सामान्यदूषणदिक्प्रसारिता

विकिस्रोतः तः
सामान्यदूषणदिक्प्रसारिता
[[लेखकः :|]]



पण्डिताशोकविरचिता
सामान्यदूषणदिक्प्रसारिता ।

व्यापकन्नित्यमेकञ्च सामान्यं यैः प्रकल्पितम् ।
मोहग्रन्थिच्छिदे तेषां तदभावः प्रसाध्यते ॥

कथमिदमवगम्यते । परस्परविलक्षणक्षणेषु प्रत्यक्षसमीक्ष्यमाणेष्वभिन्नधीध्वनिप्रसवनिबन्धनमनुयायिरूपं सामान्यं न मान्यं मानीषिणामिति । साधकप्रमाणविरहात्बाधकप्रमाणसम्भवाच्चेति ब्रूमः । तथाहि यदिदं सामान्यसाधनमनुमानमभिधीयते परैः । यदनुगताकारं ज्ञानं तदनुगतवस्तुनिबन्धनं यथा बहुषु पुष्पेषु स्रक्स्रगिति ज्ञानम् । अस्ति च परस्परसम्पर्कविकलकलासु कार्य्यादिव्यक्तिष्वनुगताकारं विज्ञानं तदनैकान्तिकतादोषाक्रान्तशरीरत्वान्न तद्भावसाधनायालम् । यतो भवति बहुषु पाचकेषु पाचकः पाचक इति एकाकारपरामर्शप्रत्ययः । न च तेष्वनुगतमेकं वस्तु समस्ति । तद्भावे हि प्रागेव तथाविधप्रत्ययोत्पादप्रसङ्गो दुर्व्वारप्रचारः । क्रियोपकारापेक्षाणां स्वलक्षणानां सामान्यव्यञ्जकत्वादयमदोष इति चेत् । नैतदस्ति । नित्यानामनाधेयातिशयतयानुपकारिणि सहकारिण्यपेक्षायोगात् । सातिशयत्वे वा प्रतिक्षणं विशरारूशरीरत्वात्क्रिया कुत इति दोषोदुष्परिहरः । क्रियानिबन्धनत्वात्पाचकेष्वनुगताकारप्रत्ययस्य नानैकान्तिकतादोष इत्यपि वार्त्तम् । प्रतिभेदं भिद्यमानानां कर्म्मणां तन्निबन्धनत्वायोगात् । भिन्नानामप्यभिन्नाकारज्ञाननिबन्धनत्वे व्यक्तीनामपि तथा भावो न राज दण्डनिवारितः । ततश्च सामान्यमेव नोपेयं स्यात् । इति मूलहरं पक्षमाश्रयता देवानां प्रियेण सुष्ठ अनुकूलमाचरितम् । अनेनैव न्यायेन क्रियाकारकसम्बन्धमभिन्नज्ञाननिबन्धनमुपकल्पयन् प्रतिक्षिप्तः । पाकक्रियात्वनिबन्धनः पाचकेष्वनुगताकारः प्रत्ययस्ततो नानैकान्तिकतादोष इत्यपि न मन्तव्यम् । नह्यर्थान्तरसम्बन्धिनी
जातिरर्थान्तरप्रत्ययोत्पत्तिहेतुः, अतिप्रसङ्गात् । स्यादेतत्समवेतसमवायसम्बन्धबलात्पाकक्रियासामान्यं पाचकेष्वभिन्नाकारं परामर्शप्रत्ययमुपजनयति ततो न यथोक्तदोषः । तदिदमप्यसारम् । यतुदयानन्तरापवर्ज्जितया कर्म्मणामेवासम्भवात्, विनष्टे कर्म्मणि तत्सामान्यं न कर्म्मणि तदभावादेव नापि कर्त्तरीति सम्बद्वसम्बन्धोप्यस्य नास्तीति नाभिन्नप्रत्ययहेतुः । तस्मात्स्थितमेतत्तदनैकान्तिकतादोषदुष्टत्वान्नेदमनुमानं सामान्यसत्त्वासाधनाय पर्य्याप्तमिति । इतश्चापि न सामान्यसत्त्वासाधनमिदमनुमानम् । यथैव हि परस्परासङ्कीर्णस्वभावा अपि शाबलेयादयोभावाः कयाचिदेव तदेककार्य्यप्रतिनियमलक्षणया स्वहेतुबलायातया प्रकृत्या तदेकमभिमतमनुगतरूपमुपकुर्ब्बते, तदपरसामान्यान्तरमन्तरेणान्यथानवस्थाप्रसङ्गात् । तथा तमेकं परामर्शप्रत्ययमुपजनयन्तु किमन्तरालगडुना व्यतिरेकवता सामान्येनोपगतेन ।

अथोच्यते प्रतिनियतशक्तयः सर्व्वभावाः । एतच्च सामान्यापलापिभिरपि नियतमभ्युपगमनीयमन्यथा कुतः शालिवीजं शाल्यङ्कुरमेव जनयति न कोद्रवाङ्कुरमिति । परपर्य्यनुयोगे भावप्रकृतिं मुक्त्वा किमपरमिह वचनीयमस्ति । एतच्चोत्तरमस्माकमपि न वनौकःकुलकवलितं, तथाहि वयमप्येवं शक्ता एव वक्तुं सामान्यमेवोपकर्त्तुं शक्तिव्यक्तीनां भेदाविशेषेऽपि न तदेकं विज्ञानमुपजनयितुमिति । अनुत्तरं वत दोषसङ्कटमत्रभवान् दृष्टिदोषेण प्रविश्यमानोऽपि नात्मानमात्मना सम्बेदयते । तथाहि शालिवीजतदङ्कुरयोरध्यक्षानुपलम्भनिबन्धने कार्य्यकारणभावेऽवगते शालिवीजं शाल्यङ्कुरं जनयितुं शक्तं न कोद्रवाङ्कुरमिति शक्यमभिधातुम् । नैवं सामान्यतद्वतोरुपकार्य्योपकारकभावः कुतश्चन प्रमाणान्निश्चितः । तत्कथमिदमुत्तरमभिधीयमानमादधीत साधिमानमित्यलमलीकनिर्बन्धनेन । न साधकप्रमाणविरहमात्रेण प्रेक्षावतामसद्व्यवहारः । ततस्तदभावसाधकमनुमानमभिधीयमानमस्माभिराकल्यताम् । यद्यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तदसदिति प्रेक्षावद्भिर्व्यवहर्त्तव्यं, यथाम्बराम्बुरुहं, नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं क्वचिदपीति स्वभावानुपलब्धिः । न चात्रासिद्विदोषोद्भावनया प्रत्यवस्थातव्यम् । तथा ह्यत्रासिद्विर्भवन्ती स्वरूपतो विशेषणतो वा भवेत् । तत्र न तावदाद्यं सम्भवति । अन्योपलम्भरुपस्यानुपलम्भस्याभ्युपगमात् । तस्य च स्वसम्बेदनप्रत्यक्षसाक्षात्कृतस्वरूपत्वात्कुतः स्वरूपासिद्वदोषावकाशः ।

अथोच्यते स्वसम्बेदनमेव न सम्भवति । स्वात्मनि क्रियाविरोधात् । न हि तयैवासिधारया सैवासिधारा च्छिद्यते । तदेबाङ्गल्यग्रं तेनैवाङ्गुल्यग्रेण स्पृश्यते इति । अतोऽसिद्व एवायं हेतुः । तदिदं स्वसम्बेदनशब्दार्था परिज्ञानविजृम्भतमेव प्रकटयति वावः । तथाहि कलसकलधौतकुवलयादिभ्यो व्यावृत्तं विज्ञानमुपजायते । तेन बोधरूपतयोत्पत्तिरेवास्य स्वसम्बित्तिरुच्यते, प्रकाशवत् । न कर्म्मकर्त्तृक्रियाभावात् । एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः । यथैव हि प्रकाशकान्तरनिरपेक्षः प्रकाशः प्रकाशमान आत्मनः प्रकाशक उच्यते । तथा ज्ञानमपि ज्ञानान्तरनिरपेक्षं प्रकाशमानमात्मनः प्रकाशमुच्यते । ततोऽयं परमार्थः । न ज्ञानं ज्ञानान्तरसंवेद्यमुपपद्यते नाप्यसम्बिदितमुच्यते । यथाप्रकारे च स्वसम्बेदनशब्दार्थ विवक्षिते न किञ्चिद्वचनीयकमस्ति कुतो यथोक्तदोषावसरः । नापि विशेषणासिद्व्यासिद्विरूद्भावनीया । उपलब्धिलक्षणप्राप्ततया सामान्यस्य स्वयमेव परैरुपगमात् । तथानभ्युपगमे वा न सामान्यबलेन वा कुलेयादिष्वनुगताकारौ धीध्वनी स्याताम् । न हि यतो यत्र ज्ञानाभिधानप्रवृत्तिस्तदनुपलक्षणे तस्य प्रतीतिर्भवति, दण्डिवत् । यत्पुनरिदमुद्योतितमुद्योतकरेण । किं सामान्यं प्रतिपद्यसे, न वा । यदि प्रतिपद्यसे कथमपन्हुषे । अथ न प्रतिपद्यसे तदा तस्यासिद्वत्वादाश्रयासिद्वो हेतुः । तदिदं तस्य धर्म्मिस्वरूपितानभिज्ञताविजृम्भितमाभाति । यतो न वयं वहीरूपतया सामान्यं धर्म्मितयाङ्गीकुर्म्महे । अन्तर्म्मात्राभिनिवेशिनो भावाभावोभयानुभवाहितवासनापरिपाकप्रभवस्याध्यस्तवहिर्वस्तुनो ज्ञानाकारस्य धर्म्भितयोपयोगात् ।

स च स्वसम्बेदनप्रत्यक्षसिद्वतया न शक्यः प्रतिक्षेप्तुम् । तदत्र धर्म्मिणि व्यवस्थिताः सदसत्वे चिन्तयन्ति । किमयं सामान्यशब्दविकल्पप्रतिभासार्थो धर्म्मी परपरिकल्पितवहिःसामान्यनिबन्धनो वेति । तस्य वाह्यानुपादानत्वे साध्यतयानुपलम्भो हेतुः । न पुनस्तस्यैवाभावः साध्यते । तद्विषयशब्दप्रयोगप्रसङ्गात् । एवम्बिधे च धर्म्मिणि विवक्षिते कुत आश्रयासिद्विदोषः । यत्तूच्यते । प्रत्यक्षप्रमाणसिद्वस्वभावतया सामान्यस्यासिद्व एवायं हेतुरिति । तदयुक्तं, तस्य स्वरूपेणाप्रतिभासनात् ।

इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वं यत्स्वरूपस्य स्वबुद्वौ समर्पणम् । इदं पुनर्मूल्यादानक्रयि सामान्यं स्वरूपञ्च नादर्शयति प्रत्यक्षताञ्च स्वीकर्त्तुमिच्छति । तथाहि न वयं परस्परासंकीर्णशावलेयादिव्यक्तिभेदप्रतिभासनवेलायां तद्विलक्षणमपरमनुगतमध्यक्षेणेक्षामहे । कण्ठेशनमिव भूतेषु । शावलेयसामान्यबुद्वेरसिद्वेः । तत्कथमदृष्टकल्पनयात्मानमात्मना विप्रलभेमहि ।

इति नासिद्वो हेतुः । नाप्यनैकान्तिकता शङ्काविषयमतिपतति, विपक्षवृत्त्यदर्शनात् । असपक्षे सम्भवानुपलम्भात् । साधारणानैकान्तिकता माभूत । सन्दिग्धविपक्षव्यावृत्तिकता तु प्रतिबन्धादर्शनादनिवारित प्रसरैव ।

तदेतन्न समालोचिततर्ककर्कशधियामभिधानम् । विपर्य्यये बाधकप्रमाणसामर्थ्यादपसारितसद्भावत्वात्तदाशङ्कायाः । तथाह्यसत्त्वे साध्ये सत्त्वं विपक्षः । तत्र प्रत्यक्षवृत्त्या भवितव्यम् । यतो यद्यदाविकलाप्रतिहतसामर्थ्यं तत्तदा भवत्येव । तद्यथाविकलबलसकलकारणकलापोऽङ्कुरः । सति च चक्षुरादिसाकल्ये दृश्ये वस्तुन्यविकलाप्रतिबद्वशक्तिकारणं प्रत्यक्षं ज्ञानमिति स्वभावहेतुः । ततो विरुद्वोपलम्भाद्विपक्षाद्व्यावर्त्तमानो हेतुः । असद्व्यवहारयोग्यत्वेन व्याप्यत इति व्याप्तिसिद्वेर्नानैकान्तिकः । अभिमतसाध्य प्रतिबन्धसिद्वेस्तु विरुद्वता दूरतरसमुत्सारितरभसप्रसरैव । अतोऽसिद्वतादिदूषणशङ्काकलङ्कालङ्कि(कृ)ताद्वेतोः प्रस्तुतवस्तुसिद्वौ सिद्वमसत्त्वं सामान्यस्येत्यलमतिबद्वविस्तरविसारिण्या कथयेति विरम्यते ।
न च वस्तुसंस्थानवत्सामान्यं व्यक्तेर्लक्षणम् । न चानुवृत्तव्यावृत्तवर्णाद्यात्मके जातिव्यक्ती वर्णादिनियतप्रतिभासप्रतीतिप्रसङ्गात् । व्यक्तेरेवासौ प्रतिभास इति चेत्कोऽपरस्तर्हि सामान्यस्यानुगताकार इति चेत् ।

ननु वर्णसंस्थाने विरहय्य किमपरमनुगामि विद्यते । जातिब्यक्तयोः समवायबलादविभावितविभागयोः क्षीरोदकयोरिव परस्परमिश्रणेन प्रतिपत्तेरिति चेत् । न तर्हि सामान्यविशेषयोरेकतरस्यापि रूपं गृहीतम् । स्वरूपाग्रहणेऽनयोरप्यग्रहणमिति निरालम्बनैव सा तादृशी प्रतिपत्तिरिति परमार्थ आवेदितस्तावत्निरालम्बनया च प्रतीत्या व्यवस्थाप्यमानं सामान्यं सुव्यवस्थापितम् । तस्माद्विशेष्यासिद्व्यापि नायमसिद्वो हेतुः । सपक्षे वर्त्तमानो विरुद्व इत्यपि न मन्तव्यः । अनैकान्तिकताप्यस्य न सम्भावनामर्हति । असद्व्यवहारा नपेक्षत्वेन हि दृश्यानुपलम्भो व्याप्तः । यदि हि सन्नपि तत्र न प्रवर्त्तयेत् । इह सापेक्षः स्यात् । ततो विपक्षाद्व्यापकविरुद्वावरुद्वात् । व्यावर्त्तमानोऽसद्व्यवहारे विश्राम्यतीति अतस्तेनासद्व्यवहारेणानुपलम्भो व्याप्यत इति कुतोऽनेकान्तः । ततश्च स एवार्थः समायातः ।

एतासु पञ्चस्ववभासनीषु प्रत्यक्षवोधे स्फुटमङ्गुरीषु ।
साधारणं षष्ठमिहेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः ॥
इति ॥

सर्व्वस्य च पूर्व्वोक्तस्यायं परमार्थः ।

प्रत्यक्षप्रतिभासि वर्त्मन पञ्चस्वङ्गुलीषु स्थितं सामान्यं प्रतिभासते न च विकल्पाकारबुद्वौ तथा ।

ता एवास्फुटमूर्त्तयोत्र हि विभासन्ते न जातिस्ततः

सादृश्यभ्रमकारणौ पुनरिमावेकोपलब्धिध्वनी इति ॥

सामान्यसिद्विदूषणदिक्प्रसारिता ॥ ३ ॥
कृतिरियं पण्डिताशोकस्य ॥ ० ॥ �