शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं २

विकिस्रोतः तः

११.१.२

घ्नन्ति वा एतद्यज्ञम्। यदेनं तन्वते यन्वेव राजानमभिषुण्वंति तत्तं घ्नन्ति यत्पशुं संज्ञपयन्ति विशासति तत्तं घ्नन्त्युलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति - ११.१.२.१

तं हत्वा यज्ञम्। अग्नावेव योनौ रेतोभूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते तद्दशता आहुतीः सम्पादयेद्याभ्यो वषट्क्रियते - ११.१.२.२

अयं वै यज्ञो योऽयं पवते। सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टो दशधा विहितः स एवं कॢप्तैः प्राणैरग्नेर्योनेरधिजायते सैषा दशाक्षरा विराट्सैषा सम्पत्स यज्ञः - ११.१.२.३

अथो अपि नव स्युः। तन्न्यूनां विराजं करोति प्रजननाय न्यूनाद्वा इमाः प्रजाः प्रजायन्ते सैषा सम्पत्स यज्ञः - ११.१.२.४

अथो अप्येकातिरिक्ता स्यात्। सा प्रजापतिमभ्यतिरिच्यते सैषा सम्पत्स यज्ञः - ११.१.२.५

अथो अपि द्वे अतिरिक्ते स्याताम्। द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते सैषा सम्पत्स यज्ञः - ११.१.२.६

अथो अपि तिस्रोऽतिरिक्ताः स्युः। द्वन्द्वमह मिथुनं प्रजननमथ यज्जायते तत्तृतीयं सैषा सम्पत्स यज्ञः - ११.१.२.७

अथो अपि चतस्रोऽतिरिक्ताः स्युः। तद्यथैकैवं चतस्रस्त्रयो वा इमे लोकास्तदिमानेव
लोकांस्तिसृभिराप्नोति प्रजापतिर्वा अतीमांल्लोकांश्चतुर्थस्तत्प्रजापतिमेव चतुर्थ्याऽऽप्नोति सैषा सम्पत्स यज्ञः - ११.१.२.८

स यद्द्वाभ्यामूनं तदूनं। सोऽयज्ञो यत्पञ्चभिरतिरिक्तं तदतिरिक्तं सोऽयज्ञः सैषैव दशत्यधि संपदेषा विंशत्यामेषाऽऽसहस्रात् - ११.१.२.९

आजिं वा एते धावन्ति। ये दर्शपूर्णमासाभ्यां यजन्ते स वै पञ्चदश वर्षाणि यजेत
तेषां पञ्चदशानां वर्षाणां त्रीणि च शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्य रात्रयस्तद्रात्रीराप्नोति - ११.१.२.१०

अथापराणि पञ्चदशैव वर्षाणि यजेत। तेषां पञ्चदशानां वर्षाणां त्रीणि चैव शतानि षष्टिश्च पौर्णमास्यश्चामावास्याश्च त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तदहान्याप्नोति तद्वेव संवत्सरमाप्नोति - ११.१.२.११

मर्त्या ह वा अग्रे देवा आसुः। स यदैव ते संवत्सरमापुरथामृता आसुः सर्वं वै संवत्सरः सर्वं वा अक्षय्यमेतेनो हास्याक्षय्यं सुकृतं भवत्यक्षय्यो लोकः - ११.१.२.१२

स आजिसृतामेकः। य एवं विद्वांस्त्रिंशतं वर्षाणि यजते तस्मादु त्रिंशतमेव वर्षाणि यजेत यद्यु दाक्षायणयज्ञी स्यादथो अपि पञ्चदशैव वर्षाणि यजेतात्र ह्येव सा सम्पत्सम्पद्यते द्वे हि पौर्णमास्यौ यजते द्वे अमावास्ये अत्रो एव खलु सा सम्पद्भवति - ११.१.२.१३