सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/द्रविणविस्पर्द्धसी

विकिस्रोतः तः
द्रविणविस्पर्द्धसी द्वे
द्रविणविस्पर्द्धसी.


महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ १९२ ॥ ऋ. १०.१८५.१


( ८५।१) ॥ द्रविणविस्पर्द्धसी द्वे, ( द्रविणम् ) । प्रजापतिर्गायत्री मित्रावरुणोर्यमा ॥
हाउमहि । (त्रिः) । महीऽ२महि । (त्रिः ) । माहेमाहे । ( त्रिः ) । महित्रीणामवा२रस्तू । औहौहोवाऽ२॥ द्युक्षंमित्रस्याऽ२र्यम्णाः । औहौहोवाऽ२ ॥ दुराधर्षंवरूऽ२णस्या । औहौहोवाऽ२३ ।। हाउमहि । (त्रिः ) । महीऽ२महि । (त्रिः ) । माहेमाहे । (द्विः) । महि । माऽ२हाऽ२३४औहोवा ।। ए । महि । (द्वे द्विः) । ए । महीऽ२३४५ ।।
( दी० ४३ ॥ प० ३१ । मा० ८ ) १ (टै । १६२ )
 
( ८५.२) ।। विस्पर्द्धस्साम । प्रजापतिर्गायत्री मित्रावरुणोर्यमा ॥
हाउदिवि । ( त्रिः) ।। दिवीऽ२दिवि । (त्रिः) । दाइवेदाइवे । ( त्रिः) । महित्रीणामवा२रस्तु ॥ द्युक्षंमित्रस्याऽ२र्यम्णाः ॥ दुराधर्षंवरूऽ२णस्या ।। हाउदिवि । ( त्रि: ) । दिवीऽ२दिवि । (त्रिः ) । दाइवेदाइवे । (द्वि: ) ।
दिवि । दाऽ२इवाऽ२३४औहोवा ॥ ए । दिवि । ए । दिवि । ए। दिवीऽ२३४५ ॥
( दी० ३४ । प० २८ । मा० १९ )२ ( दो । १४३ )

 

[सम्पाद्यताम्]

टिप्पणी

द्रविणम् (ग्रामगेयः)

द्रविण उपरि टिप्पणी

विष्पर्धसस्साम

विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः । मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥ऋ. १.१७३.१०

वयस्कृच् छन्दः । विष्पर्धाश् छन्दः । विशालं छन्दः । वा.सं. १५.५

विष्पर्धाः विविधं स्पर्धन्ते ऐश्वर्याधिक्यदर्शनेन जना यत्रेति विष्पर्धाः स्वर्गः । 'स्पर्ध संघर्षे' असुन् । 'असौ वै लोको विष्पर्धाश्छन्दः' (६) इति श्रुतेः । महीधर भा.

स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् । यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥ऋ. ५.८७.४

दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम् ॥ऋ. ८.२३.२॥ -