शाङ्खायनश्रौतसूत्रम्/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ शाङ्खायनश्रौतसूत्रम्
अध्यायः ०२
[[लेखकः :|]]
अध्यायः ०३ →


॥2.1॥
वसन्ते ब्राह्मणस्याग्न्याधेयम् १
ग्रीष्मे क्षत्रियस्य २
वर्षासु वैश्यस्य ३
शरदि वा ४
शिशिरः सर्ववर्णानाम् ५
याथाकाम्यमृतूनां सोमेन यक्ष्य-माणस्य ६
अमावास्यायां पौर्णमास्यां वा दधीत ७
शुद्धपक्षे वा पुण्ये
नक्षत्रे ८
कृत्तिकाप्रभृतीनि त्रीणि फल्गुनीप्रभृतीनि च ९


॥2.2॥ पवमानादीष्टिप्रकरणम्
अथेष्टिकालाः १
सद्यो द्वादशाहे मास ऋतौ संवत्सरे वा २
अग्नये पवमानायेष्टिः ३
पौर्णमासीविकारः ४
अग्न आयूंष्यग्ने पवस्व ५
तं हि शश्वन्त ईलते ते स्याम ये अग्नय इति स्विष्टकृतः ६
अग्नये च पावकायाग्नये च शुचये द्वितीया ७
अमावास्याविकारः ८
अग्ने पावक स नः पावक ९
अग्निः शुचिव्रततम उदग्ने शुचयः १०
अग्निमग्निं हवीमभिरग्निनाग्निः समिध्यत इति स्विष्टकृतः ११
अदितये तृतीया १२
त्वमग्ने सप्रथाः सोम यास्त इति सद्वन्तावाज्यभागौ १३
उत त्वामदिते महि महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् १४
प्रेद्धो अग्न इमो अग्न इति विराजौ स्विष्टकृतः १५
चतस्रः कुर्वन्तोऽग्नये प्रथमाम् १६
अग्ने द्युम्नेनोप त्वा जुहूः १७
अर्चन्तस्त्वाग्निं स्तोमेनेति स्विष्टकृतः १८


॥2.3॥ पवमानादीष्टिप्रकरणम्
प्रथमे वा समानतन्त्रे १
मध्यमे वा २
द्विहविषो वा ३
आदित्यस्यैन्द्राग्नो द्वितीयो ब्राह्मणस्य ४
अग्नीषोमीयो वा ५
ऐन्द्रो राजन्यस्य ६
वैश्वदेवो वैश्यस्य ७
विश्वे देवासः स्तीर्णे बर्हिषि ८
आग्नेयी वा द्वयोः पूर्वा ९
आज्येन तनूदेवताः पुरस्तात्पुरोलाशस्याग्निं पवमानं पावकं च शुचिं चोपरिष्टात् १०
विश्वेभिरग्ने अग्निभिरग्ने विश्वेभिरग्निभिरिति स्विष्टकृतः ११
अदितये द्वितीया १२
अमावांस्याविकारः १३
ताक्ष्णीनां तनूदेवताभि-रेकहविषस्त्र्यहं वैष्णवद्वितीयाभिरपरमादित्यतृतीयाभिरपरं दशम्यवि-कृताग्नेयी १४
सर्वासूपांशुहविष्टा १५
पाञ्चदश्यं च सामिधेनीनाम् १६
सप्तदशादित्यायाम् १७
चतुर्विंशतिर्दक्षिणा १८
द्वादश १९
षड्वा २०
अश्वः २१
शतमानरथवासोऽजाश्च २२
द्वादशरात्रं स्वयंहोमी स्यात् २३
सत्यवंदनं च २४
अतिथिभ्यश्च दानम् २५
आहिताग्निर्व्रते नानिष्ट्वा
पशुना मांसमश्नीयान्नानिष्ट्वाग्रयणेन नवानामोषधीनां फलानि २६


॥2.4॥ अन्वारम्भणीयेष्टिप्रकरणम्
पूर्वा दर्शपूर्णमासाभ्यामन्वारम्भणीयेष्टिः १
आग्नावैष्णवः सरस्वत्यै सरस्वते
च २
अग्नाविष्णू महि तद्वां महित्वं पातं घृतस्य गुह्यानि नाम ।
दमेदमे सुष्टुतिर्वामियानोप वां जिह्वा घृतमुच्चरण्यत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा ।
दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतमुच्चरण्यत् ३
पावका नः सरस्वतीमा जुह्वानाः ४
जनीयन्तः स वावृधे ५
पञ्चहविषमेकेऽग्नये भगिने व्रतपतये च ६
त्वमग्ने वीरवद्यशस्त्वं भगो नः ७
त्वमग्ने
व्रतपा यद्वो वयम् ८
पौर्णमासीविकारः ९
धेनुश्च दक्षिणा १०


॥2.5॥ पुनराधेयप्रकरणम्
काम्यं पुनराधेयमजानानस्य १
आग्नेयोऽग्नये च वैश्वानरायोद्वासयिष्यमाणस्य २
वैश्वानरो न ऊतय आ प्रयातु परावतः अग्निर्नः सुष्टुतीरुप पृष्टो दिवि ३
मध्यावर्षं पुनराधेयकालः ४
पुनर्वसू च नक्षत्रम् ५
या वाषाढ्या उत्तरामावास्या ६
मध्यन्दिनश्च कालः ७
पञ्चकपालश्चाग्नेयः ८
सामिधेन्यश्च पञ्चदश ९
त्रिषु च प्रयाजेष्वग्निशब्दो विकृतः १०
तनूनपादग्निमिलो अग्निना बर्हिरग्निः ११
वार्त्रघ्नः पूर्व आज्यभागः १२
अग्निं स्तोमेन बोधयेति वाग्नये बुद्धिमते १३
अग्न आयूंषीत्युत्तरोऽग्नये पवमानाय १४
एह्यू षु ब्रवाणीति वन्दुमते १५
अग्निर्मूर्धेति वा रेतस्वते १६
यथाचोदितं यजति १७
अग्ने तमद्येति प्रथमातृतीये हविषो द्वितीयाचतुर्थ्यौ स्विष्टकृतः १८
देवं बर्हिरग्नेर्वसुवने देवो नराशंसोऽग्ना वसुवने १९
अग्निशब्दं चतुर्षु पूर्वेषु प्रयाजेष्वनुयाजयोश्च विभक्तय इत्याचक्षते २०
ताश्चोपांशु २१
उत्तरश्चाज्यभागः २२
हविश्च २३
सर्वं वा सह पूर्वाभ्यामनुयाजाभ्याम् २४
हविरन्तं वा २५
हविरेव वा २६
पुनरुत्स्यूतो जरत्संव्यायः पुनःसंस्कृतः कट्रथोऽनड्वान्हिरण्यं वा दक्षिणा २७
अदितये द्वितीया २८
अमावास्याविकारः २९
आग्निवारुणी वा ३०
स त्वं नो अग्नेऽवमस्त्वं नो
अग्ने वरुणस्य विद्वानिति ३१


॥2.6॥ अग्निहोत्रप्रकरणम्
अग्निहोत्रं जुहोति सायं च प्रातश्च १
पुरा छायानां संसर्गाद्गार्ह-पत्यादाहवनीयमुद्धरति २
प्रभान्त्यां रात्र्याम् ३
प्रादुष्करणं नित्यधृतः ४
गतश्रियः शुश्रुवान् ब्राह्मणो ग्रामणी राजन्यः ५
उद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच्च विद्वांश्चकार अह्ना यदेनश्चकृमेह किंचित्सर्वस्मान्मोद्धृतः पाहि तस्मात् ६
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै तयानन्तं लोकमहं जयानि प्रजापतिर्यं प्रथमो जिगाय । इति ७
रात्र्येति प्रातर्विकारः ८
परिसमुह्य होष्यन् ९
ऋतं त्वा सत्येन परिषिञ्चामीति त्रिस्त्रिरेकैकं पर्युक्ष्य हुत्वा च १०
सत्यं त्वर्तेन परिषिञ्चामीति प्रातः ११
यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयानीति गार्हपत्यात्संततामुदधारामाहवनीयात् १२
तन्तुं
तन्वन्नित्यन्तरा श्वापदे गते १३


॥2.7॥ अग्निहोत्रप्रकरणम्
प्रथमास्तमिते जुहोति १
दृश्यमाने वा नक्षत्रे २
उपोदयं व्युषिते ३
उदिते वा ४
पुरस्तात्तु काले मनः कुर्वीत ५
तस्यापराधे प्रायश्चित्तम् ६
उन्नीयाभ्युदितमा तमनादासित्वा हुत्वा वरं दत्त्वा भूरित्यनुमन्त्रयेत ७
अहुत्वा वोदुह्याहवनीयमन्यं प्रणीय जुहुयात् ८
पयो यवागूर्दध्याज्यमित्यग्नि-होत्रहवींषि ९
न दध्यधिश्रयति १०
नापः प्रत्यानयत्याज्ये ११
कृशतरुणे प्रत्यस्याज्यस्योन्नयति १२
पश्चादन्वाहार्यपचनाद्यजमानः प्रत्यङ्तिष्ठन्नादि-त्यमुपतिष्ठते सत्य ऋताय त्वा दक्षिणां नयानीति सायम् १३
ऋत सत्याय त्वा दक्षिणां नयानीत्याहवनीयं प्रातः १४
उत्तरेणान्वाहार्यपचनं यजमानस्य संचरः १५
दक्षिणतः पश्चादाहवनीयादासनम् १६
एवं गार्हपत्यात्पत्न्याः १७
वृष्टिरसि पाप्मानं मे वृश्च विद्यासि विद्य मे पाप्मानमित्याचामति १८
वाचं च यच्छति १९


॥2.8॥ अग्निहोत्रप्रकरणम्
दक्षिणतोऽग्निहोत्रीमुपसृजन्ति १
न चान्तरेण संचरेरन् २
न च शूद्रेण दोहयेत् ३
अग्नये देवेभ्यो धुक्ष्वेति सायं जपति ४
सूर्याय देवेभ्यो धुक्ष्वेति प्रातः ५
अशनायापिपासे स्त्रिया वै स्त्रियं बाधन्ते स्त्रिया वां बाधेऽग्निहोत्र्या वत्सेन वीरेणेति सायंप्रातः ६
अन्वाहार्यपचनेन वीरेणेति स्त्रीवत्सायाम् ७
सुभूतकृतः सुभूतं नः कृणुतेत्युपवेषेणोदीचोऽङ्गारान्गार्हपत्यान्निरुह्याधिश्रय-त्यशनायापिपासीयेनाग्निहोत्रस्थाल्या गार्हपत्येन वीरेणेति विकारः ८
अग्नेष्ट्वा चक्षुषावेक्ष इति समिधमादीप्यावज्योत्य ९
समाप ओषधीनां रसेनेति स्रुवेणापः प्रत्यानीय १०
प्रतितप्य तूष्णीं पुनरवज्योत्य ११
त्रिरुपसा-दमुदगुद्वास्य १२
अनुच्छिन्दन्निव १३
नमो देवेभ्य इति दक्षिणतो ऽङ्गारानुपस्पृश्य १४
सुभृताय व इति सुप्रत्यूल्हान्प्रत्युह्य १५
स्रुवं च स्रुचं च प्रतितप्योन्नयत्यशनायापिपासीयेन स्रुचा स्रुवेण वीरेणेति विकारः १६
चतुष्पञ्चकृत्वो वा १७
स्रुवेस्रुवे च मन्त्रः १८
उन्नीते स्रुचं संमृशति १९
सजूर्देवेभ्यः सायं यावभ्य इति सायं जपति २०
सजूर्देवेभ्यः प्रातर्यावभ्य इति प्रातः २१
उत्तरेण गार्हपत्यं स्रुचमुपमाद्य प्रादेशमात्रीं पालाशीं समिध-मादाय स्रुचं च समयातिहृत्य गार्हपत्यमाहवनीयस्य पश्चादुदगग्रेषु कुशेषु स्रुचमुपसाद्य समिधमभ्यादधात्यशनायापिपामौयेन ममिधाहवनीयेन वीरे-
णेति विकारः २२
द्व्यङ्गुलं समिधोऽतिहृत्याभिजुहोति २३


॥2.9॥ अग्निहोत्रप्रकरणम्
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति मायम् १
सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः २
दक्षिणं जान्वाच्यावषट्कारासु ३
उपमाद्योत्तरामसंसृजंस्तूष्णीं भृयमीं पूर्वचाः ४
स्रुचि भूयिष्ठं कुर्यात् ५
स्रुचो बुध्नेनाङ्गारात्रुपस्पृश्य द्विरुदीचीं स्रुचमुद्यभ्योपमादयति ६
अगन्प्राणः स्वर्गं लोकं जिते जयाम्यभयं मेऽलोकताया अपुत्रताया अपशुताया इति यजमानः पूर्वामाहुतिमनुप्राणिति ७
आगवपान आत्मानं विजिते विजयाम्यभयं मेऽलोकताया अपुत्रताया अपशुताया इत्युत्तरामन्ववानिति ८
या यज्ञस्य समृद्धस्याशीः सा मे समृध्यतामिति ९
हुतयोरुत्तरतः प्रतीचीं मायं द्विरुपमार्ष्टि १०
ऊर्ध्वां दक्षिणतः प्रातः ११
पूर्वमुपमार्जनं कुशेषु निलिम्पत्योषधीः प्रीणामीति मनमा १२
उत्तरं दक्षिणतः पाणियुत्तानं निदधाति पितॄन्प्रीणामीति मनसा १३
द्विः प्रदेशिन्या प्राश्योपब्दिमदुदङ्यर्यावृत्य प्राग्दण्डया भक्षयित्वा प्रत्यग्दण्डां पर्यस्य
निर्लिह्य प्रक्षाल्याचम्य प्रागुदीचीरप उत्सिच्य प्रागुदीचीमुद्दिशति १४
ए-तदेकहोमे कर्म १५
सर्वेषु तु जुह्वत्पूर्णां स्रुचमुत्तरेण गार्हपत्यं निधाय १६


॥2.10॥
इह पुष्टिं पुष्टिपतिर्दधात्विह प्रजां जनयतु प्रजापतिः । अग्नये रयिमते पशुमते पुष्टिपतये स्वाहा । अग्नये गृहपतये स्वाहा । अग्नये स्वाहा । तूष्णीं चतुर्थी गार्हपत्ये १
तत्सवितुर्वरेण्यं भूर्वाग्बहु बह मे भूयात्स्वाहा
भर्गो देवस्य धीमहि भुवः प्राणो भूयान्भूयो मे भूयात्स्वाहा
धियो यो नः प्र चोदयात्स्वर्णाम सर्वं सर्वं मे भृयात्स्वाहा
अग्नयेऽन्नादायान्नपतय स्वाहेत्यचाहार्यपचने चतुर्थी २
महाव्याहृतिभि-
स्तिस्रो ब्रह्मवर्चसकामस्य ३
अविकृत चतुर्थी ४
याः स्रुच्यापस्त्रैधं ताः करोत्यग्निहोत्रस्थान्यां गार्हपत्यस्य पश्चादञ्जलौ च पत्न्याः ५
सं त्वा सृजामि
प्रजया धनेनेत्यञ्जलौ ६
प्रतितप्य स्रुचं निदधाति ७
१०

॥2.11॥ याजमानप्रकरणम्
दक्षिणतोन्यायं याजमानम् १
उपप्रयन्तो अध्वरमयमग्निः सहस्रिण उभा वामयं ते योनिरयमिहास्य प्रन्नामिति षणां त्रिः प्रथमामुत्तमां च २
आदुर्दा अग्ने ऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चा मे देहि तनूपा अग्नेऽसि तन्त्रं मे
पाह्यग्ने यन्म ऊनं तन्वऽस्तन्म आ पृण
इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि
वयस्वन्तो वयस्कृतं महस्वन्तः सहस्कृतम्
अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम्
इति जपित्वा ३
चित्रावसो स्वस्ति ते पारमशीयेति त्रिः ४
सं त्वमग्ने सूर्यस्य
वर्चसागथाः समृषीणां स्तुतेन सं प्रियेण धाम्ना समहमायुषा सं वर्चसा सं प्रजया सं प्रियेण धाम्ना सं रायस्पोषेण मिषीयेत्युपविश्य ५
अम्भ स्थाभ्ये वो भक्षीय सह स्थ महो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रायस्पोष स्थ रायस्पोषं
वो भक्षीय ६
रेवती रमध्वमस्मिन्योनावस्मिंल्लोकेऽस्मिन्गोष्ठेऽस्मिन्क्षय-
ए!ऽस्यामाशिष्यस्यां प्रतिष्ठायामिहैव स्थेतो मापगातेति गामभ्येति ७
११

॥2.12॥ याजमानप्रकरणम्
संहितासि विश्वरूप्यूर्जा माविश गौपत्येनेत्यस्या ललाटमुपस्पृश्य १
उप त्वाग्न इति तृचेनाग्ने त्वं न इति च द्वैपदेन गार्हपत्यम् २
इल एह्यदित एहि सूनृत एहीति गामभ्येति ३
काम्या एत मयि वः कामधरणमिति वत्सस्य ललाटमुपस्पृश्य ४
सोमानं स्वरणमिति तृचेनोत्तरतोऽन्वाहार्यपचनम् ५
अन्तरेण गार्हपत्याहवनीयौ माहित्रं जपित्वाहवनीयमुपतिष्ठते ६
तत्सवितुर्वरेण्यं कदा चन स्तरीरसि परि ते दूलभ इति त्रिरेताम् ७
सर्वेषु तु जुहून्महाव्याहृतिभिस्तिस्रस्तिस्रः समिधो ऽभ्यादधात्याहवनीये वैकहावी ८
दैवस्तन्तुरस्यनु त्वा रभे माहं त्वद्व्यवच्छित्सीत्याहवनीयस्य दक्षिणतोऽङ्गारानुपस्पृश्य ९
ततोऽसि तन्तुरस्यनु मा संतनुहि प्रजया पशुभी रायस्पोषेण सुप्रजास्त्वेन सुवीर्येण मानुषस्तन्तुरस्यनु मा रभस्व मा त्वं मद्व्यवच्छित्था असाविति ज्येष्ठस्य पुत्रस्य नामाभिव्याहृत्य यावन्तो वा भवन्ति १०
आत्मनोऽजातपुत्रः ११
सत्येनावभृथमभ्यवैम्यप्सु व्रतमित्याचम्य
वाचं विसृजते १२
१२

॥2.13॥ याजमानप्रकरणम्
अथ प्रातः १
भूर्भुवः स्वः सुप्रजाः प्रजाभिर्भूयासं सुपोषः पोषैः सुवीरो वीरैरभयं तेऽभयं नो अस्तु मनसा त्वोपतिष्ठे लोकमुपैमि स्वश्चेत्याहवनीयम् २
अत्रैव तिष्ठन्नितरौ ३
अभयं तेऽभयं नो अस्तु वाचा त्वोपतिष्ठे प्रजामुपैमि पशूंश्चेति गार्हपत्यम् ४
अभयं तेऽभयं नो अस्तु प्राणेन त्वोपतिष्ठे व्यानमुपैम्या-युश्चेत्यन्वाहार्यपचनम् ५
अभयं वोऽभयं नो अस्तु कामेन वा उपतिष्ठे वित्तिमुपैमि भूतिं चेति सर्वान् ६
समानं समित्प्रभृत्या व्रतस्य विसर्जनात्

अनेन वैव सायं प्रातः ८
अनुपस्थानं वा प्रातः ९
१३

॥2.14॥ याजमानप्रकरणम्
प्रवत्स्यन्नग्नीन् समीक्षतेऽभयं वोऽभयं नो अस्त्विति १
नर्य प्रजां मे पाहि मानुषान्मा भयात् पाहीति गार्हपत्यम् २
अथर्य पितुं मे पाहि पित्र्यान्मा भयात् पाहीत्यन्वाहार्यपचनम् ३
तमुत्तरेण गत्वा शंस्य पशून्मे पाहि दैवान्मा भयात्पाहीत्याहवनीयम् ४
अन्नमन्नमिति त्रीणि पदान्यभ्युद्धृत्या सकाशा-द्वाग्यमनम् ५
अग्न्युपस्थानस्यानर्थलुप्तं प्रवसञ्जपेत् ६
याजमानं च पर्वणि ७
अनपेतं हि कारणम् ८
सन्धिवेलयोर्वाचम्य वाचं यत्वा पुनराचम्य महाव्याहृतिभिर्विसर्गः ९
चक्षुर्विषयेऽग्नीनां वाचं यच्छेत् प्रोष्यायन् १०

॥2.15॥ याजमानप्रकरणम्
तथा चैव समीक्षणम् ॥१
आगन्म वृत्रहन्तममस्मभ्यं वसुवित्तमम्।
अग्ने सम्रालभि द्युम्नमभि सह आ यच्छस्व ॥
शंस्य पशून्मेऽजुगुपस्तान्मे पाह्येव दैवान्मा भयादजुगुपस्तस्मान्मा पाह्येवेत्याहवनीयम् ॥२
तृणापचयनं समिदाधानं च सर्वेषु ॥३
अयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः।
अग्ने पुरीष्याभि द्युम्नमभि सह आ यच्छस्व॥
अथर्य पितुं मेऽजुगुपस्तं मे पाह्येव पित्र्यान्मा भयादजुगुपस्तस्मान्मा पाह्येवेत्यन्वाहार्यपचनम् ॥४
अयमग्निर्गृहपतिर्गार्हपत्यात्प्रजाया वसुवित्तमः।
अग्ने गृहपतेऽभि द्युम्ननभि सह आ यच्छस्व॥
नर्य प्रजां मेऽजुगुपस्तां मे पाह्येव मानुषान्मा भयादजुगुपस्तस्मान्मा पाह्येवेति गार्हपत्यम् ॥५
व्यवेतोऽग्नीन्प्रवसति ॥६
तेन चैवोत्सृज्यते ॥७
१५

॥2.16॥ वास्तोष्पतीष्टिप्रकरणम्
वास्तोष्यतीयं ध्रौव्ये दशरात्रावरार्धे संप्रयातेषु १
अग्निष्ठस्य दक्षिणे युक्त उपोह्य चीवरं वास्तोष्यते प्रतिजानीहोत्यनूच्य वास्तोष्यते शग्मयेति यजति २
हुते चानाहितं त्यजेत् ३
१६

॥2.17॥ याजमानप्रकरणम्
समारोहयमाणो गार्हपत्ये पाणी प्रतितप्य प्राणान्संमृशत्येहि मे प्राणानारोहेति १
सकृत्सकृन्मन्त्रेण द्विर्द्विस्तूष्णीम् २
अयं ते योनिरिति वारेणी प्रतितपति ३
सकृत्सकृन्मन्रूणे द्विर्द्विस्तूष्णीम् ४
एवमाहवनीयात् ५
नित्यभृताद-न्यस्मिन् ६
अवस्तमिते च मन्थनम् ७
उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्
आयुः प्रजां रयिमस्मासु धेह्यरिष्टो दीदिहि नो दुरोणे
इत्यात्मनोऽरण्योरुपावरोह्य मन्थनम् ८
लौकिके वा लौकिके वा ९
१७
इति शाङ्खायनश्रौतसूत्रे द्वितीयोऽध्यायः समाप्तः