सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ८/अध्यायः २/ब्राह्मणम् २

विकिस्रोतः तः

८.२.२ अथ पञ्चवैश्वदेवेष्टकोपधानम्

अथ वैश्वदेवीरुपदधाति । एषा वै सा द्वितीया चितिर्यामेभ्यस्तदश्विना उपाधत्तां तामुपधायेदं सर्वमभवतां यदिदं किं च - ८.२.२.१

ते देवा अब्रुवन् । अश्विनौ वा इदं सर्वमभूतामुप तज्जानीत यथा वयमिहाप्यसामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथा वयमिहाप्यसामेति ते चेतयमाना एता इष्टका अपश्यन्वैश्वदेवीः - ८.२.२.२

तेऽब्रुवन् । अश्विनौ वा इदं सर्वमभूतामश्विभ्यामेवाश्विनोश्चितिमनूपदधामहा इति ते ऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत तस्मादेतामाश्विनी चितिरित्याचक्षते तस्माद्यथैव पूर्वासामुदर्क एवमेतासामश्विभ्यां ह्येवाश्विनोश्चितिमनूपादधत - ८.२.२.३

यद्वेव वैश्वदेवीरुपदधाति । ये वै ते विश्वे देवा एतां द्वितीयां चितिमपश्यन्ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति ता एताः सर्वाः प्रजास्ता रेतःसिचोर्वेलयोपदधातीमे वै रेतःसिचावनयोस्तत्प्रजा दधाति तस्मादनयोः प्रजाः सर्वत उपदधाति सर्वतस्तत्प्रजा दधाति तस्मात्सर्वतः प्रजा दिश्या अनूपदधाति दिक्षु तत्प्रजा दधाति तस्मात्सर्वासु दिक्षु प्रजाः - ८.२.२.४

यद्वेव वैश्वदेवीरुपदधाति । प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत उदक्रामन्नेतस्या अधि योनेस्ता एनमेतस्मिन्नात्मनः प्रतिहिते प्रापद्यन्त - ८.२.२.५

स यः स प्रजापतिर्व्यस्रंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकास्तद्यदेता उपदधाति या एवास्मात्ताः प्रजा मध्यत उदक्रामंस्ता अस्मिन्नेतत्प्रपादयति रेतःसिचोर्वेलया पृष्टयो वै रेतःसिचौ मध्यमु पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत उपदधाति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति - ८.२.२.६

यद्वेव वैश्वदेवीरुपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहितेऽकामयत प्रजाः सृजेय प्रजायेयेति स ऋतुभिरद्भिः प्राणैः संवत्सरेणाश्विभ्यां सयुग्भूत्वैताः प्रजाः प्राजनयत्तथैवैतद्यजमान एताभिर्देवताभिः सयुग्भूत्वैताः प्रजाः प्रजनयति तस्मादु सर्वास्वेव सजूः सजूरित्यनुवर्तते - ८.२.२.७

सजूर्ऋतुभिरिति । तदृतून्प्राजनयदृतुभिर्वै सयुग्भूत्वा प्राजनयत्सजूर्विधाभिरित्यापो वै विधा अद्भिर्हीदं सर्वं विहितमद्भिर्वै सयुग्भूत्वा प्राजनयत्सजूर्देवैरिति तद्देवान्प्राजनयद्यद्देवा इत्याचक्षते सजूर्देवैर्वयोनाधैरिति प्राणा वै देवा वयोनाधाः प्राणैर्हीदं सर्वं वयुनं नद्धमथो च्छन्दांसि वै देवा वयोनाधाश्छन्दोभिर्हीदं सर्वं वयुनं नद्धं प्राणैर्वै सयुग्भूत्वा प्राजनयदग्नये त्वा वैश्वानरायेति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेण वै सयुग्भूत्वा प्राजनयदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विभ्यां वै सयुग्भूत्वा प्राजनयत् - ८.२.२.८

सजूर्वसुभिरिति दक्षिणतः । तद्वसून्प्राजनयत्सजू रुद्रैरिति पश्चात्तद्रुद्रान्प्राजनयत् सजूरादित्यैरित्युत्तरतस्तदादित्यान्प्राजनयत् सजूर्विश्वैर्देवैरित्युपरिष्टात् तद्विश्वान्देवान्प्राजनयत्ता वै समानप्रभृतयः समानोदर्का नाना मध्यतस्ता यत्समानप्रभृतयः समानोदर्काः समानीभिर्हि देवताभिः पुरस्ताच्चोपरिष्टाच्च सयुग्भूत्वा प्राजनयदथ यन्नाना मध्यतोऽन्या अन्या हि प्रजा मध्यतः प्राजनयत् - ८.२.२.९