वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/समासशक्तिनिर्णयः

विकिस्रोतः तः
← नामार्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
समासशक्तिनिर्णयः
[[लेखकः :|]]
शक्तिनिर्णयः →

।। अथ समासशक्तिनिर्णयः ।।
समासानिति। समासत्वं च-व्याकरणशास्त्रप्रणेतृपाणिन्यादिमुनिकृतसंकेतसंबन्धेन समासपदवत्त्वम्। यस्मिन्समुदाये पदद्वयं परस्परं समस्यते स समुदायः समास इति यावत्। समासशब्दे हलश्चेत्यधिकरणे घञ्। विभजते-विपूर्वकभजधात्वर्थोऽवान्तरधर्मंपुरस्कारेण कथनम्। तथा च समासत्वावान्तरधर्मपुरस्कारेण कथयति-सुपां सुपा, तिङा, नाम्नेति। पदद्वयमीति। अपिना पदत्रयादिसंग्रहः। तेन द्व्यह्नजातः, चित्राजरद्गुः। होतृपोतृनेष्टोद्गतारः, इत्यादिसमासानां नासंग्रहः। तथा चानेकसुबन्थघटितत्वं समासत्वावान्तरधर्मः। अनेकसुबन्तघटितसमासोदाहरणमाह-राजपुरुष इत्यादिति। सुपां तिङेति। एतद्विवरणं पूर्वपदं सुबन्तमित्यादि। तथा च सुबन्ततिङन्तात्मकपूर्वोत्तरपदघटितत्वमवान्तरधर्मः। एवं रोत्याऽग्रेऽप्यवान्तरधर्मः स्वयमूह्यः। उदाहरणं-पर्यभूषत्, अनुव्यचलदिति। गतिमतोदात्तवतेति। उपलक्षणमिदं, सहेति योगविभागस्यापि। देवो देवान् क्रतुना पर्यभूषदिति ऋक्संहितायाम्। अन्वित्यस्य व्यचलदित्यनेन, वीत्यस्य चाचलदित्यनेन युगपत्समासः। उभयत्रापि सहेति योगविभागेन समासे सति `न समासे' इति शाकलनिषेधाद्यणादेशः समासोदात्तत्वं च सिध्यति। अन्ये तु तत्र सुबित्येकत्वस्य विवक्षितत्वाद्वेः पूर्वं समासः पश्चादनोः। तत्र शाकलप्रतिषेधाद्यणादेशेऽप्यन्तोदात्तत्वं न भवति, तिङ्ङतिङ इति निघातात्। अनोर्गतिर्गताविति निघातः। वेर्यणादेश उदात्तस्वरितयोरित्यटः स्वरितत्वमित्यांहुः। सुपां नाम्नेत्यस्योदाहरणं-कुम्भकार इति। कुम्भ-अस्, कार-अ, इत्यलौकिकप्रक्रियावाक्ये उपपदमतिङिति समासः। स च गतिकारकोपपदानामिति परिभाषया कारेतिप्रातिपदिकात्सुवुत्पत्तेः पूर्वं भवति। सुबुत्पत्तेः प्रागित्यस्योत्तरपदे सुबुत्पत्तेः प्रागित्यर्थो बोद्यः। अन्यथेति। पूर्वपदेऽपि सुबुत्पत्तेः प्रागित्यस्योत्तरपदे सुबुत्पत्तेः प्रागित्यर्थो बोध्यः अन्यथेति। पूर्वपदेऽपु सुबुत्पत्तेः प्रागेव समासप्रवृत्तौ चर्मक्रीतीत्यत्र पूर्वपदे चर्मणि विभक्त्यभावेन पदत्वाभावान्नलोपानापत्तेरिति भावः। तथा च सुबन्तपूर्वपदकत्वे सति प्रातिपदिकमात्रोत्तरपदकत्वमवान्तरधर्मः। सुपां धातुनेत्यस्य विवरणं-उत्तरपदं धातुमात्रमिति। सुबन्तपूर्वपदकत्वविशिष्टधातुमात्रोत्तरपदघटितत्वमवान्तरधर्मः। कटं प्रवते कटप्रूः। प्रुङ् गतावित्यस्मात्कर्तरि क्विप्। आयतस्तूः आयतं स्तोतीत्यर्थः। पूर्ववत्कर्तरि क्विप्। उभयत्रापि क्विबवचीति धातोदीर्घः। वार्तिकादिति। अन्येभ्योऽपि तृश्यते(पा.सू.3-2-178)इति सूत्रस्थवार्तिके निपातनात्समासः। यत्र समुदायो निर्दिश्यते तेन चावयवा अनुमीयन्ते तन्निपातनम्। यत्र चावयवा निर्दिश्यन्ते तेन च समुदायोऽनुमीयते स विधिरिति भाष्यम्। क्विपः सर्वापहारित्वाल्लोपेन धातुमात्रमुत्तरपदमिति भावः। तिङां तिङेति। पदद्वयमपि तिङन्तमित्यर्थः। पूर्वोत्तरपदभूततिङन्तद्वयघटितत्वमवान्तरधर्मः। पिबतेति। पिबत खादतेति सततं यस्यां क्रियायामभिधीयते सा पिबतखादतेत्यर्थः। एवं पचतभृज्जतेत्यत्राप्यर्थोऽनुसंधेया। आख्यातमिति। क्रियायाः सातत्ये नैरन्तर्ये गम्ये तिङन्तं तिङन्तेन समस्यत इत्यर्थः। अन्तर्गणसूत्रादिति। अस्य समासो भवतीति शेषः। तिङां सुबन्तेनेत्यस्य विवरणं-पूर्वपदं तिङन्तमित्यादि। तिङन्तपूर्वपदकत्वविशिष्टसुबन्तोत्तरपदघटितत्वमवान्तरधर्मः। जहिस्तम्ब इति। स्तम्बं जहीत्याभीक्ष्ण्येन य आह स जहिस्तम्बः। स्तम्बाघातकर्ता समासार्थः। जहिकर्मणेति। जहीत्येतत्तिङन्तं, सुबन्तेन कर्मार्थकेन समस्यते, आभीक्ष्ण्ये गम्ये, समासश्चेत्कर्तारमभिदधातीत्यर्थः। मयूरव्यंसकाद्यन्तर्गणसूत्रात्समास इत्यर्थः। भाष्ये व्युत्पादित इति। तत्र हि-वृद्धो यूनेतिवत्सुपेति तृतीयैव सहार्थमाक्षेप्स्यतीतिसहग्रहणं किमर्थमिति प्रश्ने सहभूतयोरेव समाससंज्ञा यथा स्यात्प्रत्येकं मा भूदित्युक्त्वा समुदाये वाक्यपरिसमाप्तिन्यायेन गर्गदण्डनवत्सहभूतयोरेव समाससंज्ञा स्यान्न प्रत्येकमित्युत्तरितम्। तत एवं तर्हि सिद्धे यत्सहग्रहणं तद्योगाङ्गं विज्ञायते। योगोऽत्राष्टाध्यायी, तस्याः साक्षादङ्गत्वाय योगविभागः क्रियते। `सह' इति, सुप् समस्यते, केन? समर्थेन, पर्यभूषत्, अनुव्यचलत्। ततः `सुपा' सुपा च सह सुप् समस्यते। अधिकारश्च लक्षणं च। यस्य समासस्यान्यल्लक्षणं नास्ति तस्येदं लक्षणं भविष्यतीत्युक्तत्वात्षड्‌विधोऽप्ययं समासः सहेतियोगविभागेन साधित इति भावः।। 28 ।।
तद्भेदमिति। समासभेदमित्यर्थः। व्युत्पाद्य-व्याख्याय। विभागस्य-चतुर्विधस्य। अव्ययीभाव-तत्पुरुष-बहुव्रीहि-द्वंद्वात्मकस्येति यावत्। अब्याप्तीत्यादिभिरिति। लक्ष्यैकदेशावृत्तित्वमव्याप्ति। यथा नीलरूपवत्त्वं गोर्लक्षणं कृतं चेत्पीतगव्यामव्याप्तिस्तत्र नीलरूपाभावात्। लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वमतिव्याप्तिः। यथा शृङ्गित्वं गोर्लक्षणं कृतं चेल्लक्ष्यभूतायां गवि शृङ्गित्वस्य विद्यमानत्वेऽपि महिष्यादावत्तिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात्। लक्ष्यमात्रावृत्तित्वमसंभवः। यथा गोरेकशफवत्त्वं लक्षणं कृतं चेद्यावद्गोव्यक्तीनां द्विशफवत्त्वेनैकशफवत्त्वस्य कुत्राप्यसत्त्वात्। तल्लक्षणस्येति। अव्ययीभावादिसमासलक्षणस्येत्यर्थः। लक्षणं च-अव्याप्त्यतिव्याप्त्यसंभवदोषत्रयरहितो धर्मः। अत एव लक्षणे तादृशान्येव पदानि देयानि, यादृशैरव्याप्त्यादयो दोषा न प्रादुःष्युरित्युच्यतेऽभियुक्तैः। प्रायिकत्वमिति। प्रायेण भवं प्रायिकं तस्य भावस्तत्त्वम्। प्रायोवाद इत्यर्थः। बाहुल्याभिप्रायेण तथा विभागस्तथा लक्षणोक्तिश्चेति यावत्। बहुषु स्थलेषु तथा दर्शनेऽपि केषुचित्तददर्शनेन प्राचीनोक्तविभागस्य तथा लक्षणोक्तेश्च प्रायिकत्वं, न सार्वत्रिकत्वमिति भावः। तदेतदाह-
समासस्तु चतुर्धेति। चतुष्प्रकारकः। प्रकारार्थे धाप्रत्ययविधानात्। सामान्यस्य भेदको विशेषः प्रकार इत्युच्यते। प्रकारमेव दर्शयति-अव्ययीभावेत्यादि। विभागतावच्छेदकधर्मभेदादित्यर्थः। अयमिति। समनन्तरोक्तश्चतुर्धा विभाग इत्यर्थः। प्रायोवाद इति। प्रायिक इत्यर्थः। प्राचीनोक्तविभागरय प्रायिक्तेव हेतुमाह-भूतपूर्व इत्यादिना। असंग्रहादिति। एषां समासानामव्ययीभावादिसंज्ञारहितत्वादित्यर्थः। तत्र भूतपूर्व इत्यत्र `सुप्‌सुपा, आयतस्तूरित्यत्र क्विब्‌वचीति वार्तिके निपातनात्, वागर्थाविवेत्यत्र `इवेन सह समासः' इति च समासः। समासाधिकारीयसूत्रविहितत्वाच्चतुर्धाविभागे तेषामप्तंग्रहे चेष्टापत्तिः कर्तुमशक्या। योऽयं पूर्वपदार्थप्रधानोऽव्ययीभाव इत्यादिवादः सोऽपि प्रायिक इत्याशयेनाऽऽह-इत्यादिलक्षणमपि प्रायिकमिति। पूर्वपदार्थप्रधान इत्यस्य पूर्वपदार्थः प्रधानं यत्रेत्यर्थः। तथा च पूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकोऽव्ययीभाव इति तात्पर्यम्। तेन राजपुरुष इत्यादावपि राजत्वादिनिष्ठप्रकारतानिरूपितराजादिनिष्ठमुख्यविशेष्यताकबोधजनकत्वेऽपि न तत्रातिव्याप्तिः। राजादौ राजपुरुषादिसमासजन्यबोधीयमुख्यविशेष्यताविरहात्। एवमग्रेऽपि बोध्यम्। उपकुम्भमित्याद्यव्ययीभावस्य कुम्भस्य समीपमित्येवंरीत्या पूर्वपदार्थमुख्यविशेष्यकबोधजनकत्वाल्लक्षणसमन्वयः। उत्तरपदार्थप्रधान इति। पूर्वपदार्थनिष्ठप्रकारतानिरूपितोत्तरपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकस्तत्पुरुष इत्यर्थः। तेनोपकुम्भमित्यत्र कुम्भपदे कुम्भत्वनिष्ठप्रकारतानिरूपितकुम्भनिष्ठविशेष्यताकबोधजनकत्वेऽपि न तत्रातिव्याप्तिः। कुम्भपदे उपकुम्भमित्याकारकसमासजन्यबोधीयमुख्यविशेष्यताविरहात्। उभयपदार्थेति। अनेकपदार्थप्रधान इत्यर्थः। तेन त्रिचतुरादिपदघटितसमासस्य नासंग्रहः। अन्यपदार्थेति। समासघटकीभूतपदार्थातिरिक्तपदार्थेत्यर्थः। रामकृष्णावित्यत्र साहित्यविशिष्टयो रामकृष्णयोः पूर्वोत्तरपदार्थयोर्विशेष्यतया, चित्रगुरित्यत्र च चित्राभिन्नगवीस्वामिनोऽन्यपदार्थस्य गोपस्य विशेष्यतया भानाद्यथायथं लक्षणसमन्वयो बोध्यः। लक्षणानां प्रायिकत्वे हेतुमाह-उन्मत्तगङ्मित्यादिना। परस्परेति। परस्परस्य व्यभिचारात्-लक्षणतावच्छेदक-लक्षिततावच्छेदकयोः परस्पराभाववद्‌वृत्तित्वादित्यर्थः। व्यभिचारपदस्यातिव्याप्तावेव शास्त्रकृतां व्यवहारेऽप्यत्र दोषवत्तयाऽव्याप्त्यतिव्याप्ती उभयं विवक्षितमिति भावः। व्यभिचारमेव दर्शयति-तथाहीति। उन्मत्तगङ्गमिति। अव्ययीभावोऽयम्। अव्ययीभावत्वं च-पूर्वपदार्थप्राधान्यवत्समासत्वम्। प्रत्यासत्त्योत्तरपदार्थनिष्ठप्रकारतानिरूपितपूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वमिति यावत्। अत्र पूर्वपदार्थप्रधानः(पूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकः) इति लक्षणम्। लक्ष्यं त्वव्ययीभावः। लक्षणतावच्छेदकं-पूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वम्। लक्ष्यतावच्छेदकं त्वव्ययीभावत्वम्। उन्मत्तगङ्गामित्यत्रोन्मत्ताभिन्नगङ्गापेक्षया भिन्नस्यान्यपदार्थस्य देशविशेषस्य मुख्यविशेष्यतया प्रतीयमानत्वात् पूर्वपदार्थप्राधान्याभाववति(लक्षणतावच्छेदकाभावविशिष्टे) लक्ष्यतावच्छेदकस्याव्ययीभावत्वस्य सत्त्वाल्लक्ष्यैकदेशावृत्तित्वरूपा प्राचीनोक्ताव्ययीभावलक्षणाव्याप्तिः। तथाऽन्यपदार्थप्रधानो बहुव्रीहिरिति बहुव्रीहिलक्षणम्। उन्मत्तगङ्गामित्यत्र चान्यपदार्थप्राधान्येऽपि बहुव्रीहित्वाभावाल्लक्ष्यतावच्छेदकबहुव्रीहित्वाभाववति, अन्यपदार्थप्राधान्यरूपस्य लक्षणतावच्छेदकस्य सत्त्वादलक्ष्यवृत्तित्वरूपा प्राचीनोक्तबहुव्रीहिलक्षणातिव्याप्तिश्चेत्यर्थः। उन्मत्तगङ्गमित्यत्रान्यपदार्थप्राधान्ये प्रमाणमाह--`अन्यपदार्थे च संज्ञायां' (पा.सू.2-1-21)इति। समासादिति-अयमन्यपदार्थप्राधान्ये हेतुः। सूपप्रतीति। अव्ययीभावे सूपसंबन्धिलेश इत्यर्थप्रतीत्या तत्पुरुषत्वाभाववति, उत्तरपदार्थनिष्ठमुख्यविसेष्यतविशेष्यताकबोधजनकत्वसत्त्वादलक्ष्यवृत्तित्वरूपा प्राचीनोक्ततत्पुरुषलक्षणस्यातिव्याप्तिः, तथा पूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वस्यासत्त्वाल्लक्ष्यैकदेशावृत्तित्वरूपा प्राचीनोक्ताव्ययीभावलक्षणस्याव्याप्तिरित्यर्थः। ननु सूपप्रतीत्यत्राव्ययीभावत्वसत्त्वे किं प्रमाणं? किंचाव्ययीभावसमासविदायकेऽव्ययस्य प्रथमानिर्दिष्टत्वात्कथमत्राव्ययस्य परनिपात इत्याशङ्क्याऽऽहृसुप्‌प्रतिना मात्रार्थे(पा.सू.2-1-9)इति समासादिति। अव्ययीभावाधिकारस्थेन समासविधानादित्यर्थः। पूर्वपदार्थेति। पिप्पलीसंबन्ध्यर्धमित्यर्थप्रतीतेः पूर्वपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वसत्त्वादव्ययीभावत्वाभाववति अलक्ष्यवृत्तित्वरूपा प्राचीनोक्तव्ययीभावलक्षणस्यातिव्याप्तिः। तथोत्तरपदार्थप्राधान्यासत्त्वाल्लक्ष्यैकदेशावृत्तित्वरूपा प्राचीनोक्तत्पुरुषलक्षणस्याव्याप्तिः। एवं पूर्वकाय इत्यादावपि निरुक्तरीत्या पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावलक्षणस्यातिव्याप्तिस्तत्पुरुषलक्षणस्याव्याप्तिश्चेति बोध्यम्। द्वित्रा इति बहुव्रीहाविति। द्वौ वा त्रयो वा इति विग्रहः। शेषो बहुव्रीहिरित्यधिकारपठितेन `संख्ययाऽव्ययासन्ना' (पा.सू.2-2-25)इति सूत्रेण बहुव्रीहिः। `बहुव्रीहौ संख्येये डज'(पा.सू.5-4-73) इति समासान्तो डच्। द्वित्रा इत्यतो द्वित्र्यन्यतर इति बोधोत्पत्तेरूभयपदार्थनिष्ठविशेष्यताकबोधजनकत्वाद्‌द्वंद्वत्वाभाववति अलक्ष्यवृत्तित्वरूपा प्राचीनोक्तद्वंद्वलक्षणस्यातिव्याप्तिः, अन्यपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वाभावेन च लक्ष्यैकदेशावृत्तित्वरूपा बहुव्रीहिलक्षणस्याव्याप्तिश्च। शशकुशेति। चार्थे द्वंद्वः(पा.सू.2-2-29)इति समाहारे द्वंद्वः। शशकुशपलाशानां समाहार इति बोधोत्पत्तेः समाहाररूपान्यपदार्थनिष्ठमुख्यविशेष्यताकबोधजनकत्वादलक्ष्यवृत्तित्वरूपा प्राचीनोक्तबहुव्रीहिलक्षणस्यात्रातिव्याप्तिः उभयपदार्थनिष्ठविशेष्यताकबोधजनकत्वाभावेन च द्वंद्वलक्षणस्याव्याप्तिश्च। अत्र शशकुशपलाशमित्युपक्रमानुरोधेन द्वंद्वाब्याप्तिरित्यस्य समाहारद्वंद्वाव्याप्तिरित्यर्थो बोध्यः। अन्ये तु सामान्यतो द्वंद्वपदोपादानेन धवखदिरावित्यादीतरेतरयोगद्वंद्वेऽप्युभयदार्थविशेष्यकबोधजनकत्वासंभवः सूचितः। तस्यायं भावः-वार्थ द्वंद्व इति सूत्रभाष्यपर्यालोचनया बहुव्रीहावन्यपदार्थस्येवेतरेतरयोगेऽपि चार्थसमूहस्यैव प्राधान्यं लभ्यते। तत्रेयान् विशेषः-इतरेतरयोग उद्‌भूतावयवभेदः समूहः समासार्थः, समाहारद्वंद्वे त्वनुद्‌भूतावयवभेदः स इति। उद्‌बूतावयवभेदत्वमवयवगतसंख्यारोपवत्त्वं, अवयवगतसंख्यानारोपे त्वनुद्‌भूतावयवभेदत्वम्। इदमेव तिरोहितावयवभेदत्वामित्यन्यत्र व्यवहृतम्। एवं चोभयत्रापि समूहस्यैव प्राधान्यादेतन्मते प्राचीनोक्तद्वंद्वलक्षणासंभवो बहुव्रीहिलक्षणातिव्याप्तिश्च द्वंद्वे बोध्यम्। एवं प्राचीनोक्तानां `पूर्वपदार्थप्रधानः' इत्यादीनामव्ययीभावादिलक्षणत्वं दूषयित्वा सिद्धान्तिमते तल्लक्षणान्याह-सिद्धान्ते त्वित्यादि। अव्ययीभावाधिकारेति। अव्ययीभावाधिकारपठितसूत्रविहितसमासत्वमव्ययीभावत्वम्। तत्पुरुषाधिकारपठितसूत्रविहितसमासत्वं तत्पुरुषत्वमित्यादीत्येवमग्रेऽपि बोध्यम्। लक्ष्यतावच्छेदकत्वं त्वव्ययीभावत्वादिकम्। भूतपूर्वादिसमासानां तु लक्ष्यतावच्छेदकानाक्रान्तत्वात्तदसंग्रहेऽपिन क्षतिः। असंभवश्वेति। असंभवो नाम-लक्ष्यमात्रावृत्तित्वम्। लक्ष्यभूतानां गोव्यक्तीनां मध्ये कस्यामपि व्यक्तौ लक्षणसमन्वयाभावः। यथा गोरेकशफवत्त्वम्। यावद्गोव्यक्तीनां द्विशफवत्त्वेनैकशफ़वत्त्वस्य कुत्राप्यसत्त्वात्। एवं निरुक्तानां `पूर्वपदार्थप्रधानः' इत्याद्यव्ययीभावादिलक्षणानां लक्ष्यमात्रावृत्तित्वरूपमसंभवं प्रदर्शयति-भौतपूर्व्यादित्यादि। पूर्वं भूतं भूतपूर्वम्। भूतपूर्वमेव भौतपूर्व्यम्। स्वार्थे ष्यञ्। वृत्तेः पूर्वकाले(अर्थात् कुम्भस्य समीपमिति लौकिकविग्रहे) भूतं यत् पूर्वपदार्थविशेष्यकबोधजनकत्वं तदव्ययीभावसमासलक्षणं न भवति। जहत्स्वार्थावृत्तिपक्षे शक्तपदघटकवर्णानामिव वृत्तिघटकपदानामानर्थक्यात्पूर्वोत्तरपदयोरर्थवत्त्वाभावेनोत्तरपदार्थनिष्ठप्रकारतानिरूपितपूर्वपदार्थनिष्ठविशेष्यताकबोधजनकत्वस्योपकुम्भमित्यव्ययीभावे वक्तुमशक्यत्वात्। एतदेव दृष्टान्तेन स्पष्टयति-रेखागवयादिनिष्ठेति। रेखाकारो गवयः-गलकम्बलहीनो गोसदृशः पशुः, रेखागवयश्चित्रितो गवय इत्यर्थः। तन्निष्ठं यद्विषाणलाङ्गूलादि, तस्य चेतनपशुगतत्वाभावान्न तच्चेतनपशोर्लक्षणं भवितुमर्हिति। तदेव लक्षणं भवति यन्नियमतो लक्ष्यवृत्ति भवति। यथा सास्नावत्त्वे सति शृङ्गित्वमिति गोर्लक्षणे कृते सास्नाशृङ्गयोर्वास्तवगोव्यक्तौ सत्त्व एव तेन लक्षिता गोव्यक्तिर्ज्ञातुं शक्या, अन्यथा नेति प्रसिद्धम्। अत एवैकशफवत्त्वस्य गव्यसत्त्वान्न तद्गोर्लक्षणं भवति। चित्रितगवयनिष्ठलाङ्गूलादेर्वास्तवपशुगतत्वाभावः स्पष्ट एव। यदि चाऽऽलेख्यगतलाङ्गूलादेः प्राण्याश्रितत्वमेवेति मन्येत तर्हि चित्रितगयवगतचरणच्छेदे प्राणिगतचरणस्याप्युच्छेदो जायेत। किं च चित्रितगोवधे गोहत्याप्रयुक्तप्रायश्चित्तापत्तिश्च स्यात्। तस्मान्मार्तिकाद्यचेतनपशुगतलाङ्गूलादेः प्राणिपशुगतत्वाभावान्न तद्वास्तवपशोर्लक्षणं भवति, यथैवं, तद्वत् कार्यं शब्दं मन्वतां वाक्यादेव वृत्तिनिष्पत्तेर्वृत्तेः पूर्वं भवं यद्विग्रहवाक्यं रेखागवयस्थानीयं, तादृशवाक्यगतपूर्वपदार्थनिष्ठविशेष्यताकबोधजनकत्वस्य वास्तवपशुस्थानापन्नाव्ययीभावेऽसत्त्वान्न तदव्ययीभावस्य लक्षणं भवतीति भावार्थः। एवमेवोत्तरपदार्थनिष्ठविशेष्यताकबोधजनकत्वस्यापि न तत्पुरुषलक्षणत्वं संभवति। एवमग्रेऽपि तादृशतादृशार्थबोधजनकत्वस्य तादृशतादृशसमासगतत्वाभावान्न तत्तत्तत्तत्समासलक्षणं भवतीत्यूह्यम्। तत्र विशिष्टशक्तिस्वीकारेणावयवानां वर्णवन्नैरर्थक्यादित्याशयः। तादृशतादृशबोधजनकत्वस्य तत्तत्समासनिष्ठत्वाभावेन तत्तत्समासलक्षणत्वाभावेऽपि तत्तत्समासबोधकत्वं भवत्येत्याह-बोधकता त्विति। तद्वदेवेति। रेखागवयादिवदेवेत्यर्थः। यथा रेखागवयाद्यचेतननिष्ठरेखाकारलाङ्गूलादेः प्राणिपशावविद्यमानत्वेऽपि सादृश्यात्प्राणिपशुगतलाङ्गूलाद्युपस्थापकत्वात्तद्‌द्वारा प्राणिपशुबोधकत्वं, तथा वृत्तिप्राक्तनिविग्रहवाक्यगतपूर्वपदार्थादिमाधान्यस्य वृत्तावविद्यमानत्वेऽपि सादृश्याद्‌वृत्तिनिष्ठतत्तदर्थविशेष्यकबोधोपस्थापकत्वात्तद्‌द्वाराऽव्ययीभावादिसमासबोधकत्वं तस्येति भावः। अत एव सोऽपि-प्राचीनोक्त उत्सर्गोऽपि आस्थितः स्वीकृत इत्युक्तं कारिकायामिति भावः।। 29 ।।
ननु जहत्स्वार्थवृत्तिपक्षे पूर्वपदार्थादिनिष्ठविशेष्यताकबोधजनकत्वस्याव्ययीभावादौ दुर्वचत्वेऽप्यजहत्स्वार्थवृत्तिपक्षे तस्य सुवचत्वमित्याशयवानाह-नन्वित्यादि। पूर्वपदार्थप्राधान्यादीति। पूर्वपदार्थ-उत्तरपदार्थ-अन्यपदार्थ-उभयपदार्थ-निष्ठमुख्यविशेष्यताकबोधजनकत्वमित्यर्थः। समासे-अव्ययीभावादौ। सुवचमिति। सुखेन वक्तुं शक्यमित्यर्थः। तथाच प्राचीनोक्तानि लक्षणानि नासंभवदुक्तिकानीति भावः। समर्थः पदविधिरिति सूत्र इति। तत्र सामर्थ्यं द्विविधम्। व्यपेक्षालक्षणं, एकार्थीभावलक्षणं च। तयोर्मध्ये स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्‌व्यपेक्षाभिधं सामर्थ्यम्। विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः, संबन्धार्थः समर्थ इति व्युत्पत्तेश्च। इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति। तत्र चैकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति। तथा राज्ञः पुरुषोऽश्वश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, क्रद्धस्य राज्ञः पुरुष इति च। एकार्थीभावलक्षणं सामर्थ्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादकत्वरूपम्। संगतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तेः। संगतिः संसर्गश्चैकीभाव एव यथा संगतं घृतं तैलनेति, एकीभूतमिति गम्यते। यथा वा संसृष्टोऽग्निरिति, एकीभूत इति गम्यत इति भाष्याच्च। इदं च सामर्थ्यं राजपुरुष इत्यादिवृत्तावेव। अत एव ऋद्धस्य राजपुरुष इत्येवं पुरुषविशेषणे रात्रज्ञि ऋद्धत्वविशेषणं नान्वेति। विशिष्टस्यैकपदार्थतया राज्ञः पदार्थैकदेशत्वादित्याद्यर्थकमुक्तम्। अनेकधेति। एकार्थीभावः सामर्थ्यमधिकारः, व्यपेक्षा सामर्थ्यमधिकारः, द्विविधं सामर्थ्यमधिकारः, इति त्रयः पक्षाः, एवं समर्थसूत्रस्य परिभाषात्वे, एकार्थीभावः सामर्थ्यं परिभाषा चेत्येवमादिपक्षत्रये सति षट् पक्षाः संभवन्तीति अनेकधेत्यस्य षड्‌धेत्यर्थः। जहत्स्वार्थेति। तत्र जहत्स्वार्थत्वमेवकार्थीभावः, अजहत्स्वार्थत्वमेव च व्यपेक्षेति पर्यवस्यति। एकार्थीभावपक्षे समुदायशक्त्यैव विशिष्टार्थोपस्थितिसंभवेऽवयवा न स्वार्थोपस्थितिं कुर्वन्ति, वैयर्थ्यात्। अजहत्स्वार्थतां विना परस्परमन्वयाकाङ्क्षारूपव्यपेक्षाया असंभवाद्‌व्यपेक्षापक्षेऽवयवाः स्वार्थोपस्थापका एवेति भावः। उक्तव्यवस्थेति। पूर्वपदार्थप्रधानोऽव्ययीबाव इत्यादिव्यवस्थेत्यर्थः। नासंभविनीति। उपकुम्भमित्याद्यव्ययीभावादौ तस्याः संभवात्। यथा सूपप्रतीत्यादावव्याप्त्यतिव्याप्तिरूपो दोषः संभवति तथाऽयं समनन्तरमभिहितोऽसंभवो न संभवतीत्यर्थः। एवमनुसंधायाऽऽह-जहत्स्वार्थाऽजहत्स्वार्थेति। जहति पदानि स्वार्थमिति। जहीति शत्रन्तप्रकृतिकजसन्तं, नतु लडन्तं क्रियापदम्। सप्तमीविशेषणे(पा.सू.2-2-35)इति सूत्रे सप्तमीग्रहमाज्ज्ञापकात्क्वचिद्‌व्यधिकरणानामपि पदानां बहुव्रीहिर्भवतीति भावः। जहति स्वानि-वृत्तिघटकीभूतपदानि, यं स जहत्स्वः, तादृशोऽर्थो यस्यामिति समानाधिकरणपदकोऽपि संभवतीति परे। वृत्तौ पदानामानर्थक्यमिति। शक्तपदघटकवर्मानामिव वृत्तिघटकपदानामानर्थक्यानङ्गीकारे शक्तघटकवर्णानामप्यानर्थक्यं न स्यादिति भावः। ननु शक्तघटकवर्णानां कुत्राप्यर्थाबोधकतया नैरर्थक्यसंभवेऽपि राजादिपदानां वाक्येऽर्थबोधकतया समासे वाक्यदृष्टार्थबोधजनकत्वेन च नैरर्थक्यासंभव इत्यभिप्रेत्याऽऽह-अयं भाव इत्यादि। समासशक्त्यैवेति। समुदायशक्त्यैवेत्यर्थः। एवकारेणावयवशक्तेर्व्यावृत्तिः। समुदाय शक्तिश्चेत्थम्-राजपुरुषादिपदं राजसंबन्धवत्पुरुषादौ शक्तमित्याकारिका। साचाऽऽवश्यक्येव। अन्यथा संबन्धस्य वृत्तिघटकपदावाच्यतया बोधे तद्भानानुपपत्तेः। न च राज्ञः पुरुष इति व्यस्ते संबन्धस्य संसर्गतयैव भानाङ्गीकारस्याऽऽवश्यकतया वृत्तावपि संसर्गतयैव तद्भानस्योचितत्वाद् वृत्तिविग्रहयोः समानार्थत्वस्य नानुपपत्तिश्चेति वाच्यम्। वाक्यजबोधे संबन्धस्य प्रकारतया भानानुपपत्तेः। तथा च राज्ञः पुरुष इत्यत्रापि अवयवशक्तिसहकृतसमुदायशक्त्यैव विशिष्टार्थोपस्थितिः। वृत्तौ तु केवलसमुदायशक्त्यैव विशिष्टार्थोपस्थितिः। अवयवपदानां नैरर्थक्यात्। किंच रथंतरं शुश्रूषेत्यादाववयवार्थाननुभवात्समुदायशक्तिरावश्यिकैवेति भावः। अधिकमग्रे वक्ष्यते। राजविशिष्टेति। स्वामित्वादिसंबन्धेन राजविशिष्टपुरुषेत्यर्थः। भानसंभवे-सतीत्यर्थः। तद्बोधकत्वमिति। वृत्तिघटकपदयो राजाद्यर्थबोधकत्वं न कल्प्यमित्यन्वयः। प्रयोजनाभावाद् बोधावृत्तिप्रसङ्गाच्चेति भावः। ननु संभेदेनान्यतरवैयर्थ्यमितिन्यायेन न बोधावृत्तिप्रसङ्गः। न्यायस्वरूपं त्वेवम्-संभेदः संगमः। संभेदः सिन्धुसंगम इत्यमरकोशात्। कृष्णावेन्नयोर्नद्योः संगमेनान्यतरस्या वेन्नानद्यावैयर्थ्यं नैरर्थक्यं, कृष्णान्तर्भूतत्वेन कृष्णानद्यैव तत्कार्यकरणेन प्रयोजनाभावात्। अत एव संगमादूर्ध्वं कृष्णानाम्नैव व्यवहारो, न वेन्नानाम्ना। तथा च संगमेन संमेलनोनान्यतरस्य प्रयोजनाभावाद् वैयर्थ्यं लोकप्रसिद्धमिति भावः। तद्वदेकत्र स्थले द्वयोर्वाचकयोः, प्रत्यययोर्द्योतकयोः, प्रकृतिप्रत्यययोर्वा वाचकद्योतकयोश्च संमेलने सति अन्यतरस्य नैरर्थक्यं, एकस्य वाचकत्वमविवक्षितव्यमित्यर्थः। अत एव द्वावपुपावित्पत्र द्विशब्देन द्वित्वार्थस्योक्तत्वादपूपाविति द्विवचनस्यानुवादकत्वाद्‌द्विवचनस्य दित्वार्थकत्वाद्‌द्वावित्यस्यानुवादकत्वाद्वा न द्वौ द्वाविति द्वित्वसंख्यावृत्त्या चत्वारोऽपूपा इत्यर्थबोधापत्तिः। द्विर्वद्धं सुबद्धमितिन्यायेन तदर्थदाढ्‌र्यार्थमुक्तार्थानां प्रयोगस्यापि लोकसिद्धत्वादिति भावः। संभेदेनेत्यादिनिरुक्तन्यायस्यापरोऽप्यर्थः संभवति-संभेद सति अन्यतरवैयर्थ्यं न भवति। किंतु द्वावित्यत्रद्वियोरप्युपयोगोऽस्ति। यथा-द्विपुत्र इत्यादौ द्विशब्देनानुद्‌भूतावयवभेदो द्वियोः समूह उपस्थाप्यप्ते। द्वावित्यत्र तु प्रकृतितः समूहो द्विवचनेनोद्‌भूतावयवभेदत्वेन प्रत्याय्यत इति विशेषसत्त्वान्न कस्यापि वैयर्थ्यमिति तात्पर्यात्। तथा च प्रकृतेऽवयवानामर्थबोधकत्वेऽप्यनुवादकत्वाद्बोधावृत्त्यप्रसङ्गान्न किंचिद्बाधकमित्याशङ्क्याऽऽह-वृषभेति। निरुक्तन्यायेन वृत्ताववयवानां नैरर्थक्यकल्पनमेव युक्तमिति वृषभयावकशब्दष्टान्तेन स्पष्टयति। अयं भावः-वृषशब्दस्य वृषभशब्दसमानार्थकत्वेऽपि वृषभशब्दघटकस्य वृषशब्दस्य न तदर्थबोधकत्वं, किंवा यावशब्दस्य यावकशब्दसमानार्थकत्वेऽपि, यावकशब्दघटकस्य यावशब्दस्य न तदर्थबोधकत्वमित्येवमनुभवसिद्धम्। तथा च तादृशानुभवनिर्वाहाय शक्ततावच्छेदकाननुप्रविष्टाया एवाऽऽनूपूर्व्याः शक्ततावच्छेदकत्वमित्येवं नियमोऽवश्यमङ्गीकार्यः। यदि च यावकशप्दघटकयावशब्दस्यार्थवत्त्वमङ्गीक्रियेत तर्हि यावकशब्दनिष्ठा या शक्ततावच्छेदकानुपूर्वो यावकेति यकारादिरकारान्ता, तत्वविष्टाया यावेति वर्णानुपूर्व्याः शक्ततावच्छेदकत्वं स्वीकार्यं स्यादिति पूर्वोक्तनियमभङ्गादनुभवविरोधः स्यादितिभावः। तथा च यावशब्दो वाक्यान्तरविषयोऽन्य एव, अन्यश्च यावकशब्द इति तात्पर्यम्। एवं राजपुरुषेत्यादिवृत्तिघटकावयवपदानामर्थवत्त्वस्वीकारे समुदायनिष्ठा शक्ततावच्छेदिका राजपुरुषेत्याकारिका या वर्णानुपूर्वो, तादृशवर्णानुपूर्वीप्रविष्टाया राजेति, पुरुषेति वर्णानुपूर्व्याः शक्ततावच्छेदकत्वं स्वीकार्यं भवेत्। तच्चोपर्युक्तनियमविलोधादयुक्तमिति भावः। तथा च कथं वृत्तिघटकपदानामर्थबोधकत्वसंभव इत्याशयः। ननु यावयावकादिशब्दानां पर्यायतया यावकशब्दघटकयावशब्दस्यार्थबोधकत्वाभावेऽपि राजपुरुषशब्दयोः समानार्थकत्वाभावेन समासघटकराजादिपदानां नैरर्थक्ये न किंचित्साधकं दृश्यते। वृषवृषभादिसमानार्थशब्दस्थले एव शक्यतावच्छेदकानन्तर्गताया एवाऽऽनुपूर्व्याः शक्ततावच्छेदकत्वमिति नियम इति प्रकृते न दोषः। किंच योगरूढे पङ्कजादिशब्दे शक्ततावच्छेदसमुदायनिष्ठानुपूर्वीप्रविष्टाया अवयवानुपूर्व्याः शक्ततावच्छेदकतया पूर्वोक्तनियमासंभवश्चेत्यनुसंधाय वृत्ताववयवानां स्वार्थबोधकत्वे बाधकमाह-अन्यथा राजपदेनेति। अन्यथा-समासाद्यवयवानां स्वार्थबोधकत्वे। राज्ञः पुरुष इति वाक्ये राजपदाद्राज्ञो यथा स्वातन्त्र्येण(इतरानन्वितत्वेन)उपस्थितिस्तथा समासेऽपि राजपदाद्राज्ञः स्वातन्त्र्येणोपस्थितिसत्त्वाद्राज्ञि ऋद्धस्येति विशेषणान्वयेन ऋद्धस्य राज्ञः पुरुष इतिवदृद्धस्य राजपुरुष इत्यापद्येतेत्यर्थः। जहत्स्वार्थत्वे तु राजाद्यर्थस्य पुरुषविशेषणत्वेनैवोपस्थिततया पदार्थैकदेशत्वाद्विशेषणान्वयाभावान्न दोषः। एवं च वृत्ताववयवानां स्वातन्त्र्येणानुपस्थितत्वमेव र्नेरर्थक्यं, नतु वर्णवत्सर्वथाऽनर्थकत्वमित्याशयः। अजहदिति। न जहति स्वार्थं यस्यामित्यनेन व्यधिकरणपदोऽयं बहुव्रीहिरिति प्रदर्शितम्। न जहति स्वानि यं सोऽजहत्स्वः, अजहत्स्वः-अर्थो यस्यामिति समानाधिकरणपदको बहुव्रीहिगर्भो बहुव्रीहिः पूर्ववद्बोध्यः। ननु समुदायशक्त्येव राजादिविशिष्टपुरुषादिबोधसंभवेऽवयवानां पूर्वोक्तरीत्या न स्वार्थोपस्थापकत्वं संभवतीत्यजहत्स्वार्थत्वपक्षोऽसंभवदुक्तिक इत्याशङ्कां निराचष्टे-अयमभिप्राय इति। नातिरिक्तेति। क्लृप्तावयवशक्त्यपेक्षयाऽतिरिक्तेत्यर्थः। कल्पकस्यान्यथानुपपत्तिरूपप्रमाणस्यासत्त्वादिति भावः। कल्पकाभावादिति ननु राजादिसंबन्धप्रतीतिरेवातिरिक्तशक्तिकल्पिका। न चानुपस्थितस्यापि संबन्धस्य संसर्गतया भानमविरुद्धमिति वाच्यम्। नामार्थयोर्भेदसंबन्धेनान्वयस्य व्युत्पत्तिविरुद्धत्वात्। तदेतदभिप्रेत्याऽऽह-क्लृप्तराजादिपदादेवेति। तकत्ल्पनस्येति। समुदायशक्तिकल्पनस्येत्यर्थः। गौरवपराहतत्वादिति। अवश्यक्लृप्तप्रत्येकावयवशक्त्यैव बोधनिर्वाहे पुनः समुदाये शक्तिकल्पनस्य गौरवेण निरस्तत्वादित्यर्थः। नामार्थयोरभेदान्वय इति व्युत्पत्तेः समासातिरिक्तविषयत्वेन संकोचाद्भेदसंबन्धेनान्वयोपपत्तेः संसर्गविधया स्वस्वामिभावादिसंबन्धप्रतीतिरपि नानुपपन्नेति भावः। ननु नामार्थयोरित्यत्र वृत्तिघटकेतरत्वविशेषणदानेन वृत्तिघटकेतरनामार्थयोरभेदान्वय इत्यर्थकरणे गौरवमित्यत आह-क्लृप्तशक्तित्यागोऽपीति। वृत्तेः प्राक् क्लृप्तायाः प्रत्येकपदनिष्ठशक्तेः परित्याग इत्यर्थः। अप्रामाणिक इति। वृत्तेः प्रागर्थवत्त्वं, वृत्त्यनन्तरं चानर्थकत्वमित्येवमेकस्यैव पदस्यासमाससमासभेदेनार्थवत्त्वानर्थकत्वकल्पनस्यायुक्तत्वात्, सप्तऋषीणामित्यादौ समासे पदान्तत्वप्रयुक्तप्रकृतिभावादिसिद्ध्यर्थं वृत्तिघटकपदानामर्थवत्त्वस्वीकारस्यैव सामञ्जस्याच्चेति भावः। ननु प्रत्येकपदनिष्ठशक्त्या राजाद्यर्थोपस्थितावपि विशिष्टशक्त्यनङ्गीकारे स्वामित्वादिसंमन्वेन राजविशिष्टपुरुष इत्येवं विशिष्टार्थानुपस्थितेस्तस्य शाब्दबोधविषयत्वं न स्यादत आह-तथा चेति। आकाङ्क्षादीति। आदिपदाद्योग्यतासंनिध्यादेर्ग्रहणम्। आकाङ्क्षा चैकपदार्थज्ञाने तदर्थान्वय्यर्थः क इत्येवं रूपा। योग्यता च परस्परान्वयप्रयोजकधर्मवत्त्वम्। संनिधिस्तु-प्रकृतान्षयबोदाननुकूलपदाब्यवधानम्। क्लृप्तशक्त्यैवेति। राजादिप्रत्येकपदार्थोपस्थितौ सत्यामाकाङ्क्षादिवशात्स्वस्वामिभावसंबन्धेन परस्परान्वयेन राजविशिष्टपुरुष इत्येवं विशिष्टार्थबोधस्य संभवान्न विशिष्टे शक्तिरावश्यिकेति भावः। अयमेवेति। क्लॄप्तावयवशक्त्यैव विशिष्टार्थबोधनिर्वाहात्समुदायशक्तिकल्पनाभावरूप एवेत्यर्थः। मतान्तरत्वेनेति। तथा च समर्थसूत्रे भाष्यम्-`परस्परव्यपेक्षां सामर्थ्यमेके' इति। चित्रगुरित्यादिबहुव्रीहावपि समुदायशक्येऽन्यपदार्थे चित्राद्यन्विताया गोः स्वस्वामिभावसंबन्धेनान्वय इति तत्रापि व्यपेक्षासंभवः। द्वंद्वेऽपि समुदायार्थे समूहे वृत्तिघटकपदार्थयोरवयवावयविभावसंबन्धेनान्वय इति तत्रापि व्यपेक्षासंभवोऽस्त्येव। अव्ययीभावतत्पुरुषादौ तु व्यपेक्षा स्पष्टैव। अन्यपदार्थादेः समुदायशक्यत्वे प्रमाणं तु-अनेकमन्यपदार्थे, चार्थे द्वंद्वः, इति च सूत्रमेव। व्यपेक्षाविरहादेव भार्या-राज्ञः, पुरुषो-देवदत्तस्य, इत्यादौ राजपुरुषादिपदयोर्न समास इत्यवगन्तव्यम्। अत्र मते प्रसक्तामापत्तिमुद्धर्तुमाह- न चात्रेति। विशेषणान्वयापत्तिरिति। राज्ञः, पुरुषो-देवदत्तस्य, इत्यादौ राजपुरुषादिपदयोर्न समास इत्यवगन्तव्यम्। अत्र मते प्रसक्तामापत्तिमुद्धर्तुमाह-न चात्रेति। विशेषणान्वयापत्तिरिति। राज्ञः पुरुष इति वाक्ये राज्ञः स्वातन्त्र्येणोपस्थितिसत्त्वाद्यथा तत्रर्द्धस्येति विशेषणान्वयो भवति तद्वद्‌राजपुरुषेति समासघटकराजपदार्थेऽप्यृद्धस्येति विशेषणान्वयः स्यात्। राजपदार्थस्य विशेषणान्वयहेतुभूतस्वातन्त्र्येणोपस्थितिसत्त्वादिति भावः। वार्तिकादिति। भाष्यवार्तिकमिदम्। विशेषणयोगे समासासाधुत्वस्य वार्तिकेन बोधनादित्यर्थः। समासादौ शक्त्यन्तरकल्पनापेक्षया वचनारंम्भं एव लघीयानिति तेषामाशयः। एतन्मतवादिनामिति। समर्थः पदविधिरिति सूत्रे सामर्थ्यं व्यपेक्षारूपमेवेति वदतां प्राचामित्यर्थः। व्यवस्थेति। व्यपेक्षापक्षे पूर्वात्तरपदयोरर्थवत्त्वसत्त्वात्पूर्वपदार्थप्रधान इत्यादिव्यवस्थेत्यर्थः सूषपादेति। अव्याप्त्यादिदोषसत्त्वेऽप्यसंभवरूपदोषानास्पदत्वान्नासंभविनीत्यर्थः। आवश्यकश्चायं पक्षः। समर्थसूत्र एकार्थीभावरूपसामर्थ्यस्यैव परिग्रहे पराङ्गवद्भावस्य संग्रहो न स्यात्। तत्रैकार्थीभावासंभवात्। न च पराङ्गवद्भावासंग्रह इष्ट एवेति वाच्यम्। तथा सति `सुबामन्त्रिते पराङ्गवत्' इति सूत्रानन्तरमेव समर्थसूत्रं कुर्यात्। किंच यत्ते दिवो दुहितर्मर्तभोजनमित्यादौ दिवःशब्दस्य पराङ्गवद्भावेन यथाऽऽष्टमिकामन्त्रितनिघातो भवति, तथा `ऋतेन मित्रावरुणावृधावृतस्पृशा' इत्यत्र ऋतेनेत्यस्यापि पराङ्गवद्भावेन षाष्ठिकामन्त्रिताद्युदात्तत्वापत्तिः। पदात्परत्वाभावेन पादादिस्थत्वेन चाऽऽष्टमिकनिघाताप्राप्तेः। व्यपेक्षारूपसामर्थ्यपक्षे तु समर्थपरिभाषाप्रवृत्तौ सत्यां, ऋतेनेत्यस्य आनशाथे इत्यर्थकाशाथे इति पदोपात्तव्याप्तिक्रियायामेवान्वयेन मित्रावरुणावित्यनेन व्यपेक्षाभावान्नोक्तदोषः, स्पष्टं चेदं वेदभाष्यादाविति ज्ञेयम्।
एवं वृत्तिद्वयं व्याख्याय स्मृतस्योपेक्षानर्हत्वरूपप्रसह्गसंगत्या वृत्तिभेदं व्याचष्ठे-ते पुनरितीति वृत्तेः-समासादिवृतेः, भेदं-भेदसंसर्गाद्यर्थप्रयुक्तं भेदमित्यर्थः। द्वे अपि वृत्ति इति। जहत्स्वार्थाजहत्स्वार्थरूपे द्वे अपि वृत्ती इत्यर्थः। त्रिविधे इति। भेदः संसर्ग उभयं चेति त्रिविधवाच्यसत्त्वाद्‌वृत्त्योस्त्रैविध्यमित्यर्थः। भेदशब्दस्य विशेषेऽपि प्रयोगदर्शनादभिप्रेतमर्थं दर्शयति-भेदअन्योन्याभाव इति। संसर्गाविनाभावी भेदः, संसर्गोऽपि भेदाविनाभावीति भेदसंसर्गयोर्यद्यपि समनियतत्वं तथाऽपि यदा भेदो वाच्यस्तदा संसर्गोऽनुमेयः। यदा च संसर्गो वाच्यस्तदा भेदोऽनुमेयः। भेदः संसर्गो वा सामर्थ्यमिति भाष्य उक्तं तत्र भेद इत्यस्य भेदवदर्थोपस्थापकत्वं, संसर्ग इत्यस्य च संसर्गवदर्थोपस्थापकत्वं सामर्थ्यमित्यर्थः। भेदवदित्यत्र तप एव धनं यस्य तपोधन इतिवदेवकारार्थान्तर्भावेण वृत्तिः। भेद एवास्ति यस्मिन्निति भेदवानित्यर्थः। एवं संसर्गः सामर्थ्यमित्यत्रापि बोध्यम्। यदि च वृत्तौ भेदसंसर्गौ न स्यातां तदा सामर्थ्यमेव न स्यात्। सामर्थ्यस्य भेदसंसर्गात्मकत्वात्। भेदसंसर्गरूपसामर्थ्यसत्त्वादेव राज्ञः पुरुषोऽश्वश्च, राज्ञः पुरुषो भार्यायाश्चेतिवद्राजपुरुषोऽश्वश्च, राजपुरुषो भार्यायाश्चेति न भवति। अतो भेदसंसर्गवानेवार्थो वृत्त्योपस्ताप्यत इत्यवश्यं वक्तव्यम्। एवं च भेदसंसर्गवदर्थप्रतिपादकत्वमेवैकार्थीभावसामर्थ्यामिति सिध्यतीति बोध्यम्। भेदसंसर्गौ च पार्थक्येन साहित्येन वा वृत्त्योपस्थाप्येते। भेदः संसर्ग उभयं वा सामर्थ्यमिति भाष्ये पक्षत्रयवर्णनानुरोधादिति तात्पर्यम्। तथा चेति। भेदस्य वाच्यान्तर्भावे चेत्यर्थः। राजपुरुष इत्यादौ बोदप्रकारं दर्शयति-अराजकीयभिन्न इति। अराजकीयः-राजभिन्नसंबन्धी, तद्भिन्न इत्यर्थः। राजभिन्नस्वामिको यः पुरुषः, तन्निष्ठप्रतियोगिताकभेदवान्, राजपुरुष इत्यस्यार्थ-। राजभिन्नासंबन्धीति यावत्। राजपुरुषे राजभिन्ननिष्ठस्वामितानिरूपितस्वत्वाभावो बोध्यत इति भावः। बालबोधार्थमुदाहरणम्-राजा-देवदत्तः, तत्स्वामिकः पुरुषो विष्णुमित्रः। राजभिन्नः चैत्रः, तत्स्वामिकः पुरुषः-मैत्रः, तादृशमैत्रापेक्षया विष्णुमित्रो भिन्न इति तादृशमैत्रनिष्ठप्रतियोगिताकभेदो विष्णुमित्रे इत्यर्थः। विष्णुमित्रे राजभिन्नस्य चैत्रस्य संबन्धो नास्तीति यावत्। लोके कश्चित्पुरुषोवैसाखः, ज्येष्ठनामानं पुरुषमराजकीयं-राजसंबन्धिभिन्नं मत्वा राजानं निन्दितुं प्रवृत्तः, अत्रान्तरे आषाढनामकपुरुषेण वैशाखं प्रति कथितं-अयं ज्येष्ठनामाराजपुरुष इति। तच्छ्रुत्वा राजनिन्दनाद्विरतो वैशाखः। एतावता राजपुरुषपदादराजकीयभिन्न इत्यर्थः स्पष्ट एव प्रतीयते। राजपुरुष इति समुदायस्य राजभिन्नसंबन्धिभिन्ने, शक्तिरिति भावः। श्रत्रेदं बोध्यम्-यथा राजपुरुषे विष्णुमित्रे राजभिन्नस्य चैत्रस्य संबन्धो व्यावर्त्यते तथा देवदत्तसंज्ञके राज्ञ्यपि राजपुरुषाभिन्नविष्णुमित्रभिन्नस्य मैत्रस्य संबन्धो व्यावर्त्यत इत्यन्योन्याभावरूपो भेदः। देवदत्तनामा राजा, स्वनिष्ठस्वामितानिरूपितस्वतासंबन्धो विष्णुमित्र एव, नान्यस्मिन्राजपुरुषभिन्ने मैत्र इत्यवगच्छति, एवं राजपुरुषो विष्णुमित्रोऽपि स्वनिष्ठस्वतानिरूपितस्वामितासंबन्धो देवदत्तनाम्नि राज्ञ्येव, नान्यस्मिंश्चैत्र इत्यवगच्छतीत्युभयतो व्यवच्छेदादन्योन्याभावः स्पष्टः। तदुक्तं भाष्ये-`इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तं, पुरुष निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येब्यः स्वेभ्यः' इति। एवं चावश्यं भेदो वाच्येऽतर्भावनीय इति भावः। इतरथा बाधकमाह-अस्यावाच्यत्व इति। भेदस्य वाच्यानन्तर्भावे चेत्यर्थः। राजपुरुषः सुन्दर इति। वृत्ति घटके पुरुषे यथा सुन्दर इति विशेषणान्वयो भवति तता देवदत्तस्येति विशेषणस्याप्यन्वयः स्यात्। यो राजस्वामिकः पुरुषः स सुन्दर इति बोधोदयवद्यो राजसंबन्धी पुरुषः। स देवदत्तसंबन्धीति यो राजस्वामिकः पुरुषः स देवदत्तस्वामिकोऽपीति बोधोदयात्। ततश्च राजपुरुषो देवदत्तस्य चेति प्रयोग आपद्येतेत्यर्थः। देवदत्तोऽत्र राजभिन्नः कश्चिन्नागरिकः। ननु वृत्तस्य वा विशेषणयोगो नेति वार्तिकेन वृत्तिघटकस्य विशेषणसंबन्धनिषेधात्कथं वृत्तिघटके पुरुषे सुन्दर इति विशेषणान्वय इति चेन्न। वृत्तिघटकस्याप्रधानस्यैव विशेषणसंबन्धनिषेधो, न तु प्रधानस्य, प्रधानस्य तु विशेषणसंबन्धो भवत्येवेति तदर्थात्। अत एव पुरुषो व्याघ्र इव शूर इत्यत्र प्रधानपुरुषनिरूपितविशेषणत्वस्य शूरपदार्थे सत्त्वेऽपि `उपमितं व्याघ्रादिभिः' इति समासप्रवृत्तिः स्यादिति तन्निषेधार्थं `सामान्याप्रयोगे' इति चरितार्थम्। तथा चात्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समातः। अन्यथा वृत्तिघटकस्य विशेषणसंबन्धनिषेधाद्विसेषणयोगे सति समासप्रवृत्तिरेव न स्यादिति समासनिषेधार्थं क्रियमाणं `सामान्याप्रयोगे' इतिवचनं व्यर्थं स्यात्। एवं च `सामान्याप्रयोगे' इति वचनमेव ज्ञापयति-भवति हि वृत्तिघटकस्यापि प्रधानस्य उपात्तविशेषणविजातीयविशेषणयोग इति ज्ञाप्यत इति भावः। ननु भेदस्य वाच्यान्तर्भावे सति राजपुरुषो देवदत्तस्य चेति प्रयोगापत्तेः कथं निरसनमित्यत आह-तद्विरोधादिति। राजपुरुषपदाद्राजभिन्नासंबन्धीत्यर्थप्रतीते राजेतरनिरूपितस्वत्वसंसर्गस्य पुरुषे निषिध्यमानत्वाद्राजेतरस्य देवदत्तस्य पुरुषे यस्तथासंबन्धस्तस्य राजेतरसंबन्धनिषेधविरोधित्वान्न राजपुरुषो देवदत्तस्य चेति प्रयोगपत्तिरिति भाव-। ननु राजसंबन्धी राजनिरूपितसंबन्धवानिति यथाश्रुतबोधादेव राजपुरुषो देवदत्तस्य चेति प्रयोगवारणं सुशकम्। राजेतरसंबन्धी नेत्यार्थिकप्रतीते राजनिरूपितसंबन्धस्य राजेतरनिरूपितसंबन्धविरोधित्वात्। तथा च भेदस्य वाच्यानन्तर्भावेऽपि न क्षतिरिति चेद्‌भ्रान्तोऽसि। राजेतरसंबन्धिनि पुरुषे, बाधकाभावाद्राजसंबन्धस्यापि संभवाल्लोके तथा प्रत्यक्षं दृष्टत्वाच्च राजसंबन्धस्य राजेतरसंबन्धविरोधित्वाभावेनाऽऽर्थिक्या अपि राजेतरसंबन्धी नेत्येवं प्रतीतेर्नियमतोऽनुदयादिति भावः। संसर्ग एव वाच्यो, न भेद इति मतमवतारयितुं भूमिकामारचयति-राजसंबन्धवानिति। राजनिरूपितस्वत्वसंबन्धवानित्यर्थः। शाब्दं भानमिति। इत्येतादृशज्ञानं शब्दात्प्रथमतो भवति, अराजकीयभिन्नः-राजभिन्नासंबन्धीत्येवं भेदज्ञानं तु तात्पर्यग्राहकवशात्पश्चाज्जायत इति प्रथमोपस्थितत्वरूपान्तरङ्गात्वात्संसर्ग एव वाच्य इत्याशयेनाऽऽहृ-संसर्ग इति। भेदस्तु तात्पर्यग्राहकसापेक्षत्वेन बहिरङ्गत्वान्न स वाच्यः किं त्वार्थिक इति भावः। यदा तु राजसंबन्ध्येव पुरुषः किंचित्कार्यार्थमपेक्ष्यते तदा राजपुरुष इत्यत्र संसर्गो वाच्य इत्यर्थः। इदानीमुभयं वाच्यमिति मतं दर्शयितुं पातनिकामाह-विनिगमनाविरहमिति। भेद एव वाच्योऽथवा संसर्ग एव वाच्य इत्यनयोर्मध्ये एकतरनिश्चायकप्रमाणाभावमित्यर्थः। अस्वामिकेऽपीति। यश्च न राजसंबन्धी, नापि राजभिन्नसंबन्धी तत्र, सर्वथा स्वामिसंबन्धरहिते स्वतन्त्रेऽपीत्यर्थः। प्रयोगापर्त्ति चेति। स्वामिसंबन्धशून्येऽपि राजपुरुष इति प्रयोगापत्तिमित्यर्थः। भेद एव वाच्य इति मत इयमापत्तिः। तन्मते हि राजपुरुष इत्यस्याराजकीयभिन्नः-राजभिन्नासंबन्धीत्यर्थः। राजेतरनिरूपितसंबन्धरहित इति यावत्। तत्र राजेतरसंबन्धराहित्यं यथा राजसंबन्धिनि पुरुषेऽस्ति तथा स्वामिसंबन्धशून्ये पुरुषेऽपि तत्संभवतीति अस्वामिकेऽपि राजपुरुष इति प्रयोग स्वामिसंबन्धशून्ये पुरुषेऽपि तत्संभवतीति अस्वामिकेऽपि राजपुरुष इति प्रयोग आपद्येतेत्यर्थः। तदेतन्मनस्यनुसंधायाऽऽह-उभयं वेति। भेदः संसर्गश्चेत्यर्थः। तथा चेति। उभयस्य वाच्यत्वे सति चेत्यर्थः। भेदसंसर्गौं सामर्थ्यमिति भाष्य उक्तं तस्यायमाशयः-भेदसंसर्गयोः समनियतत्वादेकतरकोटिनिश्टायकप्रमाणाबावादुभयं वाच्यमित्यर्थः। तथा च वृत्तौ राजपदसंनिदानात्पुरुनषपदेनैव राजसंबन्धवती राजान्यस्वामिसंबन्धाभाववती च या पुरुषव्यक्तिः सोपस्थाप्यते। अतो न राज्ञः स्वान्तरेम संबन्धः। राजपदस्यार्थाभावात्। नापि पुरुषस्य स्वाभ्यन्तरेण संबन्धः। राजसंबन्धस्यैव पुरुषेण गृहीतत्वादिति भावः। एतदाशयेनाऽऽह--अराजकीयभिन्नो राजसंबन्धवांश्चेति। अराजकीयभिन्नत्वविशष्टराजसंबन्धवति राजपुरुष इति समुदायस्य शक्तेरिति भावः। तथा चास्वामिकेऽराजकीयभिन्नत्व(राजभिन्नसंबन्धिभिन्नत्व)सत्त्वेऽपि राजसंबन्धाभावान्न राजपुरुष इति प्रयोगापत्तिरित न किंचिद्‌दूषणमित्याशयः।। 30 ।।
व्यपेक्षावादस्येति। अजत्स्वार्थवृत्तिरूपत्वेन वर्णितस्येत्यर्थः। युक्तीति। वृषभयावकशब्दघटकयोर्वृषयावशब्दयोरनर्थकत्ववद्‌वृत्तिघटकयो राजपुरुषपदयोरनर्थकत्वकल्पनमित्युक्तयुक्तिगौरवरूपवक्ष्यमाणयुक्तीत्यर्थः। भाष्येति। `ना नाकारकान्निगातयुष्मदस्मदादेशप्रतिषेधः' इत्यादिभाप्येत्यर्थः। विरुद्धत्वादिति। निरुक्तयुक्तिभाष्यविरोधादित्यर्थः। तन्मूलक इति। व्यपेक्षावादमूलक इत्यर्थः। व्यपेक्षावादे पूर्वोत्तरपदयोरर्थवत्त्वसत्त्वादिति भावः। अयुक्त इति। व्यपेक्षावादस्य युक्तिभाष्यविरुद्धत्वेनायुक्तत्वे सति तदुपजीव्यस्य पूर्वपदार्थप्रधान इत्याद्युत्सर्गस्याप्ययुक्तत्वमिति भावः। अयुक्तोऽप्युत्सर्गो रेखागवयवत्परम्परया समासार्थबोधको भवतीत्याह-किं त्विति। रेखागवयेति। यथा हि रेखागवयस्थितलाङ्गूलादिना चेतनपुशुस्थितलाङ्गूलाद्यवयवानां बोधस्येन च तादृशावयववान्पशुर्बुध्यत इति परम्परया वास्तवपशुं बोधयति तद्वत्पूर्वपदार्थप्रधान इत्याद्युत्सर्गेण समासादिवृत्तिनिष्ठशक्तेर्बोधः, तेन च समासादिवृत्त्यर्थो बुध्यत इति परम्परयोत्सर्गो विशिष्टार्थं बोधयतीति मन्यमानः समादधाति-समासे खलु भिन्नैवेति। बहूनां वृत्तिधर्माणामिति। न्यूनतां परिहर्तुमाह-समास इति वृत्तिमात्रोपेति। कृदन्तादिवृत्तीत्यर्थः। मात्रशब्दः कृत्स्नार्थक इति भावः। एकोपस्थितिजनकसमुदायशक्तिरूपवृत्त्याश्रयत्वात्कृदन्तादीनां वृत्तिरिति व्यवहारः। पदविधिरिति। विधीयत इति विधिः, कर्मणि किप्रत्ययः। कार्यमित्यर्थः। पदानां विधिरिति शेषलक्षणषष्ठ्यन्तेन समासः। पदसंबन्धीत्यर्थः। तथा च पदानां सतां यत्कार्यं विधीयत इत्यर्थः। समर्थपदं व्याचष्टे-विग्रहवाक्येति। विशेषेण गृह्यते ज्ञायते समासार्थोऽनेनेति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यथा राजपुरुष इत्ययं समासः, तदर्थकं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्दः समर्थः, अतोऽपि तत्प्रतीतेः, वृत्त्यर्थावबोधकवाक्यस्यैव विग्रहत्वात्तदर्थाभिधाने समासादिः शक्त इति भावः। स तु राजविशिष्टः पुरुष इति। एतादृशः समासादिः समर्थ इत्यर्थः। समर्थ इत्यस्य शक्तः सन् साधुरित्यर्थः। भाष्याल्लाभादिति। तत्र हि पृथगर्थानामैकार्थीभावः सामर्थ्यं, राज्ञः पुरुष इति वाक्ये पृथगर्थानि, समासे एकार्थनीत्युक्तम्। तत्र सामर्थ्यमसन्न वचनशतेनापि विधातुं शक्यत इति समर्थस्य-सामर्थ्यविशिष्टस्य साधुत्वं विधीयत इति लभ्यत इति भावः। पदोद्देश्यकेति। पदानां विधिरिति संबन्धसामान्यषष्ठ्या समासे वैवक्षिकः पाश्चात्यबोधविषयोऽयमर्थः। न तूद्देश्यविधेयभावरूपसंबन्धाभिधायिन्या तया समासः। तादृशसंबन्धस्य संसर्गतयैव भानस्यानुभवसिद्धत्वेन समासे तदयोगात्। नीलमुद्दिश्य घटविधायके नीलो घट इत्यादौ षष्ठीवारणाय तस्यागत्या षष्ठ्यर्थत्वाभावाच्च। यत्तु समासस्थल उद्देश्यविधेयभाव एव न प्रतीयत इति तन्न लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यादौ प्राप्ताप्राप्तविचारेणोष्णीषाद्युद्देस्यकलौहित्यादिविधेयकपाश्चात्यबोधस्याखिलानुभवसिद्धत्वादिति ज्ञेयम्। पञ्चस्वपि बृत्तिष्वस्त्येवेति। पदशब्देनात्रार्थवद् गृह्यते, नतु सुमन्तमित्यर्थः। तेनकशेषे कृदन्तादौ च नाव्याप्तिः। पदशब्देन विभक्त्यन्तस्य ग्रहणे तु राजपुरुष इत्यादौ समासे औगगव इत्यादौ तद्धितान्ते च पदविधित्वं स्पष्टमेव। कृतामपि उपपदनिमित्तकानां `कर्मण्यण्' इत्यादीनां परम्परया पदविधित्वम्। सनाद्यन्तधातुषु क्यजादीनां सुबन्ताद्विधानेन सुब्धातुषु पदिविधित्वम् एकशेषस्यापि द्वंद्व इत्यनुवृत्त्या विधानाद्यथाकथंचित्पदविधित्वं निर्वाह्यम्। कृत्तद्धितेत्यत्र कृत्पदेन कृदन्तं, तद्धितपदेन च तद्‌घटितं गृह्यते। तेन बहुपटुः, सर्वक इत्यनयोर्नासंग्रहः। कृत्तद्धितयो समर्थपरिभाषाप्रवृत्त्या पटं करोति कुम्भमानयेत्यत्र न कर्मण्यण्, ऋद्धस्येपगोरपत्यमित्यत्र न तद्धितः। पृथगर्थानमेकार्थीभावः सामर्थ्यमिति बाष्यात्-यत्किंचित्पदजन्यपृथगुपस्थितिविषयार्थकत्वेन लोकदृष्टशब्दानां विशिष्टविषयैकशक्त्यैकोपस्थितिजनकत्वमेकार्थीभाव इति पर्यवसितम्। एकार्थीभाव इति च्विनिर्देशो गौणमेकाथत्वं समासघटकपदानामिति बोधयितिम्। यथा पदानामसत्त्वात्तत्सत्ताव्यवहारो गौमस्तथा तेषामेकार्थत्वव्यवहारोऽपीति बोध्यम्। विभक्त्यन्ते एकार्थीभाववारणाय लोकदृष्टशब्दानामित्यन्तम्। विभक्त्यर्थस्य यथा विभक्त्या प्रतिप्रत्तिस्तथा न केनाप्यन्येन शब्देनेति विभक्तेर्लोके पृथगुपस्थितिविषयार्थकत्वेन दृष्टत्वाभावान्न विभक्त्यन्तेऽतिप्रसङ्गः। औपगवादौ प्रत्ययानां पृथगुपस्थितिविषयार्थकत्वेन लोके दृष्टत्वाभावाद्यत्किंचित्पदजन्येत्युपस्थितिविशेषणम्। अपत्यरूपार्थस्योपगोरपत्यमस्ती यादावपत्यपदजन्यवृथगुपस्थितिविषयत्वेन लोकदृष्टत्तान्न तदसंग्रहः। यत्किंचित्पदजन्या या पृथगुपस्थितिः-इतरार्थासंबद्धत्वेनोपस्थितिस्तादृशोपस्थितिविषयोऽर्थो येषां ते यत्किंचित्पदजन्यपृथगुपस्थितिविषयार्थकाः, तेषांभावस्तत्त्वं, तेन तादृशार्थकत्वेन लोके दृष्टानां शब्दानां विशिष्टविषयिण्यैकया शक्त्या एकोपस्थितिजनकत्वमित्यर्थः। यथा राज्ञः पुरुष इति वाक्ये राजशब्दात्पुरुषपदार्थासंबद्धत्वेन राजपदार्थोपस्थितिः, पुरुषपदाच्च राजपदार्थासंबद्धत्वेन पुरुषपदार्थोपस्थितिरिति लोके पृथगुपस्थितिविषयार्थकत्वेन दृष्टयो राजपुरुषपदयो राजविशिष्टपुरुषयिण्यैकशक्त्या राजविशिष्टपुरुष इत्याकारकैकोपस्थितिजनकत्वमिति लक्षणसमन्वयः। राजपुरुष इति समुदायस्य राजविशिष्टपुरुषे शक्तिः। वाक्ये पृथगर्तोपस्थित्यनन्तरं परस्परमाकाङ्क्षादिवशादन्वयः, समासादिवृत्तौ तु परस्परमन्वितत्वेनवार्थोपस्थितिरिति तात्पर्यम्। एतच्चैकार्थीभावरूपं सामर्थ्यं वृत्तावेवेति कृत्तद्धितादिपञ्चस्वप्यावश्यकम्। तत्र राजपुरुष इत्यादिसमासे, औपगव इत्यादितद्धितान्तविशेषे च विग्रहवाक्यार्थाभिधानसामर्थ्यरूपैकोपस्थितिजनकत्वसत्त्वाद्‌वृत्तित्वं स्पष्टमेव। व्याकरणमधीते वैयाकरणः, पचतीति पाचकः, इत्यत्र तद्धितकृदर्थबोधकाख्यातस्य कर्त्रर्थविशेष्यकबोधजनकत्वाङ्गीकारान्न विग्रहवाक्यार्थाभिधानसामर्थ्यस्य क्षतिरिति तत्रापि वृत्तित्वमस्त्येव। एकशेषे तु न वृत्तित्वं मानाभावात्। उक्तैकार्थीभावासंभवेन परार्थान्वितस्वार्थोपस्तापकत्वाभावात्। तत्र स्ववृत्त्यैव तत्तत्समूहरूपार्थस्य भानमिति शेखर उक्तत्वादिति बोध्यम्। ननु पङ्कजशब्दस्याप्युपपदसमासत्वेन तत्रापि पूर्वोक्तरीत्या विशिष्टशक्तिर्नेष्यत एवेति दृष्टान्तत्वेन तदुपादानमसंगतमिति मूलमन्यथा व्याचष्टे-विशिष्टशक्यस्वीकर्तॄणामिति। अस्य वृत्तावित्यादिर्बोध्यः। व्यपेक्षावादिना नैयायिकादीनामित्यर्थः। शक्तिसाधकमिति। वक्ष्यमाणरीत्या व्यपेक्षावादिमतोपरि दुषणप्रदर्शनविधया विशिष्टशक्तिसाधकमेवेदमिति भावः। वृत्तौ विशिष्टशक्त्यनङ्गीकुर्वतां व्यपेक्षावादिनां मते राजपुरुष इत्यादौ क्लृप्तराजपदाद्यवयवशक्त्यैव पदार्थोपस्थितौ परस्परमाकाङ्क्षादिवशाद्यथा विशिष्टार्थबोधो जायते तथा पङ्कजशब्दादपि विशिष्टार्थोपस्थितिसंभवेन रूढेरुच्छेद आपद्येतेत्यर्थः। ननु भवतु रूढेरुच्छेदः, इष्ट एव स इति चेन्नेत्याह-पङ्कजनिकर्तुरपीति। पङ्कजनिकर्तृत्वरूपेणेष्टस्यापीत्यर्थः। रूढेरुच्छेदमुपपादयति-योगादेवेति। योगोऽवयवशक्तिस्तयैवेत्यर्थः। तत्र व्युत्पत्तिवैचित्र्येण--अर्थबोधकशक्तेर्विलक्षणसामर्थ्येन नामार्थस्यापि पङ्कस्य जनधात्वर्थोत्पत्तावधिकरणतानिरूपकत्वसंबन्धेनान्वयः। तादृशोत्पत्तेश्च डप्रत्ययार्थकर्तर्याश्रयतासंबन्धेनान्वयः। एवं च पङ्काधिकरणकोत्पत्त्याश्रय इति बोधोपपत्तौ सत्यां नैष्फल्यात्समुदायशक्तिर्न सिध्येदिति तदुच्छेदः स्यादिति भावः। पङ्काधिकरणकोत्पत्त्याश्रयत्वेन पद्मस्यापि बोदविषयत्वसंभवेऽपि पद्‌मत्वेन रूपेण पद्‌मबोधार्थमेकार्थीभावरूपा समुदायशक्तिः कल्प्यत इत्याशङ्क्य निराचष्टे-न च पद्‌मत्वरूपेणेत्यादिना। उपस्थितय इति। पद्‌मत्वावच्छिन्ने शक्तिं विना पद्‌मत्वरूपेण पद्‌मोपस्थितेरसंभवात्, तद्धर्मप्रकारकोपस्थितिं प्रति तद्धर्मावच्छिन्नशक्तिज्ञानस्य कारणत्वात्। घटत्वावच्छिन्ने घटपदं शक्तमित्याकारकशक्तिज्ञानं विना घटपदाद्‌घटत्वप्रकारकघटविशेष्यकबोधानुदयादिति भावः। विशेषरूपेण बोधार्थं समुदायशक्तिं कल्पयसि चेदन्यत्रापि तथा कल्पनापत्तिरिति प्रतिबन्दीमाह--चित्रग्वादिपदेऽपीति। चित्रा गावो यस्येति योगेन वित्रगोसंबन्धित्वसामान्यरूपेण गोस्वामिनो बोधसंभवेऽपि स्वामित्वेन विशेषरूपेणान्यपदार्थस्य स्वामिनो बोधार्थं चित्रग्वादिपदेऽपि समुदायशक्तिकल्पनाऽऽपद्येतेत्यर्थः। ननु चिवग्वादौ माऽस्तु समुदाबशक्तिकल्पना, किंतु समुदायलक्षणयोत्तरपदलक्षणया वा तत्र स्वामित्वेन स्वामिन उपस्थितिः स्यादितिचेत्पङ्‌कजशब्देऽप्येवं वक्तुं शक्यमित्याह--लक्षणयैवेत्यादिना सा सुवचेति। समुदायलक्षणया डप्रत्ययलक्षणया वा पङ्कजशब्देऽपि पद्‌मत्वेन पद्‌मोपस्थितिर्वक्तुं शक्येत्यर्थः। तथा च समुदायशक्तिर्नसिध्येदिति भावः। पङ्कजशब्दोऽन्यस्यापि योगरूढस्योपलक्षणमित्याह-एवमिति। रथकारपदेऽपीति। श्रव समुदायशक्तिर्न सिध्येदित्यस्यानुषङ्गेणान्वयः। ननु माऽस्त्वत्र समुदायशक्तिः, रथकर्मकोत्पादनकर्तृत्वेनैव बोधोऽनुभूयत इत्याशङ्क्याह-तथाचेति। वर्षासु रथकार इति। अनया श्रुत्या वर्षाकाले रथकारस्याग्न्याधानं विहितम्। अत्र रथकारशब्दस्त्रैवर्णिकातिरिक्ते कस्मिंश्चिज्जातिविशेषे रूढः। तदुक्तं-माहिष्येण करण्यां तु रथकारः प्रजायते(यास्मृ.1-92)वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः। शूद्रायां वैश्यादुत्पन्नाकरणी(या.स्मृ.1-95)इति। अस्मिंश्च जातिविशेषे रथकारशब्दो न रथं करोतीति व्युत्पत्त्या प्रवर्तते। रथमकुर्वत्यपि तज्जातीये रथकारशब्दप्रयोग दर्शनात्। तथा च जातिविशेषे रूढोऽयं रथकारशब्दः सौधन्वनापरपर्यायः। वर्षासु रथकार इति श्रुतौ रथकारशब्देनायमेव जातिविशेषो गृह्यते, नतु रथं करोतीति व्युत्पत्त्या रथनिर्माता यः कश्चिद्विप्रादिः। योगापेक्षया रूढेः शीघ्रोपस्थितिकत्वेनान्तरङ्गात्वात्। नन्वत्रावयवार्थानुरोधेन रथकारशब्देन विप्रादिस्त्रैव र्णिक एव गृह्यताम्। तथा सति तस्याऽऽधानं सिद्धमेवेति केवलमत्र रथकरणेन निमित्तेन वर्षाकालमात्रविधानमिति लाधवम्। रूढ्यर्थग्रहणे तु तस्य त्रैवर्णिकातिरिक्तत्वादाधानस्यासिद्धत्वेन तदपि विधेयं तदुपयुक्तं वेदाध्ययनं च कल्पनीयमिति गौरवमितिचेन्न। योगार्थस्य यौगिकशब्दावयवप्रकृतिप्रत्ययतदर्थतदन्वयानु संधानोत्तस्मुपस्थितेः, रूढ्यर्थस्य तु प्रकृतिप्रत्ययाद्यनालोचनेनैव तादृशशब्दश्रवणसमनन्तरमेवोपास्थितेर्योगाद्रूढेर्बलीयस्त्वादिति सिद्धान्तितम्। तदेतत्सर्वं, रथकारशब्दे विनैव लक्षणादिकं क्लॄप्तावयवशक्यैव निर्वाहेःवुरुध्येते याशयेनाऽऽहविना लक्षणां क्लॄप्तयोगेनेत्यादिना अयुक्तं स्यादित्यन्तेन।।
ननु पङ्कजशब्दे लक्षणा नैव वक्तुं शक्य। तथाहि-पङ्कजेति समुदाये लक्षणा चेत्समुदाये शक्त्यभावेन तच्छक्यार्थस्यैवाभावाच्छक्यसंबन्धरूपलक्षणाया अपि तत्रात्यम्तं दुर्विज्ञेयत्वात्। डप्रत्यये सा चेत्-प्रकृत्यर्थस्य तत्रान्वयानामत्तेश्चेति लक्षणावकाशाभावात्तत्रागत्या समुदायशक्तिरभ्युपगन्तव्यैव। राजपुरुष इत्यादौ तु प्रत्येकावयवश्त्यैव विशिष्टार्थबोधनिर्वाहसंभवेन समुदायशक्तिकल्पनस्य तत्रानौचित्यमेव। रथकाराधिकरणविरोधोऽपि दुर्वचः। सौधन्वना ऋभवः सुरचक्षसः, ऋभूणां त्वा देवानां व्रतपते व्रतेनाऽऽदधामीति रथकारस्येत्यादिमन्त्रलिङ्गात्सौधन्वनापरपर्यायानुलोमजातीयरथकारस्यैवाधिकारावगमेन रूढार्थे तत्र विशिष्टादानकल्पनात्, न चापूर्वविद्याकल्पनं दोषावहं-फलमुखगौरवस्यादूषकत्वात्। राजपुरुषादिसमुदाये न तादृशशक्तिग्राहकं किंचिन्मानं, येन तद्‌बलादवयवार्थः परित्यज्येतेत्यत आह-साधकान्तरमिति। अवयवार्थपरित्यागेऽन्यत्साधकमित्यर्थः। वृत्तिधर्माणामिति। वृत्तिधर्माः-विशेषणलिङ्गसंख्याद्ययोगादयो भाष्योक्ताः। राजपुरुष इति वृत्तौ राज्ञि ऋद्धस्येति विशेषमाभावः, मृगक्षीरमित्यादौ मृगादिपदे स्त्रीत्वाप्रतीतिः, राज्ञो राज्ञां वेति वृत्तिघटकराजपदे संख्याविशेषाप्रतीतिः। आदिपदाद्राज्ञः पुरुषोऽश्वश्चेतिवद्राजपुरुषोऽश्वश्चेति चशब्दाप्रयोगो ग्राह्यः। इत्यादिवृत्तिधर्मसाधनार्थं तत्र तत्र तादृशतादृशवचनकरणेऽतीव गौरवं स्यादिति समुदायशक्तिरभ्युपगन्तव्या। अनेकवचनप्रणयनापेक्षया समुदायशक्तिस्वीकार एव लाघवमिति भावः। उक्तमर्थमेव विशदयितुमाह-अयं भाव इति। स्याद्विशेषणाद्यन्वय इति। तथा च ऋद्धस्य राज्ञः पुरुष इति प्रयोगवदृद्धस्य राजपुरुष इत्यपि प्रयोगः स्याद्विशिष्टशक्त्यनङ्गीकार इति भावः। विशेषणान्वये हेतुमाह-राजपदेनेति। स्वतन्त्रेति। वाक्ये राजादिपदै राजादिपदार्थोपस्थितौ सत्यां पश्चादाकाङ्क्षादिवशात्परस्परमन्वय इति राजादिपदैः स्वातन्त्र्येण स्वस्वार्थ उपस्थाप्यते। तथा च यदा राज्ञः पुरुषेऽन्वयस्तदा राज्ञि ऋद्धस्येति विशेषणान्वयः, तदा राज्ञः स्वातन्त्र्येणोपस्थितिसत्त्वात्। विशेषणान्वयकरणे यत्र विशेषणान्वयश्चिकीर्ष्यते तत्रेतराविशेषणत्वेन ज्ञातत्वस्य हेतुत्वादिति भावः। इदमेव हि स्वातन्त्र्यं, यदितराविशेषणत्वेन ज्ञातत्वमित्यर्थः। इतराविशेषणत्वेनेत्यस्येतरनिरूपितविशेषणतानापन्नत्वेनेत्यर्थः। अत एव नित्यो घट इत्यादौ घटत्वादेरितरनिरूपितपिशेषणतापन्नत्वेन ज्ञातत्वान्न तत्र नित्यपदार्थान्वयः। एवं च वाक्ये यथा राजादेरन्वयकरणकाले इतरनिरूपितविशेषणतानापन्नत्वेन ज्ञातत्वात्तत्र ऋद्धस्येति विशेषणान्वयो भवत्येव तथा राजपुरुष इति समासेऽपि राज्ञि ऋद्धस्येति विशेषणान्वयेन ऋद्धस्य राजपुरुष इत्यनिष्टः प्रयोगः स्यात्। विशिष्टशक्त्यनङ्गीकर्तृमते वाक्य इव समासेऽपि राज्ञ इतरनिरूपितविशेषणतानापन्नत्वेन ज्ञातत्वरूपस्वातन्त्र्येणोपस्थितिसत्त्वादिति भावः। समुदायशक्तिकल्पने तु तद्वशादवृत्तौ जायमानः पदार्थबोधः परस्परं विशेष्यविशेषणभावापन्नविशिष्टविषय एव जायत इति राजादिपदेन पुरुषनिरूपितविशेषणतापन्न एव स्वार्थ उपस्थाप्यतेऽतो राज्ञः स्वातन्त्र्वेणोपस्थितिविरहान्न तत्र ऋद्धस्येत्यादिविशेषणान्वय इत्याशयः। एवं राज्ञः पुरुषोऽश्वश्चेतिवद्राजपुरुषोऽश्वश्चेति न। एकत्र विशेषणत्वेन ज्ञातस्य पस्र विशेषणायोगात्। तथा राज्ञः पुरुषो भार्यायाश्चेतिवद्राजपुरुषो भार्यायाश्चेति न। राजवैशिष्ट्यैनैव पुरुषस्योपस्थितेरेकविशेषणवैशिष्टयेन ज्ञाते विशेष्ये तत्सजातीयसंबन्धेन विशेषणान्तरसंबन्धस्याव्युत्पन्नत्वात्। राजपुरुषः सुम्दर इति तु भवत्येव, बाधकाभावात्। तत्र सुन्दरीनष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेप्यताया अवच्छेदकं पुरुषत्वमेव, नतु राजसंबन्धोऽपीत्यभिप्रायेण प्रधानस्य सविशेषणत्वेऽपि वृत्तिर्भवत्येवेति तात्पर्यम्। समासनियमवारणायेति। यदि व्यपेक्षायामेव सामर्थ्ये सति समासोऽपि भवति तर्हि अवश्यं वाक्यप्रयोगे प्राप्ते आरभ्यमाणः समासो नित्यं वाक्यनिवर्तकः स्यात्। अतो विकल्पेन तन्निवर्तकत्वसिद्ध्यर्थं विभाषेति सूत्रं कर्तव्यं स्यात्। एकार्थीभावपक्षे त्वकार्थीभावे समासस्य, व्यपेक्षायां वाक्यस्य च सिद्धतया विभाषाधिकारो न कर्तव्यः। विभिन्नविषयत्वात्समासेन वाक्यबाधाप्रसक्तेरिति भावः। शङ्कते--नन्वित्यादिना। कृतमेवेत्याशङ्क्येति। तथा च सविशेषणानामिति वचनान्न राजपुरुषेतिसमासघटके राज्ञि विशेषणान्वयः, नापि समासेन नित्यं वाक्यनिवृत्तिरिति निरुक्तदूषणाभाव इति शङ्काशयः। एकार्थीभावाङ्गीकर्तृमते विभाषेति सूत्रं युक्तिसिद्धमित्याह-व्यपेक्षाविवक्षायामित्यादि। सविशेषणेत्याद्यपि युक्तिसिद्धमेवेत्याह-विशिष्टशक्ताविति। इतरार्थान्वितस्यैव राजाद्यर्थस्योपस्थितेः पदार्थैकदेशत्वमिति भावः। अन्वयासंभवादिति। वृत्तौ ह्युपसर्जनपदं परार्थान्वितं स्वार्थमाचष्टे, स्वस्य विशेषणाकाङ्क्षायां च प्राधान्यमिति कथमेकदैव प्राधान्यमुपसर्जनत्वं च स्यात्। युगपत्प्रधानोपसर्जनभावविरोधात्सविशेषणेतिवचनस्य युक्तिसिद्धत्वमेवेत्यर्थः। अत एवेति-एकार्थीभावस्य सिद्धान्तिसंमतत्वादेवेत्यर्थः। दूषणमषीति। नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः' इत्यादिवचननिचयकरणापत्तिरूपं दूषणमित्यर्थः।। 31 ।।
एकार्थीभावास्वीकारे भाष्यकैयटाद्युक्तं दोषजातं स्वयमाह-तथेति। धवखदिरावित्यादीनां सप्तपर्णान्तानां नवानामितरेतरयोगादिभिर्वीप्सान्तैर्नवभिः साकं क्रमेणान्वयः। तथा च धवखदिरावित्यादौ प्रतीयमानाः साहित्यादयोऽर्था वचनेन वक्तव्या इत्यर्थः। तत्र धवखदिरावित्यादिद्वंद्वे `चार्थे द्वंद्वः' इत्यनेन अनेकं सुबन्तं चार्थे वर्तते, तच्च द्वंद्वसंज्ञकं भवतीति वाक्यभेदमङ्गीकृत्यार्थविधानं कर्तव्यमिवि गौरवम्। तथा `निरादयः क्रान्ताद्यर्थे' इत्यनेन निरादिपूर्वकपञ्चम्यन्तसमुदायः क्रान्ताद्यर्थे वर्तते, स च समाससंज्ञको भवतीति वाक्यभेदपुरस्कारेणैवार्थादेशनं विधेयमिति गौरवम्। गौरथादिविषयकं तु तत्तदर्थविधायकं वचनं कल्पनीयमिति गौरवमेव। तत्र गोरथ इत्यत्र गोयुक्तो रथ इति युक्तार्थः, घृतघट इत्यत्र घृतपूर्णो घट इति पूर्णार्थः, गुडधाना इत्यत्र गुडमिश्रा धाना इति मिश्रार्थः, केशचूड इत्यत्र केशसंघातभूता चूडा यस्येति संघातार्थः, सुवर्णालंकार इत्यत्र सुवर्णविकारोऽलंकार इति विकारार्थः, द्विदशा इत्यत्र द्विरावृत्ता दशेत्यर्थात्सुच्‌प्रत्ययलोपः,सप्तपर्ण इत्यत्र सप्त सप्त पर्णानि यस्येति वीप्सार्थः प्रतीयतेः तथा च वृत्तावेकार्थीभावानङ्गीकारे सविशेषणानामिति,(वृत्तौचलोपो वक्तव्यः)इत्याद्यपूर्वानेकवचनप्रणयनप्रयुक्तं गौरवमेव दूषणमित्याशयेनाऽऽह-चकारादिनिषेधाऽर्थेति। चकारादिति। यथा धवश्च खदिरश्चेति वाक्ये चकारप्रयोगो भवति तथा धवखदिरवित्यादिवृत्तावपि चप्रयोगः प्राप्तस्तस्य लोपो विधेयः। एकार्थीभावपक्षे तु समूहलक्षणैकार्थप्रादुर्भावाद्भेदस्य निवृत्त्या भेदनिबन्धनसमुच्चयरूपस्य द्योत्यस्याभावेन द्योतकस्याप्यभाव इति चप्रयोगो न प्राप्नोतीति भावः। इदं च बृत्तेर्विशिष्टशक्तिमत्त्वं लोकसिद्धमेव। शास्त्रेऽर्थविधानाभावात्। अचतुरेत्यादावदर्शनात्। धवखदिरेति समुदायस्य धवखदिरसमूहरूपे विशिष्टेऽर्थे शक्तिः, सा च लोकसिद्धैवेति चार्थे वृत्तिमनूद्य द्वंद्वसंज्ञामात्रविधायकं चार्थे द्वंद्व इत्यादीति लाघवमेकार्थीभावपक्षे। व्यपेक्षावादे विशिष्टार्थोऽपि विधेय इति वाक्यभेदेन गौरवमिति प्रागुक्तमेव। एवं निष्कौशाम्बिरित्यादावुत्तरत्रापि बोध्यम्। चकारादीत्यादिशब्दसंग्राह्यमाह-घनश्याम इत्यादि। इवादीनामिति। अत्र लोप इत्यस्य संबन्धाल्लोपो वक्तव्य इत्यर्थः। पूर्वाक्तानां चेति। निष्कौसाम्बिरित्यादौ क्रान्तादिशब्दानां लोपो वक्तव्यः स्यादित्यर्थः। घनगतश्यामत्वसदृशश्यामत्ववानिति विशिष्टार्थबोधः। एवं हंस इव गमनं यस्येति विग्रहे हंसकर्तृकगमनसदृशगमनकतेंति विशिष्टार्थबोध एकार्थीभावस्वीकारे। तथा चेवार्थस्य समुदायार्थेऽन्तर्भूतत्वादप्रयोगः सिद्ध एवेति भावः। एतद्‌दूषणानामग्रे निराकरिष्यमाणत्वादाह--दूषणान्तरमिति। बहुव्युत्पत्तिभञ्जनभिति। भङ्गमेव विशदयति--अत्रायमाशय इत्यादिना। स्वाम्यादिप्रतीतिरनुभवसिद्धोति। चित्रा गावो यस्येति विग्रहवाक्याद्यस्य चित्रा गाव इत्येवं गोपदार्थमुख्यविशेष्यको बोधः, समासात्तु चित्रगोसंबन्धी चित्रगोस्वामीत्येवं चित्रगोविशेषणकान्यपदार्थमुख्यविशेष्यकबोधोदयात्स्वाम्यादिप्रतीतिरनुभवसिद्धेत्यर्थः। ननु चित्रगुरिति समासस्य चित्रगोस्वामिनि लक्षणयेष्टार्थबोधः स्यादित्याशङ्कते--न चेति। समाधत्ते--तदसंभवादिति। लक्षणयेष्टार्थलाभासंभवादित्यर्थः। चित्रगुरित्यत्र लक्षणया यथाकथंचित्स्वाम्यादिलाभसंभवेऽपि प्राप्तोदक ित्यादौ लक्षणयेष्टार्थलाभासंभवेन न सर्वत्र लक्षणया निर्वाहो भवतीति चित्रगुरित्यत्र लक्षणाश्रयणमयुक्तमिति भावः। प्राप्तमुदकं यमिति वाक्याद्यत्कर्मकप्राप्तिकर्त्रुदकमिति बोधः, समासात्तूदककर्तृकमाप्तिकर्म ग्राम इति। तत्र प्रथमत एवोदकपदे उदकसंबन्धिलक्षणायामुदकस्य पदार्थैकदेशतया तत्र प्राप्तपदार्थप्राप्तिकर्तुरन्वयो न स्यादत आह-प्राप्तिकर्त्रभिन्नमिति। प्रपूर्वकाप्‌धातोर्गत्यर्थेति कर्तरि क्तः, प्राप्तिक्रियाकर्त्रित्यर्थः, क्तप्रत्ययार्थकर्तुश्चाभेदेनोदकेऽन्वय इत्यर्थः। लक्षणायामपीति। प्राप्तिकर्त्रभिन्नोदकमिति बोदोत्तरं तात्पर्वानुपापत्तिप्रतिसंधानेन तादृशोदकसंबन्धी ग्राम इत्येवं लक्षणायामपीत्यर्थः। इत्यर्थालाभादिति। संबन्धिलक्षणया प्राप्तिकर्त्रभिन्नोदकसंबन्धी ग्राम इति बोधस्यैव संभवेनोदककर्तृकप्राप्तिकर्गेत्यभीप्सितार्थालाबादित्यर्थः। ग्रामस्य तादृशोदकसंबन्धित्वेन बोधेऽपि कर्मत्वेन बोधो न स्यादिति भावः। ननु कर्त्रर्थकस्य क्तप्रत्ययस्यैव कर्मणि लक्षणाऽस्तु, उदकस्य प्रप्तौ कर्तृतयाऽन्वय, तथा चोदकनिष्ठप्राप्तिकर्मत्यभीष्टार्थलाभः संभवतीत्याशङ्क्य समाधत्ते-तर्हीत्यादिना। क्तप्रत्ययस्य कर्मणि लक्षणायां प्राप्तोदकपदयोः समानाधिकरणत्वात्समानाधिकरणयोश्च प्रातिपदिकार्थयोरभेदनैवान्वय इति नियमादुदकाभिन्न प्राप्तिकर्मेत्येवमर्थः स्यान्न तु उदकनिष्ठप्राप्तिकर्मेति भावः। प्राप्तिकर्मेति स्यादिति। प्राप्तिकर्मभिन्नमुदकमिति बोधः स्यादित्यर्थः। प्राप्तशब्दस्य क्रियाशब्दत्वेनोदकशब्दस्य च जातिशब्दत्वेनोदकस्यैव विशेष्यताया युक्तत्वात्। उदकस्य प्राप्तौ कर्तृत्वेनेष्टोऽन्वयो न स्यादित्यत्र तात्पर्यमिति बोध्यम्। अन्यथेति। उक्तवैपरीत्ये। उदकस्य प्राप्तौ कर्तृत्वसंबन्धेनान्वयाभ्युपगम इत्यर्थः। समानाधिकरणेति। समानविभक्तिकप्रातिपदिकार्थयोरित्यर्थः। भङ्गापत्तेरिति। नामार्थधात्वर्थयोः साक्षाद्भेदेनान्वयस्य व्युत्पत्तिविरुद्धत्वादुदकस्य प्राप्तौ कर्तृत्वेनान्वयः कर्तुमशक्य इत्याह--प्राप्तेर्धात्वर्थतयेत्यादि। तथा चोदककर्तृकप्राप्तिकर्म ग्राम इत्यभीप्सितार्थलाभो नैव स्यादिति भावः। अन्यथेति। नामार्थधात्वर्थेत्यादिनियमानङ्गीकार इत्यर्थः। नामार्थस्य धात्वर्थे भेदेनान्वयाङ्गीकार इति यावत्। देवदत्तः पच्यत इति। देवदत्ते तण्डुलः पच्यत इत्यर्थे देवदत्तः पच्यत इति प्रयोगः सिद्धान्ते नेष्यते। देवदत्तशब्दोत्तरं तृतीयाया अभावेन कर्तृत्वाप्रतीतेर्देवदत्तस्य क्रियायामन्वयस्य वक्तुमशक्यत्वात्तादृशेऽर्थे तादृशः प्रयोगो न भवति। तादृशप्रयोगसंभवस्त्वेवम्-देवदत्तस्य कर्तृत्वेनाविवक्षितत्वात्तृतीयाभावः। न च षष्ठी स्यादिति वाच्यम्। केवलप्रातिपदिकार्थविवक्षायां षष्ठ्यप्रसङ्गात्। अत एव प्रथमा भवतीति। एवं च देवदत्तः पच्यत इत्येवमनन्वितार्थकः प्रयोग इति ज्ञेयम्। कर्त्रर्थकतृतीयादिविभक्तिविशेषसंनिधानात्तिङ्कृत्संनिधानाच्च नामार्थस्य क्रियायां कर्तृत्वेनान्वयदर्शनात्। अनन्वयानापत्तेरिति। यदि च तृतीयादिसंनिधानाभावेऽपि कर्तृत्वेन क्रियायामन्वयः स्यात्तर्हि निरुक्तप्रयोगे देवदत्तस्य पाकक्रियायां कर्तृत्वसंबन्धेनान्वयसंभवाद्देवदत्तः पच्यत इति वाक्येऽनन्वितार्थकत्वस्येष्टस्यानुपपत्तेरित्यर्थः। ननु पचतीत्यादी भावप्रधानमाख्यातमिति वचनबलत्क्लृप्तत्यागस्य प्रत्ययार्थप्राधान्यस्य प्राप्तपदादिरूपवृत्तौ त्यागेन विशेष्यविशेषणभाववैपरीत्यस्य सिद्धतयोदकस्य प्रकारीभूतक्तार्थकर्तर्यभेदेनान्वयेन क्तार्थकर्तुश्च क्रियायायायन्वयेनोदकाभिन्नकर्तृका प्राप्तिरिति बोधोत्तरं तादृशप्राप्तिक्रियासंबन्धिग्रामलक्षणायां नाभीष्टार्थासंभवो नापि नामार्थधात्वर्थयोरिति नियमभङ्गोऽपीत्याशङ्कते-अथोदकाभिन्नेत्यादिना। तत्संबन्धीति। प्राप्तिक्रियाकर्मेत्यर्थः। समाधत्ते-इति चेन्नेति। उदकाभिन्नकर्तृका प्राप्तिरित्येवं बोधसंभवे, ततो लक्षणाऽपि कथंचित्संभवेत्, किंतु निरुक्ताकारको बोध एवाऽऽदौ न संभवतीत्याह-प्राप्तेर्धात्वर्थतयेत्यादि। विशेष्यताया इति। क्तार्थकर्तृनिष्ठप्रकारतानिरूपितप्राप्तिनिष्ठविशेष्यताया इत्यर्थः। असंभवादिति। वक्तुमशक्यत्वादित्यर्थः। असंभवमेवोपपादयितुं हेतुमाह--प्रकृतिप्रत्ययार्थयोरिति। प्रत्ययार्थस्यव प्राधान्यमिति। पाचकः, औपगव इत्यादौ प्रत्ययार्थप्राधान्यस्यानुभवादित्यर्थः। अत एवौपगवमानयेत्यादावुपग्वपत्यस्यैवाऽऽनयनं दृश्यते, न तूपगोरपीति बोध्यम्। सत्त्वप्रधानानि नामानीति वचनविरोधोऽप्यत्र द्रष्टव्यः। तथा च सर्वथा प्राप्तौ विशेष्यता वक्तुमशक्या। तिङन्ते प्रत्ययार्थप्राधान्यत्यागे प्रमाणसत्त्वेऽप्यत्र तत्त्यागे मानाभावादिति भावः। ननु गामानयेत्यादावेकत्वविशिष्टां गामिति प्रतीतेः प्रत्ययार्थत्वेऽपि संखअयाया विशेषणतयाऽन्वयदर्शनात्प्रत्ययार्थप्राधान्यस्य व्यभिचारमाशङ्क्याऽऽहृ-प्राप्तपद इति। ननु अपेक्षितबोधान्यथानुपपत्त्या प्रत्ययार्थप्राधान्यस्य वृत्तौ त्यागोऽस्तु तथा सत्त्वप्रधानानीत्यरयापि वृत्त्यप्रविष्टनामपरत्वमस्त्वित्याशङ्क्याऽऽह-नामार्थत्वेनेति। नामजन्यप्रतीतिविशेष्यत्वेनोत्यर्थः नामजन्यप्रतीतिविशेष्ययोरेवान्वयः, स चाभेदनैवेति नामार्थयोरित्यस्यार्थादिति भावः। अभेदान्वयापत्तेश्चेति। प्राप्तेर्नामजन्यप्रतीतिविशेष्यत्वे तथैव सहनामजन्यप्रतीतिविशेष्यस्योदकस्याभेदान्वयेन भाव्यं, स च द्रव्यक्रिययोरत्यन्तभेदेन बाधितत्वान्न भवतीत्यन्यत्। किंतु नामजन्यप्रतीतिविशेषणभूतेन कर्त्रा तादृशोदकस्याभेदान्वयः सर्वथाऽसंभवीति अभेदान्वयापत्तेरित्यस्य विशेषणीभूतकर्त्रा सहोदकस्याभेदान्वयबोदानपत्तेरित्यर्थः। न केवलं द्वितीयार्थकबहुव्रीहावेव लक्षणयेष्टार्थबोधलाभासंभवः, किंतु तृतीयाद्यर्थकबहुव्रीहावपीत्याह-एवमूढरथ इति। ऊढो रथो येनेति विग्रहवाक्याद्यत्कर्तृकवहनक्रियाकर्मभूतो रथः, उपहृतः पशुर्यस्मा इत्यतो यदुद्देस्यकोपहारणक्रियाकर्मभूतः पशुः, उदृधृत ओदनो यस्या इत्यस्माद्यदवधिकोद्धरणक्रियाकर्मभूत ओदनः वहवः, पाचका यस्यामिति वाक्याद्यदधिकरणकबह्‌वभिन्नाः पचनकर्तार इत्येवं रथाद्युत्तरपदार्थमुख्यविशेष्यको बोधो, न त्वन्यपदार्थमुख्यविशेष्यकः। समासात्त्वन्यपदार्थमुख्यविशेष्यकबोध इष्यते, स च समासशक्तिस्वीकारमन्तराऽनुपपन्न इत्याशयेन समासात्प्रतीयमानं तादृशबोधं प्रदर्शयति-अत्र हीत्यादिना। रथकर्मकवहनक्रियाकर्तेत्यवेंप्रकारेणान्यपदार्थमुख्यविशेष्यकशाब्दबोधोऽभ्युगतः। एवमग्रेऽप्युपहृपपशू रुद्र इत्यादावन्यपदार्थमुख्यविशेष्यकः शाब्दबोधोऽवसेयः। न चात्र लक्षणा। यदि प्रथमतो रथादिपदस्य रथसंबन्धीत्येवं सबन्धित्वेन रूपेणान्यपदार्थे लक्षणा क्रियते तधा रथस्य पदार्थैंकदेशतया तत्रोढपदार्थान्वयो न स्यात्। अतो वहनकर्माभिन्नो रथ इति शक्यार्थबोधानन्तरमभीप्सितार्थबोधानुपपत्तिप्रतिसंधानेन तादृशरथसंबन्धीत्येवं लक्षणायां कृतायामपि रथकर्मकवहनक्रियाकर्तेत्येवमभीष्टार्थबोधो न स्यात्। संबन्धिलक्षणायां वहनकर्माभिन्नरथसंबन्ध्यनड्‌वानिति बोधस्यैव संभवात्। किं च संबन्धित्वेन सामान्यरूपेण बोधः स्यान्नतु कर्तृत्वादिविशेषरूपेणेति भावः। ननु ऊढेति कर्मार्थस्य क्तप्रत्ययस्य कर्तरि लक्षणा, वहनक्रियायां च रथस्य कर्मतासंबन्धेनान्वयः क्रियत इति न विवक्षितार्थलाभानुपपत्तिरिति चेन्न। रथरूपस्य कर्मणोऽनुक्तत्वेन ततो द्वितीयापत्तौ वैयधिकरण्यात्, भवदुक्तरीत्याऽन्यवदार्थत्वेनाभिप्रेतस्य कर्तुरूढपदेनैव लाभेनान्यपदार्थस्य दुरुपपादत्वाच्चानेकसुबन्तानामन्यपदार्थे विहितस्य बहुव्रीहेरनापत्तेः। अथोढरथ इत्यस् रथाभिन्नकर्मिका वहनक्रियेति बोधोत्तरं तादृशवहनक्रियाकर्ताऽनड्वान् लक्ष्यत इति चेत्तदपि न। वहनक्रियाया धात्वर्थतया प्रकृतिप्रत्ययार्थयोरिति नियमात् क्तप्रत्ययार्थकर्मनिरूपितविशेष्यत्वस्य वक्तुमशक्यत्वात्। किं च नामजन्यप्रतीतिविशेष्ययोरेवान्वयः, स चाभेदेनैवेति नामार्थयोरभेदान्वय इतिव्युत्पत्तेरर्थादूढपदे वहनक्रियाया विशेष्यत्वे तस्या एव नामार्थत्वेन रथेन सममभेदान्वयापत्तेर्नामजन्यप्रतीतिविशेषणकर्मणा समं नामजन्यप्रतीतिविशेष्यस्य रथस्याभेदान्वयबोधानुपपत्तेः। संबन्धिलक्षणायां पूर्वोक्तबहुव्युत्पत्तिभङ्गाभावेऽपि अभीप्सितार्थबोधानिर्वाहः स्पष्ट एव। एत्रमग्रेऽपि द्रष्टव्यम्। बहुपाचिकेत्यत्रापि संबन्धिलक्षणायां तत्संबन्धित्वेनैवान्यपदार्थबोधः स्यान्न त्वधिकरणत्वेनेत्यादिदूषणान्यूह्यानीति समुदितार्थः। तस्माद्विशिष्टशक्तिरेवाङ्गीकर्तव्येत्याह-अतिरिक्तशक्तीति। अवयवशक्त्याद्यपेक्षयाऽतिरिक्तविशिष्टसमुदायशक्तीत्यर्थः। घटपदस्येवेति। विशिष्टशक्तिपक्षे यथा घटपदस्य घटत्वविशिष्टशक्त्या विशिष्टार्थोपस्थापकत्वं, तथा प्राप्तोदकेत्यादिसमुदायस्यापि विशिष्टशक्त्योदककर्तृकप्राप्तिकर्मत्वविशिष्टार्थोपस्थापकत्वम्। एवमूढरथादिसमुदायस्यापि विशिष्टशक्त्या रथकर्मकवहनकर्तेत्यादिविशिष्टार्थोपस्थापकत्वमूह्यमिति न काचित्पूर्वोक्तानुपपत्तिः ननु यद्यतिरिक्तैव विशिष्टा शक्तिः समुदायेऽङ्गीक्रियते तर्हि नामार्थयोःoप्रकृतिप्रत्ययार्थयोःoनामार्थधात्वर्थयोःo इत्यादयो बहव एव व्युत्पत्तयो निर्विषयाः स्युरिति चेन्न। भिन्नाभ्यां शब्दाभ्यां जनिता या भिन्नशक्त्योपस्थितिस्तद्विषयत्वात्पूर्वोक्तव्युत्पत्तीनामिति भावः। परे तु वस्तुतः वृत्तिविग्रहयोः समानार्थत्वनियमानुरोधेन समासाद्वाक्याच्च प्राप्तिकर्त्रभिन्नोदककर्मेत्येव बोधः। अत एव पूर्वोत्तरपदयोः सामानाधिकरण्य एव विहितबहुव्रीहिसमासस्योपपत्तिः। एवमूढरथ इत्यादावपि वहनक्रियाकर्माभिन्नरथकर्तेत्यादिरेव बोधः। वहुव्रीहिघटकपूर्वोत्तरपदयोः सामानादिकरण्यस्याभङ्गादेव प्राप्तभार्य इत्यादौ प्राप्तिकर्माभिन्नभार्याकर्ता इत्येवं बोधसत्त्वात्प्राप्तपदभार्यापदयोः सामानाधिकरण्यात्पुंवद्भावः सिध्यति। अत्र प्राप्ता भार्या येनेति विग्रहो बोध्यः। कर्मत्वस्य क्रियानिरूपितत्वेन द्रव्यत्वादुदकादौ विशेष्ये कर्मतादिनिरूपकत्वस्य बाधेऽपि तद्विशेषणप्राप्त्यादिक्रियायां तत्पर्यवसानं बोध्यम्। यथा शिखी ध्वस्त इत्यत्र ध्वंसान्वयस्य शिखाविशेष्ये पुरुषे बाधात्तद्विशेषणे शिखायां तदन्वयादस्य शिखा ध्वस्तेत्यर्थो बुध्यते तद्वदिति प्राहुः।। 32 ।।
साधकान्तरमिति। अन्यत्साधकमित्यर्थः। मयूरव्यंसकादित्वात्समासः। अस्यावयवशक्त्यतिरिक्तसमुदायशक्तकल्पन इत्यादिः। आह-ब्रवीमि-अषष्ठ्यर्थबहुव्रीहीविति। अषष्ठ्यर्थेति। अत्र षष्ठीपदं सप्तम्या अप्युपलक्षणं, षष्ठ्यर्थबहुव्रीहाविव सप्तम्यर्थबहुव्रीहावपि व्युत्पत्त्पन्तरकल्पनाया अप्रसक्तेः। षष्ठीसप्तम्यर्थबहुव्रीहिव्युदासे हेतुं प्रदर्शयितुमाह-अयं भाव इति। चित्रगवीनामिति। अत्र कुमतिचेति णत्वेन भाव्यम्। विना शक्तिमिति। समुदायशक्तिं विनेत्यर्थः। मूले-कल्पयेरिति। विधिनिमन्त्रणेति संप्रश्ने लिङ्ग। लक्षणा किं पूर्वपदेऽथवोत्तरपद इति विकल्प्य तत्र नाऽऽद्य इत्याह-सा हि न चित्रपद इति। चित्रस्वामी गौरिति। चित्रान्वितगोपदार्थस्य स्वामिन्यन्वयानुपपत्तिः समानाधिकरणनामार्थयोरिति न्यायेन गोपदार्थे चित्रस्वामिनोऽभेदान्वयापत्तिश्चेति भावः। एवं जरच्चित्रगुरित्यादावेकैकपदस्य स्वार्थस्वामिलक्षकत्षे जरदभिन्नो यः स्वामी, जरच्चित्राभिन्नो यः स्वामी तदभिन्नो गौरिति बोधः स्यात्। न तु जरदाद्यर्थस्य गवा सहान्वयबोध इति द्रष्टव्यम्। नान्त्य इत्याह-नापीति। गोस्वामी चित्र इतीति। चित्रान्वितगोपदार्थस्य स्वामिन्यन्वयो न स्यात्। किं तु गोरेव तत्रान्वयः स्यात्। चित्रपदोपस्थापितार्थे तु गोस्वामिनोऽभेद्रान्वयापत्तिश्च स्यात्। गोपदार्थस्य स्वामिन्यभेदान्वयेन गवाभिन्नो यः स्वामी तदभिन्नश्चित्र इति बोधः स्यात्। न तु चित्रपदार्थस्य गवा सहाभेदान्वय इत्यपि द्रष्टव्यम्। ननु चित्रपदलक्ष्यार्थैकदेशचित्रपदार्थेन गोपदार्थस्याभेदान्वये सति गवाभिन्नीचित्रस्वामी इति वा, गोपदलक्ष्यार्थैकदेशगोपदार्थेन चित्रपदार्थस्याभेदान्वये सति चित्राभिन्नगोस्वमी इति वा बोधो भवति। तथा च नोक्ताकारबोधापत्तिरित्यत आह-चित्रादिमात्रस्येति। मात्रपदेन स्वामिनो व्यावृत्तिः। केवलचित्रपदार्थस्य केवलगोपदार्थस्य वेत्यर्थः। अन्वयायोगादिति। पदार्थः पदार्थेनान्वेति, नतु पदार्थैकदेशेनेति व्युत्पत्तिविरोधादिति भावः। अन्वयबोदोत्तरमिति। पदार्थोपस्थित्यादिसामग्र्यां तयोरेवाऽऽदावन्वयो भवति प्रतायासत्तेः, तदनन्तरं चित्राबिन्नाया गोर्बोधग्रहे सति गोपदेन चित्राभिन्नगोस्वामित्वेन रूपेणान्यपदार्थो लक्ष्यते। प्राथमिकश्चित्राभिन्ना गौरिति बोधश्च चित्रत्वादिविशिष्टगोस्वामित्वोपस्थितय आवश्यकः। तादृशबोधोत्पादकतया च चित्रापदसार्थक्यमिति भावः। तथा च चित्रगुरित्यादौ चित्रगवीनां स्वाम्यादिप्रतीतिरनुभवसिद्धा लक्षणयैव निर्वोढुं शक्येति वाच्यमित्याशङ्क्य विनिगमनाविरहेण पदद्वयस्यापि लक्षकत्वासंभवादित्याशयेनाऽऽह-गोपदस्य चित्रपदस्य वेत्यादि। विनिगमनाविरहेणेति। पूर्वपदस्यैव लक्षणा कर्तव्योतोत्तरपदस्यैवेत्यत्र निश्चायकप्रमाणराहित्येनेत्यर्थः। लक्षकत्वासंभवादिति। व्याघ्रशङ्क्या वनगमनान्निवृत्तिदर्शनेन संदेहस्य प्रवृत्तिप्रतिबन्धकत्वसिद्धेरत्रापि पूर्वपदे वा लक्षणोत्तरपदे वेति संदेहसत्त्वेन लक्षकत्वप्रतिबन्धकत्वसिद्धेरत्रापि लक्षकत्वासंभवादित्यर्थः। शङ्कते-न चेति। साक्षात्संबन्ध इति। स्वत्वनिरूपितस्वामित्वरूपः शक्यसंबन्ध इत्यर्थः। स च गोपदार्थस्यान्यपदार्थेन सह साक्षात्संबन्धोऽस्ति, चित्रपदस्य तु गुणवाचकतया स्वशक्यचित्ररूपसमवायिगोनिष्ठस्वत्वनिरूपितस्वामित्वरूप आश्रयद्रव्यघटितः परम्परासंबन्धो वाच्य इति गौरवमिति भावः। तथा च गोपदार्थस्यान्यपदार्थेन सह यः साक्षात्संबन्धः स एवोत्तरपदलक्षणायां विनिगमक इति भावः। इदं मीमांसकरीत्योक्तम्। वैयाकरणमते तु चित्रपदस्यापि गुणविशिष्टद्रव्यवाचकत्वेन चित्रगोपदार्थयोरभेदान्वयेन पदार्थैक्याद्‌गोपदस्येव चित्रपदस्यापि श्रन्यपदार्थेन सह साक्षात्संबन्धसंभवादिति बोध्यम्। एवमपीति। चित्रगुरित्यादिष्ठ्यर्थसप्तम्यर्थबहुव्रीहौ साक्षात्संबन्धस्योत्तरपदलक्षणायां विनिगमकत्वे सत्यपीत्यर्थः। अष्ठ्यर्थवहुव्रीहाविति। अत्र षष्ठीपदं सप्तम्या अप्युपलक्षणम्। तथा च षष्ठ्यर्थसप्तम्यर्तबहुव्रीहिव्यतिरिक्ते प्राप्तोदकादिद्वितीयाद्यर्थबहुव्रीहावित्यर्थः। विनिगमकाप्राप्तेरिति। प्राप्तमुदकं यं, कृतं विश्वं येनेति व्युत्पत्त्या उदककर्तृकप्राप्तिकर्मत्वेन, विश्वकर्मकोत्पत्तिकर्तृत्वेनान्यपदार्थः प्रतीयते। तत्र प्राप्त इत्यत्र कर्तरि क्तः, कृत इत्यत्र कर्मणि, स्नानीयं चूर्णमित्यादौ करणाद्यर्थकः कृत्प्रत्ययः। तथा च प्राप्त इत्यत्र कृतप्रत्ययस्य कर्तृवाचकतया तादृशकृत्प्रत्ययात्कर्तृत्वेन यस्यार्थस्य बोधो भवति, तस्यैवार्थस्योदकपदादुकत्वेन बोधो भवति। उभयत्र प्रवृत्तिनिमित्तं भिन्नं, विशेष्यभूतोऽर्थस्त्वेक एवेति पदद्वयार्थैक्यादुदकस्येव प्राप्तपदार्थस्याप्यन्यपदार्थेन साक्षात्सवंन्धस्य समत्वाद्विनिगमकस्याप्राप्तेरित्यर्थः। पूर्वोत्तरपदार्थयोरन्यपदार्थेन साक्षात्संबन्धमुपपादयितुमाह-यौगिकानमितायादि। तथा चाषष्ठ्यर्थबहुव्रीहौ साक्षात्संबन्ध उत्तरपदलक्षणायां विनिगमको भवितुं नार्हेतीति भावः। नैयायिकरीत्या शङ्कते--न चेति। पदद्वय इति। चित्रपदे गोपदे च चित्रगोस्वामिलणेत्यर्थः। नैयायिकेति। प्राचीननैयायिकेत्यर्थः। समाधत्ते-बोधावृत्तीति। पदद्वये चित्रगोस्वामीति लक्षणायां वारद्वयं चित्रगोस्वामीति बोदापत्तिः स्यादित्यर्थः। पदद्वयस्य युगपत्स्वामिमात्रलक्षकत्वे स्वामिनो बारद्वयं बोधोऽभीष्टार्थलाभासंभवश्च। बोधावृत्तिप्रसङ्गं परिहर्तुं शङ्कते-नचेति। परस्परमिति। चित्रपदे चित्रगोस्वामिलक्षणायां गोशब्दसमभिव्याहारस्तादृशलक्षणायां तात्पर्यग्राहकः, गौपदे चित्रगोस्वामिलक्षणायां चित्रशब्दसमभिव्याहारस्तादृशलक्षणायं तात्पर्यग्राहक इति एकस्यैकदैव लक्षणाङ्गीकारान्न बोदावृत्तिर्नापि चित्रपदस्य गोपदस्य वा वैयर्थ्यमिति भावः। चित्रपदं तात्पर्यग्राहकमथवा गौपदं तात्पर्यग्राहकमित्यन्यतरकोटिनिश्चायकप्रमाणविरहस्यावस्थितत्वान्न लक्षणायाः संभव इत्याशयेन समाधत्ते-एवमपिति। असंभवादिति। एकदाऽन्यतरपदे लक्षणाया असंभवादित्यर्थः। एवं शोबना चित्रगुरित्यादौ शोभनादिपदार्थस्यान्वयानुपपत्तेः। चित्रादेः पदार्थैकदेशत्वेन तवान्वयासंभवात्। शोभनादिपदेऽपि शोभनचित्रगोस्वामीत्येवं लक्षणास्वीकारे त्रयाणामपि पदानां तादृशविशिष्टार्थलक्षकत्वेन समुदायशक्त्यपेक्षया लाघवं दुर्वचम्। पदद्वये युगपल्लक्षणायां बोधावृत्तिप्रसङ्गदोष उक्त एवेति भावः। प्रत्ययार्थान्वयानुसारेण उत्तरपद एव लक्षणेति सिद्धान्तयतां नव्यनैयायिकानां मतं दूषयितुं शङ्कते-न च चरमपद एवेति। सेति। लक्षणेत्यर्थः। संनिहितपदार्थगतेति। संनिहितपूर्वपदार्थगतेत्यर्थः। स्वसमीपोच्चारितं यत्पूर्वपदं तदर्थगतो य एकत्वादिः स्वार्थस्तद्बोधकत्वं प्रत्ययस्येति नियमादित्यर्थः। पूर्वेत्यस्य निवेशाभावे तु राज्ञः पुरुष इत्यत्र पुरुषपदार्थेऽपि षष्ठ्यर्थसंबन्धावयापत्त्या पुरुषसंबन्धिराजेत्यपि प्रतीयेत। तथाचोक्तनियमानुरोधेन प्राप्तोदकादावप्युदकपद एवोदककर्तृकप्राप्तिकर्मेत्यवमादिलक्षणा स्वीक्रियत इति भावः। समाधत्ते-एवं हीति। उत्तरपदस्यैव स्वाम्याद्यन्यपदार्थलक्षकत्वे हीत्यर्थः। बहुव्रीह्यसंभवापत्तेरिति। अन्यपदार्थत्वेनाभिप्रेतस्य स्वाम्याद्यर्थस्योत्तरपदादेवोपस्थितेस्तादृशस्वाम्याद्यर्थेऽन्यपदार्थत्वस्य वक्तुमशक्यत्वेन बहुव्रीहिसमासासंभवापत्तेरित्यर्थः। बहुव्रीहिसमासासंभवे हेतुमाह-अनेकमन्येति। वृत्तिघटकीभूतपदार्थातिरिक्तत्वरूपान्यपदार्थत्वविशिष्टार्थप्रतिपादकानामनेकसुबन्तानां बहुव्रीहिसमासविधानादित्यर्थः। अयं भावः-वृत्तेर्विशिष्टार्थमतिपादकत्वं न शास्त्रसमाधिगम्यं, शास्त्रेऽर्थविधानाभावात्, अचतुरेत्यादावदर्शनात्, वृक्षादीनामर्थाविधानाच्च। किंतु लौकिकव्यवहारेणानुभवसिद्धम्, `स्वभावत एव तेषां शब्दानामेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियेत' इति समर्थसूत्रस्थभाष्यात्। अनेकमन्यपदार्थे, चार्थे द्वंद्वः, अनेकं प्रथमान्त सुबन्तमन्यार्थप्रतिपादकं बहुव्रीहिसंज्ञकं, चार्थे वर्तमानो योऽनेकसुबन्तसमुदायः स द्वंद्वसंज्ञको भवतीति अनुक्रमेण लोकव्यवहारसिद्धार्थानुवादेन बहुव्रीह्यादिसंज्ञामात्रविधायकत्वं-न त्वर्थस्यापि विधायकत्वम्। तथा सति अनेकं प्रथमान्तमन्यपदार्थप्रतिपादकं भवति, तादृशं च तद् बहुव्रीहिसंज्ञकं भवतीति वाक्यभेदः स्यात्। किं च स्वसमानार्थकवाक्यानिवृत्तये विभाषाधिकारोऽपि कर्तव्य इति गौरवं स्यात्। तथा च सुबन्तसमुदायस्यान्यपदार्थप्रतिपादकत्वाभावे कथंतरां बहुव्रीहिः प्राप्नुयादिति। नन्वन्यपदार्थप्रतिपादकत्वं नाम तत्प्रतीत्यनुकूलत्वं, तत्र चरमपदस्य स्ववृत्त्या तदुपस्थापकत्वेनेतरपदस्य च तात्पर्यग्राहकतया तद्बोधानूकूलत्वं भवतीति समुदायस्य विशिष्टार्थप्रतिपादकत्वमविचाल्यमित्यत आह-किं चेति। एवं सतीति। बहुव्रीहौ चरमपद एव लक्षणास्वीकारे सतीत्यर्थः। चरमवर्ण एव वाचकतेति। यथा बहुव्रीहौ प्रत्ययाव्यवहितपूर्ववर्तित्वाच्चरमपदस्यैवान्यपदार्थबोधकत्वं कल्प्यते तद्वद् घटादिपदेऽपि प्रत्ययाव्यवहितपूर्ववर्तित्वाच्चरमवर्णस्यैवाच्‌प्रत्ययरूपस्य घटपटादितत्तदर्थवाचकत्वं कल्प्येतेत्यर्थः। तथा च विशिष्ट शक्तिकथाविलय एवाऽऽपद्येतेति भावः। न च घटादिपदे चरमवर्मस्य वाचकत्वे तत्पूर्ववर्तिनां घकारादिवर्णानामानर्थक्यमिति वाच्यम्। चरमवर्णस्य वाचकत्वे तात्पर्यग्राहकतया तदुपयोगसंभवात्। एवं सतीति। चरमवर्णस्य वाचकत्वे सतीत्यर्थः। चरमवर्ममात्रश्रवण इति। घटादिपदे घकारादिवर्णत्रयाश्रवणपूर्वकं चरमवर्णस्याकारस्य श्रवणे कम्बुग्रीवादिमदाद्यर्थप्रतीत्यापत्तिरिति घटादिपदे तावद्वर्मसमुदायस्य वाचकत्वमिति चेत्प्राप्तोदकादावप्युत्तरपदस्यैव श्रवणेनान्यपदार्थप्रतीत्यापत्तिरिति सममेव। ननु कौशादिप्रामाण्येन घटादिपदस्य तावद्वर्णसमुदायरूपस्यैव वाचकत्वमब्युपगम्यते। प्राप्तोदकादौ तु चरमपदलक्षणयैवोपषत्तौ न समुदायशक्तिः सिध्यति, कोशादेरभावात्, अनन्यलक्ष्यस्यैव शब्दार्थत्वाच्च। न चोत्तरपदमात्रश्रवणाल्लक्ष्यार्थबोधापत्तिः स्यादिति वाच्यम्। तदानीं प्राप्तादिपूर्वपदसंनिघानेऽपि तदश्रवणेन तादृशलक्षणायां तात्पर्यग्राहीकायाः पूर्वपदेपस्थितेरभावात्, श्रुतस्यैव स्वस्वरूपोपस्थापकत्वादित्याशयवानाह-अन्यत्रेति। बृहद्‌भूषणादावित्यर्थः। विस्तर इति। प्रत्ययानां संनिहितपूर्वपदार्थेत्यादिव्युत्पत्तिः स्वीकर्तुं न युज्यते। सर्वक इत्यादौ प्राक्‌टेरित्युक्तेरकचोमध्नि वतुवर्थान्वयापत्तेः। दधि बहुपटुर्ददातीत्यादौ दध्नि बहुजर्थान्वयापत्तेः, पटावनन्वयापत्तेश्च। किं चैवं प्रातिपदिकात्कर्मादौ स्वादय इति शास्त्रात् प्रत्यासत्तिलब्धया प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्युत्पत्त्योत्तरपदबोध्यलाक्षणिकेऽर्थे प्रकृत्यर्थत्वाभावात्तत्र प्रत्ययार्थान्वयानुपपत्तिः। उत्तरपदमात्रस्य प्रकृतित्वाभावात्। प्रकृतित्वस्य प्रत्ययार्थान्वयानुपपत्तिः। उत्तरपदमात्रस्य प्रकृतित्वाभावात्। प्रकृतित्वस्य प्रत्ययविधानावधित्वात्, तज्जन्यबोधविशेष्यत्वस्य च प्रकृत्यर्थत्वादिति भावः। तत्र व्युत्पत्त्यन्तरं स्वीक्रियते चेत्तदपेक्षया विशिष्टशक्तिस्वीकार एवोचित इति बोध्यम्। फलितमाह-एवं चेति। अषष्ठ्यर्थेति। प्राप्तोदकादावित्यर्थः। उक्तयुक्तेरिति। प्राप्तोदकादावन्वयानुपपत्तिरूपयुक्तेरित्यर्थः। व्युत्पत्त्यन्तरकल्पना-शक्त्यन्तरकल्पनाऽगत्या कर्तव्यैवेत्यर्थः। क्लृप्तत्यागपदं व्याचष्टे-क्लृप्तशक्त्येति। व्युत्पत्तित्यागश्चेति। क्लृप्तावयवशक्त्यैव निर्वाह इति नियमत्यागश्चेत्यर्थः। अन्ययोदककर्तृकप्राप्तिकर्मेतिबोधानुपपत्तेरिति भावः। तत्किं शक्तिमिति। यस्यात्प्राप्तोदकादावनायत्या समुदायशक्तिकल्पना कर्तव्या भवति तस्मात्सर्वत्रैव समासे सा कर्तव्येत्यर्थः। कुत्रचित्समासे समुदायशक्तिः कुत्रचिन्नेत्यर्धजरतीयस्यायुक्तत्वाद्राजपुरुषादौ समासेऽगत्या समुदायशक्तिस्वीकारावश्यकत्वस्याग्र उपपादयिष्यमाणत्वाच्चेति भावः। अथ स्वातन्त्र्येण पृथक्‌पृथगर्थोपस्थापकानां पदानामाकाङ्क्षादिवशाद्यः तंबन्धः सा व्यपेक्षेति व्यपेक्षालक्षणसामर्थ्यवादिनां नैयायिकमीमांसकादीनां मतं खण्डयितुमनुवदति-यत्त्विति। न समासे शक्तिरिति। राजपुरुषेत्यादिसमुदायरूपे समासेऽवयवशक्त्यातिरिक्ता विशिष्टसमुदायशक्तिर्नास्तीत्यर्थः। राजपुरुष इत्यादिविति। संबन्धिलक्षणयैवेति। राजादिपदं लक्षणया राजसंबन्धिपरमिति भावः। इति बोधोपपत्तेरिति। तथा च राजपुरुषेतिसमासस्य स्वामित्वादिसंबन्धेन राजविशिष्टपुरुषे शक्तिकल्पनां विनैव संबन्धिलक्षणया संबन्धबोधनिर्वाहे सति राजसंबन्धविशिष्टपुरुषेत्यादिविशिष्टबोदान्यथानुपपत्त्या समुदायशक्त्यङ्कीकारश्चिन्त्यप्रयोजन, गौरवापत्तेः। न च वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वाभावेन समासस्य प्रातिपदिकसंज्ञा न स्यादिति वाच्यम्। अर्थवत्पदस्य स्व-स्वावयवान्यतरवृत्त्याऽर्थबोधकमित्यर्थाश्रयणेनादोषात्। समासत्वादेव प्रातिपदिकसंज्ञासंवाच्चेति भावः। ननु राजपदादेः संबन्धिनि लक्षणायां गौरवापत्त्या लाघवात्संबन्ध एव लक्षणाऽस्तु। संबन्धरूपस्य लक्ष्यार्थस्याऽऽश्रयतासंबन्धेन पुरुषेऽन्वयाद्राजसंबन्धाश्रयः पुरुष इति बोधोपपत्तेरिति चेन्न। समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयनियमात्संबन्धस्याऽऽश्रयतारूपभेदसंबन्धेन पुरुषेऽन्वयासंभवाद्राजसंबन्धरूपः पुरुष इति बोधापत्तेः। स च पुरुषस्य संबन्धरूपत्वाभावादत्यन्तासंभवीति संबन्धिनि लक्षणाऽनुसृता। अत एवेति। संबन्धिनि लक्षणावीकारादेवेत्यर्थः। न शोभनस्येत्यादिविशेषणाम्वय इति। यथा शोभनायां गङ्गायां घोष इत्यत्र गङ्गापदमेव शोभनगङ्गातीरं लक्षयति, शोभनाषदं तु तादृशलक्षणायां तात्पर्यं ग्राहयति, अतस्तत्र लक्ष्यार्थैकदेशगङ्गायां शोभनान्वयवदत्रापि लक्ष्यार्थैकदेशे राजादावपि शोभनान्वयः स्यादिति शङ्का न कर्तव्या, राज्ञः पदार्थैकदेशत्वेन पदार्थः पदार्थेनेति नियमान्न तत्र शोभनस्येत्यादिविशेषणान्वय इत्यर्थः। यदि तु समासघटकराजपदस्य शोभनराजसंबन्धिनि लक्षणां कृत्वा शोभनपदं तादृशलक्षणाकरणे तात्पर्यग्राहकमित्युच्यते, तर्हि शोभनस्य राजपुरुष इति प्रयोगापत्तिरिति चेद्‌भ्रान्तोऽसि। तदानीं केवलराजपदस्य पदार्थैकदेशार्थकत्वेन पुरुषपदेन समासो न स्यात्, पदार्थः पदार्थेनेति नियमात्, किंतु ज्ञोभनपदसहितस्यैव राजपदस्य पुरुषपदेन समासः स्यादित्यर्थः। एवं च विशेषणविशिष्टस्वार्थघटितलक्षणा(शोभनराजसंबन्धीत्येवमाकारिकि)विशेषणस्य तादृशलक्षणायां तात्पर्यग्राहकता च वाक्य एव भवति, न तु समासे, इत्येवं नियमस्तीकारस्य समासशक्त्यनङ्गीकुर्वतां नैयायिकानामप्यावश्यकत्वादिति बोध्यम्। घनश्याम इत्यत्र घनपदस्य सादृश्यसंबन्धेनोत्तरपदार्थेऽन्वयः, निप्कौशाम्बिरित्यत्र निष्क्रमणावधित्वेन, गोरथ इत्यत्र स्वयुक्तत्वसंबन्धेन पूर्वपदार्थस्योत्तरपदार्थेऽन्वयः। एवं च संसर्गतयोवाद्यर्थोक्तावपि सादृश्यादि11.सादृश्यत्वादिविशेषरूपेण सादृश्यादिबोधार्थमित्यर्थः।प्रकारकबोधार्थमिवादिशब्दप्रयोगो दर्वार इत्याशङ्क्य समाधत्ते--न वेत्यादि। उक्तार्थकतयेति। समासे घनादिपदस्य घनादिसदृशाद्यर्थे लक्षणाकरणेन घनादिपदेनैव सदृशाद्यर्थस्योक्तत्वादुक्तार्थानामिति न्यायेनेवादिपदप्रयोगाभावस्य सिद्धत्वादित्यर्थः। धनादिपदे लक्षणानङ्गीकारे तु नामार्थयोरभेदान्वय इत्यन्वयनियामकव्युत्पत्त्यनुरोधेन सादृश्यादिभेदसंबन्धेनान्वयानुपपत्तिः स्यादिति भावः। संबन्धिनि लक्षणाकरणादेव वाक्यवाधकसमासविकल्पार्थं विभाषेति सूत्रमपि नात्यावश्यकमित्याह-न वा विभाषेतिसूत्रावश्यकत्वमिति। अयं भावः-यदा तत्पुरुषसमासे पूर्वपदस्व तत्संबन्धिनि लक्षणामङ्गीकृत्य राजसंबन्ध्यभिन्नः पुरुष इत्यर्थबोधनेच्छा तदा राजपुरुष इति समासः, यदा तु राजसंबन्धवान् पुरुष इत्यर्थबोधनेच्छा तदा राज्ञः पुरुष इति वाक्यमेवावतिष्ठते न तत्र समासः प्राप्नोति। राज्ञः पुरुष इत्यत्र राजपुरुषयोः संबन्धस्य वाचिका षष्ठी, संबन्धो हि संबन्धिभ्यां भिन्नः, द्विष्ठश्च भवतीति षष्ठीवाच्यसंबन्धस्याऽऽश्रयता-संबन्धेनान्वयः समासे तु विभक्त्यभावेन नामार्थयोः साक्षाद्भेदसंबन्धेनान्वयस्याव्युत्पन्नत्वात्स्वस्वामिभावरूपभेदसंबन्धेनान्वयस्य वक्तुमशक्यत्वेन राजपदे लक्षणाऽऽवश्यकी। सा च संबन्धिन्येव, न तु संबन्धे। तथा सति नामार्थस्य संबन्धस्याऽऽश्रयतासंबन्धेन पुरुषेऽन्वयो न स्यात्। नामार्थयोः साक्षाद्भेदेनानन्वय इति निरुक्तव्युत्पत्तेः। नामार्थयोः साक्षाद्भेदेनानन्वय इति व्युत्पत्तेरन्वयनियामिकाया अस्वीकारे राजा पुरुष इत्यत्रापि राजभिन्नः पुरुषः-राजनिष्ठस्वामितानिरूपितस्वतावान् पुरुष इत्यर्थको भेदसंबन्धेनान्वयः स्यात्। स च सर्वेषामनभिमतः। राज्ञः पुरुष इत्यत्र प्रत्ययार्थसंबन्धद्वारैव राजपुरुषयोरन्वयदर्शनात्साक्षादित्युक्तम्। प्रत्ययार्थमद्वारीकृत्वेति तदर्थः। नीलो घट इत्यादौ नामार्थयोरभेदेनान्वयदर्शनाद्भेदेनेत्युक्तं नियमशरीरे। अर्थान्नामार्थयोरभेदान्वयः सिद्ध एव, किं तु भेदेनान्वयोऽव्युत्पन्न इति भावः। एवं च समासव्यासयोर्भिन्नविषयत्वेन समासेन बाधाप्रसक्ते राजसंबन्ध्यभिन्नः पुरुष इत्यर्थे राजपुरुष इति समासः, राजसंबन्धवान् पुरुष इत्यर्थे राज्ञ' पुरुष इति वाक्येमेवेत्येवं प्रयोगनियमसंभवेन विभाषाधिकारोऽपि नावश्यक इति भावः। नीलोत्पलादिकर्मधाये तु प्रवृत्तिनिमित्तसाहित्ये, नीलोत्पलयोः साहित्ये वा लक्षणा। आद्ये-नीलोत्पलत्वसमूहवन्नीलमुत्पलमिति बोधः। द्वितीये तु-नीलसमानादिकरणं तदभिन्नमुत्पलमिति नीलं च तदुत्पलं चेति वाक्ये चद्वयेन तत्साहित्यं प्रतिपाद्यतेऽतो भिन्नविषयत्वं वृत्तिवाक्ययोः। एवं द्वंद्वेऽपि बोध्यम्। अन्ये तु नीलं च तदुत्पलं चेति वाक्ये नीलादिपदोत्तरविभक्तेरभेदोऽर्थः। तस्याऽऽश्रयत्वसंबन्धोनोत्तरपदार्थेऽन्वयः। समासे तु नीलादिपदेनैव लक्षणया नीलाद्यभेदः प्रतिपाद्यते। तथा च लक्षणया तादृशार्थ(नीलाभिन्नमुत्पलमित्यर्थ)विवक्षायां समासः, विभक्त्या तद्विवक्षायां वाक्यमिति व्यवस्थायाः संभव इत्यूचूः। एवमौपगवादावपि उपग्वदिशब्दस्योपग्वादिसंबन्धे लक्षणेति बोध्यम्। यदुक्तं समुदायशक्तिवादिभिर्यदि समासे विशिष्टशक्तिर्न स्वीक्रियते तर्हि पङ्कजशब्देऽवयवशक्त्यैव पङ्कजनिकर्दृत्वरूपेण पदमस्याप्युपस्थितौ सत्यां तत्रापि समुदायशक्तिर्न सिध्येदित्येवंरूपा या प्रतिबन्दी कोटिः साऽपि समुदायशक्तिसाधिका न भवतीत्याह-नापि पङ्कजपदप्रतिबन्दीति। शक्तिसाधिकेत्यस्य वृत्तिमात्रे शक्तिसाधिकेत्यर्थः। न भवतीति शेषोऽस्त्येव। पङ्कजपदप्रतिबन्दी यावद्‌वृत्तौ शक्तिं साधयितुं न प्रभवतीत्यत्र हेतुमाह-अवयवशक्तिमजानतोऽपीति। पङ्काधिकरणकोत्पत्त्याश्रयमित्याद्यवयवशक्तिज्ञानाभाववतोऽपीत्यर्थः। बोधादिति। पद्‌मत्वेन पद्‌मबोबोन्न पङ्कजशब्दो लाक्षणिक इति भावः। नन्ववयवशक्तिज्ञानाभावेऽपि लक्षणाकरणे किं प्रतिबन्धकमित्याशङ्क्य समाधत्ते--नचेति। नहीत्यर्थः। शक्त्यग्रह इति। अवयवशक्तिज्ञानाभावे सत्यवयवशक्यार्थोपस्थित्यसंभवेन शक्यसंबन्धरूपलक्षणायाः सुतरामसंभवात्तेभ्यः-पङ्कजादिशब्दघटकावयवेभ्यो विशिष्टार्थप्रत्ययः--पद्‌मत्वविशिष्टपद्‌मार्थबोधो न संभवतीति संबन्धः। तथा चावयवशक्तिज्ञानाभावावस्तायामपि पङ्कजशब्दात्पद्‌मत्वप्रकारकबोधस्यानुभवसिद्धस्योपपत्तये समुदायशक्तिरावस्यकीत्यर्थः। राजपुरुष इत्यादौ च समासघटकावयवयो राजपुरुषयोः शक्तिज्ञानसत्त्वाल्लक्षणैव। एवं चानुभवसिद्धपद्‌मत्वादिविशिष्टबोदान्यथानुपपत्तिरवयवशक्तिज्ञानशून्यस्थले पङ्‌कजादिपद एव समुदायशक्तिं कल्पयति न त्ववयवशक्तिज्ञानसत्त्वे राजपुरुषादौ सर्वत्र वृत्ताविति तात्पर्यार्थः। एवं रथः, कारशब्देऽपि समुदायशक्तिरङ्गीकार्यैवेति न पूर्वोक्ताधिकरणविरोध इति बोध्यम्। नन्वेवं राजाद्यवयवशक्तिज्ञानविरहदशायां राजसंबन्धी पुरुष इत्येवं बोधो न स्यादिति कृत्वा तत्रापि समुदायशक्तिः स्वीकर्तव्येत्याशङ्क्येष्टापत्तिरेव तदा बोधानुदयस्येति समाधत्ते--अत एवेति। अवयवशक्तिज्ञानस्य लक्षणायां कारणत्वादेवेत्यर्थः। न बोध इति। यदि राजपुरुषपदयोः शक्यार्थ एवाज्ञातस्तर्हि तत्संबन्धरूपलक्षणाया असंभवाद्विशिष्टार्थाबोधस्यानुभवसिद्धत्वादित्यर्थः। तथा चावयवशक्तिज्ञानविरहसमये बोदानुदय इष्ट एवेति भावः। अषष्ठ्यर्थबहुव्रीहौ लक्षणाया असंभव इति। बहुव्युत्पत्तिभञ्जनमिति मूल एव प्रागतद्व्याख्यातम्। बहुव्रीहावुत्तरमद एव लक्षणायां विनिगमकमाह-पूर्वपदस्येति। यौगिकत्वेनेति। प्रकृतिप्रत्यययोर्योगेन निष्पन्नत्वादित्यर्थः। तल्लभणाया इति। पूर्वपदलक्षणाया ज्ञानस्येत्यर्थः। धातुप्रत्ययतदर्थेति। धातुप्रत्यययोस्तदर्थयोश्च यज्ज्ञानं तज्जन्यतयेत्यर्थः। अयं विलम्बितत्वे हेतुः। स्वशक्यसंबन्धात्मकलक्षणाया ज्ञानेऽवयवशक्तिज्ञानस्य कारणत्वादवयवशक्तिज्ञाने चावयवज्ञानस्य कारणत्वात्प्रकृतिप्रत्ययज्ञानस्यापि लक्षणाहेतुत्वेन पूर्वपदलक्षणाया विलम्बितत्वमित्यर्थः। एतेनोत्तरपदलक्षणायां शीघ्रोपस्थितिकत्वरूपं प्रमाणं सूचितमिति भावः। ननु उन्दी क्लेदने' इति धातोः `व्कुन्‌शिल्पिसंज्ञयोः'(उ.2-32)इति क्वुन्‌प्रत्यये नलोपे चोदकशब्दस्य निष्पन्नत्वेन यौगिकत्वादुदककर्तृकप्राप्तिकर्मेत्यर्थे लक्षणायां प्राप्तपदस्य तात्पर्यग्राहकत्वेनोपयोगाच्चोत्तरपदलक्षणायामपि धातुप्रत्यययोस्तदर्थयोश्च ज्ञानस्याऽऽवश्यकत्वेन साम्यमेवेत्याशङ्क्योत्तरपद एव लक्षणायां मानान्तरं वक्ति-प्रत्ययानामित्यादि। संनिहितपदेति। स्वसंनिहितं सत्पूर्ववर्ति च यत्पदं तदर्थगतो यः स्वार्थः संख्याकर्मत्वादिस्तद्बोधकत्वं प्रत्ययानामित्यन्वयनियामकानुरोदाच्चोत्तरपद एव लक्षणा समुचितेत्यर्थः। राजपुरुषमानयेत्यत्र राज्ञि प्रत्ययार्थकर्मत्वाद्यन्वयो न, राज्ञः प्रत्ययपूर्ववर्तित्वेऽपि संनिहितत्वाभावात्। अन्यथा द्विवचनापत्तेः, पुरुषवद्राजानयनापत्तेश्चेति भावः। एवं कुण्डलिनं फस्येत्यादौ व्यवहिते कुण्डलादौ कर्मत्वाद्यन्वयापत्तिनिरासो ज्ञेयः। नन्वेवं घटादिपदेष्वपि चरमवर्णस्यैव वाचकता स्यात्, प्रत्ययाव्यवहितपूर्ववर्तित्वात्पूर्वपूर्ववर्णानां च वाचकतायां तात्पर्यग्राहकत्वेनोपयोगादित्येवं वैयाकरणोक्तां प्रतिबन्दीं निरासयितुमाह-घटादिपदे चेति। अतिरिक्तेति। घटादिपदघटकधात्वादिशक्यपेक्षयाऽतिरिक्ता वाचकता शक्तिरित्यर्थ। विशिष्टे कल्प्यते-विशिष्ट एव कल्प्यते। एवकारान्तर्भावेण व्याख्याने हेतुमाह--संकेतितत्वादिति। कोशादिनाऽभियुक्तव्यवहारेण च घटेत्येवमानूपूर्वीकसमुदायस्यैव कम्बुग्रीवादिमत्यर्थे संकेतितत्वेन बोधनादित्यर्थः। एवं पटादिशब्देष्वपि ज्ञेयम्। ननु व्यवहारादिना वाचकत्वस्य विशिष्टे निर्धारणेऽपि बोधकत्वं चरमवर्णस्यैव स्यादित्याशङ्क्याऽऽह-बोधकत्वस्यापीति। पर्याप्तिसंबन्धेन बोदजनकत्वाधिकरणत्वस्यापीत्यर्थः। अपिशब्देन वाचकत्वस्य संग्रहः। स च दृष्टान्तार्थः। तथआ च यथा वाचकत्वस्य पर्याप्तिसंबन्धेन प्रत्येकवर्णेऽसत्त्वमेवं बोधकत्वस्यापि पर्याप्तिसंबन्धेन प्रत्येकस्मिन्वर्णेऽसत्त्वादित्यर्थः। तेनाधिकरणत्वसंबन्धेन बोधकत्वस्य प्रतिवर्णे सत्त्वेऽपि न क्षतिरिति भावः। ननु चित्रगुरित्यत्र चित्रगोस्वामीति बोधान्यथानुपपत्त्या कल्प्यमाना लक्षणोत्तरपदवत्पूर्वपदेऽपि कल्प्या स्यादविशेषादित्यनुसंधाय ब्रूते--प्रकृते चेति। अत्यन्तसंनिधानेनेति। प्रत्ययाव्यवहितत्वरूपात्यन्तसंनिधानेनेत्यर्थः। उत्तरपद एवेति। प्रत्ययार्थान्वयसौकर्यमपि तत्रैव लक्षणाकरणे बीजमिति भावः। विशेष इति। प्रत्ययं प्रति पूर्वपदापेक्षयोत्तरपदस्यात्यन्तसंनिदानमेव विशेष इति उत्तरपद एव लक्षणेति भावः अथवा घटपटादिपदापेक्षया समासोत्तरपदलक्षणाया अन्वयसौकर्यादिकं विशेष इत्यर्थः। तथा च घटपटादिपदेषु चरमवर्णस्यात्यन्तं प्रत्ययसंनिधानेऽपि तस्यार्थबोधकत्वाननुभवात्समुदायस्यैव वाचकत्वं कल्प्यत इति भावः। किं च प्रत्ययात्यन्तसंनिधानेन चरमवर्णस्यैव वाचकत्वमस्तु, तच्चेष्टमेव नानिष्टमित्यत्र मीमांसकसंमतं दर्शयति--स्वीकृतं चेत्यादिना। चरमवर्मस्यैवेति। पूर्वपूर्ववर्णगततात्पर्यग्राहकत्वविशिष्टचरमवर्णस्येत्यर्थः। पूर्ववर्णगततात्पर्यग्राहकत्वं च पूर्वपूर्ववर्णानां यः श्रौतः साक्षात्करस्तज्जनितसंस्कारवत्त्वं, तादृशसंस्कारवत्त्वसहितचरमवर्मस्यैवेति। यावत्। तेन केवलचरमवर्णान्नार्थप्रत्ययो, नापि पूर्वपूर्ववर्णानर्थक्यमिति बोध्यम्।
एवं परस्परान्वययोग्यत्वरूपव्यपेक्षालणसामर्थ्यवादिनां नैयायिकमीमांसकादीनां मतमुपपाद्य तदयुक्तत्वे प्रतिपादयन्नाह--अत्रोच्यते इति। समासेऽपि व्यपेक्षैवेतिमतविषये दूषणमुच्यत इत्यर्थः। शक्यस्वीकार इति। समासे समुदायशक्त्यनङ्गीकार इत्यर्थः। तस्य--समासस्येत्यर्थः। प्रातिपदिकसंज्ञादिकमिति। आदिना सुब्लुक्, समुदायात्पुनः सुबुत्पत्तिः, अनुदात्तं पदमेकवर्जमित्यस्य प्रवृत्तिश्च गृह्यते। संज्ञादेरभावमुपपादयन्नाह-अर्थवत्त्वाभावेनोति। अर्थवत्सूत्रेऽर्थवदित्यत्र प्रशंसायां मतुप्। प्राशस्त्यं ब वृत्त्याऽर्थबोधजनकत्वम्शब्दशास्त्रप्रस्तावाच्छब्दस्वरूपमिति विशेष्यस्याध्याहारः। तथा च वृत्त्याऽर्थप्रतिपादकं यच्छब्दस्वरूपं तत्प्रातिपदिकसंज्ञकं भवतीत्यर्थः। न तु संबन्धमात्रैमतुपं स्वीकृत्य यथाकथंचिदर्थवत्त्वम्। तथा सति अनुकार्यानुकरणयोरभेदपक्षेऽनुकरणस्य वृत्त्याऽनुकार्यार्थप्रतिपादकत्वाभावेऽपि सादृश्यादिनाऽनुकार्यार्थस्मारकत्वेन यथाकथंचिदर्थवत्त्वसत्त्वात्प्रातिपदिकसंज्ञायां सुबुत्पत्त्या `भूः सत्तायाम्। इत्यादि सविभक्तिकमैव निदेंष्टव्यं स्यात्, न तु-भू सत्तायामिति विभक्तिशून्यमिति तदसंगतमेव स्यादिति भावः। एवं च समासघटकपदयोः प्रत्येकं वृत्त्याऽर्थप्रतिपादकत्वेऽपि समुदाये शक्त्यनङ्गीकारेण राजपुरुषेत्यादिसमासस्य वृत्त्याऽर्थप्रतिपादकत्वाभावेन प्रातिपदिकसंज्ञा न स्यात्। ततश्चालौकिकप्रक्रियावाक्यस्थसुबलुङ्न स्यात्, अनुदात्तं पदमिति शेषनिघातश्च न स्यादित्यर्थः। न चाऽऽकाङ्क्षादिवशात्स्वस्वावयवान्यतरवृत्त्याऽर्थप्रतिपादकत्वरूपमर्थवत्त्वमर्थवत्सूत्रे ग्राह्यमिति वाच्यम्। गौरवात्। चित्रगुरित्यादौ तदसंभवाच्च। गोशब्दस्यैव लक्षणया विशिष्टार्थप्रतिपादकत्वात्। न चार्थबोधजनकत्वविशिष्टज्ञानविषयशब्दत्वमेवार्थवत्त्वं तत्र ग्राह्यम्। तच्चेकस्य पदस्य लक्षणया, अपरस्य पदस्य तत्र तात्पर्यग्राहकतया चेत्येवं समासरूपसमुदायस्याक्षतमेवेति न चित्रगुरित्यादौ प्रातिपदिकसंज्ञाद्यनुपपत्तिरिति वाच्यम्। तथा सति प्रत्येकमपि प्रातिपदिकसंज्ञासंभवेन प्रत्येकस्माच्छब्दाद्विभक्त्युत्पत्त्यापत्तेः। न चैकाच्‌द्विर्वचनन्यायेन समुदायादेव विभक्तिरुत्पत्स्यते, न प्रत्येकस्मादिति वाच्यम्। यत्र समुदायकार्येण तदवयवा अपि तत्कार्यभाजो जायन्ते तत्रैव तन्न्यायप्रवृत्तिस्वीकारात्। यथा पचू इति समुदाये द्विरुक्ते अ, अच्, प, इत्येवमन्येऽपि तदवयवा द्विरुक्ता भवन्ति। यथा वा मूलप्रदेशे वृक्षे प्रचालितेऽन्येऽपि तदवयवाः शाखादयः प्रचालिता भवन्ति तद्वदित्यर्थः। एकाचो द्वे प्रथमस्येत्यादिनिर्देशेन प्रत्येकस्माद्विभक्तिवारणे तु महद्‌गौरवमिति स्पष्टमेवेति भावः। नन्वेवं राजपुरुषादिसमासेऽर्थवत्सूत्राप्राप्तावपि कृत्तद्धितेत्युत्तरसूत्रे समासग्रहणादेव समासस्य प्रातिपदिकसंज्ञा स्यादिति शङ्कते-न च कृत्तद्धितेति। समासग्रहणादिति। सा-प्रातिपदिकसंज्ञा। तथा च समासग्रहणं विध्यर्थमित्यभिमानः शङ्कितुः। नियमार्थताया भाष्यसिद्धाया इति। सिद्धे सत्यारम्भो नियमार्थ इति न्यायेन समासस्य प्रातिपदिकसंज्ञासिद्धिं विना नियमार्थत्वासिद्धिः संज्ञासिद्धिश्च पूर्वसूत्रेणैव वक्तव्येति तदुद्देश्यार्थवत्पदार्थज्ञानं विना संज्ञासिद्धेर्वक्तुमशक्यत्वादर्थवत्सूत्रे यादृशमर्थवत्त्वं विवक्षितं तदुच्यते-अर्थशब्दान्मतुप्, अर्थशब्पश्चाभिधेयवचनः, एवं च वृत्त्याऽर्थबोधकं यत्तत्प्रातिपदिकसंज्ञमित्यर्थाद्‌वृत्त्याऽर्थप्रतिपादकत्वमर्थवत्त्वमित्यर्थः। वृत्तिशब्देन च लौकिकालौकिकसादारण्येन वृत्तिसामान्यमभिप्रेयते। तत्र यस्य शब्दस्यान्वये योऽर्थः प्रतियते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थ इत्यन्वयव्यतिरेकसिद्धा वृत्तिर्लौकिकी इयमेवाभिधा, वाच्यवाचकभावः शक्तिरिति शब्दैर्व्यवह्रियते `कर्तरि कृत्, तयोरेव कृत्यक्त, द्व्येकथोर्द्वि, तस्यापत्यम्, इत्यादिरलौकिकी। एतदनुसंधायेवोक्तं वृहद्वैयाकरणभूषणे पृष्ठे(162)अर्थवत्सूत्रेऽर्थवत्त्वमर्थप्रतीत्यनुकूलवृत्तिमत्त्वमात्रमिति। शक्तिलक्षणाद्योतनान्यतमसंबन्धोनार्थबोधजनकत्वमित्यर्थः। लघुमञ्जूषायां(प्रक.5पृष्ठं12)वृत्त्याऽर्थबोधकत्वभेवेति। शब्दरत्नटीकायां भैरव्यामपि-पूर्वसूत्रेऽर्थवत्त्वं वृत्तिमत्त्वसामान्यमभिप्रेतमिति। तथा चार्थवत्सूत्रेण प्रातिपदिकसंज्ञायाः सिद्धत्वात्समासग्रहणं नियमार्थमेव, न विध्यर्थम्। राजपुरुषादिसमुदाये सिद्धान्ते विशिष्टशक्तिस्वीकारादिति भावः। ननु सिद्धान्तेऽपि असूर्यंपश्याः, अश्राद्धभोजीत्यादावसूर्यमिति अश्राद्धमिति चासमर्थसमासः, अत्र नञर्थस्य सूर्यकर्मिकया दृशिक्रियया संबन्धो, न सूर्येण, सूर्यं न पश्यन्तीत्यर्थावगमात्, तथाऽश्राद्धमित्यत्रत्यञो भुजिक्रियया संबन्धो न श्राद्धेन, श्राद्धभोजननिषेधावगमात्। तथा चासमर्थसमासे वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वाभावात्तत्र संज्ञाविधानार्थमावश्यकं समासग्रहणमिति तदेवेदानीं समुदायशक्त्यनङ्गीकर्तृमते वृत्त्याऽर्ताभिधायकत्वाभावेऽपि समासे संज्ञाविधायकं स्यादिति चेन्मैवम्। असूर्यमित्यादावपि असूर्यमित्यादेः सूर्यकर्मकदर्शनाभाववति, श्राद्धकर्मकभोजनाभाववति च शक्तिकल्पनेनार्थवत्सूत्रेणाव सिद्धत्वात्। न च शशशृङ्गमित्यादौ शशीयशृङ्गस्यात्यन्ताप्रसिद्धेरर्थाभावेनानर्थकस्य संज्ञार्थं तदावश्यकं, अन्यथा प्रातिपदिकसंज्ञा न स्यादिति वाच्यम्। तत्रापि विशकलितप्रसिद्धं शृङ्गादिकमारोपितसंबन्धे शक्यं, नाम-गवादिष्वनुभूतं शृङ्गं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्षितं शशशृङ्गपदावाच्यमतोऽर्थवत्सूत्रस्य प्राप्तिसत्त्वात्। किं च समासरूपधर्मिग्राहकात्, असूर्यललाटयोरिति मानादसूर्येत्यस्य प्रातिपदिकसंज्ञा सिध्यति। नहि प्रातिपदिकत्वं सुबुत्पत्तिं च विना समीपोच्चारितपदत्वरूपमुपपदत्वं निर्वहति। स्वाप्नपदार्थानुभवानुरोधेन बौद्धपदर्थस्याऽऽवश्यकत्वेन शशशृङ्गादौ बौद्धः शशशृङ्गादिरर्थो वाच्य इति स्पष्टं निबन्धेष्विति बोध्यम्। तथा च सिद्धान्ते समासग्रहणस्यनियमार्थत्वमेव। ननु विशिष्टशक्त्यस्वीकारे राजपुरुषादिसमासे प्रत्येकमवयवस्य वृत्त्याऽर्थप्रतिपादकत्वेऽपि समुदायस्य वृत्त्याऽर्थप्रतिपादकत्वरूपार्थवत्त्वाबावात्प्रातिपदिकसंज्ञा न प्राप्नोति तद्विध्यर्थमेवास्तु, नियमव्यावर्त्यस्य गामानयेत्यादेर्वृत्त्याऽर्थप्रतिपादकत्वाभावादेव प्रातिपदिकसंज्ञाया अप्राप्तेर्दोषाभावेन तस्य नियमार्थत्वाभावेऽपि न क्षतिः। नचाप्रत्ययस्येति निषेधाज्जन्मवान् कर्तेत्यादौ प्रातिपदिकसंज्ञान स्यादिति वाच्यम्। कृत्तद्धि त्युत्तरसूत्रेण तत्संभवात्। न च संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति निषेधात्तदन्तविधेरसंभव इति वाच्यम्। केवलयोः कृत्तद्धितयोः संज्ञायाः प्रयोजनाभावेन तदन्तविधेरनिवार्यत्वादिति चेन्न। केवलकृत्तद्धितयोः प्रातिपदिकसंज्ञायां फिषोऽन्त उदात्त इति फिट्‌स्वरप्रवृत्तेरेव प्रयोजनत्वात्। न च मत्ययस्वरेण बाधान्न फिट्‌स्वरप्रवृत्तिसंभव इति वाच्यम्। येन नाप्राप्तिन्यायेन प्रत्ययस्वरापेक्षया प्रातिपदिकस्वरस्य सुब्धातौ धातुस्वरस्येव बलीयस्त्वात्। तथा च तदन्तविधेरभावाज्जन्मवानित्यादौ प्रातिपदिकसंज्ञा न स्यादिति चेन्न। उत्तरसूत्रे तदन्तग्रहणायार्थवदित्यनुवृत्तेरावश्यकत्वेन कृत्तद्धिता। नामनर्थकानामप्रसिद्धेर्वृत्त्याऽर्थबोधजनकत्वरूपार्थवत्त्वग्रहणेऽर्थवद्‌ग्रहणानुवृत्तिवैयर्थ्येन तत्सामर्थ्यात्समुदायशक्त्या विशिष्टार्थबोदजनकत्वरूपविशिष्टार्थवत्त्वमुत्तरसूत्रे गृह्यते। तादृशविशिष्टार्थवत्त्वं च न केवलकृत्ताद्धितानां संभवति, तत्र पारिभाषिकार्थवत्त्वाभावात्। ततश्च तादृशविशिष्टार्थवन्तौ यौ कृत्तद्धितावित्यभेदेन विशेषणविशेष्यभावानुपपत्तिरिति तदुपपत्तये कृत्तद्धितांशे तदन्तविधिः सिध्यतिकृत्तद्धितान्तेष्वेव पारिभाषिकार्थवत्त्वस्य सत्त्वात्। तथा च जन्मवानित्यादौ न संज्ञाया अनुपपत्तिः। एवं विशिष्टार्थत्त्वार्थकार्थवत्पदस्याभेदैन समासपदेनाप्यन्वयाद्विशिष्टार्थवान् यः समासस्तस्य प्रातिपदिकसंज्ञाविदानात्समासे विशिष्टसक्त्यनङ्गीकारे समासग्रहणेनापि न संज्ञा सिध्यति। तथा च समासग्रहणस्य विध्यर्थत्वं न संभवति। न चानुवृत्तार्थवत्पदस्य तदन्तविधिसिद्ध्यर्थं कृत्तद्धितयोरवान्वयोऽस्तु, न समासेऽपि प्रयोजनाभावात्। तथा च विशिष्टशक्त्यनङ्गीकारेऽपि समासस्य कृत्तद्धितेति सूत्रे समासग्रहणादेव संज्ञा सिध्येदिति वाच्यम्। तथा सति `कृत्तद्धितसमासाः' इति द्वंद्वस्यासाधुतापत्तेः। श्रन्यतरस्य पाण्डित्ये मैत्र चैत्रो पण्डिताविति प्रयोगाभावात्। द्वंद्वघटकयावत्पदार्थ इतरपदार्थान्वय एव द्वंद्वस्य साधुत्वं, न तु तद्‌घटकयत्किंचित्पदार्थे इतरपदार्थान्वये, इत्यनुशासनतोऽभ्युपगमात्। सौत्रत्वात्साधुत्वकल्पनं त्वगतिकगतित्वाद्‌गौरवापादकमेव। परस्परसापेक्षाणां भेदानभ्युपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वय एवेतरेतरयोगे समासः संभवति। परस्परसापेक्षत्वसूचनायैव चैत्रश्च मैत्रश्चेति वाक्ये प्रत्येकं चशब्दप्रयोगः। तयोः परस्परापेक्षित्वं च प्रत्यासत्त्या स्वसमभिव्याहृतपाण्डित्य एवेति परस्परोपक्षित्वलक्षणसामर्थ्यसत्त्वादितरेतरपोगद्वंद्वः समासो भवति। एकतरस्यापाण्डित्ये परस्परापेक्षित्वसामर्थ्याभावाद्‌द्वंद्व एव न प्राप्नोतीति तत्र द्वंद्वस्यासाधुत्वमुच्यते। एवं च द्वंद्वघटकयावत्पदार्थे, इतर(द्वंद्बाघटक)पदार्थान्वय एव द्वंद्वस्य साधुत्वं, न द्वंद्वघटकयत्किंचित्पदार्थे, द्वंद्वाघटकपदार्थान्वये, इति नियमो लभ्यते। इतरेत्यस्य द्वंद्वघटकीभूतपदार्थातिरिक्तेत्यर्थः। एवं सति वृत्तिघटकपदार्तथातिरिक्तस्य विशिष्टार्थबोधजनकत्वरूपानुवृत्तार्थवत्पदार्थस्य यदि कृत्तद्धितयोरेवान्वयः स्यान्नसमासे, तर्हि कृत्तद्धितसमासेति पदत्रस्य विशिष्टार्थबोधजनकत्वरूपेऽर्थवत्त्वे परस्परानपेक्षित्वेन परस्परसापेक्षत्वलक्षणसामर्थ्याभावात्समासो न स्यात्, किं तु `कृत्तद्धितौ समासश्च' इत्येव निर्देष्टव्यं स्यात्। यस्माच्च तताऽकृत्वा पदत्रयस्येतरेतरयोगे द्वंद्वः कृतस्तस्मादनुवृत्तार्थवत्पदस्य समासपदेऽप्यन्वयः कार्य एव। तथआ च समासादौ विशिष्टशक्त्यनङ्गीकारेऽर्थवत्त्वाभावात्समासस्य संज्ञा न भवति। न चैवं समासादौ विशिष्टशक्त्नङ्गीकर्तृमते समासग्रहणं व्यर्थमेव स्यादिति तद्विधायकमेवास्तु समासश्च सौत्रत्वादुपपादनीय इति वाच्यम्। तथा सति बहुपटच इत्यत्र जसन्तात्पूर्वं बहुचि कृते तस्य तद्धितान्तत्वाभावान्नोत्तरसूत्रेण संज्ञा प्राप्नोति। नापि पूर्वसूत्रेण, प्रकृतिप्र्तयययोः प्रत्येकं वृत्त्याऽर्थप्रतिपादकत्वेऽपि समुदायस्य वृत्त्यार्थप्रतिपादकत्वाभावात्। तथा च चितः सप्रकृतेरिति वचनेन चित्त्वप्रयुक्तान्तोदात्तत्वं वकारोत्तरवर्तिनोऽकारस्य स्यात्, बहुपटवः इति, इष्यते तु टकारोत्तरवर्तिनोऽकारस्य बहुपटवः, इति। प्रतिपदिकसंज्ञायां सत्यां तु अन्तरङ्गानपि विघीन् बहिरङ्गो लुग्बाधते, इति न्यायेन प्रथमजसो लुगुत्तरमवे प्रवर्तते स्वर इतीष्टसिद्धिः। न च तद्धितशब्दस्य तद्विशिष्टपरतया कृत्तद्धितेतिसूत्रेणैवात्र प्रातिपदिकसंज्ञेति वाच्यम्। पचतकीत्यादावतिप्रसङ्गात्। अव्ययसर्वनाम्नामित्यत्र तिङश्चेत्यनुवर्तनात्पचतीति तिङन्तस्याकच्। बहुपटवस्तिष्ठन्तीति वाक्यस्य तद्धितविशिष्टत्वात्तत्रातिप्रसङ्गाच्च। एवं च बहुपटव इत्यत्रावस्यमेष्टव्या संज्ञा न स्यादित्येको दोषः। अपरश्च मूलकेनोपदंशमित्यत्र तृतीयाप्रभृतिन्यन्यतरस्यामिति समासाभावपक्षे कृदन्तत्वात्प्रातिपदिकसंज्ञापत्तिः स्यात्। न च समुदायोत्तरं कृद्विहित इति न तत्कृदन्तमिति वाच्यम्। कृद्‌ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति परिभाषया विशिष्टग्रहणसंभवात्। मूलकस्योपदंशनकर्मत्वं भुजौ करणत्वं चास्ति, विभक्तिस्तु प्रधानक्रियां प्रति करणत्वप्रयुक्ता तृतीयैव कृतेति मूलकस्योपदंशनकारकत्वाक्षतेः। तथा च मूलकेनेति विभक्तेर्लुक् स्यात्। न च समासतदभावयोरैकरूप्ये समासविकल्पे फलाभाव इति वाच्यम्। समासे उत्तरपदप्रकृतिस्वरः असमासे तूदात्तद्वयमिति स्वरविशेषस्य तत्फलत्वसंभवात्। तथा चात्रापि दोष एव। किं च वृत्त्याऽर्थप्रतिपादकत्वमर्थवत्त्वमर्थवत्सूत्रे गृह्यते चेद्विशिष्टशक्तिमस्वीकुर्वतां प्राचीनवैयाकरणानां मते हरिषु करोषीत्यादौ प्रकृतिप्रत्ययोः प्रत्येकं वृत्त्याऽर्थप्रतिपादकत्वेऽपि समुदायस्य वृत्त्याऽर्थप्रतिपादकत्वाभावात्संज्ञा न प्राप्नोतीति प्रत्ययान्तपर्युदासो विफलः, तत्सार्थक्याय प्रकृति त्ययसमुदायस्य प्रातिपदिकसंज्ञा भवतीति कल्प्यते। कृत्तद्धितान्तयोः प्रत्ययान्तत्वान्निषेधे प्राप्ते विध्यर्थ(प्रतिप्रसवार्थ)मुत्तरसूत्रे कृत्तद्धितग्रहणम्। बहुपटव इत्यत्र प्रकृतिप्रत्ययसमुदायत्वात्प्रातिपदिकसंज्ञायं सत्यां सिद्ध इष्टः स्वरः। तथाऽपि बहुपटव इत्यत्रेष्टस्वरसिद्ध्यर्थं प्रत्ययान्तपर्युदासोऽवश्यं वक्तव्य इति गौरवमेव दोषः। विशिष्टशक्तिस्वीकारे कृत्तद्धितान्तयोर्वृत्त्याऽर्थप्रतिपादकत्वेनार्थवत्सूत्रेणैव संज्ञायाः सिद्धत्वाद्धात्तोः प्रत्ययान्तस्य च चेद्भवति संज्ञा तर्हि कृत्तद्धितान्तयोरेवेति नियमेन धातुपर्यदासः प्रत्ययान्तपर्युद सश्च प्रत्याख्यातो भाष्ये। न चोत्तरसूत्रे संज्ञाविधौ प्रत्ययग्रहण इति निषेधात्तदन्तग्रहणं न स्यात्। कृत्तद्धितान्तयोर्विशिष्टार्थप्रतिपादकत्वाभावेनार्थवदित्यनुवृत्तिसामर्थ्यादपि न तदन्तविधेः संभवः। किं तु प्रत्ययपर्युपदासान्निषेधे प्राप्ते केवलप्रत्ययोरेव संज्ञाविधानार्थं कृत्तद्धितग्रहणमिति वाच्यमिति चेन्न। भाष्ये प्रत्ययपर्युदासानुक्तेर्वृत्त्वाऽर्थप्रतिपादकत्वात्प्रत्ययस्यार्थवत्सूत्रेणैव सिद्धेः पुनस्तद्‌ग्रहणं तदन्तार्थमेवेत्यनुमीयते। नच सिद्धे सत्यारम्भो नियमार्थ इति न्यायेन प्रत्ययस्य चेद्भवति संज्ञा तर्हि कृत्तद्धितयोरेवेति नियमार्थं तद्‌ग्रहणमिति वाच्यम्। प्रत्ययपर्युदासानुक्तिपरभाष्यविरुद्धत्वात्। प्रत्ययपर्युदासानुक्तिभाष्यात्प्रत्ययस्य संज्ञायामपि फलाभावदोषाभावयोरवगमात्। फलदोषयोः संभवेऽवश्यं स पर्युदास उक्तः स्यात्। तथा च तदन्तसंज्ञार्थमेवेति बहुपटव इत्यत्र प्रातिपदिकसंज्ञार्थं प्रत्ययान्तपर्युदासः कर्तव्य इति गौरवमेको दोषः। अपरश्च मूलकेनोपदंशमित्यादौ कृद्‌ग्रहणपरिभाषया कृदन्तत्वात्संज्ञा प्राप्नोतीति दोषः। एवं च न प्राचीनवैयाकरणोक्तरीत्या क्लॄप्तशक्त्योपपत्तिर्भवतीति सर्वत्र समासादौ विशिष्टशक्तिः स्वीकार्येत्यभिप्रायः। सा च विशिष्टशक्तिः कृत्तद्धितादिपञ्चवृत्तिष्विव वाक्येऽप्याश्रयणीया। इयान् परं विशेषः-कृत्तद्धितादिपञ्चवृत्तिषु वर्तमाना विशिष्टशक्तिरेकार्थीभावशब्देन व्यवह्रियते, न वाक्ये वर्तमानेति। वाक्ये विशिष्टशक्तिस्वीकारादेव `वाक्यप्रतिषेधोऽर्थवत्त्वात्' वाक्यस्य प्रातिपदिकसंज्ञायाः प्रतिषेधः कर्तप्यः, कुतः? अर्थवत्त्वात्, वाक्यस्य विशिष्टार्थवत्त्वादित्यर्थः। इत्युक्त्वा `न वै पदार्थादन्यस्यार्थस्योपलब्धिर्भवति वाक्ये' पदानि स्वस्वमर्थं प्रतिपादयन्ति वाक्यम्। पदार्था एव त्वाकाङ्क्षायोग्यतासंबिधिवशात्परस्परसंसृष्टा वाक्यार्थः। न तु वाक्यं वाक्यार्थो वा पृथगस्तीति। एवं च पदार्थैरवाऽऽकाङ्क्षादिभिः संसर्गस्य गम्यमानत्वान्न तत्र वाक्यशक्तिक्वाक्यस्यातिरिक्तस्याभावाच्चेत्याशङ्क्य तदुपरि सिद्धान्त उक्तः-`पदार्थादन्यस्यानुपलब्धिरिति चेत्पदार्थाभिसंबन्धस्योपलब्धिः,' देवदत्त गामभ्याज शुक्लामिति वाक्यस्थपदानां सामान्ये वर्तमानानां यद्विशेषेऽवस्थानं स वाक्यार्थः, तस्मात्प्रतिषेधो वक्तव्य इत्यर्थवत्सूत्रे भाष्य उक्तम्। अत्र केयटः-ध्वनिव्यङ्ग्यं नित्यं वाक्यं विशिष्टार्थस्य=विशेषणत्वादिविशिष्टस्यार्थस्य, पदार्थसंसर्गरूपस्य वाचकम्। अन्यथा ह्यशाब्दो वाक्यार्थः स्यादिति। सामान्ये वर्तमानानां--विशेषणविशेष्यत्वरहितस्वस्वार्थे वर्तमानानामित्यर्थः। विशेषेऽवस्थानं--विशेषणत्वादिविशिष्टे पदार्थसंसर्गरूपे वाक्यार्थेऽवस्थानमित्यर्थः। यदि च पदार्थसंसर्गो वाक्यशक्यो न स्यात्तर्हि वाक्यार्थस्याशाब्दत्वेनाप्रामाण्यादनाश्वासेन `ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिः श्रौतव्यवहारो लौकिकव्यवहारश्च सर्व उच्छिन्नः स्यादित्यनेन प्रघट्टकेन पदार्थसंसर्गरूपे वाक्यार्थे वाक्यस्य शक्तिः समाश्रयणीयैवेति सिध्यति। एवं च समासस्य शक्तिवृत्त्याऽर्थप्रतिपादकत्वेनार्थवत्त्वादर्थवत्सूत्रेणैव संज्ञासिद्धेः समासग्रहणं नियमार्थं संपद्यते। नियमाकारश्च--यत्र संधाते पूर्वो भागः पदं, उत्तरश्च प्रत्ययो नेत्येवंरूपो मनोरमोक्तो बोध्यः। तेन च मूलकेनोपदंशमित्यत्र कृशक्त्यभावेन शक्यसंबन्धरूपसक्षणाया अप्यसंभवेन लाक्षणीकार्थवत्त्वस्याप्यसंदन्तत्वात्प्राप्ता, गामानयेत्यादिवाक्यस्याप्रत्ययान्तत्वादर्थवत्सूत्रेण प्राप्ता च संज्ञा न भवति। ततश्च सुब्लोपादिकं न भवतीति दोषाभावः। वहुपटव इत्यस्य नियमाकारकुक्षिप्रविष्टत्वाभावादर्थवत्सूत्रेण संज्ञासिद्धिरिति सर्वं सुस्थम्। यत्तूच्यते यद्यर्थवत्सूत्रे वृत्त्याऽर्थप्रतिपादकत्वरूपमर्थवत्त्वं गृद्यते तर्ह्येकार्थीभावस्य वृत्तिमात्रे सत्त्वात्त्कृत्तद्धितान्तयोः समासस्य चार्तवत्सूत्रेणैव संग्रहात्सुबन्ततिङन्तयोरेकार्थीभावाभावेनासंग्रहादर्थवत्सूत्रे प्रत्ययान्तपर्युदासस्य कृत्तद्धितेति सूत्रस्य च वैयर्थ्यापत्तिदुर्वारेति। तन्न। क्विबन्तदातुनां क्विब्लोपे सति छिद् भिद्, इत्यादावधआतुरिति पर्युदासात्, इयान् इयदित्यादाविदम्‌शब्दात्परस्य वतुपो वकारस्य घकारादेशे तस्येयादेशे च इदंकिमोरीश्‌की, इतीदंशब्दस्येशादेशे तस्य यस्येति चेति लोपे, इयत्, इति केवलं प्रत्ययरूपमवशिष्टं, तत्राप्रत्यय इति पर्युदासात्संज्ञानापत्तेः। विधायकाभावात्। तदर्थं कृत्तद्धितग्रहणस्य विध्यर्थत्वे प्रागुक्तेषु मूलकेनोपदंशं, दश दाडिमानीत्यादिषु दोषप्रसङ्ग इति समासग्रहणं नियमार्थमिति बोध्यम्। एवं प्राचीनवैयाकरणरीत्या समासे शक्त्यस्वीकारे क्लृप्तशक्त्योपपत्तिर्न भवतीति प्रतिपाद्याथ नैयायिकादिरीत्या लक्षणयाऽप्युपपत्तिर्न भवतीति ब्रूते-समासवाक्ये शक्त्यभावेनेत्यादि। समासें विशिष्टशक्त्यस्वीकारे समासरूपवाक्यस्य कस्मिंश्चिदप्यर्थे शक्तिर्नास्तीति समासस्य शक्यार्थाभावाच्छक्यसंबन्धरूपलक्षणाया अपि वक्तुमशक्यत्वाल्लाक्षणिकार्थवत्त्वस्यापि समासेऽसत्त्वान्न लक्षणया नैयायिकादिरीत्याऽप्युपपत्तिर्भवतीति सर्वत्र समासे विशिष्टशक्तिस्वीकार आवश्यकः। अवेदं बोध्यम्--न्यायवैशेषिकादिमते वाक्ये लक्षणा नास्ति। स्ववाच्यसंबन्धो लक्षणा इति तल्लक्षणात्। स्वं-गङ्गापदं, तच्छक्योऽर्थः जलप्रवाहविशेषः, तस्य साक्षात्संबन्धः संयोगाख्यस्तीरे, सोऽर्थनिष्ठः संबन्ध एव गङ्गाशब्दे आरोपितो लक्षणेति समन्वयः। तेन चाऽऽरोपितेन शब्दव्यापारेम गङ्गापदाल्लक्ष्यभूततीरोपस्थित्या गङ्गातीरे घोष इति शब्दबोधो भवति। स्वशक्यसंबन्धो लक्षणेत्युक्तेः। स्वस्य-पदस्य, लक्षपार्थेन परम्परासंबन्धो यः स एव लक्षणेत्यभिप्रेतमिति गम्यते। यतः पदस्य साक्षात्संबन्धः शक्यार्थेनेव, तस्यैव पदस्य लक्ष्यार्थेन परम्परासंबन्धो यः सैव लक्षणा। साक्षात्संबन्ध एव शक्तिर्वाच्यवाचकभावोऽभिधावृत्तिरिति वा भण्यते। परम्परासंबन्धस्तु लक्षणा, जघन्यवृत्तिरिति चोच्यते। एवं च पदसमुदायरूपस्य वाक्यस्य कस्मिंश्चिदप्यर्थे शक्यभावेन वाक्यशक्यप्रसिद्धेः कथं तत्र शक्यसंबन्धात्मिका लक्षणा घटेत। वाक्यशक्याप्रसिद्ध्या तच्छक्यसंबन्धरूपलक्षणाया अपि वाक्येऽप्रसीद्धिरिति भावः। मीमांसकास्त्वेवं मन्यन्ते-यदि वाक्ये लक्षणा न स्वीक्रियते कथं यदि तर्हि गभीरायां नद्यां घोष इत्यत्र लक्षणा। तत्र प्रत्येकं पदेषु लक्षणा न संभवति। यदि गभीरपदं तीरलक्षकं, तर्हि नद्यामित्यनेन सहानन्वयापत्तेः। नहि तीरं नदी। गद्यामित्यनेनानन्वयापत्तेरेव नापि नदीपदं च नदीतीरपरमिति पदद्वये प्रत्येकं सा। तथा सति गम्भीर्येविशिष्टा या नदी, तादृशनदीतीराप्राप्तिप्रसङ्गात्। तस्मात्पदलक्षणाया वक्तुमशक्यत्वेन वाक्येऽपि साऽवश्मभ्युपेया। परं तु वाक्ये शक्तिरेव नास्तीति क्थ तत्र शक्यसंबन्धरूपा लक्षणेति चेत्तर्हि स्वबोध्यसंबन्ध एव लक्षणालक्षणमस्तु। बोध्यत्वं च शाब्दबोधे भासमानत्वम्। स्वं-राजपुरुषेत्यादिसमासरूपं वाक्यं, तस्य साक्षात्संबन्धो वाक्यावयवराजपुरुषपदाभ्यां, तयोश्च पदार्थसंसर्गरूपवाक्यार्थेनेति वाक्यस्य परम्परया वाक्यार्थेन संबन्धाल्लक्षणसमन्वयः। पदानुपस्थाप्यस्यापिलक्ष्यतावच्छेदकतीरत्वादेः शाब्दबोधे भानसत्त्वाद्यथा बोध्यत्वं तद्वत्पदानुपस्थितस्यापि पदार्थसंसर्गरूपवाक्यार्थस्य शाब्दबोधे भानसत्त्वाद्बोध्यत्वम्। तता च यथा पदीयशक्यता शक्तिवृत्तिबोध्या, तथा परम्परासंबन्धविशिष्टः पदार्थसंसर्गरूपो वाक्यार्थेऽपि वाक्यबोध्यो भवति। ततश्च बोध्यसंबन्धरूपा लक्षणा पदवद्वाक्येऽप्यस्तीति वाक्यमपि लक्षकमिति। एवं च राजपुरुष इत्यादिसमासवाक्येन पदार्थसंसर्गरूपो वाक्यार्थो गङ्गायां घोष इत्यत्र गङ्गापदेन तीरमिव लक्ष्यत इति मीमांसकमतेन वाक्येऽपि लक्षणा सिध्यति। तदुक्तं-`सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति च स्थितम्' इति। वाक्ये लक्षणास्वीकारादेव प्राभाकरा अप्यर्थवादवाक्ये प्राशस्त्यलक्षणां मेनिरे। तदुक्तं नयविवेकटीकायां वरदराजेन-यद्यप्येकैकपदसंबन्धिता प्राशस्त्ये नास्ति, एकैकपदादप्रतीतेस्तथाऽपि समुदायसंबन्धिताऽस्त्येवेति। अत एव ग्राहवती नदी, इति वाक्यस्यात्र मा स्नाहीत्यर्थे लक्षणेत्युघोषः संगच्छते। तदेतन्नैयायिका न सहन्ते-यदुक्तं गभीरायां नद्यां घोष इत्यत्र वाक्यलक्षणेति तदसारम्। तत्र तदीपदमेव गभीरनदीतीरलक्षकं, न तु वाक्यं, गभीरपदं तु तादृशलक्षणायां तात्पर्यग्राहकमिति न तस्य वैयर्थ्यं नाप्यनन्वयापत्तिदोषः। एवं च पदलक्षणयैव निर्वाहे वृथैव वाक्यलक्षणायां मीमांसकादर इति भावः। किं च स्वबोध्य स्वनिष्ठबोधकतानिरूपितबोध्यतावदर्थसंबन्ध इत्यर्थो वाच्यः। तत्र बोधकत्वं किं वृत्त्या बोधजनकत्वमथवा ज्ञानजनकज्ञानविषयत्वम्। नाऽऽद्यः। वाक्ये लक्षणाभावप्रसङ्गात्। वाक्यार्थस्य वृत्त्यबोध्यत्वात्। नान्त्यः। कभ्बुग्रीवादिमदर्थज्ञानजनकज्ञानविषयत्वं घटेतिसंघातस्येव तदवयवघकारादीनामप्यस्तीति प्रत्येकं वर्णानामर्थवत्त्वापत्त्या विभक्त्युत्पत्त्या नलोपादिबहूप्लवापत्तेः। तस्मात्स्वशक्यसंबन्धो लक्षणेत्येवमुररीकरणीयम्। तथा च समासे शक्यभावेन शक्याप्रसिद्ध्या लक्षणाया असंभवेन प्रातिपदिकसंज्ञानुपपत्तिस्तदवस्यैवेति तन्निरासार्थं समासे पिशिष्टशक्तिस्वीकार आवश्यक इति भावः। अथ सूत्रन्यासान्तरेण समासे प्रातिपदिकसंज्ञां साधयितुमाह--तिप्‌तसूझीत्यारभ्येति। तिप्तस्o(3-4-78)इत्यत्रत्यं तिशब्दमारभ्येत्यर्थः। स्वौजस्---ड्‌योस्पुप्(4-1-2)सुबिति पकारेण प्रत्याहार इत्यर्थः। भाष्यसिद्ध इति। `अप्रत्यय इति चेत् तिवाकादेशे प्रतिषेधो वक्तव्यः, काण्डे कुड्ये, इत्यर्थवत्सूत्रभाष्यसिद्ध इत्यर्थः। अत्र तिवेकादेश इति प्रतीकमुपादाय तिपस्थिशब्दादारभ्य सुपः पकारेण प्रत्याहार इति कैयटो व्याख्यत्। अतिप्प्रातिपदिकमिति। एवं सूत्रं करणीयमित्यर्थः। कृतमिति। अलमित्यर्थः। अर्थवदादिसूत्रद्वयं नाऽऽरन्भणीयं, किंतु अतिप्प्रातिपदिकं, समासश्च, इत्येवं सूत्रद्वंय करणीयम्। सुप्तिङन्तभिन्नं प्रातिपदिकसंज्ञमित्यर्थात्समासस्यापि संज्ञा सिध्यतीति समासग्रहणं नियमार्थमित्यर्थः। समासस्यापीति। समासस्य तिबन्तभिननत्वात्। तिपः प्रत्ययत्वेन प्रत्ययग्रहणे यस्मादिति परिभाषायाः प्रवृत्तेरिति भावः। अर्थवत्त्वावश्यकत्वेनेति। अर्थ वच्छब्दघटकानर्थकवर्णेषु प्रत्येकं संज्ञावारणायातिप्रातिपदिकमित्यत्रार्थवदिति विशेषमप्रवेशस्याऽऽवश्यकत्वेनेत्यर्थः। ननु संख्याकर्मादेरभावादेकैकस्माद्वर्णात्सुबुत्पत्तिर्न भविष्यति, औत्सर्गिकैकवचनमपि गमकसत्त्व एवेति स्पष्टम्। अत एव ङ्यापूत्सूत्रे भाष्ये तत्सूत्राभावे तिङन्तेभ्यः सुबुत्पत्तिमाशङ्क्यैकत्वादीनामुक्तत्वान्नेति समाहितम्। एवं च फलाभावात्प्रतिवर्णं प्रातिपदिकसंज्ञाऽपि न भविष्यतीति चेत्तथाऽपि दश दाडिमानि, षडपूपाः, इत्याद्यनन्वितार्थकसमुदायस्य संज्ञावारणायार्थवदिति विशेषणस्याऽऽवश्यकत्वम्। तत्र प्रातिपदिकत्वे सति सुपो धात्विति लुक् स्यात्। नियमार्थसमासग्रहणेन वु न वारणं कर्तुं शक्यम्। नियमस्य सजातीयापेक्षतया परस्परान्वितार्थकसमुदायस्यैव तेन वारणात्। अत एव गवित्याहेत्यादो समुदायस्य न प्रातिपदिकत्वमिति स्पष्टं शब्देन्दुशेखरादौ। समासाव्याप्तीति। समासस्य शक्त्या लक्षणया वा विशिष्टार्थप्रतिपादकत्वाभावेनार्थवत्त्वाभावादतिप्‌प्रातिपदिकमिति न्यासेऽपि प्रातिपदिकसंज्ञाया अप्राप्तिरित्यर्थः। ततश्च प्रातिपदिकसंज्ञादिरूपकार्येण धूमेन वह्निरिव समासस्यार्थवत्त्वमनुमीयत इति भावः। समासग्रहणस्य विध्यर्थत्वे तु मूलकेनेत्यादिपूर्वोक्तदूषणप्रसङ्ग इति भावः। ननु समासग्रहणस्य विध्यर्थत्वेऽपि कृद्‌ग्रहण इति परिभाषाया ज्ञापकसिद्धतया सार्वत्रिकत्वाभावात्कृत्तिद्धेतत्यत्राप्रवृत्त्या न मूलकेनोपदंशमित्यत्रातिप्रसङ्ग इत्यतो दूवणान्तरमाह-किं चैवमिति एवं-समासे विशिष्टशक्त्यनङ्गीकारे। अनन्वयापत्तिरिति। चित्रगुमित्यादौ गवादिपदार्थे कर्मत्वाद्यनन्वयापत्तिरित्यर्थः। तत्रैव हेतुमाह--प्रत्ययानामित्यादि। यस्मात्प्रत्यमो विधीयते सा प्रकृतिः, दतर्थेनान्वितो यः स्वार्थः कर्मत्वादिरूपः, तद्बोधकता प्रत्ययानामिति नियमशरीरम्। प्रत्ययाश्च विभक्तिकृत्तद्धिताख्याता इति तस्यार्थः। एवं च प्रकृतीत्वं यत्ययविधानावधित्वं, न तु प्रत्ययाव्यवहितपूर्वत्वम्। ततश्च समासोत्तरपदस्य प्रत्ययविधानावधित्वरूपप्रकृतित्वाभावेन न कर्मत्वाद्यन्वयः संभवतीति भावः। यत्तु प्रत्ययानां त्वसंनिहितपदार्थगतस्वार्थबोधकत्वमित्येव व्युत्पत्तिरिति तन्नेत्याह-अर्धपिप्पलीत्यादाविति। आदिना पूर्वकाय इत्यादेरितरेतरद्वंद्वस्य च संग्रहः। उपकुम्भमितियत्र कुम्भनिरूपितसामीप्यवम्तं, पिप्पीसंबन्ध्यर्धं चाऽऽनयेतिबोदाद्विभक्त्यर्थस्ग पूर्वपदार्थेऽन्वयेन प्रत्ययानां स्वसंनिहितपदार्थेति। नियमस्य व्यभिचारः। संनिहितत्वं चाव्यवहितपूर्वत्वेनानुसंधीयमानत्वत्। ततश्चोपकुम्भमित्यादावुपपदार्थादेः प्रत्ययपूर्वत्वेऽपि व्यवहितत्वेनाब्यक्हितत्वरूपकारणाभावेऽपि कार्यसत्त्वरूपो व्यभिचार इति भावः। ननु संनिहितत्वं नाव्यवहितपूर्वत्वं, धवखदिरावित्यादो धवादिपदार्थे विभक्त्यर्थान्वयापत्ते। किं तु संनिहितत्वेनानुशासनबोधितत्वम्। तच्च धवादिपदार्थानामिवोपादिपदार्थानामप्यस्तीत्याशङ्कते-न चेत्यादिना। तत्रापीति। उपकुम्भादिसमासेऽपीत्यर्थः। आनुशासनिकोति। संनिहितत्वेनानुशासनबोधितत्वरूपानुसासनिकसंनिधेर्विवक्षितत्वे यादृशोऽर्थः संपन्नस्तमाह--यत्पदोत्तरं याऽनुशिष्टेति। समासोत्तरमनुशासनसत्त्वेऽपि समस्यामानपूर्वपरादिपदोत्तरं कथमनुशासनमत आह--समासे चेत्यादि समासस्यानेकपदसमूहरूपत्वात्समूहस्य च तद्‌घटप्रत्येकपदानतिरिक्तत्वात्समासरूपप्रातिपदिकाद्विहितविभक्तेस्तत्तत्पदसंनिहितत्वमित्यर्थः। यद्वा समस्यमानपदेति। समस्यमानं पदं च समासघटकीभूतं पदं-पूर्वं परं मध्यमं च। तथा चाव्ययीभावेऽव्ययं, एकदेशिसमासे एकदेशावाचिपदं, द्वंद्वे सर्वाण्यपि पदानि समस्यमानानीति तत्तदर्थे विभक्त्यर्थान्वयः अव्ययीभावादिसमासेऽव्ययं सुबन्तेन समस्य इत्यादिनाऽव्ययादेरेव समसनक्रियाकर्मत्वं त्रोध्यते। तेन संनिहितत्वेनानुशासनबोधितत्वं समासे क्वचित्पूर्वपदार्थे क्वचिदुत्तरपदार्थे क्वविद्यावत्समस्यमानपदार्थे इति तत्रैव विभक्त्यर्थान्वय इत्यत्र तत्तदनुसासनमेव नियामकम्। इति चेन्न-विशिष्टस्यैवेति। समासग्नहणस्य नियमार्थत्वादर्थवत्सूत्रेणैव समासस्य प्रातिपदिकसंज्ञा वाच्या सा च राजपुरुषेत्यादिविशिष्टसमुदायस्यैवेति प्रातिपदिकात्स्वादयो भवन्ती, त्यनेन समासरूपसमुदायोत्तरमेव विभक्तेरनुशासनं सिध्यति न समस्यमानपदोत्तरमिति शास्त्रबोधितसंनिहितत्वमपि उपकुम्भमित्यादौ विशिष्टस्यैव न केवलपूर्वपदस्येति कृत्वोक्तस्थले व्यभिचारो दुर्वार इति ज्ञेयम्। ननु प्रकृत्यर्थान्वितैत्यादिपूर्वोक्तनियमशरीरे पर्याप्तिसंबन्धेन प्रकृतित्वाधिकरणार्थे, इत्यनिवेश्य आश्रयतासंबन्धेन प्रकृतित्वाधिकरणार्थे विभक्त्यर्थान्वय इत्येव व्युत्पत्तिः कल्प्यते। तथा चोपकुम्भमर्धपिप्पलीत्यादौ पूर्वपदार्थे आश्रयतासंबन्धेन प्रकृतित्वसत्त्वान्न तत्र विभक्त्यर्थान्वयानुपपत्तिरित्याशङ्कते-अथ प्रकृतित्वाश्रय इत्यादिना। कल्प्यत इति। आश्रयतासंबन्धेन प्रकृतित्वाश्रयार्थे, इत्येव कल्प्यत इत्यर्थः। आश्रयतासंबन्धेन प्रकृतित्वं चोत्तरपद इव पूर्वपदेऽपीति नोक्तदोष इति भावः अन्वयप्रसङ्गादिति। अपर्याप्त्याख्याश्रयतासंबन्धेन प्रकृतित्वस्य पङ्कादिषु सत्त्वात्तत्राऽऽनयनदिक्रियानिरूपितकर्मत्वान्वयापत्त्या पङ्कमानयेत्यादिबोधापत्तेः। न चेष्टापत्तिः, तादृशशाब्दबोधाननुभवादिति भावः। एवमसंनिहितप्रकृत्यर्थे दूषणमभिधाय संनिहितप्रकृत्यर्थेऽपि तदभिधातुं ब्रूते-अघटमानयेत्यत्रेति। आश्रयतासंबन्धेन प्रकृतित्वसत्त्वात्संनिहितत्वाच्च घटेऽपि कर्मत्वान्वये नञ्‌घटितवाक्यादपि घटमानयेत्यनिष्ठबोधापत्तेः। आरोपितघटं, घटभिन्नं वाऽऽनयेत्यनुभवसिद्धः शाब्दबोध इति भावः। पूर्वोक्तस्थले दण्डादिविशिष्टे क्रियाम्वये विशेषणीभूतदण्डादावप्यन्वये कदाचिदिष्टापत्तिः स्यात्, अघटमित्यत्र तु न कस्यापि घटे आनयनकर्मत्वान्वयोऽनुभवसिद्ध इति तत्त्वम्। विशेषणतया न तत्रेति। प्रकृतिजन्यप्रतीतिविशेष्य एव विभक्त्यर्थान्वय इति नियमादित्यर्थः। चित्रगुरित्यत्र स्वामिनस्तु प्रकृतिजन्यप्रतीतिविशेष्यतया न तत्र विभक्त्यर्थान्वयानुपपत्तिः। आनयनाद्यन्वय इति। आनयादिक्रियानिरूपितकर्मत्वान्वय इत्यर्थः। ननु यत्किंचित्प्रकृतिजन्यप्रतीतिविशेएषणे न विभक्त्यर्थान्वय इति चेत्तन्न युक्तमित्याह-पाकान्नील इत्यादिना। अत्रः नील शब्दो नीलरूपवदर्थपरः सुखिशब्दश्च सुखविसिष्टबोधकः। तथा च स्वाश्रयेऽर्थे विशेषणयोर्नीलरूपसुखयोः पञ्चम्यर्थजन्यताया अन्वयः। पाकजन्यं यन्नीलरूपं तद्‌वान्, धर्मजन्यं यत्सुखं तद्वान्, इति बोदानुभवानुरोधात्। नन्वेकत्र विशेषणतयाऽन्वितस्य परत्र विशेषणतया नान्वयः, इत्येव कल्प्यते, नतु एकत्र विशेषणतयाऽन्वितस्य परत्र विशेष्यतया नान्वय इति। तथा च दण्डिनं पूजयेत्यादौ दण्डिनि पुरुषे विशेषणतयाऽन्वितस्य दण्डस्य परत्रपूजनक्रियायां विशेषणत्वेनान्वयोऽव्युन्पन्न इति, न दण्डादौ पूजनादिक्रियाकर्मत्वान्वयापत्तिः। पाकान्नील इत्यादौ तु स्वाश्रये विशेषणत्वेनान्वितयोर्नीलरूपसुखयोः परत्र-पञ्चम्यर्थजन्यतायां विशेष्यत्वेनान्वये प्रतिबन्धकाभावान्न नीलादौ पाकादिजन्यत्वान्वयानुपपत्तिरपीति चेन्नैतद्युक्तम्। शूली पूज्य इत्यादौ शूलिनि महेश्वरै विशेषणतयाऽन्विते ध्येयम्। अथान्यदपि दूषयि तुमनुवदति--यच्च प्रकृत्यर्थत्वमिति। तज्जन्थेति। तच्छब्देन प्रकृतेः परामर्शः। प्रकृतिजन्येत्यर्थः। ज्ञानविषयत्वमात्रमीति। मात्रशब्देन वृत्त्याऽबिधेयत्वस्य व्यावृत्तिः। तथा च प्रकृतिजन्वज्ञानविषयत्वं प्रकृत्यर्थत्वं, नतु वृत्त्या प्रकृतिजन्यज्ञानविषयत्वमित्यर्थः। तच्चेति। प्रकृतिजन्यज्ञानविषयत्वमित्यर्थः। अत्रेति। चित्रग्वादिसमासघटकोत्तरपदादिलक्ष्यचित्रगोस्वाम्यादिवित्यर्थः। अविरुद्धमिति। निर्बाधमित्यर्थः। अत्र प्रकृतिः-चित्रग्वादिसमासः। तदुत्तरपदेन गोशब्देन चित्रपदसमभिव्याहृतेन लक्षितस्य चित्रगोस्वाम्यर्थस्य प्रकृतिवृत्त्या प्रतिपाद्यमानत्वाभावेऽपि प्रकृतिजन्यज्ञानविषयत्वमक्षतमस्तीति भावः। एवमुक्तरूपं प्रकृत्यर्थत्वं ग्रहीतुमयोग्यमित्याह-तन्नेति। घटं पश्येति। घटशब्द उच्चरिते एकसंबन्धिज्ञानमपरसंबन्धिस्मारकमिति न्यायेन शब्दाकाशयोर्गुणगुणिनोः समवायाद्‌घटशब्दात्समवायेनोपस्थिते आकाशे घटशब्दोत्तरवर्तिद्वितीयार्थकर्मत्वान्वयो मा भूदिति प्रकृतिजन्यज्ञानेत्यत्र वृत्त्येतिनिवेशेन वृत्त्या प्रकृति जन्यज्ञानविषयत्वं नाम-वृत्तिजन्योपस्थितिविषयत्वमित्यर्थस्याऽऽवश्यकत्वात्। अन्यथा घटं पश्येति वाक्यादाकाशं पश्येति बोधापत्तेः। वृत्त्या प्रकृत्यर्थत्वेति। शक्तिलक्षणान्यतरवृत्त्या प्रकृतिप्रतिपाद्यमानार्थत्वं प्रकृत्यर्थत्वमिति स्वीकृते तु घटशब्दाच्छक्त्या लक्षणया वा आकाशस्योपस्थित्यभावेन न तत्र दृशिक्रियाकर्मत्वान्वयः। एवं चात्र दृशिदातुर्ज्ञानसामान्यार्थक इति भावः। पुनरपि पूर्वपक्षि प्रकारान्तरेम प्रकृत्यर्थत्वं निर्वक्ति--आथ प्रत्ययप्राग्वर्तीति। यत्किंचित्प्रत्ययात्प्राग्विद्यमानं यत्पदं तादृशपदजन्या योपस्थितिस्तद्विशेष्यत्वमेव प्रकृत्यर्थत्वमित्येव सामान्यतो मन्यते शङ्कक इत्यर्थः। तदपि न युक्तमतिव्याप्तत्वादित्याह-इति चेन्नेति। अतिव्याप्तिस्थलमाह---गामानयति कृष्ण इति। अत्र कृष्णः कर्ता, दण्डः कर्णं, गौः कर्म, आनीघातोः प्रापणमर्थः, तच्च कर्मभूताया गोः स्वस्थाने गोष्ठे, इति शेष इत्यर्थः। कृष्णे तृतीयार्थेति। प्रसङ्गादिति। टामत्ययप्राग्वर्तिपदजन्योपस्थितीयविशेष्यत्वस्य कृष्णे सत्त्वाद्दण्डेनेति तृतीयार्थस्य करणत्वस्य तत्रान्वयप्रसङ्गादित्यर्थः। यदि तु प्रत्ययाव्यवहितपाग्वर्तीत्येवमव्यवधानांशो निवेश्यते तर्हि कृष्णस्य टाप्रत्ययात्पूर्ववर्तित्वेऽपि दण्डादिशब्देन व्यवधानादव्यवहितत्वाभावान्न तत्र तृतीयार्थान्वयप्रसङ्गदोष इति चेन्न। उपकुम्भमित्यादौ प्रत्ययाव्यवहितप्राग्वर्तिपदजन्योपस्थितिविशेषअये कुम्भपदार्थे विभक्त्यर्थान्वयापत्तेः। दधीयति ददातीत्यादौ प्रत्ययाव्यवहितप्राग्वर्तिपदजन्योपस्थितिविशष्ये दधनि वतुप्‌प्रत्ययनिरूपितप्रकृत्यर्थत्वातिव्याप्तेः। अथ प्रत्ययविधानावधित्वे सति तज्जन्यप्रतीतिविशेष्यत्वं प्रकृत्यर्थत्वमिति चेच्चित्रगुरित्यादावुत्तरपदस्य प3कृतित्वाभावात्तदर्थे विभक्त्यर्थकर्मत्वादरेनन्वयापत्तेरिति ध्येयम्। अथैतद्दोषपरिहाराय व्युत्पत्त्यन्तरमेव कल्प्यत इत्याह--समस्यमानपदार्थेति। समस्यमानं यत्पदं तदर्थगतो यः स्वार्थः-कर्मत्वादिः, तद्बोधकत्वं समासोत्तरविभक्तेरित्येव व्युत्पत्तिः स्वीक्रियत इत्यर्थः। समस्यमानपदं सगासघटकीभूतपदं पूर्वं परं मध्यमं चेति तत्तत्पदार्थे समासोत्तरविभक्त्यर्थस्य कर्मत्वादेरन्वयः करणीय इति भावः। एतदपि न युक्तमित्याह-इति चेन्नेति। अक्लॄप्तकल्पनामिति। समस्यमानपदार्थगतेत्यादिकार्यकारणभावान्तरकल्पनामित्यर्थः। क्लॄप्तन्युत्पत्तीति। प्रत्ययानां प्रकृत्यर्थान्वितेत्यादिः पूर्वोक्तकार्यकारणभाव इत्यर्थः। तथा च क्लॄप्तकार्यकारणभावत्यागं, अक्लॄप्तकार्यकारणभावं चेति दोषद्वंय स्वीकृत्य निर्वाहकरणापेक्षया समुदायशक्तिस्वीकार एवोचित इति भावः। दिगिति। तदर्थस्तु-राजपुरुष इत्यादौ राजसंबन्धिलक्षणायां राज्ञ एक्वदेशतया विशेषणान्वयवारणेऽपि दास्याःपुत्र इत्याद्यलुक्‌समासे लक्षणायां मानाभावेन दास्यादौ शोभनादिविशेषणान्वयो दुर्वारः स्यात्। तत्रापि सन्धिलक्षणायां दासीसंबन्धिबोदः स्यात्। न चेष्टापत्तिः। सर्वा भवविरोधात् एवं च राज्ञः पुरुष इति वाक्यादिव समासादपि संबन्धसंसर्गको राजप्रकारकपुरुषविशेष्यको बोधो भाष्यदिसिद्धः संबन्धिलक्षणायां न निर्वहतीत्यादिर्बोध्यः। ननु प्रकृतिप्रत्ययानामनन्तत्वात्तत्तत्प्रकृतिप्रत्ययव्यक्तिभेदेन भिन्नं भिन्नं कार्यकारणभावं प्रकल्प्य समासस्थले समस्यमानपदार्थे समासोत्तरप्रत्ययार्थान्वये बाधकाभावः, अनेककार्यकारणभावप्रकल्पनं त्वनेकसमासरूपसमुदायेषु विशिष्टशक्तिकल्पनापेक्षया न गुरुभूतमतो दूषणान्तरमाह-अपि चेत्यादिन्। विशिष्टशक्त्यस्वीकार इति। राजपुरुषेथि समासस्य राजसंबन्धविशिष्टपुरुषे शक्तिः, एवं चित्रग्विति यहुव्रीहेश्चित्रगोस्वामिनि शक्तिः, प्राप्तोदक इत्यादेश्चोदककर्तृकप्राप्तिकर्मणि ग्रामे शक्तिरित्येवंरीत्या समासे विशिष्टशक्त्यनङ्गीकार इत्यर्थः। सर्वत्रति। राजपुरुषश्चित्रगुरित्यादौ सर्ववेत्यर्थः। अनन्वयप्रसङ्ग इति। पूर्वोत्तरपदार्थयोः परस्परमन्वयो न त्यादित्यर्थः। अन्वयाभावे कारणमाह-राजपदादेरिति। लक्षणायामपीति। राजपदं राजसंबन्धिनि लाक्षणिकं, एवं गोपदं चित्रगोत्त्वामिनि, उत्पलपदं नीलोत्पलयोः साहित्ये लाक्षणिकमित्येवं लक्षणायां स्वीक्रियमाणायामपीत्यर्थः। अपिशब्देन संबन्धलक्षणायां सुतरामन्वयाभाव उक्तः। तण्डुलः पचतीत्यादाविति। अत्र तण्डुलो न कर्ता, किंतु कर्मैव। तथाऽपि कर्गत्वेनाविवक्षायां द्वितीयाभावेन प्रातिपदिकार्थत्वात्प्रथमा। कर्ता तु चैत्रादिः पृथगेव। तथा च तण्डुलः पचतीत्यसाधुः प्रयोगः। अत्र क्रियाकारकभावसंबन्धबोधकस्य द्वितीयाप्रत्ययस्याभावात्क्रियान्वयाभावेन न तादृशः प्रयोगः। यदि तु द्वितीयाभावेऽपि कर्मत्वसंसर्गेण तण्डुलस्य क्रियायामन्वयः क्रियते, तर्हि तण्डुलकर्मकः पाकः स च चैत्रनिष्ठ इति प्रसज्येत, स चानिष्टः, सर्वानुभवविरुद्धत्वात्। अतस्तादृशबोधवारणायैवं कार्यकारणभावः कल्पनीय-पातिपदिकार्थः प्रकारो-विशेषणं यस्मिन्नित्याकारके बोधे जननीये विशेष्यतया तदुत्तरवीभक्तिजन्योपस्थितिर्हेतुरित्यवश्यं वक्तव्यम्। तथा च तण्डुलस्य पाकक्रियायां यादृशसंसर्गेणान्वयः करणीयस्तादृशसंसर्गबोधिकाया विभक्तेस्तण्ढुलपदोत्तरमसत्त्वान्न तण्डुलस्य पाकक्रिबायामन्वयः। एवं च निरुक्तकार्यकारणभावस्याऽऽवश्यकत्वे सति लाक्षणिकस्यापि राजादिपदार्थस्य पुरुषादिपदार्थेऽन्वयो न स्यात्, तत्रैव हेतुमाह--पुरुषादेस्तथात्वाभावादिति। पुरुषादेरित्यादिपदेन स्वामिसाहित्ययोर्ग्रहणम्। विभक्तिजन्योपस्थितिविषयत्वाभावादित्यर्थः। अत्र राजप्रकारकः पुरुषविशेष्यको बोधः, त्तित्रगवीप्रकारकः स्वामिविशेष्यकः, नीलोत्पलप्रकारकः साहित्यविशेष्यको बोध इष्टः। पदि तु विशेष्यत्वेनाभिमतार्थस्य पुरुषादेर्विभक्तिजन्योपस्थितिविषयत्वं स्वात्तर्ह्येव राजादेः प्रकारतया पुरुषादावन्वयः स्थान्नान्यथा, उक्तनियमानुरोधार्दि भावः। ननु शुभ्रस्तण्डुल इत्यादौ शुभ्रादिरूपनामार्थप्रकारकः शाब्दबोधो विशेष्यतासंबन्धेन तण्डुलादौ जायते, न च तत्र विशेष्यतासंबन्येन विभक्तिजन्योपस्थितिरस्तीति व्यभिचारान्नोक्तकार्यकारणभावः संभवति। तण्डुलः पचतीत्यादौ तण्डुलादेः कर्मत्वसंबन्धेन क्रियायामन्वयो मा भूदित्येतदर्थ प्रातिपदिकार्थप्रकारकशाब्दबोधं प्रति धातुभिन्नजन्योपस्थितिर्हेतुः। अथवा विशष्यतया धातुजन्योपस्थितिः प्रतिबन्धिकेत्येवं कारणं प्रतिबन्धकं वा कल्पनीयम्। तथा च राजपुरुष इत्यादौ प्रकारताविशिष्टस्य प्रातिपदिकार्थरूपराजादेः विशेष्यतासंबन्धेन पुरुषादावन्वये बाधकाभाव इत्याशयेनाऽऽह--तण्ढुलः शुभ्र इत्यादौ चेति। प्रातिपदिकार्थकप्रथमार्थ इति। प्रातिपदिकस्यार्थ इवार्थो यस्या इत्युष्ट्रमुखवत्समासः, प्रातिपदिकार्थसदृशार्थवती या प्रथमाविभक्तिस्तदर्थे, इत्यर्थः। तण्डुलरूपप्रतातिपदिकार्थाभिन्नो यो विभक्त्यर्थ इत्येवं तण्डुलादेरभेदैनान्वयः। तस्य चेति। विभक्त्यर्थस्य चेत्यर्थः। तण्डुलरूपप्रातिपदिकार्थाभिन्नस्य विभक्त्यर्थस्येति यावत्। तण्डुलरूपविभक्त्यर्थाभिन्नो यः शुभ्रपदार्थ इत्यैवं शुक्लपदार्थेऽभेदेनैवान्वय इत्यर्थः। पाक इत्यादौ पच्‌धातूपस्थाप्यव्यापारस्यासत्त्वरूपेण भानं, घञुपस्थाप्यव्यापारस्य तु सत्त्वरूपेणोति यथा व्यापारस्य द्वेधा भानं तद्वत्प्रातिपदिकार्थस्यापि द्वेधा भानं, शब्दात्प्रातिपदिकार्थस्य सत्त्वरूपेण भानं, विभक्त्या त्वसत्त्वरूपेण प्रातिपदिकार्थस्य भानमित्यभेदान्वयसंभवात्तण्डुलान्वयवति असत्त्वरूपे प्रातिपदिकार्थे विशेष्यतया विभक्तिजन्योपस्थितेः सत्त्वान्नात्र प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्तितिर्हेतुरित्येवंरूपस्य कार्यकारणभावस्य व्यभिचार इति भावः। ननु तण्डुलः शुभ्र इत्गत्र व्यभिचारनिवारणेऽपि शुभ्रं तण्डुलं, शुभ्रेण तण्डुलेनेत्यादौ व्यभिचारो दुर्निवारः, द्वितीयादिविभक्तेः प्रातिपदिकार्थे विहितत्वाभावादित्याशङ्क्य समाधत्ते--शुभ्रेणेत्यादिना। अभेदार्थिकेति। विशेषणवाचकाद्या विभक्तिस्तस्या अभेदोऽर्थः। नीलमुत्पलं पश्येत्यादौ नीलाभिन्नं यदुत्पलं तत्कर्मकं दर्शनामिति बोधस्य सर्वानुभवसिद्धत्वादित्यर्थः। ध्यायेन्नित्यं महेशभित्यत्र ध्यानक्रियानिरूपितं कर्मत्वं महेशस्य प्रतीयते, तच्च महेशपदोत्तरद्वितीयया स्पष्टमुक्तं, ततश्च महेशसमानाधिकरणं पच्चवक्त्रं त्रिनेत्रमित्यादि यद्विशेषणं तदुत्तरद्वितीयाविभक्तेः कर्मत्वेन कर्मार्थकत्वाप्रतीतेर्महेशरूपकर्माभेदबोफकत्वं फलति। अत एव विशेषणधिभक्तेरभेदार्थकत्वमित्युद्धेषः। ननु कर्मणि द्वितीया विहिता, न त्वभेद इति कथं विशेषणविभक्तेरभेदार्थकत्वमुच्यत इति चेन्न। कर्माभेदस्य कर्मरूपतयाऽभेदस्य `कर्मणि द्वितीया' इत्यनुशासनविषयत्वात्। एवं विशेषणोत्तरतृतीयादिविभक्तेरप्यभेदार्थकत्वं ज्ञेयम्। ननु विशेष्यवाचकपदोत्तरविभक्त्यैम कर्माद्यर्थस्यावगमाद्विशेषणोत्तरविभक्तिः प्रयोगसाधुत्वायैव, न त्वथंसाधुत्वाय। ततश्च शुभ्रपदार्थस्य तण्डुलेनैवान्वयो वक्तव्यः, तण्डुलस्य च विभक्तिजन्योपस्थितिविषयत्वाभाव इति तत्र कार्यकारणबावव्यभिचारस्तदवस्थ एवेति मनस्यनुसंधायाऽऽह--पार्ष्णिको वाऽन्वय इति। अयमर्थः-कर्मण्येव द्वितीयेत्येवं प्रत्ययनियमे सति द्वितीपादयः प्रत्यया विशिष्टेष्वर्थेषु कर्मादिषु नियता इति हेतोः साधुत्वर्थे विभक्तिरिति वचनं न युक्तं, किं तु कर्माद्यर्थिकैव, `कटोऽपि कर्म भीष्मादयोऽपि कर्म' इति-भाष्याद्विशेषणऽपि कर्मत्वादिसत्त्वात्। एवं च कारकाणां क्रिययैवान्वय इति नियमात्क्रियायामन्वयः। ततशअच शुभ्रेण तण्डुलेनेत्यत्र विशेषणविशेष्ययोः परस्परमन्वयाभावान्न व्यभिचारः। ननु यदि कारकाणां क्रिययैवान्वयः क्रियते तर्हि तस्या विभक्तिजन्योपस्थितिविषयत्वाभावेन निरुक्तकार्यकारणभावव्यभिचारः सुस्थ एवेति चेन्न। यदि विभक्त्यर्थस्य द्वारीकरणं विनाऽन्वयः क्रियेत तर्हि व्यभिचारः स्यात्। किंतु विभक्त्यर्थं द्वारीकृत्यैव कारकाणां क्रियान्वयस्वीकारात्। ततश्च शुभ्रेणेत्यत्र शुभ्रपदार्थाभिन्नं यत्करणं तन्निष्टकरणतानिरूपिका क्रियेत्यर्थः। विभक्त्यर्थस्य द्वारीकरणादेव प्रातिपदिकार्थधात्वर्थयोः साक्षाद्भेदेनान्वयोऽव्युत्पन्न इति नियमविरोधो नेति बोध्यम्। न च शुभ्रेण तण्डुलेनेत्यत्र यदि विशेषणविशेष्ययोः परस्परमन्वयाभावस्तर्हि शुभ्रपदार्थतण्डुलपदार्थयोः परिच्छेदो न स्यादिति शुभ्रेण तण्डुलेन शिवं पूजयेदित्यनुशासनेऽपि श्यामलादितण्डुलेन, येन केनचिच्छुभ्रपदार्थेन च शिवपूजनं प्रसज्येतेति वाच्यम्। विशेषणविशेष्यवाचकपदद्वयेऽपि तृतीयाबोध्यकरणस्य स्वातन्त्र्येण पूजनक्रियाप्रामन्वयेन शुभ्रेण पूजयेत्तण्डुलेन पूजयेदिति पार्थक्येन बोधोत्तरं तयोः परस्परं विशेषणविशेष्यभावेन मानसोऽन्वयः स्वीक्रियते। अयमेव पार्ष्णिकः पार्ष्ठिको वाऽन्वय इत्युच्यते। ततश्च प्रत्यासत्तिवशाद्यः शुभ्रः स तण्डुल एव, यश्च तण्डुलः स शुभ्र एवेति परस्परं परिच्छेदेन शुभ्राभिन्नतण्डुलकरणिका शिवकर्मिका पूजा विधिविषयेति बोधान्न दोष इति भावः। परिच्छेदो विशेषरूपेणार्थावधारणमित्यर्थः। अत एवारुणाधिफरणे `अरुणया षिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति' इति श्रुतौ अरुणयेत्यादिपदत्रयैऽपि तृतीयोपात्तस्य करणकरकस्य स्वातन्त्र्येण क्रयणभावनायामन्वयेन आरुण्यकरणिका पिङ्गाक्षीकरणिका एकहायनीकरणिका च या भावना तत्साध्येन क्रयेण सोमं भावयेत्। गवा ते क्रीणानीति मन्त्रलिङ्गाद्या चाऽऽरुण्यविशिष्टा गौः सैव पिङ्गलाक्षियुक्ता सैव चैकहायनविशिष्टेत्येवमभेदवबोधस्तु पार्ष्ठिकः प्रत्यासत्तिन्यायान्मीमांसकैरङ्गीकृतः संगच्छत इति ज्ञेयम्। तथा चेति। प्रातिपदिकार्थप्रकारकबोधं प्रतिविशेष्ग्रतया तदुत्तरविभक्तिजन्योपस्थितेरेहेतुत्वावश्यकत्वे चेत्यर्थः। अन्वयासंभवादिति। समासे विभक्त्यभावेन राजपुरुषादिमूर्वोत्तरपदार्थयोरन्वय संभवादित्यर्थः। समुदायस्येति। राजपुरुषादिसमासरूपसमुदायस्येत्यर्थः। शक्तिरिति। राजादिसंबन्धविशिष्टे पुरुषादावर्थे वाच्यवाचकभावरूपा शक्तिरवश्यमभ्युपगन्तव्येत्यर्थः। सर्वत्र समासे विशिष्टशक्तिस्वीकारमन्तरा लक्षणया नाभीष्टार्थबोधो निर्वहतीत्याह-किं चेति। राजपुरुषादितत्पुरुषसमासे प्राथम्यात्पूर्वपदेलक्षणा, सा किं संबन्धिनि संबन्धे वेति विकल्प्य प्रथमपक्षं निराकरोति-विवरणविरोधादिति। सिद्धान्ते राजपुरुष इति समासस्य स्वत्वसंसर्गेण राजसंबन्धिनि पुरुषे शक्तिरिति राजनिष्ठस्वामितानिरूपितस्वतावान् पुरुष इति स्वस्वामिभावरूपभेदसंबन्धेन बोधो जायते। तादृश एव बोधो राज्ञः पुरुषः, इति वाक्यात्प्रतीयत इति राज्ञः पुरुष जायते। तादृश एव बोधो राज्ञः पुरुषः, इति वाक्यात्प्रतीयत इति राज्ञः पुरुष इति वाक्यस्य राजपुरुष इति समासविवरणत्वात्। विवरणं च तत्समानार्थकपदान्तरेम तदर्थकथनम्। विग्रहवाक्यत्वमिति यावत्। विग्रहत्वं च समाससमानार्थकस्य, समासार्थवबोधकरय वा वाक्यस्य विग्रहत्वात्। एवं सति राजपुरुष इत्यादौ राजपदादेः संबन्धिनि लक्षणयैव राजसंबन्धवदभिन्नः पुरुष इत्यभेदेन बोध इषयते यदि, तर्हि अमूदृशस्य बोधस्य, राजसंबन्धप्रकारकाश्रयत्वसंसर्गवानित्येवंरूपो यो विवरणवाक्यजबोधस्तद्विरुद्धत्वान्न लक्षणा युक्त। किं तु स्वत्वसंसर्गेण राजसंबन्धिनि पुरुषे, राजपुरुष इति समासस्य शक्तिरेवाब्युपगन्तव्येति भावः। ननु समाससमानार्थकत्वं, न समासजन्यबोधे यादृशसंबन्धेन यद्विशेष्यकत्वे सति यत्प्रकारकत्वं तादृशसंबन्धेन तद्विशेष्यकत्वे सति तत्प्रकारकबोधज-नकत्वम्। तथा सति व्याकरणमधीते, पचति, इत्यादीनां वैयाकरणः पाचक इत्यादितद्धितकृदन्तविग्रहत्वानापत्तेः। किं तु समासजन्यप्रतीतिविषयार्थप्रतीतिजनकत्वं, तच्च प्रकृतेऽभतमेव, समासजन्यमतीतिविषयराजसंबन्धविषयकप्रतीतिजनकत्वाद्राज्ञः पुरुषस्येत्यत आह-अन्यथेति। समासजन्यप्रतीतिविषयार्थप्रतीतिमात्रजनकत्वस्य विग्रहरूपत्वे सतीत्यर्थः। समाससमानार्थकत्वाभाव इति यावत्। तस्मादिति। विग्रहरूपविवरणवाक्यादित्यर्थः। विवरणादेव समासशक्तिर्निर्णीयत इत्यनुभवसिद्धम्। स चानुभवो विवरणविव्रियमाणयोः समानार्थकत्वनियमे सत्येव संगच्छते। असमानार्थकस्यापि विवरणत्वस्वीकारे तु निरुक्तसमानार्थकत्वनियमभङ्गेन विवरणादभियुक्तोक्तः शक्तिनिर्मयो न स्यात्। तथा च फलार्थककरोतिना विवरणादाख्यातस्य यत्ने शक्तिरित्यादि लुप्येतेति भावः। यद्वा राज्ञः पुरुष इति विग्रहवाक्यस्य समासगतार्थबोधकतानिर्णायकत्वमनुभवसिद्धमुच्छिद्येतिति भावः। राजपदस्य संबन्धे लक्षणेति चरमकल्पं प्रत्याचष्टे-बोधप्रसङ्गादिति। संबन्धे लक्षणायां राजपदलक्ष्यस्य राजसंबन्धस्य नामार्थत्वेनाभेदेनैव पुरुषेणान्वयः स्यात्, न तु राजसंबन्धाश्रयः पुरुष इत्येवमाश्रयतासंबन्धेनेत्यर्थः। तथा च राजसंबन्धाभिन्नः पुरुष इत्यभेदेनैव बोधः स्यान्नतु भेदसंबन्धेनेति भावः। ननु नामार्थयोरभेदबोधे समानविभक्तिकत्वं नियामकं, तच्चात्र नास्तीति कथं राजसंबन्धरूपः पुरुष इति बोधापत्तिरुच्यत इत्यत आह-विरुद्धविभक्तीत्यादि। सुन्दरं दधीति दधिपदोत्तरं विभक्त्यभावेन सेचनकृद्वारीत्यत्रोभयोरप्यविभक्तिकत्वेन च व्यभिचारात्समानविभक्तिकत्वस्य नामार्थयोरभेदान्वयबोध प्रयोजकत्वासंभवेन विरुद्धविभक्तिराहित्यस्यैवाभेदबोधे प्रयोजकत्वं स्वीक्रियत इति भावः। विरुद्धविभक्तिकधातुप्रातिपदिकार्थयोः स्तोकं पचतीत्यादाबवेभदान्वयावारणाय प्रातिपदिकार्थयोरित्युक्तम्। ततश्चाभेदसंसर्गेण प्रातिपदिकार्थप्रकारकशाब्दबोधे जननीये विशेष्यतासंबन्धेन विरुद्धविभक्तिरहितनामजन्योपस्तितिर्हेतुरिति तादृशहेतुत्वस्य राजपुरुषादिसमासोत्तरपदार्थे पुरुषादौ सत्तवादभेदान्वयो दुर्निवार इति तात्पर्यम्। ननु प्रातिपदिकार्थप्रकारकाभेदान्वयबोधे विरुद्धविभक्तिरहितप्रातिपदिकजन्योपस्थितिर्हेतुरिति यः कार्यकारणभाव उक्तः सोऽपि न संभवति, चैत्रस्य सुतस्य धनमित्यत्र विशेषणविशेष्यवाचकचैत्रसुतपदयोरुत्तरं षष्ठीरूपसमानविभक्तेः सत्त्वाद्विरुद्धविभक्तिराहित्याच्चैत्रसुतयोरभेदान्वयापत्त्याऽतिप्रसङ्गादिति चेन्न। विरुद्धविभक्तिरित्यस्य विरुद्धार्थकविभक्तिर्विभिन्नार्थकविभक्तिरिति यावत्। तथा च विभिन्नार्थकविभक्तिराहित्यमभेदान्वयबोधे तन्त्रे नियामकमिति भावः चैत्रस्य सुतस्य धनमित्यत्र तु विभक्त्योर्न समानार्थकत्वं, किंतु विभिन्नार्थकत्वमेव, एकत्र जन्यत्वस्य परत्र स्वत्वस्य तदर्थत्वादिति न चैत्रसुतयोरभेदान्वयप्रसङ्ग इति भावः। राज्ञः पुरुषस्य धनमित्यत्र षष्ठीद्वयस्य स्वत्वार्थकत्वेऽपि तयोः स्वत्वयोर्निरूपकभेदेन भिन्नत्वान्न दोष इति बोध्यम्। यद्वा विरुद्धविभक्तीत्यस्य यथाश्रुत एवार्थः, राज्ञ पुरुषस्य धनमित्यादावभेदान्वयवारणाय विभक्त्यर्थमनन्तर्भाव्य प्रातिपदिकार्थयोरन्वयबोधे निरुक्तकार्यकारणभावः स्वीकार्यः, यथा ऋद्धत्य राज्ञः, इत्यत्र ऋद्धस्येति षष्ठ्यर्थमनन्तर्भाव्य ऋद्धराजपदार्थयोरन्वयः, यथा वा राजपुरुषादिसमासे विभक्त्यर्थमनन्तर्भाव्यैव प्रातिपदिकार्थयोरन्वयः क्रियते तत्रैव पूर्वोक्तकार्यकारणभावरूपव्युत्पत्तिः स्वीकार्येत्याशयेनाऽऽह--प्रपञ्चितमित्यादि। अत एवेति। समासे पृथगुपस्थित्यभावप्रयोजकविशिष्टशक्तिस्वीकारादेवेत्यर्थः। विशेषणविशेष्यभावापन्नो योराजनिष्ठप्रकारतानिरूपितविशेष्यतावान् पुरुष इत्येवंरूपो विशिष्टार्थस्तत्र शक्तिर्विशिष्टशक्तिरित्युच्यत इति भावः। वषट्‌कर्तुरिति। वषट्‌कर्तुः प्रथमभक्षः, इति वाक्येन वषट्‌कर्तारं-होतारमुद्दिश्य प्रथमत्वविशिष्टभक्षणं विधीयते। ननु ऋत्विजो हविःशेषान् भक्षयन्तीति वाक्यप्राप्तभक्षणमनद्य केवलं प्राथम्यमेव विधीयतां लाघवाद्विशिष्टविधौ गौरव दित्यत आह-भक्षमुद्दिश्येत्यादि, न युक्तमित्यन्तम्। अयुक्तत्वे हेतुमाह--एकप्रसरतेत्यादति। एकस्यां (वृत्तौ)प्रसरः प्रवेशो ययोरर्थयोस्तावेकप्रसरौ, तयोर्भाव एकप्रसरता, नाम एकवृत्तिप्रविष्टता, तस्या भङ्ग आपद्येतेत्यर्थः। तथा सति सामर्थ्यविघातात्प्रथमभक्ष इति समासो न स्यात्। समासघटकपदानि हि संभूय विशिष्टमेकमर्थमेकया वृत्त्या प्रतिपादयन्तीति तस्यैकस्यार्थस्य विवक्षानुरोधादुद्देश्यत्वं विधेयत्वं वा ग्राह्यं भवति, यथा धवखदिरौ सुन्दरौ, इमौ वृक्षौ धवखदिराविति। न तु तदेकदेशमात्रस्य कस्यचिदर्थस्योद्देश्यत्वं कस्यचिच्च विधेयत्वं ग्रहीतुं युक्तम्। यत्रोद्देश्यविधेययोः पदाभ्यां पृथगुपस्थितिस्तत्र तथाऽन्वयः। न च समासे एकार्थीभाववशात्पदात्पृथगुपस्थितिः, अपृथगुपस्थितौ च नोद्देश्यविधेयभावेनान्वय इति लघुमज्जूषाकारैरुक्तत्वात्। तथा च यद्यत्र प्रथमभक्ष इति समासान्तर्गतभक्षपदार्थमाक्षमुद्दिश्य प्राथम्यं वित्रेयं स्यात्तर्हि तद्वाचकयोर्द्वयोः पदयारेकेस्यां वृत्तौ प्रवेश एव न स्यात्। वषट़कर्तुः प्रमभक्षइति वाक्ये तु समासः कृत एवेति तदनुरोधेन विशिष्टार्थस्वैवात्र शब्दमर्यादया विधेयत्वं विवक्षितमिति प्रतीयते इति बोध्यम्। अयमेव ह्येकप्रसरताभङ्गो नाम यद्विशिष्टैकोपस्तितिजनकत्वरूपसामर्थ्यभङ्गः। उद्देश्यविधेयभावेनान्वये पृथगुपस्थितेः प्रयोजकत्वेन तथाऽन्वये तद्भङ्गादिति मीमांसायामुक्तमित्याह-तृतीय इति। तृतीयाध्यायस्य पञ्चमे पादे दशमाधिकरणे `वषट्काराच्च भक्षयेत्'(जै.सू.32)इति सूत्र इत्यर्थः। एकप्रसरताभङ्गभयादेव चित्रया यजेतेत्यत्र चित्रयेत्येकेन पदेन स्त्रीकारकमुद्दिश्य चित्रत्वस्य विधानं न युज्यत इत्युक्तम्। तथा हि-वृत्तिर्नाम पदपदार्थयोः संबन्धः शक्तिलक्षणान्यतररूपः। प्रकृते च चित्रत्वस्त्रीत्वरूपधर्मद्वयविशिष्टेऽर्थे चित्राशब्दस्य शक्तिः। तादृशशक्तिरूपायामेकस्यां वृत्तौ चित्रत्वस्त्रीत्वयाः प्रवेशः। तस्यात्र भङ्गः स्याद्यदि स्त्रीकारकानुवादेन चित्रत्वमत्र विहितं स्यात्। उद्देश्यविधेययोर्हि पृथक् पृथक् शक्त्योपस्थितिरावश्यकी। अत्र चैकस्यां शक्तौ स्त्रीत्वचित्रत्वयोः प्रवेशान्न तयोरुद्देश्यविधेयभावः संभवतीति भावः। त्र्यङ्गैरिति। पशौश्रुतम्-त्र्यङ्गैः स्विष्टकृतं यजतीति। तत्र हृदयस्याग्रेऽवद्यतीत्यादिनैकादशाङ्गानां होमस्य विधानेन प्रकृतिवद्विकृतिरिति न्यायेनैकादशभिरङ्गैर्होमे प्राप्ते-इदं वाक्यमारभ्यते। तत्राङ्गानुवादेन त्रित्वं विधीयते लाघवात्, न तु त्रित्वविशिष्टाङ्गान्तरमिति विशिष्टविर्गौरवादिति पूर्वपक्षयित्वा, यद्यत्र त्र्यङ्गैरिति वृत्त्यन्तर्गताङ्गपदार्थमुद्दिश्य त्रित्वं विधेयं स्यात्तर्हि तद्वाचकयोर्द्वयोः पदयोरकस्यां वृत्तौ प्रदेश एव न स्यात्, अर्थादेकप्रसरताभङ्गः स्यादित्यर्थः। त्र्यङ्गैरिति तु समासः कृत एवेति तदनुसारेणात्र त्रित्वविशिष्टाङ्गान्तरस्यैव शब्दमर्यादया विधेयत्वमवगम्यते। तत्रविशेषणविसिष्टार्थस्यान्यतोऽप्राप्तौ सत्यां विशिष्टविधावेव पर्यवसानं भवति। तदेकदेशस्य कस्यचिदन्यतः प्राप्तत्वे सति प्राप्ताप्राप्तविवेकन्यायेनाप्राप्तांशे विशिष्टविधेः पर्यवसानं भवतीत्यन्यदेततू। यथा राजपुरुषादिसमासे आकाङ्क्षामूलकसमुदायशक्तिवशात्पदार्थबोध एव जायमानो विशेषणविशेष्यभावापन्नविशिष्टयोर्भवति तत्र विशिष्टशक्तिग्रह इत्थम्-राजपुरुषादिसमासपदं राजसंबन्धवत्पुरुषादौ शक्तमिति। तत्र सा विशिष्टशक्तिः प्राप्ताप्राप्तविवेकन्यायेन संबन्धांशे विशेषणाद्यंशे च पर्यवस्यति। राजादेः क्लॄप्तावयवशक्त्यैवोपस्थितिसंभवादित्युक्तं मञ्जूषायां तद्विदिति भावः। शब्दमर्यादया तु विशिष्टविधेरेव तादृशस्थले स्वीकर्तव्यः। तथा च प्रकृते त्रित्वविशिष्टाङ्गान्तरविधिरूपविशिष्टविधिरङ्गीकृतः। अङ्गान्तराणि च कल्पसूत्रकारेण दर्शितानि-दक्षिणोंऽसः, सव्या श्रोणिः, गुदं तृतीयम्, इति सौविष्टकृतानीति। तस्मादनिज्याशेषैस्त्रिभिरङ्गैः स्विष्टकृद्धोतव्य इत्युक्तं तत्स्थलं दर्शयति-दशमे चेति। दशमाध्याये सप्तमपादे तृतीयेऽधिकरणे `इज्याशेषात्--त्र्यङ्गैर्वाo(जैoसूo10-11)इत्यादिसूत्रे सिद्धान्तितमित्यर्थः। एतच्च विशिष्टशक्तिपक्षे घटपदाद् घटघटत्वयोरिव विशिष्टशक्त्यैव प्राथम्यविशिष्टभक्षस्य त्रित्वविशिष्टाङ्गानां चोपस्थित्या वाक्यार्थरूपोद्देश्यविधेयभावेनान्वयासंभवात्संगच्छते। समुदायशक्तेरनङ्गीकारे तु प्रथमो भक्षः, त्रिभिरङ्गैः, इत्यादिवाक्यवात्समासेऽपि उद्देश्यविधेयभावेनान्वयः स्यादिति मीमांसाधिकरणविरोधः स्पष्ट एवेति तात्पर्यार्थः। समासे विशिष्टशक्तिस्वीकारादेवारुणाधिकरणारम्भ उपपद्यत इत्याह-संगच्छते चारुणेति अन्यथेति। समासे विशिष्टशक्त्यनङ्गीकारे पूर्वपक्षस्यैवासंभवेनारुणाधिकरणासंभवापत्तिरिति भावः। तथा हि-ज्योतिष्टोमे क्रयसंनिधौ श्रूयते-`अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति। अत्रारुणयेति पदं क्रयेण संबन्ध्यत उत वाक्यभेदेन प्राकरणिकग्रहचमसाद्यखिलद्रव्येण संबन्ध्यत इति संशये-अरुणापदं रूपविशेषे गुणे शक्तं, रूपविशेषे च क्रयरूपक्रियाकरणत्वं बाधितं, रूपस्यामूर्तत्वात्। अतो वाक्यात्पृथक्कृत्य तृतीयाश्रुत्या प्राकरणिकानि द्रव्याण्यनूद्याऽऽरुण्यगुणो विधीयतेआरुण्येन गुणेन ज्योतिष्टोमापूर्वसाधनद्रव्यं भावयेदिति पूर्वपक्षयित्वा योग्यताज्ञानस्य न शब्दबोधे हेतुत्वं, किं त्वयोग्यतामिश्चयस्य बोधप्रतिबन्धकत्वमात्रं, योग्यता च परस्परान्वयप्रयोजकधर्मवत्त्वं, पयसाः सिञ्चितीत्यत्र सेकान्वयप्रयोजकधर्मस्य जलत्वस्य पयसि, एवं पयःकरणकान्वयप्रयोजकधर्मस्य सेकत्वस्य सेकक्रियायां सत्त्वाल्लक्षणसमन्वयः। वह्निना सिञ्चतीत्यत्र तु वह्नौ सेकान्वयप्रयोजकधर्मस्य द्रवद्रव्यत्वस्यासत्त्वादयोग्यतानिश्चयान्न शाब्दबोधः। प्रकृते च कारकाणां क्रिययैवान्वय इति नियमादयोग्यतानिश्चयाभावसत्त्वेनाऽऽरुण्यस्यापि क्रयणाक्रियायामन्वय उपपद्यते, पार्ष्ठिकस्तु द्रव्येणान्वय इति न वाक्यविच्छेदशङ्केत्यादि सिद्धान्तितम्। अत्र पूर्वपक्षस्य नोक्तिः संभवति। समासे विशिष्टशक्त्यस्वीकारे पिङ्गाक्ष्येकहायनीशब्दयोरपि पिङ्गत्वाक्षित्वैकत्वहायनन्वादेर्वाच्यतया तेषामप्यमूर्तत्वात्क्रयणक्रियाकरणत्वासंभवेन क्रीणातिकरणस्यैतद्वाक्यादलाभादारुण्यस्य वाक्यभेदशङ्कसाया एवासंभवात्। त्रिष्वपि लक्षितद्रव्यविध्युपपत्तौ वाक्यभेदशङ्काया निर्बीजत्वाच्च बहुव्रीह्योग्रुणशब्दस्य चेति त्रयाणामपि लाक्षणिकद्रव्याभिधायकताया अविशिष्टत्वेन बहुव्रीह्योरेव द्रव्यविधायकत्वं, नारुणपदस्येत्यत्र विनिगमकासंभवात्। वाक्य भेदेन प्रकरणे निवेशस्याप्यसंभावितत्वाच्च। तथा हि-प्रकरणेऽप्यमूर्तत्वात्क्रियाभिः, कारकत्वाच्च द्रव्यैरपि संबन्धोऽसंभवी। तस्मात्पूर्वपक्षासंभवादरुणाधिकरणोच्छेदापत्तेः समासे विशिष्टशक्तिरावशअयकीत्याशयेनाऽऽह--प्रपञ्चित भूषण इति। वैयाकरणभूषणे विस्तरशः संगृहीतमित्यर्थः। आस्तां विस्तर इति। जैमिनीयानां जैमिनीमसूत्रविरोधोऽत्यन्तमनुचित इति तैः समासे विशिष्टशक्तिवादोऽवश्यमभ्युपेय इत्यलं विस्तरेणेत्यर्थः।। 34 ।।
नन्वेवं मीमांसकादीन् प्रति समुदायशक्तिं व्यवस्थाप्य आख्यातं तद्धितकृतोरित्याद्युक्तं तत्पूर्वग्रन्थासंगतमित्याङ्कानिरासार्थं तत्संगतिं प्रदर्शयन्नाह--राजपुरुष इत्यादिना। राजा चासाविति। अत्र राजपदं विग्रहवाक्यान्तर्गतमपि राजसंबन्धिपरमेव, अत एव विग्रहस्य समाससमानार्थत्वमक्षुण्णमिति भावः। इत्येव विग्रह इति। एवकारेण प्रसिद्धस्य राज्ञः पुरुष इति विग्रहस्य व्यावृत्तिः। अथ षष्ठ्यन्तेन विग्रहेऽपि राजपदं राजसंबन्धिनि लाक्षणिकं, षष्ठी त्वभेदार्थिकेत्यङ्गीकारे निर्वहत्येव समाससमानार्थकत्वमिति चेन्न। राजसंबन्धिरनिरूपितो योऽभेद इति षष्ठ्यर्थाभेदस्य विग्रहे प्राधान्येन भानात्समासे तु तथा भानाभावात्। षष्ठ्या अभेदार्थकत्वे प्रमाणाभावाच्च। साधुत्वार्थिका षष्ठीति न समाससमानार्थत्वक्षतिरिति चेत्तदपि न। संबन्ध एव षष्ठ्या विधानेन साधुत्वार्थकतत्प्रयोगानुपपत्तेः। गवामयमित्येवेति। एवकारेण चित्रा गावो यस्येति प्रसिद्धस्य विग्रहस्य निरासः। चित्राणां गवामयमिति विग्रहे हेतुमाह--समानार्थत्वेति। चित्रगुरिति समासाच्चित्राभिन्नगोस्वामीति चित्रगोप्रकारकोऽन्यपदार्थविशेष्यको बोधो जायते, तादृशविशेषणविशेष्यक एव बोधो निरुक्तविग्रहाज्जायत इति समासेनातिसमानार्थत्वेन चित्राणां गवामयमिति विग्रहस्यैवोचितत्वात्। विग्रहविगृह्यमाणयोः समानार्थत्वनियमात्। अन्यथा विग्रहाच्छक्तिनिर्णयो न स्यादिति भावः। ननु अन्यपदार्थे वर्तमानस्यानेकप्रथमान्तस्य बहुव्रीहिसंज्ञाविधानात्तदभावपक्षे प्रथमान्तपदघटितवाक्यावस्थानस्यैवार्थायातत्वात्तादृशवाक्यस्यैव विग्रहत्वमुचितं, न षष्ठ्यन्तघटितस्येत्याशङ्क्य समाधत्ते-यद्यपीत्यादिना। सूत्राल्लभ्यत इति। यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेष इति `त्रिकतः शेषः' इति भाष्यस्यार्थः,तादृशं च सु-औ-जस्, इति त्रिकमेवेति भावः। प्रथमान्तं प्रथमान्तपदघटितम्। पक्षे इति। समासस्य वैकल्पिकत्वेन तदभावपक्ष इत्यर्थः। वाक्यं-चित्रा गावो यस्येति वाक्यमित्यर्थः। षष्ठीति समासाभावे राज्ञः पुरुष इति वाक्यं च यद्यपि दुर्निवारं तथापि तादृशवाक्यस्य विग्रहत्वं सुतरामसंभवीत्याह-भिन्नार्थत्वादिति। समासार्थापेक्षया तादृशवाक्यीयार्थस्य भिन्नत्वादित्यर्थः। राजपुरुष इति समासाद्राजसंबन्धिप्रकारकस्याभेदसंसर्गस्य, राज्ञः, पुरुष इति वाक्याद्राजसंबन्धप्रकारकस्याऽऽश्रयत्वसंसर्गकबोधस्य, चित्रगुरिति समासाच्चित्रगोस्वामीत्याकारकस्य वर्तिपदार्थप्रकारकान्यपदार्थविशेष्यकस्य, चित्रागावो यस्येति वाक्याद्यत्स्वामिकाश्चित्रा गाव इत्याकारकस्यान्यपदार्थप्रकारकस्य वर्तिपदार्थविशेष्यकस्य च बोधस्य निष्पादाद्वाक्यसमासयोर्मिथो भिन्नार्थत्वान्न राज्ञः पुरुष इत्यस्य, चित्रा गावो यस्येत्यस्य च विग्रहत्वमिति भावः। एवं प्राप्तोदक इत्यादावपि प्राप्तमुदकं यमित्यादेर्न विग्रहत्वम्। किं तूक्तस्यैवेति। राजा चासौ पुरुषश्च, चित्राणां गवामयं, प्राप्तस्योदकस्यायमित्यादेरेव विग्रहत्वं समाससमानार्थत्वादिति मीमांसकाः प्राहुस्तान् प्रसङ्गतो निराकरोति-आख्यातं तद्धितकृतोरिति। तेन दीव्यतीत्यादिविहितठगादेस्ताद्धितस्य, कर्मण्यणितिविहिताणादेः कृतश्च विवरणभूतमाख्यातं-तिङन्तं यत्किचिदर्थबोधकं भवति। किं तु कृत्तद्धितान्त-तिङन्तयोर्विशेष्य विशेषणभावस्य व्यत्यासो दृश्यत इत्यर्थः। विपर्ययमेव दर्शयति-तथा हीत्यादिना। आक्षिक इति। तेन दीव्यतिo(पा.सू.4-4-2)इति सूत्रेणाक्षशब्दाद्देवनकर्तरि ठक्‌प्रत्ययः। कुम्भकार इति। कर्मण्यण्(पा.सू.3-2-1)कर्मण्युपपदे कृधातोः कर्तर्यण् प्रत्ययः। आक्षिक इत्यत्राक्षकरणकव्यापाराश्रय इति बोधः। तद्विग्रहभूतेऽक्षैर्दीव्यतीत्यत्राक्षकरणिका देवनानुकूला भावनेति बोधः। कुम्भकार इत्यत्र कुम्भोत्पत्त्यनुकूलव्यापाराश्रय इति बोधः। तद्विग्रहभूते कुम्भं करोतीत्यत्र कुम्भोत्पत्त्यनुकूला भावनेति च बोधः। विवरणविव्रियमाणयोर्भिन्नार्थत्वे कारणमाह-कृत्प्रत्यय इति। तद्वाच्यानां कारकाणां-कर्त्रादीनां, प्राधान्यं-मुख्यविशेष्यत्वं प्रकृतिप्रत्ययार्थयोरिति नियमादिति भावः। आख्याते चेति। तिङन्ते च भावनायाः प्राधान्यं-मुख्यविशेष्यत्वं, भावप्रधानमाख्यातमिति यास्कवचनादिति भावः। मीमांसकस्यापीति। अस्य विशेष्यविशेषणभावव्यत्यासः संमत इति शेषः। न विवरणत्ववाधक इति। तद्धितकृतोरर्थप्रदर्शकवाक्ये विशेष्यविशेषणांशस्य वैपरीत्येऽपि विवरणत्वाङ्गीकारवच्चित्रा गावो यस्येति वाक्येऽपि विवरणत्वसंभवादिति भावः। तथा च वृत्तिजन्यबोधसमानविषयकबोधजनकत्वमेव विग्रहत्वं, न तु वृत्तिजन्यवोधसमानप्रकारकबोधजनकत्वमपीति भावः। एवं च चित्रा गावो यस्येत्यादेर्विग्रहत्वे न किंचित्प्रतिबन्धकम्। किं च चित्राणां गवामयमिति विग्रहस्य, मत्वर्थे वहुव्रीहिः, कर्तृकर्मवचनेनाप्रथमायाः, अप्रथमाविभक्त्यर्थे बहुव्रीहिः, शेषो बहुव्रीहिः, त्रिकतः शेषः, इत्यादिमुनिवचनविरुद्धत्वम्। न चालौकिकवाक्ये प्रथमान्तानामेव प्रवेशान्न पूर्वोक्तमुनिवचनविरोध इति वाच्यम्। अलौकिकं यद्विभक्त्यन्तानां प्रवेशस्तद्विभक्त्यन्तानामेव परिनिष्टितानां लौकिकेऽर्थबोधनाय सति संभवे प्रवेशस्यौचित्यात्-न तु षष्ठ्यन्तानां, उपस्थितं परित्यज्यानुपस्थितपदघटितलौकिकविग्रहवाक्यकल्पनाया अन्याय्यत्वात्। वृत्त्यर्थप्रदशनार्थे कल्पिते चित्रा गावो यस्येत्यादावपि विशेष्यविशेषणभावव्यत्यासाच्चित्रगोसंबन्धीत्येव बोधः। व्यत्यासबौधनायैव चित्रा गावो यस्य स चित्रगुरिति प्रदर्श्यते वृद्धैः। सर्वनामसंज्ञासूत्रे भाष्येऽपि सर्व आदिर्येषां तानीति विग्रहो दर्शितः। सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात्स चित्रगिरित्यनेन स्वामिप्राधान्यं प्रदर्श्यत इति कैयटः। अत ए मासजात इत्यादेर्मासो जातस्य यस्य स इति विग्रहं प्रदर्शयन्ति। चित्रा गावो यस्य स चित्रगुरिति वाक्ये चित्रगोसंबन्धी यो भवति स चित्रगुपदबोध्य इति बोधः। पचतीति पाचक इत्यादेः पाचकपदं पचतीत्येतत्समानार्थकमिति बोधः। पचति पाकं करोतीत्यतोऽपि पचतितपदमेककर्तृकपाकक्रियाबोधकमिति बोधः, एवमन्यत्रापि। एवं च वृत्तिविग्रहयोः समानार्थता स्पष्टैवेति मञ्जूषाकृतः प्राहः।। 35 ।।
निषादस्थपत्यधिकरणसिद्धान्ताविघातार्थं भूमिकामारचयति-नन्वस्त्वित्यादिना सिद्धिर्न स्यादित्यम्तेन। शक्तिरिति। सर्वत्र समासे विशिष्टशक्तिरित्यर्थः। तथा विग्रह इति। चित्रा गावो यस्येत्याकारकश्च विग्रहाऽस्त्वित्यर्थः। शक्तिमत्त्वाविशेषादिति। शक्तिमत्त्वस्य विशिष्टशक्तिमत्त्वस्यैकार्थीभावरूपस्याविशेषात्तुल्यत्वात्षष्ठीतत्पुरुषकर्मधारययोस्तुल्यत्वापत्तिरित्यर्थः। अधिकरणसिद्धान्तेति। षष्ठीतत्पुरुषापेक्षया कर्मधारयस्य लघुत्वान्निषादस्थपतिशब्दे कर्मधारय इति तत्र सिद्धान्तितं, तन्न संगच्छेतेत्यर्थः। इत्याशङ्क्याऽऽह-पर्यवस्यच्छाब्दबोध इति। पर्यवस्यंश्चासौ शाब्दकोधश्चेति। पर्यवस्यन् शब्दशक्तिमर्यादया सिध्यन् यः शाब्दबोधः, समासाद्विशिष्टशक्तया जायमान शाब्दबोध इत्यर्थ-। तस्मादविदूरश्चासाविति। समासादविदूरः संनिहितो यः प्राक्‌क्षणः, समाससंज्ञाविदानादव्यवहितपूर्ववर्तिअलौकिकप्रक्रियावाक्यप्रयोगाधिकरणभूतः क्षण इत्यर्थः। तादृशक्षणाधिकरणको योऽलौकिकप्रक्रियावाक्यप्रयोगस्तत्रत्यां स्थितिमादाय सिध्यन्नन्तरङ्गबहिरङ्गभावः समासेऽपि सुवच इत्यर्थः। तथा चालौकिकप्रक्रियावाक्यार्थनिष्ठान्तरङ्गबहिरङ्गभावचिन्तनहेतुकलाघवानुरोधेन निषादस्थपत्यधिकरणविरोधो न सभवतीति भावः। एतदेव विशदयन्नाह-अयं भाव इत्यादि। निषादस्थपतिपदमिति। एतया निषादस्थपतिं याजयेदिति श्रुतिगतमित्यर्थः। समासशक्तिपक्ष इति। निषादस्थपतिरूपसमासस्यैकार्थीभावरूपे विशिष्टार्थे शक्तिरिति सिद्धान्तपक्ष इत्यर्थः। निषादरूप इति। निषादाभिन्ने स्थपतौ, इत्यर्थककर्मधारय इत्यर्थः। निषादानां चेति। निषादसंबन्धिस्थपताविति षष्ठीतत्पुरुष इत्यर्थः। निषादस्वामिक इति। निषादः स्थपतिः स्वामी यस्येति पुरुषान्तरान्यपदार्थके बहुव्रीहावित्यर्थः। स्थपतिशब्दः स्वामिपर्याय इति भावः। एवं च निषादस्थपतिसमासो निरुक्तेषु त्रिष्वप्यर्थेषु शक्तत्वान्नानार्थकः, सति तात्पर्ये निषादसंबन्धिनः, निषादस्वामिकस्यापि च बोधोत्पत्तेरिष्टत्वात्तत्रापि शक्तिरावश्यकीति भावः। नानार्थे इति। शक्त्यादिवृत्त्याऽनेकार्थोपस्थितौ सत्यामित्यर्थः। तात्पर्यादिति। नानार्थवाचके हर्यादौ तात्पर्याद् वक्तृतात्पर्यानुरोधाद् विशेषस्य विवक्षितार्थविशेषस्यावगतिर्निश्चय इति तदर्थः। न्यायेनेत्यस्य क्व तात्पर्यमिति संशये प्राप्ते सतीति शेषः। निषादस्थपतिशब्दे स्वघटकपदघटितवाक्यदृष्टार्थमात्रविषयकबोधजनकतत्पुरुषापेक्षया, स्वघटकपदघटितवाक्यदृष्टार्थात्तिरिक्तार्थविषयकबोधजनकत्वेन बहुव्रीहेर्बहिरङ्गत्वम्। स्वं निषादस्थपतिरिति षष्ठीतत्पुरुषः, तद्‌घटके ये द्वे पदे, तादृशपदद्वयघटितं यद्वाक्यं-निषादानां स्थपतिरित्याकारकं, तत्र दृष्टो योऽर्थः-निषादसंबन्धिस्थपतिरित्येवंरूपः, तादवदर्थविषयकबोधजनकत्वात्तत्पुरुषस्य बहुव्रीह्यपेक्षयाऽन्तरङ्गत्वम्। बहुव्रीहेस्तु सव्घटकपदघटितं यद्वाक्यं चित्रा गाव इति, तत्र दृष्टो योऽर्थः-चित्राभिन्ना गावः, तदपेक्षयाऽतिरिक्तः स्वामिरूपो योऽन्यपदार्थः, तावदर्थबोधजनकत्वेन बहुव्रीहेस्तत्पुरुषापेक्षया बहिरङ्गत्वम्। वृत्तिघटकीभूतपदार्थातिरिक्तपदार्थबोधजनकत्वाभावेन बहुव्रीह्यपेक्षया तत्पुरुषे लाघवम्। बहुव्रीहौ तु वृत्तिघटकीभूतपदार्थातिरिक्तपदार्थबोधजनकत्वेन तत्पुरुषापेक्षया गौरवमिति भावः। एवमेव षष्ठीतत्पुरुषापेक्षया कर्मधारयस्य लघुत्वं बोध्यम्। वृत्तिघटकीभूतपदार्थयोरभेदेनान्वयादेकार्थविषयकबोधजनकत्वेन तत्पुरुषापेक्षया कर्मधारये लाघवं, षष्ठीतत्पुरुषे तु वृत्तिघटकीभूतपदार्थयोर्भेदेनान्वयात्पदार्थद्वयविषयकबोधजनकत्वेन कर्मधारयापेक्षया गौरवम्, इति भावः। तत्कल्पनायामिति। निषादस्थपतिशब्दे तात्पर्यकल्पनायां प्राप्तायामिति शेषः। पूर्वोपस्थितार्थ एवेति। संभवति सामनाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वमिति न्यायेन निषादसंबन्धिस्थपत्यपेक्षया निषादरूपे स्थपतावेवोपस्थितिप्रयुक्तलाघवानुरोध तत्तात्पर्यं कल्प्यते निश्चीयते। अभेदान्वयेनैकार्थबोधजनकत्वरूपसामानाधिकरण्ये संभवति सति, भेदसंबन्धेनान्वयबोधजनकत्वरूपवैयधिकरण्यस्य न्यायापेतत्वं, पदद्वयेनाभेदा वयादेकस्यैव पदार्थस्य बोधनेन कर्मधारये लाघवात्, तत्पुरुषे तु भेदेनान्वयात्पदद्वयेन पार्थक्येनार्थद्वयस्य बोधनेन गौरवादिति संकलितोऽर्थः। ननु मीमांसकमते समासे शक्यभावात्कथं निषादस्थपतिपदं नानार्थकमत आह-परेषामपीति। व्यपेक्षाफक्षवादिनां नैयायिकादीनामपीत्यर्थः। सति तात्पर्ये इति। षष्ठीतत्पुरुषाद्यर्थे तात्पर्ये सतीत्यर्थः। यष्टीः प्रवेशयेतिवदिति। तत्र यथा यष्टिप्रवशरूममुख्यार्थान्वयानुपपत्त्यभावेऽपि तात्पर्यानुपपत्त्या यष्टिधरे लक्षणा क्रियते एवं यकृते निषादस्थपतिशब्देऽप्यन्वयानुपपत्त्यभावेऽपि तात्पर्यानुपपत्त्या षष्ठीतत्पुरुषाद्यर्थे लक्षणा दुर्वारेत्यर्थः। ततश्चानेकार्थकत्वेऽपि यादृशार्थस्योपस्थितौ लाघवं भवति तादृशलाघवानुसारेण कर्मधारयार्थ एव तात्पर्यं निश्चीयते इति तात्पर्यम्।। 36 ।।
इति श्रीवैयाकरणभूषणसारव्याख्यायां शांकर्यां समासशक्तिनिर्णयः।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
सारीयेऽभूद्विवरणे समासे शक्तिनिर्णयः।। 5 ।।