सन्तानान्तरसिद्धिटीका

विकिस्रोतः तः
सन्तानान्तरसिद्धिटीका
[[लेखकः :|]]


विनीतदेवकृता सन्तानान्तरसिद्धिटीका
[मूलसहिता]

बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् ।
ज्ञायते यदि धीश्चित्तमात्रेऽप्येष नयः समः ॥
चित्तमात्रमिदं सर्वमुक्तवान् यो जगद्गुरुः ।
सन्तानान्तरसिद्धस्तं प्रणिपत्य विविच्यते ॥

बुद्धिपूर्वां क्रियामित्यादिश्लोकेनास्य प्रकरणस्याभिधेयसम्बन्धप्रयोजनानि दर्शितानि । तत्र सन्तानान्तरसत्ताभिधेयम् । सन्तानान्तरसत्तायाः सिद्धिः प्रयोजनम् । तस्य प्रयोजनस्यापि प्रकरणेनानेन साध्यमानत्वात्तेन सहास्योपायोपेयलक्षणसम्बन्धः । कार्यकारणादिसम्बन्धानामस्मिन्नेवान्तर्भावान्न पृथग्वचनम् । बाह्यार्थवादिनः किल विज्ञानमात्रतायां सन्तानान्तरसत्ता नोपपद्यत इति चोदयन्ति । तथाहि, त एवमाहुः - येषां चित्तमात्रमेव सत्, असंश्च बाह्यार्थः, न तेषां प्राण्यन्तरप्रतिपत्तये प्रत्यक्षप्रमाणमस्ति; ज्ञानमात्रस्य स्वांशमात्रालम्बनत्वात्, वस्तुतस्तु आलम्बनाभावात् । नाप्यनुमानम्, कायवाक्कर्माभावात् । अथ कायवाग्विज्ञप्तिभ्यां प्राण्यन्तरमनुमीयते चेत्; विज्ञानमात्रतापक्षे कायवाक्कर्मणोर्विज्ञप्ती न स्तः ।

नाप्यागमः सम्भवति, तस्य रूपस्कन्धान्तर्भावात्, एतस्य च प्रतिक्षेपात् । तथाहि, आगमः शब्दात्मको वा भवेद्व्यञ्जनस्वभावो वा । उभयमप्येतद्भवत्पक्षे नास्ति । नापि तद्विषये रूपिण आगमस्य प्रामाण्यमिष्यते । यतो ह्ययं विषयः प्रमाणद्वयविषयातीतो मतः । तथा सति, आगमादपि प्राण्यन्तरं प्रतिपत्तुं न शक्यत इति चेत्?

तथा विप्रतिपन्ना बाह्यार्थावादिन एवं वक्तव्याः । वयमपि प्रत्यक्षतः प्राण्यन्तरं नैव प्रतिपद्यामहे । न हि प्रत्यक्षादर्वाग्दर्शिनः प्राण्यन्तरमवगच्छन्ति । नाप्यागमो व्यञ्जनस्वभावः । किन्तु प्रणेतृवशाद्यो वाक्यपदव्यञ्जनविशेषप्रतिभासिज्ञानोत्पादः सः । स तु प्रतिपत्तृसन्ताने सन्नप्युपचारतस्तथागतस्य वा कपिलस्य वा कणादस्य वा कर्तुर्वचनमिति व्यपदिश्यते । एवं सर्वेऽपि बौद्धा वाचकं शब्दसामान्याकारं ज्ञानं मन्यन्ते; न चास्ति शब्दविशेषः,ऽतस्य पूर्वमदृष्टत्वाद्ऽ इत्यादिहेतुभिः विशेषाकारस्य वाचकत्वभावप्रतिषेधात् । वयमपि नागमतः प्राण्यन्तरप्रतिपत्तिमभ्युपगच्छामः, अपि त्वनुमानात् । तच्चानुमानं कायवाक्कर्मणोरभावेऽपि यथा प्रवर्तते यद्दर्शयितुमाह - बुद्धिपूर्वामित्यादि । एष तावत्समुदायार्थः ।

अवयवार्थस्तूच्यते । बुद्धिः ज्ञानम् । सा चात्र गमनागमनसंलापेच्छारूपा परिगृह्यते, क्रियाहेतुत्वात्तस्याः । सास्ति पूर्वं यस्याः क्रियायाः सा बुद्धिपूर्वा । पूर्वेति शब्देनात्र कारणस्य निर्देशः, कारणस्य पूर्ववर्तित्वात् । यदि नाम बाह्यार्थवादिभिः स्वसन्ताने तां बुद्धिपूर्वां क्रियां प्रत्यक्षानुमानाभ्यामुपलभ्य पश्चात्परसन्ताने ग्रहाद्विवक्षितरूपा धीः विज्ञानं गम्यते, तदा चित्तमात्रेऽप्येष नयः समः । अत्र क्रियेत्युपलक्षणम् । मुखकान्तिरक्तिमादीनामपि चित्तान्तरस्य गमकत्वात् । यदीति वचनेन वक्ष्यमाणबिधिना परपक्षेऽनुमानाभावं दर्शयति ॥ १ ॥

अनुमानमभ्युपगम्य तुल्यतां ख्यापयन्नाह -

आत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वान्यत्र तयोर्दर्शनाद्यदि स्पन्दनमनुमीयेत, चित्तमात्रेऽप्येष नयः समः । अतश्चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति । आत्मनीत्यादि । चित्तस्य स्पन्दनं चित्तस्पन्दनम् । अत्र स्पन्दनेति शब्दश्चिकीर्षायां वर्तते । क्रियाभिलापौ तु कायवाग्विज्ञप्त्योः । तेनायमर्थो भवति - आत्मनि जिगमिषाविवक्षापूर्वयोः क्रियाभिलापयोर्दर्शनात्परसन्तानेऽपि तौ क्रियाभिलापौ चोपलभ्य चित्तस्पन्दनमनुमीयत इति चेत्? चित्तमात्रतावादेऽप्येष नयः समः । तथा सति, सोऽपि परचित्तमनुमीयात् । अत्र स्पन्दनेत्यविशेषेणोक्तम्, तथापि पूर्वं चित्तस्पन्दनमिति प्रकृतेनाभिसम्बन्धनीयम् । तस्मात्सामान्यशब्दा अपि प्रकरणसामर्थ्याद्विशेषेष्ववतिष्ठन्ते ॥ २ ॥

ननु बाह्यार्थवादे तु परचित्तनिमित्तके कायवाक्कर्मणी लिङ्गत्वेन स्वीक्रियेते, अन्तर्ज्ञेयवादे तयोरभावात्कथं साम्यमिति चेत्? एवमाह -

तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनविशेषेण विना भवतीत्येवं न मतम् । तच्चेत्यादि । अन्तर्ज्ञेयवादिनापि कायवाग्विज्ञाप्तिप्रतिभासि कायवाग्विज्ञप्तकारकं ज्ञानं परचित्तस्य स्पन्दनविशेषेण विना भवतीति न मन्यते । स्वज्ञानादन्यद्यज्ज्ञानं तत्ज्ञानान्तरम् । तत्सम्प्रयुक्तं स्पन्दनं ज्ञानान्तरस्पन्दनम्, तस्य विशेषस्तेन । विशेषेति वचनेन चिकीर्षा, विवक्षा च परिगृह्येते ॥ ३ ॥

बाह्यार्थवादिमतमाशङ्क्यते -

अथ परज्ञानस्य क्रियाया अनुपलम्भात्परधीरनुमातुं न युज्यत इति चेत्? न; तुल्यत्वात् । अथ परज्ञानस्य क्रियायेत्यादि । न भवता कदापि परज्ञानपूर्वके क्रियावागाकारके ज्ञाने उपलभ्येते । भवता तत्कथमनुमीयेत इति पूर्वपाक्षाशङ्का । अन्तर्ज्ञेयवाद्याह - न; तुल्यत्वादिति । नैष दोषः । यतो हि, एष उपालम्भो भवतामपि तुल्यः ॥ ४ ॥

तत्तुल्यत्वं दर्शयति -

परोऽपि परज्ञानपूर्वौ तौ कदापि न पश्यति । अतः तेनापि तन्न ज्ञायते । परोऽपीत्यादि । बाह्यार्थवाद्यपि परचित्तस्पन्दनपूर्वकौ तौ क्रियाभिलापौ न कदापि पश्यति । तस्मात्तेनापि परचित्तं न प्रतिपद्यते । अत्यन्तासम्बद्धो ह्येष उपालम्भः । न हि समर्थनाय प्रसिद्धसम्बन्धोऽन्वेक्षणीयः, अपि तु दोषसाम्यादेव परो निगृहीतः । तस्मान्न दोषान्तरमुच्यते ॥ ५ ॥

अत्रास्ति परचित्तानुमानोपाय इति बाह्यार्थवादिमतमाशङ्कयाह -

आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इत्चेत्? किं न युज्यते? आत्मनश्चित्तस्य परवर्तिनोरित्यादि । यस्मादात्मनश्चित्तं सन्तानान्तरवर्तिनोः क्रियाभिलापयोः कारणत्वेन न युज्यते, तस्मात्परचित्तमनुमीयत इति पूर्वपक्षाशङ्का । सिद्धन्तबाद्याह - किं न युज्यत इत् । कथमात्मनश्चित्तं परवर्तिनोर्निमित्तित्वेन नोपपद्यते? उच्यताम् ॥ ६ ॥

परोऽयुक्तत्वं दर्शयितुमाह -

स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात् । स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावादिति । परसन्तानबर्तिनौ क्रियाभिलापौ आत्मचित्तनिमित्तकौ वा स्याताम्, परचित्तनिमित्तकौ वेति द्विधा परीक्षा । न तावदात्मचित्तमिनित्तकौ, यस्मान्न स्वसन्ताने तयोर्समुत्थापकचोइत्तस्य संवेदनं भवति ॥ ७ ॥

हेतुपसंहरन्नाह -

आत्मचित्तश्रयिणोश्चात्मनि दर्शनात् । आत्मचित्तश्रयिणोश्चेत्यादि । अहं गच्छामि, अहं वदामीति ये स्वचित्तनिमित्तके कारवाक्कर्मणी ते स्वसन्ताने उपलभ्येते । आत्मनश्चित्तमाश्रयत इति विग्रहः । अत्र आश्रयीति शब्दो निमित्तके ॥ ८ ॥

भवत्वात्मचित्तनिमित्तकयोः स्वसन्ताने दर्शनम् । तेन किम्? तस्मादाह -

तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम् । तावपीत्यादि । परवर्तिक्रियाभिलापावपि यद्यात्मचित्तश्रयिणौ स्याताम्, तदा तावपि आत्मनि दृश्येयाताम् ॥ ९ ॥

अथ तौ कथं दृश्येते? आह -

अन्यथा दर्शनादन्यन्निमित्तं सिध्यतीति चेत्? अन्यथेत्यादि । अयं गच्छति, अयं वदतीत्येवं विच्छिन्नदेशे दृश्येते । स्वचित्तनिमित्तकत्वाभावे सति सामार्थ्याच्चित्तान्तरं सिध्यतीति पूर्वपक्षाशङ्का ॥ १० ॥

सिद्धान्तवाद्याह -

अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात् । अपरस्मिन्नपीत्यादि । अन्तर्ज्ञेयवादेऽपि स्वसन्ताने विच्छिन्नदेशप्रतिभासिनोः क्रियाभिलापप्रतिभासिज्ञानयोः समुत्थापकचित्तस्य प्रतिसंवेदनं न भवति ॥ ११ ॥

हेतोरुपसंहारोऽपि तुक्य इति दर्शयन्नाह -

स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तादित्पद्येते । स्वचित्तस्पन्दननिमित्तके विज्ञाप्तिप्रतिभासिनी ज्ञाने चेत्यादि । ये स्वचित्तस्पन्दननिमित्तके क्रियावाक्प्रतिभासिनी ज्ञाने ते चान्तर्मुखप्रतिभासिनीऽअहं गच्छमि, अहं वदामिऽ इत्यात्मसम्बद्धविज्ञप्तिप्रतिभासिनी प्रतीयेते । परसन्तानवर्तिनी तुऽअयं गच्छमि, अयं वदतिऽ इति बहिर्मुखप्रतिभासिनी प्रतीयेते । तस्मादन्यनिमित्तदुत्पद्येत इति सिद्धम् । स्वचित्तस्य स्पन्दनं स्वचित्तस्पन्दनम्, तन्निमित्तं यस्येति विग्रहः ॥ १२ ॥

बाह्यार्थवादी बहिर्मुखज्ञानयोः स्पन्दनकारणत्वे सन्दिहति -

अनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्येते चेत्?

अनिमित्ते एव बहिर्मुखप्रतिभासिनीत्यादि । ये बहिर्मुखप्रतिभासिनी ज्ञाने तेऽनिमित्ते इति किन्नेष्येते? न स्पन्दननिमित्तले इति वाक्यशेषः । बहिर्मुखेतिशब्दो विच्छिन्नालम्बने । बहिर्मुखं प्रतिभासितुं शीलं ययोस्ते बहिर्मुखप्रतिभासिनी । नास्ति निमित्तमनयोरिति अनिमित्ते । भवतु किल निमित्तामात्रस्य प्रतिषेधः तथापि प्रकरणवशात्स्पन्दनमात्रस्य प्रतिषेधो द्रष्टव्यः ॥ १३ ॥

सिद्धान्तवाद्याह -

अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत । अनिमित्तत्व इत्यादि । यदि विच्छिन्नप्रतिभासिनी क्रियावागाकारके ज्ञाने स्पन्दनाभावेऽपि विना किंचन क्रियावागाकारं भवेत्, तदा सर्वाण्यपि क्रियावागाकारकाणि ज्ञानानि स्पन्दनेन विना भवेयुः; विशेषाभावादित्यभिप्रायः ॥ १४ ॥

तत्र यद्येवं विचिन्त्येत -

विच्छिन्नाविच्छिन्नकृतो भेदस्त्वस्त्येव । तेन विच्छिन्नप्रतिभासिनोः अनिमित्तत्वम्, इतरयोस्तु सनिमित्तत्वमिति । अत आह - विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत् । विच्छिन्नविच्छिन्नप्रतिभासेत्यादि । विच्छिन्नः प्रतिभासो विच्छिन्नप्रतिभासः । तेन कृतो भेदो विशेषलक्षणः । स तु यतो न ज्ञानयोः स्पन्दनत्वनिमित्तस्य भेदकः; बहिर्मुखप्रतिभासिनी स्पन्दननिमित्तके न भवतः, इतरे तु स्पन्दननिमित्तके इति । विभागस्त्वत्र विभज्य स्थापनं निक्षेपो वा ॥ १५ ॥

अथ निमित्तत्वभेदाभावे को दोषः स्यात्? आह -

तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात् । तेनाविच्छिन्नेत्यादि । यतो ह्यत्र भिन्नभूतयोः ज्ञानयोः क्रियावाक्प्रतिभासत्वे न कश्चिद्विशेषोऽस्ति । तस्माद्विशेषाभावादुभयमपि स्पन्दनत्वनिमित्तकं न भवेत्, अथ वोभयमपि स्पन्दननिमित्तकम् ॥ १६ ॥

तदेवं ज्ञानद्वयस्य साम्यं साधयित्वोपसंहरन्नाह -

तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति । किन्तर्हि? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव ।

तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद इत्यादि । यस्मादेवं ज्ञानद्वयस्य साम्यम्, तस्माद्योऽविच्छिन्नत्वविशिष्टः क्रियावाक्प्रतिभासः स केवलं स्पन्दननिमित्तको न भवति । किन्तर्हि? विच्छिन्नप्रतिभासस्यापि क्रियाविशेषस्य प्रतिभासमात्रं स्पन्दननिमित्तकम् । विच्छिन्नो विशेषोऽस्यास्तीति पद्विग्रहः । क्रियाविशेषेत्यनेन क्रियाभिलापौ दर्शयति । एवेति शब्दो मात्रार्थे द्रष्टव्यः । तेनात्रायं समुदायार्थः - विच्छिन्नाविच्छिन्नभेदमनपेक्ष्य सामान्येन क्रियाभिलापयोः प्रतिभासमात्रं स्पन्दननिमित्तकम् । यतो हि कश्चिद्विच्छिन्नोऽपि प्रतिभास स्पन्दनपूर्वको दृश्यते, कश्चित्तवविच्छिन्नोऽपि नात्मस्पन्दनपूर्वक इति ॥ १७ ॥

तस्यैव हेतोर्व्यभिचारं व्याजेन दर्शयति -

शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात् ।

शरोपलप्रक्षेपणेतयादि । शराश्चोपलाश्च शरोपलम्, शरोपलौ च । तयोः शरोपलयोः प्रक्षेपणमिति विग्रहः । शरोपलप्रक्षेपणानि यन्त्रं च निर्माणं च परप्रचालनं चेतिविग्रहः । आदिशब्देन मायादीनां संग्रहः । तेषां क्रियाविशेषस्तु यथायोगं देशान्तरगमनादिलक्षणः । तत्र उपलयन्त्रयोः क्रियाविशेषो देशान्तरगमनलक्षणः । निर्माणस्य क्रियाविशेषः कृत्याभिधानलक्षणः । परप्रचालनस्य क्रियाविशेषः गतिलक्षणः । येषां ज्ञानानां शरप्रक्षेपणादिक्रियाविशेषप्रतिभासोऽस्ति तानि तथा । भवतु एतेषां क्रियाविशेषाणां विच्छिन्नः प्रतिभासः, तथापि स्पन्दनपूर्वकत्वम् । एतदुक्तं भवति - विच्छिन्नप्रतिभासोऽस्पन्दनपूर्वकत्वेन न व्याप्त इति ॥ १८ ॥

अविच्छिन्नप्रतिभासेऽपि व्यभिचारं दर्शयन्नाह -

परकृतचालनादीनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात् । परकृतचालनादीनां चाविच्छिन्नस्यापीत्यादि । परेण कृतं चालनमिति समासः । आदिशब्देन भ्रामणादीनां संग्रहः । परकृतचालनादिनामविच्छिन्नप्रतिभासानां नात्मस्पन्दनपूर्वकत्वं दृश्यते । एतदुक्तं भवति - भवन्तु एते स्वदेहसम्बद्धाः, तथापि नात्मस्पन्दनपूर्वका इति ॥ १९ ॥

तदेवमुभयत्रापि व्यभिचारसद्भावं साधयित्वोपसंहरन्नाह -

तेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिति युज्यते । तेन ह्यत्र क्रियाविशेषमात्रेणेत्यादि । यस्मादेवमुभयत्र व्यभिचारसद्भावः साधितः, तस्मात्क्रियावाक्यप्रतिभासमात्रेण परचित्तमनुमातुं शक्यते; न तु विच्छिन्नाविच्छिन्नप्रतिभासमात्रेण । क्रियाविशेषेति शब्दः कायवाग्ज्ञिप्तिप्रतिभासं दर्शयति । मात्रेति शब्दो विच्छिन्नाविच्छिन्नयोः भेदं निराकरोति ॥ २० ॥

तत्र यद्येवं चिन्त्येत -

शरप्रक्षेपणादिक्रियाविशेषाणां प्रतिभासास्तु विच्छिन्नप्रतिभासत्वेऽपि स्पन्दनत्वपूर्वकाः; तदन्या विच्छिन्नप्रतिभासास्तु न तथा स्युः? तस्मादाह - तत्र यदि कस्यचिदपूर्वकत्वम्, न कोऽपि तत्पूर्वक स्यात्; विशेषाभावात् । तत्र यदि कस्यचिदपूर्वकत्वमित्यादि । यदि विच्छिन्नाविच्छिन्नज्ञानयोरन्यतरत्स्पन्दनत्वनिबन्धनं नेष्यते, तदा किमपि स्पन्दनत्वपूर्वकं न स्यात् । कथमिति चेत्? आह - विशेषाभावादिति । सुगममेतद् ॥ २१ ॥॥

उपसंहरन्नाह -

अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम् ।

अतः क्रियाविशेषसामान्यमित्यादि । यतो हि यदि कस्यचिदतत्पूर्वकत्वं भवेत्सर्वस्यातत्पूर्वकत्वं प्रसज्येत । अतः क्रियाविशेषमुत्सृज्य क्रियाविशेषसामान्येन स्पन्दनविशेषसामान्यमनुमीयते । क्रियाविशेषेतिवचनं क्रियाभिलापौ दर्शयति । सामान्यमिति शब्दः बहिरन्तर्मुखकृतं भेदं परिहरति । न ह्येवं शक्यतेऽनुमातुम् - ंरागाद्वदतीति वा द्वेषाद्वा मोहाद्वा । तस्मादेषोऽत्र समुदायार्थः - क्रियाभिलापमात्रेण स्पन्दनमात्रमनुमेयम्, न तु स्पन्दनविशेषम्; विशेषे लिङ्गस्य व्यभिउचारदिति ॥ २२ ॥

बाह्यार्थवादेन समानतां दर्शयितुमाह -

तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भनेऽपि ।

तत्र यथा क्रियामुपलभ्येत्यादि । बाह्यार्थवादिना यदि क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भात्सामर्थ्यादन्यत्र स्पन्दनमनुमीयत इति चेत् । अन्तर्ज्ञेयवादेऽपि तत्तुल्यम्; क्रियाप्रतिभासमुपलभ्य, आत्मनि स्पन्दनानुपलम्भात्सामर्थ्यादन्यत्र स्पन्दनमनुमीयते ॥ २३ ॥

बाह्यार्थवादिना विच्छिन्नप्रतिभासस्यानिमित्तकत्वं यत्पूर्व चोदितम्, तदपि समानमिति दर्शयितुमाह -

समानमेतत्; परोऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति?

समानमेतदित्यादि । बाह्यार्थवाद्यपि प्राण्यन्तरसंबद्धप्रतिभासिनौ क्रियाभिलापौ अनिमित्तकाविति नेच्छति ॥ २४ ॥

बाह्यार्थवाद्यनिमित्तौ नाभ्युपगच्छति । तदवश्यमभ्युपगन्तव्यमिति दर्शयितुमाह - तेनावश्यं तौ स्पन्दननिमित्तकत्वात्तदभावे न भवत इति वक्तव्यम् ।

तेनावश्यमित्यादि । तथाविप्रतिपन्नेन बाह्यार्थवादिनावश्यमियमुपपत्तिर्वक्तव्या - तयोः क्रियाभिलापयोः स्पन्दनजन्यरूपत्वात्स्पन्दनाभावे तौ न भवत इति ॥ २५ ॥

अथाभ्युपगतापीयमुपपत्तिः किं तयेति चेत्? आह -

परोऽपि तयोः प्रतिभासौ तथैव वदेत् । अतः नानयोः परस्परं भेदः ।

परोऽपि तयोः प्रतिभासौ तथैवेत्यादि । अन्तर्ज्ञेयवाद्यपि तथैव वदेत्- विच्छिन्नप्रतिभासिज्ञाने स्पन्दनजन्यरूपत्वात्तदभावे न भवत इति । तथा सति नानयोः बाह्यार्थवादान्तर्ज्ञेयवादयोः परस्परं भेदोऽस्ति । एतदुक्तं भवति - यथा बाह्यार्थवादी परसम्बद्धक्रियाभिलापौ स्पन्दनजन्यरूपत्वात्तदभावे न भवत इति वदति, तथैवान्तर्ज्ञेयवाद्यपि बाहिर्मुखप्रतिभासिज्ञाने स्पन्दनजन्यत्वात्तदभावे न भवत इति वदेत् । तथा सति नानयोः परस्परं कश्चिद्भेदो ।ऽस्तीति ॥ २६ ॥

बाह्यार्थवादिनामाशङ्कामुद्भावयितुमाह -

यदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते?

यदि तत्र प्रतिभासिन्योरित्यादि । क्रियाभिलापप्रतिभासिज्ञानयोः स्पन्दननिमित्तकत्वं वदन् योगाचारः स्वप्नावस्थायामपि तयोः स्पन्दननिमित्तकत्वं किन्न वदतीति पूर्वपक्षाशङ्का ॥ २७ ॥

सिद्धान्तवाद्याह -

सर्वं समानम् । परोऽपि स्वप्नोपलब्धपरक्रियावाचौ स्पन्दननिमित्तिके इति किन्न वदति?

सर्वं समानमित्यादि । न केवलं पूर्वं समानम् । किं तर्हि? एतदपि पूर्वेण सह सर्वं समानमिति शेषः । तामेव समानतां दर्शयितुमाह - परोऽपि स्वप्नोपलब्धपरक्रियावाचावित्यादि । बाह्यार्थवाद्यपि स्वप्नावस्थायां यौ परसम्बद्धौ क्रियाभिलापावुपलभ्येते तौ परचित्तनिमित्तकाविति किन्न वदति ॥ २८ ॥

बाह्यार्थवादीनामुत्तरमाशङ्क्याह -

तयोरभावादिति चेत्?

तयोरभावादिति चेदिति । स्वप्ने तु क्रियाभिलापावेव न स्तः । तत्कथमभावस्य स्पन्दननिमित्तकता भवेदित्युच्येत् ॥ २९ ॥

अन्तर्ज्ञेयवाद्याह -

तथोपलब्धिसाम्यात्किन्न स्तः?

तथोपलब्धिसाम्यात्किन्न स्तः इति । यथा जाग्रदवस्थायां क्रियाभिलापयोरुपलब्धिः तथा स्वप्नावस्थायामपि । तस्मात्क्रियाभिलापयोरुपलब्धसाम्यात्कस्मान्न तौ स्तः ॥ ३० ॥

बाह्यार्थवादीनां मतमाशङ्क्याह -

अथ मिद्धेनोपहतत्वात्पुरुषस्यार्थशून्यं विज्ञानं जायत इति चेत् ।

अथ मिद्धेनेत्यादि । पुरुषस्य मिद्धेनोपहतत्वात्भ्रान्तिर्भवति । तस्मादर्थशून्ये विज्ञाने जायेते । तेन स्वप्ने तयोरभाव इति पूर्वपक्षाशङ्का ॥ ३१ ॥

सिद्धान्तवाद्याह -

परमतेऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते ।

परमत इत्यादि । अन्तर्ज्ञेयवादीनां मतेऽपितस्मात्मिद्धेन भ्रान्तत्वादेव पराधिपत्यरहिते क्रियाभिलापाकारेके ज्ञाने जायेते इतीष्टम् ॥ ३२ ॥

एवं तावत्सौत्रान्तिकेन सह समानतां प्रतिपाद्य वैभाषिकमताशङ्क्याह -

अथ स्वप्नेऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमानान्यपि सन्तानान्तराण्येव इति चेत् ।

अथ स्वप्नेऽपि ज्ञानस्यार्थवत्त्वादित्यादि । स्वप्नेऽपि ज्ञानस्यार्थवत्त्वात्स्वप्नावस्थायां येषां प्राणिनामुपलब्धिर्भवति ते च सत्त्वाः सन्त्येव सत्यतः । तस्मात्कथं साम्यमिति पूर्वपक्षाशङ्का ॥ ३३ ॥

सिद्धान्तवाद्याह -

परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधोऽसद्वादः समाश्रियेत, तदा पराभिमतं तस्य पराधिपत्यं न कोऽपि निवारयेत् ।

परं प्रतिविग्रहीतुं यदि युक्त्वागमरहित इत्यादि । यः युक्त्या आगमाच्च रहितः स युक्त्यागमरहितः । युक्त्यागमरहितोऽसौ वादोऽसाधुत्वादसदेवादः । यदि वैभाषिकाः योगाचारान् प्रतिविग्रहीतुं तमभ्युपगच्छेयुः, अनेन च मम पराजय इति । न, अयुक्तत्वात् । तदा योगाचारभिमतं सत्त्वस्य तथाविधपरधिपत्यमपि न कश्चिन्निवारयेत् । तथाहि, भवद्भिः स्वप्नावस्थायां ये सत्त्वाः अभ्युपगताः, तेषामेवाधिपत्यादस्माकं विज्ञप्तिप्रतिभासाः जायन्त इति वक्तव्यं भवेत् । तेन हि यद्विषमत्वं युक्त्यागमरहितत्वं तदेवं द्रष्टव्यम् । न कुतश्चिदागमतः स्वप्नदृष्टरूपस्य सद्भावः प्रज्ञायते । युक्त्यापि नोपपद्यते । तथा सति स्वप्नदृष्टरूपस्य सप्रतिघत्वं सनिदर्शनत्वञ्च भवेत् । तेन हि हस्त्यादीनां गवाक्षादिषु प्रवेशो नोपपद्येत, तद्देशस्थैरपि दृश्यो भवेत् । अथ सनिदर्शनं सप्रतिघं च नेष्यते, तदा रूपमेव तन्न भवेत् । नाप्यविज्ञप्तिनियमः, तदनभ्युपगमात् । यदात्मानं बहिर्गतं प्रेक्षते,तदा सन्तानस्य द्वित्वमपि प्रसज्येत । प्राण्यन्तरदर्शनेऽपूर्वसत्त्वोत्पत्तित्पत्तिरपि प्रसज्येत । स्वप्नकृताब्रह्माचर्यात्पाराजिकत्वमपि प्रसज्येत । स्वप्नदृष्टरूपस्य सद्भावाभ्युपगमे त्वेवेमादयो बहवो दोषा प्रसज्यन्ते ॥ ३४ ॥

एवं तावत्समानतां प्रसाध्य स्वपक्षे युक्त्यागमरहितत्वं परिहर्तुमाह -

एतत्केषाञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि । विशेषस्तु साक्षात्परम्परया च । एतत्केषाञ्चिन्मत इत्यादि । एतदित्यावेशेनोक्तम् । केषाश्न्चिद्योगाचाराणां मत एव जाग्रदवस्थावत्स्वप्नेऽपि तथाविधानी क्रियावागाकारज्ञानानि परसन्ताना यत्तानि भवन्ति । विशेषस्तु एतावन्मात्रम् - जाग्रदवस्थायां साक्षादायत्तानि, स्वप्नावस्थायां तु प्रायेण परम्परया ॥ ३५ ॥

स्वप्नेऽपि साक्षाद्वृत्तेः सम्भावनां प्रतिपादयितुमाह -

कदाचित्स्वप्नेऽपि तस्य साक्षात्सन्तानान्तरायत्तता इष्टैव ।
कदाचित्स्वप्नेऽपीत्यादि । सुगममेतत् ॥ ३६ ॥

साक्षाद्वृत्तित्वं दर्शन्नाह -

देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात् ।

देवाद्यधिष्ठानत इत्यादि । देवाद्यधिष्ठानतः सुप्रियवणिजो विज्ञप्तिप्रतिभासीनि ज्ञानानि जायन्ते आदीत्यनेन योगिपिशाचादीनामधिष्ठानानि संगृहीतानि ॥ ३७ ॥

स्वपक्षमुपसंहरन्नाह -

तस्मादस्य नैतदसद्वादसमाश्रयः ।

तस्मादस्येत्यादि । तस्मादस्यैवंवादिनो योगाचारस्य नासद्वादसमाश्रयः ॥ ३८ ॥

पुनश्चापरस्मिन् समानतां साधयितुं सौत्रान्तिकं पृच्छति -

तावत्तया क्रिययापि तच्चित्तं कथं ज्ञायते?

तावत्तया क्रिययेत्यादि । विज्ञप्तिप्रतिभासस्य गमकत्वमित्यभिमतं तावदवस्थाप्यम् । मुहुर्भवतैव पर्यनुयुज्यते - कस्मात्भवत्परिकल्पितया तया क्रियया परचित्तं ज्ञायते ॥ ३९ ॥

तथा पर्यनुयोगे सौत्रान्तिक आह -

चित्तस्य कार्यत्वात् ।

चित्तस्य कार्यत्वादिति । यस्माच्चित्तस्य कार्यम्, तस्मात्सा गमिका ॥ ४० ॥

सिद्धान्तवाद्याह -

तस्य कार्यत्वं तु चित्तन्तरेऽपि तुल्यमिति कथन्न ज्ञायते?

तस्य कार्यत्वमित्यादि क्रिया चित्तस्य कार्यत्वाच्चित्तस्य गमिकेति चेत्? चित्तस्य तत्कार्यत्वं तु क्रियाप्रतिभासिज्ञानेऽपि तुल्यत्वात्तेन क्रियाप्रतिभासेनापि कस्मात्परचित्तं न ज्ञायते ॥ ४१ ॥

सिद्धान्तवादी हेतूपसंहारव्याजेन परप्रतिभासिज्ञानमेव लिङ्गत्वेनाभ्युपगमयितुमाह -

अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत्, तदानुपलभ्य मानेनापि स्यात्तथा प्रतिपत्तिः ।

अपि च, यदि तत्क्रियेत्यादि । किञ्चेयं क्रिया सत्तामात्रात्परचित्तमवबोधयेदोहोस्वित्ज्ञानात्? यदि तावद्सत्तामात्रादिति, तदा क्रियामनुपलभ्यमानेनापि प्राणिना परचित्त प्रतिपद्येत ॥ ४२ ॥

परमतमाशङ्क्याह -

न; ज्ञानापेक्षत्वाल्लिङ्गस्येति चेत् ।

न; ज्ञानापेक्षत्वादित्यादि । न हि लिङ्गं सत्तामात्रात्गमकं भवति । किं तर्हि? ज्ञानात् । तस्मान्नायं दोषः ॥ ४३ ॥

सिद्धान्तवाद्याह -

तदा तत्र किमनया परम्परया - परचित्तात्क्रिया, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति ।

तदा तत्रेत्यादि स्यान्मतम् - लिङ्ग ज्ञानमपेक्ष्य गमकमिति । हन्त, तर्हि न किञ्चित्प्रयोजनमनया परम्परया । तां परम्परां दर्शयन्नाह - परचित्तात्क्रियेत्यादि । परम्परा तु परचित्तात्क्रिया उत्पद्यते, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति ॥ ४४ ॥

कश्य पुनर्न्याय इति चेदाह -

परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति ।

परचित्तप्रभवधर्मीत्यादि । परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेव गमकमिति मन्वीत । परचित्तप्रभवधर्मोऽस्यास्तीति विग्रहः ॥ ४५ ॥

क्रियेत्यपि युज्येत, क्रियाप्रतिभासिज्ञानमित्यपि युज्येत । कश्चात्र विशेषः? तस्मादाह -

तस्याधिगतिस्त्वन्तशस्तदाश्रितत्वात् ।

तस्याधिगतिस्त्वन्तश इत्यादि । यतो ह्यभ्युपगतायामपि क्रियायां परचित्तस्याधिगतिस्तु क्रियाप्रतिभासिज्ञानाधीनैव । तस्मात्तदेवास्तु । किमनया परिकल्पितया क्रियया ॥ ४६ ॥

एवं परं निगृह्य स्वमतमाख्यातुमाह -

स्पन्दनमात्रसामान्यां क्रियाभिलापज्ञानसामान्यस्य कारणत्वात्कार्येण लारणस्य गतिः । स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्येत्यादि । क्रियाभिलापज्ञानस्य सामान्यं क्रियाभिलापज्ञानसामान्यम् । तस्य कारणं त्वविशेषेण स्पन्दनमात्रमिष्टम् । तथा सति क्रियाप्रतिभासिज्ञानसामान्यं स्पन्दनमात्रसामान्यस्य गमकमिष्यते । अत एव उक्तम् - कार्येण करणस्य गति इति । ज्ञानसामान्येत्यत्र सामान्येति शब्देन विच्छिन्नाविच्छिन्नप्रतिभासकृतविशेषः निराकृतः । स्पन्दनमात्रेत्यत्र मात्रेति शब्देन रागादिकृतविशिष्टस्पन्दनं निराक्रियते ॥ ४७ ॥

एवं सामान्येन कार्यकारणभावं निर्दिश्य कार्यस्य भेदमुपदर्शयितुमाह -

तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः, अन्यस्यान्यथा । प्रायेणाधिकृत्य असौ भेदः ।

तत्र आत्मस्पन्दननिमित्तकस्येत्यादि । आत्मस्पन्दनात्समुत्थितं यज्ज्ञानं तस्यान्तर्मुखप्रतिभासतया वृत्तिः, परस्पन्दनात्समुत्थितस्य तु बहिर्मुखप्रतिभासतया । मुखेति शब्दोऽत्रालम्बने वर्तते । प्रायेणाधिकृत्येत्यनेन शरप्रक्षेपणादीनाअं परकृतचालनादीनां च प्रदर्शनम् । ४८ ॥

तत्र स्यान्मतम् - भवतु जाग्रदवस्थायां कार्यकारणभावः, स्वप्नावस्थायां तु तत्कथमिति चेत्?

आह -

एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः । एतयोः सः कार्यकारणभाव इत्यादि । यश्चानन्तरोक्तः कार्यकारणभावः, सः स्वापजाग्रदवस्थयोश्च समानः । आदीत्यनेन कामशोकादिभिरुपहतावस्थानां परिग्रहः ॥ ४९ ॥

ननु स्वप्ने समुत्थापकस्पन्दनमेव नास्ति । तत्कथं कार्यकारणभावस्य समानतेति । तस्मादाह -

भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात्परस्पन्दनादिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते, न तु अत्यन्तासदाभोगात् ।

भ्रान्त्यवस्थायामित्यादि । भ्रान्त्यवस्थायामिति मिद्धेनोपहताद्यवस्थायाम् । यथास्वमित्यनेन स्वप्नस्य मिद्धविशेषः, नरकादेः कर्मविपाकावस्था च परोगृह्यते । प्रत्ययविशेषो मिद्धादिः । उपाश्रयणमुपाश्रयः । प्रत्ययविशेषस्य उपाश्रयः प्रत्ययविशेषोपाश्रयः । प्रत्ययविशेषमुपाश्रयत इति यावत् । परचित्तेन संप्रयुक्तं स्पन्दनं परस्पन्दनम् । आदीत्यनेन मुखकान्तिरक्तिमादीनां जनकचित्तस्य परोइग्रहः परस्पन्दनादि च निमित्तं चेति समासः । निमित्तत्वमत्राधिपतिप्रत्ययत्वमिति द्रष्टव्यम् । यस्य क्रियादिप्रतिभासिविज्ञानस्य तदन्यस्मात्स्पन्दनादिनिमित्तादुद्भवितुं शीलमस्ति तत्परस्पन्दादिनिमित्तोद्भूतविज्ञानम् । तस्य वासना शक्तिः । पराभोगः परमनस्कारः आदीत्यनेन तत्कालभाविनां तदन्यप्रत्ययानां परिग्रहः । व्यवहितः कालविप्रकृष्टः । अपीति शब्दोऽव्यवहिते देवाद्यधिष्ठानात्स्वप्नदर्शनेऽपि । तस्याः वृत्तिलाभः क्रियाप्रतिभासिविज्ञानजननयोग्यात्मतया समवधानम् । एवमुक्तं भवति - भ्रान्त्यवस्थायां प्रत्ययविशेषस्य उपाश्रयात्परस्पन्दनादिनिमित्तदुद्भूतविज्ञानवासना कदाचित्व्यवहिताद्पराभोगादपि वृत्तिं लभते । यस्यास्तु पराभोगोऽत्यन्तासन्न तस्माद्वृत्तिं लभते ॥ ५० ॥

एवं स्वप्नावस्थायामपि क्रियाप्रतिभासिज्ञानानां स्पन्दननिमित्तकत्वं साधयित्वा उपसंहर्तुमाह -

तस्मात्सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव ।

तस्मात्सर्वावस्थास्वित्यादि यस्मादेवमव्यभिचारित्वं साधितम्, तस्मात्स्वापजाग्रदुभयोरप्यवस्थयोः क्रियाप्रतिभासात्चित्तस्पन्दनमनुमीयत एवेति स्थितम् । आदि इत्यनेन अभिलापरक्तिमादिविज्ञप्तीनां परिग्रहः ॥ ५१ ॥

एवं स्वमतं निर्दोषीकृत्य परमते दोषमुद्भावयितुमाह -

क्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात्प्रतिपत्तिरथ वा नैव कदाचन ।

क्रियातः स्पन्दनप्रतिपत्तावित्यादि । यम्नते क्रियातः स्पन्दनस्य प्रतिपत्तिः, तन्मते स्व्प्नादावपि क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेत् । अथ स्वप्ने क्रियातः स्पन्दनस्य प्रतिपत्तिर्नेष्येत, तदा तत्जाग्रदवस्थायामपि युज्येत न कदाचिय्त्क्रियातः स्पन्दनस्य प्रतिपत्तिर्भवेदिति वाक्यशेषः ॥ ५२ ॥

कथमिति चेत्? तस्मादाह -

परस्पन्दनाभावेऽपि क्रियालम्बनोदयात् ।

परस्पन्दनाभावेऽपीत्यादि । तथाहि, स्वप्ने परचित्तस्पन्दनाभावेऽपि क्रियालम्बनमुदेति । यस्याभावेऽपि यदुत्पद्यते, न तत्तस्य गमकं युक्तम् ॥ ५३ ॥

प्रतिविधातुकामो बाह्यार्थवाद्याह -

भवत्वालम्बनोदयः, न तु क्रिया । क्रियया स्पन्दनं गम्येते । भ्रान्त्यवस्थायां क्रियैव न भवति । अर्थशून्यज्ञानोदयान्न दोषः ।

भवत्वालम्बनोदयरित्यादि । आलम्बनं तु स्पन्दनाभावेऽप्युत्पद्यते, न तु क्रिया । अस्माकं मते क्रिया स्पन्दनस्य गमकम् । सा च भ्रान्त्यवस्थायां न भवति । कथं न भवति? आह - अर्थशून्यज्ञानोदयादिति । यस्मात्भ्रान्त्यवस्थायामर्थशून्यानि ज्ञानानि उत्पध्यन्ते, तस्मान्नैष दोष इति पूर्वपक्षाशङ्का ॥ ५४ ॥

सिद्धन्तवाद्याह -

सर्वप्रकारव्यपदेशसाम्यात्कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथेत्येषोऽधिकारः कुतो लब्धः? सर्वप्रकारव्यपदेशसाम्यादित्यादि । यस्य व्यपदेशस्य सन्ति सर्वे प्रकाराः स सर्वप्रकारव्यपदेशः । सर्वप्रकारव्यपदेशसाम्ये स्वप्नावस्थायां ज्ञानमर्थशून्यमुत्पद्यते, जाग्रदवस्थायां तु सार्थमित्येतत्ज्ञानम्, अधिकारो वा भवता कुतो लब्धः? एवमुक्तं भवति - जाग्रदवस्थावत्स्वप्नावस्थायामपि दृश्याकारादयः सर्वे सन्ति । तत्कथं तत्र ज्ञानमर्थशून्यमिति ॥ ५५ ॥

परमतमाशङ्कितुमाह -

अथ मिद्धादिनावस्थान्यथाभावश्चेत् ।

अथ मिद्धादिनेत्यादि । यथास्यामवस्थायां मिद्धदिनार्थशून्यज्ञानानामुत्पत्तिर्भवति, तथा अन्यथाभाव इत्पूर्वपक्षाशङ्का ॥ ५६ ॥

सिद्धान्तवाद्याह -

यद्येवं सम्भवेत्, भवतु अविद्योइपप्लुतत्वात्तथोदयः ।

यद्येवं सम्भवेदित्यादि । यदि भ्रान्तिवशादवस्थान्यथाभावादर्थशून्यं ज्ञानं जायत इति अभ्युपागम्येत, तदा महाभ्रमराज्ञ्या अविद्यायाः सद्भावात्तद्वशाच्च सर्वाणि ज्ञानान्यर्थशून्यानि जायन्त इति मन्येरन् ॥ ५७ ॥

तथा सति को गुणः? आह -

तथा सत्यर्थान्तरवादहान्या एतेऽनेकाशक्यनिगूहनावताराः महाकृच्छ्रा उत्तरेणैकेन निहता भवन्ति । तथा सत्यर्थान्तरवादेत्यादि । अर्थान्तरं वदतीति अर्थान्तरवादः । अर्थान्तरवादस्यैव हान्या अर्थान्तरवादहान्या । अस्य क्षेमधर्मेभ्यश्च्युतत्वादयुक्तो भवति । यस्मार्थान्तरवादस्य अनेके अवताराः दोषाः परिहारलक्षणेनाशक्यनिगूहनाः सन्त्यमी अनेकाशक्यनिगूहनावताराः । महान्तः कृच्छ्राः सन्त्यस्येति महाकृच्छ्राः । उत्तेरेणैकेनेति एकस्मादुत्तरात् । निहताः निराकृताः । अशक्यनिगूहनावतारत्वं तु कृते एकस्य परिहारेऽन्यान्यदोषोद्भवात् । एवमुक्तं भवति - यदाविद्योपप्लुतत्वात्सर्वेषां ज्ञानानामर्थशून्यत्वमभ्युपगम्यते, तदार्थान्तरवादस्य येऽनेकाशक्यनिगूहनावतारास्त उत्तरेणैकेन निराकृता भवन्ति ॥ ५८ ॥

एवं सन्तानान्तरसिद्धिं परिसमाप्यावशिष्टान् दुरुपालम्भान् परिहर्तुकामः परमतमाशङ्कितुमाह -

ननु तयोः दर्शनात्कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम् । न तु सन्तानान्तरसम्बद्धविज्ञाप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत् ।

ननु तयोः दर्शनात्कायवाग्विज्ञप्तिभ्यामित्यादि । नन्वित्यनेनाक्षम्यतां दर्शयति । ननु कायवाग्विज्ञप्तिप्रतिभासाभ्यां तयोः समुत्थापकचित्तस्यानुमानमिति न्याय्यम् । तत्र स्यान्मतम् - एतदपि समानमिति । अत आह - सन्तानान्तरसम्बद्धेत्यादि । ये च श्रोतृसन्तानसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने स्पन्दनस्य गमके इति भवद्भिरिष्टे, कथं ते वक्तुः विज्ञप्ती स्याताम्? अत्र सन्तानेति श्रोतुः सन्तानः । तमपेक्ष्य अन्तरेति शब्देन वक्तुः परिग्रहः । कस्मान्नार्हतः? इत्याह - तयोः अनुपादानोपादेयत्वादिति । अयमभिप्रायः - श्रोतृसन्तानप्रतिबद्धविज्ञप्तिप्रतिभासस्य न वक्तुः विवक्षया सहोपादानोपादेयभावः, भिन्नसन्तानपर्याप्पन्नत्वादिति पूर्वपक्षः ॥ ५९ ॥

तत्र सिद्धान्तवाद्याह -

नोच्यते परचित्तसमित्थितविज्ञप्तिरूपत्वात्तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति । किं तर्हि? तस्य कार्यत्वात् ।

नोच्यत इत्यादि । परचित्तेन समुत्थिता परचित्तसमित्थिता । परचित्तसमित्थिता च विज्ञप्तिश्चेति परचित्तसमुत्थितविज्ञप्तिः । सा यस्य प्रतिभासिनो ज्ञानस्य रूपं स्वभावोऽस्ति तत्तथा । तस्य भावः तत्त्वम् । तस्मात्परचित्तसमुत्थितविज्ञप्तिरूपत्वात् । तत्र विज्ञप्तेः प्रतिभासोऽस्यास्तीति प्रतिभासि । एवमुक्तं भवति - यस्मात्तत्र प्रतिभासि ज्ञानं परचित्तसमुत्थितविज्ञप्तिरूपम्, तस्मात्समुत्थापकचित्तं गम्यत इति वयमपि नाभ्युपगच्छामः । यदि नाभ्युपगम्यते, किं तर्हि अभ्युपगम्यत इति चेत्? आह - किं तर्हि? तस्य कार्यत्वादिति । यस्माद्विज्ञप्तिप्रतिभासिज्ञानं परचित्तस्य कार्यम्, तस्मात्परचित्तं गम्यते । अत्र परचित्तं वक्तुश्चित्तमभिप्रेतम् ॥ ६० ॥

यदि श्रोतृसन्तानाज्जाते क्रियावागाकारके ज्ञाने विज्ञप्तित्वेन नेष्येते, का पुनरन्या विज्ञप्तिश्चेत् । तस्मादाह -

विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव । विज्ञप्तिरित्यादि । समुत्थापकचित्तसन्तानाज्जाते ये क्रियावागाकारके ज्ञाने ते विज्ञप्तित्वेन व्यपदिश्येते । एवमुक्तं भवति - वक्तुरेव ये गमनाभिलापने क्रियावागाकारके ज्ञाने ते विज्ञप्तीति उच्येते ॥ ६१ ॥

समुत्थापकचित्तं स्वपरसन्तानगतयोः क्रियावागाकारकज्ञानेयोर्यथा कारणभावो भवति तद्दर्शयितुमाह -

समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोस्तु अधिपतिप्रत्ययः । समुत्थापकचित्तं च तयोरित्यादि । उपादानाकारणमसाधारणकारणे वर्तते । समुत्थापकचित्तं स्वसन्तानगतयोः क्रियावागाकारकयोरेवोपादानकारणम्, परसन्तानसम्बद्धयोस्त्वधिपतिप्रत्ययः । तच्चोपादानकारणं परतमपेक्ष्य उपन्यस्तम् । स्वमते तु उपादानकारणमालयविज्ञानमिष्यते, न तु विवक्षाचित्तम् ॥ ६२ ॥

एवं तावत्स्वसन्तानागतयोः क्रियावागाकारकयोर्विज्ञप्तिवं प्रतिपादितम् । सन्तानान्तरसंबद्धयोश्च साधयितुमाह -

विज्ञप्तेरूपादानात्ते जनिते । तत्सम्बन्धेनोपचाराद्विज्ञप्ती भवतः । विज्ञप्तेरूपादानात्ते जनिते इत्यादि । विज्ञप्तेर्यदुपादानकारणं तेन ते सन्तानान्तरसम्बद्धक्रियावागाकारके ज्ञाने जनिते । तज्जनिसम्बन्धेन तेन हेतुना उपचाराद्विज्ञप्तीति व्यपदिश्येते ॥ ६३ ॥

स्यान्मतम् - स्वसमुत्थापकचित्तस्य विज्ञापनाद्विज्ञप्तिः । न हि श्रोता वक्तृसन्तानाज्जाते क्रियावाक्प्रतिभासिज्ञाने उपलभते । तथा हि, वक्ता श्रोता चोभावपि स्वस्वप्रतिभासमनु भवतः । तत्कथं तेऽनालम्बने विज्ञप्तित्वेन स्वसमुत्थापकस्य गमके इति । तस्मादाह -

भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत् । तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावविशेषोऽनादिकालिकैकार्थग्राहाध्यवसायित्वात्, एकहेतुसम्भूतयोः स्वपरविज्ञप्तिज्ञानयोः विज्ञप्तित्वेन उपचारः ।

भवतु स्वपरयोरित्यादि । स्वपरेति वक्ता श्रोता च । स्वस्य स्वस्य प्रतिभासस्य अनुभवः स्वस्वप्रतिभासस्यानुभवः । तैमिरिकद्वयेन प्रतिभासस्यानुभवः तैमिरिकद्वयदृष्टद्विचन्द्रम् । तेन तुल्यत्वात्तद्वत् । तथाविधविज्ञानमिति एकार्थग्राहाध्यवसायि विज्ञानं मतम् । तस्य हेतुः एकार्थग्राहाध्यवसायस्यानुभवितृ पूर्वविज्ञानम् । तज्जनिता वासना शक्तिरूपा । तस्या उत्पाद उत्पादव्ययलक्षणपरम्पराया उदयः । स्वरूप उत्पादस्वभावः । तस्य विशेष एकार्थग्राहाध्यवसायिविज्ञानोपजनने समर्थात्मनि स्थितिः ।

अनादिश्चासौ कालश्चेति अनादिकालः । तस्मादागतोऽनादिकालिकः । अथ वानादिकाले भवोऽनादिकालिकः । न आदिकालिकः अनादिकालिकः । एकश्चासौ अर्थश्चेति एकार्थः । गमनवागादिस्वपरविज्ञप्त्योः बुद्ध्या एकीकरणम् । एकार्थग्राहेति एकार्थग्राहिज्ञानम् । एकार्थग्राहाध्यवसायि इति अध्यवसायिज्ञानम् । तथा हि, वक्ता चैवं चिन्तयति - यन्मया कथितं तत्श्रोत्रा ज्ञातम् । श्रोताप्येवं चिन्तयति - यदनेन कथितं तन्मया प्रतीतम् । इत्येवमेकार्थग्राहाध्यवसायः ।

एकहेतुना समुत्थापकेन ये सम्भूते ते एकहेतुसम्भूते । स्वपरविज्ञप्तिज्ञानयोः वक्तृश्रोतृक्रियावागाकारकज्ञानयोः विज्ञप्तित्वेनोपचारः विज्ञप्तित्वेन व्यपदेशः । एवं वक्ता श्रोता च स्वस्वप्रतिभासमनुभवतः । तथापि तयोः य एकहेतुसम्भूते क्रियावागाकारकज्ञाने त एकार्थप्रतीतिनियमाद्विज्ञप्तित्वेन व्यपदिश्येते ।

एकार्थग्राहाध्यवसायस्तु तथाविधविज्ञानस्य हेतुर्वासनोत्पादस्वभावविशेषोऽनादिकालिकत्वाद् । तैमिरिकद्वयदृष्टद्विचन्द्रवदिति दृष्टान्तः । एकः तैमिरिकः द्वितीयं तैमिरिकंऽपश्यऽ इति "अपरं चन्द्रंऽ दर्शयति । तेन चऽदृश्यते" इत्युच्यते । तत्रऽमया अस्मैदर्शितःऽ इत्येवं दर्शकस्याभिमानो भवति । श्रोतापिऽअनेन मह्यं दर्शितः इति चिन्तयति । तथापि तौ स्वस्वप्रतिभासं प्रतिवित्तः । तद्वदत्रापि एकार्थप्रतीतिनियमात्स्वपरविज्ञप्तिज्ञानयोर्विज्ञप्तित्वेनोपचारो भवति ॥ ६४ ॥

तृणावलम्बिन इव बाह्यार्थबादिनः प्राहुः -

किञ्च क्रियादिप्रतिभासिविज्ञानात्कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं
तत्परचित्तं विषयीक्रियत आहोस्विन्न? विषयीकरणेऽर्थान्तरं स्यात् ।
अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते? तत्स्वरूपाज्ञाने
तत्सिद्धेरसम्भवादिति चेत्?

किञ्च क्रियादिप्रतिभासीत्यादि । क्रियादिप्रतिभासोऽस्ति यस्य विज्ञानस्य तत्क्रियादिप्रतिभासिविज्ञानम् । तदेव कार्यलिङ्गम् । तस्माज्जातं क्रियादिप्रतिभासिविज्ञानात्कार्यलिङ्गाज्जातं यत्परचित्तस्य स्वरूपं विषयीकरोति आहोस्विन्नेति द्विधा परीक्षा । प्रथमविकल्पे दोषं दर्शयोतुमाह - विषयीकरण इत्यादि । यदि नाम विषयीकरोति, तदा तस्य विषयः पृथक्स्यात् । द्वितीयविकल्पमुपदर्शयन्नाह - अविषयत्वे त्वित्यादि । अथ न विषयीकरोति, तदा कथं परचित्तसत्ता ज्ञायते? कथं न ज्ञायते? आह - तत्स्वरूपाज्ञान इत्यादि । तत्स्वरूपज्ञानाधीनो हि भावोपचारः । स तु तदभावे न भवतीति पूर्वपक्षः ॥ ६५ ॥

सिद्धान्तवादिनः -
एष प्रसङ्गोऽपि समः ।
एष प्रसङ्गोऽपि सम इति ॥ ६६ ॥

समतां दर्शयितुमाह -

क्रियावाग्भ्यां परचित्तप्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत्तदाकारस्यापि ज्ञानं प्रसज्येत । तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम् ।

क्रियावाग्भ्यामित्यादि । किञ्च यदा बाह्यार्थावादिभिः क्रियावाग्भ्यां लिङ्गाभ्यां परचित्तं ज्ञायते, तदा तस्य परचित्तस्य स्वरूपं विषयीक्रियत आहोस्विन्न? यदि नाम विषयीक्रियते, तदा परचित्तस्याकारोऽपि ज्ञायेत । अथ न विषयीक्रियते, तदा तेन ज्ञानेन प्रतिपत्त्रा वा कथं ज्ञायेत? ॥ ६७ ॥

बाह्यार्थावादिनां मतमाशङ्कितुमाह -

अथ लिङ्गात्सामान्याधिगतेः नाकारस्य प्रतीतिरिति चेत्?
अथ लिङ्गात्सामान्याधिगते इत्यादि । यस्माल्लिङ्गं सामान्येन व्याप्तम्, न तु विशेषेण ।
तस्मात्सामान्यमेव ज्ञायते, न विशेष इति पूर्वपक्षाशङ्का ॥ ६८ ॥

सिद्धान्तवाद्याह -

किञ्च तत्सामान्यं परचित्तमेवान्यद्वाऽहोस्विदवाच्यम् ।

किञ्च तत्सामान्यमित्यादि । किञ्च तत्सामान्यं परचित्तमेव वा, अन्यद्वा, आहोस्विदवाच्यमिति त्रिधा परीक्षा ॥ ६९ ॥

विकल्पद्वयं निराकर्तुमाह -

अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम् ।

तत्कथमनेन तद्गम्यते ।

अन्यत्वावाच्ययोरेकत्व इत्यादि । अन्यत्वपक्षे सामान्यमेव गृह्येत, न परचित्तम् । तस्मात्कथमनेन ज्ञानेन तत्परचित्तं ज्ञायते? अवाच्यत्वपक्षेऽपि एष एव नयः ॥ ७० ॥

अभेदपक्षं निराकर्तुमाह -

नापि सामान्यं परचित्तमेव । तथा सति तदाकारस्तापि ज्ञानं प्रसज्येत इत्युक्तम् ।

नापि सामान्यं परचित्तमेवेत्यादि । नापि सामान्यं परचित्तस्य स्वरूपम् । कस्मात्? आह - अथा सतीत्यादि । यदि परचित्तादनन्यस्य सामान्यस्य ग्रहणमभ्युपगम्यते, तदा परचित्ताकारस्यापि ज्ञानं प्रसज्येत इत्युक्तं प्राक् ॥ ७१ ॥

स्यादेतत्- तथास्तु, को दोषः? उच्यते -

न ह्येषा अनुमानप्रक्रिया । न ह्येषा अनुमानप्रक्रियेति ॥ ७२ ॥

तदेव विवृणोति -

न ह्यनुमानमर्थस्वरूपस्य ग्राहकम् । प्रत्यक्षवत्प्रतिभासासविशिष्टत्वादेः प्रसङ्गात् । न ह्यनुमानमर्थस्वरूपस्येत्यादि । न ह्यनुमानं स्वलक्षणस्य ग्राहकत्वेनेष्यते । प्रत्यक्षेति तु वैधर्म्यदृष्टान्तः । कथन्न स्वलक्षणस्य ग्राहकत्वेनेष्यते चेत्? आह - प्रतिभासाविशिष्टत्वादेः प्रसङ्गादिति । अनुमानस्यापि प्रत्यक्षवत्स्फुटाभता स्यात् । आदिरित्यनेन प्रत्यक्षोद्भूतधर्मिणो अतीतादिविषयस्य चाग्राहकत्वमपि प्रसज्येत ॥ ७३ ॥

स्यादेतत्- प्रतिभासाविशिष्टत्वाभ्युपगम्यत एवेति । आह -

तेन नास्य प्रामाण्यम् ।

तेन नास्य प्रामाण्यमिति । प्रतिभासाविशिष्टत्वादावभ्युपगते सति अनुमानेनार्थस्वरूपस्य ग्रहणम् । तेन भवतु प्रामाण्यमिति चेत्? नैष न्यायः ॥ ७४ ॥

यदि प्रमाणस्य स्वलक्षणग्रहणनिबन्धनत्वं नेष्यते, तत्कथमस्य प्रमाण्यमिति चेदाह -

तत्स्वरूपाग्रहेऽप्यभिप्रेतार्थाविसंवादात्प्रामाण्यम् ।

तत्स्वरूपाग्रहेऽपीत्यादि । न ह्यनुमानेन विषयस्वरूपस्य ग्रहणम्, अपितु अभिप्रेतार्थाविसंवादकत्वात्प्रामाण्यमिष्यते । क्वचित्ग्रन्थेऽतेन नास्य प्रामाण्यम्ऽ इति पाठः । तत्र त्वेवं योजनीयम् - यदा प्रतिभासादयोऽभिन्नाः, तदा प्रमाणमेव न तदिति । यदि अनुमानेन स्वलक्षणं गृह्येत, तर्हि प्रमाणमेव नेष्यते । कथम्? आह - तत्स्वरूपाग्रहेऽपीत्यादि । स्वरूपस्याग्रहेऽप्यभिप्रेतार्थाविसंवादित्वादस्य प्रामाण्यम्, न तु स्वलक्षणग्रहणादिति ॥ ७५ ॥

स्यादेवम् - स्वलक्षणस्याग्रहणेऽप्यपरापरानुमानेन परचित्तमनुमीयते । कथं तद्ग्रहणं निवार्यते? अत आह -

धूमादिलिङ्गाज्जातमपि न वह्न्यादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात्,
अनुमानस्यातीतादौ निःस्वभावतायां चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च ।

धूमादिलिङ्गाज्जातमपीत्यादि । न हि धूमादिलिङ्गाज्जातमनुमानं वह्न्यादेः स्वरूपस्य ग्राहकत्वेनेष्यते । कथम्? आह - दृष्टेनाविशेषप्रसङ्गादिति । यद्यनुमानं स्वलक्षणविषयं गृह्णीयात्, तदा प्रत्यक्षेण तुल्यत्वं प्रसज्येत । नाप्यनुमानमतीतानागतविषयि, वस्तुनः निःस्वभावताविषयि च स्यात् । प्रत्यक्षप्रतिभासस्येवानुमानविकल्पप्रतिभासस्याप्यर्थक्रियाकारित्वं स्यात् ॥ ७६ ॥

स्यादेतत्- परचित्तानुमाने तस्याविसंवादित्वमेव नास्ति । अत आह -

परचित्तानुमानेऽप्यभिप्रेतार्थाविसंवादोऽस्त्येव ।

परचित्तानुमानेऽपीत्यादि ॥ ७७ ॥

अविसंवादित्वस्योपपत्तिं दर्शयन्नाह -

तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागतार्थस्य प्राप्तेः ।

तत्प्रवर्तनद्वारेण प्राण्यन्तरमित्यादि । प्रवृत्तिव्यापारात्परचित्तस्यानुमानम् । तद्द्वारेण प्राण्यन्तरसत्तां प्रतिपद्य यदि पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामान्यत्रान्यत्रगमनादिकां कुर्यात्, तदा प्राण्यन्तरराधिपत्येनागतोऽर्थस्संलापादिः प्राप्यते । अथ वा पुनः पुनर्व्यवहारप्रवृत्तिमभिलाषव्यायामदेशान्तरगमनादिकां कुर्यात्, तदा प्राण्यन्तराधिपत्येन अगतोऽर्थः संलापात् । अथ वा पुनः पुनर्व्यहारे प्रवर्तनमिति संलापादनु गृहप्रवेशः, तदनु आसनदानम्, तदनु चान्नपानदानम्, तदनु च शय्यासनप्रज्ञपनम्, पादप्रक्षालनोदकदानम्, पादमर्दनमित्यादीनि ॥ ७८ ॥

किं पुनरुत्तरव्यहारसाधनाय प्रामाण्यमिष्यत इति चेत्? अत आह -

तन्मात्रफलचिन्तकस्य लोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च ।

तन्मात्रफलचिन्तकस्येत्यादि । तन्मात्रं फलमिति तन्मात्रफलम् । तदिति शब्दोऽर्थक्रियायां वर्तते । मात्रेति शब्दः माने । यो लोकः तन्मात्रफलं चिन्तयति सः तन्मात्रफलचिन्तकः प्रवृत्तः । एवमुक्तं भवति - यो लौकिकप्राण्यन्तरसत्तामनुमिनोति, सः प्राण्यन्तरधिपत्यादागतामर्थक्रियां प्राप्नोति । चेति शब्देन तन्मात्रं लोकस्य प्रवृत्तिफलमित्यर्थोऽवसीयते ॥ ७९ ॥

कथमेतत्? आह -

उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात् ।

उत्तरार्थविशेषप्रतिभासीत्यादि । उत्तारार्थविशेषो दाहपाकादिः । तथा प्रतिभासितुं शीलं यस्य ज्ञानस्य तत्तथा । तस्यानुभवः उत्तरार्थविशेषप्रतिभासिज्ञानानुभवः । तस्योदय एव उदयमात्रम् । निराकाङ्क्ष इत्याकाङ्क्षारहितः । तस्य भावः तत्त्वम् । तस्मात्निराकाङ्क्षत्वात् । एवमुक्तं भवति - यदा पुरुषस्य वह्न्युपलब्धेरनु दाहादिप्रतिभासिज्ञानानुभवोदयः, तदैवायं निराकाङ्क्षो भवति ॥ ८० ॥

भवतु तन्मात्रेणैव पुरुषः निराकाङ्क्षः, किन्तु कथं तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यमिति चेत्? आह -

पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थत्वं प्रमाणत्वेन सिद्धत्वात् । पूर्वज्ञानेनेत्यादि । यस्माद्यथोक्तविधिना पूर्वज्ञानेन व्यवहारपरिसमाप्तिः, तस्मादर्थक्रियाकारित्वं प्रमाणत्वेन व्यवस्थाप्यते ॥ ८१ ॥

अत्र परो व्यभिचारं दर्शयन्नाह -

ननु स्वप्नेऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानापुत्पद्यते । न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात् ।

ननु स्वप्नेऽपीत्यादि । स्वप्नेऽपि पूर्वज्ञाननिमित्तकमुत्तरार्थक्रियाप्रतिभासिज्ञानमुत्पद्यते । न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते । कथं न युज्यते? आह - तदानीं सर्वेषां ज्ञानानामित्यादि । स्वप्ने सर्वाणि ज्ञानानि भ्रान्तान्येवेति पूर्वपक्षः ॥ ८२ ॥

सिद्धान्तवाद्याह -

तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ते अनुमीयेते । भ्रान्तिवशात्कदाचिद्व्यवहितेऽप्युदेति, न तु तदाधिपत्यरहितत्वम् । विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम् ।

तत्र विज्ञप्तिज्ञानमित्यादि । क्रियावागाकारकं ज्ञानं स्पन्दनाधिपत्येन विना नोद्भवति । इत्यतः ताभ्यां ते अनुमीयेते । विशेषस्त्वस्येषः - ततोऽपिओ उपप्लुतावस्थायां व्यवहिताधिपत्यात्परम्परया उदयः, जाग्रदवस्थायां तु अव्यहितत्वेन । सर्वमेतद्विवेचितं प्रागेव ॥ ८३ ॥

एवं विज्ञप्तिज्ञानानामुभयोरप्यवस्थयोः स्पन्दनायत्तत्वं साधयित्वा स्वप्नावस्थायां विज्ञप्तिज्ञानादुत्तरकालभाविज्ञानानि यथा स्पन्दनायत्तानि भवन्ति तथा प्रतिपादयितुमाह - तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि ।

तत्र यथा पूर्वविज्ञप्तिज्ञानानामित्यादि । स्वप्नावस्थायां यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनधीपत्यादुदयः, तथा तदुत्तरावस्थाभाविनामपि । तत्र परम्परा त्वेवम् - जाग्रदवस्थायां प्रथमं तावत्परस्पन्दनाधिपत्याद्विज्ञप्तिज्ञाने, ताभ्यां प्राण्यन्तरसत्ताया अनुमानम्, प्राण्यन्तरसत्तानुमानात्प्रवेशज्ञानम्, तदनु अभिवादननमस्कारज्ञाने, ताभ्यामप्यनु संलापासनदानादिज्ञानम्, तथा च पठनपाठनस्वाध्यायादिज्ञानानि, ततस्तावत्कालक्रमेण शयनज्ञानम्, ततः निद्रामुपैति । निद्रापूर्वभावनावशाच्च पुनर्विज्ञप्तिज्ञानयोरुदयः । ततः पुनः प्राण्यन्तरसत्ताया अनुमानम् । ततश्च पुनः प्रवेशसंलापादिज्ञानानामुदयः ॥ ८४ ॥

प्रवेशादिज्ञानानां पारम्पर्येणोत्पत्तिः । तामेव दर्शयन्नाह -

विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः ।

विज्ञप्तिज्ञानाश्रयेत्यादि । जाग्रदवस्थायां विज्ञप्तिज्ञानस्याश्रयो यत्परसन्तानवर्तिस्पन्दनं तस्य उत्तरावस्था, या प्रमात्रनुमानस्योत्तरवर्तिसंलापादिव्यवहाराकारज्ञानजननसमर्था । तद्भावीनि यानि चित्तानि विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानः, तस्माद्यथोक्तप्रकारेण स्वप्नावस्थायां प्रवेशादिज्ञानानां परम्परयोत्पादः ॥ ८५ ॥

स्यान्मतम् - भवतु परम्परयोत्पादः, व्यभिचारस्तु तदवस्थ एव । अत एवाह -

तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्येते ।

तत्रा यादृगनुमानमित्यादि । स्वप्नावस्थायामपि यादृक्यावत्कालं परचित्तस्य अनुमानं तादृक्तावत्कालमात्रं संलापादिरूपोऽविसंवादोऽस्त्येव । अन्योऽन्यसंबद्धो व्यवहारश्चापि तावत्कालम्रात्रमस्त्येव । इत्यतः न कश्चिद्व्यभिचारदोषः । अन्यैश्चास्यैवान्यथा व्याख्या क्रियते । त एवं व्याचक्षते - तत्र स्वप्नावस्थायामपि कार्यलिङ्गस्य कारणेऽव्यभिचाराद्यादृकुत्पत्तिधर्मतया परम्परया पूर्वज्ञानस्यानुमानम्, तादृकप्रबुद्धचित्तस्याप्यर्थक्रियाप्रतिभासोदयलक्षणोऽविसंवादोऽस्त्येव । कालविप्रकृष्टाकारानुमानस्याविसंवादलक्षणसद्भावादेव व्यवहारश्चापि । इत्यतः केनापि न गृह्यत इति ॥ ८६ ॥

तथा पराभूतोऽपि बाह्यार्थवादी धृतिमत्यजन् पुनराचष्टे -

परचित्तानुमानेन तत्स्वरूपाग्रहेऽप्यविसंवादाद्भवतु तथा प्रामाण्यम् ।

साक्षात्परचित्तविदां तु कथम्? यदि तावत्परचित्तस्य स्वरूपं साक्षात्जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात् । अथ न जानन्ति, कथं ते साक्षाद्विदः?

परचित्तानुमानेनेत्यादि । परचित्तानुमानेन तत्स्वरूपाग्रहेऽप्यविसंवादाद्भवतु तस्य प्रामाण्यम्, ये तु साक्षात्परचित्तविदः तेषां तु कथम्? यदि तावत्परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदास्य प्रत्यक्षस्य ग्राह्यमर्थान्तरं स्यात् । अथ न जानन्ति, तदा कथं ते योगिनः साक्षाद्विद इति मतम् ॥ ८७ ॥

हेतुमुपसंहरन्नाह -

कथं नाम प्रत्यक्षेणार्थस्वरूपस्याग्रहणं च भवति । अथ न गृह्यते, कथं तर्हि प्रमणमिति चेत्?

कथं नाम प्रत्यक्षेणेत्यादि । प्रत्यक्षमर्थस्वरूपस्य ग्राहकमितीष्यते । यदि अर्थस्वरूपं न गृह्यते, कीदृक्तत्प्रत्यक्षम्? अर्थस्वरूपाग्रहणे प्रमाणत्वं निराकर्तुमाह - अथ न गृह्यते कथं तर्हि प्रमाणमिति । स्वरूपग्रहणनिबन्धनं ह्यस्य प्रमाणत्वम् । इति पूर्वपक्षाशङ्का ॥ ८८ ॥

सिद्धान्तवादिनः -

अप्रहीणग्राह्यग्राहकविकल्पयोगिनां परचित्तज्ञानमपि व्यवहारेऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृत्तेः ।

अप्रहीणग्राह्यग्राहकविकल्पयोगिनामित्यादि । अप्रहीणः ग्राह्यग्राहकविकल्पो येषां योगिनां तेषां तथा । तेषां यत्परचित्तज्ञानं तद्व्यवहारेऽविसंवादादेव प्रमाणम्, अस्मदादिसम्बद्धरूपादिदर्शनवत् । न तु स्वरूपग्रहणात् । अप्रहीणग्राह्यग्राहकविकल्पस्य हेतुमाह - आश्रयापरावृत्तेरिति । तथा हि, तेषामालयविज्ञानलक्षणमपरावृत्तम् । तस्य परावृत्तिः ग्राह्यग्राहकविकल्पवासनायाः प्रहाणम् ॥ ८९ ॥

यदि परचित्तज्ञानं न स्वरूपस्य ग्राहकम्, कथं तर्हि तत्स्फुटाकारकं भवतीति चेत्? आह -

योगबलाद्धि तेषां ज्ञानं परचित्तकारविशेषानुकारि स्फुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात्सत्यस्वप्नदर्शनवत् । योगबलाद्धीत्यादि । भावनाबलाद्धि योगिनां परचित्तज्ञानं परचित्ताकारविशेषानुकारि स्फुटमुपजायते, यथा कर्मबलाद्देवाद्यधिष्ठानबलाच्च सत्यस्वप्नदर्शिनां ज्ञानं स्फुटमर्थाकारमुदेति ॥ ९० ॥

यद्येवं चिन्त्येत - भवतु भावनाबलादेव योगिनां परचित्तज्ञानम्, तेन चित्तस्वरूपस्याग्रहणं तु कथमिति । आह -

तेषामपि न परचित्ताविषयित्वेन ज्ञानमुदेति । तेऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद्परचित्तविद इति व्यवहारः । तेषामपि न परचित्तविषयित्वेनेत्यादि । तत्भावनाबलाज्जातमपि परचित्तस्य स्वरूपं विषयीकर्तुं न समर्थम् । तथाविधानां योगिनां ग्राह्यग्राहकविक्ल्पस्याप्रहीणत्वात् । यदि योगिनः परचित्तस्य स्वरूपं न जानन्ति, कथं परचित्तविद इत्यवधार्यते चेत्? आह - तेऽपि स्वचित्तप्रतिभासमित्यादि । योगिनोऽपि परचित्ताकारसदृशेन स्वचित्तप्रतिभासेनैव परचित्तं जानन्ति [इति परचित्तविदः] इत्येवमवधारणं कृत्वा व्यवहारः प्रवर्तते ॥ ९१ ॥

यदि तत्स्वरूपं न गृह्णाति, कथं तर्हि प्रत्यक्षम्? कथं च प्रामाण्यमिति चेदाह -

तदाकारानुकारिस्फुटाभत्वात्तत्प्रत्यक्षम्, अविसंवाअदित्वाच्च प्रामाणमिति मतम् । तदाकारानुकारिस्फुटाभत्वात्तत्प्रत्यक्षमित्यादि । यस्मात्परचित्तस्याकारं स्फुटमनुकरोति, तस्मात्प्रत्यक्षमिति मतम् । यस्माच्चाविसंवादि तस्मात्प्रमाणम् ॥ ९२ ॥

प्रहीणग्राह्यग्राहकविकल्पानां तथागतानां यत्परचित्तज्ञानम्, तत्परचित्तस्य स्वरूपं विषयीकरोति, आहोस्विन्न । यदि करोति, तस्यार्थोऽर्थान्तरं स्यात् । अथ न करोति, तदा भगवतः ज्ञानमप्ययथार्थ स्यादिति चेत्? आह -

अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात् । अचिन्त्यो हि भगवतः सर्वार्थाधिगम इत्यादि । अचिन्त्यो हि योगिवर्याणां तथा गतानां बुद्धगोचरः । तेषां तु न केवलं परचित्तज्ञानमचिन्त्यम्, अपि त्वविशेषेण सर्वार्थसर्वाकारज्ञानमपि अचिन्त्यम् । कस्मात्? आह - तदवस्थायाः सर्वथा ज्ञानभिधानविषयातीतत्वादिति ।

तथागतः ज्ञानादन्यज्ञानेनावधारयितुमशक्यत्वात्ज्ञानविषयातीतः । तस्माद्स्वरूपस्य यथावदनधिगमादेव अभिधानविषयातीतः ।

तथागतानां पुनः द्विविधं सर्वार्थज्ञानम् । आदर्शज्ञानेन सर्वधर्मस्वभावतथताज्ञानम्, प्रत्यवेक्षणज्ञानेन च सर्ववस्तुज्ञानम् । तत्र आदर्शज्ञानं ग्राह्यग्राहकविकल्पेनासम्प्रयुक्तं भवति । सर्वधर्मस्वभावतथतायाः वेदनात्सर्वार्थज्ञानम्, लोकोत्तरज्ञानस्वभावत्वात् । प्रत्यवेक्षणज्ञानं लोकोत्तरज्ञानपृष्ठलब्धग्राह्यग्राहकविकल्पसंप्रयुक्तात्सर्वसूक्ष्मावृतव्यवहितवस्तूनां सर्वाकारं जानातीत्यतः लौकिकसर्वाकारज्ञानम्, लोकोत्तरज्ञानपृष्ठलब्धलौकिकज्ञानस्वभावत्वात् । तस्मात्प्रत्यवेक्षणज्ञानं सर्वार्थज्ञाननयेन न विरुध्यते । नापि वितथम्, तस्य ग्राह्यग्राहकविकल्पसद्भावाभ्युपगमात्, तस्य चावितथत्वेन दर्शनात् ।

समताज्ञानमादर्शज्ञानमालम्बते,प्रतीत्यसमुत्पन्नवस्तुमात्रविषयित्वात् । कृत्यानुष्ठानज्ञानं तु स्वसामान्यलक्षणविषयि । एवं सति चतुर्ज्ञानस्वभावः तथागतः । तत्र आदर्शज्ञानं लोकोत्तरम् । तत्पृष्ठलब्धान्यन्यानि च लौकिकानि । तदेवं भगवतः सर्वार्थज्ञानमेतेषु चतुर्षु यथायोगं योजनीयम् ॥ ९३ ॥

सन्तानान्तरसिद्धेर्हि व्याख्यानाद्पदविग्रहैः ।
कुशलं यन्मयावाप्तं सिद्धिं तेनाप्नुयाज्जनः ॥
सन्तानान्तरसंसिद्धेर्वाङ्मात्रविवृतिः कृता ।
टीका विनीतदेवेन संबुद्धत्वाभिलाषिणा ॥

आचार्यविनीतदेवकृता सन्तानान्तरसिद्धिटीका समाप्ता ॥ �