादिति । न खल्वनभिनिर्वृत्तस्य क्वचित्प्रतिष्ठा । कुतोऽनभिनिर्वृत्तः? यतोऽनुत्पाद उत्पादरहितः । कुतोऽनुत्पादः? सर्वोत्पत्तीनामनुत्पत्तित्वात् । न हि सतामुत्पत्तिरुत्पत्तिलक्षणायोगात् । नाप्यसताम् । असत्त्वादेव खरविषाणवत् । दुर्गतिपथः सुगतिपथो निर्वाणपथश्चेति पन्थानः । तदभावादपथः । अत एवाह । सर्वपथानुपलब्धित्वात् । इत्यपदस्वभावः ॥

अथ खल्वित्यादि । अनुजात इति । अनुपूर्वो जनिः सकर्मकः । कर्मास्य जनकः । कर्ता जन्यः । अनुः सादृश्ये । तस्मादिह कर्तरि क्तः । कर्मणि षष्ठि । सम्बन्धविवक्षया भगवतोऽनुजातः सुभूतिः । तत्कस्येत्यादि तत्तस्यानुजातत्वं? उत्तरं तथा हीत्यादिना । भगवत एष पुत्रः सदृशश्च शून्यतावादित्वादिति भावः । अथ खल्वित्यादि । अजातत्वादित्यनुजातत्वे हेतुमाह । अजातत्वेन पितापुत्रयोः सादृश्यादिति भावः । यद्यजातः तौ कथं पितापुत्रौ? संवृत्येति भावः । अनुपा(जा)त इत्यादिना हेत्वन्तरमाह । अनुपा(जा)तोऽनुगतस्तथागतस्य तथताम् । ततोप्यनुजातस्तथागतस्य । अनुगम्य जातोऽनुजात इति भावः । असिद्धो हेतुरिति चेदाह । यथेत्यादि । अनागतेत्यनुत्पन्ना । अगतेत्यविनष्टा । किं पुनः प्राप्तेऽर्हत्त्वेऽनुपा(जा)तः किं वा पूर्वमेवेत्यत आह । आदित इत्यादि । अतथतेति । तथताशब्दानाभिधेयत्वात् । एवं हीत्यादिनोपसंहारः । गत्यगती(?) गतिः । तत्प्रतिषेधादगतिस्वभावः ॥

अनुजातत्वे हेत्वन्तरमाह तथागतस्येत्यादिना । तथता हि धर्माणां स्थितिः । अनतिक्रमणीयत्वात्तथावस्थिता । हेत्वन्तरमाह । यथेत्यादिना । पूर्वस्वभावानुवृत्तेः अविकारा । स्वभावान्तरानुत्पत्तेः निर्विकारा । विकल्पस्वभावाभावादविकल्पा । विकल्पाविषयत्वात्निर्विकल्पा । हेत्वन्तरमाह । यथाचेत्यादिना । न क्वचित्प्रतिहन्यत इति सर्वगतत्वात् । तत्कस्य हेतोरिति । तदप्रतिहतत्वं कुतः? तथा हि यस्य या तथता तत्रैव सास्ति ततोऽन्यत्र प्रतिहन्यत एव । वस्त्वभावात् । उत्तरं या चेत्यादिना एवं हीत्यतः प्राक् । एकैवैषेति प्रतिज्ञा । तत्किमेकजातीयत्वादेका? नेत्याह । अद्वयेति । द्वयं भेदस्तदभावादद्वयेत्येको (र्स्त्_१०४) शब्दस्यार्थः । एकमपि सम्बन्धिभेदाभ्दिद्यते । तद्यथा पूर्वाकाशमपराकाशमिति । तद्वद्रूपतथता वेदनातथता संज्ञातथतेत्येष भेदो भवतीति चेदाह । अद्वैधीकारेति । अतश्च अद्वयतथता । नित्यं तथैवेति तथता । अद्वया च स्वयमभेदात्तथता च परतोप्यभेदादित्यद्वयतथता । हेतुमाह । न क्वचिदित्यादिना । तत्खलु तस्य भवति यद्यदाधारं तद्धेतुकं वा । तद्यथा कूपोदकं यवाङ्कुर इति । तथता तु न क्वचित्नापि कुतश्चित् । तस्मात्केषुचिदप्रतिबद्धत्वान्न सा कस्यचित् । यतः सा न कस्यचित्ततः साद्वयाद्वैधीकाराद्वयतथता । ततो न क्वचित्प्रतिहन्यते । तस्मादनुजातः सुभूतिस्तथागतस्येति सिद्धम् ।

हेत्वन्तरमाह । एवं हीत्यादिना । एवं हीति एवमपि । तदेवाह । अकृततथतयेति । अकृता चासौ नित्यत्वात्तथता च । न सा कदाचिन्न तथतेति नित्यं तथैव भावात् । ततः साद्वयेति कालभेदेनास्याभेदात् । तथागतमिति कर्मणि द्वितीया ।

हेत्वन्तरमाह यथेत्यादिना । सर्वत्रेति सर्वलोकधातुषु । सर्वधर्मष्विति सर्ववस्तुषु । अविकल्पा तेषामविकल्पनात् । निर्विकल्पा तथैव सर्वविकल्पानां प्रहाणाम् । एवमेव चेति सर्वत्राविकल्पनिर्विकल्पतया । अलुप्तमित्यच्छिन्नम् । एवं हीत्यादिनोपसंहारः ॥

हेत्वन्तरमाह यथेत्यादिना नान्यत्रेति नान्या भेदकत्वानुपलब्धेः । द्वितीयाभावादनन्या चासौ तथता चेति अनन्यतथता । तस्या अनुगमः । तेनोपगतस्तथतां संवृत्या । परमार्थमाह । न चेत्यादिना । अत्रेत्यस्मिन्नुपगमे । न कश्चित्सुभूतिरन्यो वा । न क्वचिदिति तथागतेऽन्यस्मिन् वानुगतिमुपगतः । धर्मपुभ्दलनैरात्म्यदर्शनादिति भावः । एवं हीत्यादिनोपसंहारः ।

हेत्वन्तरमाह यथेत्यादिना । एवं हीत्यादिनोपसंहारः । इत्यजातस्वभावः ॥

तथागततथतयापीत्यादि इयं सेत्यतः प्राक् । अत्र सर्वतथाप्रभेदानामभेदं दर्शयन् भेदं प्रतिषेधतीति सर्वासां रूपादितथतानामनुपलम्भात्तथतानुपललम्भः षोडशः स्वभावः ॥

अस्यास्तथताया माहात्म्यमाह । इयं सेत्यादिना । गमिर्ज्ञानार्थः तथतागतानेन तस्मात्तथागत इति भावः ।

अस्यां देश्यमानायां यदभ्दुतमभूत्तदाह । अस्यामित्यादिना । षडविकारमष्टादशमहानिमित्तं यथा भवति तथा अकम्पत यावत्संप्रागर्जत् । अत्र त्रयो धातवश्चलनार्थाः । त्रयः शब्दार्थाः । मृदुमध्याधिमात्रक्रियाभेदादष्टादशमहानिमित्तानि (र्स्त्_१०५) भवन्ति । तत्र चलनमङ्गतः । कम्पनं साकल्येन । साकल्येनात्यन्तं कम्पनं क्षोभः । वेधः शब्दः । रणितं दण्डाहतकांसीवत् । गर्जनं नवमहामेघवत् । षड्विकारास्तद्यथा- "पृथिव्याः पूर्वा दिगुन्नमति पश्चिमावनमति । पश्चिमा दिगुन्नमति पूर्वावनमति । उत्तरावनमति उत्तरा दिगुन्नमति । दक्षिणावनमति । मध्ये उन्नमति । अन्तेऽवनमति । अन्ते उन्नमति मध्येऽवनमति" इति । किंवदित्याह । तथागतस्य चेत्यादि । एवं हीति । तथागताभिसम्बोधाविवसुभूतेस्तथतानिर्देशे महानिमित्तप्रादुर्भावसमतया ।

प्रकारान्तरमप्याह । पुनरपरमित्यादिना जायेरन्नित्येतत्पर्यन्तेन । न संविद्यन्त इति प्रतिज्ञा । नोपलभ्यन्त इति हेतुः । यैरिति स्वधर्मैः । अनुजायेतेति कर्तरि लिङ् । ये चेति ताथागता धर्माः । अनुजायेरन्निति कर्मणि लिङ् । एवं हीत्युपसंहारः । तथता कथं चर्या? तन्मात्रेऽवस्थानात् । अस्मिन् खलु पुनरित्यादि सुगमम् ।

किञ्चापीति यद्यपि त्रयस्त्रिंशत इत्यपादाने तसिः । जात्या पक्षिणः महाकायत्वाच्छकुनेः । अन्तरा चित्तस्येति द्यावापृथिव्योर्मध्यसंज्ञिनः । एवं भवतीति एष वितर्को भवति । शेषं सुबोधं विरहितो भवतीति यावत्! इह ज्ञानविशेषकारित्रस्वभावलक्षणे उक्ते ।

बोधिसत्त्वानां मोक्षभागीयं वक्तव्यम् । तच्च तद्विरहिणां बोधिसत्त्वानामर्हत्त्वप्राप्तिकारणनिर्देशेन सूचितं व्यक्तिकर्तुं शारिपुत्र आह । यथाहं भगवन्नित्यादि । प्रज्ञापारमिता भावयितव्येति सर्वधर्मपरमार्थज्ञानाय । चर्यमाणस्य च दानपारमितादेरनिमित्तीकरणार्थम् । उपायकुशलेनेत्युपाये कुशलेन । तत्रोपायः सर्वाकारज्ञताचित्तस्य नित्यमत्यागः । सर्वपुण्यानां च बोधौ सम्यक्परिणामना । सम्यक्परिणामनानुमोदने च तत्परिवर्तोक्ते अतः शास्त्रोक्तलक्षणमुक्तं भवति ।

[९१] अनिमित्तप्रदानादिसमुदागमकौशलम् ।
सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥ ४-३२ ॥

तेस्य पञ्चप्रभेदा महत्योर्भगवत्योः । तथा च शास्त्रम्-

[९२] बुद्धाद्यालम्बना श्रद्धा वीर्य दानादिगोचरम् ।
स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ ४-३३ ॥
[९३] धर्मेषु सर्वैराकारैः ज्ञानं प्रज्ञेति पञ्चधा ।

(र्स्त्_१०६)
एतदेव भगवानाह । एवमुक्त इत्यादिना । अथ शास्त्रम्-

तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ ४-३४ ॥

एतदेव अथ खल्वित्यादिना प्रस्तुवन्ति । कृच्छ्रेण सम्भवोऽस्या इति दुरभिसम्भवा । एतद्देवैरविशेषेणोक्तम् । अथ खल्वित्यादिना भगवान् पुद्गलविशेषेणाह । दुष्प्रज्ञैरित्यादि । दुष्प्र ज्ञादिपदैः सूचितो विशेषो मृदूनि मोक्षभागीयानि । तीक्ष्णैस्तु मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिः । अतस्तानि दर्शयितुकामः सुभूतिराह । यभ्दगवानित्यादि । एवमुक्त इत्यादिना भगवत उत्तरम् । सर्वधर्माणामसत्तया बोधेः स्वभिसम्भवत्वमुक्तं सुभूतिना तदयुक्तम् । यतो यद्येतावत स्वभिसम्भवा स्यात्तदा सर्वसत्त्वानामादित एव तथा स्यात् । तस्मात्प्रतिपत्तितः प्राप्तिः । सा च न तेषामस्ति येषां मृदूनि मोक्षभागीयानि । अतोऽसम्भवत्वादप्राप्तेर्दुरभिसम्भवेति ब्रूमः । नन्वभिज्ञास्ते श्रुतचिन्तादिबलेन सम्यक्सम्बोधौ तत्तेषां कुतोऽप्राप्तिरित्यत आह । असद्भूतत्वाददुरभिसम्भवेति । ते हि बालग्राह्यमेवार्थ बोधिं मन्यन्ते । स चासद्भूतत्वादलीकत्वान्न प्राप्यत इति भावः । तथा हि । विकल्पं वा बोधि मन्येरन् । विकल्पनिर्मितं वार्थम् । पक्षद्वयमप्ययुक्तम् । अविकल्पत्वाद्विकल्पाविठपितत्वाच्च बोधेः । एतद्दर्शयितुमाह । अविकल्पत्वादित्यादि ।

अथ खल्वित्यादिना स्थविरशारिपुत्रस्योत्तरम् । स हि मन्यते शून्यत्वात्स्वभिसम्भवेत्ययं विरुद्धो हेतुरिति । एवं चेति । आकाशसमतया च । आकाशसमा हीति हेतुः । यत्तत्वं येषां तेनैव तेषामभिसम्बोधादिति भावः । एवं विरुद्धत्वमुक्त्वा अनुमाने बाधां विवक्षुः प्रसङ्गं करोति यदि चेत्यादिना । न त्वेवेति नैव । यस्मादित्यादिना विपर्ययमाह । अथवा परस्य हेतौ दूषिते स्वपक्षसाधनमेवेदम् । एवमुक्त इत्यादिना विस्तरेण सुभूतिः प्रसङ्गं विघटयति । विवर्तितुः सम्बोद्धुः सम्बोद्धव्यस्य च विकल्पने । कतमः स धर्मो यो विवर्तत इत्युक्त्वा अविवर्तनमेव साधयितुमाह यस्तस्यामेवेत्यादि । सर्वधर्मास्थानयोगेनेति । सर्वधर्मष्वस्थानमेव योगो न्यायः । तेन धर्मतायां स्थितः । धर्मतैव शुद्धा बोधिः । सा च प्रकृत्यैव शुद्धेति भावः । एवमुक्त इत्यादि शारिपुत्रस्य वचनम् । धर्मनयजातिः धर्माणां तत्त्वप्रकारः । ये चेत्यादिना विशेषमाह । च शब्दस्तुशब्दस्यार्थे । अथ खल्वित्यादिना पूर्णः सुभूतिं स्मारयति । शेषं सुबोधमासिद्धान्तस्थापनाग्रंथातनुत्तरया बोध्यानिर्यास्यत्ययं बोधिसत्त्वो महासत्त्व इत्यस्मात् । अत इयता विस्तरेण (र्स्त्_१०७) समन्वितम् । तीक्ष्णैर्मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिरिति । उक्तानि मोक्षभागीयानि ॥

मोक्षस्य भागो भजनं प्राप्तिः तस्मै हितानि मोक्षभागीयानि तदप्युक्तानि । निर्वेधभागीयानि वक्तव्यानि । निर्वेधः प्रतिवेधो दर्शनमार्गः । तस्य भागः प्राप्तिः । तस्मै हितानि निर्वेधभागीयानि । तानि चत्वारि । ऊष्ममूर्धाक्षान्तिरग्रधर्माश्चेति । तत्राद्यमधिकृत्य शास्त्रम्-

[९४] आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते ।
आकारः समचित्तादिस्तेष्वेव दशधोदितः ॥ ४-३५ ॥

अत आह । अथ खल्वित्यादि यावदहं नाथ इति । स्थातव्यमिति स्पृहणतः । शिक्षितव्यमभ्यासतः । समं स्थातव्यमित्यादिना दशचित्तान्युक्तनि । समचित्तं मैत्रचित्तं निःशाठ्यचित्तं निहतमानचित्तं मातापित्रादिचित्तं पुत्रदुहितादिचित्तं चेति । नाथः सानाथ्यं कर्तुम् । ऊष्मगतम् ॥

[९५] स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च ।
तयोनियोजनान्येषां वर्णवादानुकूलते ॥ ४-३६ ॥
[९६] मूर्धगं

एतदाह स्वयं चेत्यादिना । पापानि दशकुशलानि । पापेभ्यो निवृत्तौ विरतौ । परिजयोऽभ्यासः । अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानमित्यादिरनुलोमः प्रतीत्यसमुत्पादः । अविद्यानिरोधात्संस्कारनिरोध इत्यादिः प्रतिलोमः । अन्येषामिति परेषां समादापकः सम्यग्ग्राहकः । वर्णवादी गुणवादी समनुज्ञोऽनुकूल इति मूर्धगतम् ॥

स्वपराधरं सत्यज्ञानं क्षमा मता ।
तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ४-३७ ॥

स्वयं स सत्यानां ज्ञानं परेषां च तस्मिन् समादापनंऽवर्णवादानुकूलताऽ इति च क्षान्तिगतम् । स्वयं च सत्त्वानां परिपाचनबुद्धक्षेत्रपरिशोधनादि परेषां च तत्समादापनं वर्णवादानुकूल[ते]ति चाग्रधर्मगतम् । एतदुभयमाह । एवं सत्येष्वित्यादिना । सत्येष्विति दुःखादिसत्यविषयेषु यथाक्रमं परिज्ञानप्रहाणसाक्षात्क्रियाभावनासु स्त्रोतआपत्त्यादिपञ्चफलज्ञानसाक्षात्क्रियायां यावद्बोधिसत्त्वन्यामावक्रान्तौ । तथा सत्त्वपरिमाचनादौ च स्थित्वा (र्स्त्_१०८) अन्येषामपि तत्र समादापने तद्वर्णवादिना तत्समनुज्ञेन भवितव्यमिति क्षान्तिगताग्रधर्मगते ॥

तस्यैवमित्यादिना निर्वेधभागीयानां फलमाह । अनावरणं रूपं वेदना संज्ञा यावत्सद्धर्मस्थितिरनावरणा भविष्यतीति ॥

तथताप्रधानः परिवर्तस्तथतापरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतरा(मा)नाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षोडशः परिवर्तः ॥


१७. अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः ।

ऽमोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ।ऽ इति पूर्वमुद्दिष्टम् । तत्र द्वे उक्ते । तृतीयो वक्तव्यः । अतः शास्त्रम्-

[९७] निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः ।
ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ ४-३८ ॥

ऽअत्रऽ इति महायाने ।ऽअवैवर्तिकगणःऽ । तल्लक्षणम् । विवर्ताय प्रभवति वैवर्तिकः । न तथेत्यवैवर्क्तिकोऽविनिवर्तनीयः । अथास्य निर्वेधभागीयेषु स्थितस्य कति लिङ्गानीत्यत आह ।

[९८] रूपादिभ्यो निवृत्याद्यलिङ्गर्विशतिधेरितैः ।
निर्वेधाङ्गस्थितस्येदमवैवर्तिकललक्षणम् ॥ ४-३९ ॥

अवैवर्तिकत्वपरिज्ञानमित्यर्थः । अथ कतमे रूपादिनिवृत्त्यादयः?

[९९] रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ ।
आत्मानः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४-४० ॥
[१००] पराधारं च दानादि गम्भीरेऽर्थेप्यकाङ्क्षणम् ।
मैत्रं कायाद्यसंवासः पञ्चधावरणेन च ॥ ४-४१ ॥
[१०१] सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि ।
चीवरादिशरीरे च कृमीणामसमुद्भवः ॥ ४-४२ ॥
(र्स्त्_१०९)
[१०२] चित्ताकौटिल्यमादानं धुतस्यामत्सरादिता ।
धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ ४-४३ ॥
[१०३] परैरनेयता मारस्यान्यमार्गोपदेशिनः ।
मार इत्यवबोधश्च चर्या बुद्धानुमोदिता ॥ ४-४४ ॥
[१०४] ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते ॥ ४-४५ ॥

अत आह । अथ खल्वित्यादि । आक्रियन्ते व्यज्यन्त एभिरिति आकाराः । लिङ्ग्यन्ते गम्यन्त एभिरिति लिङ्गानि । निमीयन्ते निरूप्यन्त एभिरिति निमित्तानि । एकार्थत्वेपि त्रयाणामुपादान(नं) सत्त्वान्तरशङ्काया व्यवच्छेदार्थम् । पर्यायस्कन्धं (वचनं) अथवा अपरः पर्यायः । कथमित्यादि । अत एव वाशब्दः । कथं वे ति केन प्रकारेण जानीयाम इति सम्बन्धः ।

अतिबहूनि लिङ्गानि तत्राद्यं तावदाह या चेत्यादिना । चतुर्धा भूमिः । पृथग्जनश्रावकप्रत्येकबुद्धबुद्धसम्बन्धात् । इयं चतुर्विधापि तथताभूमिरित्युच्यते । कुत इत्याह । सर्वाश्च इत्यादि । चशब्दो हेतौ । यस्मात्सर्वा एतास्तथतयाद्वयाः । रूपादीनां सर्वधर्माणां यथालक्षणमसत्त्वात्तथतैवैताः । तथता चैकैव न द्वे न बहव्यः । तस्मात्तथतयाद्वया अभिन्नाः अद्वैधीकारादच्छिन्नाः विकल्पस्वभावविरहातविकल्पाः । विकल्पागोचरत्वात्निर्विक्रल्पाः । इतीति । एवं लक्षणा या तथता तां तथतां धर्मतामवतरति । कथमवतरतीत्याह तथतायामित्यादि । स्थितस्तन्मात्रदर्शनात् । न कल्पयति सम्यक्न विकल्पयति वितथम् । एवमवतरतीत्येवं सत्यवतरति । ..........त्याह । एवमवतीर्ण इत्यादि । उक्तेन क्रमेणावतीर्णः सन् । यथेति यया मात्रया श्रुत्वापीति श्रवणानन्तरमपि । ततोपि वातिक्रम्येति तत उत्तरकालमपि । न काङ्क्षतीति न बाधते । नैवमितीति सम्बन्धः । विविधा मतिः विमतिः । तन्न करोति एवं वा न वेति । अत एवाह न विचिकित्सतोति । न धन्धायतीत्यप्रतिपत्तेः प्रतिषेधः । किं तर्हि करोतीत्याह । अपि त्वित्यादि । तथतैव सर्वं न सन्ति रूपादय इत्यधिमुञ्चति श्रद्धया । अवगाहते प्रज्ञया । एतदेव ज्ञानं मुख्यं लिङ्गम् । अस्य परिच्छेदमाह । न चेत्यादिना । (र्स्त्_११०) परिच्छेदापेक्षया बहुवचनमेभिर्लिङ्गैरिति । तथतैव सर्वमिति ज्ञानात्ऽरूपादिभ्यो निवृत्तिःऽ निर्वेधाङ्गेष्ववैवर्तिकलिङ्गं प्रथमम् ॥

पुनरपरमित्यादि । अन्येषामिति । इतो धर्माद्वाह्यानाम् । श्रमणानामिति प्रव्रजितानाम् । मुखमुल्लोकयति प्रणतः पश्यति । किमितीत्याह । इमे इत्यादि । जानन्ति लौकिकेन ज्ञानेन । पश्यन्ति लोकोत्तरेण । दातव्यमिति भक्तितो देयम् । व्यपाश्रयत इति सेवते शरणं वा गच्छति । सत्येषु रत्नेषु च विमतिर्विचिकित्सा । तस्याः क्षये सति सर्वमेतन्न करोतीतिऽविकित्साक्षयोऽ द्वितीयं तेषु तल्लिङ्गम् ॥

स खल्वित्यादि । अपाया नरकप्रेततिर्यञ्चः । स्वीभावः स्त्रीत्वम् । स चावशिष्टानामक्षणानामुपलक्षणमितिऽअक्षणक्षयःऽ तृतीयं तेषु तल्लिङ्गम् ॥

पुनरपरमित्यादि । दशसु कुशलेषु स्वयं स्थित्वाऽपरेषांऽ तेषुऽसमादापनंऽ दृढीकरणं चेति चतुर्थं तेषु तल्लिङ्गम् ॥

पुनरपरमित्यादि । यं यं धर्ममिति सूत्रगेयादिकम् । ददाति च परस्मै हिताय सुखाय चष भवत्विति तेषामेव हितसुखाय । इति अनेनाकारेण साधारणं करोति । यथा च धर्मदानं तथान्यदपि दानशीलादिकमितिऽपराधारं दानादिऽ पञ्चमं तेषु तल्लिङ्गम् ॥

पुनरपरमित्यादिना न धन्धायतीत्येतदन्तेनऽगम्भीरेऽर्थेप्यकाङ्क्षणंऽ षष्ठं तेष्वेव तल्लिङ्गम् ॥

ऽमैत्रं कायादिऽ इति कायादि कर्म । तदाह हितवचनश्चेत्यादिना । उपलक्षणत्वादितिऽमैत्रं कायादिऽ सप्तमं तेषु तल्लिङ्गम् ॥

ऽअसंवासः पञ्चधावरणेन वाऽ इति । पञ्च निवरणानि । कामच्छन्दो व्यापादस्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति । एभिरसंवासोऽसमन्वागमः । तमाह । अल्पस्त्यानमिद्धश्च भवतीत्युपलक्षणत्वात् । इति पञ्चभिर्निवरणैसंवासोऽष्टमं तेषु तल्लिङ्गम् ॥

सर्व यथा भवति तथानुशयस्य द्वेषानुबन्धस्य हानंऽसर्वानुशयहाअनम्ऽ । तदाह निरनुशयश्च भवतीति । नवमं तेषु तल्लिङ्गम् ॥

ऽस्मृतिसंप्रज्ञताऽ इतिस्मृतिसहितं संप्रजन्यम् । तदाह सोभिक्रामन्वेत्यादिना । अभिक्रमो गमनम् । अप्रतिक्रम आगमनम् । भ्रान्तं विक्षिप्तम् । न विलम्बितमिति विलम्बे विक्षेपात् । सहसेति असमीक्ष्य भूमिम् । उपलक्षणं चैतच्चंक्रमस्थाननिषद्याशयनेषु विक्षेपस्येति स्मृतिसंप्रजन्यं दशमं तेषु तल्लिङ्गम् ॥

(र्स्त्_१११)
तस्य खल्वित्यादि यानीत्यतः प्राक् । यूकायोगाद्यूकिलः । पिच्छादित्वादिलच् । चौक्षः शुचिः । आबाधः पीडा । आदीनव उपद्रव इतिऽशुचिचीवरादिताऽ एकादशं तेषु तल्लिङ्गम् ॥

यानीत्यादि सुभूतिराहेत्यतः प्राक् । सम्भवन्ति जायन्ते कायस्य भक्षणाय । अभ्युद्गतानीति प्रतिविशिष्टानि । इतिऽशरीरे क्रि(कृ)मीणामसमुभ्दवोऽ द्वादशं तेषु तल्लिङ्गम् ॥

सुभूतिराहेत्यादि पुनरपरात्प्राक् । चित्ताल्पकृत्यता अल्पत्वादविक्षेपाच्च । चित्तस्य कौटिल्यं कुटिलता । यत्तु स्वदोषप्रच्छादनोपायस्तच्छाठ्यं यत्परवञ्चनाय स वङ्कः । परवञ्चनार्थमभूतस्वगुणसंदर्शनं माया । एभिर्विरहाद्यथाक्रमं चित्ताकौटिल्यं चित्ताशाठ्यता चित्तावङ्कता चित्तामायाविता च । शेषं सुबोधम् । इतिऽचित्तकौटिल्यंऽ त्रयोदशं तेषु तल्लिङ्गम् ॥

पुनरपरमित्यादि । अत्र लाभादिगुरूकताप्रतिषेधेन धुतग्रहोत्प्युपलभ्यते । इतिऽधुतगुणसमादनंऽ चतुर्दशं तेषु तल्लिङ्गम् ॥

नेर्ष्यामात्मसर्यबहुलो भवतीति मात्सर्यग्रहणेन षट्पारमिताविपक्षा उपलक्ष्यन्ते । इतिऽअमत्सरादिताऽ पञ्चदशं तेषु तल्लिङ्गम् ॥

न च गम्भीरेष्वित्यादि पुनरपरात्प्राक् । संस्यन्दनं संयोजनम् । धर्मतया युक्तं सर्वमवगच्छतीतिऽधर्मतायुक्तगामित्वंऽ षोडशं तेषु तल्लिङ्गम् ॥

पुनरपरमित्यादि धारयितव्यान्तरम् । प्रतिदेशयेत्येअयमत्ययतो देशय । प्रतिनिःसजेति प्रतिनियमेनात्यन्तिकत्वेन परित्यज । एवमिति बोधिचित्तत्यागे सति । एवमपीति । ईदृशेपि मायेणोक्तै । शेषं सुबोधम् । इति लोकानामर्थोऽस्मादितिऽलोकार्थं नरकैषणाऽ नरकस्वीकारः । सप्तदशं तेषु तल्लिङ्गम् ॥

पुनरपरादि धारयितव्यान्तम् । यच्छ्रुतं प्रज्ञापारमितादि तत्प्रतिदेशय प्रत्याचक्ष्व । यद्गृहीतं बधिचित्तपारमिताचर्यादि तत्परित्यज । अभूतविचित्रवादी कविः । तस्य कर्म काव्यम् । अविनिवर्तनीयस्य धातुः प्रकृतिः । अप्रत्युदावर्तनीयधर्मेति परेण सम्बध्यते । शेषं सुबोधम् । इतिऽपरैरनेयताऽऽष्टादशं तेषु तल्लिङ्गम् ॥

पुनरपरादि धारयितव्यान्तम् । संसारे चारिकेत्यादिना बोधिसत्त्वमार्गं दूषयति । इहैव त्वमित्यादिना श्रावकादिमार्गं ग्राहयति । अभिनिर्वृत्त इति क्षीणायुः । वाशब्दो विकल्पे । इहैवेत्यादिकं वा वक्ष्यति । (र्स्त्_११२) अहो वतेत्यादिकं वा । चित्तं न कुप्यति न चलतीति मारभाषितस्य हीनमार्गस्य मारभाषितत्वेन ज्ञानात् । अत इदं मारस्यान्यमार्गोपदेशिनोऽमार इत्यवबोधःऽ ऊनविंशतितमं तेषु तल्लिङ्गम् ॥

सा चेदित्यादि धारयितव्यान्तम् । विवेको महायानत्यागः । तदर्थानि वचनानि विवेकपदानि । तानि परतो मारादितः श्रुत्वा चित्तं न परिहीयते इति सम्बन्धः । न चलतीत्यर्थः । कुत इत्याह । धर्मताया इति धर्म एव धर्मता महायानचर्या ततः । न प्रत्युदावर्तत इति न विमुखीभवति । नान्यथाभाव इति न विपर्ययः । न हीनयाने बहुमान इत्यर्थः । तानीति विवेकपदानि । चशब्दो हेतौ । यस्मान्मारकर्माणि जानाति । अस्थानमिति परेण सम्बध्यते । तथेति यथा बुद्धानुवर्णितम् । शेषं सुबोधम् । इतिऽचर्याबुद्धानुमोदिताऽ विंशतितम तेषु तल्लिङ्गम् ॥

ऊष्मामूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः ।
लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते ॥

अयमुपसंहारः । ऊष्मादिषु निर्वेधभागीयेषु स्थिते य एभिर्विशत्या लिङ्गैर्लक्षितः स सम्बोधेर्न निवर्तते । सोऽविनिवर्तनीय इत्यर्थः ॥

दर्शनमार्गे स्थितमधिकृत्य शास्त्रम्-

[१०५] क्षान्तिज्ञानक्षणाः षट्च पञ्च पञ्च च दृक्पथे ।
बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४-४६ ॥

दर्शनमार्गे स्थितस्य बोधिसत्त्वस्यावैवर्तिकं लिङ्गं वेदितव्यम् । किं तत्?ऽक्षान्तिज्ञानलक्षणाःऽ क्षान्तिक्षणाः ज्ञानक्षणाश्च ।ऽषट्च पञ्च पञ्च चऽ इति षोडशेत्यर्थः । कतमे षोडश?

[१०६] रूपादिसंज्ञाव्यावत्तिर्दाढ्र्य चित्तस्य हीनयोः ।
यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४-४७ ॥
[१०७] कायचेतोलघुत्वं च कामसेवाभ्युपायिकी ।
सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ ४-४८ ॥
[१०८] स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४-४९ ॥
[१०९] विहारे प्रतिषेधश्च धर्मस्याणोरलब्धता ।
निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ ४-५० ॥
(र्स्त्_११३)
[११०] धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः ।
अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ ४-५१ ॥

तत्राद्यमाह । पुनरपरमित्यादिना धारयितव्यान्तेन । अभिसंस्करोतीति उत्पादयतीत्यर्थः । तमपि धर्ममिति रूपादिकं नोपलभत इत्यादि । अत्र उपलम्भ एवाभिसंस्कारः । स एवोत्पादनम् । अनुत्पादज्ञाने क्षान्तिरस्येति बहुव्रीहिः । इतिऽरूपादिसंज्ञाव्यावृत्तिःऽ दुःखे धर्मज्ञानक्षान्तिः । सा दृङ्मार्गे प्रथमं तल्लिङ्गम् ॥

पुनरपरमित्यादि धारयितव्यान्तम् । विच्छन्क्यिस्यतीति विगतच्छन्दं करिष्यति । आज्ञास्यति लोकोत्तरेण ज्ञानेन । विहन्यसे क्लिष्यसे । विवेचनता बोधिचित्तत्याजनम् । तत्रेति सम्यक्सम्बोधौ । दृढचित्तेन इति सम्यक्सम्बोधौऽचित्तदार्ढ्ययऽ दुःखे धर्मज्ञानम् । तद्दृङ्मार्गे द्वितीयं तल्लिङ्गम् ॥

पुनरपरादि भवत्यन्तम् । इतिऽहीनयानविनिवृत्तिःऽ दुःखेऽन्वयज्ञानक्षान्ति । सा दृङ्मार्गे तृतीयं लिङ्गम् ॥

स आकाङ्क्षन्नित्यादि वेदितव्यान्तम् । इतिऽध्यानादीनामङ्गपरिक्षयःऽ कामोत्पत्तिविबन्धे दौर्बल्यं दुःखेऽन्वयज्ञानम् । तद्दृङ्मार्गे चतुर्थं तल्लिङ्गम् ॥

पुनरपरादि स चेदित्यतः प्राक् । अत्र न नामगुरुक इत्यादिकंऽचेतोलघुत्वम्ऽ । सोऽभिक्रामन्वेत्यादिकंऽकायलघुत्वम्ऽ । तदुभयं समुदये धर्मज्ञानक्षान्तिः । सा दृङ्मार्गे पञ्चमं तल्लिङ्गम् ॥

स चेदित्यादि प्रागनर्थिकात् । यथोक्तैव संज्ञाभ्युपायः तेन निर्वृत्ताऽकामसेवाभ्युपायिकीऽ । सा समुदये धर्मज्ञानम् । तद्दृङ्मार्गे षष्ठं तल्लीङ्गम् ॥

अनर्थिका एव चेत्यादि धारयितव्यान्तम् । अत्यर्थं सौमनस्यजननात्प्रियरूपैः । अत्यर्थं सुखजननात्सातरूपैः । प्रशंसायां रूपप्वा । अनर्थिका एवेति नित्यमनर्थिकाः । न समविषमेणेति न युक्तायुक्तेन । कथमित्याह । धर्मेणैवेत्यादि । अपमर्दनं पीडा । पञ्चभिर्मोक्षभागीयैश्चतुर्भिर्निर्वेधभागीयैः सप्तभिश्च दर्शनक्षणैर्योगात्सत्पुरुषैरित्यादिनि षोडशपदानि । इतिऽसदैव ब्रह्मचारित्वं समुदयेऽन्वयज्ञानक्षान्तिः । सा दृङ्मार्गे सप्तमं तल्लिङ्गम् ॥

पुनरपरादि धारयितव्यान्तम् । मन्त्रजातिर्मन्त्राविशेषः ग्रहदेवतायाः । औषधिः पा(फ)लपाकान्ता । स्त्रीदेवताया मन्त्रो विद्या । (र्स्त्_११४) भैषज्यमौषधम् । आदिशब्देन यन्त्रमन्त्रादिपरिग्रहः । विग्रहः कायेन कलहो विवादस्तु वाचा । इतिऽआजीवपरिशुद्धिःऽ समुदयेऽन्वयज्ञानम् । दृङ्मार्गेऽष्टमं तालिङ्गम् ॥

नवमात्प्रभृति पञ्चक्षणानधिकृत्य शास्त्रम्-

ऽस्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके ।
समरे मत्सरादौ च नेति योगानुयोगयोः ॥
विहारे प्रतिषेधश्चऽ

इति ।ऽयोगःऽ साभिनिवेशा वृत्तिः ।ऽअनुयोगोऽ निरभिनिवेशा वृत्तिः । ताभ्यां विहारस्तयोर्विहारस्तद्वान्समाधिः । तस्यऽप्रतिषेधःऽ ।ऽनेतिऽ इति नञो सम्बन्धादित्यर्थः । स पुनर्विहारःऽस्कन्धादौऽ प्रथमः ।ऽअन्तरायेषुऽ द्वितीयः ।ऽसम्भारेऽ तृतीयः ।ऽसेन्द्रियादिके समरेऽ चतुर्थः ।ऽमत्सरादौऽ पञ्चमः । तत्र चतुरं तावदाह पुनरपरमित्यादिना न च ते कलहेत्यतः प्राक् । न ते स्कन्धायतनेत्यादि । योगाश्चानुयोगश्च योगानुयोगं तदनुइयुक्तास्तेन सह युक्ताः । सहार्थेऽनुशब्दः । न विहरन्तीति सम्बन्धः । अत्रोपपत्तिर्महत्योभंगवत्योरुक्ता- "तथा हि स शून्यतायां स्थितो न कस्यचिद्धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति" इति । एनामस्यां वाक्यद्वयेनाह । संक्लेशपक्षो निःसारत्वेन सङ्गणिकारामताविषयत्वात्सङ्गणिकारामता । सैवासत्त्वेन कथामात्रत्वात्कथा । शेषं पूर्ववत् । उत्कृष्टत्वाद्राजसंक्लेशनिरोधः । स एव कथा असाक्षात्कृतत्वेन कथामात्रत्वात्कथा । एतावेव कथे द्वे । यथायोगमुत्तरत्रापीति स्कन्धादियोगानुयोगविहारविरहो निरोधे धर्मज्ञानक्षान्तिः । सा दृङ्मार्गे नवमं तल्लिङ्गम् ॥

पञ्च निवरणानि चौराः कुशलद्रव्यहरत्वात् । शेषं पूर्ववत् । इति निरोधे धर्मज्ञानम् । तद्दृङ्मार्गे दशमं तल्लिङ्गम् ॥

कुशलधर्मसम्भारः सेना । शेषं पूर्ववत् । इति निरोधेऽन्वयज्ञानक्षान्तिः । सा दृङ्मार्गे एकादशं तल्लिङ्गम् ॥

तया सेनया विपक्षाणां बाधनं युद्धम् । शेषं पूर्ववत् । युद्धे सति निरोधः प्राप्यते । निरोधो निर्वाणं विमुक्तिः । कश्चासौ? देहप्रतिष्ठाबोगप्रतिभासानां विज्ञप्तीनां परावृत्तिः । तस्माद्देहादीनामविकल्पनात्न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति । तत्र चक्षुरादि पञ्चकं (र्स्त्_११५) देहः । स हि ग्राम इन्द्रियग्रामत्वात् । देहानामाधारत्वात्प्रतिष्ठा नगरम् । नियतेन्द्रियगम्यत्वात्निगमो भोगः पञ्चविषयाः । जनपदादयः प्रतिष्ठाविशेषाः । आत्मात्मीयविकल्पक्षये सति मोक्षः । तत आत्मविकल्पानधिकृत्याह । नात्मकथेत्यादि । आत्मीयविकल्पानधिकृत्याह । नामात्येत्यादि । इत उर्ध्वरूपाः कथास्ते यथायोगमात्मीयविकल्पा भोगविकल्पाः प्रतिष्ठाविकल्पा वा वेदितव्याः । यदि तथा तथा न विहरन्ति कथं तर्हि विहरन्तीत्याह । अपि न्वित्यादि । प्रज्ञापारमितैव कथ प्रत्यवेक्षा । शेषं पुर्ववत् । सर्वत्र धर्मतया समतायोगानुयोगमनुयुक्ता एव विहरन्तीत्यर्थः । सर्वज्ञताप्रतिसंयुक्तैरिति बोधिचित्तप्रतिसंयुक्तैः । युद्धेन्द्रियादिकथायोगानुयोगविहारविरहो निरोधेऽन्वयज्ञानम् । तद्दृङ्मार्गे द्वादशं तल्लिङ्गम् ॥

ऽमत्सरादौ चऽ इति शास्त्रम् । यदाह महत्योः । "स दानपारमितायां चरन्न मात्सर्यकथायोगमनुयुक्तो विहरति यावत्प्रज्ञापारमितायां चरन्न दौष्ठुल्यकथायोगमनुयुक्तो विहरति" इति । तदस्यामाह । न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्तीति । विपक्षत्वात्कलहा मात्सर्यादयः । प्रतिपक्षत्वात्कलहा मात्सर्यादयः । प्रतिपक्षत्वाभ्दण्डनादयः । यदोभयेषां चेतसि चारस्तुल्यबलता च तदा विग्रहः । यदा तु प्रतिपक्षैर्विपक्षा दुर्बलीक्रियन्ते तदा विवादः । तावेव विग्रहविवादौ कथा विकल्पत्वात् । तस्यां योगानुयोगमनुयुक्ता न विहरन्ति । अभेदः समताज्ञानम् । भेदो नानात्वविकल्पः । मित्रकामाश्चेत्यादि धारयितव्यान्तं सुगमम् । इति मार्गे धर्मज्ञानक्षान्तिः । सा दृङ्मार्गे त्रयोदशं तल्लिङ्गम् ॥

पुनरपरादि स चेदित्यतः प्राक् । अनेतैतदाह ।

ऽधर्मस्याणोरलब्धता । निश्चितत्वं स्वभूमौ चऽ इति । सोऽणुमपि धर्म न समनुपश्यति यो विवर्ते, भवान् वा विवर्तेन । तथापि स्वस्यामविनिवर्तनीयभूमौ निःसंशयो भवति । विचिकित्सा संशयः । संसीदनं मन्दोत्साहता । आनन्तर्यचित्तेनेति । अनन्तर्यपश्चात्तापेन । प्रतिविनोदनं सर्वथात्यागः । विष्कम्भणं मन्दाकरणम् । अविनिवर्तनीयचित्तमात्मनोऽविनिवर्तनीयत्वनिश्चयः । असंहार्यमप्रत्यानेयम् । इत्यवैवर्तिकभूमौऽस्थिरनिश्चयत्वऽ मार्गे धर्मज्ञानम् । तद्दृङ्मार्गे चतुर्दशं तल्लिङ्गम् ॥

ऽभूमित्रितयसंस्थितिः ।ऽ मारकर्म तथागतभाषितस्यान्यथात्वं भाविनी चात्मनः सम्यक्सम्बोधिरिति त्रीणि स्थानानिऽभूमित्रितयम्ऽ । तस्मिन्ऽसंस्थितिःऽ (र्स्त्_११६) आत्यन्तिको निश्चयः । तामाह । स चेत्खल्वित्यादिना धारयितव्यान्तेन । इहैवेत्यस्मिन्नेव जन्मनि । नायं तथागत इत्यस्मात्पूर्व इति शब्दः परो द्रष्टव्यः । तथा तन्नान्यथेत्युक्तेऽर्थाद्गम्यते भविष्यत्येव मेऽनुत्तरा सम्यक्सम्बोधिरिति । बुद्धाधिष्ठानं बुद्धनिर्माणम् । अद्धेति तत्त्वत इत्यर्थः । इति भूमित्रयसंस्थितिमार्गेऽन्वयज्ञानक्षान्तिः । सा दृङ्मार्गे पञ्चदशं तल्लिङ्गम् ॥

पुनरपरमित्यादि आपरिवर्तान्तात् । आत्मनः परित्यागो विक्रयादि । जीवितस्य परित्यागो मरणम् । बुद्धैर्भगवभ्दिर्देशितो धर्मः सर्वधर्माः शून्या इति । तमेव मोहपुरुषाः प्रतिक्षिपन्ति । तस्य स्वयं परैश्च परिग्रहाय जीवितमपि त्यजति । स हि बुद्धेषु यत्प्रेमगौरवं तद्धर्मे करोति । धर्मकायास्तथागता इति ज्ञानात् । आत्मनश्च भाविबुद्धत्वदर्शनात् । श्रावकस्यापीत्युपलक्षणम् । बोधिसत्त्वस्यापि देवादेरपि । शेषं सुबोधमिति ।ऽधर्मार्थं जीवितत्यागःऽ मार्गेऽन्वयज्ञानम् । तद्दृङ्मार्गे षोडशं तल्लिङ्गम् ॥

ऽइत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतःऽ ॥ इत्युपसंहारः ॥

अविनिवर्तनीयस्य यान्याकारलिङ्गनिमित्तानि तद्द्योतकः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तदशः परिवर्तः ॥


१८. शून्यतापरिवर्तो नामाष्टादशः ।

निर्वेधाङ्गदृङ्मार्गयोरवैवर्तिकलिङ्गानि संख्यया विशेषतश्चोक्तनि । भावनामार्गस्तु गम्भीरः । ततो तान्युभयथापि वक्तुमशक्यानि । अतः शास्त्रम्-

[१११] गम्भीरो भावनामार्गः

एतदाह । अथ खल्वित्यादिना प्रत्येकबुद्धैरित्येतदन्तेन । आश्चर्यं भगवन्नित्येकं चोद्यम् । किमाश्चर्यमित्यत आह । महागुणेत्यादि । (र्स्त्_११७) महान् गुणसम्भारः परमगम्भीरतया कल्पासंख्येयद्वयनिरन्तरप्रयत्नलभ्यतया च । अत एव विशेषतो ज्ञातुमशक्यत्वादप्रमाणाः संख्यातुमशक्यत्वादपरिमिताः । बोधिसत्त्वो महासत्त्व इति भावनामार्गस्थोऽवैवर्तिकः । अविनिवर्तनीयेनेति भावनामार्गस्थेन । संख्यातिक्रमादनन्तम् । परमोदारत्वादपर्यन्तम् । असंहार्य सम्यगग्राद्यं सम्यग्ज्ञातुमशक्यं श्रावकप्रत्येकबुद्धैरपीति भावनामार्गस्य गाम्भीर्यम् ॥

सुभूतिराहेत्यादि प्रतिबलः शक्तो निर्देष्टुम् । किन्तु सत्त्वा(र्वा)र्थो न स्यादिति भावः । ततः किमित्याह । अत एवेत्यादि । एवकारो भिन्नक्रमः । स्थानानीत्यतः परेण द्रष्टव्यः । सर्वाणि गम्भीराणीति वीप्सार्थः । स्थानानीति भावनामार्गालम्बनानि । प्रज्ञापारमितायां प्रतिसंयुक्तानि तदाधारणीत्यर्थः । सूचयितव्यानीति सूच्यन्तामित्यर्थः । इति सुभूतेरध्येषणा ॥

एवमुक्त इत्यादि । आरभ्येति । आदौ निर्दिश्य । निगमयितुकाम इति भावनार्गे योजयितुकामः । इति भगवतोऽभ्युपगमः ।

अथ शास्त्रम्-

गाम्भीर्यं शून्यतादिकम् ।
समारोपापवादान्तमुक्तता सा गभीरता ॥ ४-५२ ॥

ऽगम्भीरो भावनामार्गःऽ इत्युक्तम् । तस्यऽगाम्भीर्यंऽ गम्भीरभावः । यतः स गम्भीरो भवति तच्च शून्यतानिमित्तादिकम् । मार्गस्य गम्भीर्यमालम्बनगाम्भीर्यादिति भावः । तच्चालम्बनंऽशून्यतादिऽ । शून्यतादेरपि का गाम्भीर्यता? यास्य समारोपान्तेनापवादान्तेन चारहितता । भगवानभ्युपगतं सूचयितुमाह । गम्भीरमितीत्यादि । सर्वधर्माणां यथाप्रतिभासभावो यथातत्त्वं च भावः शून्यता । सैवानिमित्तंतद्वेदने निमित्तनिरोधात् । सैवाप्रणिहितं तद्विदां त्रैधातुकेऽप्रणिधानात् । सैवानभिसंस्कारस्तेषां पुनर्भवाय कर्माकरणात् । सैवानुत्पादस्तेषां तेन कर्मणानुत्पादात् । सैवाजातिस्तेषां प्रकृत्यजातताज्ञानात् । सैवाभावोऽद्रव्यत्वात् । सैव विरागशुद्धिः क्लेशानुशयसमुद्घातात् । सैव निरोधस्तेषां पुनर्भववि(नि)रोधात् । सैव निर्वाणं तेषां वासनासमुद्घातात् । सैव विगमस्तेषां साश्रवस्कन्धोपरमात् ॥ इति शून्यतादिकम् ॥

सुभूतिराहेति काक्वा पृच्छतीत्यर्थः । धर्माणामिति शून्यतादिनाम् । सर्वधर्माणामिति स्कन्धधात्वादीनाम् । बालग्राह्या रूपादयस्ते कथं गम्भीराः? अतः स्वयमेव पृच्छति कथं चेत्यादि । उत्तरं यथा तथतेत्यादि । (र्स्त्_११८) कस्य तथतेति चेदाह तत्रेत्यादि । स्फुटीकर्तुमाह यथेत्यादि । यत्रेति यस्यां रूपादितथतायां वेद्यमानायां कल्पितं रूपादि न प्रख्याति इयं रूपादीनां गम्भीरता । परमार्थसता रूपेण तेषां प्रख्यानात् । सम्यग्देशनया तोषितः सुभूतिराह । आश्चर्यमित्यादि । सूक्ष्मेणेति निपुन(ण)वेद्येन । निर्वाणं च सूचितम् । भावनामार्गस्थस्यावैवर्तिकस्य सर्वेषां परिकल्पितानामप्रख्यानात् । रूपादिभ्यश्च निवारितः । तेषां परमार्थस्य प्रख्यानात् । तत्र निर्वाणेन रूपादिसमारोपान्तमुत्कता । इति शून्यतादिगम्भीरता ॥

अथ शास्त्रम्-

[११२] चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः ।
निर्वे आङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ ४-५३ ॥

ऽअभीक्ष्णंऽ इति प्रबन्धेन । अतः प्राबन्धिकानिऽचिन्तातुलननिध्यानानिऽ स्वभावो भावनामार्गस्य अलम्बनं शून्यतादि । शून्यतादेराधारो निर्वेधभागीयदृङ्मार्गभावनामार्गाः(र्गः) कथं भावनामार्गस्या(श्चा)स्यैव विषय इति चेदाह-

[११३] प्राबन्धिकत्वादिष्टोऽसौ

ऽप्राबन्धिकोऽ हि भावनामार्गः । ततः प्राकृतो विषयः पश्चात्तमो विषयीति नास्ति विरोधः । अत्र सूत्रं भगवानाहेत्यादि । इमानीति यथोक्तानि शून्यतादीनि । प्रज्ञापारमिताप्रतिसंयुक्तानीति । विकल्पपारमित्तैव प्रज्ञा प्रज्ञापारमिता दर्शनमार्गो भावनामार्गश्च । निर्वेधभागीयानि तु तादर्थ्यात्प्रज्ञापारमिता । तस्यां त्रिविधायां प्रतिसंयुक्तानि सम्बद्धानि तदाधाराणीत्यर्थः । य इमानिओ चिन्तयिष्यति तुलयिष्यति उपनिधास्यतीति सम्बन्धः । कथमित्यत आह । एवं मयेत्यादि । स्थातव्यमिति चिन्तयैकान्तनिश्चयात् । शिक्षितव्यमिति तुलनेन शमथोत्पादनात् । प्रतिपत्तव्यमित्युपनिध्यानेन विपश्यनोत्पादनात् । आज्ञप्तं ग्रन्थश्रवणात् । आख्यातमर्थज्ञापनात् । उपदिष्टं रहस्यकीर्तनात्चतस्रो युक्तयः । अपेक्षायुक्तिः सर्वहेतूनपेक्ष्य कार्योत्पत्तेः । कार्यकारणयुक्तिः तेभ्यः प्रत्येकं कार्यविशेषोत्पत्तेः । उपपत्तिः साधनयुक्तिः । येन प्रमाणेन योऽर्थः सिध्यति । धर्मतायुक्तिः स्वभावनियमोधर्माणाम् । अग्नि एव दहत्याप एव क्लेदयन्तीत्यादि । आभिः समाध्यालम्बनस्य रहसि पर्यङ्कमारुह्य सत्कृत्य सातत्येन निरूपणं चिन्ता । तत्रैव नवाकारेण शमथेन चेतसः समीकरणं तुलनम् । धर्मान्विचिनोति प्रविचिनोति परिवितर्कयति परिमीमांसामापद्यत इति चतुराकारा विपश्यना उपनिध्यानम् ॥ तत्र यथावभ्दाविकताज्ञानं विचयः । (र्स्त्_११९) पञ्चैव स्कन्धा इत्यादि यथावभ्दाविकताज्ञानं प्रविचयः । सर्व एते शून्या इत्यादि निर्विकल्पेन मनसा प्रज्ञासहगतेन निमित्तीकरणं परिवितर्कः । सन्तीरणं परिमीमांसा । इति भावनामार्गस्य स्वभावः ॥

नवधा च प्रकारतः ।

स भावनामार्गः प्रकारभेदेन नवधा भवति । चकाराद्विपक्षो नवधा । कथमित्याह-

मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ४-५४ ॥

मृदुमृदुः । मृदुमध्यः । मृद्वधिमात्रः । मध्यमृदुः । मध्यमध्यः । मध्यधिमात्रः । अधिमात्रमृदुः । अधिमात्रमध्यः । अधिमात्राधिमात्रश्चेति । विपक्षाणामप्येत एव नव प्रकाराः । तत्रैते मार्गस्य प्रकारा अनुलोममुत्पद्यन्ते । तैः प्रतिलोमं विपक्षप्रकाराः क्षीयन्ते । अधिमात्राधिमात्रोऽधिमात्रमध्यो यावन्मृदुमृदुः । स च विपक्षो भावनाहेयः क्लेशविकल्पा यथायोगाम् । औदारिको हि मलश्चेलात्पुर्व निष्पीड्यते पश्चासूक्ष्मः । तद्वच्चित्तादपि ।

तत्राद्यः तथेत्यादिना । द्वितीय एवमित्यादिना । ततः यथा पुनरपरादिभीः प्रसवत्यन्तैः ततः द्वावेकेन पुनरपरादिना सुभूतिराहेत्यतः प्राक् । तथेत्यादि । तथेति यथोक्तेन क्रमेण सम्पादयमानः शमथेन । उपनिध्यायन विपश्यनया । उपपरीक्षमाण उभाभ्याम् । प्रयुज्यमानः शमथवीर्येण । घटमानो विपश्यनावीर्येण । व्यायच्छमान उभयवीर्येण । स्वयमेव भगवान् पृच्छति कियत्कर्म करोतीति । उत्तरं स्वयमेवाह तद्यथापीत्यादिना । प्रसादा प्रभवन्तीति प्रासादिका गुणाः । मत्वर्थीयोऽच् । परपरिगृहीतेति परकीया न वशयेन्न शक्नुयात् । संसारादित्यागामिनो जन्मप्रबन्धात् । छोरयतीति त्यजति । विपृष्ठीकरोति । आगामिनोऽनागमनात् । व्यन्तीकरोतीत्यपरान्ततः पूर्वान्तनयनात् । यथाज्ञप्तमित्यादि पूर्ववत् । यथोद्दिष्टं यथा निर्दिष्टमित्युद्देशनात् । तिष्ठति चिन्तया संशयच्छेदात् । शिक्षते शमथेन । प्रतिपद्यते विपश्यनया । उपनिध्यायतीत्युभाभ्याम् । एवं योगं भावनामापद्यते । इयता एकं कर्मोक्तम् ।

द्वितीयमाह तांश्चेत्यादिना सम्यक्सम्बोधेरित्येतदन्तेन । इति भावनामार्गो मृदुमृदुः ॥

एवमित्यादि एवमित्यनन्तरोक्तवत् । तावत्कर्मेति बहुतरकल्पव्यन्तीकरणम् । सम्यक्सम्बोधिविनिवर्तकदोषविवर्जनं च । अधिकमाह (र्स्त्_१२०) यथेत्यादिना प्राक्पुनरपरात् । तत इति दायकात् । अयमेव विशिष्यते बहुतरपुण्यतया प्रकृष्यते । इत्यत आह । योयमित्यादि । इति भावनामार्गो मृदुमध्यः ॥

पुनरित्यादि । दद्यादर्पणतः । प्रतिष्ठापयेदविप्रतिसारतः । इति भावनामार्गो मृद्धधिमात्रः ॥

पुनरित्यादि । मनसिकारो विहारः । इति भावनामार्गो मध्यमृदुः ॥

पुनरित्यादिना भावनामार्गो मध्यमध्यः ॥

पुनरित्यादि । व्युत्थाय धर्म देशयेत्तच्च बोधौ परिणामयेदिति भावनामार्गो मध्याधिमात्रः ॥

पुनरपरेत्यादि । तच्च धर्मदानम् । प्रज्ञापारमितोक्तेन परिणामेन परिणामयेदिति भावनामार्गोऽधिमात्रमृदुः ॥

पुनरित्यादि । तद्धर्मदानं प्रज्ञापारमितोक्तपरिणामेन परिणमय्य पुनः प्रतिसंलयने योगमापद्यते । इति भावनामार्गोऽधिमात्रमध्यः ॥

यः पुनस्तत्प्रतिसंलयनमविरहितं करोति प्रज्ञापारमितया स तस्य भावनामार्गोऽधिमात्राधिमात्रः ॥

सुभूतिराहेत्यादि । इह बहुतरं पुण्यं प्रसवतीति बाहुल्येनोक्तम् । अतः सुभूतेश्चोद्यम् । अभिसंस्कारो विकल्पः । तद्वत्पुण्याभिसंस्कारोपि । तस्माद्वहुतरं पुण्यमिति बहुतरो विकल्प उक्तः स्यादिति । उत्तरं भगवानाह सोपीत्यादिना प्रसवत्यन्तेन । इदानीमिति भावनामार्गकाले । यथालक्षणमसत्त्वाच्छून्यः । अज्ञातार्थे कप्रत्ययः । बालैरज्ञातः शून्यक इत्येव । एवमेव आख्याति प्रख्यातीति आख्यः । अनाख्ये आख्या भवति आख्यायते लोहितादेराकृतिगणत्वात्क्यष् । प्रख्यातीत्यर्थः । एवमुत्तरेष्वपि द्रष्टव्यम् । अस्वामिकत्वाद्रिक्तः । अग्राह्यत्वात्तुच्छः । ग्राहकाभावत्वादसरः । एवमिति शून्यतादिभिः । शेषं सुबोधम् । इति बहुतरंपुण्यंप्रसवचोद्यपरिहारौ ॥

सुभूतिराहेत्यादि । उत्कर्षोपि विशेषः । छेदोपि नानाकरणम् । तयोर्व्यवच्छेदार्थमुभयोरुपादानम् । प्रमाणानीत्यौदार्यपरिच्छेदाः । संख्ययापीति गणनयापि न क्षपयितुं क्षयं नेतुम् । स्याभ्दगवन्नित्यादि सुगमम् । अधिकं वचनमधिवचनं मुख्यं वाचकमित्यर्थः । अक्षया अपीति (र्स्त्_१२१) आकाशवत् । अप्रमेयातापीत्याकाशस्येव । अक्षयाप्रमेयशून्यतानिमित्तादीनामभिलापाः शब्दाः । ननु शब्दा अपि विचत्राः कथमेकार्थे व्यवच्छेद्यभेद्यलेशादिति भावः । अत एवाह देशनाभिनिर्हार एष इति । देश्यतेऽनयेति देशना करुणा तस्याभिनिर्हारो निःष्यन्दः स चासौ निर्देशश्च । अत्र शास्त्रम्-

[११४] असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः ।
कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने ॥ ४-५५ ॥

ऽन क्षमाऽ इति न युक्ताः । इत्यसंख्येयादिनिर्देशे चोद्यपरिहाराः ॥

सुभूतिहाह । आश्चर्यमित्याद्यपि तु खल्वित्यतः प्राक् । अवाग्गोचरत्वादनभिलाप्याः । पारमितार्थस्येति शून्यतालक्षणस्य । अत्र शास्त्रम्-

[११५] हानिवृद्धी न युज्येते निरालापस्य वस्तुनः ।
भावनाख्येन किं हीनं वर्त्मना किमुदागतम् ॥ ४-५६ ॥

इत्यनभिलाप्यस्य हानिवृद्ध्यभावः ॥

कथं तर्हि बोधिरित्यत आह । अपि तु खल्वित्याद्यापरिवर्तसमाप्तेः । स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पानिति यैर्दानं ददाति । तानि च कुशलमूलानीति यानि तैस्चित्तोत्पादैः संप्रयुक्तानि । यथा बोधिस्था परिणामयतीति । अन्यथा न सा परिणामना बोधये स्यात् । एवमुत्तरास्वपि द्रष्टव्यम् ॥

यथानुत्तरा सम्यक्सम्बोधिरित्युक्तम् । अतः पृच्छति । अथ खल्वित्यादिना । भगवानाह तथतैषा सुभूतेऽनुत्तरा सम्यक्सम्बोधिरित्यादि । अभीक्ष्णमिति पुनः पुनः । बहुलमिति प्रबन्धने । एवं खल्वित्यादिनोपसंहारः । अत्र शास्त्रम्-

[११६] यथा बोधिस्तथैवासाविष्टस्याथैस्य साधकः ।

तथतालक्षणा बोधिः सोपि तल्लक्षणो मतः ॥ ४-५७ ॥

ऽअसौऽ इतिऽसोपिऽ इति भावनामार्गः ॥

शून्यताप्रधानः परिवर्तः शून्यतापरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टादशः परिवर्तः ॥


(र्स्त्_१२२)
१९. गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः ।

अथ खल्वित्यादि प्रागेवमुक्तात् । न पूर्वेण चित्तेन बोधिर्न च पश्चिमेन तयोरसमवधानादिति चोद्यम् ॥

एवमुक्त इत्यादि प्रागेवमुक्तात् । इयता दीपदृष्टान्तेन परिहारः । अत्र शास्त्रम्-

[११७] पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा ।

इति चोद्यम् ।

दीपदृष्टान्तयोगेन

बोधिरिति वर्तते । अनेन परिहारः ॥

अथ शास्त्रम्-

गम्भीरा धर्मताष्टधा ॥ ४-५८ ॥

या बोधिरिति वर्तते । केवलाया बोधेस्तथतैव लक्षणमुक्तमष्टादशे । सपरिच्छदायास्तु बोधेर्लक्षणमष्टविधं गाम्भीर्यम् । तत्कथमष्टधा?

[११८] उत्पादे च निरोधे च तथतायां गभीरता ।
ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ ४-५९ ॥

ऽअद्वयं च उपायकौशल्यं च; इति समाहारद्वन्द्वः । अत एवमुक्त इत्यादिना प्रागेवमुक्ताद्गाम्भीर्य सुभूतिः प्रस्तौति । अन्यत्र तेभ्य इति विना तेभ्यः । एवमुक्ते भगवानित्यादिना परिजयं करोतीत्येतदन्तेनाष्टविधं गाम्भीर्यमाह । यच्चित्तमिति भ्रान्तमभूतपरिकल्पात्मकम् । निरुद्धमिति सन्तानक्षयात्क्षीणम् । नो हीति नैवेत्यर्थः । भ्रान्तिकारणस्य द्वयाभिनिवेशस्य क्षयादिति भावः । इत्युत्पादगाम्भीर्यम् ॥

यच्चित्तमुत्पन्नमिति अभ्रान्तम् । भ्रान्तिक्षयाच्चित्ताधीनत्वाच्च चित्तोत्पत्तेरिति भावः । निरोधधर्मि भगवन्निति प्रतिक्षणमिति भावः । निरोत्स्यत इति सन्ताननिरोधेनेति भावः । नो हीदमिति स्वरसत उत्पत्तेः प्रणिधानादिभिश्च सविशेषमक्षयीकृतत्वादिति भावः । (र्स्त्_१२३) यच्चित्तमनुत्पन्नर्मित्युत्पादगाम्भीर्ये यदुक्तं यन्न निरोधधर्मीत्यनन्तरमेव यदुक्तं यन्निरोधधर्मीत्यस्मिंस्तेषां पुनरुक्तता स्यात् । यच्चित्तमिति यच्चित्तसन्तानः । अनुत्पादानिरोधधर्मीत्यनादिनिधनं यो धर्म इति निर्वाणाख्यः । निरोधोनिरुद्धम् । तत्स्वभावोऽस्येति स्वभावनिरुद्धः । धर्मतेति शून्यता । इति निरोधगाम्भीर्यम् ।

तथैव स्थास्यतीति यावदाकाशम् । मा कुटस्था भूदिति तथतावत् । नो हीदमिति प्रवाहनित्यत्वादिति भावः । गम्भीरा तथतेति सम्यग्ज्ञानादपि सूक्ष्मत्वादितयतागाम्भीर्यम् ॥

तथतायां चित्तमिति तद्वेदित्वात्तस्या आधेयम् । नो हीदमिति ज्ञानाभ्देदे वेद्यत्वायोगात् । चित्तं तथतेत्येकलक्षणादिति भावः । अन्यत्तथताया इलिक्षणभेदादेव । नो हीदमिति लक्षणभेदेपि तादात्म्यात् । तदेवमग्राह्यत्वेपि वेद्या तथतेति ज्ञेयगाम्भीर्यम् ॥

समनुपश्यसि त्वमिति चित्तरूपम् । नो हीत्यग्राह्यत्वात् । तदेव ग्राह्यमपि चित्तं वेत्तीति ज्ञानगाम्भीर्यम् ॥

गम्भीरे चरतीति प्रज्ञापारमितार्थे । समुदाचारा आलम्बननिमित्तानि । प्रवर्तन्ते न भवन्ति । न समुदाचरन्ति न प्रख्यान्तीति चर्यागाम्भीर्यम् ॥

निमित्ते चरतीति द्वयनिमित्तेऽद्वयनिमित्ते वा । नो हीति न द्वयनिमित्ते नाद्वयनिमित्ते । निमित्तमिति द्वयाद्वयनिमित्तम् । अविभावितमप्रहीणम् । नो हीति नाप्रहीणम् । प्रहीणमेवेत्यर्थः । इत्यद्वयगाम्भीर्यम् ॥

अपि न्विति किन्नु । निमित्तं विभावितं भवतीत्यप्रतिपूर्णेषु सर्वबुद्धधर्मेषु इति भावः । सुभूतिरुत्तरमाह । न स भगवन्नित्यदिना । इहैवेति । अस्मिन्नेव जन्मनि । कुत इत्याह । स चेदित्यादि । श्रावको भवएदिति न सम्यक्सम्बुद्धः । एतत्तदित्यादिनोपसंहारः । यल्लक्षणं यन्निमित्तमिति यद्धर्मनिमित्तं यच्च धर्मतानिमित्तं तत्सर्वं जानाति । परिजयमभ्यासमात्रं करोति । इत्युपायकौशलगाम्भीर्यम् ॥

तत्राष्टमं गाम्भीर्यं विप्रकृष्टम् । बोधे शेषाणि सन्निकृष्टानीत्युक्तविधं गाम्भीर्यम् । उक्तश्चऽशैक्षौऽवैवर्तिको गणःऽ ॥

(र्स्त्_१२४)
ऽसमता भवशान्त्योःऽ वक्तव्या । अतः शास्त्रम्-

[११९] स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना ।

एष संसार एतन्निर्वाणमिति भेदकल्पना । संसारनिर्वाणयोः समताज्ञानं भावनामार्गे । स्वप्नोपमान्सर्वधर्मान् पश्यतस्तयोर्भेदकानुपलम्भात् । नन्वभूतपरिकल्पः संसारः स च भ्रान्तिमात्रं भ्रान्तिक्षयस्तु निर्वाणम् । कदा तयोः समताज्ञानम्? भावनामार्गे संमुखीभूते सर्वधर्मनैरात्म्यसंवेदनादिति चेत् । दर्शनमार्गेप्येतदस्तीति भावनामार्गस्य कोऽतिशयः? तस्मात्ततो व्युत्थितस्य समताज्ञानं ग्राह्यम् । तच्चायुक्तम् । व्युत्थितस्य हि ज्ञानं भ्रान्तं स्वप्नोपमत्वात्स्वप्नः । भावनामार्गस्तु सम्यग्ज्ञानं दिवसोपमत्वाद्दिवसः । तत्र कदा युक्तं स्यात्? यदि दैवसिकादभ्यासातिशयात्, स्वप्नेति प्रज्ञापारमिता विवर्धेत । अतः सूत्रेऽथ खल्वित्यादिना विवर्धत इत्येतदन्तेन प्रश्नः । सुभूतिराहेत्यादिना भावितव्योन्तेनोत्तरम् । अविकल्प इति । विकल्पो विशेषः । अविकल्पो निर्विशेषः । प्रज्ञापारमिताभ्यासत इति भावनामार्गाभ्यासतः । इति संसारनिर्वाणसमता ॥

शारिपुत्र आहेत्यादि । इह स्वप्नशब्देन स्वप्न एवोच्यते । क्षयसंज्ञेति क्षयो निर्वाणं तस्य संज्ञा उद्ग्रहः । भुतार्थकल्पनं कल्पः । वितथकल्पनं विकल्पः । एवमेवेति । आकाशवत्तथागतवद्वा । चित्तं चेतना बुद्धिर्विकल्पः इत्येकोऽर्थः । विविक्तानीति निःस्वभावानि । विप्लुता हि बुद्धिरविद्यमानमेव निमित्तीकृत्यारम्बणी करोति । चेतनापीत्यादि सुगमम् । कायसाक्षीति काय आश्रयः । तत्परावृत्त्या कायेन साक्षात्कारी कायसाक्षी एनमर्थमित्येतच्चोद्यं विसर्जयिष्यतीति परिहरिष्यति । अजितो मैत्रेय इति पर्यायौ । यो धर्मो विसर्जयेदिति मैत्रेयः । विसर्जयितव्य इति प्रश्नः । येन धर्मेणेति वाचा । यस्य धर्मस्येति शारिपुत्रस्य । उत्पित्सुः त्रास उत्त्रासः । संभूतस्त्रासः सन्त्रासः । तस्य प्रवाहः सन्त्रासापत्तिः । बलाधानं भावना बलवासना । अत्र शास्त्रम्-

कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ ४-६० ॥

इति संसारनिर्वाणसमतायां चोद्यपरिहाराः ॥

ऽकृतिशुद्धिरनुत्तराऽ वक्तव्या । अतः शास्त्रम्-

[१२०] सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्धयुपहारतः ।
तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ ४-६१ ॥

(र्स्त्_१२५)
एकदा यत्रैक एव बुद्धो जायते तद्बुद्धक्षेत्रम् । तस्य शुद्धता परिशुद्धिः । सा कुतो भवति?ऽसत्त्वलोकस्यऽ दृश्यतेऽयाशुद्धिःऽ व्याडकान्तारादिता । तस्याः स्वबुद्धक्षेत्रपरिशुद्धादुपसंहारात् । मम बुद्धक्षेत्रे सर्वथैवं मा भूदिति । एषा विस्तरेण महत्योरुक्ता । इह तु संक्षेपतः । पुनरपरमित्यादिना अथ खलु तत्रेत्यतः प्राक् । उत्त्रासादिनिषेध उक्तो वक्तव्यश्च तदपेक्षया पुनरपरशब्दाः । दुर्गता भूमिः कान्तारम् । व्याडैः कान्तारं व्याडकान्तारं पानीयवर्जितकान्तारं पानीयकान्तारम् । यदिचेच्छब्दो यद्यर्थे । दिव्योपभोगेत्यादि । समबुद्धक्षेत्रसत्त्वा इति वर्तते । रुधिराद्याहारव्युदासाय चैतदुक्तम् । सर्वस्वपरित्याग एव कुशलम् । यदेतेषां लोक इति भाजनलोके सुखसमङ्गिलः । सुखं समर्पितमाहितमेषामिति सुखसमर्पिताः । सर्वत इति सर्वत्र । व्याधिकान्तारं रोगोपसर्गः । इयतीति चित्तक्षणपरिमाणा । अपूर्वेति भाविनी । यदुताकोटीरिति नहि निरंशस्य क्षणस्य कोटिरस्ति । या सेत्यर्था(त्यपूर्वा) भुत् । अपूर्वा कोटीर्यत्राभिसंभोत्स्ये । इति बुद्धक्षेत्रपरिशुद्धिः ॥

अथ खल्वित्याद्यापरिवर्तान्तात् । अनेन यत्तस्यां देशनायां संवृत्तं तदाह । असक्तानि अलग्नानि । अन्तरिक्षे विहायसीति केवल एवाकाशे । परिनिष्पत्तिरिव परिनिष्पत्तिर्वशीभावः । प्रमाणबद्धः प्रमाणनियतः । असातकान्ताराणि दुष्कान्ताराणि । शेषं सुबोधम् ॥

गङ्गदेवाभगिन्या लक्षितः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकोनविंशतितमः परिवर्तः ॥


२०. उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः ।

क्षेत्रपरिशुद्धिरुक्ता । उपायकौशलं वक्तव्यम् । अतः शास्त्रम्-

[१२१] विषयोऽस्य प्रयोगश्च सा(शा)त्रवाणामतिक्रमः ।
अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ ४-६२ ॥
[१२२] अश(स)क्तोऽनुपलम्भश्च निमित्तप्रणिधिकृतौ ।
तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ ४-६३ ॥

(र्स्त्_१२६)
अस्य ह्युपायकौशलस्यऽविषयःऽ सूत्रे प्रथमं वक्तव्यः । ततःऽप्रयोगःऽ प्रथमाभ्यासः । ततो दश प्रभेदाः सा (शा)त्रवातिक्रमादयः ।ऽनिमित्तप्रणिधिकृतौऽ ताभ्यामिति तथोक्तौ निमित्तकृतः प्रणिधिकृतश्च ।

अथ खल्वित्यादि । अत्रादौ भूतकोटिमित्येतदन्तेन विषय उक्तः । शून्यतासमाधिनैवानिमित्ताप्रणिहितयोर्बोधिपक्षादीनां चोपलक्षणात् । शून्यतायामिति शून्यतासमाधौ । सन्ततिः प्रवाहः । कथं प्रत्यवेक्षमाण इत्याह रूपं शुन्यमितीति । तामिति शून्यताम् । धर्मतामिति धर्मप्रकृतिम् । धर्मतयेति धर्मसारतया । भूतकोटिरिति शून्यतैव कैवल्यं गता भूतकोटिः । इत्युपायकौशलस्य विषयः ॥

एवमुक्त इत्यादि तद्यथापीत्यतः प्राक् । असमाहित एवेति साक्षात्कर्तव्यतयानध्यवसित एव । अत्रान्तरा इति यावद्बुद्धधर्मा अस्य न परिपक्वाः । एवमित्युक्तेन क्रमेण । आरूढ उपार्जिताः । शेष सुबोधम् । इत्युपायकौशलस्य प्रयोगः ॥

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । शूरो निर्भीः । वीर्यमुत्साहः । प्रतिष्ठानं स्थैर्यम् । प्रतिभानमभ्यूहः । प्रतिपत्तिरनुष्ठानम् । यस्मिन्कालादौ यद्युक्तं तज्ज्ञानात्कालादिज्ञः । गतिः कायवाक्चित्तकर्मण्यता । तां गतः प्राप्तः । प्रहरणावरणं कवचादि । स्मृतिः स्मरणम् । मतिरभ्यूहः । गतिर्ज्ञानम् । धृतिर्धारणम् । नीतिर्नीतिज्ञानम् । विशारदः पण्डितः इति शत्रव एवऽशात्रवाऽ अन्तरायाः । तेषामतिक्रमश्चतुर्भिरप्रमाणैरिति प्रथममुपायकौशलम् ॥

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् । चरतीति गच्छति । न च भूमौ पततीति पातप्रतिषेधः स्थितिः । न च कञ्चिन्निश्रित्येति प्रतिष्ठाप्रतिषेधः । निश्रित्येत्यास्पदीकृत्य । विहरतीति तिष्ठति । न च तत्रापीति विहरणेपि निश्रितः । पतत्यपरिपूर्णैरिति । अत्र न पततीति न प्रतितिष्ठतीत्यर्थः । प्रतिष्ठाविरहादप्रतिष्ठ उपायः ॥

तद्यथापीत्यादि प्रागेवमुक्तात । वारयेदिति । आकाश एव स्थापयेत् । पतनं न दद्यादिति पतितुं न दद्यात् । उद्धर्व क्षिप्तस्य स(श)रस्येव शरान्तरैश्चिरमपाताय य आवेधस्तद्वदाबुद्धधर्मपरिपाकम(कं) साक्षात्करणाय चित्तस्य चित्तान्तरैर्य आवेधः । तदनतिक्रमेण वृत्तिर्यथावेधमुपायः ॥

(र्स्त्_१२७)
एवमुक्त इत्यादि प्राक्पुनरपरात् । चरति शमथेन । विहरति विपश्यनया । समाधिसमापत्तिरुभाभ्याम् । ममेति मया । अभिनिर्हरतीति निष्पादयति । समाधिश्चासौ विमोक्षश्च मुक्तिद्वारत्वात् । चित्तोत्पादश्चित्ताभिनिर्हारः । अनेनायं दुष्करकारकः । एष च सर्वश्रावकप्रत्येकबुद्धैरसाधारणत्वादसाधारण उपायः ॥

पुनरपरादि प्राक्पुनरपरात् । सत्त्व आत्मा पुरुषः । इन्द्रियाणि पञ्च श्रद्धादीनि । बलान्यपि पञ्चैव । बोध्यङ्गानि सप्त । मार्गोऽष्टाङ्गः । सत्त्वदृष्टिः सक्तिः । तत्प्रहाणाय सत्त्वानामभिसम्बुद्धः । सत्त्वान् देशयिष्यामीति सञ्चिन्त्य शून्यतादिसमापत्तिरसक्तिः । तद्योगादसक्त उपायः ॥

पुनरपरादि प्राक्पुनरपरात् । धर्मसंज्ञा स्कन्धधात्वादिसंज्ञा । स उपलम्भः । तत्प्रहाणायेत्यादि पूर्ववत् । एवं शून्यतादिसमापत्तिरनुपलम्भः । तद्योगादनुपलम्भ उपायः ॥

पुनरपरादि पुनरपरात्प्राक् । स्त्री पुमान् रूपं शब्द इति निमित्तसंज्ञा । तत्प्रहाणायेत्यादि पूर्ववत् । एवमनिमित्तसमापत्तिरानिमित्तम् । तद्योगादानिमित्त उपायः ॥

पुनरपरादि यो हीत्यतः प्राक् । देवः शक्रश्चक्रवर्त्ती स्यामित्यादिर्भवभोगाभिलाषः प्रणिहितम् । तस्य मूलं विपर्यासाः । तस्माच्चतुर्विपर्यासप्रहाणायेत्यादि पूर्ववत् । एवमप्रणिहितसमाधिरप्रणिहितं तद्योगादप्रणिहित उपायः ॥

यो हि कश्चिदित्यादि नैतत्स्थानं विद्यत इति यावत् । अनुपलम्भादीनामुपाया विमोक्षमुखत्रयं विषय उक्तः । सांप्रतमेषामनभिसंस्कारादिकमधिकं विषयममोघतां च ब्रवीति । अनभिसंस्कारे पतेदिति हीनबोधौ । त्रैधातुकेनेति संसारेण ॥

एवं हीत्यादि सुभूतिराहेत्यतः प्राक् । सम्यक्सम्बोधिकामेन बोधिसत्त्वेन विज्ञो बोधिसत्त्वः प्रष्टव्यः । सम्यक्सम्बोधये किं भावयेयं कथं च भावयेयमिति । स चेदाचक्षीत शून्यतादिकमेव भावय तच्च परिजयं मातुः साक्षात्कार्षीः । तत्रोपायः सर्वसत्त्वापरित्यागचित्तादिरिति । एतत्तस्याख्यातुरवैवर्तिकत्वे लिङ्गम् । तस्मात्तस्य लिङ्गमस्मिन्निति तल्लिङ्ग उपायः ॥

सुभूतिराहेत्यादि सचेत्पुनरित्यतः प्राक् । बहवो बोधाय चरन्ति तेष्वल्पकास्ते य एवं विसर्जयन्ति । व्याकृतास्तेऽवैवर्त्तिकत्वेऽसंहार्याः (र्स्त्_१२८) सदेवमानुषासुरेण लोकेन । यतस्तेऽल्पका अतोऽल्पप्रमाणा इत्यप्रमाण उपायः ॥

तदेवं नवमस्य पश्चार्द्धात्प्रभृति विंशतितमस्य पूर्वार्द्धं यावदेकादशपरिवर्ताः सर्वाकाराभिसंबोधिः ॥

इत ऊद्धर्वं मूर्द्धाभिसमयो वक्तव्यः । तस्योद्देशः पूर्वमुक्तः श्लोकद्वयेन षडक्षराधिकेन-

[१२३] लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः ।
चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १-१४ ॥
[१२४] प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि ।
आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १-१५ ॥
[१२५] मूर्धाभिसमयः

तस्याष्टौ वस्तूनि ।ऽलिङ्गविवृद्धिः निरूढिश्चित्तसंस्थितिःऽ । दृङ्मार्गे विपक्षप्रतिपक्षाः भावनामार्गे विपक्षप्रतिपक्षा आनन्तर्यसमाधिविप्रतिपत्तयश्चेति ।

तत्र लिङ्गमधिकृत्य शास्त्रम्-

[१२६] स्वप्नान्तरेपि स्वप्नाभा सर्वधर्मेक्षणादिकम् ।
मूर्द्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ ५-१ ॥

ऽमूर्धप्राप्तस्यऽ इति प्रकर्षप्राप्तस्य ।ऽयोगस्यऽ इति त्रिसर्वज्ञताप्रयोगस्य । स चेत्पुनरित्यादि वेदितव्या । स्वप्नान्तरगतोपि स्वप्नोपमान् सर्वधर्मान् पश्यति न च साक्षात्करोतीति प्रथमं लिङ्गम् ॥

पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतोपि श्रावकभूमौ प्रत्येकबुद्धभूमौ त्रैधातुके च स्पृहां न करोतीति द्वितीयम् ॥

पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतो महत्यां परिषद्युभयसङ्घपरिवृतं तथागतमात्मानं पश्यतीति तृतीयम् ॥

(र्स्त्_१२९)
पुनरपरादि वेदितव्यान्तरम् । स्वप्नान्तरगतो वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्म देशयति व्यामगतं चात्मानं संजानीते । भिक्षूंश्च निर्मितीत ये लोकधात्वन्तरेषु बुद्धकृत्यं कुर्वन्तीति चतुर्थम् ॥

पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतोप्यात्मनः परेषां वा वधबन्धनशिरश्छेदादीन् दृष्ट्वा नोत्त्रस्यति । विबुद्धस्य चैवं भवति स्वप्नोपमं सर्व त्रैधातुकं मया चाभिसंबुध्यैवं धर्मो देशयितव्य इति पञ्चमम् ॥

पुनरपरादि वेदितव्यान्तम् । स्वप्नान्तरगतस्य नैरयिकादीन् सत्त्वान् दृष्ट्वा एवं भवति । तथा करिष्यामि यथा मेऽभिसम्बुद्धस्य बुद्धक्षेत्रे त्रयोऽपायाः सर्वथा न भविष्यन्तीति षष्ठम् ॥

पुनरपरादि पुनरपरात्प्राक् । स्वप्नान्तरगतो यदि ग्रामदाहादौ वर्तमाने प्रतिविबुद्ध एवं समन्वाहरेत् । यथा मया स्वप्नेऽवैवर्तिकलिङ्गान्यात्मनि दृष्टानि तेन सत्येनायं ग्रामदाहादिः शाम्यत्विति । स चेच्छाम्यति तत्सप्तमं लिङ्गम् ॥

पुनरपरादि आपरिवर्तसमाप्तेः । यदि कश्चित्सत्त्वोऽमनुष्येण गृहीतोऽधिष्ठितः आविष्टो वा अन्तःप्रवेशात् । तत्र बोधिसत्त्वः सत्याधिष्ठानं कुर्यात् । यद्यहं व्याकृतः पूर्वबुद्धैरनुत्तरायां बोधौ यदि च मे परिशुद्धोऽध्याशयस्तामभिसम्बोद्धं यथा च नास्ति बुद्धानां किञ्चिदज्ञातम् । अनेन सत्येनायममनुष्योऽपक्रामत्विति स चेत्तस्मात्सत्याधिष्ठानातपक्रामति तदष्टमं लिङ्गम् ॥

उपायकौशल्यानां मीमांसा परिज्ञानं तदर्थः परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां विंशतितमः परिवर्तः ॥


२१. मारकर्मपरिवर्तो नामैकविंशतितमः ।

तत्र खल्वित्यादि । अयमेकविंशतितमः परिवर्तो मारकर्मणाम् । कस्तेषां प्रस्तावः? नवयानसंप्रस्थितस्य बोधिसत्त्वस्य सत्याधिष्ठानफलसम्पादनादिना मिथ्यामानोत्पादनाय बहुधा माराः । पराक्रमत इत्ययमेषां प्रस्तावः । (र्स्त्_१३०) तत्रेत्यनन्तरोक्ते सत्याधिष्ठाने । औत्सुक्यमिति प्राप्तावसरस्य कर्मणः करणार्थ मुत्साहः । बलमुत्साहशक्तिः । तेजः प्रभावशक्तिः । कथं तेजोवत्तरमिति यावत् । तसौ मत्वर्थ इति भत्वास्पदत्वं नास्तीति भत्वेन न भवितव्यम् । तद्यथा आयुष्मान् सरस्वानिति । एवं तर्हि दीप्त्यर्था[द्]द्रवतेः शत्रन्तात्तरप् । तेजसा दीप्ततरं तेजोवत्तरमिति । औत्सुक्यमिति । आत्मनि बहुमानम् । आवमंस्यत इत्यादि । अवमानोऽनादरः । उच्चग्घानमन्तर्हासः । उल्लापनं मनसान्यत्करणम् । कुत्सनं दोषदर्शिता । तंसनं दोषवादिता । सम्बोधावितीति । इतिशब्दो हेतौ । मानं जनयिष्यतीत्यादि । अत्र सशब्दस्य सर्वत्रेत्यर्थः । जननमुत्पादनम् । वधंनं पुरःसरीकरणम् । स्तम्भनं स्थिरीकरणम् । बृंहण परिपुष्टिः । उत्पादनमच्चैर्नयनम् । मानेनेत्यादि । अन्येभ्योऽधिकत्वेन चित्तस्योन्नतिः सामान्येन मानः स पूर्वमुक्तः । इह तु तद्विशेषा उच्यन्ते । या तस्य हीनादुन्नतिः स मानः । यादृशादेव सोऽतिमानः । यो पुनः प्रकृष्टात्स मानातिमानः । अप्राप्तेऽवैवर्तिकत्वे प्राप्तं मयेति सोऽभिमानः । या पुनरभूतैरवैवर्तिकगुणैर्गुणवानस्मीति स मिथ्यामानः । तथा रूपानिति महाभूतान् बोधिसत्त्वान् दृष्टवेति परेण सम्बन्धः । शेषं तेषामेव विशेषणम् । भजिष्यत इत्यत्र भजेरिट्प्रतिषेधो भवति संज्ञापूर्वकस्य विधेरनित्यत्वात् । तदेव मारबन्धनमिति
मानम् ।

पुनरपरमित्यादि । नामापदेशः संज्ञाकथनम् । मृदुको मृद्विन्द्रियः । आरण्यकत्वादयो धुतगुणाः । ग्रामाद्वहिः क्रोशात्परमरण्यम् । तत्रैव स्थानातारण्यकः । पिण्डपातस्यैव भोजनात्पिण्डपातिकः । पांसुकूलस्येव प्रावरणात्पांसुकूलिकः । मध्यान्हस्योपान्त एव भोजनात्खलु पश्चाभ्दक्तिकः । एकासन एव भुङ्क्ते एकासनिकः । सकृदास्तीर्णे नित्यं शयनात्याथासंस्तरिकः । त्रिचीवरादधिकत्यागात्त्रैचीवरिकः । श्मशानसमीप एव स्थानात्श्माशानिकः । वृक्षमूल एव स्थानात्वृक्षमूलिकः । निषद्यया रात्रिनयनान्नैषद्यिकः । अच्छन्नोऽवकाशोऽभ्यवकाशः । तत्रैव स्थानाताभ्यवकाशिकः । और्णकशानकादेरेव प्रावरणात्नामन्तिकः । अल्पैषणातल्पेच्छः । तावतैव सन्तोषात्सन्तुष्टः । एकाकित्वात्प्रविविक्तः । दृष्टे धर्मे तस्मिन्नेव जन्मनि भवो दृष्टधार्मिकः । तेन आदेक्ष्यति व्यपदेक्ष्यति । कथमित्याह पूर्वमपीत्यादि । यच्छब्दस्तस्मादर्थे । अधिष्ठानमाविष्करणम् । धुतगुणैः संलेखः कर्षणं धनुलेखनवत् । मन्यां करोतीति णिच् । यच्मन्यना मान इत्यर्थः । शेषं सुबोधं धुतगुणाः संविद्यन्त इति यावत् ।

(र्स्त्_१३१)
तस्य खल्वित्यादि । नामाधिष्ठानेनेति किमत्र नाम? अविनिवर्तनीयशब्दस्तद्गुणशब्दश्च । स्तम्भाभिभूत इति स्तम्भो गुरुष्वगौरवम् । कतमन्नामधेयमित्यत आह । यदेवेत्यादि । तेनेति बोधिसत्त्वेन । अनुवर्तितमित्यनुविचिन्तितम् । अस्यैव निर्देश उत्तराभ्याम् । अनुवितर्कितं किं मे नाम भवेदिति । अनुविचारितमिदं मे नाम भवेदिति । व्याकरिष्यतीत्यायाख्यास्यति मारः । अनुवर्तितमाकाङिक्षतम् । समेतीति संवदति । किं केन संवदतीत्यत आह नाम्ना नामेति । ततः किमित्याह व्याकृत इत्यादि । संधाव्य संसृत्येति तासु तासु दुर्गतिषूत्पद्य । यदि चेति चकारः समुच्चयार्थः सूक्ष्मसूक्ष्माणीति दुर्लक्ष्याणि ।

अरण्यं च यथोक्तम् । वनप्रस्थं च गिरिगुहा च श्मशानं च पलालपुञ्जश्चेति द्वन्द्वः । आदिशब्दाद्वृक्षमूलादि । आरण्यकानीत्यरण्ये भवानि । अत एव प्रान्तानि विजनपदानीति विजनस्थानानि । विविक्तानि शून्यानि । विविक्तो रहितः ग्रामस्यान्तः समीपमेकदेशो वा । मनसिकारविवेक इति मनसिकारेभ्यो विवेकः । मृदुना अभिनिवेशेन निश्रितः । मध्येन आलीनः । अधिमात्रेण अध्यवसितः । तेनैवात्मोत्कर्षणातध्यवसायमापन्नः । संकीर्णो गृहिप्रव्रजितैः । आकीर्णः प्रव्रजितैरेव बोधिसत्त्वचण्डालः तैरसंवास्यत्वात् । बोधिसत्त्वदूषी स्वदोषेण तेषां दूषणात् । बोधिसत्त्वप्रतिरूपको देहसाम्यात् । बोधिसत्त्वप्रतिवर्णिको नामसाम्यात् । बोधिसत्त्वकारण्डवकः हंसेष्विव तेष्वकृष्णेषु कृष्णत्वात् । चौरः श्रमणवेषेण धर्मग्रहणात् । चौरो बोधिसत्त्वानामसम्मतत्वात् । चौरः सदेवकस्य लोकस्य मिथ्यादक्षिणीयत्वात् । तज्जातीय इत्यादिना तावद्वशस्य सभ्दिरसेव्यतां विस्तरेणाह । स्थाम बलम् । अनार्याः पापाः । उद्विग्नं भीतम् । तत्रापि तावदिति तादृशेपि । मंत्रायमाणेनेत्यादिना मैत्र्यादिचतुष्टयविषयभेदानाह । एवं चेत्यादिना प्रणिधानम् । अयमपीति । यस्य खलु पुनरित्यादिकः सर्वः । अभिज्ञायेति । अत्युत्क[टः] पराक्रमः पुरुषकारः । इदमपीत्यादिना पश्चिममारकर्मोपसंहारः ॥

मारकर्मणामभिधायकः परिवर्तस्तथोक्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकविंशतितमः परिवर्तः ॥

(र्स्त्_१३२)
२२. कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः ।

अथ खल्वित्यादिना आसु खलु पुनरित्यतः प्राक् । प्रज्ञापारमितैवेति प्राधान्यादवधारणम् । यथा च सैका तया सहिताः षट् । अत आह । सर्वा एव चेत्यादि । कुत इत्याह । षडेवेत्यादि । ता एव निष्ठां गताः शास्ता यः परमं फलम् । ततः पूर्वान्त एव मार्गः । आलोको लोकोत्तरं ज्ञानं प्रमुदितायां सोपि ता एव । उल्का प्रयत्नवाही मार्गो विमलादिभूमिषु षट्सु सोपि ता एव । अवभासो दिवसालोकः । स चायत्नवाही मार्गोऽचलादिषु भूमिषु सोपि ता एव । अतश्च ता एव त्रीणि रत्नानि । तस्मात्ता एव शरणं यावत्दीपः । पदार्थः पूर्ववत् । ता एव माता धारणात्पोषणाच्च । ता एव पिता बिजाधानात् । ज्ञानायेति दर्शनाय । बोधायेति भावनामार्गाय । तक्तस्य हेतोरिति कुतः प्रज्ञापारमितैव यथोक्तगुणा नेतरा इत्यर्थः । अत्र हीत्यादिना परिहारः । त्रैयध्विकबुद्धानां च सर्वज्ञता तत्प्रसूतैवेत्याख्यातुमाह । येपीत्यादि । निर्जाता निष्पन्ना । अन्तर्गता इति यथायोगमन्तर्भूताः । बुद्धज्ञानादिपदानि पूर्वमेव व्याख्यातानि । सर्वभूतानामुपकारिभूतो भवतीति सम्बन्धः । कदेत्याह यदेत्यादि । इति कल्याणमित्रसेवा नवमं लिङ्गम् ॥

आसु खल्वित्यादि सुभूतिराहेत्यतः प्राक् । यस्मातियमेव प्रणायिका तस्मातपरप्रणेयता इत्यादि । तस्मादपरप्रणेयता दशमं लिङ्गम् ॥

सुभूतिराहेत्यादि । संक्लेशो व्यवदानं च प्रज्ञायत इति यावत् । असङ्गलक्षणेत्यनुपलम्भलक्षणा । सर्वधर्मस्वलक्षणानां तस्यामनुपलम्भात् । तथा रूपादयोपि शून्यत्वाद्विविक्तत्वात् । यदित्यादिना चोद्यं न चोद्यं न हीत्यर्थः । उदग्रहो निमित्तस्य अभिनिवेशो वस्तुत्वेन ग्राहः । तदेवमसङ्गलक्षणा भगवती धर्माश्च । तथाप्यस्ति संक्लेशोऽस्ति व्यवदानमित्येकादशमं लिङ्गम् ॥

सुभूतिराहेत्यादि स चेत्पुनरित्यतः प्राक् । अनवमर्दनीय इत्यसंहार्यः । अनेनापीति सर्वधर्मेष्वविविक्तेष्वित्यादिना अनवमर्दनीयत्वलाभो द्वादशं लिङ्गम् ॥ इत्युक्तानि लिङ्गानि ॥

विवृद्धिर्वक्तव्या । अतः शास्त्रम्-

(र्स्त्_१३३)
[१२७] जम्बूद्वीपजनेयत्ताबुद्धपूजाशुभादिकाः (काम्) ।
उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिकाम् ॥ ५-२ ॥

षोडशप्रकारा विवृद्धिरुक्ता सूत्रे । किं कृत्वा?ऽउपमां कृत्वाऽ । कीदृशीम्? जम्बूद्वीपे ये जनाः सत्त्वास्तेषामियत्तया सूत्रोक्तेन माहात्म्येन मनुष्यभावचित्तोत्पादलक्षणेन या बुद्धपूजा तया यच्छुभं पुण्यं तदादिर्यस्या उपमायाः, ताम् । आदिशब्दं (ब्दात्?) लब्धर (?)कारि(?)महामणिरत्नादिपरिग्रहः । बुद्धभूमिर्बहुभिः प्रकारैरुक्ता विनाप्युपमाम् ॥

तत्राद्या स चेत्पुनरित्यादिना तद्यथापीत्यतः प्राक् । यावज्जीवमिति यावदायुः । तद्दानमिति यद्बुद्धेभ्यो सर्वसत्त्वेभ्यः । मनसिकारैः विहरतीति विवृद्धिसंगृहीतैः । स्थापयित्वेति त्यक्त्वा । तत्तेषां स्थापनं कस्य हेतोः? वध्यगतानिवेति वध्यस्थानगतानिवा(व) । विरागयत इत्यप्राप्तवतः । इतिप्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानां नयनात्प्रथमा विवृद्धिः ॥

तद्यथापीत्यादि न च परिहीयत इति यावत् । प्रज्ञापारमितेति तावदन्वेष्टव्येति सम्बन्धः । कीदृशेन? अविरहितसर्वज्ञताचित्तेन । अविरहितात्पूर्वं मनसिकारशब्दः क्वचित्पठ्यते । सा वान्या वेति पुस्तकभेदात् । प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः क्षणमप्यविरहाद्द्वितीया विवृद्धिः ॥

सुभूतिराहेत्यादि नेतत्स्थानं विद्यत इति यावतनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भाद्व्याकरणलाभ इति तृतीया ॥

सुभूतिराहेत्याद्या परिवर्तान्तात् । व्याकरणेऽभिसम्बोधे च निर्मानत्वाच्चतुर्थी ॥

कल्याणमित्रादिः परिवर्तो कल्याणमित्रपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वाविंशतितमः परिवर्तः ॥


(र्स्त्_१३४)
२३. शक्रपरिवर्तो नाम त्रयोविंशतितमः ।

तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक् । सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वोऽभिभवति । तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः ॥

एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात् । चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी ॥

शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः ॥


२४. अभिमानपरिवर्तो नाम चतर्शितितमः ।

अथ खल्वित्यादि कथं चानन्देत्यतः प्राक् । आलीनो भवतीति अनुलग्नो भवति । कथमित्याह । एष इत्यादि यावत्परिपूरयिष्यतीति । न ह्येवमित्यादि । यथान्यसूत्रेषु तथागतभाषितं युज्यमानमेवमत्र नास्तीत्यर्थः । गाधः प्रतिष्ठा । आस्वादो रुचिः । नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत् । उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः ॥

कथं चेत्याद्या पविर्तान्तात्सर्वं सुबोधम् । इत्यष्टमी विवृद्धिः ॥

योयमविनिवर्तनीयोऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तोऽभिमानपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः ॥


२५. शिक्षापरिवर्तो नाम पञ्चविंशतितमः ।

अथ खल्वित्यादि पारं गच्छतीति यावत् । क्व शिक्षमाणः सर्वज्ञतायां शिक्षत इति प्रश्नः । क्षयेऽनुत्पादेऽनिरोधेऽजातौऽभावे (र्स्त्_१३५) विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाण इत्युत्तरम् । अत्रोपपत्तिः । या हि तथागतस्य तथता ययासौ तथागतः न सा क्षीयतेऽक्षयत्वात्[अ?] क्षयस्य । न च सा उत्पद्यते व निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा आकाशीभवति वा धर्मीभवतीति वा निर्वाति वा । एवं शिक्षमाणः प्रज्ञापारमितायां शिक्षत इत्यनेन मार्गमाह ॥

बुद्धभूमौ शिक्षत इत्यनेन फलमाह । अमृतधातुर्मोक्षधातुः । नाथकामा इति नाथत्वकामाः । अभ्युद्गततेत्युत्कृष्टता । शकुनीन् ध्नन्ति शाकुनिकाः । निषादा मृतपा(? मृगयवः) । धीवराः कैवर्ताः । उरभ्रा मेषाः । तान् ध्नन्तीति औरभ्रिकाः । अन्धोऽचक्षुः । बधिरोऽश्रोत्रः । काण एकाक्षः । कुण्ठो वक्रबाहुः । कुब्जो भग्नपृष्ठः । कुणिः करविकलः । लड्गः संहतजानुः । खञ्जो विकलगतिः । जडो निष्प्रतिभः । लोलोऽस्थिरपदः । लल्लोऽकर्मण्यजिव्हः । कल्ल उच्चैः शब्दश्रावी । हीनाङ्गो निन्दिताङ्गः । विकलाङ्ग ऊनाङ्गः । विकृताङ्गो मनुष्यविसदृशाङ्गः । निगच्छतीति निष्पादयति । तामनुप्राप्नोतीति बलादिपरिशुद्धिम् । जानमिष्यामः पश्ययिष्याम इति । शत्रन्तात्करोत्यर्थे णिच् । टिलोपः । शेषं सुबोधं यावत्पारं गच्छन्ति । इति नवमी विवृद्धिः ॥

तद्यथापीत्यादि पुनरपरात्प्राक् । सुवर्णजातरूपादयः गोबलीवर्दन्यायेन । ऊषराः सक्षारमृत्तिकाः । उज्जङ्गला उच्च(?)निर्जलाः । तृणं वीरणादि । खाण्डः सु(शु)ष्कतरुकीलकः । कण्टकाधानः कण्टकीमदनादिर्विविधास्ते येषु । शेषं सुबोधम् । इति दशमी ॥

पुनरपरादि पुनरपरात्प्राक् । चक्रवर्तिराज्यं संवर्ततेऽस्मादिति तत्संवर्तनीयम् । इत्येकादशी ॥

पुनरपरादि पुनरपरात्प्राक् । शक्रः संवर्ततेऽस्मादिति तत्संवर्तनीयम् । इति द्वादशी ॥

पुनरपरादि पुनरपरात्प्राक् । ब्रह्मा संवर्ततेऽस्मादिति तत्संवर्तनीयम् । इति त्रयोदशी ॥

पुनरपरादि जीवितेन्द्रियवाक्यात्प्राक् । कुशलसस्यप्ररोहविरोधिनो रागद्वेषमोहाः खिलाः । विचिकित्सा सत्यरत्नेषु विमतिः । ईर्ष्या परसम्पत्तौ व्यारोषः । शेषाः षट्पारमिताविपक्षाः । शेषं सुबोधम् । इति चतुर्दशी ॥

(र्स्त्_१३६)
तद्यथापीत्यादि स चेत्पुनरित्यतः प्राक् । अज्ञान इति प्रज्ञापारमिताविपक्षे । पुण्याग्रः पुण्यैरग्रः । तदेव दर्शयितुमाह तत्किमित्यादि । बुद्धविषयो बुद्धधर्मसाकल्यम् । वशवर्ती वृषभिः । तभ्दावस्तत्ता । विक्रीडितमृद्धिप्रातिहार्येण । सिंहनादनदनमनुशासनीप्रातिहार्येण । बुद्धानां सम्पत्तिरुभयार्यसंघैश्चर्यम् । व्यवचारयति परिज्ञानात् । न च प्रतिवहति तेष्वनवस्थानात् । शेषं सुबोधम् । इति पञ्चदशी ॥

स चेत्पुनरित्याद्यापरिवर्तान्तात् । अथ तामपि न सञ्जानीते । कथमित्याह इयं सेत्यादि वाशब्दान्तम् । एवमपीत्येभिरेव त्रिभिराकारैः । स चेदेवं चरतीति तथैवासंजानन्नसमनुपश्यन् । इति षोडशी विवृद्धिः ॥

शिक्षाया वाचकः परिवर्तः शिक्षापरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चशिंतितमः परिवर्तः ॥


२६. मायोपमपरिवर्तो नाम षड्विंशतितमः ।

उक्ता विवृद्धिः । निरूढिर्वक्तव्या । अतः शास्त्रम्-

[१२८] त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा ।
अपरित्यक्त्वसत्त्वार्था निरूढिरभिधीयते ॥ ५-३ ॥

त्रिभिः सर्वज्ञत्वैः संगृहीता धर्माःऽत्रिसर्वज्ञत्वधर्माःऽ । तारणमोचनाश्वासनपरिनिर्वापणानिऽसत्त्वार्थाःऽ । अतः सूत्रेऽथ खल्वित्यादि विहरन्तीति यावत् । चरन्नपीति क्व चरन्? विवृद्धौ । किं चरन्? दानादीन् । चित्तं क्रामतीति गच्छतीति प्रसीदतीत्यर्थः । चित्तमुत्पादितमित्यहो बताहमेनामधिगच्छेयमिति । उह्यमानानिति ह्रियमानान् । समे युक्ते निर्दोषे । पारिमे तीर इति निर्वाणे । समृध्यन्तां तेषामिति चित्तोत्पादा इति परेण सम्बन्धः । अभीप्सिताः प्रीतिकरत्वात् । परिचिन्तिताः पुनःपुनरुत्पादनात् । परिगृहीता अपरित्यागयोगेन । बुद्धधर्माणामिति बुद्धः सर्वज्ञः । तस्य धर्माणामित्ययमुद्देशः ।

तस्य निर्देशस्त्रिभिः सर्वज्ञत्वैः सर्वज्ञभावैः यतः स सर्वज्ञो भवति सर्वज्ञता च स्वयम्भूंत्वं च, असंहार्यता च । तत्र सर्वाकारसर्वधर्मसम्यग्ज्ञानमिह सर्वज्ञता । स्वयमेव चित्तादेव भवन्त्यस्य धर्मा इति स्वयंभूः । सर्वधर्मवशवर्तीत्यर्थः । तस्य धर्माः स्वयंभूत्वेन ये संगृहीताः । नास्य संहारमस्तीति असंहार्यः । (र्स्त्_१३७) सवासनसर्वावरणनिर्मुक्त इत्यर्थः । तस्य धर्मा येऽसंहार्यत्वेन संगृहीतास्तेषां सर्वेषां परिपूरणाय भवन्त्विति इयता परिपूरिरुक्ता ॥

सत्त्वार्थापरित्यागमाह । न मे भगवन्नित्यादिना । इमैरिति सौत्रो निर्देशः । अतो भिस ऐस्भवति । इदोऽनादेशश्च न भवति । इमैरित्युक्तम् । कतमैरित्याह । किमितीत्यादि । किमितिशब्दस्य कथं नामेत्यर्थः इति निरूढिः ॥

चित्तस्य संस्थितिः । सा वक्तव्या । समाधिरित्यर्थः । अतः शास्त्रम्-

[१२९] चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः ।
कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ ५-४ ॥

सूत्रे पुण्यबहुत्वेन समाधिरुक्तो न साक्षात् । कथम्? चतुर्द्विपकश्च लोकधातुः साहस्रश्च द्विसाहस्रकश्च त्रिसाहस्रकश्च तैरुपमाः कृत्वा । कतमेन ग्रन्थेन? यस्तेषां भगवन्नित्यादिना अभिनिर्हृतानि भगवन्तीत्येतदन्तेन । तेषामिति सर्वेषाम् । तानिति प्रतिरूपान् । धर्मता धर्मसमूहः स्वभावो वा । पलाग्रेणेति पलप्रमाणेन प्रमाणं ग्रहीतुमियन्ति पलानीति । अथ किं कस्यात्रोपमानम्? पुण्यपरिमाणस्य जम्बूद्वीपादिपरिमाणम् । शास्त्र उपचारः कृतः । नन्वनुमोदनामात्रस्यैतत्पुण्यपरिमाणं न समाधेः? अनुमोदनापुण्यानुमोदनेन पुण्यबहुत्वेनेत्यभिप्रायाददोषः ।

अनुमोदनायाः परिपूरणार्थं तामकुर्वतां च निन्दार्थमाह । एवमित्यादि । माराधिष्ठिता इति मारेण महापापेन निरुत्साहीकृताः । न शृण्वन्ति शब्दतः । न जानन्त्यर्थतः । न पश्यन्त्यादरतः । न समन्वाहरन्तीति नाभिमुखीकुर्वन्ति । मारपक्षे भवाः मारपाक्षिकाः । तद्वदेव महतः सत्त्वार्थस्य विघातकरणात् । मारभवनेभ्यश्च्युता इति । मारा एव अत्यन्तं तत्साधर्म्यात् । अभिनिर्हृता इति निष्पादिताः । कैरित्याह । यैरित्यादि । येषामित्यादि च ।

एवमुक्त इत्यादिना अनुमोदितव्यान्तेन शक्रप्रशंसा ।

यरित्यादिना यैरपीत्यतः प्राक् । महायानप्रस्थितानामनुमोदनानुशंसाः ।

यैरपीत्यादिना प्रथमचित्तोत्पादिकानामपि न केवलमनुमोदितानि स्वसन्ताने चावरोपितान्यभिनिर्हृतानि च भवन्ति । अनुमोद्य चावश्यं परिणामना कर्तव्या । यथा च ते कर्तव्ये तथानुमोदनापरिणामनापरिवर्ताद्वेदितव्यम् । यथोक्तं महत्योभगवत्योः-ऽतानि कुशलमूलानि अनुमोद्यानुत्तरायां (र्स्त्_१३८) सम्यक्सम्बोधौ परिणामयितव्यानि । तथा च परिणामयितव्यानि यथा न चित्तं चित्ते चरति न चान्यत्र चित्तात्" इत्यादि । तदेवमनुमोदनासहगतं कुशलमूलमस्य समाधेरालम्बनं सम्यक्सम्बोधौ परिणामनमाकारः । चित्तसंस्थितिः स्वभावः । क्व संस्थितिः? न चित्ते ग्राहकलक्षणेन न वान्यत्रेति न सर्वधर्मेषु । किं तर्हि? सर्वधर्मतथतायामद्वयायामिति चित्तसंस्थितिः ॥

दर्शनहेया विकल्पाः सप्रतिपक्षा वक्तव्याः । तानधिकृत्य शास्त्रम्-

[१३०] प्रवत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ ।
ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ ५-५ ॥

द्वौ तावद्विकल्पौऽग्राह्यौऽ ग्राह्यस्य विकल्पनात् । कथंऽविकल्पौऽ? यतस्तयोरात्मा न यथाविषयं वितथः कल्पो विकल्प इति कृत्वा । तौ पुनः कस्मिन्विषये? प्रवृत्तिपक्षे च ।ऽप्रत्येकंऽ इत्युभयोरपि पक्षयोः ।ऽनवात्मकौऽ नवप्रभेदौ ॥

[१३१] द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ ।
पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ ॥ ५-६ ॥

अपरौ द्वौऽविकल्पौ ग्राहकौऽ ग्राहकस्य विकल्पनात् । कथं द्वौ? यथाक्रमं द्रव्यसतः प्रज्ञप्तिसतश्च सत्त्वस्य विकल्पनात् । तत्र प्रथमं पृथग्जनानां द्वितीयमार्याणाम् । तावपिऽप्रत्येकं नवात्मकौऽ । कथं तौ ग्राहकविकल्पौ? असत एव ग्राहकस्य कल्पनात् । वितथो हि कल्पो विकल्पः । एतदेवाह-

[१३२] ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ ।
इति ग्राहकभावेन शून्यता लक्षणं तयोः ॥ ५-७ ॥

ऽग्राहकभावेनऽ इति ग्राहकसत्त्वरूपेण ।ऽतयोःऽ इति ग्राहकविकल्पयोः ॥

चत्वारोप्यमी विकल्पा विषयभेदेन प्रत्येकं नवविधाः । अत आद्यमधिकृत्य शास्त्रम्-

[१३३] एष स्वभावे गोत्रे च प्रतिपत्समुदागमे ।
ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ ५-८ ॥
[१३४] स्वस्मिन्नधिगमे कर्ततत्कारित्रक्रियाफले ।
प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ ५-९ ॥

(र्स्त्_१३९)
ऽकर्तृतत्कारित्रक्रियाफलेऽ इति कर्तरि तत्कारित्रक्रियाफले चेत्यर्थः । स्वभावादिनवकं प्रवृत्तिपक्षः । बोधिसत्त्वोपादेयत्वात् । तदधिष्ठान एष विकल्पः । तस्मात्प्रथमः । अतः प्रथमं विकल्पमधिकृत्य सूत्रे नववाक्यानि ।

तत्राद्यमधिकृत्य सूत्रम् । सुभुतिराह । कथं च भगवन्मायोपममित्यादि तद्यथापित्यतः प्राक् । मायाकारनिर्मितं गजादिकं माया । तद्वदन्यदपि यत्ख्याति नेहास्ति तत्मायोपमम् । त था च चित्तम् । ग्राहकलक्षणत्वात्ग्राहकस्य चासत्त्वात् । न ह्यसति ग्राह्ये ग्राहकं युक्तम् । ग्राह्याभावः कथमिति चेत् । यदि ज्ञानेनार्थः प्रकाश्येत स्याद्ग्राह्यत्वम् । न च प्रकाश्येत । अप्रकाशस्य प्रकाश्यविरोधात् । अथार्थः प्रकाशात्मैव । किं तस्य ज्ञानेन? तस्मान्मायोपमं चित्तं तदसत्कथमभिसंबुध्यत इति प्रश्नः । उत्तरं तत्किमित्यादिना । नो हीदं नो दीदमित्यसत्त्वादिति भावः । अन्यत्रेत्यन्यम् । तं धर्ममित्यात्मानम् । नो हीदमिति तस्यात्यन्तमसत्त्वादिति भावः ।

एतदेव स्फुटीकर्तुमाह । नाहमित्यादि । अस्तीति नास्तीति वा निर्देशं नोपैति । असतोऽविज्ञातरूपस्य विधिप्रतिषेधाभ्यामसम्बन्धादिति भावः । योपि धर्म इत्यादि सुगमम् । तस्मात्तर्हीत्यादि । तर्हिशब्दोऽक्षमायाम् । तस्मादिति ग्राहकलक्षणत्वात् । ग्राहकत्वस्य वायोगात् । अत्यन्तग्रहणेन चैतदाह । यथेयं स्वेन लक्षणेन ग्राहकत्वेन शून्य तथा सर्वैः संप्रयोगिभिः, तेषामपि ग्राहकलक्षणत्वात् । आलम्बनभूतैश्च सर्वधर्मैः, आलम्बनस्य ग्राह्यलक्षणत्वात् । धर्माणां च यथायोगं ग्राह्यग्राहकलक्षणत्वात् । कथं पुनर्ग्राहकौ न स्तः? अभेदे ग्राह्यग्राहकत्वायोगात्, अङ्गुल्यग्रवत् । भेदे जडस्य परतोपि प्रकाशायोगात् । अजडस्य स्वयमेव प्रकाशात् । नासौ भावयितव्यः । न पुनःपुनर्बुद्धौ निवेश्यः खरविषाणवत् । नाप्यसावित्यादि । कस्यचिद्धर्मस्येति सम्यक्सम्बोध्यादेः । आवाहक आहारकः । निर्वाहको निष्पादकः । असतोऽकिञ्चित्करत्वात् । प्रतीत्यसमुत्पाद एष एनं प्राप्य बोधिसत्त्वः संबुध्यत इति चेदाह । कथं चेत्यादि । न ह्यसत्प्राप्यत इति भावः । अनुत्तरापीत्यादि । अत्यन्तविविक्ता प्रज्ञापारमितावत् । कथं भवतीति नैव भवति । अत्यन्तासतोः साध्यसाधनत्वायोगादिति भावः ।

एवमुक्त इत्यादि । यत एव अत एवेति । हेत्वनुरूपत्वात्फलस्येत्यर्थः । स चेदित्यादिना हेतुं परिपूरयति । यदि हि संजानीते तदा विकल्पः स्यात्न प्रज्ञापारमिता । एवमित्यादिनोपसंहारः । नाप्यभिसंबुध्यत इत्यभिसंबोधेरविकल्पनादिति भावः । अभिसबुध्यते चेत्यादि । परिकल्पितेन हि रूपेण त्रयमिदं नास्ति तच्छून्येन तु विज्ञप्तिरूपेणास्तीति भावः । तथापि संवृत्तिरेषां यथा (र्स्त्_१४०) प्रतिभाससमत्वात् । शून्यता तु परमार्थः । गम्भीरेऽर्थे चरतीति यतोऽस्मिन्नर्थे न शक्यतेऽन्यैश्चरितुम् । दुष्करकारक इति । यतः स भगवान् साक्षात्कर्तुं शक्तोपि न साक्षात्करोति सत्त्वावेक्षया । भाषितस्यार्थमिति आभिप्रायिकमर्थम् । दुष्करमन्येषां सुकरं बोधिसत्त्वस्येति भावः । कुतः सुकरम्? उपायकुशलत्वात् । स चोपायः प्रज्ञापारमितैव । अतस्तमेवाह तथाहीत्यादिना । य इति बोधिसत्त्वः । य इति गम्भीरोऽर्थः । येनेति प्रज्ञापारमिताख्येन । अथास्यां प्रज्ञापारमितायां चरतः सा चर्या कियता भवतीत्यत आह । स चेदित्यादि । न संसीदतीति न भज्यते । अयमुद्देशः । अस्य निर्देशः षोढा । नावलीयत इति नास्यां मध्यप्रेमा । न संलीयत इति नास्यां मृदुप्रेमा । न विपृष्ठीभवतीति नाप्रेमा । नोत्त्रस्यतीति नैनां त्यक्तुकामः । न संत्रस्यतीति न त्यजति । न संत्रासमापद्यत इति न प्रबन्धेन त्यजति । तदेवं षड्विधभङ्गप्रतिषेधादेतद्गम्यते योस्यामभिमुखीभूतायामत्यन्तं प्रीयते सोऽस्यां चरतीति । अपरमाह स चेदित्यादिना । अपरमाह । आसन्नेत्यादिना । अपरमाह दूरीकृतेत्यादिना । इह स्वभावादयो नवार्थाः । प्रवृत्तिपक्षे बोधिसत्त्वैरुपादेयत्वात् । तेषु विकल्पः सम्मोहोऽसम्यग्ज्ञानम् । तत्राद्यः स्वभावविकल्पः । स्वभावः स्वाभिप्रायः । अहमनुत्तरां
सम्यक्सम्बोधिमधिगच्छेयं तन्मार्गेणेति । बोधिचित्तमित्यर्थः । तस्मिन् विकल्पः । आकारो बोधेः प्रज्ञापारमितायाश्च शून्यतायां यदज्ञानमसमाहितज्ञानं च । समाहितज्ञाने च तिस्रो मन्यना । अहं चरामि आसन्ना मे महाबोधिरहं वा दूरे हीनबोधेः स्यामिति । अस्य प्रतिपक्षः कथं भगवन्मायोपमं चित्तमित्यत आरभ्य तद्यथापीत्यतः प्राक् । इति स्वभावविकल्पः ॥

तद्यथापीत्यादि । आसन्ना मे महाबोधिर्दूरे हीनबोधी यतोहं बुद्धगोत्र इति सम्मोहः । अस्य प्रतिपक्षः । आकाशसमत्वाद्गोत्रस्य तद्वदविकल्पा प्रज्ञापारमितेति गोत्रविकल्पः ॥

तद्यथापीत्यादि । अस्ति मे प्रतिपत्तिसमुदागमः । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः । तस्य प्रतिपक्षः समुदागमस्य मायापुरुषोपमत्वादविकल्पा प्रज्ञापारमितेति प्रतिपत्समुदागमविकल्पः ॥

तद्यथापीत्यादि । प्रतिभासः प्रतिबिम्बः । ज्ञानप्रतिभासस्य प्रतिभासत्वेनैव यद्ज्ञानं न त्वालम्बनस्य च । सेह ज्ञानस्यालम्बना भ्रान्तिः । सा मम जाता । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः । तस्य प्रतिपक्षः प्रतिबिम्बवदविकल्पा प्रज्ञापारमितेति आलम्बनाभ्रान्तिविकल्पः ॥

(र्स्त्_१४१)
तद्यथापीत्यादि । प्रतिपक्षो हन्ता विपक्षो हन्तव्य इति संमोहः । अस्य प्रतिपक्षो यथा तथागतस्य प्रियाप्रियौ न स्तस्तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपीति प्रतिपक्षविपक्षविकल्पः ॥

यथैव हीत्यादि अभूतकल्पनात्कल्पः । तस्य विगमकल्पनाद्विकल्पः । तौ प्रहीणौ यथा तथागतस्य तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपि । तत्र कल्पविगमो विकल्पः स्वाधिगमसंमोहः । तस्य प्रतिपक्षः कल्पविकल्पप्रहीणा प्रज्ञापारमितेति स्वाधिगमविकल्पः ॥

तद्यथापीत्यादि । प्रज्ञापारमितामहं भावयामि । तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति कर्तरि सम्मोहः । तस्य प्रतिपक्षः । कर्तुस्तथागतनिर्मितोपमतत्तद्वदेव कर्तरि निर्विकल्पा प्रज्ञापारमितेति कर्तरि विकल्पः ॥

तद्यथापीत्यादि । स च तथागतनिर्मितो यदर्थं निर्मितस्तच्च कृत्यं करोति । न च तां क्रियां विकल्पयति । तद्वद्बोधिसत्त्वः प्रज्ञापारमितां भावयति न च विकल्पयतीति प्रतिपक्षः । बोधिविकल्पनं क्रियाफलविकल्पः ॥

तद्यथापीत्यादि [आ परिवर्ता]न्तात् । शिल्पिना यदर्थ दारुयन्त्रमयः पुमान्कृतः स तदर्थ करोति न विकल्पयति । तद्वद्बोधिसत्त्वो बोधये, न (तां) बोधिं प्राप्स्यति न च तां विकल्पयतीति प्रतिपक्षः । बोधिविकल्पनं क्रियाफलविकल्पः ॥

मायोपमचित्तोपलक्षितः परिवर्तो मायोपमपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षडिंवशतितमः परिवर्तः ॥


२७. सारपरिवर्तो नाम सप्तविंशतितमः ।

मायोपमपरिवर्तस्यान्ते प्रथमो ग्राह्यविकल्प उक्तः । इतरे त्रयो विकल्पा इह सारपरिवर्ते वक्तव्याः । तत्र द्वितीयं ग्राह्यविकल्पमधिकृत्य शास्त्रम् ।

[१३५] भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च ।
परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ ५-१० ॥
(र्स्त्_१४२)
[१३६] परप्रत्ययगामित्वे समुद्देशनिवर्तने ।
प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ ५-११ ॥
[१३७] पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः ।
निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ ५-१२ ॥

अधिगमन्यूनतादौ दोषे बोधिसत्त्वप्रहेये[ऽ]भावान्निवृत्तिपक्षाधिष्ठानो नवविधश्च श्रावकादीनां मनोभवस्तैरहेयत्वात् । एतानाह अथ खल्वित्यादिनाथ खलु भगवानित्यतः प्राक् । तत्र शारिपुत्र एकमाह । ततः सुभूतिरेकं ततो देवपुत्रास्त्रीन् । पुनः सुभूतिश्चतुरः । इहापि प्रतिपक्षाः पठ्यन्ते । तद्विपर्ययेण विकल्पा गम्यन्ते । सारे बतायमिति बतशब्दो हर्षे । उत्कृष्टं फलं सम्यक्संबोधिः । सोऽनुसारः । तन्निमित्तं बोधिसत्त्वश्चरति । कतम इत्याह । य इत्यादि । प्रज्ञापारमिता चात्र उभयनैरात्म्यज्ञानमुच्यते । तस्यां चरतः संसारे नात्यन्तमुद्वेगो निर्वाणे नात्यन्तमुत्कण्ठा । उभयोरनुपलम्भत्वात् । ततोयमनुत्तरां सम्यक्सम्बोधिमधिगच्छेदिति प्रतिपक्षः । अन्यथा तु संसारे वा पतेत्पञ्चभिः पारमिताभिः । निर्वाणे वा पुद्गलनैरात्म्यज्ञानात् । अत एव च विना प्रज्ञापारमितया बोधिसत्त्वो बोधिसत्त्वाख्यां न लभते । तद्यथा सम्यगभिषिक्तोपि चक्रवर्तिनः पुत्रश्चक्रवर्तिशब्दं विना सप्तभी रत्नैरित्यधिगमन्यूनताविकल्पः ॥

सरणं सारः । कर्म धर्मः । गम्यता सुधर्षणतेत्यर्थः । विपर्ययादसारो दुर्द्धर्षणता । अतः पारमितानां दुर्द्धर्षणत्वे स चरति यश्चरति प्रज्ञापारमितायाम् । सा हि तासां परिग्रहसमर्था । तद्यथा स्त्रीणां सधूर्तके नगरमार्गे शस्रपाणिपुरुष इति प्रतिपक्षः । अन्यथा सुधर्षणाः स्युरिति परिग्रहाभावविकल्पः ॥

एतदभवदिति नमस्कर्तव्या इत्याद्यथ खल्वित्यतः प्राक् । नमस्कर्तव्यास्त इति कुतः? प्रतिपत्तिसाकल्यादपराधीनत्वादुद्देशानिवृत्तेश्च । अत एवाहुः यैरित्यादि । सर्वमभिनिर्हृतानीति प्रतिपत्तितः पञ्चभिः पारमिताभिः । इहेत्युभयनैरात्म्यवेदिन्याम् । अत एव गम्भीरायामिति प्रतिपक्षः । तस्यामचरतां प्रतिपत्तिवैकल्यं स्यात् । ततस्ते मारादिभिः सुयोधनाः स्युः । अक्षतकवचा इव योधाः प्रतियोधैरिति प्रतिपत्तिवैकल्यविकल्पः ॥

तथेत्यादि । ये चेति वर्तते । तथेति प्रज्ञापारमिताप्रधानासु पारमितासु चरन्त इति हेतौ शतृप्रत्ययः । तथा चरणादित्यर्थः । ततः किमित्याह । भूतकोटिरित्यादि । यथा हि चक्रवर्ती प्रधानं महाप्रभावत्वात्, कोद्रारातीः (? कोट्टराजानः) (र्स्त्_१४३) तदनुवर्तिनस्तथैव प्रज्ञापारमिता प्रधानं तया संसारनिर्वाणयोरनुपलम्भात् । यथा ते पारमिताभिः संसारे न पात्यन्ते तथा पुद्गलनैरात्म्यज्ञानवशेन भूतकोटिं न साक्षात्कुर्वन्ति । यदि तु प्रज्ञापारमिता प्रधानं न स्यात्तदा हीनबोधिं भूतकोटिं साक्षात्कुर्युरेवेति परप्रत्ययगामित्वविकल्पः ॥

अनेनापीत्यादि । अनेनेति वक्ष्यमाणेन । तमेवाहुर्य इत्यादिना न साक्षात्कुर्वन्तीति । कुतः? उद्देशः सम्यक्संबोधौ लित्सा । कुतस्तस्मादनिवृत्तिः? यतो न तावत्प्रज्ञापारमिता ततो निवर्तते तदर्थमेव तस्यां चरणात् । नापीतराः । तदनुप्रविष्टानां तासामप्यनिवृत्तेः । तद्यथा सर्वाः कुनद्यो महानदीमनुप्रविश्य समुद्रमेव गच्छन्ति न निवर्तत इत्युद्देशनिवृत्तिकल्पः ॥

नवाप्येते विकल्पा महत्योर्भगवत्यो स्वार्थसम्पत्तिमधिकृत्य योजिताः । अतः प्रादेशिकत्वनानात्वविकल्पौ यथा तयोरुक्तौ तथा तावद्ब्रूमः । पारमितापञ्चकं वामहस्तवत् । षष्ठी दक्षिणहस्तवत् । उभाभ्यां सर्वकृत्येषु व्यापारसिद्धेरिति प्रतिपक्षः । यदि तु दक्षिणहस्तप्राया षष्ठी न स्यात्तदा प्रादेशिकः स्याद्व्यापार इति प्रादेशिकविकल्पः ॥

यथा हि नानारसाः कुनदीमहानद्यो महासमुद्रमनुप्रविश्यैकरसा भवन्ति तथा नानारसाः पञ्च पारमिताः षष्ठीमनुप्रविश्यैकरसा भवन्तीति प्रतिपक्षः । नानारसाः तथैव ताः सम्यक्सम्बोधावपीति नानात्वविकल्पः । अस्यां तु भगवत्यां परार्थसन्नाहमधिकृत्य द्वाविमौ विकल्पौ सुभूतिराहेत्यादिना । अथ खल्वित्यादिना तत्र सन्नह्यन्त इत्यनेन दुष्करत्वं दर्शितमनन्तानां सत्त्वानामर्थस्य कर्तुमशक्यत्वात् । तथाप्येवमेव सन्नाहः कर्तव्य ईदृशीं महाशयतामन्तरेण स्वपरार्थयोः कर्तुमशक्यत्वादिति प्रतिपक्षः । सर्वसत्त्वानामर्थस्य केनचिदकरणादात्मविनेयानामर्थाय सन्नाहः कर्तव्य इति प्रादेशिकत्वविकल्पः ॥

नानात्वविकल्पप्रतिपक्षः समता । तामेव विवक्षुः परमदुष्करत्वमाह ते चेत्यादिना । वैनयिका इति विनयार्हाः सत्त्वाः । तथापि कस्य दुष्करतेत्यत आह । एवं चेत्यादि । दृष्टान्तेन दृढीकर्तुमाह । आकाशमित्यादि । तत्कस्य हेतोरिति कुतः साधर्म्यादित्यर्थः । अत उत्तरमाकाशेत्यादि । अनेनेत्युपसंहारः । पुनद्र्दृढीकर्तुमाह । आकाशेनेत्यादि । आकाशोपमैः सत्त्वैरित्यर्थः । कुतो विवाद इत्याह । अयं चेत्यादि वेदितव्यान्तम् । चशब्दो हेतौ । विवादः कलहः । सत्त्वानयं विनेतुकामस्ते चासत्त्वात्परिहरन्तीति कलहः । वैनयिकेत्यादि । यथा च विनेया न सन्ति तथा विनयितापि । तत उभयासत्तया सुतरां परमदुष्करता । एवमियं बोधिसत्त्वेन सर्वसत्त्वात्मसमता द्रष्टव्या यतः शक्नुयात्(र्स्त्_१४४) स्वपरार्थौ कर्तुम् । स पुनरस्यां चरन् कथं ज्ञेय इत्याह । स चेदित्यादि । न संसीदतीति न खिद्यते सुतरां प्रीयत इत्यर्थः । तत्कस्य हेतोरिति । मत्तस्य प्रज्ञापारमितायां चरणं कस्य हेतोर्नैव कस्यचित् । धर्मनैरात्म्यादर्शनादिति भावः । अत उत्तरं सत्त्वविविक्ततयेत्यादि । एवमित्यादिना द्रष्टव्यान्तेनोपसंहारः । विविक्तता हि सर्वधर्माणां समतेति विस्तरेण प्रतिपक्षः । नाना सत्त्वा नाना धर्मास्ततो नास्त्येकरसा प्रज्ञापारमितेति नानात्वविकल्पः ॥

एवं देवपुत्रा इत्यादि । एव भाष्यमाणायामिति । एवमिदानीं मया देश्यमानायां सर्वधर्मविविक्ततायामिति चर्याकाले देश्यमानायां बोधिसत्त्वो न संसीदतीति सम्बन्धः । न संसीदतीति स्थानप्रस्थानयोर्न मुह्यति । केन गन्तव्यं क्व वा स्थातव्यमिति । तयैव सर्वधर्मसमतासंवेदिन्या प्रज्ञापारमितयोरसंमोहात् । तथाहि । येन बोधिस्तेन गन्तव्यं बोधौ स्थातव्यम् । ते च गतिस्थिती तस्या एव स्वाधी ने हेतुफलावस्थे । ततो येन सा गच्छति यत्र वा तिष्ठति तत्परिणामिता अपि पञ्च पारमितास्तेनैव गच्छन्ति तत्रैव तिष्ठन्ति । तद्यथा चक्रवर्तिनश्चक्ररत्नं येन गच्छति यत्र वा तिष्ठति सर्वो बलकायस्तेनैव गच्छति तत्रैव तिष्ठतीति प्रतिपक्षः । अविज्ञाः पञ्चपारमिताः षष्ठी निराभासा । ततः स्थानप्रस्थानयोरनिश्चयः स्थानप्रस्थानं(न)सम्मोहविकल्पः ॥

यत इत्यादि न संसीदतीति प्रसादितमेतत् । यतश्च न संसीदति ततो गम्यते चरति प्रज्ञापारमितायां पूर्वमेवेति शेषः । अन्यथा कुतो न संसीदेत् । तद्यथा चक्रवर्तिनश्चक्ररत्नमग्रतो गच्छति पश्चाद्बलकाय इति प्रतिपक्षः । उदारविषयत्वात्पञ्चपारमिताः प्राक्प्रवर्तन्ते । सूक्ष्मविषयत्वात्पृष्ठतः षष्ठीति पृष्ठतो गमनविकल्पः ॥

इत्युक्तो द्वितीयो ग्राह्यविकल्पो नवविधः ॥

प्रथमं ग्राहकविकल्पमधिकृत्य शास्त्रम्-

[१३८] ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षण ।
मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ ५-१३ ॥
[१३९] स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः ।
श(स)क्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ ५-१४ ॥

द्रव्यसन्नात्माऽप्रथमो ग्राहकःऽ । स चास्ति प्रज्ञापारमितावत् । सा हि किञ्चिद्गृण्हाति किञ्चिन्मुञ्चतीति ग्रहणमोक्षणविकल्पः । सापि न गृण्हाति न मुञ्चतीति प्रतिपक्षः ॥

(र्स्त्_१४५)
गृह्यन्त एव धर्मास्तेषां मनसिकारादिति मनसिकारविकल्पः । न स धर्मान्मनसिकरोतीति प्रतिपक्षः ॥

मनसिकरोत्येव धर्मास्त्रैधातुके श्लेषादिति त्रैधातुकश्लेषविकल्पः । नासौ त्रैधातुके श्लिष्यतीति प्रतिपक्षः ॥

त्रैधातुके स्थितः कथं तत्र न श्लिष्यतीति स्थानविकल्पः । नासौ क्वचित्तिष्ठतीति प्रतिपक्षः ॥

सत्यभिनिवेशे कथं न तिष्ठतीति अभिनिवेशविकल्पः । नासौ किञ्चिदभिनिविशत इति प्रतिपक्षः ॥

अस्ति बोधिसत्त्वस्य धर्मवस्तूनां प्रज्ञप्तिः । दानपारमिता शीलपारमिता यावत्सर्वाकारज्ञतेति सर्ववस्तुप्रज्ञप्तिविकल्पः । साप्यस्य नास्तीति प्रतिपक्षः ॥

श(स)क्त एव सम्यक्सम्बोधौ तामभिसम्बुध्यते । अन्यथा वैमुख्यादिति श(स)क्तिविकल्पः । अश(स)क्ताः सर्वधर्मा अपरिगृहीताः । न चाश(स)क्तः किञ्चिदभिसम्बुध्यते । स चेदेवं चरति चरति प्रज्ञापारमितायामिति प्रतिपक्षः ॥

दानपारमिताशून्या शीलपारमिताशून्येत्येवमादि प्रतिपक्षविकल्पः । सोपि बोधिसत्त्वस्य नास्तीति प्रतिपक्षः ॥

सर्वाकारैः सर्वधर्माणामनुपलम्भे यथेच्छगमनं तस्य क्षतिः । सा बोधिसत्त्वस्यास्तीति यथेच्छगमनव्याघातविकल्पः । सोपि तस्य नास्तीति प्रतिपक्षः ।

अमी नव प्रभेदा महत्योर्भगवत्योरुक्ताः । अस्यां तु सामान्येन द्रव्यसद्ग्राहकविकल्पं सप्रतिपक्षमाह । अथ खल्वित्यादिना नापीत्यतः प्राक् । जानन्नेवेति न हि भगवतः किञ्चिदज्ञातमस्ति । बोधिसत्त्वो महासत्त्व इति लोकप्रसिद्धितो द्रव्यसत्पुद्गलरूपः स केन कारणेन न संसीदतीति द्रव्यसद्ग्राहकविकल्पः । तस्य प्रतिपक्षोऽनुपलम्भः । तमेवाह । विविक्तत्वादित्यादिना । असत्त्वादित्यर्थः । स हि स्वयमसत्कुतः संसीदतीति ।

द्वितीयं ग्राहकविकल्पमधिकृत्य शास्त्रम्-

[१४०] यथोद्देशमनिर्याणे मार्गामार्गावधारणे ।
सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ ४-१५ ॥
[१४१] स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः ।
प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः ॥ ४-१६ ॥

(र्स्त्_१४६)
एते नव विकल्पाः पृथग्जनानां प्रथमस्यैव भावान्न तेषां धर्माः । तैरप्रहेयत्वात् । तेषां प्रतिपक्षः षष्ठी यथा सूत्रम् । यथा सारथिरश्वानां सन्मार्गेण यथोद्देशं नेता तथा षष्ठी पञ्चानामिति प्रतिपक्षः । षष्ठ्यभावान्नियन्तुरभावाद्यथोद्देशानिर्याणविकल्पः ।

सर्वाकारज्ञतामार्गो बोधिसत्त्वानां मार्गः । हीनबोधिमार्गस्तेषाममार्गः । तयोरवधारणं षष्ठ्यैवेति सैव प्रतिपक्षः । तदभावे मार्गामार्गावधारणविकल्पः ।

नैषा कस्यचिद्धर्मस्योत्पादिका निरोधिका वा धर्मतां प्रमाणीकृत्येति प्रतिपक्षः । उत्पादिका बुद्धधर्माणां निरोधिका तदावरणानामित्युत्पादनिरोधविकल्पः ।

सर्वधर्मा न संयुक्ता न विसंयुक्त इति प्रतिपक्षः । संयुक्ता विसंयुक्ता वेति संयोगवियोगविकल्पः ।

रुपादौ यावत्सर्वाकारज्ञतायां न स्थास्यतीति योगः करणीयः । सर्वधर्माणां क्वचिदप्यस्थितत्वादिति प्रतिपक्षः । रूपे यावत्सर्वाकारज्ञतायां स्थास्यतीति स्थानविकल्पः ॥

यथा हि फलकामो बीजमवरोप्य सम्यक्सवर्ध्य यावत्फलानि परिपाच्य भक्षयति । एवं महाबोधिकामः पारमितासु शिक्षित्वा ताभिः सत्त्वाननुगृह्य संसारान्मोचयतीति प्रतिपक्षः । बोधौ चित्तमुत्पाद्य सत्त्वानुपेक्षत इति गोत्रविप्रणाशविकल्पः ॥

प्रार्थितोऽर्थः प्रार्थना । सर्वधर्मवशवर्तितामनुप्राप्तुकामेन षष्ठ्यां शिक्षितव्यमिति प्रतिपक्षः । तच्च शिक्षमाणे सा न स्यादिति प्रार्थनाभावविकल्पः ॥

षष्ठी हेतुः सर्वधर्माणां समुद्र इव सर्वरत्नानां तया परिभाविता हि शुक्लधर्मा बुद्धधर्मा भवन्तीति प्रतिपक्षः । षष्ठ्यभावे हेतुर्न स्यादिति हेत्वभावविकल्पः ॥

प्रज्ञापारमितायां चरन्तं त्रैयध्विका बुद्धाः समन्वाहरन्ति । न च रूपादितो यावन्न सर्वाकारज्ञतातः । अपि तु यत्र न रूपादि यावद्यत्र न सर्वाकारज्ञता तथा समन्वाहरन्तीति प्रतिपक्षः । रूपादितो यावत्सर्वाकारज्ञतातः समन्वाहरन्तीति प्रत्यर्थिकधर्मोपलम्भविकल्पः ॥

एतेपि न व प्रभेदाः महत्योर्भगवत्योरुक्ताः । अस्यां तु सामान्येनैव प्रज्ञप्तिसंग्राहकविकल्पं सप्रतिपक्षमाह । नापीत्यादिना अपि तु खल्वित्यतः प्राक् । कश्चिद्धर्म इति आत्मप्रज्ञप्तिविषयः स्कन्धादिः । न संसीदतीति स्वयमसत्त्वात् । अत एवाह । तत्कस्येत्यादि । कश्चिद्धर्म इति स्कन्धादि चित्तं वा । (र्स्त्_१४७) सोपीत्यादि । येन धर्मेणेति चित्तेन यो धर्म इति बोधिसत्त्वः । एवमेतदित्यादिरभ्युपगमः । इयता प्रतिपक्ष उक्तः ।

मा भूद्द्रव्यसत्सत्त्वः । अहंकारविषयः स्कन्धादिश्वत्तं वा बोधिसत्त्व इति प्रज्ञप्तिसंग्राहकविकल्पश्चतुर्थः ॥

एवं भगवता चतुर्विधाविकल्पप्रतिपक्षभूता भगवती विस्तरेण देशिता । बोधिसत्त्वस्तु तस्यां चरन् यथा ज्ञेयस्तदाह । अपि तु खल्वित्यादि । भाष्यमाणे ग्रन्थतः । देश्यमाने अर्थतः । निर्देश्यमाने निर्विशेषं कथनात् । उपदिश्यमाने रहस्यकथनात् । न संसीदति न मन्दीभवति । न विषीदति खेदात् । न विषादमापद्यते सन्ततखेदात् । नावलीयते चित्तनमनात् । न संलीयते सन्ततं तन्नमनात् । विपृष्ठं वैमुख्यात् । भग्नपृष्ठं पुनरसांमुख्यात् । नोत्त्रस्यति त्रासोन्मुखत्वात् । न संत्रस्यति सम्यक्त्रासात् । नैनमापद्यते सातत्येन । तदा वेदितव्यं चरत्यस्यां प्रज्ञापारमितायामिति । अस्यामचरतः संसीदनादीनामवश्यंभावात् ।

सुभूतिराहेत्यादिना पारमितान्तेन सुभूतेरभ्युपगमः । एवमित्यादिना । अस्यां चरतोऽनुशंसातिशयानाह । अनुगृण्हन्ति विशेषाधानतः । समन्वाहरन्ति स्मरणतः । तेपि तस्य बुद्धा भगवन्तो धर्म देशयन्तीति सम्बन्धः । कीदृशा इत्याह । भिक्षुसंघेत्यादि । कीदृशस्येत्याह । प्रज्ञापारमितायां चरत इत्यादि । नाम चेत्यादि । नाम संज्ञा । गोत्रं गार्ग्यादि । बलं कायबलं बुद्धिबलं च । वर्णः परिशिष्टा गुणाः । रूपं वर्णसंस्थाने । एतानि परिकीर्तयमानाः प्रकर्षेण प्रकर्षरूपम् । उदानमिति गुणहर्षोभ्दवां गाथामुदानयन्त्युदाहरन्ति । कस्य गुणा इत्याह तस्येत्यादि । तद्यथापीत्यादिना दृष्टान्तमाह । एवमेवेत्यादिना दार्ष्टान्तिकम् । किं सर्वेषामित्यादिना प्रश्नः । उत्तरं नो हीदमित्यादिना । सर्वसंगाः सर्वेऽभूतोपलम्भाः । सन्ति भगवन्नित्यादिना पुनः प्रश्नः । उत्तरं सन्तीत्यादिना । इमे त इत्यादिनोपसंहारः । अपरानप्याह येपीत्यादिना । इमेपीत्यादिनोपसंहारः ।

पुनरपरमित्यादिना अविनिवर्तनीयानां वशिता तस्याः प्राप्तिः । तामवक्रान्ताः प्रविष्टाः । बुद्धैर्नामादिपरिकीर्तनस्यानुशंसमाह । येषां खल्वित्यादिना पुनरपरमित्यादि । कथमधिमोक्ष्यन्तीत्याह । एवमेतदित्यादि । तेषां चेति न केवलमक्षोभ्यस्य केषामित्याह । ये चेत्यादि तेषां चेति । अक्षोभ्य-तब्दोधिसत्त्वानाम् । एवमित्यादिना श्रवणानुशंसमुपसंहृत्य तथात्वप्रतिपत्त्यादीनामनुशंसोत्कर्षमाह । एवमनुशंसातिशयेषूक्तेषु प्रकृतायाः प्रज्ञापारमिताया विशेषनिर्देश आपरिवर्तान्ताभ्दविष्यति । तं (र्स्त्_१४८) प्रस्तोतुं सुभूतिराह यदा भगवन्नित्यादि । तथताविनिर्मुक्त इति । तथतामात्रस्येव प्रख्यानात् । परिकल्पितस्य नानाविधस्याप्रतिभासनात् । न कश्चिद्धर्म उपलभ्यते । तदा कोयमित्यादि सुगमम् । तथतैव तावन्नोपलभ्यत इति तस्या अग्राह्यत्वात् । यः स्थास्यतीति बोधिसत्त्वः ।

सज्जतीति विहन्यत इत्यर्थः । आरभ्येति अधिकृत्य । धर्मवादीति युक्तिवादी । धर्मस्येति बुद्धनिर्वाणस्य । अनुधर्ममनुकूलं मार्गः । व्याकुर्वनाचक्षाणः । व्याकरोम्याचक्षे । सर्वधर्माणां विविक्तं विवेकः शून्यता । तस्मिन्विहारः समाधिः सर्वधर्माणामनुपलम्भः । तस्मिन्विहारः यः खलु पुनरित्यादिना सुभूतेर्विहाराद्वोधिसत्त्वविहारस्योर्त्ष दर्शयति । उपपत्तिमाह । तथागतविहारं हीत्यादिना । चरतः समाधिनिष्पत्तये । विहरतो निष्पन्नेन समाधिना । शेषं सुबोधम् । दुर्बोधं तु प्रागेव व्याख्यातम् ॥

सारादिः परिवर्तः सारपरिवर्त्तः ।

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तविंशतितमः परिवर्तः ॥


२८. अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः ।

मायोपमसारपरिवर्ताभ्यां दर्शनहेया विकल्पा उक्ताः । दर्शनमार्गादेश्च प्रज्ञापारमिताविहारस्यावश्यकं बोधिप्रापकत्वमुक्तम् । ततस्तस्य तथाभावे कारणत्रयमनेन परिवर्तेन प्रथमं वक्ष्यति पश्चाद्वोधिलक्षणम् । अतः कारणत्रयमधिकृत्य शास्त्रम्-

[१४२] बोधौ संदर्शनान्येषां तद्धेतोश्च परीन्दना ।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ ५-१७ ॥

तस्या बोधेर्यथोक्तात्प्रज्ञापारमिताविहारादवश्यं प्राप्तिःऽतत्प्राप्तिःऽ । तस्याऽअनन्तरोऽऽविनाभावीऽहेतुःऽ ज्ञापकस्त्रिविध उक्तः सूत्रे ।ऽबोधौ सन्दर्शनाऽ व्याकरणं यद्ऽअन्येषांऽ स प्रथमो हेतुः । भाविनां बोधिहेतोरार्यानन्दायऽपरीन्दनाऽ द्वीतीयो हेतुः ।ऽपुण्याबाहुल्यलक्षणःऽ तृतीयः । अतः सूत्रम् ॥ अथ खल्वित्यादि अवकीर्णकुसुमनामानो व्याकर्तव्याः । ततो देवैः पुष्पमानीतं व्याकर्तव्यैरवकीर्णं ततो रश्मीनां निश्चारप्रवेशौ । आनन्दपृष्टेन (र्स्त्_१४९) भगवता तेषां व्याकरणम् । तत्तेषां व्याकरणमन्यस्मिन्विशिष्टे लोकधातावितिलक्ष्यते लोकधातोरनिर्देशात् । आयुःसद्धर्मशितिकालयोश्चयतत्वात् । तदनु तस्मात्तर्हीत्यादिना उपसंहारो विहर्तव्यान्तः । इति प्रकृतेन विहारेण बोधिप्राप्तेः प्रथमं कारणम् ॥

ततो ये हीत्यादिना सम्यक्सम्बुद्धानामित्येतदन्तेन प्रज्ञापारमिताचारिणां गुणानाह । ततो ये चैनामित्यादिना वेदितव्यान्तेन येप्येनां श्रुत्वा न प्रतिक्षिपन्ति तेषां गुणमाह । अत्र प्रतिक्रोशणं मानसी निन्दा । प्रतिवहनं मनसा त्यागः । प्रतिकोपनं तस्मै कोपः । प्रतिसंहरणं गुप्तौ स्थापनम् । प्रतिषेधनं निःसारताख्यापनम् । प्रतिक्षेपोऽसभ्दूतबाधकाभिधानम् । तदव्यवसायः सप्तमः । ततः किञ्चापीत्यादिना चरितवतेत्येतदन्तेन हीनयानापतने कारणद्वयमाह । प्रणिधानादिनाविसंवादितां कृतज्ञतां चेति । तदेवं ये हि केचिदित्यादिना विस्तरेणोपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना परीन्दनामाह । परीन्दना समर्पणा सैवानुबन्धिनी अनुपरीन्दना । अक्षरसन्निपातादिति । अक्षरसन्निपातो व्यञ्जनकायः । तमधिकृत्येति ल्यप्लोपे पञ्चमी । किमर्थमित्याह । उद्ग्रहणायेत्यादि । कथं परीन्दनेत्यत आह । यथेयं नान्तर्द्धीयेतेति । यथेयमन्तर्हिता न स्यात्तथा त्वया करणीयमित्यर्थः । अत ऊर्ध्वं स चेदित्यादिना आहारिकेत्येतदन्तेन द्वितीयमुपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना द्वितीया परीन्दना । अत्र पुनरेवेति पश्चात् । नाशयेरिति हारयेः । शीघ्रमननुश(स)रणातुत्सृजे । स्मर्तुमशक्यत्वात्विस्मरेः । अपराद्धः कृतापराधः । आराधनमारागणं च तोषणम् । माता बीजधा[र]ना(णा)त् । जननी बीजपृष्टेः । जनयित्री उत्पादनात् । तत उर्ध्वमुद्ग्रहीतव्येयमित्यादिना तादृशी प्रज्ञापारमिता सदेवकस्य लोकस्य शास्तेत्येतदन्तेनोपोद्धातं कृत्वा तस्मात्तर्हीत्यादिनानुशा नीत्येतदन्तेन तृतीया परीन्दना ।

अत्र सुनिरुक्ता सुपठिता धर्मकायतेति प्रज्ञापारमितैव धर्मः काय एषां तत्तदिति वक्ष्यमाणेन कर्तव्यादिना सम्बध्यते । तत्र कर्तव्यमुपस्थानादि दातव्यं पुष्पादि समन्वाहर्तव्यं देशनादि । कल्याणत इति पुण्यकामतया । स्पर्शविहारत इति तेनैव सुखीभावात् । गुणवत्तयेति कल्याणादिना । भाषेये(यमि)ति वदेयम् । कल्पं वा यावत्ततो वा उपरि यदि विस्तर इष्टः स्यात् । किन्तर्हि संक्षेपेणानन्द भाषये(भाषे) । यादृश इत्यादि । ततो योपि कश्चिदित्यादिना सम्यक्सम्बोधिरित्येतदन्तेनोपोद्घातं कृत्वा चतुर्थी परिन्दनामाह । तमात्तर्हीत्यादिना नान्तर्धीयेत्येतदन्तेन । (र्स्त्_१५०) चतुर्थकमिति वक्तव्ये द्वितीयकमित्युक्तम् । उ(अनु)क्तानामुक्तसामान्येनैकीकरणात् । परिददामि परिन्दामि समर्पयामीत्येकोऽर्थः । एवं चतुराकारा परिन्दना द्वितीयं कारणम् ॥

तत एषा ह्यानन्देत्यादिनोपाद्घातं कृत्वा स चेत्त्वमित्यादि नैतत्स्थानं विद्यत इति यावत् । अत्र अध्वपर्यन्तः क्षणः । विंशं क्षणशतं तत्क्षणः । तत्क्षणाः षष्टिर्लवः । लवास्त्रिंशन्मुहूर्तः । नालिका घटिका । इति पुण्यबहुत्वं तृतीयं कारणम् ॥

ततोऽथ खलु भगवानित्यादिना अक्षोभ्यस्य भगवतः सबुद्धक्षेत्रस्य सपरिषदः सन्दर्शनमन्तर्धायनं च दृष्टान्तः । अत्र सागरोपमत्वमतिविस्तीर्णत्वात् । गम्भीरत्वं ध्यानसम्पदा । अक्षोभ्यत्वं प्रज्ञासम्पदा । दार्ष्टान्तिके योजयितुमाह । एवमानन्द सर्वधर्मा इत्यादि । सर्वधर्मा हीत्यादिना युक्तिमाह । न कार्यसमर्था इति प्रतिज्ञान्तरम् । निरीहका हीत्यादिना युक्तिमाह । एवं चरन्त इत्यादिनानुशंसामाह । महाबोधिशब्दात्प्राक् । असङ्गतामिति निरुपल[म्भ]ताम् । अप्रतिहतज्ञानतां वा । प्रमाणं वैपुल्यनियमः । क्षयः कालनियमः । पर्यन्तः संख्यानियमः । प्रमाणबद्धेति प्रमाणपरिच्छिन्ना । अप्रमेयत्वादित्यनुपलम्भात् । क्षयोऽपचयः । परिक्षयोऽभावः । आकाशाक्षयत्वादिति आकाशवदक्षयत्वात् । कुत इत्याह सर्वधर्मानुत्पादत इति । अनुत्पन्ना सर्वधर्माः । अतस्तेषामनुपलम्भलक्षणा प्रज्ञापारमिताप्याकाशवदक्षयेति । अभिनिर्हर्तव्येति प्रत्यक्षीकर्तव्या । रूपादीनामक्षयत्वेनेति तेषामनुत्पादतः । एवमविद्यादीनाम् । इयं सेति या स्कन्धादीनामविद्यादीनां चाक्षयत्वेन । अन्तद्वयमुत्पत्तिविनाशौ मध्यमुत्पन्नस्य स्थितिः । आवेणिकोऽन्यैरसाधारणः । न च किञ्चिद्धर्ममिति स्कन्धैः संगृहीतम् । कुतः? प्रतीत्योत्पाददर्शनात् । नित्यमित्यनादिनिधनम् । ध्रुवमिति स्थिरम् । शाश्वतमित्यनिधनम् । कारकं वेदकं वेति । ईहतुर्गृहीतुश्चाभावात् । इत उत्तरो ग्रन्थः सुबोधः सम्यक्सम्बोधरिति यावत् । इयता क्षयानुत्पादज्ञानलक्षणा बोधिरुच्यते । अत्र शास्त्रम्-

[१४३] क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते ।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ ५-१८ ॥

मलाः क्लेशविकल्पाः । तेषांऽक्षयानुत्पादयोःऽ येऽज्ञानेऽ सा बोधिः ।ऽतेऽ च ज्ञाने तेषांऽक्षयाभावादनुत्पादाच्च यथाक्रमंऽ वेदितव्ये । क्षयस्यात्यन्तमसत्तया ज्ञानं क्षयज्ञानम् । अनुत्पादस्यो(स्यानु)त्पत्तिकत्वेन ज्ञानमनुत्पादज्ञानमिति भावः । (र्स्त्_१५१) अथ बोधेर्लक्षणान्तरसम्भवेपि किमर्थमिदं लक्षणमुक्तम्? दर्शनमार्गेण क्षीणानां विकल्पानामक्षयतोऽनुत्पादतश्च व्यवलोकनार्थम् । तदेवाह-

[१४४] प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना ।
विकल्पजातं किं क्षीणं किं वानुत्पत्तिमागतम् ॥ ५-१९ ॥

विकल्पानां प्रकृतिस्तथता । न कदाचित्तस्याः क्षय उत्पादो वा । जातिरेवऽजातंऽ प्रकारः । ततो न कश्चिद्विकल्पप्रकारो दर्शनमार्गेण क्षीण उत्पादं वा त्याजित इति ॥

अन्ये त्वाहुः-

"क्षयज्ञानं तु सत्येषु परिज्ञातादिनिश्चयः ।
न पुनर्ज्ञेयमित्यादिरनुत्पादगतिर्मता" ॥ इति ॥

ते हि शस्यन्ते- सन्ति स्कन्धाः सन्ति चत्वारि सत्यानि । तत्र संक्षेपतः क्लेशदुःखयोः क्षयः पुनरनुत्पादश्च प्राप्यते । ततोः प्राप्तयोर्ये ज्ञाने ते क्षयानुत्पादज्ञाने । प्राधान्येन तथागतानां तु ज्ञेयावरणमपि क्षीयते तेषामक्लिष्टस्याप्यज्ञानस्य क्षयादिति । तन्निरासाय शास्त्रम्-

[१४५] सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः ।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ ५-२० ॥
[१४६] नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ५-२१ ॥

ऽनामऽ शब्दोऽमर्षे ।ऽअत्र विस्मीयते मयाऽ इति विपक्षप्रतिपक्षयोरयोगादिति भावः ।ऽअतःऽ कारणात्ऽनापनेयं किञ्चित्ऽ पुद्गलस्य धर्माणां च स्वयमभावात् ।ऽप्रक्षेप्तव्यं न किञ्चनंऽ पुद्गलधर्मनैरात्म्ययोरनादिनिधनत्वात् । किं तर्हि? तदुभयंऽभूतंऽ भूतत्वेनऽद्रष्टव्यम्ऽ । यतो भूतं पुद्गलनैरात्म्यं दृष्ट्वा क्लेशावरणाद्विमुच्यते । भूतं धर्मनैरात्म्यं दृष्ट्वा ज्ञेयावरणाद्ऽविमुच्यतेऽ । तस्मादभूतानां पुद्गलधर्माणां दृष्टिर्विपक्षः । तेषां नैरात्म्यदर्शनं प्रतिपक्षः । उभयोस्तु नैरात्म्ययोर्भूतत्वं महारथैः क्षुण्णम् । तत इह नोच्यते ॥

तस्मात्तर्हीत्यादि । क्षयानुत्पादलक्षणा बोधिसतस्या अवश्यलभ्यता कारणत्रयं च प्रसङ्गादागतम् । प्राकृतं तु मायोपमसारपरिवर्ते निर्दिष्टं दर्शनहेयानां विकल्पानां प्रहाणम् । अतो यस्माद्दर्शनमार्गेण दर्शनहेयानां विकल्पानां प्रहाणं तस्माद्धेतोः । तर्हीति दर्शनकाले प्रज्ञापारमितायां दर्शनमार्गात्मिकायां चरितव्यम् ॥

(र्स्त्_१५२)
तत्कस्य हेतोरिति । हेतुमुखेन दर्शनमार्गस्य लक्षणप्रश्नः । प्रज्ञापारमितायामिति । अत्रत्ये दर्शनमार्गे ध्यानपारमितेत्यत्र चार्थो गम्यते । तेनानुक्तसमुच्चयः । प्रज्ञापारमिता चेति । कुत इत्याह । प्रज्ञापारमितायां हीत्यादि । भावनापरिपूरिं षट्पारमिता गच्छन्तीति सम्बन्धः । सर्वा इति प्रत्येकं समग्राः सत्यः । एकैकया षण्णामपि संग्रहादिति भावः । अतश्च षडेव पारमिताषट्का दर्शनमार्गः । संक्षिप्ता चेयं भगवती । अतो लक्षणमात्रमस्यामुक्तम् । यथा त्वेकैकया सर्वसंग्रहस्तद्विस्तरेण महत्योर्भगवत्योरुक्तम् । अत्र शास्त्रम्-

[१४७] एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः ।
स एकक्षणिकः क्षान्तिसंगृहीतोऽत्र दृक्पथ ॥ ५-२२ ॥

एकैकमेव एकैकशः स्वार्थ शस्। तस्य भाव एकैकस्य । अव्ययत्वाद्धि लोपः । तेनऽएकैकस्यैव दानादौऽ इति दानादिषु ।ऽतेषांऽ दानादीनांऽमिथःऽ अन्योन्यंऽयः सङ्ग्रहःऽ । सोऽस्मिन्मूर्धाभिसमये दर्शनमार्गः । स चऽएकक्षणीकःऽ न तु षोडशक्षणाः(णः) । स च क्षान्त्याऽसंगृहीतःऽ न पुनरष्टाभिः क्षान्तिभिरष्टाभिर्ज्ञानैः । इति मूर्धाभिसमये दर्शनमार्गः ॥

ततो भावनामार्गः । तमाह । सर्वाणि चेत्यादिना । उपायौ च कौशल्यं चेति उपत्यकौशल्यानि । तत्र निश्रयत्वादुपायौ सिंहविजृम्भितावस्कन्धकौ समाधी । कौशल्यं प्रतीत्यसमुत्पादस्यानुलोमं च व्यवलोकनम्- "अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीत्यनुलोमम् । अविद्यानिरोधात्संस्कारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते" इति प्रतिलोमम् ।

तत्र सिंहविजृम्भितः समाधिः । तद्यथा- "प्रथमं ध्यानं समापद्यते । द्वितीयं तृतीयं चतुर्थम् । आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च समापद्यते । निरोधसमापत्तेर्व्युत्थितो नैवसंज्ञानसंज्ञायतनं समापद्यते । तत आकिञ्चन्यायतनं विज्ञानानन्त्यायतनमाकाशानन्त्यायतनं चतुर्थं ध्यानं तृतीयं द्वितीयं प्रथमं ध्यानं समापद्यत" इति ।

अवस्कन्दकसमाधिः । तद्यथा- "प्रथमं ध्यानं समापद्यते द्वितीयं तृतीयं चतुर्थम् । आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं (र्स्त्_१५३) निरोधसमापत्तिं च । ततो व्युत्थाय प्रथमं ध्यानम् । ततो निरोधम् । ततो द्वितियं ध्यानम् । ततो निरोधम् । ततस्तृतीयं ध्यानम् । ततो निरोधम् । ततश्चतुर्थ ध्यानम् । ततो निरोधम् । तत आकाशानन्त्यायतनम् । ततो निरोधम् । ततो विज्ञानानन्त्यायतनम् । ततो निरोधम् । तत आकिञ्चन्यायतनम् । ततो निरोधम् । नैवसंज्ञानासंज्ञायतनम् । ततो निरोधम् । ततोऽसमाहितचित्ते पतति । ततो निरोधं समापद्यते । ततोऽसमाहिते चित्ते तिष्ठति । ततो नैवसंज्ञानासंज्ञायतनम् । ततोऽसमाहिते । तत आकिञ्चन्यायतनम् । ततोऽसमाहिते । ततो विज्ञानानन्त्यायतनम् । ततोऽसमाहिते । तत आकाशानन्त्यायतनम् । ततोऽसमाहिते । ततश्चतुर्थं ध्यानम् । ततोऽसमाहिते । ततस्तृतीयम् । ततोऽसमाहिते । ततो द्वितीयम् । ततोऽसमाहिते । ततः प्रथमम् । ततोऽसमाहिते चित्ते तिष्ठति" इति ।

तत्र प्रथमायां गतौ नव स्थानानि । द्वितीयायां सप्तदश । आगमनेऽष्टादश । अत्र शास्त्रम्-

[१४८] समाधिं [स] समापद्यः ततः सिंहविजृम्भितम् ।
अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते ॥ ५-२३ ॥
[१४९] कामाप्तमवधीकृत्य विज्ञानमसमाहितम् ।
सनिरोधाः समापत्तीर्गत्वागम्य न व द्विधा ॥ ५-२४ ॥
[१५०] एकद्वित्रिचतुष्पञ्चपट्सप्ताष्टव्यतिक्रमात् ।
अवस्कन्दसमापत्तिरानिरोधमतुल्यगा ॥ ५-२५ ॥

सिंहविजृम्भितो यथा सूत्रमेव । अवस्कन्दस्तु गहनम् । तेन तस्य लक्षणमाह ।ऽअवस्कन्दसमापत्तिःऽ भवति । कथमित्याह ।ऽनव समापत्तीर्द्विधा गत्वाऽ पश्चाद्ऽआगम्यऽ । आदौ कथं गत्वेत्यत आहऽआनिरोधम्ऽ इति । निरोधसमापत्तिमन्ते कृत्वा । इतरा अष्टौ क्रमेण प्रागित्यर्थः । पुनः कथं गत्वेत्यत आहऽएकद्वित्रिचतुष्पञ्चषट्सप्ताष्टव्यतिक्रमात्ऽ ।ऽसनिरोधाःऽ कृत्वा । काः? इतरा अष्टौऽसमापत्तीःऽ । कामावचरं चऽअसमाहितंऽ चित्तंऽअवधीकृत्यऽ । अन्ते गन्तव्यं कृत्वेत्यर्थः । पश्चात्कथमागत्येत्यत आहऽअतुल्यगाऽ इति । अतुल्यगा सती । असमाहितादसमाहितः । समाहिताच्च समाहितमगच्छन्तीत्यर्थः । इहापिऽकामाप्तमवधीकृत्य विज्ञानमसमाहितंऽ इति सम्बध्यते । (र्स्त्_१५४) तेनेयसमाहिताच्चित्तात्प्रभृत्यागच्छति । अन्तेप्यसमाहित एव चित्ते गत्वा तिष्ठति । इति मूर्धाभिसमये भावनामार्गः ॥

सर्वाणि चोपायकौशल्यानि परिपूरिं गच्छन्तीत्युक्तम् । कथं च तेषां भावनापरिपूरिभवेत् । यदि भावनाहेयाश्चत्वारो विकल्पनवकाः क्षीयेरन् । तेषां च प्रतिपक्षा एव महत्योर्भगवत्योः पठ्यन्ते । ते तु सामर्थ्याद्गम्यन्ते । वयमपि तमेव पाठमभिसंक्षिप्य तान् वक्ष्यामः । तत्राद्यं विकल्पनवकमधिकृत्य शास्त्रम्-

[१५१] संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे ।
त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ ५-२६ ॥
[१५२] एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः ।

ऽएकःऽ इति प्रथमः ।ऽप्रयोगाकारगोचरःऽ इति प्रज्ञापारमिताप्रयोगविशेषः विषयः ।ऽविस्तरेऽऽसंक्षेपेऽ चेति पठितव्यम् । वृत्तानुरोधात्त्वन्यथा पठितम् । विस्तरे सम्मोहो विस्तरविकल्पः । तस्य प्रतिपक्षः । बहुषु स्थानेषु बोधिसत्त्वेन शिक्षितव्यं दानादिषु यावद्वलेषु वैशारद्येष्विति ॥

संक्षेपे सम्मोहः संक्षेपविकल्पः । तस्य प्रतिपक्षः न च क्वचन् शिक्षितव्यमिति । बहुनामपि तेषां न च क्वचनेति शून्यतैकरसत्वात् । सम्बुद्धैःऽसानाथ्येनऽ यः परिग्रहः । तदभावे विकल्पः कल्पना । तस्य प्रतिपक्षः । यः प्रज्ञापारमितायां शिक्षित्वा दानपारमितां यावत्सर्वाकारज्ञतामनुप्राप्स्यति । तेनैवं ज्ञातव्यं- दशदिक्सर्वबुद्धैः सानाथ्येनाहं परिगृहीतः स्वस्यां मातरि तेषां कृतज्ञतयेति ॥

ऽगुणाभावोऽऽनुशंसाभावः । प्रयोगदर्शनभावानाकालभावितत्वात्ऽत्रैकालिकःऽ । तस्मिंस्त्रयो विकल्पास्त्रिस्रः कल्पनाः । तेषां प्रतिपक्षाः । अनुशंसान् विस्तरेणोक्त्वा यथाह-ऽइतीमेऽनुशंसाः प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्हरतः प्रज्ञापारमितां भावयतः ।" इति यथाक्रमं प्रयोगदर्शनभावनामार्गकालिकगुणाभावे त्रयो विकल्पाः ।

ऽश्रेयसः पथिऽ इति निर्वाणमार्गे । प्रयोगादिभेदात्त्रिविधा सम्मोहास्त्रयो विकल्पाः । तेषां प्रतिपक्षा यथाक्रमं- "रूपवेदनादीनां शान्तवशिकतुच्छासारकतया तस्यां चरितव्यम् । (र्स्त्_१५५) आकाशशून्यताभिनिर्हारतयाभिनिर्हर्तव्या । आकाशशून्यता भावनयेयं भावयितव्या" इति । इति त्रयः प्रयोगादिबोधिमार्गसंमोहविकल्पाः ॥

इत्युक्तो नवविधः प्रथमो ग्राह्यविकल्पः ॥

द्वितीयं विकल्पनवकमधिकृत्य शास्त्रम्-

द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ ५-२७ ॥
[१५३] अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया ।
हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ ५-२८ ॥
[१५४] भावनेऽभावने चैव तद्विपर्यय एव च ।
अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ ५-२९ ॥

द्वितीयो ग्राह्यविकल्पश्चित्तचैत्तानां या प्रवृत्तिस्तद्विषयः । कियच्चिरं चरन्नस्यां चीर्णो भवतीति प्रश्नः । उत्तरम् । प्रथमचित्तोत्पादमुपादायेति चित्तोत्पादविकल्पः ॥

यावब्दोधिमण्डल मनसिकरोति । कथमियं चरितव्याभिनिर्हर्तव्या भावयितव्येति । आबोधिमण्डा मनसिकारविकल्पः ॥

हीनयानमनसिकाराणां चावकाशं न ददातीति हीनयानयोर्मनसिकारविकल्पौ ॥

सर्वाकारज्ञता मानसिकाराविप्रणाश एव चास्यां चर्या । तथा चरितव्यं यथा चित्तचैतसिका न प्रवर्तन्त इति संबोध्यमनसिकारविकल्पः ॥

किं भावयन् सर्वाकारज्ञतामनुप्राप्स्यति नेति भावनाविकल्पः ॥

अभावयंस्तामनुप्राप्स्यति नेति [अ]भावनाविकल्पः ॥

नेति भावयन्नाभावयन्ननुप्राप्स्यति । नेति नैव भावनानाभावनाविकल्पः ॥

तत्कथं तामनुप्राप्स्यति यथा तथता भूतकोटीर्धर्मधातुरित्ययथात्वविकल्पः ॥

इति द्वितीयो ग्राह्यविकल्पः ॥

तृतीयं विकल्पनवकमधिकृत्य शास्त्रम्-

[१५५] ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः ।
धर्मप्रज्ञप्त्यशून्यत्वे शक्तिप्रविचयात्मकः ॥ ५-३० ॥
(र्स्त्_१५६)
[१५६] कृतेन वस्तुनो यानत्रितये च स कीर्तितः ।
दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने ॥ ५-३१ ॥

अप्रज्ञपनीयाः सत्त्वाः अनुपलम्भादिति सत्त्वप्रज्ञप्तिविकल्पः ॥

अप्रज्ञपनीयाः सर्वधर्मा इति धर्मप्रज्ञप्तिविकल्पः ॥

अलक्षणशून्यान् सर्वधर्मान् पश्यतीत्यशून्यत्वविकल्पः ॥

धर्माश्च धर्मानुपलम्भश्च यश्चाभ्यां चरति सोपि नोपलभ्यत इति शक्तिविकल्पः ॥

धर्माणां प्रविचयः कर्तव्यः । स चानुपलम्भयोगेनेति प्रविचयात्मको विकल्पः ॥

न च वस्तुनः कृते सोऽस्यां चरति । यतोऽकृताविकृतानभिसंस्कृता सर्वधर्मा इति वस्तूद्देशविकल्पः ॥

यद्यप्यकृताविकृतानभिसंस्कृताः सर्वधर्मास्तथापि यथा कश्चित्तथागतनिर्मितोऽभिसंबुध्य धर्मचक्रं प्रवर्त्य त्रिभिर्यानैः सत्त्वान् परिमोचयति लोकव्यवहारेण न परमार्थेन तथैव च तथागतोपीति यानत्रयविकल्पः ॥

यद्यपि तथागतो निर्मितान्न विशिष्यते तथापि दक्षिणापरिशुद्धिः । यथा हि तथागते प्रतिष्ठापिता दक्षिणा आनिरुपधिशेषान्निर्वाणान्न क्षीयते तथाः निर्मितेपि । तथा तथागतायाकाशे पुष्पाणि क्षिपतस्तथा नमो बुद्धायेति ब्रुवतो मनसि कुर्वतो वा संज्ञां च प्रमाणीकृत्य या हि धर्मता तथागतस्य सैव विनिर्मितस्यापीति दक्षिणापरिशुद्धिविकल्पः ॥

चर्या पारमितादिः । तस्या विकोपनं भेदनम् । कुतः? धर्मतातः । दानपारमिताया यावत्प्रज्ञापारमिताया वा । एवं यावत्सर्वधर्माणां धर्मतेति । कथं तर्हि भगवता धर्मा विकोपिताः? नामनिर्मिता हि ते धर्मा निर्दिष्टा धर्माणां सूचनाय । कथं परोऽवतरेदिति । न तु धर्माणां धर्मता विकोपितेति चर्याविकोपनविकल्पः ॥

चतुर्थं विकल्पनवकमधिकृत्य शास्त्रम्

[१५७] सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः ।
भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः ॥ ५-३२ ॥
[१५८] सर्वज्ञतानां तिसृणां यथास्वं त्रिविधाबृत्तौ ।
शान्तिमार्गे तथतादिसम्प्रयोगवियोगयोः ॥ ५-३३ ॥
(र्स्त्_१५७)
[१५९] असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि ।
द्वयाभावे च सम्मोहे विकल्पः पश्चिमो मतः ॥ ५-३४ ॥

यैराकारैर्लिङ्गैर्निमित्तैर्धर्माः सूच्यन्ते तानि तथागतेनानुबुद्धानि । तेनोच्यते तथागतस्य सर्वाकारज्ञतेति सर्वाकारज्ञतासम्मोहविकल्पः ॥

यौ च श्रावकप्रत्येकबुद्धमार्गौ ये च बोधिमार्गास्ते सर्वे बोधिसत्त्वेन परिपूरयितव्याः । तैश्च मार्गकरणीयं कर्तव्यम् । न च भूतकोटिः साक्षात्कर्तव्यापरिपूर्य प्रणिधानमपरिमुच्य सत्त्वानपरिशोध्य बुद्धक्षेत्रं तेनोच्यते बोधिसत्त्वस्य मार्गज्ञतेति मार्गज्ञतासम्मोहविकल्पः ॥

एतावदेव सर्वं यदाध्यात्मिकबाह्या धर्माः । ते च श्रावकप्रत्येकबुद्धानां सर्वज्ञतेति सर्वज्ञतासम्मोहविकल्पः ॥

सर्वधर्माणां पारं निर्वाणं गता सर्वार्था वा गतानयेति प्रज्ञापारमिता । सर्वधर्माणां वा पारं परमोऽर्थोऽभिन्नं तत्त्वं सोऽस्यां तथागतैर्दुष्टः । अपि चास्यां तथता भूतकोटिर्धर्मधातुरन्तर्गतस्तेनोच्यते प्रज्ञापारमितेति शान्तिमार्गसम्मोहविकल्पः ॥

नेयं तथतादिभिः संयुक्ता न विसंयुक्ता । तथाहीयमरूपानिदर्शनाप्रतिघा, एकलक्षणा यदुतालक्षणात्वादिति तथतादिसंयोगवियोगविकल्पः ॥

नेयं कैश्चिदाच्छेत्तुं(?) शक्यते । तस्मादसाधारणीकृत्य समत्वसम्मोहविकल्पः ॥

अस्यां चरता दुःखसमुदयनिरोधमार्गाद्यर्थेषु चरितव्यमिति दुःखादिसम्मोहविकल्पः ॥

रागादयो नार्थो नानर्थ इति प्रकृतिसम्मोहविकल्पः ॥

यथा न द्वयो नाद्वयो धर्म उपलभ्यते तथा नद्वयं नाद्वयं धर्ममनुप्राप्नोतीति द्वयाभावसम्मोहविकल्पः ॥

इत्युक्ताः षट्त्रिंशभ्दावनाहेयाः विकल्पाः ॥

एवं तावभ्दवतु दोषाणां क्षयो गुणानां पुनः कथमुदय इत्यत आह-

[१६०] आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव ।
सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ ५-३५ ॥
[१६१] सर्वाः सर्वाभिसारेण निकामफलशालिनम् ।
भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ ५-३६ ॥
(र्स्त्_१५८)

प्रकृतिसिद्धा गुणाः केवलमाक्रान्ता [अ]गुणैराशान् चिरेण । दोषक्षयात्प्रशता (? प्रकटा?) इ(ए)व तं बोधिसत्त्वं भजन्ते सर्वदोषप्रहाणशालिनम् ।ऽअभिसारःऽ संदोहः । शेषं गतार्थम् ॥

तस्येत्यादि विवर्जयिष्यतीनि यावत् । इति भावनामार्गस्यानुशंसः ॥

आनन्तर्यसमाधिर्वक्तव्यः । तमधिकृत्य शास्त्रम्-

[१६२] त्रिसाहस्रजनं शिष्यखड्गाधिगसम्पदि ।
बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ ५-३७ ॥
[१६३] कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः ।
आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ ५-३८ ॥

अन्तरयितुं शक्तोऽन्तर्यः । न तथा अनन्तर्यः स्वार्थऽण् । आनन्तर्यः समाधिः स उक्तः सूत्रे । कथमानन्तर्यः? यथाऽबुद्धत्वाप्तेरनन्तरःऽ । अव्यवहितौ हेतुः कथमुक्तः?ऽपुण्यबहुत्वेनऽ । तदपि कथमुक्तम्? शुभं पुण्यं तदेवोपमा । तां कृत्वा । कथं तच्छुभम्? त्रिसाहस्रजनं त्रिसाहस्रलोकधातवीर्या(या)न् सत्त्वान्ऽप्रतिष्ठाप्यऽ । क्व?ऽशिष्यखड्गाधिगमसम्पदि बोधिसत्त्वनियामे च ।ऽ शिष्याः श्रावकाः खड्गाः प्रत्येकबुद्धास्तेषाम् । अर्थाद्गम्यते बोधिसत्त्वस्य च प्राङ्नियामावक्रान्तेरधिगमसम्पत्तौ बोधिसत्त्वनियामे च । क्व पुनरेवमुक्तं पुण्यबहुत्वम्? महत्योर्भगवत्यो । अस्यां कथमुक्तम्? औपलम्भिकबोधिसत्त्वोयां (त्त्वस्य) गंगानदीवालुकोपमकल्पकृताद्दानमयात्पुण्यादेनं समाधिमन्तशोऽच्छटासंघातमात्रमपि समापद्यमानस्य बहुतरपुण्यत्वेन । एतत्कारिकायां कथमुक्तम्? विनापि तेन चार्थगतेश्चकारस्यानुक्तसमुच्चयार्थत्वात् ।ऽसर्वाकारज्ञता च तत्ऽ इति । तच्च बुद्धत्वं सर्वाकारज्ञतालक्षणम् ॥

[१६४] आलम्बनमभावोस्याः (स्य) स्मृतिश्चाधिपतिर्मतः ।
आकारः शान्तता चा [त्र]

आनन्तर्यसमाधेःऽआलम्बनमभावःऽ सर्वधर्माणां स्मृतिरधिपतिप्रत्ययः ।ऽआकारः शान्तताऽ सर्वधर्माकारास्तगमः ।ऽअत्रऽ सर्वाकारज्ञतायाम्-

जल्पाजल्पिप्रवादिनाम् ॥ ५-३९ ॥

वादिनां जल्पैश्च जल्पैश्च प्रहृत्य युद्धं वृत्तंऽजल्पाजल्पिऽ । यथा दण्डादण्डि । अतः सूत्रम् । सर्वोपायकौशल्यानि परिग्रहीतुकामेनेत्यादि । (र्स्त्_१५९) उपेयत इत्युपायः सर्वाकारज्ञता । तस्मिं कौशल्यानि विप्रतिपत्तीनामपोहनानि । तानि लब्धुकामेन प्रज्ञापारमितायामिति । आनन्तर्यसमाधिलक्षणायाम् । चरितव्यं प्रयोगतो निर्हारतश्च । निर्हृत्य भावयितव्या । भावितायां तस्यामनन्तरमेव सर्वाकारज्ञतालाभे सर्वविप्रतिपत्तीनां क्षयादिति भावः । अभिनिर्हरतीति यथालम्बनं यथाधिपति यथाकारं च संमुखीकरोति । अभिनिर्हर्तव्या इति स्वरसवाहिनः कर्तव्याः । अत्ययेनेति । अत्ययोऽवधिः । अभव्यश्चेत्यादिना तथागतसमन्वाहृतस्यानुशंसमाह नन्त्वानन्तर्यसमाधिसमापन्नस्य । न हि तस्य भूयो दुर्गतिः सुगतिर्वा । अनन्तरमेव बोधिप्राप्तैः । शेषं सुगममापरिवर्तसमाप्तेः ।

विप्रतिपत्तीरधिकृत्य शास्त्रम्-

[१६५] आलम्बनोपपत्तौ च तत्स्वभावावधारणे ।
सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ ५-४० ॥
[१६६] प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः ।
विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ ५-४१ ॥
[१६७] लक्षणे भावनायां च मता विप्रतिपत्तयः ।
सर्वाकारज्ञताधाराः षोढा दश च वादिनाम् ॥ ५-४२ ॥

ऽषोढा दशऽ चेति षट्दश च षोडशेत्यर्थः । कुतः षोडश? यतस्ताः षोडशस्वर्थेषु आलम्बनोपपत्त्यादिषु । कथं तर्हिऽसर्वाकारज्ञताधाराःऽ आलम्बनादिस्तासां विषयः? विषयसम्बन्धात्तु सर्वाकारज्ञतायां विषयत्वोपचारः । तद्यथा राजपुत्रेऽपराद्धो राजन्यपराद्धो भवति । विप्रतिपत्तयोपि प्रायेण प्रतिपक्षपाठादुन्नेतव्याः ।

तत्राद्या विप्रतिपत्तिः । यदि सर्वाकारज्ञताया अभाव आलम्बनं स तर्हि कतमः? यदि धर्माणां परिकल्पितः स्वभावस्तदेवं भ्रान्तिः स्याद्वालविज्ञानवत् । अथ परतन्त्रः स कथमभावः? अत्र परिहारः । यस्य स्वभावो नास्ति सोऽभावः । नास्ति सांयोगिकः स्वभावो धर्माणां स्वयमभावात् । अपि च तथता स्वभावो धर्माणां सा चाभाव इत्यालम्बनोपपत्तौ विप्रतिपत्तिः ॥

(र्स्त्_१६०)
यद्यभावाः सर्वधर्माः केनोपायकौशल्येनादिकर्मिको दानादिषु चरति? देयदायकदानादीनामभावस्वभावावधारणमेव तस्योपायकौशल्यमिति तत्स्वभावावधारणे विप्रतिपत्तिः ॥

दृष्टसत्यस्य तर्हि किमुपायकौशल्यम्? स आर्येण चक्षुषा धर्मान् व्यवलोकयन् भावमपि परतन्त्रं स्वभावं नोपलभते । संयोगिकेन स्वभावेन परिकल्पितेन वा तस्याप्यभावात् । किं पुनरभावं परिकल्पितं स्वभावं, तस्यात्यन्तमसत्त्वात् । स दानादौ चरन् देयदायकदानादीन् प्रत्येकमभाव इति संजानीते । भावाभावानुपलम्भे कथमभावं संजानीते? संवृत्या न तु परमार्थेन । इह दानादयः सर्वे मार्गप्रकाराः सर्वाकाराः । तेषु ज्ञाता(तो) भावाभावानुपलम्भः । ततो ज्ञानं कोटिष्वभावसंज्ञेति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः ॥

या संवृतिः स एव परमार्थः । एत एकैव तयोस्तथता । अपि तु स्कन्धेषु भावसंज्ञिनां तत्परिहारार्थमभाव इति संवृत्या निर्दिश्यतेऽभावसंज्ञिनां भाव इति । परमार्थतो न भाव उपलभ्यते नाप्यभाव इति सत्यद्वये विप्रतिपत्तिः ॥

प्रयोगश्चर्या । कथं चर्या? शून्याः सर्वधर्मा इति । सर्वासु च शून्यतासु दानादौ च सर्व त्रकोटित्रयानुपलम्भेनेति प्रयोगे विप्रतिपत्तिः ॥

बुद्ध इति कर्मणि निष्ठा । ततो ज्ञातः सर्वो बुद्धः स्यात् । अथ बुद्धवानिति बुद्धः केन कर्तरि क्तः? सर्वश्च चेतनो बुद्धः स्यात् । अत्रोत्तरम् । भूतार्थ इति बुद्धः । भूता न्य(य)स्य धर्मा अभिसंबुद्धा इति वा । भूतो अस्यार्थः प्रतिविद्ध इति वा । अभिसंबुद्धा यथावत्सर्वधर्मा अस्येति वा । चतुर्ष्वपि पक्षेषु बहुव्रीहौ कृते नैरुक्तविधिः कर्तव्यः । भूतार्थ इत्यर्थो ज्ञेयः । तत्सम्बन्धाद्वोधः । समासार्थः- भूतमेवार्थो यस्य बोधस्य स बुद्धः । अन्येषामवश्यं क्वचिद्भ्रान्तेः । भूतार्थः कथं बुद्धः? भूतस्य बुभ्दावो अर्थस्य सत्त्वमिति भावः । भूता अस्य धर्मा अभिसम्बुद्धा इति भूताः । भूतैरर्थैः पुरुषस्य सम्बन्धो ज्ञानकृत एव । इह तु प्रकर्षगतेरभिसम्बोधः कृत इति प्रदर्शनार्थमभिसम्बुद्धग्रहणम् । अस्येति समासार्थः । समासस्तु द्वयोरेव पदयोः । तत्र भुतशब्दस्य बुभ्दावो ध्रमस्य द्वितीयाक्षरलोपः । भूतोऽस्यार्थः प्रतिविद्ध इति । प्रतिविद्धः प्रत्यक्षार्थः । त्रिपदो बहुव्रीहिः । द्धशब्दात्पूर्वस्य शब्दस्य चुरादेशः । अभिसम्बुद्धा यथावत्सर्वधर्मा अस्येति । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः । क्तस्य च वर्तमान इति (र्स्त्_१६१) कर्तरि षष्ठी । अत्राद्यस्य पदस्य बुशब्दः । अथ द्वितीयस्य तकारः । तृतीयस्य धशब्द इति बुद्धरत्ने विप्रतिपत्तिः ॥

अथ धर्मरत्नं कतमत्? बोधिः । सर्वधर्मोत्कृष्टत्वात् । तत्र यदि धर्मता धर्मात्पृथगेव गण्यते,ऽद्वयमिदं धर्मधर्मतासंग्रहात्ऽ इति वचनात्, तदा ताथागतं ज्ञानं बोधिः । इणजादिभ्य इति बुधेर्भाव इण । अथ धर्मतापि धर्माधर्मप्रकृतित्वात् । तदास्यैव धर्मरत्नं भूतकोटित्वात्तत्त्वशिखरत्वादित्यर्थः । तदा च कर्मणि बुधेरिण । उभयथापि बुद्धिस्ताथागते ज्ञाने प्रवर्तते प्रकर्षगतेः । तत्र धर्मतापक्षमधिकृत्याह । "बोधिः शून्यता तथता भूतकोटिर्धर्मता धर्मधातुः" इति । तत्र शून्यता लक्षणतः । तथता निर्विकारत्वात् । भूतकोटिस्तत्त्वशिखरत्वात् । धर्मता धर्मप्रकृतित्वात् । धर्मधातुरार्यधर्माणां हेतुत्वात् । पुनराह । "नामधेयमात्रमेतत्बोधिरिति" इति । इतिशब्दो भिन्नक्रमः । नामधेयमात्रमेतदिति योऽर्थः सोऽर्थो बोधिरित्यर्थः । नामधेयानामर्थशून्यता बोधिरिति यावत् । पुनराह । "अभेदार्थो बोध्यर्थः" इति । सर्वज्ञज्ञानतथतामात्रप्रख्यानात् । ज्ञानपक्षमधिकृत्याह । "बोधिस्तथतावितथतानन्यतथतानन्यथाभावो बोधेः" इति । तत्र बोधेस्तथतेति बोधस्य तथता । तथैव बोधरूपेणैव भावो नालीकेन रूपेण । अवितथतेत्यभ्रान्तता । अनन्यतथतेति बोधादन्योऽलीकस्तस्य तथता बोधरूपता । असता तेन रूपेण बोधस्यैव प्रख्यानात् । तद्विरहोऽनन्यतथता । अनन्यथीभाव इति । बोधस्य प्रकृतिः स्वेनात्मना प्रकाशः । तस्यान्यथीभावोऽलीकेनात्मना प्रकाशः । तद्विरहोऽनन्यथीभावः । सर्वविभ्रमविवेको ज्ञानस्य बोधिरित्यर्थः । पुनराह । "नामनिमित्तमात्रमेतद्वोधिरिति" इति । इतिशब्दो भिन्नक्रमः । नामनिमित्तमात्रमेतदिति यो बोधः सा बोधिरित्यर्थः । प्रयोग एष बोधेर्बोधिं सूचयति । न त्वयं बोधिरविकल्पत्वात्तस्याः । तत्र नामेत्यरूपिणः स्कन्धाः । तेषामलीकोऽर्थसदृश आकारो निमित्तम् । पुनराह । "बुद्धानां बोधस्तस्मद्वोधिः" इति । प्रकर्षगतेरिति भावः । पुनराह "बुद्धैरभिसम्बुद्धा
तस्माद्वोधिः" इति । अर्थः प्रधानमस्मिन्वचने न शब्दः । बुद्धानामधिगतस्तस्माद्वोधिरित्यर्थः । षष्ठीसमासे कृते पूर्वपदस्य बोभावः । उत्तरपदस्य धिशब्दः शेषः । उमाशब्दवन्नियोग इति धर्मरत्ने विप्रतिपत्तिः ॥

संहतत्वात्संघः । अभेद्योऽच्छेद्य इत्यर्थः । कस्मादभेद्यः । केन वा । सम्यक्सम्बोधेरभेद्यः । सदेवकेन समारकेन लोकेन हीनबोधेराहारकैर्धर्मैरकुशलैश्चेति संघरत्ने विप्रतिपत्तिः ॥

(र्स्त्_१६२)
ऽसोपाये समये मुनेः इति कारिकापाठे उपायकौशलमुपाय उक्तः । विषयेण विषयिणो निर्देशात् । अभिसमयः समयः इत्युक्तः । अयो बोधः । स(सं)शब्दः संमुखार्थः । मिथ्याज्ञानमज्ञानमेवेति भावः । मुनेरिति भावप्रधानम् । बुद्धत्वस्येत्यर्थः । उपायकौशल्यं बोधेरभिसमयं चेति समुदायार्थः । "अविरहितसर्वज्ञताचित्तो दानादिषु चरति कोटीत्रयानुपलम्भेन । न च दानादीनां विपाकमात्मनि स्पृहयति । किन्तु सर्वसत्त्वपरिमोचनाय सम्यक्सम्बोधौ परिणामयति" इत्यादिकमुपायकौशल्यं विस्तरेणेत्युपायकौशल्ये विप्रतिपत्तिः ॥

अस्त्यभिसमयो निःप्रपञ्चेत्यत्र न भावो नाभाव इत्यभिसमये विप्रतिपत्तिः ॥

सूत्रे प्रपञ्चशब्दः पठ्यते । शास्त्रे विपर्यासशब्दः । उभयोरेकार्थत्वात् । रूपं नित्यमनित्यं रूपं सुखं दुःखं रूपमात्मानात्मेत्यादयो विपर्यासस्यातिबहवः । संक्षेपतो यावान्विकल्पः स सर्वः प्रपञ्चः । अप्रपञ्चान्न प्रपञ्चयतीति प्रतिपक्षः । अप्रपञ्चो धर्मधातुर्निर्विकल्पत्वात् । तन्न प्रपञ्चयतीति न विकल्पयतीति विपर्यासे विप्रतिपत्तिः ॥

इह बोधिसत्त्वेन दुर्गतिमार्गा ज्ञातव्याः सहेतुफलैस्तेभ्यश्च सत्त्वा निवारयितव्याः । एवं नरकिनन्नरगरुडगन्धर्वादिमार्गाः । एवं चातुर्महाराजिकानां त्रायस्त्रिंशानां यावन्नैवसंज्ञानासंज्ञायतनानाम् । एवं श्रोतआपन्नमार्गो यावदर्हन्मार्गः प्रत्येकबुद्धमार्गो बोधिसत्त्वमार्गो बुद्धमार्गश्च ज्ञातव्यः सहेतुः सफलः । ये च यस्मिन् पले व्यवस्थापनीयास्तांस्तेषु व्यवस्थापयति यावबुद्द्धत्वे । स्वयं तु हीनयानभूमीः सर्वा (र्व?) ज्ञानेन चातिक्रम्य बोधिसत्त्वयानमवक्रामतीति मार्गे विप्रतिपत्तिः ॥

इह सर्व एवार्यपुद्गलाः क्लेशोपक्लेशैः कामरूपारूप्यधातुभिर्बोधिपक्षैः पारमितादिभिस्तत्फलैश्च सर्वार्यधर्मेर्न संयुक्त्वा न विसंयुक्त्वा अरूपिणोऽनिदर्शना एकलक्षणा यदुतालक्षणाः । य एवं न जानन्ति तान् प्रति संवृस्या निर्दिश्यते बोधिपक्षा धर्मा बोधेराहारका बोध्यावरणानामपहारका इति विपक्षप्रतिपक्षयोर्विप्रतिपत्तिः ॥

विस्तरेण भगवता धर्माणां लक्षणं देशितं सत्त्वानामवतारणाय संवृत्या परमार्थतस्तेन लक्षणे शिक्षितव्यं नालक्षणे । यतः स्थित एवैष नित्यं लक्षणधातुरिति लक्षणे विप्रतिपत्तिः ॥

(र्स्त्_१६३)
यद्यलक्षणाः पारमितादयो धर्माः कथमलक्षणानां तेषां भावना भवति? "नास्ति सुभूतेऽभावस्वभावेषु धर्मेषु भावसंज्ञिनः प्रज्ञापारमिता भावनाविपर्यासात् । अपि तु सर्वासां धर्मसंज्ञानां भावनाविभावने प्रज्ञापारमिता । एवं यावन्नास्ति भावसंज्ञिनो दानपारमिता भावना । एषोहमस्मै इदं ददामीत्येवं संज्ञिनः । " एवं बोधिपक्षादिषु वक्तव्यम् । दृष्टसत्यास्तु धर्माणां केवलमभावस्वभावतां भावयन्ति न भावसंज्ञया नान्यभावसंज्ञया । संज्ञा हि प्रपञ्चः प्रज्ञापारमिता तु निःप्रपञ्चेति भावनायां विप्रतिपत्तिः ।

अवकीर्णकुसुमनामानो बोधिसत्त्वा इह परिवर्ते बोधौ व्याकृताः । अतस्तैरुपलक्षितः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टविंशतितमः परिवर्तः ॥


२९. अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः ।

अनुपूर्वाभिसमय इदानीं वक्तव्यः । तमधिकृत्य शास्त्रम्-

[१६८] दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा ।
धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ ६-१ ॥

ऽअनुपूर्विक्रियाऽ अनुपूर्वशिक्षा अनुपूर्वप्रतिपद्या पूर्वमुद्दिष्टा संप्रति निर्देष्टव्या । साऽमताऽ इष्टा । कथमित्याह । दानेनेत्यादि ।ऽदानेनऽ इति दानपारमितया ।ऽप्रज्ञया यावद्ऽ इति प्रज्ञापारमितया । यावद्ग्रहणाच्छीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया च ।ऽबुद्धादौ स्मृतिभिश्चऽ इति बुद्धादिविषयाभिरनुस्मृतिभिः । चकारो भिन्नक्रमः ।ऽधर्माभावस्वभावेनऽ चेति भावप्रधानो निर्देशः । धर्माणामभावस्वभावत्वेन चेत्यर्थः ।ऽइतिऽ एवंऽसा मताऽ ।

अतः सूत्रं पुनरपरमित्यादि । एवमिति वक्ष्यमाणेन वाक्यत्रयेण । प्रज्ञापारमितेत्युनुपूर्वक्रिया । अनुगन्तव्येति वेदितव्या । कथमित्याह । सर्वधर्मासङ्गतः प्रज्ञापारमितानुगन्तव्या । सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्या । सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति । तत्रादौ सर्वधर्माः (र्स्त्_१६४) षट्पारमिताः । तासामेव बोधिमार्गत्वात् । धर्मशब्दस्य चेह मार्गवाचित्वात् । सर्वधर्माणामसङ्गता निःसङ्गता निर्विघ्नता । बोधिसत्त्वैरनुक्रमकरणीयेषु प्रथमचित्तोत्पादादिषु सत्त्वपरिमोचनान्तेषु तया(था?)सानुगन्तव्या । तद्यथा- "प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्नात्मना च दानं ददाति परांश्च दानपारमितायां प्रतिष्ठापयति दानस्य च वर्ण भाषते । ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः । स तेन दानेन महान्तं भोगस्कन्ध प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन अन्नं पानं वस्त्रं विलेपनं शयनमुपाश्रयमन्यद्वा परिष्कारोपकरणं ददाति तदर्थिनाम् । स तेन दानेन सत्त्वान् शीले समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति । स तैरेव शीलादिस्कन्धैः समन्वागतः श्रावकादिभूमिमतिक्रामति बोधिसत्त्वानियाममवक्रामति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति सर्वाकारज्ञतामनुप्राप्नोति धर्मचक्रं प्रवर्तयति । सत्त्वांस्त्रिषु यानेषु प्रतिष्ठाप्य संसारात्प्रतिमोचयति । एवं खलु दानेनानुपूर्वक्रिया । तां च सर्वान्नोपलभते । तथा ह्यस्याः स्वभावो नास्ति । यस्य च स्वभावो नास्ति सोऽभाव इति दानपारमितयानुपूर्वक्रिया । एवं शीलादिभिरपि" इति षड्भिः पारमिताभिः षडनुपूर्वक्रियाः ॥

सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्येति । सर्वधर्माः षडनुस्मृतयः । ताः कथं धर्माः? चित्तधारणात् । अपि च पुण्यमपि लोके धर्म उच्यते । ताश्च भावनामयं पुण्यम् । सर्वधर्माणामसंभेदतोऽभिन्नता समता । अभावस्वभावत्वात् । तयानुगन्तव्येति पूर्ववत् । तथाहि- "बोधिसत्त्वः प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान्सर्वधर्मानधिमुच्य षडनुस्मृतीर्भावयति । ताः स्वयं च भावयति परांश्च तासु प्रतिष्ठापयति तासां च वर्ण भाषते । ये चान्ये तासु चरन्ति तेषां वर्णवादि भवति समनुज्ञः । स तास्तथा भावयन्नभावस्वभावयोगेन सप्तत्रिंशतं(तः) बोधिपक्षान् यावत्सर्वाकारज्ञतां परिपुरयति । सोऽभावस्वभावेनैव सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्त्य यावत्सर्वसत्त्वान् परिमोचयति । तत्र बुद्धं भगवन्तं न रूपादिस्कन्धैर्न लक्षणानुव्यञ्जनैर्न शीलादिस्कन्धैर्न दशबलवैशारद्यप्रतिसंविभ्दिर्न महाकरुणया न महामैत्र्या नाष्टादशभिरावेणिकैर्नापि प्रतीत्यसमुत्पादतो मानसिकरोति । तत्कुतः? अभावस्वभावत्वात्तेषामित्यनुस्मृतिरमनसिकारो बुद्धानुस्मृतिः ।

स प्रज्ञापारमितायां चरन्न कुशला[कु]शलान् धर्मान्मनसिकरोति । तेषामभावस्वभावत्वादित्यमनसिकारो धर्मानुस्मृतिः ।

(र्स्त्_१६५)
योसौ भगवतः स्रावकसंघश्चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः स्वभावस्तस्य नास्ति । यस्य धर्मस्य स्वभावो नास्ति सोऽभाव इत्यमनसिकारो संघानुस्मृतिः ।

तेन प्रज्ञापारमितायां चरताखण्डेऽच्छिद्रेऽकल्माषेऽपरामृष्टे भुजिष्ये विज्ञप्रशस्ते समाधिसंवर्तनीये शीले स्थित्वा तच्छीलमभावस्वभावतो मनसिकर्तव्यमित्यमनसिकारो शीलानुस्मृतिः ।

स प्रज्ञापारमितायां चरन्नामिषं वा अङ्गप्रत्यङ्गानि वा त्यजन् सर्वं तदभावस्वभावतो मनसिकरोतीत्यमनसिकारो यो(त्या)गानुस्मृतिः ।

ये ते देवाः श्रोतआपन्नाश्चातुर्महाराजकायिकेषु यावत्परनिर्मितवशवर्तिषु देवेषूपपन्नास्ते सर्वेऽभावस्वभावा इत्यनुस्मृतिरमनसिकारो देवतानुस्मृतिः ।"

इति षड्भिरनुस्मृतिभिः षडनुपूर्वक्रियाः ॥

सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति । स्वलक्षणधारणात्धर्माः । स्कन्धा धातव आयतनानि बोधिपक्षाः पारमिता यावत्सर्वाकारज्ञतेति सर्वधर्माः । तेषामसंभवत इत्यसंभवज्ञानतोऽनुपूर्वक्रिया वेदितव्या । असंभवोऽभावस्वभावता । तथा हि- "तेषां नास्ति स्वभावः । यस्य स्वभावो नास्ति सोऽस्वभावः । स प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सर्वधर्माणामभावस्वभावतामधिमुच्य चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि यावत्सर्वाकारज्ञतां भावयति । सोऽभावस्वभावान् सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्तयति । त्रिभिश्च यानैः सत्त्वान् संसारात्परिमोचयति" इति धर्माणामभावस्वभावतया त्रयोदश्यानुपूर्वक्रियाः ॥

इत ऊर्ध्वं चोद्यानि स्वयमूह्यानि परिहारास्तु वक्तव्याः । यद्यभावस्वभावाः पारमिता भाव्यन्ते तदा तभ्दावना निष्फला तुरगविषाणभावनावदिति चोद्यम् । परिहारमाह । सर्वधर्मा निर्विकारसमा इतीत्यादि । निर्विकारो धर्मधातुस्तेन समाः सर्वधर्मा नाभावमात्रेण । धर्मधातुश्चालम्ब्यमान आर्यधर्माणां हेतुर्भवति । अत एव धर्मधातुरितुच्यते । तत्कुतो वैफल्यम्?

ननु प्रत्यात्मवेद्य आत्मा विज्ञप्तिश्च । अतः सति ग्राहके ग्राह्यमप्यस्तीति न युक्तः सर्वधर्माणामभाव इति चोद्यम् । परिहारमाह । सर्वधर्माणाममनात्मविज्ञप्तितः प्रज्ञानुबोधनत इत्यादि । अनात्मविज्ञप्तित इत्यात्मविलक्षणत्वादनात्माकारेण ग्राह्यग्राहकवैधुर्यादविज्ञप्त्याकारेण च । (र्स्त्_१६६) प्रज्ञानुबोधनत इति प्रमाणेन प्रतीतेः । आत्मा हि नित्यैकरूपो ज्ञाता न च स्कन्धादय इथम्भूताः । तस्मादनात्मत्वेन सिद्धाः । ग्राह्यग्राहकवैधुर्याच्च । अत एव च विज्ञप्त्याकारेणापि सिद्धाः । ग्राहकलक्षणत्वात्तस्याः । ग्राहकाभावाद्ग्राह्यमपि नास्तीति सिद्धः सर्वधर्माणामभावः ।

रूपादिशब्दैर्येभिलप्यन्ते त एव रूपादयः । अस्ति च लोके तैस्तेषामभिलापः । श्रोतॄणां व्यवहारः संवादश्च । तत्कुतोऽभावः सर्वधर्माणामिति चोद्यम् । परिहारमाह । नाममात्रेणेत्यादिना । अर्थशून्यं नाम नाममात्रम् । तेन ते सर्वधर्मा अभिलप्यन्ते । न हि बुद्ध्याकार एषामर्थो बाह्यत्वेन प्रति [य]ते, बाह्ये च प्रवृत्तेः । नापि बाह्य एवार्थः, असत्यपि बाह्ये शब्दादर्थगतेः । बुद्धिरेव बाह्यरूपेण शब्दार्थ इति चेत् । न चैतस्या अर्थो रूपं, अत्यन्तभेदात् । अभेदे वा न विसंवादः स्यात् । बुद्धिमन्तश्चार्थवन्ता भवेयुः । तस्मादर्थाभावान्नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते । व्यवहारस्तावदस्तीति चेदाह । व्यवहारश्चेत्यादि । न क्वचिदित्यर्थाभावत् । न कुतश्चिदिति वाचकाभावात् । नापि कश्चिदिति न वाचिको न च कायिको नापि मानसः । वाच्यवाचकयोरभावात् । सर्वधर्मा इत्यादिनोपसंहारः । अव्यवहारा अव्याहारा इति तेषु तयोरभावात् । अत एव चाव्याहृताः ।

ननु रूपादीनां प्रमाणवत्त्वात्तच्छून्यता अपि प्रमाणवत्य इति तदालम्बना प्रज्ञापारमिता प्रमाणवती स्यात् । न चेष्यत इति चोद्यम् । परिहारमाह । सर्वधर्माणामप्रमाणत इति । अप्रमाणत्वात् । तथा हि सर्वधर्माणां नास्ति प्रमाणमभावलक्षणत्वात् । आकाशस्येव रूपाभावलक्षणस्य, ततस्तच्छून्यतानामपि नास्ति प्रमाणमवच्छेदकाभावात् । ततः प्रज्ञापारमिताया अप्यालम्बनाभेदात् ।

यदि तर्हि रूपादयो न सन्ति कैत्य(किमिति) नीलादयः प्रख्यान्ति । धर्मनिमित्तान्येतानि न धर्मवस्तूनि । एकानेकस्वभावविरहात्, अप्रकाशात्मनः प्रकाशायोगाच्च । धर्मनिमित्तानि तु धर्मभ्रान्तीनामाकाराः । ता हि प्रकाशरूपत्वात्प्रकाशमानास्तैरसभ्दिरपि रूपैः प्रख्यान्ति । असत्ख्यातिलक्षणत्वाद भ्रान्तीनाम् । यद्येव, न सिद्धयति प्रज्ञापारमिता । सा खल्वभ्रान्ता साकारा तु बुद्धिर्भ्रान्तैव । न च निराकारा बुद्धिः स्वप्नेप्यनुभूयत इति चोद्यम् । परिहारमाह । सर्वधर्मानिमित्तत इत्यादिना । सर्वधर्मेष्वानिमित्तं निमित्तास्तमयाज्ज्ञानस्य निराभासता निराकारता । ततः प्रज्ञापारमिता वेदितव्या । आकारपरिवर्जनादारूप्यसमापत्तिवदिति भावः ।

नन्वयं विकल्पनिमित्तानां परिवर्जनाद्धर्मधातोः सम्यङ्मनसिकारो न पुनः प्रज्ञापारमितेति चोद्यम् । परिहारमाह सर्वधर्मनिर्वेधत इत्यादि । (र्स्त्_१६७) निर्वेधशब्देनात्र प्रतिवेध उक्तः । सर्वधर्माणां परिनिष्पन्नेन रूपेण प्रतिवेधो ज्ञानसाक्षात्क्रिया स तेषां निर्वेधः । तत इति तेन लक्षणेन प्रज्ञापारमिता इत्यर्थः । पूर्वत्र हेतौ तृतीया । तदन्तात्तम् । तथा हि तस्यैव सम्यङ्मनसिकारस्य श्रुतचिन्ताभावनान्वयादनाभोगतोऽनभिसंस्कारतः सर्वधर्मतथताया निष्प्रपञ्चज्ञानमुत्पद्यते । स तस्याः प्रतिवेधः । अथ कोऽर्थः प्रज्ञापारमिता(त)या शुद्धिः? नैतद्युक्तम् । तथा हि । कस्तया शुद्ध्यति? नात्मा तस्यानिष्टेः, न चित्तं प्रतिक्षणभेदात् । अथ चित्तसन्तानः । सोप्यशुद्धः शुद्धो वा प्रकृत्या भवेत् । पूर्वस्मिन् पक्षे न तस्य शुद्धिरङ्गारस्येव घृष्यमान(ण)स्य । द्वितीयपक्षे वैयर्थ्यम् । अथ चित्तधर्मता तया शुद्ध्यति । तदप्ययुक्तं निर्विकारत्वात्तस्या इति चोद्यम् । परिहारमाह । सर्वधर्मप्रकृतिपरिशुद्धित इत्यादि । सर्वधर्माणां प्रकृतिस्तस्याः परिशुद्धिस्ततस्तेन प्रयोजनेन प्रज्ञापारमितानुगन्तव्या । अनुष्ठातव्येत्यर्थः ॥

ननूक्तं तदप्ययुक्तं निर्विकारत्वात्तस्या इति । उक्तमेतत्किन्तु न युक्तम् । हेतोरनैकान्तिकत्वात् । सा हि प्रकृत्यैव परिशुद्धा अतन्मयत्वात्, आगन्तुकेनावरणमलैर्मलिनीक्रियते नभ इवात्र तमस्तुहिनादिभिः । पश्चात्प्रज्ञापारमितयैव तेषां निरासाद्धिशुद्धयति पवनादिभिरभ्रादिमोचनादिव नभः ।

ननु प्रज्ञापारमितापि भगवतैव देशिता । देशना च सनिमित्तमेव ज्ञानमुत्पादयति । ततः प्रज्ञापारमितापि निर्मिमित्ता न युक्तेति चोद्यम् । परिहारमाह । सर्वधर्मावचनत इत्यादिना । सर्वधर्माणामवचनात् । वाचास्वरूपमप्रकाश्य केवलं सूचनात् । परमार्थदर्शनाय प्रज्ञापारमितानुगन्तव्या ।

ननु केयं विशुद्धिः? क्लैशपक्ष (क्षय) इति चेत् । पुनर्भवः स्यादेव । अथ हेतुक्षयाज्जन्मापि क्षीयते तदा परिशिष्टा संस्कारा यावदायुरवस्थाय स्वयमेव निरुध्यन्ते । इति श्रावकबोधिरेव स्यान्नानुत्तरा सम्यक्सम्बोधिः । सत्यां वा विशेषो वक्तव्य इति चोद्यम् । परिहारमाह त्रिभिर्वाक्यैः । सर्वधर्माणामनिरोधत इति । अनाश्रवाणां धर्माणामक्षयात्प्रज्ञापारमितानुगन्तव्या । कथमनिरोधः? प्रहाणसमतया । निर्देशत्वेन प्रहाणादविशेषात् । सर्वधर्माणामिति सांक्लेशिकानां सर्वधर्माणां निर्वाणप्राप्तितः प्रज्ञापारमितानुगन्तव्या । यथा तेषां तथता तथैव त इति ज्ञानं तथतासमता । तया कथं तथतासमतेत्याह । सर्वधर्मा इत्यादि । नागच्छन्त्यनागतादध्वनः, न गच्छन्त्यतीतमध्वानं, यत आगन्तव्यं यत्र च गन्तव्यं तयोरसत्त्वात् । यतश्च अजानानाः स्वसंविन्मात्रेऽध्वनामज्ञानात् । ज्ञानपूर्वकत्वाच्च गत्यागमनयोः । तस्मातजाता अत्यन्ताजातित इति ॥

इयता बोधिसत्त्वानां स्वार्थसम्पत्प्रसाधिता । अस्तु नामैषां स्वार्थसम्पत्स्वार्थस्य लोके प्रकृत्यैव प्रियत्वात्तदर्थ दुष्करस्यापि व्यवसायात् । (र्स्त्_१६८) परार्थस्तु दुष्करत्वानामानन्त्यात्परत्वाद्विप्रतिपत्तिः बहुलत्वादिति चोद्यम् । परिहारमाह आत्मेत्यादिना । आत्मा पर इति यो च भेद [:] तस्यादर्शनात्सर्वसत्त्वानामात्मसमतादर्शनादित्यर्थः । तथा चोक्तमार्यविमलकीर्तिनिर्देशे "सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पाद्यते । ततः सर्वधर्मा विरोहन्ति" इति ।

इत ऊर्ध्वं दुष्करसंज्ञाप्रतिपक्षेण यथा यथा प्रवेक्षणीयं तदाह समुद्रशब्दादर्वाक् । तत्रादौ सत्त्वानामर्हत्त्वदिषु दुष्कर संज्ञानिरासार्थमाह । सर्वधर्माः सत्त्वव्यहारविषयाः । आर्यार्हन्तः यतः प्रकृतिपरिशुद्ध । धर्मतामात्रत्वात् । भारानारोपणतयेति निःस्वभावत्वात्भावस्य । सत्त्वविनयाय दशदिग्बुद्धक्षेत्रगमनेन दुष्करसंज्ञानिरासायाह । सर्वधर्माणामदेशाप्रदेशत इति । अदेशत्वाच्च प्रकृतिस्वभावत इति । रूपादीनां प्रतिस्तस्याः स्वभावतः । न हि तस्यादेशोऽपतनधर्मत्वात् । नापि प्रदेशो निरंशत्वादाकाशवत् । संसारसुखे दुस्त्यजसंज्ञानिरासायाह । सर्वधर्माणां सांसारिकाणां निरोधे प्रहलादनत्वं सुखसंज्ञोत्पादनत्वं ततः प्रज्ञापारमितानुगन्तव्या ।

"अनित्या वत संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखमिति ॥"

इतिशब्दः श्रावकविनयनसमाप्त्यर्थः । बोधिसत्त्वविनयनमधिकृत्याह । अरत्यविरतित इति । रतिरत्यन्तमुत्कण्ठा निर्वाणे । तदभावो बोधिसत्त्वानामरतिः । विरतिरत्यन्तमुद्वेगः संसारे । तदभावो बोधिसत्त्वानामरति । ताभ्यां प्रज्ञापारमिता । इति संसारनिर्वाणाप्रतिष्ठानाय प्रत्यवेक्षा । अरक्ताविरक्ततयेत्यादिना वैराग्याय प्रत्यवेक्षा । सर्वधर्मा अश(स)क्ता इत्यनभिनिविष्टाः । सङ्गासङ्गा सङ्गतत्प्रतिपक्षौ । तद्विगतास्तयोरनुपलम्भादिति विकल्पप्रहाणाय प्रत्यवेक्षा । सर्वधर्माः सर्वमार्गाः सप्ताभिसमयाः । त एव बोधिः । बोधिप्रापकत्वात् । अत एवाह । बोधिः । बुद्धज्ञानावबोधनतयेति । अवबोधन प्रापण इति बोधिः । सुलभावबोधनाय प्रत्यवेक्षा । सर्वधर्मास्वलक्षणधारणात् । ते शून्यानिमित्ताप्रणिहिता विज्ञानमात्रत्वेनार्थविरहात्सर्वनिमित्तास्तमयात् । भ्रान्तिशरीरे त्रैधातुकप्रणिधानाभावाच्च यथाक्रमम् । इति मार्गसंक्षेपः ।

(र्स्त्_१६९)
यदि विमोक्षमुखान्यपि तेषां मार्गस्तदा तानि भावयन्तो हीनबोधौ पतेयुः । इत्यत आह । सर्वत्यादि । सर्वधर्माः सर्वबोधिसत्त्वमार्गाः । भैषज्यमिति हीनयानस्पृहामहाव्याधिहराः । कुत इत्याह । मैत्रीपूर्वङ्गमतयेति । यतो मैत्री तेषां पुरःसरी । अपि च । सर्वचतुर्भिरप्रमाणैः सह विहरणात्मत्रीविहारिणः । ब्रह्मभूता इति ब्रह्मणा तुल्याः । तद्वदेव दोषानुत्पादनादित्युद्देशः । सर्वदोषानुत्पादनत इति निर्देशः । सर्वदोषा मैत्र्यादीनां विपक्षो यथाक्रमं व्यापादो विहिंसा अरतिः प्रतिघानुनयौ च । अप्रणिहितत इति निर्वानोत्कण्ठाविरहात् । अप्रतिहतित इति संसारे अत्यन्तानुद्वेगात् । इति त्रयोदशविधोऽपूर्वाभिसमयः सानुषङ्गः ॥

एकक्षणाभिसमयो वक्तव्याः ।

एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ १-१६ ॥

इति यः पूर्वमुद्दिष्टः स कथं चतुर्विधः? सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः । विपाकजसर्वसाश्रवानाश्रवधर्मैकचित्तक्षणाभिसमयः । अलक्षणसर्वधर्मैकचित्तक्षणाभिसमयः । अद्वयसर्वधर्मैकचित्तक्षणाभिसमयश्चेति ॥

तत्र प्रथममधिकृत्य शास्त्रम्-

[१६९] अनाश्रवाणां सर्वेषामेककेनापि संग्रहात् ।
एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ ७-१ ॥
[१७०] अरघट्टं यथैकापि पदिका पुरुषेरिता ।
सकृत्सर्व चलयति ज्ञानमेकक्षणे तथा ॥ ७-२ ॥

प्रज्ञापारमितायां चरतो बोधिसत्त्वस्यऽएकैकेनापि दानादिनाऽ चित्तक्षणेन प्रवृत्तेनऽसर्वेषांऽ अनाश्रवाणां धर्माणांऽसङ्ग्रहात्ऽ आक्षेपात्ऽएक्षणावबोधःऽ एकचित्तक्षणाभिसमयः ।ऽअयंऽ इति प्रथमः । तथा हिऽयथैकापि परि(द)काऽऽपुरुषप्रेरिता सर्वमरघटं(ट्टं) सकृच्चलयतिऽ तथैकपदमपि दानादिचित्तं प्रयुक्तं सर्वमनाश्रवधर्मसन्दोहं सकृदेवाकर्षयतीत्यर्थः । अतः सूत्रं समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । अत्र प्रज्ञापारमिता परिगृहीतत्वात्, सर्वाकारज्ञता मनसिकाराविरहितत्वाच्च । गम्भीरोदार एकैको दानादिचित्तक्षणः (र्स्त्_१७०) प्रज्ञापारमितेत्युच्यते । तस्यापर्यन्तता अनाश्रवधर्माकर्षकत्वम् । तेषामन्योन्यसम्बन्धस्य चिरपरिशीलितत्वात्सानुगन्तव्या वेदितव्या । कथमित्याह । समुद्रापर्यन्ततयेति । गम्भीरोदारस्य समुद्रस्यापर्यन्तता सकृदपर्यन्तनिम्नगाजलाकर्षकत्वम् । तासां परस्परसंसर्गात् । तया समुद्रापर्यन्ततया उपमया । तद्वदित्यर्थः । इति सर्वानाश्रवधर्मैकचित्तक्षणाभिसमयः ॥

द्वितीयमधिकृत्य शास्त्रम्-

[१७१] विपाकधर्मतावस्था सर्वशुक्लमयी यदा ।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ ७-३ ॥

विपाकजो धर्मो विपाकधर्मस्तभ्दावस्तत्तासांऽअवस्थाऽ अस्या इति यथोक्ता प्रज्ञापारमिता ।ऽसर्वशुक्लमयीऽ इति सर्वे कुशला धर्माः साश्रवा अनाश्रवाः । ये पुर्वमनेन निःस्वभावतया भावितास्ते पश्चाद्विपाकजाः । अतः प्रकृत्यैव तेषां नैःस्वाभाव्यसंवेदिनी । तस्मात्सर्वशुक्लमयी । ईदृशी सा यदाऽजाताऽ सम्पन्नाऽतदाऽऽज्ञानंऽ चित्तंऽएकक्षणेऽ तेषु सर्वेष्वनाभोगेन । अनाश्रवेषु सर्वेषु साभोगः प्रथमः । अयं तु द्वितीयः साश्रवानाश्रवनिराभोगश्च । अतः सूत्रम् । गगनापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । प्रज्ञापारमितायाः विपाकधर्मतावस्था सर्वशुक्लमयी च । अत एवापर्यन्तता । तेषु सर्वेषु भावाभावैकरसा । निराभोगश्च विपाकजत्वात् । तस्या अपर्यन्तता वेदितव्या । कथमित्याह । गगनापर्यन्ततया दृष्टान्तेनेति । गगनमाकाशम् । तच्च रूपिद्रव्याभावैकरसमपर्यन्तं निराभोगं च परिस्पन्दाभावात् । अत उभयोरपि अपर्यन्तता सदृशीति विपाकजसर्वशुक्लधर्मैकचित्तक्षणाभिसमयो द्वितीयः ॥

तृतीयमधिकृत्य शास्त्रम्-

[१७२] स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिवर्यवा ।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ ७-४ ॥

ऽस्वप्नोपमेषु धावद्गन्धर्वनगरोपमेषु" इति महत्योर्भगवत्योः पठ्यते । शास्त्रे त्वेकमेव पदं सर्वेषामेकार्थत्वात् । स पुनरर्थो विचित्रैरपि लक्षणैः प्रतिभासमानानामेषां यथालक्षणमसत्त्वादलक्षणता । ततो मायोपमत्वादलक्षणेषु सर्वधर्मेषुऽस्थित्वाऽ षट्पारमिताः परिपूरयन्ऽसर्वधर्माणामलक्षणत्वमेककक्षणेनैवऽविन्दतिऽ जानाति । धातूनामेकार्थत्वेन विन्दतेर्ज्ञानवृत्तेः । एतदाह । मेरुविचित्रया प्रज्ञापारमिताविचित्रतानुगन्तव्येति । मायोपमेषु (र्स्त्_१७१) सर्वधर्मेष्वलक्षणत्वेन यदेकरसं ज्ञानं सेह प्रज्ञापारमिता । अतस्तस्या एकरसत्वेपि मायोपमैः सर्वधर्मप्रतिभासैर्या विचित्रता सा मेरुविचित्रतया दृष्टान्तेन वेदितव्या । यथा ह्याकाशस्य नीरूपत्वादसती मेरुणा विचित्रतावभाति । मेरुपार्श्वानां चतुर्वर्णानां दिक्षु तत्सर्ववर्णतया प्रख्यानात् । तथा तस्या इत्यलक्षणसर्वधर्मैकचित्तक्षणाभिसमयस्तृतीयः ॥

चतुर्थमधिकृत्य शास्त्रम्-

[१७३] स्वप्नं तद्दर्शिनं चैव द्वययोगादनीक्षकः ।
धर्माणामद्वयं तत्त्वं क्षणेनकेन पश्यति ॥ ७-५ ॥

ऽस्ननं तद्दर्शिनं चैवऽ इति कुद्योगे कथं द्वितीया? कर्तव्योऽत्र यत्नः । अथवा । अनीक्षितेति तृन् पठितव्यः । तृतीये सर्वधर्माणां स्वप्नमायोपमैराकारैर्विचित्रः प्रतिभासः । चतुर्थे तु तेषामस्तमयाच्छरन्मध्यान्हगगनसमो विगतसमस्तविप्लवः । तत्र स्वप्नदृश्यं नरकचित्तरङ्गादिस्वप्नः । तद्दर्शी आत्मैव तयोरस्तमयात् । यस्तौ विकृते(तौ)ऽयोगेनऽ [अ]भेदेन सोऽद्वयंऽ ग्राह्यग्राहकशून्यंऽधर्माणां तत्त्वऽ परमार्थंऽएकक्षणेनैव पश्यतिऽ । एनमाह । रूपापर्यन्ततयेत्यादिना । इह चतुर्थ एकक्षणाभिसमयः । प्रज्ञापारमिता तस्या अपर्यन्तता । सर्वधर्मपरमार्थस्य केवलस्य केवलविमलनभोनिभस्य तेन संवेदनात् । सा वेदितव्या । कथमित्याह । रूपादीनामपर्यन्तयेति । कथं तेषामपर्यन्तता? द्वयप्रतिभासास्तमयात् । यावत्खलु द्वयं तावत्पर्यन्तः परिमितत्वात् ।

ननु रूपतद्ग्राहकयोरस्तमयेनापि पर्यन्तता? क आह रूपस्यैवेति? किन्तर्हि? रूपस्य यावद्विज्ञानस्य । ननु तथापि ग्राहकस्यास्तमयो नोक्त इति चेत् । न तस्यापि स्कन्धैरेव संग्रहात् । अप्रकाशात्मनो ग्राहकत्वायोगादिति सर्वधर्माद्वयतत्त्वैकचित्तक्षणाभिसमयश्चतुर्थः ॥

एकक्षणाभिसमयः सप्तमोऽभिसमयः ॥

अष्टमोऽभिसमयो धर्मकायः । तस्य चत्वारि वस्तूनि । त्रयः कायाः कारित्रं च । तथाहि पूर्वमुद्देशः कृतः-

(र्स्त्_१७२)
[१७४] स्दाभाविकः ससांभोगो नैर्माणिक इति त्रिधा ।
धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ १-१७ ॥

इति ॥ धर्मो मार्गः । स चेह प्रकर्षगतेः प्रकरणाच्च सप्ताभिसमयलक्षणो गृह्यते । धर्मलभ्यः कायोऽधर्मकायःऽ । कायः शरीरम् । त्रीणि शरीराणि बुद्धानां त्रयः कायाः । उक्तं हि महत्योर्भगवत्योः- "सर्वाकारपरिशुद्धानामनाश्रवाणां सर्वधर्माणां या प्रकृतिः स तथागतोऽर्हन्सम्यक्सम्बुद्धो वेदितव्यः ॥ पुनरपरं तेषामेव धर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य द्वात्रिंशता लक्षणैरशीत्यानुव्यञ्जनैरलङ्कृतकायस्तथागतोऽर्हन्सम्यक्सम्बुद्धो बोधिसत्त्वानां परमं महायानधर्ममनुत्तररतिप्रीतिप्रामोद्यसुखोपभोगाय देशयति ॥ पुनरपरं तेषामेव सर्वधर्माणामधिगमादनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य तथागतोऽर्हन्सम्यक्सम्बुद्धो दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वकालं नानानिर्माणमेघेन सर्वसत्त्वानामर्थं करोति" इति ॥ उक्तं च सूत्रालंकारे-

"त्रिभिः कायैश्च विज्ञेयो बुद्धानां कायसङ्ग्रहः ।
साश्रयः स्वपरार्थोऽयं त्रिभिः कायैर्निदर्शितः" ॥
इति ।

तस्मात्त्रिभिरेव कायैः कारित्रेण च परिच्छेदेन चतुर्धा धर्मकाय उक्तः ।

तत्र स्वभावः प्रकृतिः । स्वभाव एवऽस्वाभाविकःऽ । विनयादिभ्यष्ठगिति स्वार्थे ठक् । अथवा तस्मिन्नेव स्वभावे भवो विशुद्धः परः प्रकर्षः स्वाभाविकः कायः । सम्भोगाय प्रभवतीतिऽसाम्भोगिकःऽ । निर्माण निर्मितिः । तेन निर्वृत्तः कायोऽनैर्माणिकःऽ ।

तत्र स्वाभाविकमधिकृत्य शास्त्रम्-

[१७५] सर्वाकारां विशुद्धिं ये प्राप्ता धर्मा निराश्रवाः ।
स्वाभाविको मतः कायस्तेषां प्रकृतिलक्षणः ॥ ८-१ ॥

तेषां प्रकृतिधर्मता धर्मधातुः । ननु न धर्मधातुस्तथागतोऽतिप्रसङ्गात् । किं तर्हि? धर्मधातुविशुद्धिः । तथा चोक्तमार्य बुद्धभूमिसूत्रे- "पञ्चभिराकारैः सुसमुदितबुद्धभूमेः सङ्ग्रहो वेदितव्यः । कतमैः पञ्चभिः? धर्मधातुविशुद्धया आदर्शज्ञानेन समताज्ञानेन प्रत्यवेक्षणाज्ञानेन कृत्यानुष्ठानज्ञानेन च" इति ।

(र्स्त्_१७३)
धर्मधातुविशुद्धिः सुविशुद्धो धर्मधातुः । सुविशुद्धानां धर्माणां धर्मतेति नार्थभेदः कश्चित् । अतः सूत्रम् । सूर्यरश्मिमण्डलापर्यन्तावभासनतया प्रज्ञापारमितापर्यन्तावभासनतानुगन्तव्येति । सर्व एव त्रासादिदोषरहिताः स्फाटिकाः शुद्धाः । तत्र चन्द्रसूर्याभ्यामन्ये श्रावकप्रत्येकबुद्धानां विमुक्तिकायस्योपमाः । सूर्याचन्द्रमसावपि शुद्धस्फाटिकौ । तयोरेतदधिकं यत्तौ दशदिग्व्यापिरश्मिजालं जनयतः । ततस्तावनन्तज्ञेयविषयमनन्तं ज्ञानमुत्पादयतो बुद्धानां विमुक्तिकायस्योपमाने । अत एवासौ धर्मकाय इत्यभिधीयते । अनन्तधर्माश्रयत्वात् । तदिह धर्मधातुविशुद्धिजमनन्तं ज्ञानं प्रज्ञापारमिता । तस्या अपर्यन्तज्ञेयावभासनता वेदितव्या सूर्यरश्मिमण्डलापर्यन्तावभासनतया दृष्टान्तेन । तथा हि बुद्धधर्माणां सुविशुद्धो धर्मधातुः सूर्यवत् । तज्जा प्रज्ञा प्रज्ञपारमिता सूर्यरश्मिण्डलवत् । तया यदपर्यन्तावभासनं तद्रविरश्मिमण्डलेनापर्यन्तावभासनवत् । तदनेन बुद्धानां सुविशुद्धो धर्मधातुः स्वाभाविकः कायस्तस्य च सर्वत्र ज्ञेये ज्ञानवशिता दर्शिता ।

तस्यैव सत्त्वार्थवशितां व्यापिनित्यत्वं चाधिकृत्य शास्त्रम्-

[१७६] परिपाकं गते हेतौ यस्य यस्य यदा यदा ।
हितं भवति कर्तव्यं प्रथते तस्य तस्य सः ॥ ८-९ ॥
[१७७] वर्षत्यपि हि पर्जन्ये नैवाबीजं प्ररोहति ।
समुत्पादेपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ ९-१० ॥
[१७८] इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते ।
अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ ८-११ ॥

ऽसःऽ इति स्वाभाविकः कायः ।ऽप्रथतेऽ निर्माणप्रथनात् । तदा तदेति गम्यतेऽयदा यदाऽ इति वचनात् । तस्य हितस्य करणायेत्यर्थाद्गम्यते । तस्मात्तदा तदैवेत्यत आह ।ऽवर्षत्यपिऽ इत्यादि ।ऽइतिऽ इत्यादि ।ऽकारित्रवैपुल्यंऽ सर्वभव्येषु कारित्रम् । तस्यैवऽ इति कारित्रस्य । इति स्वाभाविकः कायः ॥

साम्भोगिकस्य कायस्य बहुवक्तव्यम् । तत्र सम्भोगमधिकृत्याह । सर्वशब्दापर्यन्ततया प्रज्ञापारमितापयन्ततानुगन्तव्येति । शास्तुर्देशयतः श्रृण्वतां च बोधिसत्त्वानां यः परममहायानधर्मसंबोधः सा प्रज्ञापारमिता । स एव सम्भोगः सम्भोगकारणत्वात् । यः पुनस्तज्जानां मृदुमध्याधिमात्रसौमनस्यलक्षणानां रतिप्रीतिप्रामोद्यानां सुखस्य चानुभवः स मुख्यः सम्भोगः । तस्याः प्रज्ञापारमिताया अपर्यन्तता वेदितव्या । कथमित्याह । सर्वशब्दापयन्ततयेति । (र्स्त्_१७४) हेतौ तृतीया । यतस्तयोः सम्बोधयोर्यथाक्रममपर्यन्ता देशनाः शब्दजन्या जनकाश्च ते कथं सर्वे? नाना विनेयानुरूपैः सर्वैराकारैः प्रथनात् । कथमपर्यन्ताः? अनिधनेन तेन कायेन देशनाया निरवधिकत्वात् । ताथागतस्यापि सम्बोधस्यापर्यन्तता । कुत इत्याह । सवबुद्धधर्मसमुदागमापर्यन्ततया प्रज्ञापारमितापर्यन्तता । यथोक्तः शास्तुरेव महायानधर्मसम्बोध इह प्रज्ञापारमिता । तस्या अपर्यन्तता । तत्कारणस्य सर्वबुद्धधर्माणां समुदागमस्यापर्यन्ततयेत्यर्थः । ते पुनर्धर्मा महत्योभगवत्योः पठ्यन्ते । सप्तत्रिंशब्दोधिपक्ष्या धर्माः । अष्टौ विमोक्षाः । नवानुपूर्वविहारसमापत्तयः । दश कृत्स्नायतनानि । अष्टवभिभ्वायतनानि । अरणा समाधिः । प्रणिधिज्ञानम् । चतस्रः प्रतिसम्विदः । सर्वाकाराश्चतस्रः परिशुद्धयः । दश वशिताः । दश बलानि । चत्वारि वैशारद्यानि । त्रीण्यरक्ष्याणि । त्रीणि स्मृत्युपस्थानानि । असंमोषधर्मता । वासनासमुद्घातः । महाकरुणा । अष्टादशावेणिकाः बुद्धधर्माः । सर्वाकारज्ञता चेति ॥ अतः शास्त्रम्-

[१७९] बोधिपक्षाप्रमाणानि विमोक्षाश्चानुपूर्वेशः ।
नवात्मिका समापत्तिः कृत्स्न दशविधात्मकम् ॥ ८-२ ॥
[१८०] अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः ।
अरणाप्रणिधिज्ञानमभिज्ञाः प्रतिसम्विदः ॥ ८-३ ॥
[१८१] सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश ।
बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ ८-४ ॥
[१८२] त्रिविधं स्मृत्युपस्थानं त्रिधासंमोषधर्मता ।
वासनायाः समुद्घातो महती करुणा जने ॥ ८-५ ॥
[१८३] आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः ।
सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥ ८-६ ॥

बोधिपक्ष्याश्चाप्रमाणानीति द्वन्द्वः ।ऽअनुपूर्वशऽ इति । अनुपूर्व परेण संबध्यते ।ऽअरक्षणऽ इत्यकरणीयरक्षणम् । अरक्ष्यमित्यर्थः । तत्त्रिविधम् ।ऽधर्मकायऽ इति । अनाश्रवो बुद्धानां धर्मराशिः । यथावसरमस्माभिर्बहवो व्याख्याताः । शेषानिह व्याचक्षीमहि ।
ऽअष्टौ विमोक्षाऽ इति । रूपी रूपाणि पश्यति सुवर्णदुर्वर्णानि नीलपीतलोहितावदातानीति प्रथमो विमोक्षः । अध्यात्ममरूपसंज्ञी रूपाणि पश्यति पूर्ववदिति (र्स्त्_१७५) द्वितीयः । शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । आकाशानन्त्यायतनादिविमोक्षाश्चत्वारः । संज्ञावेदितनिरोधोऽष्टमः ।

आवरणाद्विमुच्यन्त एभिरिति विमोक्षाः । तत्र त्रयो निर्माणावरणविमोक्षाः । शेषाः शान्तविहारसमापत्त्यावरणविमोक्षाः । त्रयो रूपिणः । पञ्चारूपिणः । परमप्रशान्तोऽष्टमः । रूपीति आत्मनि रूपसंज्ञी । पश्यतीति अधिमोक्षनिर्मितानि मनसा पश्यति । अध्यात्ममरूपसंज्ञी । आत्मनि नामसंज्ञी । शुभो विमोक्षः । शुभाशुभानि रूपाणि निर्माय तेष्वेकतरसंज्ञालाभात् । यथाक्रममाभोगप्रातिकूल्यप्रहाणाय । संज्ञावेदितानिरोधोऽस्थावराणां चित्तचैतसिकानां क्लिष्टमनःसंगृहीतानां च निरोधः प्राग्व्युत्थानात् ॥

अष्टावभिभ्वायतनानि । आलम्बनाभिभवनादभिभूतानि आयतनानि चित्तस्थितयोऽभिभ्वायतनान्यष्टौ । तत्र प्रथमाद्विमोक्षात्द्वे अभिनिर्ह्रियेते । द्वितायादपि द्वे । तृतीयाच्चत्वारि । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि हीनप्रणीतानि । तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथा संज्ञी च भवतीति प्रथमम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणि सुवर्णदुर्वर्णानि यावत्तथासंज्ञी च भवतीति द्वितीयम् । अध्यात्ममरूपसंज्ञी च बहिर्धा रूपाणि पश्यति परीत्तानीत्यादि तृतीयम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यत्यधिमात्राणीत्यादि चतुर्थम् । तृतीयाद्विमोक्षाच्चत्वार्यभिनिर्ह्रियन्ते । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणी पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा उमकापुष्पं सम्पन्नं वाराणसेयकं वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं निलनिर्भासम् । तानि च रूपाण्यभिभूय जानाति, अभिभूय पश्यति, तथासंज्ञी च भवतीति पञ्चमम् । एवं पीतानीत्यादि । तद्यथा कर्णिकारपुष्पमित्यदिकं षष्ठम् । एवं लोहितानित्यादि । तद्यथा बन्धुजीवपुष्पमित्यादि सप्तमम् । एवमवदातानीत्यादि । तद्यथा उषसि तारकारूपमित्यादि चाष्टमम् ॥

तत्र परीत्तानि सत्त्वसख्यातानि स्वल्पप्रमाणत्वात् । सुवर्णदुर्वर्णानि शुभाशुभत्वात् । हीनप्रणीतानि भौमदिव्यत्वात् । तानि विमोक्षैरधिमुच्याभिभ्वायतनैरभिभवति । पुनः पुनरन्तर्द्धाप्य दर्शनात् । अभिभूय जानाति शमथेन पश्यति विपश्यनया तथासंज्ञी भवति निरभिमानत्वात् । अधिमात्राणीति । असत्त्वसंख्यातानि गृहविमानपर्वतादीनि महाप्रमाणत्वात् । नीलानीति उद्देशः । शेषैर्निर्देशः । नीलवर्णानीति स्वाभाविकेन वर्णेन । नीलनिदर्शनानीति सांयोगिकेन वर्णेन । नीलनिर्भासानीति । उभयथापि भास्वरत्वात् । उमकातशी(सी?) । कर्णिकारः प्रसिद्धः । बन्धुजीवो बन्धूकः । उषा रात्रेरन्तः ॥

(र्स्त्_१७६)
ऽकृत्स्नंऽ दशविधात्मकंऽ इति । अभिभ्वायतनैरभिभूय पृथिव्यादीनां कृत्स्नं समन्तादिभिः सफरणात्कृत्स्नान्युच्यन्ते । कदाचित्तान्येवायतनानीति कृत्स्नायतनान्युच्यन्ते । कदाचित्तु पृथिव्यादिभिर्विशिष्य निर्दिश्यन्ते । पृथिवीकृत्स्नमप्कृत्स्नं तेजःकृत्स्नं वायुःकृत्स्नं नीलकृत्स्नं पीतकृत्स्नं लोहितकृत्स्नमवदातकृत्स्नमाकाशानन्त्यायतनकृत्स्नं विज्ञानानन्त्यायतनकृत्स्नं चेति ॥

ऽसर्वाकाराश्चतस्रः परिशुद्धयऽ इति । आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिश्च ।

तत्र सवासनानां सर्वक्लेशपक्षाणां दौर्बल्यानामाश्रयादत्यन्तोपरमः स्वस्यचात्मभावस्य यथेच्छमादानस्थानच्यवनेषु वशवर्तिता सर्वाकारा आश्रयपरिशुद्धिः । सर्वालम्बनानां निर्माणपरिणामसंप्रख्यानेषु वशवर्तिता सर्वाकारा आलम्बनपरिशुद्धिः । पूर्ववत्सर्वचित्तदौष्ठुल्यापगमश्चित्ते च सर्वाकारकुशलमूलोपचयः सर्वाकारां चित्तपरिशुद्धिः । पूर्ववत्सर्वाविद्यापक्षदौष्ठुल्यापगमः सर्वज्ञेयज्ञाने च वशवर्तिता सर्वाकारा ज्ञानपरिशुद्धिः ॥

ऽवशिता दशऽ इति । दश वशिताः । अयुर्वशिता यथेच्छमायुषस्थापनात्त्यजनाच्च । चित्तवशिता यथेच्छध्यानादिसमापत्तेः । परिष्कारवशिता यथेच्छमुपकरणप्रत्युपस्थानात् । कर्मवशिता यथेच्छं कायवाक्कर्मसिद्धेः । उपपत्तिवशिता सर्वोपपत्त्यायतनेषु यथेच्छमुपपत्तेः । ऋद्धिवशिता यथेच्छमभिज्ञाः । प्रणिधानवशिता सर्वप्रणिधानसमृद्धेः । अधिमुक्तिवशिता यद्यथाधिमुच्यते तत्तथैव भवति । ज्ञानवशिता यदेव ज्ञातुमिच्छति तदेव जानाति । धर्मवशिता सूत्रादिधर्मव्यवस्थानेषु कौशलम् ॥

ऽत्रीण्यरक्ष्याणिऽ इति । परिशुद्धकायसमुदाचारस्तथागतो नास्ति तस्यापरिशुद्धकायसमुदाचारता यां तथागतः प्रतिच्छादयितव्यां मन्येत कच्चित्परे न जानीयुरित्येतत्प्रथममरक्ष्यमेवं वाक्कर्म द्वितीयम् । एवं मनःकर्म तृतीयम् ॥

ऽत्रीणि स्मृत्युपस्थानानिऽ यथापाठम्- "तथागतस्य धर्म देशयत एकत्याः शुश्रूषन्ते । श्रोत्रमवदधति । आज्ञाचित्तमुपस्थापयन्ति प्रतिपद्यन्ते धर्मस्यानुधर्मम् । न तेन तथागतस्य नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम् । अपरे न शुश्रूषन्ते । न श्रोत्रमवदधतीत्यादि । न तेन तथागतस्याघातो नाक्षान्तिर्नाप्रत्ययः न चेतसोऽनभिराद्धिः । एकत्याः शुश्रूषन्ते । एकत्या न सुश्रूषन्ते । न तेन तथागतस्य द्वयं भवति नन्दी आघातश्च । सर्वत्रोपेक्षको विहरति स्मृतिमान सम्प्रजानन्" इति ॥

(र्स्त्_१७७)
ऽअसम्मोषधर्मताऽ सत्त्वार्थक्रियाकालानतिक्रमाद्बुद्धानाम् । अत एवैषा लक्षणविधानतोपपन्ना भवति ॥

ऽवासनासमुद्धातऽ इति । प्रहीणक्लेशस्यापि यदप्रहीणक्लेशस्येव चेष्टितं सा क्लेशवासना । सापि तथागतस्यास्तङ्गतेति समुद्घातक्लेशवासनः स भगवानुच्यते ॥

ऽमहाकरुणाऽ हिताशयता । यया भगवान्सर्वकालं षट्कृत्वो लोकं व्यवलोकयति "को हीयत को वर्द्धत" इत्यादि ॥

ऽसर्वाकारज्ञताऽ इति सर्वधर्माणां स्वभावविशेषलक्षणप्रभेदपर्यन्तज्ञानमित्यर्थः ॥

रणं विवादकलहादि । इह तु रणहेतुः क्लेशो रणः । तमालम्ब्य रणमुत्पादयतीति । यं समाधिं समापद्यते, यतो व्युत्थाय ग्रामादौ प्रविष्टं तमालम्ब्य तत्रत्यानां रणं नोत्पद्यते साऽअरणाऽ । सा श्रावकस्यापि भवति बुद्धस्यापि । तयोः कारित्रविशेषः । तमधिकृत्य शास्त्रम्-

[१८४] श्रावकस्यारणादृष्टेर्न क्लेशपरिहारिता ।
तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ ८-७ ॥

श्रावकीयारणा क्लेशहेतोर्दर्शनस्य परिहारिता । न साक्षात्क्लेशस्य । सौगती तु परकीयक्लेशस्रोतस उच्छेदाय न दर्शनस्येत्यर्थः ॥

इदं जानीयामिति प्रणिधाय ध्यानं समापन्नस्य लोकवृत्तान्तादौ यज्ज्ञानमुत्पद्यते तत्ऽप्रणिधिज्ञानंऽ श्रावकाणाम् ।

तथागतमधिकृत्य शास्त्रम्-

[१८५] अनाभोगमानासङ्गमव्याघातं सदा स्थितम् ।
सर्वप्रश्नापनुद्धौद्धं प्रणिधिज्ञानमिष्यते ॥ ८-८ ॥

ऽअनाभोगंऽ निर्विकल्पत्वात् ।ऽअनासङ्गंऽ निरपेक्षत्वात् ।ऽअव्याघातंऽ सर्वत्राप्रतिहतत्वात् ।ऽसदा स्थितंऽ इत्यसमाहिते चेतसि स्थितत्वात् । सर्वप्रश्नान् छेदयतीतिऽसर्वप्रश्नापनुत्ऽ ।

स च सम्भोगकायः परिशुद्धे स्वबुद्धक्षेत्रे जायते यावदाकाशस्थितिरवतिष्ठते । तत्कुतो बुद्धक्षेत्रम्? प्राधान्येन तस्यैव तत्रोपपत्तेः ।

(र्स्त्_१७८)
लुज्यते प्रलुज्यतेति लोकः । प्रजातं भाजनं च । तस्मात्द्विधा लोकधातुः सत्त्वलोको भाजनलोकश्च । तत्र सत्त्वलोकपरिशुद्धिमधिकृत्याह । सर्वसत्त्वधातुपुण्यज्ञानसम्भारापर्यन्ततया प्रज्ञापारमितापयन्ततानुगतव्येति । यया भगवतः प्रज्ञया परिपाचिताः सत्त्वास्तत्र यावदाकाशमुत्पद्यन्ते । उत्पन्नाश्च यया बोधये परिप्राच्यन्ते । सेह प्रज्ञापारमिता । तस्या अपर्यन्ततानुगन्तव्या । कथमित्याह । सर्वेत्यादि । ये केचित्तत्र सत्त्वा उत्पद्यन्ते । सर्वे ते लब्धार्यभूमयो बोधिसत्त्वाः । ते सर्वे । सर्वः सत्त्वधातुः सत्त्वराशिः । तस्य पुण्यज्ञानसम्भारः । तयोरपर्यन्ततया । पृथिवीधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्या । एवमब्धातुतेजोधातुवायुधात्वाकाशधातुविज्ञानधात्वपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तथा हि भाजनलोकस्तत्र करतलसमं भूतलम् । प्रासादोद्यानवापीकल्पद्रुमादिपरिकरश्च सत्त्वावासः परमोज्ज्वलसप्तरत्नमयोऽनेकलोकधात्वन्तरस्फुरणमहारश्मिप्रमोक्ष उपरिष्ठाच्च गगनमनुरूपसनिर्भासं षड्धातुकाश्च सत्त्वाः । "षड्धातुरयं भिक्षो पुरुषः" इति वचनात् । अतस्तेषामपि कायः कान्तिमान् प्रभामण्डलीभूम्यनुरूपवर्णसंस्कारः । तत्राभोगपरिभोगाश्च सत्त्वानां सर्वदेवलोकप्रतिविशिष्टाः । येषामुपभोग एकान्तसुख एकान्तानवद्य एकान्तवशवर्ती च । ईदृशी षड्धातुपरिशुद्धिरपर्यन्ता निरवधिकत्वादतिविशालत्वाच्च । अतस्तस्या अपर्यन्तया तत्कारणभूताया भगवतः प्रज्ञाया अपर्यन्ततानुगन्तव्या । तत्र चोत्पन्ना बोधिसत्त्वा अनन्तान् लोकधातून् गत्वा तत्रत्यानां सत्त्वानामकुशलं(ल)सञ्चयान् हन्तध्या(व्या?)न(न्) तत्प्रतिपक्षांश्च कुशलसञ्चयान् प्रजानन्ति । तेषामप्रमाणतया तत्परिच्छेदिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह । कुशलाकुशलधमसञ्चयाप्रमाणतया प्रज्ञापारमिताप्रमाणता वेदितव्येति । यावन्तश्च ते बोधिसत्त्वास्तेषां कुशलधर्मोत्पादनाय धर्म देशयन्ति स सर्वः
सर्वधर्मसञ्चयः । तस्याप्रमाणतया तद्व्यवस्थापिकायास्तेषां प्रज्ञाया अप्रमाणता वेदितव्येत्येतदाह । सर्वधर्मसञ्चयाप्रमाणतया प्रज्ञपारमिताप्रमाणता वेदितव्येति ॥

सर्वधर्मसमाध्यपर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । धर्मा धारण्यः समाधयश्चित्तस्थितयः । धर्माश्च समाधयश्च सर्वे च ते धर्मसमाधयश्च । तेषामपर्यन्तता । तत्प्रतिलम्भिता तल्लाभिता या तत्र बोधिसत्त्वानां तया तज्जनिकाया भगवतः प्रज्ञया अपर्यन्तता वेदितव्येत्यर्थः ।

सर्वबुद्धर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तत्र बुद्धः सम्भोगकायः । तस्य सर्वे धर्माः सर्वबुद्धधर्माः । द्वात्रिंशन्महापुरुषलक्षणान्यशीति (र्स्त्_१७९) चानुव्यञ्जनानि । तेषामपर्यन्तता अपरिच्छेद्यता । केनापरिच्छेद्यता? तुलया । तथागतादन्यस्य तादृशानामभावात् । तया भगवतः प्रज्ञायास्तादृश्येवापर्यन्तता वेदितव्या । कतमस्याः प्रज्ञायाः? यया तेषां समग्राणि कारणानि सम्यक्परिज्ञाय सम्यगनुष्ठितानि । अतः शास्त्रम्-

[१८६] द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् ।
सम्भोगिको मतः कायो महायानोपभोगतः ॥ ८-१२ ॥

चतुर्थेन पादेन सम्भोगिकत्वे कारणमाह ।

तत्रादौ पञ्चभिरिन्द्रवज्राभिर्लक्षणान्याह ।

[१८७] चक्राङ्कहस्तक्रमकूर्मपादो जालावनद्वाङ्गुलिपाणिपादः ।
करौ सपादौ तरुणौ मृदू च समुच्छ्रयैः सप्तभिराश्रयोऽस्य ॥ ८-१३ ॥
[१८८] दीर्घाङ्गुलित्वायतपार्ष्णिगात्रं प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरुबाहुः कोशावधानोत्तमवस्तिगुह्यः ॥ ८-१४ ॥
[१८९] सुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ८-१५ ॥
[१९०] हिनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ ८-१६ ॥
[१९१] तुल्याः प्रमाणेऽविरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ८-१७ ॥

(र्स्त्_१८०)
क्रमः पादः चक्राङ्कौ हस्तौ चास्येतिऽचक्राङ्कहस्तक्रमःऽ । सुप्रतिष्ठितत्वात्कूर्माविव पादावस्येतिऽकूर्मापादःऽ । स चासौ स चेति समासः । जालावनद्धाङ्गली पाणी च पादौ चास्येतिऽजालावनद्धाङ्गलिपाणिपादःऽ ।ऽकरौ सपादौ तरुणौ मृदू चऽ अस्येति परेण सम्बन्धः ।ऽसमुच्छ्रयैः सप्तभिराश्रयोऽस्यऽ । लक्षणे तृतीया । आश्रयः कायः सप्तभिरुच्छयैर्लक्षितः कायोऽस्येत्यर्थः । एतेन पञ्चलक्षणान्युक्तानि । चक्राङ्कितपाणिपादता सुप्रतिष्ठितपादता जालपाणिपादता मृदुतरुणहस्तपादता सप्तोच्छ्रयता चेति ।

ऽदीर्घाङ्गुलित्वायतपार्ष्णिगात्रं प्राज्यमृजूच्छङ्खपदोर्ध्वरोमा ।
एणेयजङ्घश्च पटूरूबाहुः कोषा(शा)वधानोत्तमवस्तिगुह्यः ॥

दीर्घाङ्गुलित्वं च आयतपार्ष्णिश्चेति समाहारद्वन्द्वः ।ऽगात्रं प्राज्यमृजुऽ इति बृहदृजुगात्रम् । उच्छङ्खपादश्चासौऽऊर्ध्वरोमाऽ च । उच्चैः सुनिगूढजानुगुल्फत्वादुच्छङ्खपाद इति सूत्रम् । अतश्च उत्कर्षनिगूढार्थ उच्छब्दः । जानुगुल्फास्थिवाची शङ्खशब्दः । उरू मूलादधश्च सर्व पाद इति गम्यते । वस्तौ गुह्यं वस्तुगुह्यम् । कोशावधानमुत्तम वस्तिगुह्यमस्येति तथोक्तः । अनेनाष्टौ लक्षणानि । दीर्घाङ्गुलिता । आयतपार्ष्णिता । बृहदुजुगात्रता । उच्छङ्खपादता । ऊर्ध्वाङ्गरोमता । ऐणेयजङ्घता । पटूरुबाहुता । कोशावहितवस्तिगुह्यता चेति ।

ऽसुवर्णवर्णः प्रतनुच्छविश्च प्रदक्षिणैकैकसुजातरोमा ।
ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ऽ

हरेरिव पूर्वकायोऽस्येतिऽहरिपूर्वकायःऽ ।ऽवृत्तौऽ इति सुसंवृत्तौ । सुश्लिष्टपरिमण्डलग्रीवत्वात् । असंयोरंतरमुत्तरांसमुरः । तदुपचितमस्येतिऽचितान्तरांसःऽ । अनेन सप्तलक्षणानि । सुवर्णवर्णता । श्लक्षणच्छविता । एकैकप्रदक्षिणावर्तरोमता । ऊर्णाङ्कितमुखता । सिंहपूर्वकायता । सुसंवृतस्कन्धता । चितान्तरांसता चेति ।

ऽहीनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः ।
(र्स्त्_१८१)
उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥
तुल्याः प्रमाणे विरलाश्च दन्ता अन्यूनसंख्यादशिकाश्चतस्रः ।
नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ऽ

अनेन श्लोकद्वयेन द्वादशलक्षणान्युक्तानि । रसरसज्ञता । न्यग्रोधपरिमण्डलता । उष्णीषशिरस्कता । पृथुतनुजिव्हता । ब्रह्मस्वरता । सिंहहनुता । सुशुक्लदन्तता । समदन्तता । अविरलदन्तता । समचत्वारिंशद्दन्तता अभिनीलनेत्रता । गोपक्ष्मनेत्रता चेति । दशपरिमाणमस्याः संहतेरितिऽदशिकाऽ । ताश्चतस्रः । चत्वारिंशदित्यर्थः । गोवृषौ गोबलीवर्दौ । अथवाऽगोवृषःऽ पुङ्गवः । सर्वैकत्वेनऽद्वांत्रिशदेतानि हि लक्षणानिऽ । एषां व्याख्यानं च हेतुश्च पूर्वनिमित्तता च धर्मदान (?) सूत्रे ।

[१९२] यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ ८-१८ ॥

अत्र

ऽयस्य यस्य लक्षणस्य यो यो हेतुः प्रसाधकः ।
तस्य तस्य प्रपूर्यायं समुदागमलक्षणःऽ ॥

अयं साम्भोगिकः कायः । कस्य पुनः को हेतुरित्याह ।

[१९३] गुरूणामनुयानादि दृढता संवरं प्रति ।
संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ ८-१९ ॥
[१९४] वध्यमोक्षाः समादानं विवृद्धिः कुशलस्य च ।
इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ ८-२० ॥

तत्र गुरूणामनुगमनप्रत्युद्गमानाभ्यां धर्मश्रवणमाल्योपहारचैत्यानुपानप्रभृतिषु च परिचारदानाच्चक्राङ्कहस्तपादता । दृढसमादानत्वात्सुप्रतिष्ठितपादता । संग्रहवस्तूनामासेवनाज्जालहस्तपादता । प्रणीतान्नपानादिदानान्मृदुतरुणहस्तपादता (र्स्त्_१८२) सप्तोच्छदता च ।ऽवध्यमोक्षाःऽ इति बहुवचनामाद्यर्थम् । वध्यमोक्षणाज्जीवितानुग्रहकरणात् । प्राणातिपातविरतेश्चासेवनाद्दीर्घाङ्गुलिता आयतपार्ष्णिता बृहदृजुगात्रता च । कुशलधर्मसमादानस्य विवर्धनादुच्छंखपादता । ऊर्ध्वाङ्गिरोमता च ।ऽइत्यादिकऽ एवमादिकः ।ऽयथासूत्रंऽ इति यथा पठिष्यति धर्मदाने । महापुरुषकारत्वात्महापुरुषास्तथागता महाबोधिसत्त्वाश्च । तेषां द्योतकानि महापुरुषलक्षणानि द्वात्रिंशत् । तेषामेव शोभाकरणादशीत्यनुव्यञ्जनानि । तान्यधिकृत्य द्वादशश्लोकाः-

[१९५] ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः ।
वृत्ताश्चितानुपुर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ ८-२१ ॥

अनेनाष्टावनुव्यञ्जनान्युक्तानि । ताम्रनखता स्निग्धनखता तुङ्गनखता च । वृत्ताङ्गुलिता चिताङ्गुलिता अनुपूर्वाङ्गुलिता च गूढशिरता निर्ग्रन्थिशिरता चेति ।

[१९६] गूढौ गुल्फौ समौ पादो सिंहेभद्विजगोपतेः ।
विक्रान्तं दक्षिणं चारु गमनमृजुवृत्तते (ता) ॥
[१९७] मुष्टानुपूर्वते

इति षडक्षराधिकेन श्लोकेन द्वादश । गूढगुल्फता । अविषमपादता । सिंहविक्रान्तगामिता । हंसविक्रान्तगामिता । वृषभविक्रान्तगामिता । प्रदक्षिणावतंगामिता । चारूगामिता । अवक्रगात्रता । वृत्तगात्रता । मृष्टगात्रता अनुपूर्वगात्रता चेति ॥

मेध्यमृदुत्वे शुद्धगात्रता ।
पूर्णव्यञ्जनता चारूपृथुमण्डलगात्रता ॥ ८-२३ ॥

इति षडिंवशत्याक्षरैः पञ्चानुव्यञ्जनानि । शुचिगात्रता मृदुगात्रता विशुद्धगात्रता परिपूर्णव्यञ्जनता चारुपृथुमण्डलगात्रता चेति ।

[१९८] समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता ।
अदीनोच्छदगात्रत्वं सुसंहतनगात्रता ॥ ८-२४ ॥

(र्स्त्_१८३)
अनेन षट् । समक्रमता विशुद्धनेत्रता सुकुमारगात्रता उत्सदगात्रता सुसंहतनगात्रता चेति ॥

[१९९] सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता ।
वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ ८-२५ ॥
[२००] दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता ।

अनेन सार्धश्लोकेन नव । सुविभक्ताङ्गप्रत्यङ्गता वितिमिरशुद्धालोकता मृष्टकुक्षिता अभग्नकुक्षिता अक्षामकुक्षिता गम्भीरनाभिता दक्षिणावर्तनाभिता समन्तप्रासादिकता चेति ॥

समाचारः शुचिः कालतिलकापगता तनुः ॥ ८-२६ ॥
[२०१] करौ तूलमृदुस्निग्धगम्भीरायतलेखता ।
नात्यायतं वचो बिम्बप्रतिबिम्बोदयास्यता ॥ ८-२७ ॥

बिम्बानां प्रतिबिम्बोदयोऽस्मिन्निति तथोक्तमास्यं मुखमस्येतिऽबिम्बप्रतिबिम्बोदयास्यःऽ । अनेन सार्धश्लोकेनाष्टौ । शुचिसमाचारता व्यपगततिलकगात्रता तूलसदृशसुकुमारपाणिता स्निग्धपाणिलेखता गम्भीरपाणिलेखता आयतपाणिलेखता नात्यायतवदनता बिम्बप्रतिबिम्बदर्शनवदनता चेति ।

[२०२] मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता ।
चारुमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥
[२०३]अनुपूर्वोदगतास्तुङ्गा नासिका परमं शुचिः ॥ ८-२८ ॥

ऽपरमंऽ अत्यन्तम् । अनेन सार्धश्लोकेन द्वादश । मृदुजिव्हता तनुजिव्हता रक्तजिव्हता च । गजगर्जितजीमुतघोषता । मधुरचारुमञ्जुस्वरता वृत्तदंष्ट्रता तीक्ष्णदंष्ट्रता शुक्लदंष्ट्रता समदंष्ट्रता अनुपूर्वदंष्ट्रता तुङ्गनासिकता शुचिनासिकता चेति ॥

विशाले नयने पक्ष्म चित्तं पद्मदलाक्षिता ॥ ८-२९ ॥
[२०४] आयतश्लक्ष्णसुस्निग्धसमरोमे भ्रुवौ भुजौ ।
पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ ८-३० ॥
[२०५] ललाटमपरिम्लानं पृथु पूर्नोत्तमाङ्गता ।

(र्स्त्_१८४)
समरोमे इति स्त्रियां डाप् । अनेन श्लोकद्वयेन त्रयोदश । विशालनयनता चितपक्ष्मता सितसितकमलदलनयनता आयतभ्रूता श्लक्ष्णभ्रूता स्निग्धभ्रूता समरोमभ्रूता पीनायतभुजता समकर्णता अनुपहतकर्णता सुपरिणामितललाटता पृथुललाटता परिपूर्णोत्तमाङ्गता चेति ॥

भ्रमराभ्राश्चिताः श्लक्ष्णा असंलुडितमूर्तयः ॥ ८-३१ ॥
[२०६] केशा अपरुषाः पुंसां सौरभ्यादपहारिणः ।
श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ ८-३२ ॥

अनेन सार्धश्लौकेन सप्त । भ्रमरसदृशकेशता चितकेशता श्लक्ष्णकेशता असंलुडितकेशता अपरुषकेशता श्रीवत्सस्वस्तिकनन्द्यावर्तललितपाणिपादता चेति ॥

सर्वैकत्वेन बुद्धानामशीतिरनुव्यञ्जनानि ॥

इति साम्भोगिकः कायः ॥

नैर्माणिकं कायमधिकृत्य शास्त्रम्-

[२०७] करोति येन चित्राणि हितानि जगतः समम् ।
आ भवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ ८-३३ ॥
[२०८] तथा कर्माप्यनुच्छिन्नमस्या संसारमिष्यते ।

अतः सूत्रम् । सर्वधर्मापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । यावन्तः स्थलजलान्तरिक्षचराणां स्थावरजङ्गमानां सत्त्वानां कायवाक्संगृहीता धर्माः सत्त्वानां विनयनाय भगवता अनन्तेषु लोकधातुषु निर्मिताः ते सर्वधर्मास्तेषामपर्यन्ततया भगवतः प्रज्ञाया अपर्यन्तता वेदितव्या । कतमस्याः ते निर्मिताः? शून्यतापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । यथा तथागतेन निर्मिताः काया अनन्तास्तथा तेषां शून्यताप्यनन्ता । केन शून्यता? स्वाधीनैश्चिचैतसिकैर्मायापुरुषवत् । अतस्तस्यापि अपर्यन्ततयापर्यन्ततेति पूर्ववत् । यथा तेषां कायवाचौ निर्मिते तथा चित्तचैतसिका अपि किन्न निर्मीयन्ते? तदुपादानाभावात्, अपूर्वसत्त्वाप्रादुर्भावाच्च । ननु चित्तचैतसिकनिर्माणमपीष्यते बुद्धानाम् ।

"कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः ।"

(र्स्त्_१८५)
इति वचनात् । सत्यमिष्यते । किन्तु सत्युपादाने देवताधिष्ठानेन स्वप्नदर्शनवत् । वाचा वागर्थन्नि(र्थनि)वेदनवच्च । अत आह । चित्तचरितापर्यन्ततया प्रज्ञापारमितापर्यन्ततानुगन्तव्येति । तेषां च सत्त्वानां यथा देशितं धर्ममालम्ब्य प्रातिपक्षिकाः कुशला धर्मा उत्पद्यन्ते । तैश्च तेषां विक्षेपका अकुशला धर्माः प्रहीयन्ते । अत आह । कुशलाकुशलधर्मापरिमाणतया प्रज्ञापारमितापरिमाणतानुगन्तव्येति ।

अथ ये निर्मितास्ते कथं भगवतः कायाः? भगवता निर्मितत्वादिति चेत् । मायाकारनिर्मिता गजादयस्तर्हि मायाकारस्य कायाः स्युः, स्वकायत्वेनाधिष्ठाय तेन निर्माणात् । स्वकायवच्च गमनव्याहारादिषु दुष्करेषु व्याप[आ]रणात्तेपि काया इत्ययं भगवतो नैर्माणिकः कायः ।

उक्तास्त्रयः कायाः । कारित्रमिदानीं वक्तव्यम् । तत्समासत आह । सिंहनादनदनतया प्रज्ञापारमितानुगन्तव्येति । मृगाणामुत्तमः सिंहः । तत्साधर्म्यात्पुरुषोत्तमाः पुरुषसिंहा इत्युच्यन्ते । इह तु प्रकर्षगतेर्देवमनुष्यादिसर्वपुरुषोत्तमस्तथागतः सिंह इत्युच्यते । तस्य धर्मः सर्वाशापरिपूरणतया सर्वपरप्रवादिमृगभीषणतया च सिंहनाद इत्युच्यते । सिंहध्वजवत् । तस्य नदनो देशकः । तभ्दावस्तत्ता । तया भगवतः प्रज्ञा गन्तव्या पारगमनात्पारमिता वेदितव्येत्यर्थः । स पुनः सिंहनादनदनः सप्तविंशतिविधस्य कारित्रदेशना । सा विस्तरेण महत्योर्भगवत्योर्द्रष्टव्या । तामधिकृत्य शास्त्रम्-

गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ ८-३४ ॥
[२०९] निवेशनं ससंक्लेशे व्यवदानावबोधने ।
सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ८-३५ ॥
[२१०] बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये ।
संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ ८-३६ ॥
[२११] बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य च वारणे ।
बोधिप्राप्तौ जिनक्षेत्रविशुद्धो नियतिं प्रति ॥ ८-३७ ॥
[२१२] अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे ।
बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ ८-३८ ॥
(र्स्त्_१८६)
[२१३] विपर्यासप्रहाणे च तदवस्तुकतानये ।
व्यवदाने च सम्भारे संस्कृतासंस्कृते प्रति ॥ ८-३९ ॥
[२१४] व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् ।
धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ ८-४० ॥

भगवांस्तान्विग्रहान्निर्मिमीते ये नारकाणां नरकाग्निनिर्वापणेन धर्मदेशनया च तथा तिरश्चां स्वमांसरुधिरादिदानेन तथा प्रेतानामन्नपानादिदानेन धर्मदेशनया च चित्तमभिप्र साद्य तेन चाभिप्रसादेन स्वगतिभ्यश्च्युतानां देवमनुष्येषूपपादयन्ति । देवानपि हीनयानाधिमुक्तिकान् धर्मदेशनयाभिप्रसाद्य मनुष्येषूपपन्नान् यावच्छ्रावकबोधौ प्रत्येकबोधौ च प्रतिष्ठापयिष्यन्तीति गतिप्रशमनकर्म ॥

ये च मनुष्यान् बाह्याध्यात्मिकेष्वामिषदानेषु लौकिकलोकोतरेषु च धर्मदानेषु, अर्थचर्यायां समानार्थतायां च शिक्षयन्तीति सङ्ग्रहवस्तुनिवेशनकर्म ॥

संक्लेशः क्लेशावरणं ज्ञेयावरणं च । व्यवदानं तयोरस्तमयः । स च पुद्गलधर्मनैरात्म्यज्ञानादिति संवृतिः । परमार्थस्तु [न] धर्मधातोरन्यदस्तीति संक्लेशव्यवदानज्ञाननिवेशनकर्म ॥

यथा हि मायाकारो विचित्राणि वस्तूनि यावभ्दक्ष्यभोज्यानि निर्माय लोकं तोषयति । स च लोको न जानाति सर्वमेतदद्रव्यकमिति । यश्च प्रज्ञापारमितायां चरति न स धर्मधातुव्यतिरिक्तं किञ्चित्पश्यति न सत्त्वं नापि सत्त्वप्रज्ञप्तिं धर्माणामपि नैरात्म्यादिति सत्त्वार्थयाथात्म्यनिवेशनकर्म ॥

स आत्मना च दानं ददाति परांश्च दाने नियोजयति दानस्य च वर्णं भाषते । ये चान्ये दानं ददति तेषा च वर्णवादी भवति समनुज्ञः । एवमात्मना च शीलं रक्षतीत्यादि वाच्यमिति षट्पारमितानिवेशनकर्म ॥

आत्मना च दशकुशलान् कर्मपथान् समादाय वर्तते । आत्मना च पञ्चशिक्षापदानि यावदात्मना च द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनानि निष्पादयतीति वाच्यमिति बुद्धमार्गनिवेशनकर्म ॥

इह बोधिसत्त्वः सत्त्वानां पारमितादीन् सर्वधर्मान् देशयति । तेषां कोटित्रयस्य फलस्य च प्रकृतिशून्यतां देशयति । ते तथा भावयन्तो विशेषमधिगच्छन्ति । (र्स्त्_१८७) ततस्ते भूयस्या मात्रया प्रकृतिशून्यतां भावयन्ति यावदनुत्तरां सम्यक्सम्बोधिमधिगच्छन्तीति प्रकृतिशून्यतानिवेशनकर्म ॥

प्रकृतिशून्याः सर्वधर्माः न चान्या प्रकृतिशून्यता अन्ये धर्माः । किं तर्हि? प्रकृतिशून्यतैव धर्माः । त एव प्रकृतिशून्यतेत्यद्वयधर्मनिवेशनकर्म ॥

न सम्यक्सम्बोधौ भगवता कश्चिद्धर्म उपलब्धः । यत्पुनरभिसम्बुध्य धर्मा देशिताः स्कन्धधात्वादयो वा यावत्सर्वाकारज्ञता वा तत्सर्वं लोकव्यवहारेणेति साङ्केतिकज्ञाननिवेशनकर्म ॥

यदि पारमितादिषु सर्वधर्मेषु शिक्षते तथापि सम्यक्सम्बोधये न शक्नोति । यदि पुनस्तेष्वेव चरति तेषां च कोटित्रयं फलं च नोपलभते । तदा सम्यक्सम्बोधये शक्नोतीत्युपलम्भनिवेशनकर्म ॥

यद्यपि बोधिसत्त्वः प्रज्ञापारमितायां चरन् सत्त्वं सत्त्वप्रज्ञप्तिं च नोपलभते तथापि संवृत्या पश्यति सत्त्वान् वस्तूपलम्भेन संक्लिष्यमानान् । स तांस्तत्प्रहाणाय त्रिषु यानेषु परिपाचयतीति सत्त्वपरिपाकनिवेशनकर्म ॥

स एवमुपपरीक्षते । शून्याः सर्वधर्माः । न च शून्यता शून्यतामभिनिविशते । तस्मात्सर्वधर्मेष्वनभिनिविष्टेन भवितव्यम् । दानादिषु चरितव्यम् । न च तेषु तत्फलेषु वा गन्तव्यमिति सर्वाभिनिवेशप्रहाणनिवेशनकर्म ॥

न मार्गेण बोधिः प्राप्यते नामार्गेण । यतो बोधि एव मार्गः मार्ग एव बोधिः । बोधिसत्त्व एव तर्हि बुद्धः स्यादिति चेत् । यदा सर्वबुद्धधर्मान् परिपूर्य वज्रोपमसमाधौ स्थित्वा बोधिसत्त्व एकक्षणसमायुक्तया प्रज्ञया सम्यक्सम्बोधिमधिगच्छति तदा स एव तथागतः सर्वदर्शी सर्वज्ञ इति निर्दिश्यत इति बोधिप्राप्तिनिवेशनकर्म ॥

स आत्मनः परेषां च दशाकुशलसंगृहीतानि दौःशील्यानि षट्पारमिताविपक्षांश्च हीनयानफलानां च पञ्चानां साक्षात्क्रियास्पृहयोरवकाशं, स्कन्धधात्वादिसाश्रवानाश्रवसर्वधर्मसंज्ञादौष्ठुल्यानि च निवार्य स्वयं च पारमितादिषु सर्वकुशलधर्मेषु प्रतिष्ठितो भवति परानपि प्रतिष्ठापयति । तच्च कुशलमूलं सर्वसत्त्वसाधारणकृत्वा आत्मनः सम्यक्सम्बोधौ च सर्वाकारायां च स्वबुद्धक्षेत्रपरिशुद्धौ परिणामयति । प्रणिधानानि च बुद्धक्षेत्रपरिशुद्धये यथा सूत्रं करोतीति बुद्धक्षेत्रपरिशुद्धिनिवेशनकर्म ॥

प्रथमचित्तोत्पादिक एव बोधिसत्त्वः सम्यक्सम्बोधौ नियतो भवति । नियतस्य कथमपायेषूपपत्तिरिति चेत् । यः सम्यक्सम्बोधौ चित्तमुत्पाद्य षट्सु पारमितासु चतुर्षु वाप्रमाणेषु चरति दश चाकुशलान् धर्मान् प्रहाय तिष्ठति । (र्स्त्_१८८) अष्टौ तस्याक्षणा न सम्भवन्ति किं पुनरपायोपपत्तिः । कथं तर्हि तिर्यग्योनौ जातकानि? तानि साश्रवानाश्रवसर्वकुशलधर्मसमन्वागतस्य सत्त्वार्था(र्थ) वशितया संचिन्त्योपपत्तयो न च तिर्यग्दुःखवेदनाः । तद्यथा तथागतः परमवशित्वलाभात्सर्वलोकधातुषु युगपदनन्तानात्मभावान् परार्थाय निर्मिमीत इति सम्यक्सम्बोधिनियतनिवेशनकर्म ॥

स हि प्रज्ञापारमितायां स्थित्वा दशसु दिक्षु गङ्गानदीवालुकोपमेषु सत्त्वानामर्थ करोति न च लिप्यते । तथा हि यः स्पृशेत्, येन स्पृशेत्, यं च स्पृशेत्, त्रीनिमान्धर्मानसौ नोपलभते शून्यतायां च स्थितः सर्वशुक्लधर्मेषु स्थितो भवति । तयैव तेषां सङ्ग्रात् । तथाहि सर्वधर्माः सर्वधर्मैः शून्याः । ततः शून्यतायामन्तर्भूता इत्यप्रमेयसत्त्वार्थनिवेशनकर्म ॥

स एवं निरूपयति । ये ते दशसु दिक्षु गङ्गानदीवालुकोपमा लोकधातवो ये च तेषु तथागताः सर्वे ते स्वभावेन शून्याः केवलं नामसङ्केतेन प्रज्ञप्यते । सापि प्रज्ञप्तिः स्वभावेन शून्या । यदि तु कस्यचिच्छून्यता न स्यात्प्रादेशिकी स्यात् । यतस्तु न प्रदेशिकी ततः सर्वधर्माः सर्वधर्मशून्या इति । स एवं प्रज्ञापारमितायां स्थित्वा षडभिज्ञा अभिनिर्हरति । यासु स्थित्वा दशदिक्सर्वतथागतानुपसंक्रामति पर्युपास्ते तेभ्यश्च धर्म शृणोति तेषु च कुशलमूलान्यवरोपयत्यनभिनिविष्टः । न हि शून्यतां शून्यतायामभिनिविशते । स दिव्येन चक्षुषा दशदिग्लोकधातुषु सत्त्वान् दृष्ट्वा सद्योऽभिज्ञया तत्र गत्वा तेभ्यो धर्मं देशयति । दिव्येन श्रोत्रधातुना दशदिक्सर्वबुद्धानां धर्मदेशनां श्रुत्वोद्गृह्य सत्त्वेभ्यो देशयति । चेतःपर्यायज्ञानेन सत्त्वानां चित्तानि विदित्वा यथाचित्तमेभ्यो धर्म देशयति । सोऽनेकविधं पूर्वनिवासमात्मनः परेषां चानुस्मरति । पूर्वतथागतदेशितांश्च धर्माननुस्मृत्यतद्विनेयेभ्यः सत्त्वेभ्यो देशयति । स आश्रवक्षयज्ञानेन सत्त्वानामनुरूपं धर्मं देशयति । स ताभिरभिज्ञाभिर्यं यमेवाकांक्षत्यात्मभावं सत्त्वानामर्थाय प्रतिग्रहीतुं तं तमेव प्रतिगृण्हाति । न च तत्र सुखदुःखानुनयप्रतिघैरूपलिप्यत इति दशदिग्बुद्धोपासनादिनिवेशनकर्म ॥

कानि पुनर्बोधिसत्त्वस्य बोध्यङ्गानि? षट्पारमिताश्चत्वारि ध्यानानि यावदावेणिका बुद्धधर्माः । यदि तेषु चरति कोटित्रयं च तेषां नोपलभते । यदि चात्मनः सम्यक्सम्बोधये सर्वसत्त्वानां चाग्रतायै तान् सम्यक्परिणामयति । यद्यमी बोधिसत्त्वधर्माः कतमे तर्हि बुद्धधर्माः? एत एव । यद्योभः सर्वाकारज्ञतामभिसम्बुध्यते प्रहीणसर्ववासनानुसन्धिश्च भवति, एकक्षणसमायुक्तया च प्रज्ञया सर्वबुद्धधर्मानभिसम्बुध्यते । न चैवं बोधिसत्त्व इति बोध्यङ्गनिवेशनकर्म ॥

(र्स्त्_१८९)
यद्यपि स्वलक्षणशून्याः सर्वधर्मास्तथाप्यस्ति कर्म, अस्ति तेषां फलम् । न हि सत्त्वाः स्वलक्षणशून्यान् धर्मान् जानन्ति । अजानन्तः पुद्गलं धर्मांश्च कल्पयन्तः कर्माभिसंस्कुर्वन्ति सुचरितं दुश्चरितं वा । दुश्चरितेन त्रिष्वपायेषु पतन्ति । सुचरितैर्देवमनुष्येषूपपद्यन्ते । केचित्पुनः पुद्गलनैरात्म्यं परिज्ञाय सुगतिदुर्गतीः प्रहाय निर्वाणमधिगच्छन्ति । बोधिसत्त्वाः पारमितादीन् कुशलान् धर्मान्परिपूरयन्तः क्रमेण दशभूमीनधिगम्यैकक्षणसमायुक्तया प्रज्ञाया सर्वधर्मानभिसम्बुध्य बुद्धा भगवन्तो भवन्तीति कर्मफलसम्बन्धाविप्रणाशननिवेशनकर्म ॥

न बोधिसत्त्वः सत्यैः सत्यज्ञानैर्वा निर्वाति । किन्तर्हि? चतुःसत्यसमतया । या तेषां समता तथता निःस्वभावता सा न कश्चिद्धर्ममुपलभते सत्यपर्यापन्नमन्यं वा । ततः सर्वधर्माः शून्या इति पश्यन्नियायममवक्रम्य गोत्रभूमौ स्थितो भवति ध्यानान्युत्पादयत्यप्रमाणान्यारूप्यसमापत्तीश्च । स इह शमथभूमौ स्थित्वा दुःखं परिजानाति समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति । न च सत्यारम्बणं चित्तमुत्पादयति । केवलं बोधिनिम्नेन चित्तेन स्वलक्षणशून्यान्सर्वधर्मान् पश्यति । सोऽनया विपश्यनया सर्वधर्मशून्यतां पश्यति । उपायकौशल्येन च धर्मं देशयतीति चतुःसत्यदर्शननिवेशनकर्म ॥

"मैत्रेय आह । यदि भगवन्नभावस्वभावाः सर्वधर्मा कथं बोधिसत्त्वेन रूपादौ शिक्षितव्यं यावद्बुद्धधर्मेषु? भगवानाह । नाममात्रतया । आह । संस्कारनिमित्तेन वस्तुना अवस्तुकं नामकथनं नाममात्रम् । संस्कारो विकल्पः । तस्य निमित्तं विषयः । यत्रैवं भवति । इदं रूपमियं वेदना यावदमी बुद्धधर्मा इति भावः ॥ भगवानाह ॥ आगन्तुकमेतन्नामधेयमत्र प्रक्षिप्तम् । इदं रूपं यावदमी बुद्धधर्मा इति । नामाभेदेन नामा च (? नाम्यर्थ)प्रतीतेः । तस्मादलीकः शब्दार्थो व्यवहारमात्रं न वस्तु ॥ आह ॥ व्यवहारमात्रतापि रूपस्य स्वभाव एवेति । रूपस्वभाव उपलब्ध एव भवति । भगवानाह । न रूपस्य स्वभाव एवेति । रूपस्वभाव उपलब्ध एव भवति । भगवानाह । न तस्योत्पादनिरोधौ ततो न स स्वभावः ॥ आह ॥ किं पुनर्भगवन् सर्वशः स्वलक्षणेन न सन्त्येव रूपादयो यावद्बुद्धधर्माः? भगवानाह । सन्ति लोकसङ्केतव्यवहारतो न नु परमार्थतः ॥ आह ॥ यथाहं भगवतो भाषितस्यार्थमाजानामि । अनभिलाप्य एष धातुः परमार्थतः । सचेत्सस्कारनिमित्तं वस्तु स एवानभिलाप्यो धातुरिति व्याहतमेतत् ॥

भगवानाह ॥ यदातेऽनभिलाप्ये धातौ प्रज्ञाप्रचारो भवत्युपलभसे । तदा संस्कारनिमित्तं वस्तु । आह । नोहीति ॥ भगवानाह ॥ अत एव न तत्तस्मादन्यन्नाप्यनन्यत । अद्यन्यत्कुतस्तदा विनष्टम् । अथानन्यत्कुतो नोपलभ्यते । अपि च । यद्यसौ संस्कारनिमित्तादन्यः स्यादपीदानी सर्वबालपृथग्जनाः परिनिर्वायुः सम्यक्सम्बोधिं (र्स्त्_१९०) चाभिसम्बुध्येरन् । अथानन्यः स्यादपीदानीं तदपि निमित्तं नोपलभ्येत ॥ आह ॥ अनभिलाप्यधातूपनिबद्धे प्रज्ञाप्रचारे वर्तमाने यदि संस्कारनिमित्तं नोपलभ्यते तत्किमसन्नोपलभ्यते सद्वा? भगवानाह । यदि विकल्पतो ग्रहणमेति न विकल्पेष्वपगतेषु तदा परिकल्पमात्रं तदिति न तस्य सत्त्वमसत्त्वं वा । आह । कतिभिराकारैर्भगवन् धर्माणां प्रज्ञप्तिः? त्रिभिर्मैत्रेय । यदुत परिकल्पितं रूपं विकल्पितं रूपं धर्मता रूपम् । यावत्परिकल्पिता बुद्धधर्माः । विकल्पिता बुद्धधर्माः । धर्मता बुद्धधर्मा इति । तत्र या संस्कारनिमित्ते वस्तुनि रूपमिति नामसङ्केतव्यवहारं निश्रित्य रूपस्वभावतया परिकल्पना तत्परिकल्पितं रूपम् । यत्तस्य संस्कारनिमित्तस्य विकल्पमात्रतायामवस्थानं तद्विकल्पितं रूपम् । या पुनस्तेन परिकल्पितेन रूपेण तस्य विकल्पितरूपस्य नित्यकालं निःस्वभावता नैरात्म्यं तथता भूतकोटिस्तद्धर्मतारूपम् । एवं यावत्परिकल्पितविकल्पितधर्मताख्या बुद्धधर्माः । तत्र परिकल्पितं रूपमद्रव्यम् । विकल्पितं सद्रव्यं विकल्पितसद्रव्यतया, न स्वतन्त्रवृत्तितः । धर्मतारूपं नैवाद्रव्यं न सद्रव्यं धर्मताप्रभावितम् । एवं यावद्बुद्धधर्माः । आह । यदुक्तं भगवता । अद्वयस्यैषा गणना कृता यदुत रूपमिति यावद्बुद्धधर्मा इति तत्कथम्? भगवानाह । यत्कल्पितं रूपं न तद्रूपं निःस्वभावत्वात् । न चारूपं व्यवहारतः
। यद्विकल्पितं रूपं न तद्रूपं स्वतन्त्रवृत्तितः । न चारूपं विकल्पितरूपत्वात् । यद्धर्मतारूपं न तद्रूपं रूपविवेकत्वात् । न चारूपं रूपपरमार्थत्वात् । तस्मादद्वयस्यैषा गणना रूपमिति यावद्बुद्धधर्मा इति ॥ आह ॥ एवमन्तद्वयं प्रहाय मध्यमाप्रतिपदं प्रतिपन्नस्य रूपे यावद्बुद्धधर्मेषु कथं लक्षणपरिज्ञा लक्षणप्रहाण लक्षणसाक्षात्क्रिया लक्षणभावना च? भगवानाह ॥ रूपस्य यन्न परिज्ञानं नापरिज्ञानं तदेवास्य परिज्ञानम् । एवं यावद्या भावना नाभावना सैव भावना । एवं यावद्बुद्धधर्माणाम् ॥ आह ॥ एवं परिज्ञादिसमन्वागतस्य बोधिसत्त्वस्य कतमन्निर्वाणम्? भगवानाह । गम्भीरमेषां निर्वाणं यतो न तन्निर्वाणं नानिर्वाणम् । तत्कथम्? यतः परानारभ्य संसारापरित्याग एषां न निर्वाणम् । आत्मानमारभ्य निर्वाणापरित्याग एषां निर्वाणम् । एकात्याग इतरत्यागादयुक्त उभयोरत्याग इति चेत् । उभयोरविकल्पनादुभाभ्यां नोद्विजते । ततो युक्त उभयोरत्यागः । स तर्हि संसरति निर्वाति चेति न युक्तम्? यद्वोधिसत्त्वस्य चित्तवशिताप्राप्तस्योपायकौशल्येन संसारसंदर्शनं सोऽस्य संसारापरित्यागः । या शून्यता या चानुपलम्भप्रतिष्ठानता सोऽस्य निर्वाणापरित्यागः ॥ आह ॥ अविकल्पनायाः समस्तं लक्षणं कतमत्? भगवानाह । ये च रूपादयः सर्वधर्माः । या च तेषां शून्यता । या च तेषां तस्याश्च भावाभावाद्वयता । या चाप्रपञ्चना । (र्स्त्_१९१) इदमविकल्पनायाः समस्तं लक्षणम् ॥ आह ॥ किन्नु भगवन् सर्वेषां श्रावकाणामेकान्तेन निर्वाणप्रतिष्ठा भवति? भगवानाह । नानाधातुके लोके नानाभूताः सत्त्वा नानागोत्रप्रकृउतयः । अस्ति सा गोत्रजातिर्या
आदित एव प्रणीतं विशेषं प्रार्थयते । तमेवाधिगच्छति । अस्ति या हीनं विशेषं प्रार्थयते । तमेवाधिगच्छति । तेनैव सन्तुष्यति । स शमैकायनः श्रावकः । अस्ति यो हीनं विशेष प्रार्थयते । तमेवाधिगच्छति न च तावता सन्तुष्यति । उत्तरिप्रणीतं विशेषं प्रार्थयते । स बोधिपरिणतिकः श्रावकः । सोऽर्हत्त्व प्राप्य चिरेण सम्यक्सम्बोधिं प्राप्नोति । तस्य तत्प्राप्तये या उपपत्तयो न ताः कर्मक्लेशवशेन । अपि त्वचिन्त्यां निर्वाणपारगामिनीमर्हतोऽप्युपपत्तिं प्रज्ञपयामि या प्रथमा गोत्रजातिः सा बोधिसत्त्वानाम् ॥ आह ॥ आश्चर्यं भगवन् यावदुदाराशया बोधिसत्त्वा माहात्म्याशयाश्च ॥ भगवानाह ॥ यदमी शक्रत्वलोकपालत्वचक्रवर्तित्वादिभिः सर्वलोकसम्पत्तिभिरनर्थिनोऽनुत्तरायां बोधौ कुशलं परिणामयन्ति । तासु च निःसङ्गता निरवग्रहता च । इयमेषानुदाराशयता । यत्पुनस्तदश(स)क्तिसुखमनवग्रहसुखं निर्वृतिसुखं च तत्सर्व सर्वसत्त्वसाधारणमिच्छन्तोऽनुत्तरायां बोधौ कुशलमूलं परिणामयन्ति संसारापरित्यागतया । इयमेषां माहात्म्याशयता ॥ आह ॥ आश्चर्याद्भूता भगवन् बोधिसत्त्वधर्माः । तान् प्राप्तुकामैरनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयितव्यम् । इत ऊर्ध्वम् ॥ सुभूतिराह ॥ अभावस्वभावेषु सर्वधर्मेषु कथं कर्मफलव्यवस्थेति ॥ भगवानाह ॥ धर्माणामभावस्वभावमजानन्तः सत्त्वा विपर्याससमुत्थितैर्विकल्पैः कर्माणि कृत्वा यथाकर्मफलानि प्राप्नुवन्ति । " तत्र चत्वारो विपर्यासाः पुद्लनैरात्म्यविपक्षः । भावेष्वभिनिवेशो धर्मनैरात्म्यविपक्षः । अत्र च मैत्रेयप्रश्नोत्तरैर्वहवो विपर्यासा निरस्ताः । सुभूतिप्रश्नोत्तरैः कतिचित् । इति विपर्यासप्रहाणनिवेशनकर्म ॥

विपर्यासेन सत्त्वाः कर्माभिसंस्कुर्वन्ति । ततः संक्लिश्यन्ते च लोकव्यवहारेण न परमार्थतः । न हि किञ्चिद्वस्त्वस्ति वालाग्रकोटीनिक्षेपमात्रकमपि यत्र स्थित्वा कर्म कुर्युः । तद्यथा स्वप्नमायादिष्विति विपर्यासनिर्वस्तुकताज्ञाननिवेशनकर्म ॥

या सर्वधर्माणां समता तथता भूतकोटिस्तनिर्वाणम् । तच्च लोकव्यवहारेण व्यवह्रियते न परमार्थतोऽनभिलाप्यत्वादिति व्यवदाननिवेशनकर्म ॥

यद्यपि स्वप्नमायोपमाः सर्वधर्मा निर्वस्तुकास्तथापि तदजानन्तः सत्त्वा वस्त्वभिनिवेशेन कर्माणि कृत्वा सुगतिदुर्गति गच्छन्ति । अतस्तेषां विपर्यासप्रहाणाय बोधिसत्त्वो बोधौ चित्तमुत्पाद्य संसारे चरति । यावदभिसम्बुध्य सत्त्वान् परिमोचयतीति व्यवदानसम्भारनिवेशनकर्म ॥

(र्स्त्_१९२)
"भगवानाह ॥ न द्वयेनाभिसमयो नाद्वयेन ! एष एवात्राभिसमयो यत्र न द्वयं नाद्वयम् ॥ तत्कस्य हेतोः? प्रपञ्चो एष योऽयमेषामभिसमयः । न च धर्मसमतायां प्रपञ्चोस्ति । निष्प्रपञ्चा धर्मसमता । सैव सर्वधर्माः । सैव सर्वपृथग्जनार्यपुद्गलाः । सैव बुद्धरत्नं संघरत्नं च । समता हि धर्मता । न च धर्मताया नानात्वमस्ति ॥ सुभूतिराह । किं धर्मता संस्कृता किमसंस्कृता ॥ भगवानाह ॥ न संस्कृता नासंस्कृता । यश्च संस्कृतो धातुर्यश्चासंस्कृत उभावेतौ न संयुक्तौ न विसंयुक्तौ न रूपिणौ अनिदर्शनावप्रतिघावेकलक्षणौ यदुतालक्षणौ" इति संस्कृतासंस्कृताव्यतिभेदेन ज्ञाननिवेशनकर्म ॥

"भगवानाह ॥ सर्वधर्माः सुभूते स्वभावेन शून्याः । ते न श्रावकैर्न प्रत्येकबुद्धैर्न तथागतैः कृताः । या च स्वभावशून्यता तन्निर्वाणं" इति निर्वाणनिवेशनकर्म ॥

कारित्रस्यैव व्यापित्वं दर्शयितुमाह । सर्वधर्माकोप्यतया प्रज्ञापारमिताकोप्यतानुगन्तव्येति । कारित्रमाचारः । आचारो धर्मः । "न्यायो हि साचारो धर्मः स्वभावश्च धर्माख्यः" इति वचनात् । सर्वो धर्मः सप्तविंशतिविधं कारित्रम् । तस्याकोप्यता अवध्यता । दशदिक्सर्वलोकधातुस्थितेषु सर्वसत्त्वेषु सर्वैराकारैः यथा भाजनमविच्छेदेन यावदाकाशं प्रवृत्तिः । तया तज्जनिकया भगवतः प्रज्ञापारमिताया अकोप्यता तादृश्येव वेदितव्या । इत्युक्तं धर्मकायस्य कारित्रम् ॥

समुद्रापर्यन्ततावाक्यादिभिरकोप्यतावाक्यपर्यन्तैः प्रज्ञापारमिताया ये विशेषा उक्तास्तेषां पारमार्थिकं ज्ञानमानुपूर्व्या दर्शयितुकामः पृच्छति तत्कस्य हेतोरिति । एकक्षणाभिसमयधर्मकायसम्बन्धिभिरनुगमवाक्यैर्यदुक्तं तत्सर्वं कस्य हेतोः केन कारणेनेत्यर्थः । रूपं हीत्यादिकमुत्तरम् । इह समुद्रोऽपर्यन्तः शून्यतामात्रत्वात् । तस्याश्च प्रमाणाभात् । एवं रूपादयोपि पञ्चस्कन्धाः समुद्रसमाः । तद्वत्प्रज्ञापारमितापि । तथा हि ये च रूपादयो या च तेषां शून्यता या च प्रज्ञापारमिता सर्व एते न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना एकलक्षणा यदुतालक्षणा इति भावः । एवं गगनसमतादयोपि ज्ञातव्याः । यावदनुपलब्धिरिति । अक्लिष्टमज्ञानम् । एवं हीत्यादि । एवं हीति । यथैतेऽष्टावभिसमयाः सपरिच्छदा निर्दिष्टस्तथैवेत्यर्थः । अनुगन्तव्येति अनुसर्तव्या । ततः किं करणीयमित्याह यदेत्यादि । अनुगमिष्यतीति व्यञ्जनकायेन श्रोष्यति । (र्स्त्_१९३) व्यवचारयिष्यतीत्यर्थशरीरेण ज्ञास्यति । अवतरिष्यतीति श्रद्धास्यति । अवभोत्स्यत इति प्रज्ञास्यति । चिन्तयिष्यतीति चतसृभिर्विचारणायुक्तिभिश्चिन्तयिष्यति विचारयिष्यति । एवमेवैतन्नान्यथेति । यानि पुनः स्थानानि चिन्तयन् बालः शक्तिक्षयात्खिन्न उन्माद्येत्मूर्च्छेत्मरणं वा निगच्छेत्तानि स्थानान्यचिन्त्यानि तेषु तुलयिष्यति । यथैतानि भगवता परमयोगीश्वरेण दृष्टानि तथैव निर्दिष्टानि । अस्माकमेतान्यचिन्ता(न्त्या)नि तर्कागोचरत्वादिति उपपरीक्षिष्यत इति । एतावतैव सर्वसंशयानां छेदनादवधारयिष्यत्येवमेवैतदिति । एवमतीव च्छिन्नेषु संशयेषु भवनाया अधिकारः । अत आह । भावयिष्यतीति । चतुर्विधा भावना । शमथो विपश्यना शमथविपश्यने शमथविपश्यनाभिरतिश्च
। कीदृशैर्मनसिकारैरित्याह । सर्वमायेत्यादि । अहमिति ममेति रूपमिति वेदनेत्येवमादिकः सर्वाभिनिवेशः सर्वमन्यना । मन्याशब्दाण्णिजन्ताद्यच्मन्यना । सर्वपरप्रवादिभिर्मारादिभिः क्लेशैश्च याः कम्पनाः ताः सर्वेञ्जनाः । तदा नास्य दुर्लभेत्यादि । सर्वगुणानामिति बोधिसत्त्वगुणानाम् । बुद्धक्षेत्रस्येति गुणानां परिपूरिरिति वर्तते । शेषं सुगमम् ॥

सूत्रस्यार्थोऽष्टवभिसमयाः शास्त्रे प्रथममुद्दिष्टाः । त इयता विस्तरेण निर्दिष्टाः । पुनः शास्त्रम्-

ऽलक्षणं तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः ।
तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थसंग्रहः ॥ऽ
अथवा षडर्थाः सूत्रस्य । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता चेति त्रयमेतल्लक्षणं प्रज्ञापारमितायाः । यतस्त्रिविधैव सा । चतुर्थः सर्वाकाराभिसम्बोधिः । सोऽस्यां प्रयोगः । चर्येत्यर्थः । पञ्चमो मूर्धाभिसमयः । सोऽस्यां प्रयोगप्रकर्षः । षष्ठोऽनुपूर्वाभिसमयः सोऽस्यां प्रयोगानुक्रमः । अनुपूर्वप्रयोग इत्यर्थः । सप्तम एकक्षणाभिसमयः । सोऽस्यां प्रयोगनिष्ठाः । अष्टमो धर्मकायः । सोऽस्यां विपाकः । प्रधानफलमित्यर्थः । पुनः शास्त्रम्-

ऽविषयस्त्रितयो हेतुः प्रयोगश्चतुरात्मकः ।
धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः ॥ऽ

अथवा त्रयोर्थाः सुत्रस्य । हेतुः प्रयोगः फलं च । तत्र त्रिविधः प्रयोगविषयो हेतुः । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता च । चत्वारोऽर्थाः प्रयोगः प्रयोगसामान्यात् । सर्वाकाराभिसम्बोधो मूर्धाभिसमयोऽनुपूर्वाभिसमय एकक्षणाभिसम्बोधश्चेति । (र्स्त्_१९४) फलं धर्मकायः कर्म च । विनापि तेनार्थगतेः । अर्थसंग्रहः सकलसूत्रार्थस्य संक्षेपः । तत्र प्रथमोऽष्टधा । द्वितीयः षोढा । तृतीयस्त्रेधा ॥

अनुगमस्य वाचकः परिवर्तोऽनुगमपरिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचिताया एकोनत्रिंशत्तमः परिवर्तः ॥


३०. सदाप्ररुदितपरिवर्तो नाम त्रिंशत्तमः ।

अष्टाभिरभिसमयैर्भगवती निर्दिष्टा । सा यथा वेदितव्या तन्नोक्तम् । अतस्तभ्दगवान् विच(व)क्षुराह पुनरपरमित्यादिना । पर्येष्टव्येति इच्छतेः प्रयोगः । पर्येषिता पर्येषमाणेनेति । एषृ इत्यस्य भौवादिकस्य प्रयोगः । कायक्लमथादिमनसिकाराणां प्रतिषेधो वीर्यातिशयार्थः । मा च क्वचिदित्यादिना विक्षेपप्रतिषेधः । मा प्रणिधा इति मा निवेशय । क्वचित इत्युद्देशः । अध्यात्मं बहिर्धा वेति निर्देशः । अधिशब्दोऽधिकरणार्थः । ततो वितर्क्यार्थेऽव्ययीभावः । अन इत्यच्समासान्तः टिलोपः । बहिर्धेति बहिरित्यर्थः । मा गा इति सम्बन्धः । माङि लुङ्, इणो गा लुङि, गातिस्थेत्यादिना सिचो लुक् । न माङ्योग इत्यडागमप्रतिषेधः । वामेन दक्षिणेनेति पार्श्वेनेति भावः । पूर्वेणेत्यादिना दिशां निर्देशः । अनुविदिशमिति विदिशाम् । अनुशब्दो वीप्सायाम् । विदिशि विदिशीत्यनुविदिशम् । अव्ययीभावे शरत्प्रभृतिभ्य इत्यच्समासान्तः । तथा च कुलपुत्रेत्यादिना अतत्त्वमनसिकाराणां प्रतिषेधः । नात्मतो न सत्कायत इति । सीदतीति सत् । राशित्वात्कायः । अनित्यो रूपादिराशिः सत्काय इत्युच्यते । सत्काये पुद्गलः प्रज्ञप्यते । अतश्च नात्मतो न सत्कायतश्चलसीति । न द्रव्यसता पुद्गलरूपेण नापि प्रज्ञप्तिसता । उभयोरनुपलम्भादित्यर्थः । न रूपतश्चेत्यादि । नापि रूपादिभिः स्कन्धैः । धर्माणामप्यनुपलब्धेरिति भावः । अतश्चलतीति एभिश्चलति । एषां समारोपेण वितिष्ठतिति निवर्तते । शेषं सुगमम् ।

वैशब्दोऽवधारणे । एवमेवेत्यर्थः । आलोकमिति मोक्षमार्गस्य देशनाम् । समुदानेतुकाम इति । आत्मनि सम्यगुत्पादयितुकामः । अधिमुक्तिमिति । एवमेवैतदित्यवधारणम् । क्व? सर्वधर्मेषु । कीदृशेषु? शून्यानिमित्ताप्रणिहितेषु । यथाप्रतिभासमर्थाभावाच्छून्येषु । तस्य च प्रतिभासस्य भ्रान्तिनिमित्तस्य प्रकृतिनिरोधादनिमित्तेषु । (र्स्त्_१९५) अतश्च भ्रान्तिमात्रतया दृष्टे त्रैधातुके प्रणिधानाभावादप्रणिहितेषु । शून्यताशब्दः क्वचित्पठ्यते । तत्र स्वार्थे तल् । निमित्तपरिवर्जितेनेत्युद्देशः । भ्रान्तिनिमित्तयोर्वस्त्वभिनिवेशस्तदिह निमित्तम् । तत्परिवर्जितेन भावपरिवर्जितेन सत्त्वदृष्टिपरिवर्जितेन चेति निर्देशः । भावो धर्मदृष्टि सत्त्वदृष्टिरात्मदृष्टिः । ताभ्यां परिवर्जितेनेत्यर्थः । यानीत्यादि । यानि धर्म देशयन्तीति सम्बन्धः । शून्यानिमित्ताप्रणिहिताः पूर्ववत् । निःस्वभावस्य नोत्पादो न जातिर्न निरोधः । यस्य नोत्पादनिरोधौ सोऽभावः । तस्मादनुत्पादा अजाता अनिरोधा अभावाः सर्वधर्मा इत्येवं यानि धर्मं देशयन्ति तानि कल्याणमित्राणि । अर्थाद्गम्यते तद्विपरीतं धर्म यानि देशयन्ति तानि पापमित्राणि । प्रतिपद्यमानो अनुतिष्ठन् । कृतज्ञ श्रुतज्ञानात् । कृतवेदी श्रुतफलज्ञानात् । परितुलयमानेनेति चिन्तयता । लोकामिषमन्नपानवस्त्रादि । तेन प्रतिसंयुक्ता तदभिलाषिणी । अनुबद्धव्योऽनुगन्तव्यः । अस्ति हीति । अस्ति खल्वेतत् । सेवितुमित्यादेः पदत्रयस्य परिभोक्तुमित्यर्थः । अभिभूयेति निर्दोषीकृत्य । सत्त्वविनयेनेति सत्त्वानां चित्तरक्षार्थम् । परिग्रहमुपादायेति परिग्रहार्थम् । सङ्गस्तृष्णा । आरम्बणमुपलम्भः । भूतनय परमार्थप्रभेदः । संक्लेशाभावादसंक्लेशाः । व्यवदानाभावादव्यवदानाः । निःसत्त्वादिपदैः पुद्गलनैरात्म्यमाह । मायोपमादिपदैर्धर्मनैरात्म्यम् । प्रतिवाणिः प्रतिवचनम् । अनिविण्णमखिन्नम् ।

अनुशासनी उपदेशः । औणादिकोऽनिर्धरणीवत् । रुदनश्रुपातेन । क्रन्दन् दीनस्वरैः । शोचनुत्कण्ठमानः । परिदेवमानो विलपननुबद्ध इति समन्वितः । क्वचिल्ल्यपः पाठः । तस्यापि पूर्वादिक्कर्म । अनुपरिक्षिप्ता परिवेष्टिता । परिखाः खातयः । ऋद्धा धनसम्पत्त्या । स्फीता गृहोद्यानादिशोभया । क्षेमा निरुपद्रवत्वात् । सुभिक्षा सुलभान्नपानत्वात् । आकीर्णो विस्तीर्णः । बहु नानाविधो जनः परिवारो येषां ते तथा । तादृशा मनुष्या यस्यां सा तथा । अन्तरस्यान्तरे आपणः क्रयविक्रयस्थानम् । तस्मिन् विथीशतानि । तैः पञ्चभिः निर्विद्धा निःशेषं विद्धा । विथीनामा प्रकारान्तमुभयतो गमनात् । आलेख्येन विचित्राणि च तानि चित्राणि चाद्भूतत्वात् । सदृशानि च पुरानुरूपत्वात् । तैः अनुत्पीडमसंबाधं जनयुग्ययानानां संक्रमस्थानानि संभूय गमनस्थानानि विस्तीर्णरथ्याः । तेषां स्थापितानि स्थापनानि । भावे क्तः । तैः सुमापिता सुरचिता । तत्र जनः पदिकादिलोकाः । (र्स्त्_१९६) युग्यानि वाहनानि । यानानि रथाः । अनन्तरत्वात्परस्परतुल्यत्वाच्च समसमैः । खोडकशीर्षाणि क्रमशीर्षाणि । उपोद्गतानीति प्राकारादतिविस्तीर्णात्किञ्चिन्निर्गत्योद्गतानि । प्रमाणवन्तीति पृथूनि तुङ्गानि च । नानाविचित्ररित्यन्यथान्यथा विचित्रैः । सर्वतश्च खोडकवृक्षान्निर्गता वृक्षान्तरम् । यथाभवति तथावसक्तम् । सर्वमस्यामस्तीति सर्वावनी । किङ्किणीजालेनेति चतुष्प्राकारखोडकवृक्षावसक्तमणिसूत्रचतुष्टयाववद्धानेकमणिसूत्रवलम्बिना । वल्गुः । श्रोत्रसुखत्वात् । रञ्जनीयो मनोहरत्वात् । पञ्चाङ्गानि वीणावंशादीनि । गन्धर्वा गायनाः । क्रीडन्ति श्रोत्रेण, रमन्ते मनसा, परिचारयन्ति कायवाक्परिस्पन्दैः । परिखाः खातयः । अनुसारिवारिवाहिन्य इति वाताद्यनुसारिणा जलप्रवाहेण युक्ताः । पद्मं रक्तकमलम्
। पुण्डरीकं सितपद्मम् । अभिजाताभिजातरिति प्रणीतप्रणीतैः । सुगन्धशब्दः सुरभिपर्यायः । तत्पुष्करिणीनामित्युद्यानपुष्करिणीनां प्रमाणम् । समन्तादिति सर्वपार्श्वेषु । क्रोशः क्रोश इति वीप्सा । नीलादिपदानि प्राग्व्याख्यातानि । उपनिकूजिता बुद्धनेत्री प्रज्ञापारमिता । तस्या चित्रीकारः परः प्रसादः । तेनानुगतं सुगतेभ्यः श्रुतचित्तं येषां ते तथा । तेषां मध्ये श्रृङ्गाटकस्येति सम्बन्धः । समन्तादिति प्रतिपार्श्वम् । गृहपरिभोग इति गृहस्य परिवेष्टः । किमर्थमित्याह । उपभोगरिभोगायेति । उपभोगः फलपुष्पादीनाम् । परिभोगः साकल्येन भोगो वनविहारादिना । विवरं सन्धिः । तस्मिन्नन्तरमवकाशः । समर्पितः सङ्गमितः । तैरवकाशगुणैः । सर्वेन्द्रियाणामनुग्रहः समन्वङ्गः । तद्योगात्समन्वङ्गी क्रीडति वाचा । रमते मनसा । परिचारयति कायेन । तावत्कालमिति परिमितकालम् । तत इति क्रीडादिकालादूर्ध्वम् । त्रिकालमिति प्राण्हमध्यान्हापरान्हेषु । आसनस्य विशेषणं सुवर्णपादकमित्यादि । अर्धक्रोशमुच्चस्त्वेनेति यावत् । तूलिकया वा आस्तीर्णं गोणिकया वा गर्भोलिकाचीनांशुकप्रत्यास्तरणम् । उपरि सा अस्येति उपरिगर्भोलिकम । काशिकवस्त्रं वाराणसेयकं दिव्यं वा । तत्प्रत्यास्तरणमस्येति तथोक्तम् । समं यथा भवति न विषमं तथा धारयन्ति प्रमाणवभ्दिः स्तम्भैः । सहिताः समग्राः । निरताः सावधानाः । कथमित्याह । किमयं संस्थित इति । कुत इत्याह । सुसंस्थितेत्यादि । मुक्ताविचित्रितं पर्यन्तेषु हारार्द्धहाराणां प्रलम्बनात्, मध्ये च स्थूलमुक्ताकलापस्य । अभ्यवकिरन्ति पुरस्तात् । प्रकरन्ति त्रिषु पार्श्वेषु । संप्रविकिरन्ति पुनश्चतुर्ष्वपि (र्स्त्_१९७) पार्श्वेषु । धर्माशयविशुद्ध्येति
धर्मे या तेषां श्रद्धाच्छन्दयोः शुद्धिः । धर्माय गौरवं कल्याणमित्रत्वात् । सन्निश्रयता भाजनता । श्रद्धार्हे या श्रद्धधानता तया । विनिपातो दुर्गतिगमनम् । अविष्टितमविच्छिन्नम् । तुष्ट इति प्रीतः । उदग्र इति तया प्रीत्या उन्नतपूर्वकायः । तदेकतानत्वातात्तमनस्कः । प्रीतेरुत्कर्षात्प्रमुदितः । प्रीतिसहगतः प्रसादः प्रीतिसौमनस्यम् । तज्जातमस्येति तथोक्तः । तस्य श्रृणोति स्मेति सम्बन्धविवक्षयापादाने षष्ठी ।

सर्वधर्मेष्वनिश्रितसंज्ञामिति । यथैतर्हि मे धर्मोद्गतदेशनया प्रतिभासः सनिधा(दा)नमनाश्रितः । एवं हेतुनियममनाश्रिताः सर्वधर्मा इत्येनां संज्ञामत्यन्तसमाहिताम् । अस्याः संज्ञायाः प्रभावात्किमभूदित्याह । तस्येत्यादि । समाधय एव मुखानि महोपायत्वात् । सर्वधर्माणां स्वभावाः स्वलक्षणानि । तेषां व्यवलोकनो द्रष्टा । तेषामनुपलब्धिरसत्तानिश्चयः । सर्वधर्माणां निर्नानात्वं समता स्वलक्षणानामभावात् । तदालम्बनः समाधिस्तथोक्तः । सा च समता तथता । तया निर्विकारान्सर्वधर्मान् पश्यतीति सर्वधमनिर्विकारदर्शी । एवं यावत्सर्वतथागतदर्शी समाधिर्वेदितव्यः । एषु समाधिष्विति क्रमेण सर्वेषु स्थितः सन् । दशदिशोऽस्मिन्निति दशदिग्लोकः सर्वलोकधातव इत्यर्थः । तत्र बुद्धान् भगवतोऽप्रमेयासंख्येयान् पश्यति स्म । नैकस्मिन् कालेऽनेकस्तथागत एकस्यैव सर्वसत्त्वार्थक्रियासु शक्तेरिति चेत् । नित्यमेक एव बुद्धस्तस्यैवानन्तमायुरधिष्ठातुं शक्तेरिति किन्नेष्यते? हेतुबलादन्येपि भवन्तीति चेत् । हेतुबलादेव तर्हि युगपदनन्तेषु लोकधातुष्वनन्तास्तथागता जायन्त इति को विरोधः? यथा बुद्धौ चक्रवर्तिनौ सकृदेकत्र चतुर्द्वीपके लोकधातौ नोत्पद्येते निःसपत्नकर्मकारित्वात्तथा तथागतौ त्रिसाहस्रे लोकधाताविति महारथैः क्षुण्णमेतत् ।

गतिं गता इति । गतिरप्रतिद्यातः । तां प्राप्ताः । शिक्षापित इति शिक्षां प्रापितः । तत्कृतमिति । यदेव तेन पुर्व कृतम् । धारयितव्यं चेतसि न विस्मर्तव्यम् । चेलं वस्त्रम् । तस्य उण्डुकः शिरशाटक इत्यर्थः । उत्कण्ठा शोकः । परितसनं दुःखासिका । काष्ठागता प्रीतिः प्रेम । गुणवत्सु चेतसोऽकालुष्यं प्रसादः । तद्गुणेषु विस्मयः चित्रीकारः । अर्भ्यहणं गौरवम् । कतमं शब्दमित्यत आह । घोषमित्यादि । कतमं भोषमिंत्याह । कः पुरेषेणेत्यादि । अतिक्रामयिष्यतीति मितां ह्रस्वो न भवति । "वा चित्तविरागे" (र्स्त्_१९८) इत्यतो वाशब्दानुवृत्तेर्व्यवस्थितविभाषा । विज्ञानाच्च । अतिशब्दश्चात्र अपशब्दार्थे वर्तते । अतः पञ्चमी युक्ता भवति । यन्नुशब्दस्तस्मादर्थे । पर्युत्थापयामासेति व्यग्रीकृतवान् । यथेति यतः । अस्थिमज्जयाश्चेति । मज्जन्शब्दस्य लिङ्गव्यत्ययेन स्त्रियां डाप्सीमावत् । कल्यचित्त इति तेनैव हर्षेण कर्मण्यचित्तः । ततश्च द्विगुणीभूतहर्षत्वात्प्रमुदितचित्तः । गुणजातिः मनुष्यसामान्यो गुणः । विशेषस्तु मनुष्यातिक्रान्तो गुणः । क्षमन्ते चेति स्वयं कर्तव्यतयापि रोचनात् । विषयितेति शक्तिः ।

विदिताभिप्राय आह । अल्पोत्सुक इत्यादि । उत्सुक औत्सुक्यम् । यत्तत्क्षणं लवमपि तत् । तन्मुहूर्तमपि तत् । त्रयाणामुपादानं तु श्रोतृणां श्रद्धभेदात् । निष्प्रतिभान इत्युद्देशः । सदाप्ररुदितस्येत्यादिनिर्देशः । उत्तर इति उत्तरनिमिउत्तम् । अप्रतिपद्यमानोऽलभमानः । दद्ध्वमिति दद्दाने । वाद्यप्रकृतयो वाद्यप्रकाराः । प्रभूताः प्रकारबाहुल्यात् । विपुलाः प्रतिप्रकारमानन्त्यात् । भोगा अर्थाः । सर्वलोकविशिष्टा इति सर्वलोकातिक्रान्ताः ।

उपरिष्टान्मूर्ध्न इति उपरि शिरसः । प्रातिष्ठत इति प्रशब्दः प्रतेरर्थे । विहायसीत्यन्तरिक्षे । प्राञ्चोऽञ्जलयः प्राञ्जलयः । स्फुट इति प्राप्तः । सहदर्शनादिति दर्शनात्कारणाद्दर्शनेन सहैवैत्यर्थः ॥

सदाप्ररुदितोपलक्षितः परिवर्तस्तत्परिवर्तः ॥ आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रिशत्तमः परिवर्तः ॥


३१. धर्मोद्गतपरिवर्तो नामैकत्रिशत्तमः ।

एवमुक्त इत्यादि । न खल्वित्यादि प्रतिज्ञा । अचलिता हि तथतेति हेतुः । तथागतानां किमागतमिति चेदाह । या चेत्यादि । एवमुत्तरेपि हेतवः ससमर्थना वेदितव्याः । सर्वे चैते हेतवः शून्यतापर्याया निमित्तभेदात्तु भेदः । आकाशधातुराकाशसाधर्म्यात्तथतैव । ननु द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविराजितविग्रहस्तथागतो न पुनस्तथतादय इत्यत आह । न हि कुलपुत्रान्यत्रेत्यादि । तथतैव सुविशुद्धा तथागत इति भावः । स हि तेषां स्वाभाविकः काय इति न्यायः । एवं तथतादितथागतयोरभेदमुक्त्वात्यन्ताभेदं दर्शयितुमाह । या चेत्यादि । एषामेव धर्माणामिति तथतादीनां तथतेति परिकल्पितरूपशून्यता । या च सर्वधर्माणामिति स्कन्धधात्वादीनां या च तथागतस्य । एकैवेत्यादिरुद्देशः । पुनरेकैवेत्यादि निर्देशः । हेतुमाह । यदुतासत्त्वादिति । अद्रव्यत्वान्न (र्स्त्_१९९) पुनर्यथालक्षणमभावादिति भावः । पुनस्तथागतानामगतिगत्योरभावं यथाकल्पनमसत्त्वात् । भावकल्पना तु संज्ञाविपर्यासादिति दृष्टान्तैः प्रतिपादयितुमाह । तद्यथापीत्यादि । मध्यान्हकालसमय इति । मध्यान्हश्चासौ कालश्च । तस्य समयः । आगमनं यथा च ग्रामं प्रविष्ट इति विशतेरर्थस्य गतिविशेषत्वात्कर्तरि क्तः । तथेहापि तथागतमभिनिविष्टा इति । धर्माकाया इति धर्मताकायाः । हस्तिकायस्येत्यादौ कायः समूहः । परिनिष्पत्तिरिति भूतत्वम् । मुषावादस्तत्साधर्म्यान् वञ्चक इत्यर्थः । अत एवाह अभूत इति । अमोघं दायकस्य महाफलहेतुत्वात् । अत एव दक्षिणीयाः ।

प्रभाव्यन्ते उपलभ्यन्ते । कायपरिनिष्पत्तिः चरमभवसंगृहीता । नापि क्वचिद्गच्छतीति परिनिर्वाणकाले । न क्वचिदस्तीति परिनिर्वाय यत्र गच्छति । हेतरूपादानकारणं प्रत्ययाः सहकारिणः । तत्र शब्दस्योपादानं शब्दपरमाणव इत्येके । वायुपरमाणव इत्यपरे । तत्र उपधानी तन्त्रीवेष्टनं चकुलिका । उपवाण्यो अप्रधानतन्त्रयः । आद्यन्तयोः न शब्दो निश्चरतीति वचनं मध्ये सर्वत्र सम्बन्धनार्थम् । निर्हेतुकाशब्दात्स्वार्थेऽण नैर्हेतुकी ।

संक्षोभितानि संप्रचलितानि । जिह्मीभूतानि नष्टच्छायानि । उत्सृजन्ति स्मेति मुञ्चन्ति स्म । विहायसमिति आकाशम् । स्वकेन कायेन धर्मोद्गतमभिच्छादयति स्मेति तस्याग्रतः सर्वकायेन भूमौ पतति स्मेत्यर्थः । कियन्तं कालमित्यत आह सप्तवर्षाणीति । अवक्रामणं प्रवेशनम् । यद्वयमिति यदा वयम् । अनुवर्तमाना इत्यनुकुर्वत्यः । दिव्यमित्याकाशभवम् । चित्तस्यान्यथात्व पृथिवीसेकवैमुख्यम् । इति प्रतिसंख्यायेति एवं निरूप्य सर्वाणि तानीति दारिकाशतानि । तानि तानीति शस्त्रविशेषणम् । अवतारमवकाशः । अध्यतिष्ठदित्यकरोत् । गन्धमित्यत्र अध्यतिष्ठदिति चकारेणानुकृष्यते । परीष्टिः पर्येषणा ।

कीदृशी तत्रार्यस्य धर्मोद्गतस्य धर्मदेशनाभूदित्यत आह । तत्रेयं धर्मोद्गतस्येत्यादि सुगमम् । यदुतशब्दः सामान्येनोद्दिष्टस्य विशेषं द्योतयति । एभिस्त्रिंशता आकारैरित्यर्थः । अत एवास्याः श्रुतबलेनोत्पन्ना । (र्स्त्_२००) एभिरेव त्रिंशताकारैः सदाप्ररुदितस्य बोधिसत्त्वस्योत्पन्नास्त्रिंशत्समाधयः पठिष्यन्ते । प्रज्ञापारमितायाः समता सर्वधर्मेषु । कुतः? सर्वधर्मसमतया । सा हि धर्मधात्वालम्बना । स च समानः सर्वधर्मेषु । प्रज्ञापारमिताया विविक्तता । कुतः? सर्वधर्मविविक्ततया । यतः सर्वधर्माः स्वलक्षणैर्विविक्ताः । अतः सापि विविक्ता स्वलक्षणप्रतिभासैः । सा कदाचिदस्माद्विवेकाच्चलतीति चेदाह । प्रज्ञापारमिताया अचलनता । कुतः? सर्वधर्माचलनतया । यतः सर्वधर्मा न विवेकाच्चलन्ति । ततः सापि न विवेकाच्चलति । मननाच्चलतीति चेदाह । प्रज्ञापारमिताया अमननता । कुतः? सर्वधर्मामननतया । अमनना हि सर्वधर्माः । न ते किञ्चिन्मन्यन्ते निःस्वभावत्वात् । ततः साप्यमनना । किमसौ केनापि स्तम्भिता यतो न चलतीति चेदाह । प्रज्ञापारमिताया अस्तम्भितता । कुतः? सर्वधर्मास्तम्भिततया । न हि विवेकाच्चलन्ति सर्वधर्माः केनापि स्तम्भिताः । किं तर्हि? प्रकृत्यैव विवेके स्थिरास्ततः प्रज्ञापारमितापि स्थिरा । आदौ समतामात्रमुक्तं नैकरसता । तामप्याह । प्रज्ञापारमिताया एकरसता सर्वधर्मेषु । कुतः? सर्वधर्माणामेकरसतया तथतैकरसा हि सर्वधर्माः स्वलक्षणानामभावात् । तद्वत्प्रज्ञापारमितापि स्वलक्षणानामप्रतिभासात् । प्रज्ञापारमिताया अपर्यन्तता । कुतः? सर्वधर्माणामपर्यन्ततया । तथा हि द्वौ पर्यन्तौ पूर्वा च कोटिरपरा च । तौ च न स्तः सर्वधर्माणाम् । अतीतानगतयोरसत्त्वात् । तस्मादपर्यन्ताः सर्वधर्माः । तद्वत्प्रज्ञापारमितापि । प्रज्ञापारमिताया अनुत्पादता । कुतः? सर्वधर्मानुत्पादतया
। तथाहि निःस्वभावाः सर्वधर्माः । तस्मान्नोत्पद्यन्ते खरविषाणवत् । तस्मादनुत्पादाः । तद्वत्प्रज्ञापारमितापि । अनिरोधा प्रज्ञापारमिता । कुतः? सर्वधर्माणामनिरोधतया । न ह्यमी निरुध्यन्तेऽसत्त्वात्खरविषाणवत् । तद्वत्प्रज्ञापारमितापि । प्रज्ञापारमिताया अपर्यन्तता । केनोपमानेन? गगनापर्यन्ततया । तथाहि गगनस्य नास्ति पर्यन्तो दशसु दिक्षु त्रिषु चाध्वेषु । एवं प्रज्ञापारमितायाः । [या] दशदिक्त्रैयध्विका सर्वधर्मतथतामात्रप्रथनात् । समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति । यथा ह्याकाशस्य नास्त्यन्तस्तथैव दशदिग्लोकधातूनां किम्पुनरनन्तेषु लोकधातुषु समुद्राणाम् । ततः सिद्धा समुद्रापर्यन्तता । तद्वत्प्रज्ञापारमितायाः । तथा हि या तेषां समुद्राणां तथता या च सर्वधर्माणां या च प्रज्ञापारमितायाः, एकैवैषा तथता । तथतालम्बना च प्रज्ञापारमिता । तस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति सिद्धम् ।

ननु स्वप्नोपमतयापि ज्ञानं प्रज्ञापारमिता गगनोपमतयापि । तत्र पूर्वा विचित्रप्रतिभासा उत्तरा निराभासा । कथमनयोरेकार्थतेत्यत आह । मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति । यथा ह्येकरसमाकाशं प्रकृत्या तथापि (र्स्त्_२०१) मेरुपार्श्वानां विचित्राणामाधिपत्यात्तद्वदेव विचित्रं ख्याति । एवमेकरसैव तथता न विचित्रा । तथतालम्बना च प्रज्ञापारमिता । यस्तु स्वप्नोपमादिज्ञाने विचित्रप्रतिभासः सोऽभूतपरिकल्पधर्मः । तस्मात्स्वप्नोपममायोपमादिज्ञानं संवृतिः । निराभासे या च परिमार्थिके ज्ञाने सत्त्वनामवतारणाय निर्दिश्यते, निराभासपृष्ठभावी चाविकल्पोयं तदनुभूतनिश्चयार्थः । तस्मात्सिद्धमिदं मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति ।

ननु सैव निराभासा प्रज्ञापारमिता स्वयमनुभूयमानं परमार्थमित्थं निश्चिनोति निःस्वभावाः सर्वधर्मा इति । तत्कथमसौ निर्विकल्पेत्यत आह । गगनाकल्पनतया प्रज्ञापारमिताकल्पनतेति । प्रज्ञापारमिताया याकल्पनता न सा किञ्चिद्विकल्पयति विकल्पपारगतत्वात् । तद्यथा गगनं न किञ्चिद्विकल्पयति जडत्वात् । अजडा प्रज्ञापारमिता किन्न विकल्पयतीति चेत् । उक्तमत्र । विकल्पश्च भ्रान्तिरभ्रान्ता च सा । तस्मान्न विकल्पयतीति सिद्धम् ।

रूपापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति । यथा ह्याकाशमपर्यन्तं तथारूपस्कन्धोपि । यत्रान्यद्रूपं नास्ति तत्रावश्यं तमः प्रकाशो वास्ति । तद्वत्तदीयतथताप्रतिभासिनी प्रज्ञापारमिताप्यपर्यन्तता । यथैव समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततास्माभिर्व्याख्याता तथैव सत्त्वानामानन्त्यात्वेदनापर्यन्ततयापि संस्कारपर्यन्ततयापि विज्ञानापर्यन्ततयापि पृथिवीधात्वपर्यन्ततयापि अप्धात्वपर्यन्ततयापि तेजोधात्वपर्यन्ततयापि वायुधात्वपर्यन्ततयापि आकाशधात्वपर्यन्ततयापि विज्ञानधात्वपर्यन्ततयापि व्याख्यातव्या । अथ या विज्ञानस्कन्धापर्यन्ततया या च विज्ञानधात्वपर्यन्ततया तयोः को विशेषः? स्कन्धधातुशब्दाभ्यां प्रयोगकृतः ।

वज्रोपमधर्मसमतया प्रज्ञापारमितासमतेति । चित्तधारणाद्धर्मः समाधिः । तस्य या सर्वधर्मेषु समता तयोमानेन प्रज्ञापारमितायाः समता सर्वधर्मेषु सर्वधर्मासम्भेदनतया प्रज्ञापारमितासम्भेदनतेति सर्वधर्माणामसम्भेदो अभेदः । भेदकानां स्वलक्षणानामभावात् । तद्वत्प्रज्ञापारमिताया अपि न भेदः । सम्वेद्यमानेनैव रूपेण तेषां तस्यामभावात् । सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धितेति । सर्वधर्मा न किञ्चिदुपलभन्ते । रूपस्य जडत्वात् । शेषाणामप्यात्मनि परत्र वा ग्राहकत्वायोगात् । नाप्युपलभ्यन्ते ग्राहकाभावात् । तद्वत्प्रज्ञापारमितापि नोपलभते नाप्युपलभ्यते । तस्मात्तेषां तस्याश्चानुपलब्धिता । सर्वधर्माविभावनासमतया प्रज्ञापारमिताविभावनासमतेति । विभावनां परेभ्यो (र्स्त्_२०२) वाचा देशना । सा सर्वधर्माणां न विद्यते तस्मादविभावनया समता तेषाम् । तद्वत्सर्वालम्बनेषु प्रज्ञापारमिताया अविभावनासमता । सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टतेति । चेष्टा ईहाव्यापारः । अव्यापारः सर्वधर्माः । कथं तर्हि कश्चित्कुतश्चिदुत्पद्यते? इदंप्रत्ययमात्रेण । अस्मिन् सतीदं भवति, असति न भवतीत्येतावता हेतुफलभावः । तस्मादमी निश्चेष्टाः तद्वत्प्रज्ञापारमितापि । सर्वधर्माचिन्त्यतयापि प्रज्ञापारमिताचिन्त्यतेति । यथा हि धर्माः परेभ्यो न देश्यन्ते निर्विषयत्वाद्वाचः । तथा स्वयमपि न चिन्त्यन्ते न निरूप्यन्ते वाग्विकल्पयोरेकार्थत्वात् । तद्वत्प्रज्ञापारमिताप्यचिन्त्या । वेदितव्येत्यन्ते यत्पठ्यते तत्सर्वधर्मसमतादिवाक्येषु सर्वेषु सम्बध्यतेऽन्तर्दीपकत्वात् ।

अथ खल्वित्यादि । अथेति देशनापरिसमाप्तौ । तथा निषण्णस्वंवेति श्रुतासनादनुत्थितस्य । अथेत्युद्देशः । कृतः । तस्यैव निर्देशः तस्यां वेलायामिति । येनैव क्रमेण यैरेवाकारैः प्रज्ञापारमिता देशिता तेनैव क्रमेण तैरेवाकारैस्त्रिंशत्समाधय उत्पन्ना इति समुदायार्थः । तत्र सर्वधर्मसमताद्याकारत्वात्समाधयस्तथा व्यपदिश्यन्ते । कथममी आकाराः? एभि प्रकारैर्वस्तुज्ञानात् । यथोक्तम्-

वस्तुज्ञानप्रकाराणामाकार इति लक्षणम् ।

इति । किं तर्ह्यालम्बनम्? तदेव वस्तु यथास्वम् । अथवा सर्वधर्मसमतादिरेवालम्बनम् । तदालम्बनत्वात्समाधयस्तथोक्ताः । वस्तून्यधिष्ठानि । आकारो यथास्वं निर्निमित्ततादिः । एवं प्रमुखानीति त्रिंशत्समाधिप्रमुखानि । कथमेषां प्रमुखत्वम्? एभिरवशेषाणामाक्षेपात् । शतसहस्राणीति लक्षाणि ॥

धर्मोद्गतेन लक्षितः परिवर्तस्तत्परिवर्तः ॥

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकत्रिंशत्तमः परिवर्तः ॥


३२. परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः ।

सहप्रतिलब्धानामित्यादि । अनेन लब्धानां समाधीनां तत्कालजमनुशंसमाह । अत एव सहशब्दः समानकालतार्थः । प्रतिलब्धानामिति (र्स्त्_२०३) प्रतिलब्धेषु सत्सु । एभिरेव नयेरिति यथोक्तवस्तुभिरष्टाभिरभिसमयैः । एभिरेव नामभिरिति सर्वाकारज्ञतादिभिः । सर्वासु च जातिषु न जातु बुद्धविरहितोऽभूदित्युद्देशः । अस्य निर्देश उत्तरो ग्रन्थः स्वप्नान्तरगतोपीति यावत् ।

तत्र खल्वित्यादिरुपोद्घातः परीन्दनायाः । तदनेनापि पर्यायेणैति सदाप्ररुदितवृत्तान्तेनापि । तस्मात्तर्हीत्यादिना अनुशासनीशब्दपर्यन्तेन प्रथमा परीन्दना । अत्र च तथागताधिष्ठानेनेति वचनं किमर्थम्? महार्थत्वाभ्दगवती बव्हन्तराया च विना बुद्धाधिष्ठानेन लिखितुमपि [न] शक्येति प्रदर्शनार्थम् । इयमस्माकमनुशासनीतीयमस्माकं परीन्दना । यथा अस्याः श्रवणादिकं न विच्छिद्यते तथा त्वया कर्तव्यमित्यर्थः । तत्कस्य हेतोरिति । तत्परीन्दनं केन प्रयोजनेनेत्यर्थः । अत आह । अत्र हीत्यादि ।

तत्कथमित्यादिना द्वीतीयपरीन्दनाया उपोद्घातः । अस्मिन्मम समुच्छय इति मम शरीरे । तथतदिति । एतत्प्रेमादिकम् । एतेनोपाद्घातेन द्वे परीन्दने । यत आह द्विरपि त्रिरपीति । परीन्दामीति समर्पयामि । अनुपरीन्दमीत्यानुकूल्यं समर्पयामि । कथं परीन्दनेत्यत आह यथेयमित्यादि । अन्यः पुरुष इत्यभक्तः । कस्मादस्यामेतावद्गौरवमित्यत आह । यावदित्यादि बहुविधाश्च पूजाभिरिति यावत् ।

भगवत्याः परिसमाप्तिमुद्योतयन् सङ्गीतिकार आह । इदमवोचदित्यादि । इदमिति प्रज्ञापारमितासूत्रम् । अवोचदिति भाषितवान् । भगवानिति शास्ता । परार्थरसिकास्तथागताः । परार्थ च परार्थक्रिया भगवत्या देशना । तत आह । आत्तमना इति । निरुत्तरधर्मदेशनया प्रीतः सन्नित्यर्थः । श्रोतारः किमुकुर्वन्नित्याह । भगवतो भाषितमभ्यनन्दन्निति । अभिपूर्वो नन्दिः सकर्मकः । स कदाचिदभिलाषे वर्तते । कदाचित्प्रीतौ । यदा प्रीतौ तदा तदालम्बनमेवास्य कर्म भवति । तत्पुनः कर्म भगवतो भाषितम् । एषैव देशना । के पुनस्ते श्रोतार इत्याह । ते चेत्यादि । लोकः सत्त्वसमूहः । स च श्रोतॄणां राजगृहस्य च प्रकृतत्वान्मनुष्यसमूह एव केवलो गम्येत । तथा मा भूदिति विशेषणं क्रियते । सदेवमानुषासुरगन्धर्वश्चेति । ते च बोधिसत्त्वादयः सदेवादिश्च लोक इति समुच्चयः ॥

परीन्दनाभिधायी परिवर्तः परीन्दनापरिवर्तः ॥

नानाविभ्रमलाञ्छनव्यपगमादग्राह्यमग्राहकम् ।
भात्येतत्तथतात्मना समरसं यस्यामशेषं जगत् ॥
प्रज्ञापारमिता विकल्पतरणी सा बोधिसत्त्वस्य धीः ।
धीरैः सैव विशुद्धिपारगमने ताथागती कथ्यते ॥
(र्स्त्_२०४)
स(श)सत्यष्टौ यदभिसमयान् यत्सहस्राणि चाष्टौ ।
सूत्रं तत्ते भगवति मया यश्च लब्धो विभज्य ॥
पुण्यस्कन्धः फलतु स यथा युक्तिमुक्तिं प्रजानाम् ।
निःसीमानां मम च वशितां विश्वकार्यक्रियासु ॥
अनुपमगुणमृष्टा निर्मलाशेषवर्णा ।
हरति भवरतिं वो भारती गौतमस्य ।
भवति महति(?) वर्तिर्या दया स्नेहपूर्णे
जनमनसि तदन्तर्ज्ज्योतिषः संक्रमाय ॥
प्रज्ञापारमितायाः प्रमिताया दशशतीभिरष्टाभिः ।
सारतमेत्यभिसमये स्फुटा घना पञ्जिकेयं मे ॥

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥

?(?) सम्वता तो राज्ञः श्रीहर्षदेवराज्ये श्रीगण्डिगुल्मविषये ।
कुलपुत्रकायस्थः (? स्थस्य) पण्डितश्रीजीवन्धरशिं(सिं)हस्य पुस्तको(? स्तिके)यमिति ॥ ० ॥ �

"https://sa.wikisource.org/w/index.php?title=सारतमाख्यापञ्जिका&oldid=387514" इत्यस्माद् प्रतिप्राप्तम्