सामग्री पर जाएँ

सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ३(ऐन्द्रं पर्व )

विकिस्रोतः तः

तृतीयोऽध्यायः

प्रथमः खण्डः

वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् ।

पुमांश्चतुरो दयाद्विद्यातीर्थमहेश्वरः ।।

भरद्वाजस्याओं द्वौ । इन्द्रस्य वा ॥ ३.१.१॥

अभि त्वा शूर नोनुमः (सा. २३३) इत्यत्र सामद्वयमुत्पन्नम् । अभित्वाशू (ग्राम. ६.१. २३३. १) इति मन्द्रादिकम् । अभित्वा ३ शुर- नोनुमाः (ग्राम. ६. १. २३३.२) इति मन्द्रद्वितीयादिकम् । एते द्वे भरद्वाजस्यानामधेये । विशेप्यस्यार्कशब्दस्य लिङ्गत्वात् द्वावितिपद तल्लिङ्गमिति न विरोधः । अथवा इन्द्रस्याओं ॥ १ ॥

भारद्वाजे द्वे ॥३.१.२॥

स्वामिद्धि हवामहे (सा. २३४) इत्यत्र सामद्वयोत्पत्तिः । त्वामिद्धी (ग्राम. ६. १. २३४.१) इति मन्द्रादिकम् । त्वामिद्वियामहे (ग्राम. ६. १. २३४. २) इति चतुर्थमन्द्रादिकम् । एते द्वे भारद्वाजे ॥ २ ॥

सान्नते द्वे श्यैतं तृतीयम् ॥ ३.१.३ ॥

अभि प्र वः सुराधसम् (सा. २३५) इत्यत्र सामत्रयोत्पत्तिः । अभि प्रवाः (ग्राम. ६. १. २३१.१) इति मन्द्रादिकम् । अमाइप्रवाः (ग्राम. ६. १. २३५.२) इति क्रुष्टद्वितीयादिकम् । एते द्वे सानते एतन्नाम- धेये । अभिप्रवस्सुरा (ग्राम. ६. १. २३५. ३) इति चतुर्थतृतीयादिकम् । एतत् तृर्त यं साम श्यैतनामधेयम् ।। ३ ।।

नाविकं च प्रजापतेश्चाभीवर्तोऽभीवर्तस्य वाङ्गिरसस्य भागं चेन्द्रस्य चाभीवर्तो नौधसं पञ्चमम् ॥ ३.१.४ ॥ ९२ आर्षेयवाह्मणम्

तं वो दस्ममृतीपरम् (सा. २३६) इत्यत्र पञ्च सामानि उत्पन्नानि । [तत्र] तंवः (ग्राम. ६.१. २३६.१) इति चतुर्थमन्द्रादिकं प्रजापतेः नाविक प्रथमम् । तंबोदामामृतीपहोवा (ग्राम. ६.१.२३६.२) इति मन्द्रचतुर्थादिक द्वितीयम् ; अभीवर्तः अनीवर्तसंज्ञम् । अत्र अभीवर्तेन वै देवा असुगनभ्य- वन्त यदभीवों ब्रह्ममाम भवति (तां ब्रा. ४.३.२) इति ब्राह्मणमनुसंधेयम् । अथवा आङ्गिग्सस्य अङ्गिरसः पुत्रस्य अभीवर्तम्य साम । नंबोदस्ममृती। पहाओगा (ग्राम. ६.१.२३६.३) इति [तृतीय ] चतुर्थादिकं तृतीयं भगं साम । भगायेति निधनात् । तंबोदस्ममृती । पाहाम् (ग्राम. ६. १. २३६ ४ ) इति तृतीयचतुर्थादिकं तुरीयं साम इन्द्रस्याभीवर्तनामकम् । ताम् । वोदस्ममृती (ग्राम. ६. १. -३६. ५) इति क्रुष्टद्वितीयादिकं पञ्चमं नौधसम् । नोधा नामर्षि, तेन दृष्टम् ॥ ४ ॥

लौशे द्वे । धानाके द्वे । कालेयानि त्रीणि । क्षुल्लककालेयं वैषां चतुर्थम् । महाकालेयमुत्तमम् ॥ ३.१.५ ॥

तरोभियों विदद्वसुम् (सा. २३७) इत्यत्र सप्तसामान्युत्पन्नानि । तत्र तारो (ग्राम. ६. १. २३७.१.) इति चतुर्थमन्द्रादिकम् । तारो (ग्राम. ६. १. २३७. २) इति पुनश्चतुर्थमन्द्रादिकम् । एते द्वे लौशे एतत्संज्ञके । तरोभिवाविदद्वारम् (ग्राम. ६. १. २३७. ३) इति मन्द्रचतुर्थादिकम् । तरोभियोंविदद्वमूम (ग्राम. ६. १. २३७.४) इति मन्द्रचतुर्थादिकम् । एते द्वे धानाकनामधेये। तरोभिवों (ग्राम. ६. १.२३७.५) इति क्रुष्टद्वितीया- दिकम् । तरोभिवों (ग्राम. ६. १. २३७.६) इति क्रुष्टद्वितीयादिकम् । तरोभाइवॉविदद्वमूम् (ग्राम. ६.१.२३७.७) इति मन्द्रद्वितीयादिकम् । एतानि त्रीणि सामानि कालेयानि । कलेढक (पा. ४. २. ८। अथवा तृतीयः अध्यायः (१) ९३

एषां साम्नां मध्ये चतुर्थं चतुष्टसंख्यापूरक साम क्षुल्लककालेयनामकम् । तथा उत्तम सप्तम साम महाक लेयसंज्ञम् ।। ५ ॥

विकल्पेन सर्वेषां कालेयसंज्ञासंबन्धं दर्शयति--

सर्वाणि वैव कालेयानि ॥ ३.१.६ ॥

सर्वाणि सप्त सामानि कालेयानि एव ।। ६ ॥

ऐषिरे द्वे गौशृङ्गे द्वे ॥ ३.१.७ ॥

तगणिरित (सा. २३८) इत्यत्र चत्वारि सामान्युत्पन्नानि । तरणिरीत् (ग्राम. ६. १. २३८.१) इति मन्द्रादिकम् । तराहाउ (ग्राम. ६.१. २३८.२) इति चतुर्थमन्द्रादिकम् । एते उभे ऐपिरे । तणिरित्सिपा । सती (ग्राम. ६.१.२३८.३) इति चतुर्थतृतीयादिकम् । तरणिरित्मिषा । सती (ग्राम. ६.१.२३८.४) इति चतुर्थतृतीयादिकम् । एते द्वे गौशृङ्ग ॥७॥

पृष्ठमेकं शौल्कमेकं जमदग्नेरभीवर्त एकः ॥ ३.१.८ ॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामत्रयमुत्पन्नम् । तत्र पिबासुतस्यरसिन [1]: (ग्राम. ६.१.२३९.१) इति मन्द्रचतर्थादिकं [एक] साम पृष्ठनामधेयम् । पियासुतस्यरसिनोहाउ (ग्राम. ६, १.२३९.२) इति मन्द्रादिकमनन्तरम् एकं साम शौल्कम् । पिवासुतस्यरसिनोमन्स्वाहाउ (ग्राम. ६.१.२३९.३) इति मन्द्रादिकं तृतीय साम जमदग्नेग्भीवर्तः ॥८॥

कौल्मलबर्हिषे द्वे ॥३.१.९॥

त्वं ह्येहि (सा. २४०) इत्यत्र सामद्वयमुत्पन्नम् । तुवा हो एहि- चेरवाइ (ग्राम. ६.१.२४०.१) इति मन्द्रचतुर्थादिकम् । त्वयहिचेरावाइ ९४ आर्षेयब्राह्मणम्

(ग्राम. ६.१.२४०.२) इति मन्द्रमन्द्रादिकम् । एते द्वे सामनी बोल्मल बर्हिपे कुल्मलबर्हिःसंबन्धिनी। कुल्मलबहिर्वा एतेन [स्वर्ग लोकमपश्यन] प्रजापति भृमानमगच्छद् (ता. ब्रा. १५. ३. २१) इति हि ब्राह्मणम् ॥९॥

वसिष्ठस्य जनित्रे द्वे ॥ १० ॥

न हि वश्चरमं च न (सा. २४१) इत्यत्र सामद्वयोत्पत्तिः । नहि- वाश्चारमंचना (ग्राम. ६.१. २४१.१) इति मन्द्रद्वितीयादिकं प्रथमम् । नहिवश्वरमम् (ग्राम. ६.१.२४१.२) इति तृतीयचतुर्थादिकं [द्वितीयम्] । एते द्वे वसिष्ठस्य जनित्रे प्रजोत्पादनहेतुभूते । वसिष्टो वा एते पुत्रहतः सामनी अपश्यद् (तां. ब्रा.१९.३.८) इति ब्राह्मणमनुसंधेयम् । प्रत्येकमभिव्यक्तये वचनम् ।। १०॥

दैवातिथं च मैधातिथं वा ॥ ११ ॥

मा चिदन्यद्वि शसत (सा. २४२ ) इत्यत्रैकं साम । माचिदन्यहो- हाइ (ग्राम. ६. १. २४२.१) इति मन्द्रचतुर्थादिकं दैवतिथमथवा मैधाति- थम् । [मेधातिथिर्नाम ऋषिः] तेन दृष्टमित्यर्थः ॥ ११ ॥

इति श्रीसायणाचर्यविरचिते माधवाये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ द्वितीयः खण्डः

वैखानसं च पौरुहन्मनं च । प्राकर्ष वा ॥३.२.१॥ नकिष्टम् (सा. २४३) इत्यत्र सामद्वयमुत्पन्नम् । नकिष्टांकर्मणानशात (ग्राम. ६.२.२४३. ) इति मन्द्रद्वीयादिकमाद्य वैखानसनामधेयम् । [वैखानसा नामर्षयः ] तत्संबन्धि वैखानसं भवति। वैखानसा वा ऋषय इन्द्रस्य प्रिया (ता. वा. १४.५.७) इत्यादिब्राह्मणमनुसंधेयम् । नकिष्टं कर्मणा (ग्राम. ६.२. २४३. २) इति तृतीयचतुर्थादिकं द्वितीय साम पौरुहन्मनम् । पुरुहन्मा वा एतेन वैखानसोऽजसा स्वर्ग लोकमपश्यत् (ता. ब्रा. १४. ९. २९) इति ब्राह्मणमनुसंधेयम् । अत्र विकल्प: वा अथवा प्राकर्षम् । एतद् द्वितीय प्राकर्षम् वा ॥१॥

सात्यम् ॥३.२.२॥

य ऋते चित् (सा. २४४) इत्यत्र एकं साम । यऋताइची (ग्राम. ६. २. २४४.१) इति मन्द्रद्वितीयादिकं सात्यनामधेयम् ॥ २ ॥ चत्वारि भारद्वाजानि । कण्वबृहद्वैषां द्वितीयम् ॥ ३ ॥ आ त्या सहस्रमा शतम् (सा. २४५) इत्यत्र चत्वारि सामा- न्युत्पन्नानि । आत्वासहा (ग्राम. ६.२.२४५.१) इति मन्द्रादिकम् । औहोआवासहाए (ग्राम. ६.२ २४५.२) इति मन्दमन्द्रादिकम् । आत्यासहस्रमाशतमा (ग्राम. ६.२.२४५.३) इति चतुर्थमन्द्रादिकम् । आत्वासहस्रमा । शतमा (ग्राम. ६.२.२४५.४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि सामानि भारद्वाजानि। वा अथवा एषां चतुर्णा मध्ये द्वितीय कण्यवृहत्संज्ञम् ॥ ३॥

वाम्राणि त्रीणि ॥ ३.२.४॥ ९६ आर्षेयब्राह्मणम्

आ मन्द्रैरिन्द्र (सा. २४६) इत्यत्र त्रीणि सामानि उत्पन्नानि । आमन्द्रैरा (ग्राम. ६. २. २४६.१) इति मन्द्रादिकं [प्रथमम् ] । आमन्द्र- रिन्द्रहारिभाइः (ग्राम. ६.२.२४६. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । आमन्द्रैरिन्द्र । हारिभीः (ग्राम. ६.२.२४६.३) इति चतुर्थमन्द्रादिक तृतीयम् । एतानि वाम्राणि ॥ ४ ॥

अमेगौङ्गवं गुङ्गोर्वा ॥ ३.२.५॥

न्धमङ्ग प्रशंसिषः (सा. २४७) इत्यत्रक साम । त्वमांगा (ग्राम. ६. २. २४७.१) इति मन्द्रद्वितीयादिकम् अग्नेगौङ्गवम् अथवा गुङ्गोः सामैतत् । गौङ्ग भवत्यग्निरकामयतान्नादः स्यान् इति । स तपो- ऽतप्यत । स एतद् गौङ्गवमपश्यतेनान्नादोऽभवद्यदन्नं विच्या गर्दद्य- दगगूयत्तद् गौङ्गवस्य गौङ्गवत्यम् (ता. ब्रा १४. ३. १९) इति ब्राह्मणम् ॥ ५॥

इन्द्रस्य यशसी द्वे। साध्रं वैनयोरुत्तरम् । साध्रं चैत्र । विरूपस्य समीचीनप्राचीने द्वे। इन्द्रस्य वा यशसी ॥३.२.६॥

त्वमिन्द्र यशा असि (सा. २४८) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र त्वमिन्द्रा (ग्राम. ६ २.२४८.१) इति चतुर्थमन्द्रादिकम् । त्वमाइन्द्रा यशा असाइ (ग्राम. ६.२.२४८.२) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रस्य यशसी । अथवा एनयोः साम्नोरुत्तरं द्वितीय साम साध्रम् । हाउत्वमिन्द्रा (ग्राम. ६.२.२४८.३) इति मन्द्रादिक माघ्रमेव । हाउत्वमिन्द्रा। यशाअसि (ग्राम. ६.२.२४८.४) इति मन्द्रद्वितीयादिकम् । होउत्वमिन्द्रा (ग्राम. ६.२.२४८.५) इति मन्द्रद्वितीयादिकम् । एते द्वे विरूपस्य समीचीनप्राचीननामधेये । अथवा एते सामनी इन्द्रस्य वा यासी ॥ ६॥ तृतीयः अध्यायः (२) ९७


यौक्तस्रुचं यातस्रुचं वा ॥ ३.२.७॥

इन्द्रमिदेवतातये (सा. २४९) इत्यत्रैक साम । इन्द्रमिदे ता (ग्राम. ७.२. २४९.१) इति चतुर्थमन्द्रादिकं यौत्त सुचम् । अथवा य त- सुचनामकम् ॥ ७॥

आत्राणि त्रीणि । वासिष्ठानि वा ॥ ३.२.८॥

इमा उ त्वा (सा. २५०) इत्यत्र सामनयोत्पत्तिः । इमाउतला- पुरूवसोगिरः (ग्राम. ७. २.२५०.१) इति मन्द्रचतुर्थादिकम् इमाउन्वा- पुरूवसोहाउ (ग्राम. ७.२.२५०. २) इति मन्द्रादिकम् । इमाउत्वापुरू (ग्राम. ७.२.२५०.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि आत्राणि एतन्नामधेयानि । अथवा वासिष्ठानि ॥ ८ ॥ वासिष्ठानि त्रीणि । आत्राणि वा ॥९॥ उदु त्ये मधुमत्तमा (सा. २५१) इत्यत्र सामनयोत्पत्तिः । उदुत्येमा (ग्राम. ७.२.२५१.१) इति मन्द्रादिकम् । उदुये धुमत्तमाः (ग्राम. ७.२.२५१.२) इति चतुर्थमन्द्रादिकम् । ह । उदुत्येमधुमत्तम (ग्राम. ७.२.२५१.३) इति तृतीयचतुर्थादिकम् । एतानि वासि.नि । अथवा आत्राणि ॥ ९॥

गोराङ्गिरसस्य सामनी द्वे । गोतमस्य वा मनाये ॥३.२.१०॥

यथा गौरो अपा कृतम् (सा. २५२) इत्यत्र सामद्वयमुत्पन्नम् । यथागौरः (ग्राम. ७.२.२५२. इति द्वितीयक्रुष्टादिकम् । ओवाओवा। ९८ आर्षेयब्राह्मणम्

याथा (ग्राम. ७.२.२५२.२) इति द्वितीयतृयीयादिकम् । एते द्वे आङ्गिरसे । आङ्गिरसस्य-भङ्गिरसः पुत्रस्य गोः एतत्संज्ञकस्य ऋषः, सामनी । गोगङ्गिरस (ता. ब्रा.?) इति ब्राह्मणम् । यद्वा एते सामनी गोतमस्य मनाज्ये ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणमाप्ये तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ तृतीयः खण्डः


इन्द्रस्य हारयणानि त्रीणि । हारायणानि वा ॥३.३.१॥

शग्ध्यूष शचीपते (सा. २५३) इत्यत्र सामत्रयमुत्पन्नम् । शग्भ्यूपू (ग्राम. ७.३.२५३.१) इति मन्द्रादिकं प्रथमम् । शग्ध्यूष्वौहोइशचीपताइ (ग्राम. ७. ३. २५३. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । शग्ध्यषुशची (ग्राम. ७.३.२५३.३) इति चतुर्थतृतीयादिकं तृतीयम् । एतानि वीणि इन्द्रस्य हारयणानि । यद्वा हारायणानि ॥१॥

वाम्राणि त्रीणि ॥३.३.२॥

या इन्द्र भुज आभर (सा. २५४) इत्यत्र सामत्रयमुत्पन्नम् । [याहोइ । इंद्रा] (ग्राम. ७.३. २५४.१) इति तृतीयद्वितीयादिकं प्रथमम् । याइन्द्रभुजाभाराः (ग्राम. ७.३.२५४.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । याइन्द्रभुजआभरः। उहुवाहाइ (ग्राम. ७.३. २५४.३) इति चतुर्थ- मन्द्रादिकं तृतीयम् । एतानि वीणि वाम्राणि ॥२॥

वरुणसामानि त्रीणि ॥३.३.३॥

प्रमित्राय प्रार्यम्णे (सा. २५५) इत्यत्र सामत्रयमुत्पन्नम् । प्रमि- त्रायमाहाउ (ग्राम. ७.३.२५५.१) इति मन्द्रादिकं प्रथमम् । प्रमित्राय- प्रौहोवा (ग्राम. ७.३.२५५.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । प्रमि. लायमार्यम्णेया। ओवा (ग्राम. ७.३२५५.३) इति मन्द्रचतुर्थादिकं तृतीयम् । एतानि त्रीणि वरुणसामानि ॥३॥

प्रजापतेश्च वषट्कारणिधनम् ॥ ३.३.४॥

अभि त्वा पूर्वपीतये (सा. २५६) इत्यत्र सामैकमुत्पन्नम् । अभित्वा (ग्राम. ७.३.२५६.१) इति चतुर्थतृतीयादिकं प्रजापतेश्च वषट्कारणिधनम् एतन्नामधेयकम् ॥ ४ ॥ १०० आर्षेयवाह्मणम्

धृषतो मारुतस्य साम ॥३.३.५॥

प्रव इन्द्राय बृहते (सा. २५७) इत्यत्रैकं साम । प्रवइन्द्राय- वृहते । प्रयाः (ग्राम. ७. ३. २५७.१) इति चतुर्थमन्द्रादिकं मारुतस्य धृषनः साम ॥ ५॥

संश्रवसो विश्रवसः सत्यश्रवसः श्रवसः इति वाय्यानां चत्वारि सामानि । इन्द्रस्य वा संशानानि ॥ ३.३.६ ॥

संश्रवसो विश्रवसः सत्यश्रयमः श्रवस इतिनामधेयानां वाय्याना- मृषणां क्रमेण चत्वारि सामानि । तत्र सान्त्वहिन्ध (ग्राम. ७.३. २५८.१३) इत्यादि संश्रयम इत्यन्तम् । सांत्यारिण (-१) इत्यादि विश्वस इत्यन्तम् । सांत्वानित । क्षुः (-१०) इतिप्रभृति सत्यश्रवस इत्यन्तम् । एतानि त्रणि, सांत्याशिश (ग्रान ७. ३. २५८.२) इति उपक्रम्य वृहदिन्द्र यगायता इत्यादि श्रवस इत्यन्तं चतुर्थम् । एतानि चत्वारि वाय्यानामृषणां मानानि । अथवा इन्द्रस्य वा संज्ञानानि एतन्नामधेयानि ॥ ६॥

वाम्रे पूर्वे वासिष्ठं तृतीयम् । वासिष्ठे वा पूर्वे वाम्रं तृतीयम् ॥ ३.३.७॥

इन्द्र क्रतुं न आ भर (सा. २५९) इत्यत्र सामत्रयमुत्पन्नम् । इन्द्राऔहो (ग्राम. ७. ३. २५०.१) इति द्वितीयक्रुष्टादिकं प्रथमम् । इन्द्र- क्रतूनआभग (ग्राम. ७. ३.२५९.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते पूर्व आये द्वे वाने। इन्द्रक्रतुं आ (ग्राम. ७. ३. २५९. ३) इति तृतीयचतुर्थादिक तृतीयं साम वासिष्टम् । अथवा पूर्वे सामनी वासिष्ठे । तृतीयं वाम्रा ॥ ७॥ तृतीयः अध्यायः (३) १०१

स्वपस आञ्जिगस्य सामनी द्वे। आञ्जिगस्य दानवस्य वा॥३.३.८॥

मा न इन्द्र पग वृणक (सा. २६०) इत्यत्र सामद्वयोत्पत्तिः । मानइन्द्रा (ग्राम. ७. ३. २६०. १) इति मन्द्रादिकम् ; मानइन्द्रपरा (ग्राम. ७. ३. २६०. २) इति तृतीयचतुर्थाशिकम् आजिगस्य, अञ्जिगस्यापत्यस्य स्वपसः सामनी। अथवा दानवस्थाञ्जिगस्य संबन्धिनी ॥ ८ ॥

आष्कारणिधनं काण्वं महावैष्टम्भमभिनिधनं च काण्वं महावैष्टम्भं चैव ॥ ३.३.९॥

वयं घ त्वा (सा. २६१) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र वयंघात्वासुतावन्ताः (ग्राम. ७. ३. २६२. १) इति मन्द्रद्वितीयादिकमाद्यं साम काण्वं कण्वेन दृष्टम् आप्कारणिधनम् । एतत्सामान्ते आर्ष(?) इति निधनं गीतम् । तथा च ब्राह्मणम्-कण्यो वा एतन्सामते निधनमपश्यन्स न प्रत्यतिद् (ता. बा. ८. २. २) इत्यादि । औहोवावयंघत्वा (ग्राम. ७. ३. २६१. २) इति चतुर्थमन्द्रा दकं द्वितीय साम महावैष्टम्भम् । औहोहोहाइ । आइही। वायाम (ग्राम. ७. ३. २६१. ३) इति मन्द्रचतुर्थादिक तृतीयं साम काण्वं कण्वेन दृष्टम् अभिनिधनं नाम । अस्य साम्नः अभिनिधनं काण्वं भवति। अभिनिधनेन वा। इन्द्रो वृत्राय वज्रं प्रावर्त यत् (तां. बा. ८. १.२) इति ब्राह्मणमनुसंधेयम् । वयंघत्वोहाइ (ग्राम. ७. ३. २६१. ४) इति मन्द्रचतुर्थादिकं तुरीयं महावैष्टम्भं चैव ॥ ९ ॥

श्नौष्टीगवं च ॥३.३.१०॥

यदिन्द्र नाहुषीषु (सा. २६२) इत्यत्रैकं साम । ओहाइ । यदिन्द्रना (ग्राम. ७. ३. २६२. १) इति मन्द्रचतुर्थादिकं श्नौष्टीगवम् । श्रुष्टीगुर्नाम ऋषिः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषयब्राह्मणभाष्ये तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ चतुर्थः खण्डः

इन्द्रस्य च वृषकम् ॥३.४.१॥

सत्यमित्था वृपेदप्ति (सा. २६३) इत्यत्रैकं साम । सत्यमित्था (ग्राम. ७.४.२६३. १) इति मन्द्रचतुर्थादिकम् इन्द्रस्य च वृषकम् ॥१॥

द्यौते द्वे। द्वैगते वा ॥ ३.४.२॥

यच्छकासि (सा. २६४ ) इत्यत्र सामद्वयमुत्पन्नम् । यच्छनासी (ग्राम. ७. ४. २६४. १) इति मन्द्रद्वितीयादिक प्रथमम् । यच्छक्रासि- परावतिदोहाइ (ग्राम. ७. ४. २६४. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे द्यौते । वा अथवा द्वैगते द्विगतं स्वर्ग प्रति तत्साधने ॥ २ ॥

कार्तयशं च कार्तवेशं वा ॥ ३.४.३ ॥

अभि वो वीरमन्धसः (सा. २६५) इत्यत्रैकं साम । अभी(भिः) वोवीरम् (ग्राम. ७. ४. २६५. १) इति मन्द्रचतुर्थादिकं कार्तयशम् । अथवा कार्तवेशम् एतन्नामकम् ॥ ३ ॥

इन्द्रस्य च शरणम् ॥ ३.४.४॥

इन्द्र विधातु शरणम् (सा. २६६) इत्यत्रैकं साम । इन्द्रत्रिधातु (ग्राम. ७. ४. २६६. १) इति चतुर्थमन्द्रादिकम् इन्द्रस्य च शरणम् ॥ ४ ॥

श्रायन्तीयं च ॥३.४.५॥

श्रायन्त इव सूर्य ( सा. २६७) इत्यत्रैक साम । श्रायन्तइव- सूरायाम् (ग्राम. ७. ४. २६७. १) इति मन्द्रचतुर्थादिकं श्रायन्तीयम् । एतन्नामधेयम् । श्रायन्तशब्दात् मतौ छः सूक्तसाम्नोः (पा. ५. २. ५९) इति मत्वर्थीयश्छः ॥ ५॥ तृतीयः अध्यायः (४) १०३


वाम्रं चाक्षीलं वा ॥ ३.४.६॥

न सीमदेव आप तद् (सा. २६८) इत्यत्रैकं साम । न सीमदेव आ (ग्राम. ७.४.२६८. १) इति तृतीयचतुर्थादिकं वाम्रम् । अथवा आक्षीलं वा ॥ ६॥

शाक्राणि त्रीणि ॥३.४.७॥

आ नो विश्वासु हव्यम् (सा. २६९) इत्यत्र सामत्रयमुत्पन्नम् । आनःएविश्वाः (ग्राम. ७. ४. २६९. १) इति चतुर्थमन्द्रादिकम् । आनोविश्वासुहाव्याम् (ग्राम. ७. ४. २६९. २) इति मन्द्रचतुर्थादिकम् । आनोविश्वासुहाव्याम् (प्राम. ७. ४. २६९. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि शाक्राणि ॥७॥

अत्रैव ऋष्यादिभेदेन बहून् विकल्पान् दर्शयति -

वासिष्ठानि वा वैयश्वानि आश्वानि वा शौल्कानि वा सुम्नानि वा द्युम्नानि वा पृष्ठानि वा यौक्ताश्वानि वा सोमसामानि वा ॥ ३.४.८॥

वाशब्दाः पक्षान्तरद्योतकाः। एतानि त्रीणि सामानि वासिष्ठानि वसिष्ठेन दृष्टानि । चैयश्वानि व्यश्वो नाम ऋषिः । आश्वानि अश्वभूत- प्रजापतिसंबन्धीनि । शौल्कानि [शुल्कसंबन्धीनि] । सुम्नानि सुखसाधनानि । द्युम्नानि बलसाधनानि । पृष्ठानि पृष्ठसंज्ञकानि । वा उत योक्ताश्वानि युक्ताश्वो नामाङ्गिरसः । सोमसामानि वा ॥ ८ ॥

प्रजापतेश्व निधनकामम् ॥ ३.४.९॥

तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्रैक साम । तवेदिन्द्रा (ग्राम. ७.४.२७०.१) इति चतुर्थमन्द्रादिकं प्रजापतेश्च निधनकामसंज्ञम् ॥९॥ १०४ आर्षेयब्राह्मणम्


इन्द्रस्य प्रियाणि त्रीणि वसिष्ठस्य वा ॥ ३.४.१० ॥

क्वेयथ क्वेदसि (सा. २७१) इत्यत्र सामत्रयमुत्पन्नम्। क्वेयथा (ग्राम, ७.४.२७१.१) इति मन्द्रादिकम् । कुवाकुवा (ग्राम. ७.४.२७१.२) इति चतुर्थमन्द्रादिकम् । क्वेयथकूवाइदासी (ग्राम. ७. ४. २७१. ३) इति द्वितीयतृतीयादिकम् । एतानि त्रीणि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य प्रियाणि एतन्नामधेयानि ॥ १० ॥

इन्द्रस्य बैरूपाणि त्रीणि । वसिष्ठस्य वा ॥ ३.४.११ ॥

वयमेनमिदा टोपीप (सा. २७२) इत्यत्र सामत्रयमुत्पन्नम् । वयमेनाम् आइदाऔहोवा (ग्राम. ७.४.२७२.१) इति मन्द्रक्रुष्टादिकम् । वयमेनामिदाहायाः (ग्राम. ७. ४. २७२. २) इति मन्द्रकुष्टादिकम् । वयमेनमिदा (ग्राम. ७. ४. २७२. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि इन्द्रस्य वैरूपाणि । अथवा वसिष्ठस्य वैरूपाणि ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ पश्चमः खण्डः


पौरुहन्मनं च प्राकर्ष च ॥३.५.१॥

यो राजा चर्षणीनाम् (सा. २७३) इत्यत्र सामद्वयोत्पत्तिः । योराजा (ग्राम. ७.५. २७३. १) इति मन्द्रद्वितीयादिकमाद्य साम पौरु- हन्मनम् एतत्संज्ञम् । पुरुहन्मा वा एतेन वैखानसोऽजसा स्वर्ग लोक- मपश्यत् (ता. ब्रा. १४. ९. २९) इति हि ब्राह्मणम् । योराजा (ग्राम. ७. ५. २७३. २) इति तृतीयचतुर्थादिकं द्वितीयं साम प्राकर्षम् ॥ १ ॥

इन्द्रस्य चाभयंकरम् ॥३.५.२॥

यत इन्द्र भयामहे (सा. २७४) इत्यतैकं साम । यत[आ] इन्द्र (ग्राम. ७.५.२७४.१) इति मन्द्रद्वितीयादिकं इन्द्रस्य चाभयंकरम् ॥२॥

कावषे च ॥ ३.५.३॥

वास्तोष्पते (सा. २७५.). इत्यत्र सामद्वयोत्पत्तिः । वास्तोष्पताइ (ग्राम. ७. ५. २७५. १) इति मन्द्रादिकम् । वास्तोष्पतेध्रुवा (ग्राम. ७. ५. २७५. २) इति तृतीयचतुर्थादिकम् । एते द्वे कावपे ।। ३ ।।

सूर्यसाम च ॥ ३.५.४ ॥

वण्महार असि सूर्य (सा. २७६ ) इत्यत्रैक साम । बण्महार असिसूर्या (ग्राम. ७. ५. २७६. १) इति मन्द्रद्वितीयादिकं सूर्यसाम ॥ ४॥

वैश्वदेवे द्वे । आनूपे वाध्यश्वे वा ॥ ३.५.५ ॥

अश्वी रथी (सा. २७७) इत्यत्र सामद्वयोत्पत्तिः । अश्वीअश्वी (ग्राम. ७.५.२७७.१) इति चतुर्थमन्द्रादिकम् । अश्वीरथीसुरूपाईद् (ग्राम. ७. ५. २७७. २) इति मन्द्रमन्द्रादिकम् । एते द्वे वैश्वदेवे । अथवा आनूपे अथवा वाध्यश्वे । वाध्यश्वो नाम ऋषिः ॥ ५ ॥ १०६ आर्षेयब्राह्मणम्


वैरूपं च ॥ ३.५.६॥

यद्द्याव इन्द्र ते शतम् (सा. २७८) इत्यत्रैकं साम । यद्यावा (ग्राम. ७.५.२७८.१) इति द्वितीयक्रुष्टादिकं वैरूपम् । एतन्नामधेयम् ॥ ६॥

नैपातिथे द्वे ॥ ३.५.७॥

यदिन्द्र प्राग् (सा. २७९) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्र प्राग् (ग्रा. ७.५. २७९.१) इति चतुर्थमन्द्रादिकम् । यदिन्द्रप्रागपागुदांगे (ग्राम. ७.५.२७९. २) इति मन्द्रमन्द्रादिकम् । एते द्वे नैपातिथे ।। ७ ॥

बृहतश्च कौमुदस्य सामनी द्वे। स्वर्ज्योतिर्निधनमुत्तरम् ॥ ३.५.८ ॥

कस्तमिन्द्र (सा. २८०) इत्यत्र सामद्वयोत्पत्तिः । कस्तमिन्द्र (ग्राम. ७. ५.२८०.१) इति मन्द्रादिकम् । कस्तमिन्द्रत्वा (ग्राम. ७. ५. २८०. २) इति तृतीयचतुर्थादिकम् । एते द्वे कौमुदस्य बृहतः सामनी । अनयोरुत्तरं द्वितीयं साम स्वर्ज्योतिर्निधनम् एतत्संज्ञम् ।। ८ ।।

वाचश्व साम ॥ ३.५.९ ॥

इन्द्राग्नी अपादियम् (सा. २८१) इत्यत्रैकं साम । इन्द्राग्नीअपादियांमे (७. ५. २८१. १) इति मन्द्रमन्द्रादिकम् वाचः साम ॥९॥

वाम्रे द्वे आक्षीले वा ॥ ३.५.१० ॥

इन्द्रे नेदीय एदिहि (सा. २८२) इत्यत्र सामद्वयोत्पत्तिः । इन्द्रनेदीयएदि । हाइ । मितमे । धा। भिरूतिभिः (ग्राम. ७.५.२८२.१) इति चतुर्थमन्द्रादिकम् । इन्द्रनेदीयएदि । हाइ । मितमे । धा। भिरूतिभाइः (ग्राम. ७. ५. २८२. २) इति चतुर्थमन्द्रादिकम् । एते द्वे वाम्रे अथवा आक्षीले । एतन्नामधेये भवतः ।। १० ।।

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः


गौरीवीतेः प्रहितौ द्वौ । वासुक्रे वा ॥३.६.१॥

इत ऊती वो अजरम् (सा. २८३) इत्यत्र सामद्वयोत्पत्तिः । इतऊती (ग्राम. ७. ६. २८३. १) इति मन्द्रादिकम् । इतऊतीवो अजागम् (ग्राम. ७.६.२८३.२) इति मन्दमन्द्रादिकम् । एते द्वे गौरीवीतेः प्रहितौ एतन्नामके। प्रहितशब्दस्य पुंलिङ्गत्वात्तद्विशेषण द्वावितिपदं पुंलिङ्गमिति न विरोधः । अथवा वासुके वा । वासुक्रो नाम ऋषिः तेन दृष्टे वा ॥ १ ॥

आत्रे द्वे ॥ ३.६.२॥

मोषु त्वा वाघतश्च न (सा. २८४) इत्यत्र सामद्वयोत्पत्तिः। मोषुत्वाचा (ग्राम. ७. ६. २८४. १) इति मन्द्रादिकम् । मोषुत्वावाघतश्चनाए (ग्राम. ७.६.२८४.२) इति मन्द्रादिकम् । एते आत्रनामकें ॥ २॥

गौरीवीते द्वे ॥३.६.३॥

सुनोत सोमपाने (सा. २८५) इत्यत्र सामद्वयोत्पत्तिः । सुनोत- सोमपानाए (ग्राम. ८. ६. २८५. १) इति मन्द्रादिकम् । सुनोतसोमपा (ग्राम. ८. ६. २८५. २) इति चतुर्थतृतीयादिकम् । एते द्वे गौरीवीत- नामके ॥ ३॥

वामदेव्यं च ॥३.६.४॥

यः सत्रहा विचर्षणिः (सा. २८६) इत्यत्रैकं साम । यःसत्रहा १०८ आर्षेयब्राह्मणम्

(ग्राम. ८. ६. २८६. १) इति तृतीयचतुर्थादिकं तद् वामदेव्यसंज्ञकम् । वकारो [वाक्य भेदद्योतनार्थः ॥ ४ ॥

अश्विनोश्च साम ॥ ३.६.५॥

शचीभिर्नः शचीवसू (सा. २८७) इत्यत्र सामैकम् । शचीभिर्ना शचीवसू (ग्राम. ८. ६. २८७.१) इति चतुर्थमन्द्रादिकम् अश्विनोः साम- संज्ञकम् ॥ ५॥

वसिष्ठस्य पज्राणि त्रीणि । पज्रस्य वा वासिष्ठस्य । सफस्य वा पाज्र्यस्य ॥ ३.६.६॥

यदा कदा च मीदुपे (सा. २८८) इत्यत्र सामत्रयमुत्पन्नम् । यदाकादा (ग्राम. ८. ६. २८८.१) इति मन्द्रादिकम् । यदाकदाचमहाउ (ग्राम. ८. ६. २८८. २) इति मन्द्रस्वरादिकम् । यदका (ग्राम. ८. ६.२८८. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि वसिष्ठस्य पज्राणि । अथवा वासिष्ठस्य पज्रस्य सामानि । अथवा पाज्यूस्य सफस्य सामानि ॥ ६ ॥

सौभरे द्वे ॥ ३.६.७॥

पाहि गा अन्धसो मदः (सा. २८९) इत्यत्र सामद्वयमुत्पन्नम् । पाहिगाआ (ग्राम. ८. ६. २८९. १) इति चतुर्थमन्द्रादिकम् । पा । झेपाही (ग्राम. ८. ६. २८९. २) इति मन्द्रचतुर्थादिकम् । एते द्वे सौभरे सुभरि म ऋषिः ॥ ७॥ तृतीयः अध्यायः (६) १०९


वैयश्वं च ॥ ३.६.८॥

उभयं शृणवच्च न (सा. २९०) इत्यत्रैकं साम । उभयं शृणवञ्चनाए (ग्राम. ८. ६. २९०. १) इति मन्द्रादिकं वैयश्वम् । चकारो वाक्य- भेदद्योतनार्थः ॥ ८ ॥

इन्द्रस्य च सहस्रायुतीये द्वे । प्रजापतेर्वा महोविशीये॥३.६.९॥

महे च न त्वा (सा. २९१) इत्यत्र सामद्वयम् । महेचनोवा (ग्राम. ८. ६. २९१. १) इति मन्द्रचतुर्थादिकम् । महेचानत्वाअद्रियाः (ग्राम. ८. ६. २९१. २) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रस्य च सहस्रायुतीये सहस्रायुतशब्दयुक्ते । न सहस्राय नायुताय इति सहस्रायुतशब्दौ विद्यते । अथवा प्रजापतेर्वा महोविशीये एतन्नामधेये सामनी ॥ ९ ॥

इन्द्राण्याः साम ॥ ३.६.१० ॥

वस्यां इन्द्रासि मे पितुः (सा. २९२.) इत्यत्र स्मैकम् । वस्या इन्द्रासिमे (ग्राम. ८. ६. २९२. १) इति चतुर्थमन्द्रादिकम् इन्द्राण्याः साम ।। १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आपयेब्राह्मणभाष्ये तृतीयाध्याये वष्ठः खण्डः ।। ६ ।। सप्तमः खण्डः

सौभरं च ॥ ३.७.१॥

इम इन्द्राय स्तुन्विरे (सा. २९३) इत्यत्रकं साम । इमाइ । इमई (ग्राम. ८. ७. २९३. १) इति तृतीयद्वितीयादिकं सौभरम् । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ १॥

गार्त्समदं च ॥ ३.७.२॥

इम इन्द्र मदाय ते (सा. २९४) इत्यत्रैक साम । इमइन्द्र[I]मदा- यताइ (ग्राम. ८. ७. २९४. १) इति चतुर्थमन्द्रादिकं गार्ल्समदम् । गृत्स- मदेन दृष्टम् ॥ २॥

वाचश्व साम ॥ ३.७.३ ॥

आ त्वाद्य सबर्दुघाम् (सा. २९५) इत्यत्र सामैकम् । आत्वद्या- सांबदुर्घाम् ( ग्राम. ८. ७. २९५. १) इति मन्द्रमन्द्रादिकं वाचः साम ॥३॥

बार्हदुक्थं च ॥ ३.७.४॥

न त्वा बृहन्तः (सा. २९६) इत्यत्रैकं साम । नत्वाबृह (ग्राम, ८. ७. २९६. १) इति चतुर्थमन्द्रादिकं बाहदुक्थम् ॥ ४ ॥

वाशं च नैपातिथं वा ॥ ३.७.५ ॥

कई वेद सुते सचा (सा. २९७) इत्यत्र सामैकम् । कईवेदा (ग्राम. ८.७.२९७.१) इति मन्द्रादिकं वाशम् एतन्नामधेयम् । नैपातिथसंज्ञम् ॥ ५ ॥

तौरश्रवसं च ॥ ३.७.६॥

यदिन्द्र शासो अव्रतम् (सा. २९८) इत्यत्र सामैकम् । यदिन्द्रा (ग्राम. ८. ७. २९८. १) इति द्वितीयक्रुष्टादिकं तौरश्रवसं च ॥ ६ ॥ तृतीयः अध्यायः (७) १११


त्वाष्ट्र्याश्च साम ॥ ३.७.७॥

त्वष्टा नो दैव्यम् (सा. २९९) इत्यत्रैकं साम । त्वष्टा (ग्राम. ८. ७.२९९. १) इति तृतीयादिकं त्वाष्ट्रयाश्च साम ॥ ७ ॥

अदितेश्च साम ॥ ३.७.८ ॥

कदा चन स्तरीरसि (सा. ३००) इत्यत्रैक साम । कदाचनास्ता- रीरसाइ (ग्राम. ८.७.३००.१) इति मन्द्रमन्द्रादिकम् अदितेश्च साम ।। ८ ।।

आजीगर्तं च ॥ ३.७.९॥

युक्ष्वा हि वृत्रहन्तम (सा. ३०१) इत्यत्रैक साम । आइही (ग्राम. ८. ७. ३०१. १) इति क्रुष्टद्वितीयादिकम् आजि (जी?) गर्तनामकम् ॥ ९ ॥

माधुच्छन्दसं च ॥३.७.१०॥

स्वामिदा ह्यो नरः (सा. ३०२) इत्यत्रैक साम त्वामिदा (ग्राम. ८. ७.३०२.१) इति तृतीयचतुर्थादिकम् माधुच्छन्दसं, मधुच्छन्दा नाम ऋषिः, तेन दृष्टम् ।। १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥ अष्टमः खण्डः

उषसश्च साम ॥३.८.१॥

प्रत्यु अदर्यायति (सा. ३०३ ) इत्यत्रैकं साम । प्रताइ । इहा (ग्राम. ८. ८. ३०३. १) इति द्वितीयक्रुष्टादिकम् उषसः साम ॥ १ ॥

अश्विनोश्च साम ॥ ३.८.२॥

इमा उ वां दिविष्टये (सा. ३०४) इत्यत्र सामैकम् । इमाउवांदि- विष्टया ऐही (ग्राम. ८. ८. ३०४.१) इति द्वितीयतृतीयादिकम् अश्विनोः साम ॥२॥

अश्विनोश्च संयोजनम् ॥ ३.८.३ ॥

कुष्ठः को वामश्विना (सा. ३०५) इत्यत्र सामेकम् । कुष्ठःकोवा- मश्विना (ग्राम. ८. ८. ३०५.१) इति चतुर्थमन्द्रादिकम् अश्विनोः संयोजनम् एतन्नामधेयकम् ।। ३ ।।

अश्विनोश्चैव साम ॥ ३.८.४॥

अयं वां मधुमत्तमः (सा. ३०६) इत्यत्रैक साम । अयाम् । अयंवाम (ग्राम. ८. ८. ३०६.१) इति तृतीयद्वितीयादिकम् अश्विनोरेव साम ॥ ४ ॥ सोमसाम च ॥ ३.८.५॥

आ त्वा सोमस्य (सा. ३०७) इत्यत्रैक साम। आत्वासोमा (ग्राम. ग्राम. ८.८.३०७.१) इति मन्द्रादिक सोमसाम ॥ ५॥

आजमायवं च ॥ ३.८.६॥

अध्वयों द्रावया त्वम् (सा. ३०८) इत्यत्रैकं साम । अध्वर्यो- द्रावयातुवाम् (ग्राम. ८. ८. ३०८. १) इति चतुर्थमन्द्रादिकम् आजमायवम् एतन्नामधेयं साम ।। ६॥ ११३ तृतीयः अध्यायः (८)


समुद्रस्य च प्रैयमेधस्य साम ॥ ३.८.७ ॥

अभीषतस्तदा भर (सा. ३०९) इत्यत्र सामैकम् । अभीषतस्तदा- हाउ (ग्राम. ८. ८. ३०२. १) इति मन्द्रादिक प्रेयमेधस्य समुद्रस्य साम ।। ७॥

इन्द्रस्य वैरूपे द्वे । वसिष्ठस्य वा ॥ ३.८.८ ॥

यदिन्द्र यावतस्त्वम् (सा. ३१०) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्रा (ग्राम. ८. ८. ३१०. १) इति द्वितीयक्रुष्टादिकम् । यदिन्द्रयावत- स्तुवाम् (ग्राम. ८. ८. ३१०.२) इति मन्द्रतृतीयादिकम् । एते द्वे इन्द्रस्य वैरूपे । वसिष्ठस्य वा वैरूपे ॥ ८ ॥

वैश्वदेवं च ॥ ३.८.९॥

त्वमिन्द्र प्रतूर्तिषु (सा. ३११) इत्यत्रैकं साम । त्वमिन्द्रोहाइ (ग्राम, ८. ८. ३११. १) इति चतुर्थमन्द्रादिकं वैश्वदेवम् ॥ ९ ॥

पुरीषं चाथर्वणम् ॥ ३.८.१०॥

प्र यो रिरिक्ष ओजसा (सा. ३१२) इत्यत्र सामैकम् । प्रयो- रिरिक्षओजसाए (ग्राम. ८. ८. ३१२.१) इति मन्द्रमन्द्रादिकम् आथर्वणं पुरीषनामकम् ॥ १० ॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये तृतीयाध्याये अष्टमः खण्डः ॥ ८ ॥

।। बृहतीभाष्यं समाप्तम् ॥ नवमः खण्डः

प्राकर्षं च वसिष्ठस्य च निहवः ॥३.९.१॥

असावि देवम् (सा. ३१३) इत्यत्र सामद्वयमुत्पन्नम् । असौहोवाहाइ (ग्राम. ८. ९. ३१३. १) इति द्वितीयतृतीयादिकं प्राकर्षसंज्ञम्। आइही (ग्राम. ८. ९. ३१३. २) इति क्रुष्टद्वितीयादिकं निहवः ॥१॥

गृत्समदस्य योनिनी द्वे ॥३.९.२॥

योनिष्ट इन्द्र (सा. ३१४) इत्यत्र सामद्वयम् । योनीः (ग्राम. ८.९.३१४.१) इति चतुर्थमन्द्रादिकम् । योनिष्टआइ (ग्राम. ८. ९. ३१४. २) इति क्रुष्टद्वितीयादिकम् । एते द्वे गृत्समदस्य योनिनी। योनिशब्दयुक्त सामनीत्यर्थः ॥ २ ॥

औरुक्षये द्वे ॥३॥

अदर्दरुत्समसृजो वि खानि (सा. ३१५) इत्यत्र सामद्वयमुत्पन्नम् । अदर्दरूत् (ग्राम. ८. ९. ३१५. १) इति चतुर्थमन्द्रादिकम् । अदर्दरुत्समसृजाः (ग्राम. ८. ९.३१५.२) इति चतुर्थमन्द्रादिकम् । एते द्वे औरुक्षये एतन्नामधेये ॥ ३॥

पार्थे द्वे ॥३.९.४॥

सुष्वाणास (सा. ३१६) इत्यत्र सामद्वयम् । सूष्वाणासाः (ग्राम. ८. ९. ३१६. १) इति चतुर्थमन्द्रादिकम् । ओहोहोइ सूष्वा (ग्राम. ८.९.३१६.२) इति द्वितीयतृतीयादिकम् । एते द्वे पार्थे ॥४॥ तृतीयः अध्यायः (९) ११५


सौपर्णे द्वे । वात्सप्राणि त्रीणि । क्षुल्लकवात्सप्रं वैषां तुरीयम् । महावात्सप्रमुत्तमम् । सर्वाणि वै वात्सप्राणि ॥ ३.९.५॥

जगृह्मा ते दक्षिणम् (सा. ३१७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र जगृह्मातेदक्षिणमोहाओहाम्ए (ग्राम. ८.९. ३१७.१) इति मन्द्रमन्द्रादिकम् । जगृह्मातेदक्षिणम् (ग्राम. ८. ९. ३१७. २) इति मन्द्रचतुर्थादिकम् । एते आदिमे द्वे सौपर्णे । होई । होई । होई । जगृह्मातेदक्षिणम् (ग्राम. ८. ९. ३१७. ३) इति क्रुष्टद्वितीयादिकम् । आ औहोइ (ग्राम. ८. ९. ३१७. ४) इति चतुर्थमन्द्रादिकम् । हाउ । ओ । होहोवा (ग्राम. ८.९. ३१७.५) इति मन्द्रतृतीयादिकम् । एतानि त्रीणि वात्सप्राणि । वत्सप्रिर्नाम ऋषिः । अथवा एषां पञ्चानां मध्ये तुरीयं शुल्लकनान्सप्रम् । तथा उत्तम चरमं साम महावत्सप्रम् अपरम् । अथवा सर्वाणि पञ्च सामानि वात्सप्राण्ये- वेति ॥५॥

गौरीवितं च ॥ ३.९.६॥

इन्द्रं नरो नेमथिता हवन्ते (सा. ३१८) इत्यत्रैक साम इन्द्रन []रो (ग्राम. ८. ९. ३१८. १) इति द्वितीयतृतीयादिकं गौरी- वितम् ।। ६॥

वैदन्वतं च ॥ ३.९.७ ॥

वयः सुपर्णाः (सा. ३१९) इत्यत्रैक साम । वयोहाहाउ (ग्राम. ८. ९. ३१९.१) इति मन्द्रादिकं वेदवतम् । विदन्वानृषिर्भार्गवः ॥ ७ ॥ ११६ आर्षेयवाह्मणम्


यामं वा महायामं च ॥३.९.८॥

नाके सुपर्णम् (सा. ३२०) इत्यत्रैक साम । आयाम् । अयायम् इत्यादि नाके सुपार्णम् (ग्राम. ८. ९. ३२०.१) इति क्रुष्टद्वितीया (द्वितीय- क्रुष्टा ?) दिकं [यामम् । अथवा] महायामम् एतत्संज्ञकम् ॥ ८ ॥

ऋतुसामनी द्वे । जज्ञानस्य वा ब्राह्मस्य ॥ ३.९.९॥

ब्रह्म जज्ञानम् (सा. ३२१) इत्यत्र सामद्वयम् । ब्रह्मा (ग्राम. ८. ९. ३२१.१) इति क्रुष्टादिकम् । हुवेहाइ (ग्राम. ८. ९. ३२१.२) इति क्रुष्टद्वितीयादिकम् (तृतीयादिकम् ?) । एते द्वे ऋतुसामनी । वा अथवा ब्राह्मस्य जज्ञानस्य संवन्धिनी ॥ ९ ॥

इन्द्रस्य वारवन्तीयम् ॥ ३.९.१० ॥

अपूर्व्या पुरुतमा (सा. ३२२) इत्यत्रैकं साम । अपूर्व्या ओहो- होहाइ (ग्राम. ८.९.३२२.१) इति मन्द्रचतुर्थादिकम् इन्द्रस्य वारवन्तीय- संज्ञम् ।। १० ।।

इति श्रीसायणाचार्यविरचिते माधवीय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये तृतीया याय नवमः ग्वण्डः ।। ९ ॥ दशमः खण्डः


इन्द्रस्य क्षुरपविणी द्वे । स्यौमरश्मे द्वे ॥३.१०.१॥

अब द्रप्सो अंशुमतीम् (सा. ३२३) इत्यत्र चत्वारि सामान्युत्- पन्नानि । अवद्राप्साः (ग्राम. ८.१०.३२३.१) इति द्वितीयतृतीयादिकं प्रथमम् । अवद्रप्साए (ग्राम.८.१०.३२३.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य क्षुरपविणी एतन्नामधेये। आ(अ) बद्रप्सो अश्शुमतीम् । औहोइ (ग्राम. ८. १०. ३२३. ३) इति तृतीयचतुर्थादिकम् । अबद्रप्सो अशुमतीम् । ए (ग्राम. ८.१०. ३२३. ४) इति तृतीयचतुर्थादिकम् । एते द्वे स्यौमरश्मे ॥१

धृषतो मारुतस्य सामनी द्वे । द्युतानस्य वा मारुतस्य ॥३.१०.२॥

वृत्रस्य त्वा (सा. ३२४) इत्यत्र सामद्वयमुत्पन्नम् । हा । ओहा (ग्राम. ८.१०. ३२४.१) इति द्वितीयतृतीयादिकं प्रथमम् । होये (ग्राम.. ८.१०. ३२४.२) इति क्रुष्टद्वितीयादिकं द्वितीयम् । एते द्वे मारुतस्य धृषतः सामनी । अथवा मारुतस्य द्युतानस्य सामनी ॥ २ ॥

सोमसामनी द्वे ॥३.१०.३॥

विधुं दद्राणम् (सा. ३२५) इत्यत्र सामद्वयम् । वीधूम् (ग्राम. ८. १०. ३२५. १) इति चतुर्थमन्द्रादिकम् । हि । आ । हि । हिं । विधु- दद्रा (ग्राम. ८.१०. ३२५.२) इति द्वितीयतृतीया ( तृतीयचतुर्था) दिकम् । एते द्वे सोमसामनी ॥ ३ ॥ ११८ आर्षेयब्राह्मणम्


इन्द्रवज्रे द्वे ॥ ३.१०.४॥

स्वःह त्यत्सप्तभ्यः (सा. ३२६) इत्यत्र सामद्वयम् । औहोइतुवाम् (ग्राम. ८. १०. ३२६. १) इति मन्द्रचतुर्थादिकम् । वोहाइ (माम. ८. १०. ३२६. २) इति चतुर्थादिकम् । एते द्वे इन्द्रवज्रनामके ॥ ४ ॥

भृष्टिमतः सूर्यवर्चसः सामनी द्वे ॥ ३.१०.५ ॥

मेडि न त्वा वज्रिणम् (सा. ३२७) इत्यत्र सामद्वयम् । मेडीम् ( ग्राम. ८.१०. ३२७.१) इति चतुर्थमन्द्रादिकम् । मेडिन्नत्वा (ग्राम. ८. १०. ३२७. २) इति चतुर्थमन्द्रादिकम् । एते द्वे भृष्टिमतः भृष्टिशब्द- युक्तस्य सूर्यवर्चसः सामनी ॥ ५ ॥

वसिष्ठस्याङ्कुशौ द्वौ । कश्यपस्य वा प्रतोदौ ॥ ३.१०.६ ॥

प्र वो महे महे वृधे भरध्वम् (सा. ३२८) इत्यत्र सामद्वयम् । प्रवाः (ग्राम. ८.१०. ३२८. १) इति मन्द्रचतुर्थादिकम् । हि प्रवो महा (ग्राम. ८.१०. ३२८. २) इति तृतीयद्वितीयादिकम् । एते द्वे वसिष्ठस्या- कुशौ । अथवा कश्यपस्य प्रतोदौ ॥ ६ ॥

भारद्वाजं च ॥ ३.१०.७॥

शुनः हुवेम मघवानम् (सा. ३२९) इत्यत्रैक साम। शुन५ हुवेम (ग्राम. ८. १०. ३२९.१) इति मन्द्रचतुर्थादिक भारद्वाजं भरद्वाजेन दृष्टम् ॥ ७॥

वैश्वदेवं च ॥ ३.१०.८ ॥

उदु ब्रह्माण्यैरत (सा. ३३०) इत्यत्रक साम । दिवया इत्यादि उदुब्रह्मा । णी (ग्राम. ८. १०. ३३०. १) इति क्रुष्टद्वितीयादिक वैश्व- देवम् ॥ ८॥ तृतीयः अध्यायः (१०) ११९


पुरीषं चाथर्वणम् ॥ ३.१०.९॥

चक्रं यदस्याप्स्वा निषत्तम् (सा. ३३१) इत्यत्रैकं साम । चक्र यदस्य (ग्राम. ८. १०. ३३१. १) इति मन्द्रचतुर्थादिकम् आथर्वणं पुरीप संज्ञम् ।। ९॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकारो आपैयब्राह्मणभाप्ये तृतीयाध्याये दशमः खण्डः ।। १० ।। एकादशः खण्डः


अदित्याः सामनी द्वे । तार्क्ष्यसामनी वा ॥३.११.१॥

त्यमू षु वाजिनम् (सा. ३३२) इत्यत्र सामद्वयम् । त्यमूपू (ग्राम. ९. ११. ३३२. १) इति मन्द्रादिकम् । ईयइयाहाइ। त्यमूषुवाजि- नांदेवजूतम् (ग्राम. ९. ११. ३३२. २) इति द्वितीयादिकम् । एते द्वे अदित्याः सामनी । अथवा तायसामनी ॥१॥

इन्द्रस्य च त्रातम् ॥ ३.११.२ ॥

त्रातारमिन्द्रमवितारम् (सा. ३३३) इत्यत्रैक साम । त्रातार- मिन्द्रमविता (ग्राम. ९. ११. ३३३. १) इति द्वितीयक्रुष्टादिकम् इन्द्रस्य च नातं त्रातृशब्दयुक्तमेतत्साम ॥२॥

याज्ञतुरं च वार्त्रतुरं वा ॥ ३.११.३ ॥

यजामहे (सा. ३३४) इत्यत्रैक साम । यजामहोवा (ग्राम. ९. ११. ३३४. १) इति मन्द्रचतुर्थादिकं याज्ञतुरम् अथवा वातुरम् ॥ ३ ॥

धृषतो मारुतस्य सामनी द्वे ॥ ३.११.४ ॥

सत्राहणं दधृषिम् (सा. ३३५) इत्यत्र सामद्वयम् । सत्रा। हणा आहोवा (ग्राम. ०. ११. ३३५.१) इति मन्द्रतृतीयादिकम् । सत्राहणंदा- धृषिम् (ग्राम. ९. ११. ३३५. २) इति चतुर्थतृतीयादिकम् । एते द्वे मारु- तस्य धृषतः सामनी ।। ४ ।।

आत्रम् ॥ ३.११.५॥

यो नो वनुष्यन् (सा. ३३६) [इत्यत्रैकं साम । योनोवनुष्यन् ] ग्राम. ९. ११. ३३६. १) इति तृतीयचतुर्थादिकम् आत्रम् एतत्संज्ञम् ॥ ५॥ गृत्समदस्य मदौ द्वौ । गौतमस्य वानुतोदौ ॥ ६ ॥ १२१ तृतीयः अध्यायः (११)

यं वृत्रेषु (सा. ३३७) इत्यत्र सामद्वयम् । हाउयंत्रेषू (ग्राम. ९.११. ३३७. १) इति मन्द्रादिकम् । यंयंया (ग्राम. ९. ११.३३७.२) इति मन्द्रादिकम् । एते द्वे गृत्समदस्य मदसंज्ञे । अथवा गौतमस्य बानु- तोदौ ।। ६॥

वैश्वामित्रम् ॥ ३.११.७ ॥

इन्द्रा पर्वता बृहता (सा. ३३८) इत्यत्र सामैकम् । इन्द्राहाउ (ग्राम. ९.११. ३३८.१) इति चतुर्थमन्द्रादिकं वैश्वामित्रं विश्वामित्रेण दृष्टम् ॥ ७ ॥

सावित्राणि षट् ॥ ३.११.८॥

इन्द्राय गिरो अनिशितसर्गा (सा. ३३९) इत्यत्र स्तोभविन्यास- भेदेन षट् सामान्युत्पन्नानि । तत्र हा । हाइ । इन्द्रायगाइ (ग्राम. ९.११. ३३९. १) इति द्वितीयतृतीयादिकमाद्यम् । असाउ असाउ इन्द्रायगा (ग्राम. ९. ११. ३३९. २) इति द्वितीयक्रुष्टादिक द्वितीयम् । कुवा कुवा इन्द्रायगा (ग्राम. ९. ११. ३३९. ३) इति द्वितीयक्रुष्टादिकं तृतीयम् । अयामयामपः प्रेरा (ग्राम. ०. ११. ३३९. ४) इति द्वितीयक्रुष्टादिकं तुरीयम्। अविदात् अविदत् यो अक्षेणाइ (ग्राम. ९. ११. ३३९. ५) इति क्रुष्टद्वितीयादिकं पञ्चमम् । इहाईहाविष्वक्तस्ता (ग्राम. ९. ११. ३३९. ६) इति द्वितीया- ष्टादिकं षष्ठम् । सावित्राणि सवितृसंबन्धीनि । एवं षट् सामानि ॥ ८ ॥

कुतीपादस्य वैरूपस्य साम ॥ ३.११.९ ॥

आ त्वा सखायः ववृत्युः (सा. ३४०) इत्यत्रैकं साम । आत्वा- सखायः (ग्राम. ९. ११. ३४०.१) इति चतुर्थमन्द्रादिकं कुतीपादस्य वैरूपस्य साम ॥९॥ १२२ आर्षेयब्राह्मणम्


आमहीयवं च ॥ ३.११.१० ॥

को अद्य युङ्क्त धुरि गा ऋतस्य (सा. ३४१) इत्यत्रैक साम । को अद्ययुङ्क्तेधुरिगाऋतस्याए (ग्राम. ९. ११. ३४१. १) इति मन्द्र- मन्द्रादिकम् आमहीयवम् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्रामणभाष्ये तृतीयाध्याये एकादशः खण्डः ॥ ११ ॥

॥ त्रैष्टुभभाष्यं समाप्तम् ॥ द्वादशः खण्डः


शैखण्डिने द्वे । विश्वेषां देवानामुद्वंशीयं तृतीयम् ॥३.१२.१॥

गायन्ति त्वा गायत्रिणः (सा. ३४२) इत्यत्र सामत्रयमुत्पन्नम् । तत्र गाया (ग्राम. ९. १२. ३४२. १) इति तृतीयद्वितीयादिकम् । गायन्ति- त्वो हाइ (ग्राम. ९.१२. ३४२.२) इति मन्द्रचतुर्थादिकम् । एते द्वे शैखण्डिने । गायन्तित्वागायत्रिणआ (ग्राम. ९.१२.३४२. ३) इति चतुर्थमन्द्रादिक तृतीय साम विश्वेषां देवानामुद्वंशीयम् उद्वंशशब्दवत्साम । तथा च ब्राह्मणम् --- पृष्ठानि वा असृज्यन्त तेषां यत्तेजो रसोऽत्यरिच्यत तद्देवाः समभरंस्तदुवंशीयमभवद् (तां. बा. ८. ९. ६) इति ॥ १॥

शैखण्डिनानि चैव त्रीणि । आष्टादंष्ट्रे द्वे । महावैश्वामित्रे द्वे ॥ ३.१२.२॥

इन्द्रं विश्वा अवीवृधन् (सा. ३४३) इत्यत्र सप्त सामान्युत्पन्नानि । तत्र इन्द्रंविश्वाः (ग्राम. ९.१२. ३४३. १) इति मन्द्रादिकम् । ओइन्द्रं- विश्वाः (ग्राम. ९.१२. ३४३.२) इति द्वितीयतृतीयादिकम् । इन्द्रविश्वा अवीवृधन (ग्राम. ९.१२.३४३.३) इति तृतीयचतुर्थादिकम् । एतानि स्त्रीणि शैखण्डिनान्येव । इन्द्रविश्वाअवीवृधन् ऐयाहाइ (ग्राम. ९.१२. ३४३. ४) इति चतुर्थमन्द्रादिकम् । इन्द्रंविश्वाअवीवृधन्नैयादौ (ग्राम. ९. १२. ३४३. ५) इति चतुर्थमन्द्रादिकम् । एते द्वे आष्टादंष्ट्रे । एतत्संज्ञे सामनी । तथा च ब्राह्मणम् – आष्ट्रादंष्ट्रे भवतः (ता. बा. ११. ११. ११) इति । हयाइ हया ओहाओहा । इन्द्रविश्वाः (ग्राम. ९.१२. ३४३.६) इति द्वितीयतृतीयादिकम् । हयाए इत्यादि इद्रविश्वाअवी (ग्राम. ९.१२. ३४३.७) इति द्वितीयक्रुष्टादिकम् । एते द्वे महावैश्वामित्रे ॥ २ ॥ १२४ आर्षेयब्राह्मणम्


इन्द्रस्य प्रियाणि चत्वारि । वसिष्ठस्य वा। गौतमं वैषां द्वितीयम् ॥ ३.१२.३॥

इममिन्द्र सुतं पिब (सा. ३४४) इत्यत्र चत्वारि सामान्युत्पन्नानि । इममाइन्द्रा (ग्राम. ९. १२. ३४४.१) इति द्वितीयक्रुष्टादिकम् । इममिन्द्र- सुतंपिया (ग्राम. ९. १२. ३४४.२) इति मन्द्रतृतीयादिकम् । इममिन्द्रा- सुतंपिबा (ग्राम. ९. १२.३४४.३) इति चतुर्थमन्द्रादिकम् । इममी (ग्राम. ९.१२. ३४४.४) इति द्वितीयक्रुष्टादिकम् । एतानि चत्वारि सामानि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य । यद्वा एषां चतुर्णा मध्ये द्वितीयं साम गौतमम् ॥ ३ ॥

गृत्समदस्य वीङ्कानि चत्वारि । वसिष्ठस्य वा । आकूपारं वैषां तृतीयम् ॥ ३.१२.४॥

यदिन्द्र चित्र म इह न (सा. ३४५) इत्यत्र चत्वारि सामान्युत् - पन्नानि । यदिन्द्रो हाइ (ग्राम. ९. १२. ३४५.१) इति चतुर्थमन्द्रादिक प्रथमम् । यदिन्द्रचित्रमौहोवा (ग्राम. ९. १२. ३४५.२) इति मन्द्रचतुर्था- दिकं द्वितीयम् । यदिन्द्राचित्र (ग्राम. ९. १२. ३४५.३) इति द्वितीय- क्रुष्टादिकं तृतीयम् । यदिन्द्रचित्रमइ (ग्राम. ९. १२. ३४५. ४) इति तृतीयचतुर्थादिकं चतुर्थम् । एतानि चत्वारि गृत्समदस्य वीङ्कानि एतन्नाम- धेयानि । अथवा वसिष्ठस्य वीङ्कानि । यद्वा एषां चतुर्णा मध्ये तृतीय- माकूपारम् । अकूपारो नाम कश्यपः ॥ ४ ॥ १२५ तृतीयः अध्यायः (१२)


तिरश्चाङ्गिरसस्य सामनी द्वे । तैरश्चे वा ॥३.१२.५॥

श्रुधी हवं तिरश्च्या (सा. ३४६) इत्यत्र सामद्वयम् । श्रुधी (ग्राम. ९. १२. ३४६. १) इति मन्द्रचतुर्थादिकम् , श्रुधीहावंतिरश्च्या (ग्राम. ९. १२. ३४६. २) इति मन्द्रद्वितीयादिकं तिरश्चाङ्गिरस्य सामनी । यद्वा तैरश्चे एतन्नामधेये । तैरश्चं भवति । अङ्गिरसः स्वर्ग लोकं यन्तो रक्षांस्यन्व- सचन्त तान्येतेन तिरश्वाङ्गिरसस्तिर्यङ् पर्यवैद्यत्तिर्यक पर्यवेत्तस्मात् तैरश्चम् (ता. ब्रा. १२. ६. ११-१२) इति ब्राह्मणमनुसंधेयम् ॥ ५॥

वैश्वामित्रं च ॥ ३.१२.६॥

असावि सोम इन्द्र ते (सा. ३४७) इत्यत्रैक साम । असावि- सोमइन्द्रते (ग्राम. ९. १२. ३४७. १) इति तृतीयचतुर्थादिक वैश्वा- मित्रम् ।। ६ ॥

काण्वे च ॥ ३.१२.७॥

एन्द्र याहि (सा. ३४८) इत्यत्र सामद्वयम् । एन्द्रायाहिहरिभाइः (ग्राम. ९. १२.३४८.१) इति मन्द्रादिकं प्रथमम् । एन्द्रयाहिहरिभिः उहवाहाइ (ग्राम. ९. १२. ३४८. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे काण्वे ॥ ७॥

वैश्वामित्रं चैव ॥ ३.१२.८॥

आ त्वा गिरी स्थीरिव (सा. ३४९) इत्यत्रैक साम | आत्वा- गाइरोरा (र?) थीरिवा (ग्राम. ९. १२. ३४९.१) इति मन्द्रद्वितीयादिक वैश्वामित्रमेव ॥ ८॥ १२६ आर्षेय्रााह्मणम्


इन्द्रस्य शुद्धाशुद्धीये द्वे । वसिष्ठस्य वा ॥ ३.१२.९ ॥

एतो न्विन्द्रं स्तवाम (सा. ३५०) इत्यत्र सामद्वयम् । एतोन्वि- न्द्रस्तवामा (ग्राम. ९. १२. ३५०.१) इति चतुर्थमन्द्रादिकमाद्यम् । एतो- न्विन्द्रशस्तवामा (ग्राम. ९.१२. ३५०. २) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य शुद्धाशुद्धीये। अपरिशुद्धस्य शुद्धयुत्पादके । तथा च ब्राह्मणम्- इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् । तमश्लीला वागभ्यवदत् । सोऽशुद्धोऽमन्यत । स एतच्छुद्धाशुद्धीयमपश्यत् । तेनाशुद्धथच्छुद्धथति (ता. बा. १४. ११. २९) इति प्रत्येकमविवक्षयैव (क?)वचनम् । अथवा वसिष्ठस्य शुद्धाशुद्धीये ॥ ९॥

गौतमस्य रयिष्ठे द्वे ॥ ३.१२.१० ॥

यो रयि रयिन्तमो (सा. ३५१) इत्यत्र सामद्वयम् । योगयिंवोरयाहाउ (ग्राम. ९. १२. ३५१. १) इति मन्द्रादिकम् । योरयिंवोरयि (ग्राम. ९. १२. ३५१.२) इति तृतीयचतुर्थादिकम् । एते द्वे गौतमस्य रयिष्ठे एतन्नामके || १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवदार्थप्रकाशे आपैयब्राह्मणभाष्ये तृतीयाध्याय द्वादशः खण्डः ।। १२ ।।

।। तृतीयाध्यायः समाप्तः ।। ३ ।।