समयमातृका/उपसंहारः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अष्टमः समयः समयमातृका
उपसंहारः
क्षेमेन्द्रः

उपसंहारः
सालङ्कारतया विभक्तिरुचिरच्छाया विशेषाश्रया
वक्रा सादरचर्वणा रसवती मुग्धार्थलब्धा परम् ।
आश्चर्योचितवर्णनानवनवास्वादप्रमोदार्चिता
वेश्या सत्कविभारतीव हरति प्रौढा कलाशालिनी ॥१॥

संवत्सरे पञ्चविंशे पौषऊक्लादिवासरे ।
श्रीमतां भूतिरक्षायै रचितोऽयं स्मितोत्सवः ॥२॥

अदिर्च्छिद्रविनिद्ररौद्रफ्णिनामत्रास्ति कालं कुलं
मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा ।
इत्यार्तिप्रतिबद्धवृद्धशबरी वर्गेण मार्गाग्रगा
यद्वैरिप्रमदाः सदा वनमहीगाढग्रहे वारिताः ॥३॥

वीरस्यार्तदयाविधेयमनसः शीलव्रतालङ्कृतेर्
निस्त्रिंशः परदारकृज्जयविधौ यस्यैककार्यः सुहृत।
तस्यानन्तमहीपतेर्विरजसः प्राज्याधिराज्योदये
क्षेमेन्द्रेण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् ॥४॥

॥ इति श्रीक्षेमेन्द्रकृता समयमातृका समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=समयमातृका/उपसंहारः&oldid=30980" इत्यस्माद् प्रतिप्राप्तम्