वैयाकरणभूषणसारः (काशिकाटीकासहितः)/समासशक्तिनिर्णयः

विकिस्रोतः तः
वैयाकरणभूषणसारः (काशिकाटीकासहितः)
समासशक्तिनिर्णयः
[[लेखकः :|]]


समासानिति । समासत्वं च पाणिन्यादिसंकेतसंबन्धेन समासपदवत्त्वम् । समासपदेन घटादिर्बोद्धव्य इत्याकारकपुरुषान्तरीयसंकेतसंबन्धेन समासपदवत्त्वस्य घटादावतिव्यप्तिः स्यादिति__पाणिन्यादीति । व्याकरणप्रणेतृमुनीत्यर्थः । तथाविधस्य पुरुषस्य तथाविधसंकेतस्तु न मानाभावात् । तेषामन्यत्र व्यवहाराभावादन्याभियुक्तानां व्यवहाराभावाच्च। अत एव यत्किञ्चित्पुरुषीयसंकेतसंबन्धेन घटादिपदवत्त्वं न समासत्वम् । अभियुक्तानां तथाव्यवहारा- भावात् । अर्थबोधफलकविभत्तयव्यवहितपूर्ववर्तित्वप्रकारकज्ञानाविषयपूर्वपदघटितनामसमुदायत्व समासत्वम् । राजपुरुष इत्यादावपि राजादिशब्दे कस्यचित् पुंसो विभत्तयनुसन्धानसत्त्वेऽपि तस्यार्थबोधफलकत्वाभावान्नासम्भवोऽव्याप्तिर्वा । दधिसुन्दरमस्त्यानयेत्यादौ तत्तद्विभत्तयनुसंधान- सत्त्वे एव शाब्दबोधोपगमान्न तत्रातिप्रसङ्गः । समासस्थले तु पूर्वपदे विभत्तयनुसंधानं विनैव तदुपगमान्न दोष इति तु न युक्तम् । दधि सुन्दरमित्यादौ विभक्तिपदमजानतोऽपि बोधोदयात् तत्रातिव्याप्तेः ।
ननु विभत्तयनुसंधानं विना बोधानङ्गीकारेण नातिव्याप्तिरिति चेन्न । विनगमनाविरहेण समासेऽपि तथा वक्तुं शक्यतयासंभवापत्तेः । न च समासे पदयोरव्यहितपूर्वापरीभावस्या- काङ्क्षात्वेन तज्ज्ञानस्य शाब्दबोधे हेतुतया विभक्त्यनुसन्धानं विनैव बोधोपगम उचितः, असमासे तु प्रातिपदिकस्य विभक्त्यव्यवहितपूर्ववर्तित्वप्रकारकज्ञानविषयस्यैवाकाङ्क्षात्वेन तत्र विभक्त्यनु- सन्धानमावश्यकमिति वाच्यम्, अलुक्समासे व्यभिचारेण तथाविधाव्यवहितपूर्वापरीभावज्ञानस्य हेतुत्वासंभवात्, न च तत्र 'दास्याः पुत्रे'त्यादिसमुदायस्यैवाकाङ्क्षात्वान्न दोष इति वाच्यम् । एवमपि 'दास्याः पुत्रः' 'कण्ठेकाल' इत्यलुक्समासेऽव्याप्तेः, समुदायघटकविभक्तिज्ञानस्यापि बोध- जनकत्वात्, अर्थोपस्थितिद्वारा बोधजनकत्वं तत्र निवेश्यमतो न तत्राव्याप्तिः, तथा विभक्तेरर्थोपस्थापकत्वाभावात् । अत एव 'गोषुचर' इत्यत्र बहुवचनसत्त्वेऽपि बहुत्वबोधो न, स्पष्टं चेदं समर्थसूत्रभाष्ये इति चेदेवमपि__'पर्यभूषत्,' 'पचतभृज्जते'त्यादावव्याप्तिर्दुर्वारैव । अलक्ष्यत्वेन परिहारस्तु नोचित इति दिगिति वदन्ति । अन्ये तु तार्किका यादृशमहावाक्योत्तरस्त्वतलादि- प्रत्ययो यादृशार्थविषयतानिरूपितस्वार्थविषयताशालिबोधजनकस्तादृशवाक्ये तादृशोर्थ समासः, तादृशार्थबोधकतादृशवाक्यत्वं समासत्वमिति यावत्__भवति हि 'कृष्णश्रित' इत्यादौ तदुत्तरत्वादिप्रत्ययेन पूर्वपदार्थविशिष्टोत्तरपदार्थान्वितस्वार्थबोधजननात् । पाचकादिकं पाकक्रिया- कर्त्रर्थवाक्यमपि स्वघटकानेकनामलभ्यतादृशार्थप्रतिपादकत्वरूपमहत्वाभावान्न महावाक्यमिति न तत्रातिप्रसङ्गः । ननूपकुम्भादावव्याप्तिः, कुम्भपदास्यैव लक्षणया कुम्भसमीपार्थकत्वादिति चेन्न, प्रकृत्यर्थमात्रावच्छिन्नप्रत्ययार्थान्वयबोधायोग्यत्वरूपमहत्त्वस्य निवेशात्, अत एव 'नीलघटत्व'- मित्यत्र नीलघटत्वमितिभागे नातिप्रसङ्गः, उक्तमहावाक्यत्वाभावात् । न च मात्रपदानर्थक्यं
'क्षीरपायी' 'हरित्रात' इत्यादावव्याप्तिप्रसङ्गात्, तस्य प्रकृतिभूतधात्वर्थविशिष्टणिन्यादिरूपकृदर्थ- विषयकबोधजनकत्वेऽपि न प्रकृत्यर्थमात्रविशिष्टकृदर्थबोधहेतुत्वमपि तु क्षीराद्यन्वितपानादि- विशिष्टकृदर्थकर्त्रादिबोधजनकत्वमिति तत्सत्त्वे नातिप्रसङ्गः । 'राज्ञः पुरुषत्व'मित्यादितो राजन्येव पुरुषभावः प्रतीयते, न तु राजसंबन्धाद्यन्वितपुरुषे त्वप्रत्ययार्थः । एवं 'तव पुत्रत्वमेष्यामी'त्यादावपि पुत्रवृत्तिभावे युष्मदर्थनिरूपितत्वस्य षष्ठ्यन्तार्थस्यान्वयस्तद्धितानां प्रकृत्यर्थमात्रान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अत्र त्वादिस्थाने प्रत्ययमात्रस्य, तद्धितमात्रस्य वा निवेशे 'राज्ञः पुत्रीय' इत्यादौ राजसंबन्धविशिष्टपुत्रस्यैव छप्रत्यार्थेऽन्वयाद् 'राज्ञः पुत्रे'ति भागेऽतिप्रसङ्ग इति विशिष्य त्वाद्युपादानं, नित्यसापेक्षतया एकादेशान्वयेऽपि बाधकाभावात् । तद्धितानां प्रकृत्यर्थेति व्युत्पत्तिस्तद्धितविशेषपरत्वेन संकोचनीया । अत एव 'परमगार्ग्यस्यापत्य' मित्यर्थे गार्ग्यशब्दात् फगिति 'येन विधिः-' इति सूत्रस्थभाष्यसंगतिः, अन्यथा प्रकृत्यर्थातिरिक्तपरमान्वितप्रकृत्यर्थान्वितस्वार्थबोधकत्वादसंगतिः स्पष्टैव । ससंबन्धिकार्थतिरिक्त- प्रकृत्यर्थपरा वा । यदि तत्र साजसंबन्धस्य परंपरया प्रकृत्यर्थविशिष्टप्रत्ययार्थ एवान्वयस्तदातद्धितसामान्योपादानेऽपि न क्षतिरिति बोध्यम् । 'राज्ञः पुरुषस्य धन'मित्यत्र राजसंबन्धान्वितपुरुषस्य षष्ठ्यर्थस्वामित्वादावन्वयाद्राज्ञः पुरुषेति भागेऽतिप्रसङ्ग इति प्रत्ययसामान्योपेक्षेत्याहुः । अत्र पक्षे 'पिबतखादता' 'पचतभृज्जते'त्यादावव्याप्तिविरहेऽपि दासीसंबन्धस्य षष्ठ्यन्तार्थस्य 'दास्याः पुत्रत्व'मित्यत्र पुत्रान्वितत्वप्रत्ययार्थे एवान्वयात् न तु पुत्रपदार्थे ।
अत एव राज्ञः पुत्रत्वमित्येतद्धटके राज्ञः पुत्रेति भागेऽतिप्रसङ्गो निराकृतः, व्यस्ते एव तथान्वय इत्यत्र नियामकाभावः । प्रदायेत्यादेः क्रियायामेवान्वयात्ततः पर्यभूषदित्यादेश्च त्वाद्यभावात्तत्रोक्तलक्षणनयमासंभवात्, तदर्थस्य प्रथमार्थेनैवान्वयात् तस्य प्रातिपदिकत्वेऽपि षष्ठ्यन्तत्वविरहात्, तदुत्तरविभक्तेर्निरर्थकत्वाच्च । एतेषामलक्ष्यत्वेन परिहारस्तु न चमत्कारी त्यवेहि । प्रदाय प्रस्थाय अनुव्यचलत् पर्यभूषदित्यादावव्याप्तिरिति वदन्त्यपरे इति कृतं पल्लवितेन । पदद्वयमपीति । अपिना पदत्रयादिपरिग्रहः । तेन 'द्वयह्नजातः' 'चित्राजरद्गुः' 'होतुपोतृनेष्टोद्गातार' इत्यादिसमासस्य नासंग्रहः, तथा चानेकसुबन्तघटितत्वं विभाजकताव- च्छेदकमिति भावः । राजेति । 'उपपदमतिङ्' इति सूत्रभाष्यप्रामाण्याद् 'द्वितीयाश्रित-' इत्यादावपि 'गतिकारकोपपदानाम्-' इति परिभाषाप्रवृत्त्यानेकसुबन्तत्वाघटितत्वात् प्रथमोप- स्थितेत्यादिन्यायस्य निजां त्रयाणामित्यत्र त्रिग्रहणादत्र शास्त्रेऽनाश्रयणात् प्रसिद्धतमत्वाच्च कृष्णश्रितादीनपहाय राजपुरुष इत्यस्य प्रदर्शनमिति बोध्यम् ।
पर्यभूषदिति । 'देवान् क्रतुना पर्यभूष'दिति ऋक्संहितायाम् । अत्र 'सह-' इति योगविभागात् समासः । अत्र 'समासस्य' इत्यन्तोदात्तत्वं बाधित्वा तत्पुरुषे तुल्यार्थ-' इत्यव्यय- पूर्वपदाप्रकृतिस्वरे प्राप्ते__तदपवादेन 'गतिकारकोप-' इति सूत्रेणोत्तरपदप्रकृतिस्वरेणाट्स्वरस्या- वस्थानं भवति, वार्तिककारेण तत्रत्यकृद्ग्रहणस्य प्रत्याख्यानात् । नन्वत्र समासस्य 'सह-' इति योगविभागेन भाष्ये साधनेन तत्पुरिषत्वाभावेन तत्पुरुषे विधीयमानस्वरस्य कथमत्र प्रवृत्तिश्चेदत्राहुः__'नित्यं क्रीङा-' इति सूत्रे 'नित्यम्-' इति योगविभागेन भाष्येऽत्र समासस्य स्वीकारत्रोक्तदोष इति__'यत्रा नरो देवयन्तो युगानि वितन्वते' इत्यादौ तु त्रिचक्रादित्वकल्पने-
नान्तोदात्तत्वं बोध्यम् । अत्र कृद्ग्रहणाभावे प्रभवनमित्यादावेव क्रियाप्रधाने स्यान्न तु प्रणी- रित्यादाविति कृद्ग्रहणं कृन्मात्रपरिग्रहार्थे कर्तव्यमेवेति__सिद्धान्तपक्षे तु बाहलकादेव पर्यभूषदित्यादावुत्तरपदाद्युदात्तत्वं बोध्यमिति कैयटोद्योतादौ विस्तरोऽनुसंधेयः । ननु भाष्ये तिङ्ग्रहणात् सुप्सुपेत्युभयोरपि निवृत्तेरुक्ततया सुपां नाम्नेत्यसंगतं, पदद्वयेऽपि सुबुत्पत्तेः प्रागेव समासप्रवृत्तेरित्याशङ्कापनोदायाह__अत्रोत्तरपदे इति । इत्यर्थदिति । अस्य 'सुपां नाम्नेति नासंगत'मीति शेषः । अतिङ्ग्रहणात् तृतीयान्तं सुपेत्येतदेव नानुवर्तते, प्रथमान्तं सुबिति त्वनुवर्तत एव । भाष्यं तु समुदायाननुवृत्तितात्पर्यकम् । एकानुवृत्तावपि उभयानुवृत्तेरभावस्या- क्षतत्वान्न तात्पर्यानुपपत्तिः । अथवा सुबित्यनुवृत्त्यैवैधानाहारको व्रजतीत्यादेर्व्यावृत्तिसिद्धाव- तिङ्ग्रहणादुभयोरपि निवृत्तिर्भाष्योक्ता यथाश्रुतैवास्तु । एवमप्पुपपदमिति महासंज्ञाकरणादुपसमीपे उच्चारितं पदमित्यन्वर्थताश्रयणात् पुर्वपदे सुबुत्पत्त्यनन्तरमेव समासः । 'सुप्यजातौ-' इति णिनेः सुबुत्पत्त्यनन्तरमेव संभवेन तं विनोपपदत्वाभावेनादोषाच्च । निर्गत इत्यादावपि न दोषः, शब्दान्तरसंबन्धात् पूर्वमन्तरङ्गत्वात् सुबुत्पत्तौ सुकि च पदत्वोत्तरमेव पदान्तरसंबन्धादिति भावः । उक्तव्याख्यायाः प्रयोजनमाह__अन्यथेति । अन्यथा = पूर्वपदेऽपि सुबुत्पत्तेः प्रागेव समासप्रवृत्तौ । न लोपानापत्तेरिति__पदत्वाभावात् । कटप्रूरिति । कटं प्रवत इति कटप्रूः । प्रूङ् गतावित्यस्मात् कर्तरि क्किप् । आयतस्तूरिति । आयतं स्यौतीत्यर्थः । उभयत्रापि 'क्किब्वचि-' इति धातोर्दीर्घः । वार्तिकादिति । वार्तिके निपातनात् समासः । पिबतेति । पिबतखादतेति सततं यस्यां क्रियायामभिधीयते सा पिबतखादतेत्यर्थः । आख्यातमिति । क्रियायाः सातत्ये = नैरन्तर्थे गम्ये तिङन्तं तिङन्तेन समस्यते इत्यर्थः । सूत्रादिति । अत्र समास इत्यनुषज्यते ।
जहिस्तम्ब इति । स्तम्बाधातकर्ता समासार्थः । जहिकर्मणेति । जहीत्येतत् तिङन्तं कर्मार्थकसुबन्तेन समस्यते, आङीक्ष्ण्ये गम्ये, कर्त्रभिप्रायकश्चेत् समासस्तदेत्यर्थः ।।

तद्भेदं = समासभेदम् । मूले-योयं पूर्वेति । योयं पूर्वपदार्थप्राधान्यादविषयो वादः = पुर्वपदार्थप्रधानोऽव्ययीभाव इत्यादिवादः । सोऽपि प्रायोवादः = प्रायिक इत्यर्थः । प्राचीनोक्तविभागस्य प्रायिकत्वे हेतुमाह__भूतपूर्व इत्यादिना । असंग्रहादिति । तेषां समासानामव्ययीभावादिसंज्ञाविविर्मुक्तत्वात् । तत्र भूतपूर्व इत्यत्र 'सुप् सुपा' इति, आयतस्तूरित्यत्र 'क्किव्वचि__' इति वार्तिके निपातनात्, वागर्थाविवेत्यत्र 'इवेन समासः__' इति समासः । पूर्वपदार्थेति । पूर्वपदार्थः प्रधानं यत्रेत्यर्थः । तथा च पूर्वपदार्थनिष्ठ- मुख्यविशेष्यताकबोधजनकोऽव्ययीभाव इति पर्यवसितोऽर्थः । तेन राजपुरुष इत्यादावपि राजत्वादिनिष्ठप्राकारतानिरूपितराजादिनिष्ठविशेष्यताकबोधजनकत्वेऽपि न तत्रातिव्याप्तिः, राजादौ तज्जन्यबोधीयमुख्यविशेष्यताविरहात् । एवमग्रेऽपि बोध्यम् । उपकुम्भमित्याद्यव्ययीभावस्य कुम्भसमीपमित्याकारकस्य पूर्वपदार्थमुख्यविशेष्यकबोधस्य जनकत्वाल्लक्षणसंगतिः । उभयपदार्थेति । अनेकपदार्थप्रधान इत्यर्थः । तेन त्र्यादिपदघटितसमासस्य नासंग्रहः । परस्परेति । परस्परस्य व्यभिचारात् = लक्षणलक्षितावच्छेदकयोः परस्पराभाववद्धतित्वादित्यर्थः । व्यभिचारं पदर्शयति-तथा हीति । अव्याप्तिरिति । अव्ययीभावलक्षणस्याव्याप्तिः । अन्यपदार्थप्राधान्ये गमकमाह__'अन्यपदार्थे च' इति ।
समासादिति__अयमन्यपदार्थप्राधान्ये हेतुः । उत्तरपदार्थप्राधान्यसत्त्वादिति । सुप्संबन्धिलेश इत्याकारकोत्तरपदार्थविशेष्यकबोधजनकत्वादित्यर्थः । नन्वव्ययीभावसमास- विधायकेऽव्ययस्य प्रथमानिर्दिष्टत्वात् कथमत्राव्ययस्योत्तरपदत्वमित्यत आह__'सुप् प्रतिना' इति ।
पूर्वपदार्थेति । पिप्पलीसंबन्ध्यर्घमिति ततो बोधोदयात् । भाष्यकारैस्तु__समुदाये दृष्टा इति न्यायेन पिप्पली कायादिशब्दानां पिप्पल्याद्यवयवपरतार्धविप्पली-पूर्वकाय इत्यादिः कर्मधारस्य एव भवति । एवं च 'अर्थ नपुसंकम्' इत्यादि सूत्रत्रयं न कर्तव्यमत एवोर्ध्वकायादिसिद्धान्तितं, तन्मते तत्रोत्तरपदार्थप्राधान्यसत्त्वेन व्यभिचाराभावेऽप्यन्यो राजेत्यर्थक 'राजान्तर'मित्यत्र पूर्वपदार्थप्राधान्य- बोधजनके मयूरव्यंसकादिसमासे सर्वमते व्यभिचारो द्रष्टव्यः । भिन्नवाचिनोऽन्तरशब्दस्य नपुसंक- तया समासस्य मयूख्यंसकादिगणे निपातनात् परवल्लिङ्गता, एतेन 'परवल्लिङ्गमिति सूत्रे भाष्ये अर्धपिप्पलीत्यादेस्तत्पुरुषोदाहरणस्य कर्मधारत्वोपगमेनोत्तरपदार्थप्राधान्यमाश्रित्यान्यथासिद्धि कृत्वा तत्रत्यतत्पुरुषग्रहणप्रत्याख्यानेन कथमत्र परवल्लिङ्गतेति दूषणं निरस्तम् । अत्र पूर्वपदार्थतावच्छेदकधर्माश्रयबुद्धिस्थयत्किञ्चित्प्रतियोगिकत्वं व्युत्पत्तिबललभ्यम् । एवं 'नृसोमः' 'प्रसन्नेन दृगब्जेने'त्यादावपि व्यभिचारो द्रष्ठव्यः । दृगब्जेनेत्यादौ मयूरव्यंसाकादित्वात् समासः । तत एव परवल्लिङ्गता, पूर्वपदार्थप्रधानता च । राजान्तरमिति तद्विहितसमासे तस्यादृष्टत्वात् । सामान्यवाचकप्रयोगात् 'उपमितं व्याघ्रादिभिः__' इति समासस्तु नात्र पदमादधाति । उपात्तधर्म एव सादृश्यप्रयोजकस्तदुपादान इत्यर्थस्य काव्यप्रकाशे दशमे स्फुटत्वादनुपात्तधर्मेणैवात्र सादृश्यमिति न युक्तम् । पुरेन्दुः सकल इत्यादावनुपात्तधर्मेण सादृश्यासंभावाच्च । किं चेदं सूत्रं समानलिङ्गवचनत्व एव प्रवर्तते, अन्यथा 'परवल्लिङ्गम्-' इति सूत्रे 'तत्पुरुषश्चापि कः प्रयोजयति, यः पूर्वपदार्थप्रधानः, एकदेशिसमासः, अर्धपिप्पलीति,' इति भाष्यस्य द्वन्द्वैकदेशिनोरिति न्यासेन तत्पुरुषग्रहणप्रत्याख्यानपरभाष्यस्य चासंगत्वापत्तेः । दृगब्जेनेत्यादेरपि पूर्वपदार्थप्रधानस्य दृश्यमानपरवल्लिङ्गस्य सत्त्वात् । मुखचन्द्र इत्यादावप्यनेनैव तस्य पूर्वपदार्थ- प्रधानत्वाच्चन्द्ररूपकव्यवहारः, परवल्लिङ्गता च तत एवेति मञ्जूषायां स्पष्टम् । उभयपदार्थ- प्राधान्यादिति, द्वित्रा इत्यतो द्विव्यन्यतर इति बोधोत्पत्तेः । द्वन्द्वातिव्याप्तिरिति । तल्लक्षणाति- व्याप्तिरित्यर्थः । एवमग्रेऽपि । समाहारान्येति । समाहाररूपो योऽन्यपदार्थस्तत्प्राधान्यादित्यर्थः । द्वन्द्वाव्याप्तिश्चेति । धवखदिरावित्यादीतरेतरयोगे उभयपदार्थविशेष्यकबोधजकत्वादिसंभवो नेति भावः । वस्तुतस्तु 'चार्थे द्वन्द्वः' इति सूत्रभाष्यपर्यालोचनयेतरेतरयोगेऽपि बहुव्रीहावन्यपदार्थस्येव चार्थसमूहस्यैव प्राधान्यं लभ्यते, तत्र हि चार्थस्यासत्त्वभूततया तत्परतिपादकसमासस्याप्य- लिङ्गासंख्यतापत्तिमाशङ्क्य स्वभावेन परिहारं कृत्वा गुणवचनवद्यद्द्रव्याश्रितः समासार्थस्तद्- द्रव्यलिङ्गसंख्याग्राहक इति च समाधानमुक्तम् । अत एवेदं भाष्यं न समाहारद्वन्द्वपरं, तस्य तद्ग्राहित्वाभावात्, तत्रेतरेतरयोग उद्भूतावयवभेदः समूहः, समाहारद्वन्द्वे त्वनुद्भूतावयवः स इति विशेषः, उद्भूतावयवभेदत्वमवयवयगारोपितसंख्यावत्त्वम्, अवयवगतसंख्यानारोपे- ऽनुद्भूतावयवभेदत्वम्, इदमेव तिरोहितावयवभेदत्वमित्याद्यन्यत्र विस्तरः । एतन्मते तूक्तलक्षणासंभवो बहुव्रीहिलक्षणातिव्याप्तिश्च द्वन्द्वे बोध्या । एवं प्राचीनोक्तानां 'पूर्वपदार्थप्रधान' इत्यादीनामव्ययीभावादिलक्षणत्त्वं दूषयित्वा सिद्धान्तिमते तल्लक्षणान्याह__सिद्धान्तेत्विति ।
अव्ययीभावाधिकारेति । अव्ययीभावाधिकारान्तर्गतलक्षणविहितसमासत्वमित्यर्थः । तेनोपकुम्भादे- स्तदधिकारे पाठाभावेऽपि न क्षतिः, तत्तदघिकारपठितादेशादौ नातिव्याप्तिः, तेषां समासत्वाभावात्, समासत्वं प्रागुक्तमेवेति न दोषः । परे तु पाणिन्यादिसंकेतसंबन्धेनाव्ययी- भावादिपदवत्त्वमेव तत्तल्लक्षणमिति प्रतिपन्नाः । अव्ययीभावादिव्यवहारविषयत्वं न तल्लक्षणमित्य- परे जगुः । भौतपूर्व्यादित मूले__पूर्व भूतं भूतपूर्व, भूतपूर्वमेव भौतपूर्व्य, 'स्वार्थे ष्यञ्' । वृत्तेः पूर्वकाले भूतं यत् पूर्वपदार्थविशेष्यकबोधजनकत्वं तस्माद्धेतोः सोऽपि = उत्सार्गौऽपि गवयादिवदास्थितः, = स्वीकृत इत्यर्थः । भौतपूर्व्यादित्यनेनोक्तिसंभव उक्तः । न समासलक्षत्व- मिति । रेखागवयादेनिष्ठलाङ्गूलादेर्वास्तवपशुगतत्वाभावान्न वास्तवपशुलक्षणत्वं यथा, तथा तादृशतादृशबोधजनकत्वस्य तत्तत्समासनिष्ठत्वाभावान्न तत्तत्समासलक्षणत्वं, तत्र विशिष्ट- शक्तिस्वीकारेणावयवानां नैरर्थक्यादिति भावः । बोधकता तद्वदेवेति । रेखागवयादिनिष्टला- ङ्गूलादेर्थथा सादृश्येन पशुनिष्ठलाङ्गादिबोधनद्वारा वास्तवपशुबोधकत्वं, तथा वृत्तेः प्राक् तत्त- त्पदार्थत्वं यत्र दृष्टं तत्तदर्थविशेष्यकबोधजनकतया तत्तदाश्रये त्तत्समासबोधकत्वमिति भावः ।।
सुवचमिति । तथा च प्राचीनोक्तानि लक्षणानि नासम्भवदुक्तिकानीति भावः । जहत्स्वार्थेति । जहत्स्वार्थत्वमेवैकार्थीभावः, अजहत्स्वार्थत्वमेव व्यपेक्षेति भावः । एकार्थीभावपक्षे समुदायशक्त्यैव विशिष्टार्थोपस्थितिसंभवेऽवयवा न स्वार्थोपस्थिति कुर्वन्ति, वैयर्थ्यात् । अजहत्स्वार्थतां विना परस्परमन्वयाकाङ्क्षारूपव्यपेक्षाया असंभवाद्वयपेक्षापक्षेऽवयवाः स्वार्थो- पस्थापका एवेति भावः । उक्तव्यवस्थेति । पूर्वपार्थप्रधानोऽव्ययीभाव इत्यादिव्यवस्थेत्यर्थः ।
नासंभविनीति । उपकुम्भमित्याद्यव्ययीबावादौ तस्य संभवात् । यथा सूपपतोत्यादावव्या- प्त्यतिव्याप्तिरूपदोषसत्त्वेऽपि समनन्तरमभिहितोऽसंभवोऽसंभवीत्यर्थः । जहति पदानीति । 'सप्तमी विशेषणे__' इति सूत्रे सप्तमीग्रहणाज्ज्ञापकाद्वयधिकरणानामपि पदानां क्कचिद्बहुव्रीहि- र्भवतीति भावः । जहति स्वानि = वृत्तिघटकीभूतपदानि यंस जहत्स्वस्तादृशाऽर्थो यस्यामिति समानाधिकरणपदकोऽपि संभवतीति परे । वृत्तौ पदानामानर्थक्यमिति । शक्तपदघटकवर्णानामिव वृत्तिघटकपदानामानर्थक्यानङ्गीकारे पदघटकवर्णानामप्यानर्थक्यं न स्यादिति भावः ।
ननु पदघटकवर्णानां कुत्राप्यर्थाबोधकतयानर्थक्येऽपि राजादिपदानां वाक्येऽर्थबोधकतया समासे वाक्यदृष्टार्थबोधोत्पादेन च न नैरर्थक्यसंभव इत्याशङ्क्याह__अय भाव इति । राजविशिष्टेति । स्वामित्वादिसंबन्धेन राजविशिष्टपुरुषेत्यर्थः । राज्ञः पुरुष इत्यत्रापि संबन्धस्य संसर्गतयैव भानाद्बृत्तिवाक्ययोः समानार्थत्वनिर्वाहः । वाक्यजबोधे संबन्धस्य प्रकारत्वोपगमे तु राजपुरुषादिसमुदायस्य राजसंबन्धविशिष्टपुरुषबोधकत्वमङ्गीकार्यम् । संभवे = संभवे सति । तद्बोधकत्वम् = राजादिबोधकत्वम् । कल्प्यमिति । न कल्प्यमित्यन्वयः, निष्प्रयोजनत्वात् बोधावृत्तिप्रसङ्गाच्चेति भावः । ननु संभेदेनान्यतरवैयर्थ्यमिति न्यायेन द्वावपूपाविव न बोधावृत्तिप्रसङ्गः, तथा च वृत्तिघटकपदानामर्थबोधकत्वे न किचिद्बाधकमित्यत आह-वृषभेति । वृषशब्दस्य वृषभसमानार्थकत्वेऽपि वृषभसब्दघटकस्य तस्य न तद्बोधकत्वमित्यनुभवसिद्धमेवं यावकघटकयावशब्दस्य, तथा च शक्ततावच्छेदकाननुप्रविष्टाया एवानुपूर्व्याः शक्ततावच्छेदकत्व- मित्यवश्यमङ्गीकार्यम् । तथा च कथं वृत्तिघटकपदानां बोधकत्वसंभव इति भावः । ननु वृषवृषभादिशब्दानां पर्यायतया वृषभशब्दघटकवृषशब्दस्य बोधकत्वाभावेऽपि राजपुरुषशब्दयोः
समानार्थत्वाभावात् समासघटकराजदिपदस्य नैरर्थक्ये साधकाभावः, एकार्थस्थल एव शक्ततावच्छेदकाघटकेत्यादिनियम इति प्रकृते न दोषः, कि च योगरूढे पङ्कजादिशब्दे शक्ततावच्छेदकसमुदायनिष्टानुपूर्व्यनुप्रविष्ठाया अवयवानुपूर्व्याः शक्ततावच्छेदकतया तथा नियमासंभवश्च । एवं च समासे नायं अनियमः कि तु समासे एवेत्याशङ्क्यावयवानां बोधकत्वे बाधकमाह-राजपदेनेति । अन्यथा = समासाद्यवयवस्य स्वार्थबोधकत्वे । इत्यस्याप्यापत्तिरिति । जहत्स्वार्थत्वे तु राजाद्यर्थस्य पुरुषादिविशेषणतयैवोपस्थित्या न दोषः ।
न जहतीति । इदं शत्रन्तप्रकृतिकजसन्तम् । अत्रापि न जहति स्वानि यान् तेऽजहत्स्वास्ता दृशा अर्था यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिर्बोध्यः । ननु समुदायशक्त्यैव राजादिविशिष्टपुरुषादिबोधसंभवेऽवयवानां पूर्वोक्तरीत्या न स्वार्थोपस्थापकत्वं संभवतीत्य- जहत्स्वार्थत्वपक्षोऽसंभवदिक्तिक इत्याशङ्कां निराकरोति__अयमभिप्राय इति । ननु राजाद- संबन्धबोध एव तत्कल्पकः, न च संसर्गतया भानमनुपस्थितस्याप्यविरुद्धमिति वाच्यम्, नामार्थयोर्भेदसंबन्धेन बोधस्य व्युत्पत्तिविरुद्धत्वादित्यत आह-क्लप्तेति । गौरवपराहतत्वादिति । नामार्थयोरिति व्युत्पत्तिः समासव्यतिरिक्तविषयेति स्वत्वादिसंसर्गकबोधो नानुपपन्न इति भावः । व्युत्पत्तौ वृत्तिघटकेतरत्वविशेषणप्रक्षेपे गौरवमत आह-क्लप्तशक्तीति । नन्वयं पक्षो न मुनिसंमत इत्यत आह-अयमेवेति । राजपदस्य राजसंबन्धिनि लक्षणा, राजसंबन्धिनः पुरुषेणाभेदान्वय इति पक्षस्यैवेन व्यवच्छेदः । मतान्तरत्वेनेति । तथा च समर्थसूत्रे भाष्यं__'परस्परव्यपेक्षां सामर्थ्यमेके' इति । चित्रगुरित्यादिबहुव्रीहावपि समुदायशक्येऽन्यपदार्थे चित्राद्यन्विताया गोः स्वस्वामि- भावादिसंबन्धेनान्वय इति तत्रापि व्यपेक्षासंभवः । द्वन्द्वेऽपि समुदायर्थे समूहे वर्तिपदार्थ- योरवयवावयविभावसंबन्धेनान्वय इति तत्रापि तत्संभवः । अन्यपदार्थादेः समुदायशक्यत्वे मानं तु-'अनेकमन्यपदार्थे' 'जार्थे द्वन्द्व' इति च सूत्रमित्यवगन्तव्यम् । व्यपेक्षाविरहादेव भार्या राज्ञः पुरुषो देददत्तस्येत्यादौ राजपुरुषादिपदयोर्न समासः । निशेषणान्वयापत्तिरिति । तद्धेतु- स्वातन्त्र्येणोपस्थितिसत्त्वात् । वार्तिकादिति । समासादौ शक्त्यन्तरकल्पनापेक्षयैतद्वचनारम्भो लघीयानिति भावः । व्यवस्था सूपपादेतीति । अव्याप्त्यादिसत्त्वेऽप्यसंभवो नेति भावः । आवश्यकश्चायं पक्षः । एकार्थीबाव रूपसामर्थ्यस्य समर्थसूत्रे परिग्रहे पराङ्गवद्भावसंग्रहः स्यात्, तत्रैकार्थीभावासंभवात्, न चेष्टापत्तिः, तथा सति 'यत्ते दिवो दुडितर्मर्तभोजनम्' इत्यत्र दिव इत्यस्य पराङ्गवद्भावेनामन्त्रितनिघातो यथा भवति, तथा 'ऋतेन मित्रावरुणावृतावृधावृतस्पृशा' इत्यत्र ऋतेनेत्यस्यापि परङ्गवद्भावेनामन्त्रिताद्युदात्ततापत्तिः, पदात् परत्वाभावेन पादादिस्थितत्वेन चाष्टमिकनिघाताप्राप्तेः । व्यपेक्षारूपसामर्थ्यपक्षे तु समर्थपरिबाषाप्रवृत्तौ सत्यां ऋतेनेत्यस्य आनशाथे इत्यर्थकाशाथे इति पदोपत्तव्याप्तिक्रियायामेवान्वयेन मित्रावरुणाभ्यामित्यनेन व्यपेक्षाभावान्नोक्तदोषः, स्पष्टं चेदं वेदभाष्यादाविति बोध्यम् । द्वे अपि वृत्तीति । जहत्स्वार्थाजहत्स्वार्थरूपे द्वे अपि वृत्ती इत्यर्थः । भदशब्दस्य विशेषेऽपि प्रयोगदर्शनादाह-भदो- ऽन्योन्याभाव इति । ननु भेदस्य वाच्यत्वे राजपदार्थस्य भेदः पुरुषे ? पुरुषस्य, राजविशिष्टपुरुषस्य वा भेदो-राज्ञि प्रतीयते, नाद्यः-पुरुषविशेषणतापन्नस्य तस्य भेदे विशेषणतयान्वयासंभवात्, राजभेदस्य राजसंबन्धिपुरुषामात्रे सत्त्वेन तद्भेदस्याव्यावर्तकत्वाच्च, वक्ष्यमाणप्रयोजनानर्वाहाच्च । न द्वितीयः__पुरुषत्वरूपान्वयितावच्छेदकावच्छिन्नप्रतियोदिताक-
भेदस्य राजनि बाधितत्वात्, तत्प्रतियोगिकभेदस्याव्यावर्तकत्वात् । राजधनमित्यादौ धनत्वाद्यवच्छिन्नप्रतियोगिकभेदस्य पूर्वपदार्थे सत्त्वेऽपि तद्बोधस्यानुपयोगाच्च । अत एव न तृतीयोऽपि, तद्बोधस्यानुपयोगादित्याशङ्कामपाकर्तुमाह-तथा चेति । भेदस्य वाच्यान्तर्भावे चेत्यर्थः । इति बोध इति । राजभिन्नासंबन्धीति बोध इत्यर्थः । यथाश्रुतबोधाकारस्तु न युक्तः, तादृशबोधस्य राजसंबन्धिभिन्नभेदप्रकारकतया राजसंबन्धिभिन्न इत्याकारकबोधं प्रत्येव प्रतिबन्धकत्वं न त्वितरसंबन्धबोधं प्रतीति राजपुरुषो देवदत्तस्य चेत्यादिप्रयोगस्यावारणात् । राजपुरुष इति समुदायस्य राजभिन्नसंबन्धिभिन्ने शक्तिः, संबन्धीत्यत्र संबन्धो यथायथं स्वस्वामिभावादिर्ग्राह्यः, अत एव प्रीतिविषयत्वादिरूपसंबन्धतात्पर्येण राजपुरुषो भार्यायाश्चेति प्रयोगो भावत्येव, तद्बोधं प्रति समासजन्यबोधस्य राजभिन्नास्वामिक इत्याकारकस्याप्रतिबन्ध- कत्वात्, यदि सर्वथा तादृशप्रयोगो नेष्यते,__तता संबन्धसामान्यमेवोपादेयम् । परं त्वस्वामिके- ऽपीत्युत्तरग्रन्थस्वारस्यं पूर्वकल्प एवेति प्रतीयते । 'राजा पुरुषं निवर्तयत्यन्येभ्यः' इति समर्थसूत्रभाष्य स्वारस्यं च एतत्पक्षे । राजसंबन्धी पुरुष इति बोधस्तु व्यक्तिविशेषवृत्तित्वा- दिविशष्टतादृशभेदहेतुकानुमितिरूपपार्ष्णिक इति बोध्यम् । प्रयोगापत्ति चेति । अस्वामिकेऽपि राजभिन्नस्वामिकभेदस्य सत्त्वादिति भावः । उभयम् = भेदः संसर्गश्चेत्यर्थः । परे तु__जहत्स्वार्था नाम उससर्जनपदानां स्वार्थानुपस्थापकत्वं, तथा च राजादिपदसांनिध्यात् पुरुषपदमेव राजसंबन्धिपुरुषबोधकम्, पुटे जम्पकपुष्पाद्यसत्त्वेऽप्यामोदान्वयमादाय चम्पकपुटो मल्लिकापुट इति व्यवहारवद्राजपदार्थः पुुषे विशेषणमिति व्यवहार उपपद्यते । अत एव जहत्स्वार्थापदस्य जहति उपसर्जनपदानि स्वार्थ यस्यां सेत्यर्थ उक्तो हेलाराजीये । तथा चोक्तं समर्थसूत्रे भाष्ये- 'अथवान्वयाद्विशेषणं भवत्ययं मल्लिकापुटोऽयं चम्पकपुटः__इति, निष्कीर्णास्वपि सुमनस्स्वन्वया- द्विशेषणं भवत्ययं मल्लिकापुटोऽयं चम्पकपुट इति' इति । यद्वा भेदसंसर्गौ सामर्थ्यम्, तथा हि वृत्तौ राजपदसंनिधानात् पुरुषपदमेव राजभिन्नास्वामिकराजस्वामिकपुरुषमेव बोधयति, अतो न राज्ञः स्वान्तरेण संबन्धः, राजपदस्य स्वार्थाभावात् । अतो न राज्ञः पुरुषोऽश्वश्चेतिवद्राजपुरुषो- ऽश्वश्चेति प्रयोगः, नापि पुरुषस्य स्वाम्यन्तरेण संबन्धः, पुरुषत्वरूपेणापि तादृशव्यक्तिविशेषज्ञानेन विरोधात्, तज्ज्ञानस्यापि देवदत्तस्वामिकः पुरुष इति बोधविरोधित्वमिति तात्पर्यम् । वेदान्तिमते तत्त्वमस्यादिवाक्यादखण्डार्थबोधवत् प्रकृते पुरुषत्वेन रूपेण व्यक्तिविशेषबोधो भेदस्य वाच्यत्वं तु न युक्तमननुभवात् । वृत्तेर्जहत्स्वार्थत्वप्रतिपादनपरेण भेदसंसर्गौ वा सामर्थ्यमिति, कः पुनर्भेदः संसर्गो वा, इह राज्ञ इत्युक्ते सर्व स्वं प्रसक्तं, पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजनमन्येभ्यः स्वेभ्यः, एवमुभयतो व्यवच्छिन्ने यदि स्वार्थ जहाति कामं जहातु' इति भाष्येणावाच्यत्वस्यैव लाभात् । अत्र स्वाम्यन्तरादित्युक्त्या राजरूपस्वामिनोऽनिवृत्तिलाभेन तत्संसर्ग उक्तः, अनेन च भेदसंसर्गयोर्बोधा- विषयत्वं सूच्यते । बोधविषयत्वे संसर्गभेदप्रतियोगितयान्वयाय राजपदार्थस्यावश्यकतया तदनुप- स्थितिरूपत्त्यागकथनासगत्यापत्तेः । न च पुरुषपदेनैव संसर्गभेदबोधोऽस्तु तथा च न तत्कथनासंगतिरति वाच्यम्, अथवान्वयाद्विशेषणं भवतीति पूर्वकल्पादविशेषापत्तेः, पुरुषो राजानं स्वान्तरेभ्यो निवर्तयतीत्युक्त्या वा वाच्यत्वमेव तयोर्लभ्यते, न हि राजनि पुरुषसंसर्गबोधः पुरुषान्यस्वामिभेदबोधश्च कस्यचित् संमतः । एवं द्वन्द्वबहुव्रीह्योः तद्बोधोपपादनमशक्यमेव । उक्तरीतेस्तु तत्र नासंभवस्तथाविधस्यैवान्यपदार्थस्य समूहस्य च ततो बोध इत्याशयादिति प्राहुः । कृष्णश्रित इत्यादितोऽपि कृष्णमात्रश्रितः श्रितत्वेन रूपेण प्रतीयत इत्याशय इति विवरणादितो
विस्तरोऽनुसंधेय इत्यलम् । संबन्धादन्वय इति पूर्वकल्पे अत्र कञ्पे च महादेव इत्यादौ भूतपूर्वगत्यार्थवत्त्वमादायात्वादिप्रवृत्तिः । यथा प्रकृष्टप्रकारश्चाद्र इति वाक्ये कश्चन्द्र इति प्रश्नोत्तरभूते वेदान्तिमते प्रकृष्टप्रकाश इति पदस्य चन्द्रत्वरूपेण वस्तुगत्या तादृशप्रकाशकबोधपरत्वं चन्द्रशब्दस्य ग्राहयित्वा सार्थक्यं, तथा प्रकृते पुरुषपदस्य तादृशव्यक्ति- परत्वग्राहकतया राजादिपदस्य सार्थक्यं बोध्यम् । वेदान्तिमते हि 'प्रकृष्टप्रकाशश्चन्द्र' इत्यश्चन्द्रत्वेन, चन्द्रपदवत्त्वेन च तथाविधप्रकाशवतो बोधो जायते, न तु तादृशप्रकाशवत्त्वेन । तत्रैकार्थी भावः सामर्थ्य, परिभाषा चेत्येवं सूत्रमभिन्नतरकं भवति' इत्यादिसमर्थसूत्रस्थभाष्य- मित्यर्थः । द्विविधसामर्थ्य परिग्रहे वाक्यभेदेन सूत्रं भिन्नं स्याद्वयेपेक्षारूपैकविधसामर्थ्यपक्षेऽपि यद्यपि सूत्रमभिन्नं भवति, तथापि तत्पक्षे दोषाणां सत्त्वात्तदपेक्षयैकार्थीभावपक्ष एव समीचीन इति सूचयितुं तरब्निर्देश इति कैयटः । तन्मूलक इति । व्यपेक्षावादमूलक इत्यर्थः । न्यूनतां परिहर्त्तुमाह__समास इति । वृत्तिमात्रोपेति । कृदन्तादिवृत्तीत्यर्थः । एकोपस्थितिजनकसमुदाय- शक्तिरूपवृत्त्याश्रयत्वात्तेषां वृत्तिव्यवहारः । समर्थ पदं व्याचष्टे__विग्रहेति . भाष्याल्लाभादिति ।
कृत्तद्धितेति । कृत्पदेन कदन्तं, तद्धितपदेन तद्धटितं गृह्यते, तेन 'वहुपटुः' 'सर्वक' इत्यनयोर्नासंग्रहः, कृत्तद्धितयोः परिभाषाप्रवृत्त्या पटं करोति कुम्भमानयेत्यत्र न कर्मण्यण्, ऋद्धस्योपगोरपत्यमित्यत्र न तद्धितः, पृथगर्थानामेकार्थीभावः सामर्थ्य, 'राज्ञः पुरुष इति वाक्ये पृथकर्थानि समासे एकार्थानीति' समर्थसूत्रभाष्यात् । तत्र सामर्थ्यमसन्न वचनशतेनापि विधातुं शक्यत इति सामर्थ्यविशिष्टस्य साधुत्वं विधीयत इति भावः । तथा च यत्किंचित्पदजन्यपृथगुप- स्थितिविषयार्थकत्वेन लोकदृष्टशब्दानां विशिष्टविषयैकशक्यैकोपस्थितिजनकत्वमेकार्तीभाव इति पर्यवसितम् । तादृशशब्दानान्तत्त्वं तु सादृश्यादन्वगतव्यम् । कार्यशब्दवादे तु वाक्यहेतुकैव वृत्तिनिष्पत्तिरिति, बुद्धेर्वा । दृष्टानामित्यन्तोपादानं विभक्त्यन्तेऽतिप्रसङ्गनिरासाय । विभक्त्यर्थस्य यथा विभक्त्या प्रतिपत्तिस्तथा न केनाप्यन्येन शब्देनेति विभक्तेस्तथाविधार्था- कत्वाभावान्न तदन्तेऽतिप्रसङ्गतादवस्थ्यम् । औपगवादिसंग्रहाय यत्किंचित्त्वनिवेशः, उपगोरपत्यमित्यादावपत्यरूपार्थस्यापत्यपदजन्योपस्थितिविषत्वं लोके दृष्टमिति तत्संग्रहः । च्विप्रत्ययनिर्देशो गौणमेकार्थत्वमिति सूचयितुम् । यथा पदानामसत्त्वात्तत्सत्ताव्यवहारो गौणस्तथा तेषामेकार्थव्यवहारोऽपीति बोध्यमित्यन्यत्र विस्तरः । समासैकशेषेति । अत्रैकशेषस्य न वृत्तित्वं, उक्तैकार्थीभावासंभावात् परार्थान्वितस्वार्थोपस्थापकत्वाभावात्, शिष्टपदेन स्ववृत्त्यैव तत्तत्समूह- रूपार्थस्य भानमिति भाष्ये स्पष्टमुक्तत्वादिति शेखरादौ स्पष्टम् । 'कर्मण्यण्' इत्यादेरपि परंपरया पदोद्देश्यकत्वान्न तदसंग्रहः । व्याकरणमधीते वैयाकरणः, पचतीति पाचकः, अत्र तद्धितकृदर्थ- बोधकाख्यातस्य कर्त्रर्थ कविशेष्यकबोधजनकत्वमिति विग्रहवाक्यार्थाभिधनसामर्थ्यस्य न क्षतिः । ननु पङ्कजशब्दस्यापि समासतया तत्रापि परमते शक्तिर्नेष्यत एवेति दृष्टान्ततया तदुपादानम- संगतमित्याशङ्क्याह__शक्त्यस्वीकर्तृणामिति । अस्य 'वृत्ता'वित्यादिः, तथा चेदं वक्ष्यमाणरीत्या परमतदूषणविधया शक्तिसाधकमेवेति भावः । योगादेवेति । योगोऽवयवशक्तिस्तयेत्यर्थः । तत्र व्युत्पत्तिवैचित्र्येण नामार्थ स्यापि पङ्कस्य जनधात्वार्थोत्पत्तावधिकरणतानिरूपकत्वेनान्वयः, तथाविधोत्पत्तेर्डप्रत्यार्थ कर्तर्याश्रयतया, एवं च पङ्काधिकरणकोत्पत्त्याश्रय इति बोधोपपत्तौ सत्यां समुदायशक्तिर्व्यर्थेति भावः । तत्कल्प्यते = एकार्थीभावरूपं सामर्थ्यम् । पझत्वरूपेणोपस्थितय
इति । पझत्वावच्छिन्ने शक्ति विना तेन रूपेणोपस्थित्यसंभवात्, तद्धर्मप्रकारकोपस्थिति प्रति तद्धर्मावच्छिन्नवृत्तिज्ञानस्य हेतुत्वादिति भावः ।
स्वामित्वेनोपस्थितये इति । स्वामित्वेन रूपेणान्यपदार्थोपस्थितय इत्यर्थः । नहि वृत्त्यन्तरं विना धर्मिण उपस्थितिः केनापि रूपेण सम्भवतीति बोध्यम् । लक्षणयेति । समुदायलक्षणया, डप्रत्ययलक्षणया वेत्यर्थः । पङ्कजपदमन्यस्यापि योगरूढस्योपलक्षणमित्याह__एवमिति । स्थकारपदेपीति । समुदायशक्तिर्न सिध्येदित्यस्यानुषङ्गेणात्रान्वयः । ननु मास्तु तत्र समुदायशक्तिः, रथकर्मकोत्पादनकर्तृरूपावयवशक्तिलभ्यरूपेणैव हि तत्र बोधोऽनुभूयते इत्या- शङ्क्याह__तथा चेति । ब्राह्मणादिविषयतयैवेति । रथं करोतीति व्युत्पत्त्या रथकारपदे ब्राह्मणादिबोधकत्वस्यापि संभवादिति भावः । उपपत्तौ = ब्राह्मणादेरध्ययनविधिसिद्धिज्ञानसत्त्वेना- धिकारितया तत्कर्तृकाधानविधायकतवा चारितार्थ्ये । तत्कल्पनाम् = समुदाये जातिविशेषा- वच्छिन्नशक्तिकल्पनाम् । जातिविशेषस्य__जातिविशेषविशिष्टस्य ।
'क्षत्रियां मागधं सूते वैश्यात् क्षत्तारमेव च ।'__
__इति वाज्ञवल्क्यवचनाद्वैश्यायां शूद्रादुत्पन्नोऽनुलोमजातीयो रथकार इति बोध्यम् । अपूर्वविद्याकल्पनम्__'मीमांसकाना'मिति शेषः । अत्ययुक्तं स्यादिति । रथकारपदस्य योगरूढत्वेन न ब्राह्मणादिविषयकत्वमेतद्वाक्यस्य, कि त्वनुलोमजातीयविषयकत्वम्, तस्य च वेदाध्ययनासंभवाद्वेदविहिताधानान्यथानुपपत्त्या तदुपयुक्तवेदाध्ययनं कल्पनीयमिति मीमांसक- सिद्धान्तो विरुध्येतेति भावः । स्याद्विशेषणेति । तथा च ऋद्धस्य राज्ञः पुरुष इति प्रयोगवदृद्धस्य राजपुरुष इत्यपि स्यात् । विशेषणान्वये हेतुमाह__राजपदेनेति । स्वतन्त्रेति । 'घटो नित्य' इत्यादौ घटत्वादौ नित्यपदार्थान्वयबोधनिवृत्तये विशेषणान्वयबुद्धौ मुख्यविशेष्यतासंबन्धेन हेतुतया कल्प्यमानोपस्थितेः सत्त्वदित्यर्थः, समुदायशक्तिकल्पने तु__तद्वशाद्राजादिपदेन स्वार्थविशिष्ट एवार्थ उपस्थाप्यत इति स्वमुख्यविशेष्यकोपस्थितेविरहान्न तत्र विशेषणान्वय इति भावः । राजवैशिष्ट्यनैव पुरुषस्योपस्थित्या राजपुरुषो भार्यायाश्चेति न, एकसंबन्धेन यत्क्रिंचिद्वैशिष्ट्येनो- पस्थितेस्तत्सजातीयसंबन्धेनेतरान्वयस्याव्युत्पन्नत्वात्, अत एव घटो द्रव्यत्वस्येति न, समवायेन घटत्ववैशिष्ट्येनोपस्थिते तेन संबन्धेन द्रव्यत्वान्वयाभावात् । राजपुरुषोऽभिरूप इति तु भवत्येव, बोधकाभावात् । राजपुरुषोऽश्वश्वेत्यपि न । एकत्र विशेषणत्वेनोपस्थितस्यापरत्र विशेषणत्वा- योगात् ।
समासनियमेति । अवश्यं वाक्यप्रयोगे प्राप्ते आरभ्यमाणः समासो नित्यं वाक्यनिवर्तकः स्यात्, एकार्थीबावपक्षे तु एकार्थीभावे समासस्य, व्यपेक्षायां वाक्यस्य सिद्धतया विभाषाधिकारो न कर्तव्यः । विभिन्नविषयत्वात्समासेन वाक्यबाधाप्रसक्तेः । एवं 'समर्थानां प्रथमाद्वा' इत्यत्रत्यमपि वेति न कर्तव्यम्, एवं सन्विधौ वाग्रहणमपि न कर्तव्यम्, तदुक्तं भाष्ये__'वावचनानर्थक्यं च स्वबावसिद्धत्वात्' इति । लिङ्गायोगः__कुक्कुटाण्डं मृगक्षीरमित्यादौ क्कचिद् द्रष्टव्यः, न तु सर्वत्र, कुमारीपुत्र इत्यादौ दर्शनात्, परे तु__जात्यन्तरनिवृत्तिपरे वाक्येपि छागस्य मांसमित्यादौ लिङ्गविशेषादर्शनान्नेदमेकार्थीभावप्रयुक्तमिति वदन्ति । एवं वृत्तावुपसर्जनपदार्थे संख्याविशेषो न भासते इत्युक्तं भाष्ये समर्थसूत्रे, संख्यात्वेन संख्याविशेष एकत्वादिः प्रतीये, न तु एकत्वत्वादि- विशेषरूपेण, इदमेवाभेदैकत्वसंख्या प्रतीयत इत्यनेनोच्यते । भेदो = विशेषरूपं
तदभावरूपैकत्वसंख्येति तदर्थः । 'तदभावरूपे'त्यस्य तत्प्रतीत्यभावरूपेत्यर्थोऽवसेयः । प्रातिपदिकोपात्ता प्रवृत्तिनिमित्तभूता संख्या तु 'द्विपुत्र' इत्यादौ प्रतीयते, ततस्तदनुपात्ता सा न प्रतीयते, संकोचेन भाष्यव्याख्याने मानाभावात्, त्वत्पुत्रस्तावकीनो मासजात इत्यादौ तत्तत्प्रवृत्तिनिमित्त्वेन रूपेणैका व्यक्तिर्भासते, युफ्मत्पुत्रो यौष्माकीण इत्यादौ तु तेन रूपेणानेकव्यक्तिभानम्, अत एव कुक्कुटेन्द्रगोपवाचक'गोषुचरो' 'वर्षासुजात'__इत्यादौ बहुवचनसत्त्वेऽपि न बहुत्वभानमेवं चात्र बहुत्वारोपेण शब्दसंरकारमात्रं , न तु तस्य प्रकृत्यर्थेऽन्वयः, अत एव 'राजपुरुष' इत्यादौ संख्याप्रतीतिर्न सुबभावकृता, अत्र तत्सत्त्वेऽपि तदप्रतीतेरिति प्राहुः, विस्तरो भाष्यप्रतीपोद्योतादावनुसन्धेयः । अत एव = एकार्थीभावस्य सिद्धान्तिसंमतत्वेनैव ।। 32 ।।
एकार्थीबावस्य प्रयोजनान्तरं भाष्यकैयटाद्युक्तं स्वयमाह-तथा धवेति । धवखदिरावित्या- दीनामितरेतरयोगादिभिः क्रमेणान्वयः, तथा च धवखदिरावित्यादौ द्वन्द्वे 'चार्थे द्वन्द्वः' इत्यनेनानेकं सुबन्तं चार्थे व्तते, तच्च द्वन्द्वसंज्ञकं भवतीति वाक्यभेदमङ्गीकृत्यर्थबोधनं कर्तव्यं, तथा च गौरवम्, एवं 'निष्कौशाम्वि'रित्यादावपि 'निरादयः क्रान्ताद्यर्थे द्वितीयया' इत्यनेन निरादिपूर्वकद्वितीयान्तसमुदायः क्रान्ताद्यर्थे वर्तते, स च समाससंज्ञको भवतीति वाक्यभेद- पुरस्कारेणार्थादेशनं बोध्यम् । गोरथादिविषयकं तु तत्तदर्थविधायकं वचनं कल्पनीयमिति गौरवम् । तत्र 'गोरथ' इत्यत्र गोयुक्तो रथ इति युक्तार्थः । 'घृतघट' इत्यत्र घृतपूर्णो घट इति पूर्णार्थः । 'गुडधाना' इत्यत्र गुडमिश्रधाना इति मिश्रार्थः । 'केशचूड' इत्यत्र केशसंघातभूता चूडा यस्येति संधातार्थः । 'सुवर्णालङ्कार' इत्यत्र सुवर्णविकारोऽलंकार इति विकाररूपार्थः । 'द्विदाशा' इत्यत्र द्विरावृत्ता दशेत्यर्थात् सुज्लोपः । 'सप्तपर्ण' इत्यत्र सप्त सप्त पर्णानि यस्येत्यर्ताद्वीप्सा प्रतीयते ।
परे तु क्रान्ताद्यर्था निरादीनां, न तु समुदायस्येति नैकार्थीभावकृतोऽयं विशेषः, अत एव भाष्ये एकार्थीभावकृतेषु विशेषु नास्य गणनं कृतम्, द्विदशा इत्यत्रापि शब्दशक्तिस्वाबाष्येन पूर्वपदस्य सुजथन्तिर्भावेण वृत्तिः, न तु समुदायशक्तितः द्वित्वसख्योत्पत्तिकावृत्तिविषया दशेति बोध इति वदन्ति । मूले__चकारादिति । धवखदिरावित्यादौ वाक्यवच्चकारप्रयोगः प्राप्तस्तस्य निषेधो = लोपो विधेयः । एकार्थीभावपक्षेतु पृथगुपस्थित्यभावात् पृथगुपस्थितिनिबन्धन समुच्चयाप्रतीतेर्न चप्रयोगः प्राप्नोतीति भावः । इवादीनामिति । अत्र लोप इति संबन्ध्यते । पूर्वोक्तानामिति । निष्कौशाम्बिरित्यादौ क्रान्तादिशब्दानां लोप इत्यस्य संग्रह इत्यर्थः । 'हंसगमन' इत्यस्य हंस इव गमनं यस्येति विग्रहः, एकार्थीभावपक्षे तु इवर्थस्य समुदायार्थेऽन्तर्भूतत्वादप्रयोगः । सिद्ध एवेति भावः । प्रथमत एवोदकपदे उदकसंबन्धिलक्षणायामुदकस्यैकदेशतया प्राप्तपदार्थप्राप्तिकर्तुरन्वयो न स्यादित्यत आह-प्राप्तिकर्त्रैति । इत्यर्थालाभादिति । संबन्धिलक्षणायां प्राप्तिकर्त्रभिन्नोदक- संबन्धी ग्राम इति बोधस्यैव संभवात् । यद्यपि स्वकर्तृकप्राप्तिकर्मत्वमेव संबन्धित्वमिति प्राप्तिकर्मत्वेन बोधो जातः, एवमूढरथ इत्यादावपि रथपदादौ तत्संबन्धिलक्षणायामपि स्वकर्मकवहनकर्तृत्वादिरूपेमेव संबन्धित्वमिति विवक्षितार्थलाभो जात एव, तथापि संबन्धत्वेनैव कर्मत्वादिभानं स्यान्न तु कर्मत्वत्वादिनेति तात्पर्य बोध्यमिति भावः ।
प्राप्तिकर्मेति-स्यादिति । प्राप्तिकर्माभिन्नमुदकमिति बोधः स्यादित्यर्थः । प्राप्तपदस्य
क्रियाशब्दत्वेनोदकशब्दस्य जातिशब्दत्वेन चोदकस्यैव विशेष्यताया उचितत्वात्__उदकस्य प्राप्तौ कर्तृतयेष्टोऽन्वयो न स्यादपि त्वभेदेनैव प्राप्तिकर्मणेत सूचयितुं तथाभिहितं, तथा चेष्टान्वयो न स्यादित्यत्रैव तात्पर्य, न तूक्तान्वयबोधेऽपि निर्भर इति बोध्यम् । अन्यथेति । कर्तृतासंबन्धे- नोदकस्य प्राप्त्यन्वयाभ्युपगमे । समानाधिकरणेति । समानविभक्तिकप्रातिपदिकार्थयोरित्यर्थः । अन्वयासंवाच्चेति । नामार्थधात्वर्थयोः साक्षादभेदेनैवान्वय इति व्युत्पत्तेरिति भावः । अन्यथा = तादृशव्युत्प्त्यनभ्युपगमे । अनन्वयानापत्तेरिति । देवदत्तस्य पाके कर्तृतासंबन्धेनान्वयसंभवेन तादृशवाक्येऽनन्वितार्थकत्वस्येष्टस्यानुपपत्तेरित्यर्थः । तत्सम्बन्धीति । प्राप्तिकर्मेत्यर्थः । कर्तरि विशेष्यताया इति । कर्तृनिरूपितविशेष्यताया इत्यर्थ स्तथा चोक्तबोधासंभव इति भावः । असंभवे हेतुमाह-प्रकृतीति । 'सत्त्वप्रधानानि नामानि' इति वचनविरोधोऽपि द्रष्टव्यः । ननु पचतीत्यादौ क्लप्तत्यागकस्य प्रत्ययप्राधान्यस्य वृत्तावपि त्यगोऽस्तु, एवं 'सत्त्वप्रधानानी'त्यस्यापि वृत्त्यघटकनामपरत्वमस्त्वित्याशङ्क्याह-नामार्थत्वेनेति । नामजन्यप्रतीतिविशेष्यत्वेनेत्यर्थः । नामजन्यप्रतीतिविशेष्ययोरेवान्वयः, स चाभेदेनैवेति 'नामार्थयो'रित्यादेरर्थादिति भावः । अभेदान्वयापत्तेश्चेति । प्राप्तेर्विशेष्यत्वे विशेषणीभूतकर्त्रा उदकस्याभेदान्वयबोधानापत्तेरित्यर्थः । अयोग्यतानिश्चयस्य शाब्दहेतुत्वानङ्गीकारे यथाश्रुतमेवास्तु, न केवलं द्वितीयार्थ बहुव्रीहावेव लक्षणयाऽनिर्वाहोऽपि तु तृतीयाद्यर्थबहुव्रीहावपीत्याह-एवमूढरथ इति । ऊढो रथो येनेति विग्रहवक्यात् यत्कर्तृकवहनकर्मस्य इति बोधः । उपहृतः दत्तः पशुर्यस्मा इति वाक्याद्यदुद्देश्य- कोपहरणकर्मपशुरिति, उद्‌धृत ओदनो यस्या इति वाक्याद्यदवधिकोद्धरणकर्मोदन इति, बहवः पाचका यस्यामिति वाक्याद्यदधिकरणकबह्णभिन्नाः पाचनकर्तार इति । अत्रापि वहनकर्माभिन्नो रथ इति शक्यार्थान्वयबोधनन्तरं तत्संबन्धिलक्षणायामपि न वहनकर्तेत्याद्यकबोधनिर्वाहः । वहनादेर्धात्वर्थतया प्रत्ययार्थकर्मादिकं प्रति विशेष्यत्वानुपपत्तिरित्यादिदूषणानि पूर्ववद् बोध्यानीति समुदिततात्पर्यार्थः । संबन्धिलक्षणायाः पूर्वोक्तानेकव्युत्पत्तिभङ्गाभावेऽपि उक्तबोधानिर्वाहः, एवमग्रेऽपि द्रष्टव्यमिति भावः । बहुपाचिकेत्यत्रापि संबन्धिलक्षणायां तत्संबन्धित्वेनैव बोधः स्यान्न त्वधिकरणत्वेनेति भावः । अधिकरणत्वविशिष्टलक्षणायां तु नैतद् दूषणमिति बोध्यम् । घटपदस्येवेति । यथा घटपदस्य घटत्वाविशिष्टक्त्या विशिष्टोपस्थापकत्वं तथा प्राप्तोद- केति समुदायस्यापि वशिष्टशक्त्योदककर्तृकप्राप्तिकर्मत्वविशिष्टोपस्थापकतयोक्तानुपपत्त्यभावः, 'नामार्थयो'रित्यादिव्युत्पत्तीनां पृथगुपस्थितिविषयत्वादिति भावः ।। 33 ।।
'अषष्ठ्यार्थ बहुव्रीहा'वित्यत्र षष्ठीपदं सप्तम्या अप्युपलक्षणं, षष्ठ्यर्थबहुव्रीहाविव सप्तम्यर्थबहुव्रीहावपि व्युत्पत्त्यन्तरकल्पनाया अप्रसक्तेः । कल्पयेरिति । संप्रश्ने 'विधिनिमन्त्रण-' इति सूत्रेण लिङ् । लक्षणा कि पूर्वपदे ? उत उत्तरपदे ? इति विकल्प्य नाद्य इत्याह-सा हि न चित्रेति । चित्रस्वामी गौरितीति । गोपदसांनिध्याच्चित्रपदेन चित्ररूपवत्त्वेन गोरेव बोधनिर्वाहेऽपि चित्रान्वितगोत्वविशिष्टायाः स्वामिनि वैशिष्ट्यबोधानुपपत्तिः, गोपदोपस्थितार्थे चित्रस्वामिनो- ऽभेदान्वयापत्तिः, एवं जरच्चित्रगुः, शोभनचित्रगुरित्यादावेकैकपदस्य स्वार्थस्वामिलक्षकत्वे जरदाद्यभिन्नो यो गोस्वामी तदभिन्नो गौरिति बोधः स्यान्न तु जरदाद्यर्थस्य गवा सह, व्यवधानादित्यपि द्रष्टव्यम् । चित्रपदं चित्रस्वामिलक्षकं, गोपदं गोस्वामिलक्षकम्, चित्रत्वेन गोत्वेनचैकव्यक्तेरेव भानं, व्यक्तिवचनानां संनिहितव्यक्तिपरत्वमिति न्यायादिति तु तादृशबोधाननु-
भवाच्छोभनचित्रगुरित्यादौ शोभनान्वयानुपपत्तेश्चानुपादेयम् । शोभनपदस्यापि शोभनस्वामिलक्षकत्वे अत्यन्तानुभवविरोध इत्यादि द्रष्टव्यम् । अनन्वय एव गोपदार्थस्य स्यादिति भावः । नान्त्य इत्याह-नापीति । गोः स्वामी चित्र इति__पूर्ववद्वयाख्येयं, तादृशेऽर्थे तात्पर्याद्यभावग्रहो हेतुः । ननु चित्रादिपदलक्ष्यार्थैकदेशचित्रादिना गवादेरभदान्वये सति गवाभिन्नचित्रस्वामी चित्राभिन्नगो- स्वामीति वा बोधो भवति, तथा च नोक्ताकारबोधापत्तिरित्यत आह- चित्रादिमात्रस्येति । मात्रपदेन स्वामिनो व्यवच्छेदः । अन्वयायोगादिति । 'पदार्थः पदार्थे ने'ति व्युत्पत्तिविरोधात् । अन्वयबोधोत्तरमिति । पदार्थौपस्थित्यादिघटितसामग्र्या तयोरेवादावन्वयो भवति प्रत्यासन्नत्वात् तदनन्तरं चित्राभिन्नाया गोर्बोधग्रहे सति गोपदेन चित्राभिन्नगोस्वामित्वेन रूपेणान्यपदार्थो लक्ष्यते । प्राथमिकतादृशबोधश्च चित्रत्वादिविशिष्टगोस्वामित्वोपस्थितय आवश्यकः । तादृशबोधोत्पादकतया च चित्रपदसार्थक्यमिति भावः । साक्षात्संबन्ध इति । तत्र शक्यसंबन्धः सत्त्वनिरूपितस्वामित्वरूपः साक्षात्संबन्धः, चित्रपदस्य गुणवाचकतया स्वशक्तिसमवायिनिष्ठत्वनिरूपितस्वामित्वरूप आश्रयद्रव्यघटितः परंपरासंबन्धो लक्षणारूपो वाच्य इति गौरवमिति भावः, इदं तु पररीत्योक्तम्, स्वमते तु चित्रपदस्यापि गुणविशिष्टद्रव्यवाचकत्वेन तस्यापि साक्षात्संबन्धसंभवादिति ध्येयम् । कृतविश्व इति । कृतं विश्वं येनेति व्युत्पत्त्या विश्वकर्मकोत्पादकत्वेन विश्वविषयककृतिमत्त्वेन वान्यपदार्थः प्रतीयते । अत्रापि षष्ठीपदं सप्तम्या अप्युपलक्षणं, चित्रगुर्ग्राम इति सप्तम्यर्थबहुव्रीहावपि । कर्त्राद्यर्थकतयेति । प्राप्तोदक इत्यत्र कर्तरि क्तः । कृतविश्व इत्यत्र कर्मणि । स्नानीयचूर्ण पात्रमित्यादौ करणाद्यर्थकः कृत्प्रत्यय इत्यर्थः, विनिगमकसम्भवाद्यौ- गिकानामित्युक्तिः, शुक्ताद्धादिरूढव्युदासार्थाम् । इदमुपलक्षणम्, पाठकपुत्रको देवदत्तः, वीरपुरुषको ग्राम, पाचकपुरुषक इति षष्ठ्यर्थबहुव्रीहौ सप्तम्यर्थबहुव्रीहावपि क्कचिद् विनिगमनाविरहात् वीरपाठकादिपदानामपि धर्मिवाचकत्वेन साक्षात्सन्धोऽविशेषात् परं तु द्वितीयाद्यर्थबहुव्रीहौ सर्वत्रैव विनिगमनाविरहोऽन्यत्र तु क्कचिदिति सूचयुतुमषष्ठ्यर्थेत्युक्तमिति बोध्यम् । पदद्वये लक्षणेति । चित्रपदे, गोपदे च चित्रगोस्वामिलक्षणेत्यर्थः । नैयायिकेति । प्राचीननैयायिकेत्यर्थः । परस्परमिति । चित्रपदे चित्रगोस्वामिलक्षणायां गोपदसमभिव्याहार- स्तादृशार्थातात्पर्यग्राहकतया नियामकः । गोपदे लक्षणायां चित्रशब्दसमभिव्याहारो नियामक इत्यर्थः । विनिगमनाधिरहतादवस्थ्येनेति । कदा कस्मिन्नेकपदे लक्षणेत्यत्र विनिगमनाविह- हतावस्थ्येनेत्यर्थः । लक्षणाया असंभवादिति । एकदा एकपदे लक्षणाया असंभवादत्यर्थः, एवं शोभना चित्रगुः, शोभना जरती चित्रगुरित्यादौ शोभनादिपदार्थस्यानन्वयापत्तिश्च । चित्रोदेरेकदेशत्वेन तत्रान्वयासंभवात्, शोभनादिपदेऽपि शोभनाचित्रगोस्वामिलक्षणाभ्युपगमे त्रयाणामपि पदानां तादृशविशिष्टार्थलक्षकत्वात् समुदायशक्त्यपेक्षया लाघवानकाशः । विनिगमनाविरहेण पदत्रयजन्यानां तिसृणामप्युपस्थितीनां शाब्दबोधहेतुत्वाभ्युपगमप्रयुक्तं गौरवं चैतत्कल्पे बोध्यम् ।
नव्यनैयायिकसिद्धातं दूषयितुमुपन्यस्यति__न चेति । सा = लक्षणा । संनिहितपदार्थेति । संनिहितपूर्वपदार्थेत्यर्थः । अन्यथा राज्ञः पुरुष इत्यत्र पुरुषपदार्थेऽपि षष्ठ्यर्थसंबन्धान्वयापत्तिः । तथा च पुरुषसंबन्धिराजेत्यपि प्रतीयेत । तथा च प्राप्तोदक इत्यादावप्युदकादिपदे एवोदककर्तृक- प्राप्तिकर्मादिलक्षणाङ्गीक्रियते इति भावः । नन्वन्यपदार्थप्रतिपादकत्वं तत्प्रतीत्यनुकूलत्वं, तच्चर-
मपदस्य स्ववृत्त्या तदुपस्थापकत्वेनेतरपदस्य तात्पर्यग्राहकतया तद्बोधानुकूलत्वं भवतीत्यतो दूषणान्तरमाह__किं चेति । एवं सतीति । बहुव्रीहौ चरमपदे एव लक्षणाङ्गीकारे सति । चरमवर्णे एव वाचकतेति । चरमवर्णस्यैव प्रत्ययाव्यवहितत्वात्, लाघवाच्च तेनैव वाचकताकल्पना स्यात्, न चेष्टापत्तिरपसिद्धान्तादिति भावः । किं च घटपटादिघटकाच्प्रत्ययरूपचरमवर्णस्य लक्षणयैव घटादिबोधोपपत्तिरित्यपि द्रष्टव्यम् । ननु कोशादिप्रामाण्येन घटादिपदस्य तावद्वर्णसमुदायरूपस्य वाचकत्वमभ्युपेयते, प्रकृते तु चरमपदलक्षणयेवोपपत्तौ न समुदायशक्ति- सिद्धिः कोशादेरभावात् अनन्यलभ्यस्यैव शब्दार्थत्वाच्चेत्याशङ्क्याह__अन्यत्र विस्तर इति । अन्यत्र = वृहद्भूषणादौ । विस्तर इति । प्रत्ययानां संनिहितपूर्वेत्यादिव्युत्पत्तिस्वीकारो न संभवति, सर्वक इत्यादौ व्यभिचारात् । दधीयद्ददाती'त्यादौ दध्नि वतुबर्थान्वयापत्तेः । दधि बहुपटुर्ददाति इत्यत्र दध्नि बहुजर्थान्वयापत्तेः, पटावनन्वयापत्तेश्चेति । किं चैवं प्रातिपदिकात् कर्मत्वादौ स्वादय इति शास्त्रात् प्रत्यासत्तिलब्धाया प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थाबोधकत्वमिति व्युत्पत्तेन्तल्लब्धस्य परम्परार्थान्वयेनैव प्रकृतिप्रत्यययोः साधुत्वस्य च भङ्ग, उत्तरपदमात्रस्या- प्रकृतित्वात् चित्रगुरित्यादौ पूर्वपदे स्ववाच्यार्थघटितलक्षणायां तात्पर्यग्हाहकत्वस्य गङ्गायां घोष इत्यादौ क्लृप्तस्य च भङ्गपत्तिः । व्युत्पत्त्यन्तरस्वीकारे तु विशिष्टशक्तिरेवोचितेति द्रष्टव्यमिति भावः । उक्तयुक्तेरिति । प्राप्तोदकादावन्वयानुपपत्तिरूपयुक्तेरित्यर्थः । क्लृप्त्त्याग इति व्याचष्टे__क्लृप्तशक्त्येति । व्युत्पत्तित्यागश्चेति । क्लृप्तशक्त्यैव निर्वाह इति नियमत्यागश्चेत्यर्थः, अन्यथादककर्तृकप्राप्तिकर्मेति बोधानुपपत्तेरिति भावः । तर्त्कि शक्तिमिति । पूरणसंवलितं व्याचष्टे__तत्किं सर्वत्र समासे शक्तिमिति ।
इति बोधोपपत्तेरिति । तथा च समुदायशक्ति निवापि राजपदे राजसंबन्धिलक्षणया संबन्धबोधनिर्वाहे सति तत्तद्बोधान्यथानुपपत्त्या समुदायशक्त्युपगमश्चिन्त्यः, गौरवापत्तेः, न च वृत्त्यार्थबोधकत्वरूपार्थवत्त्वाभावात्, समासत्वादेव प्रातिपदिकत्वसंभवाद्वेति भावः । अत्र संबन्धे लक्षणाभ्युपगमे 'नामार्थयो'रिति व्युत्पत्तिविरोधेन संबन्धस्याश्रयतासंबन्धेन पुरुषेऽन्वयानुपपत्तिरिति संबन्धिलक्षणानुसरणं कृतम् । अत एव = संबन्धिनि लक्षणाभ्युपगमादेवेत्यर्थः, 'एव'शब्दोऽप्यर्थः । न शोबनस्येत्यादिविशेषणान्वय इति । 'शोभनायां गङ्गायां घोष' इत्यादौ तु गङ्गापदमेव शोभनगङ्गातीरलक्षकमतस्तत्र लक्ष्यार्थैकदेशगङ्गायां शोभनान्वयवदत्रापि लक्ष्यार्थैकदेशे राजादावपि शोभनान्वयः स्यादिति शङ्कानवसरः । 'घनश्याम' इत्यत्र घनपदार्थस्य सादृश्यसंबन्धेनोत्तरपदार्थेऽन्वयः, 'निफकौशाभ्बि'रित्यत्र निष्क्रमणावधित्वसंबन्धेन, 'गोरथ' इत्यत्र स्वयुक्तत्वसंबन्धेन पूर्वपदार्थस्योत्तरपदार्थे । एवं च__संसर्गतयेवाद्यर्थोक्तावपि सादृश्यादिप्रकारक- बोधार्थ इवादिशब्दप्रयोगो दुर्वार इत्याशयेन शङ्कते__न चेति । उक्तार्थकतयेति । समासे घनादिपदस्य तत्सदृशादिलक्षकतयोक्तार्थकत्वम्, अन्यथा 'नामार्थयो'रिति व्युत्पत्तिविरोधेन सादृश्यादिसंबन्धेनान्वयानुपपत्तेरिति भावः । प्रयोगनियमेति । विभिन्नविषयकत्वेन समासदिना वाक्यबाधाप्रसक्तेरिति भावः, नीलोत्पलादिकर्मधारये प्रवृत्तिनिमित्तसाहित्ये लक्षणा ? नीलोत्पलयोर्वा साहित्ये ? आद्ये__नीलोत्पलत्वसमूहवन्नीलमुत्पलमिति बोधः, द्वितीये तु__नीलसमानाधिकरणं तदभिन्नमुत्पलमिति ।
शाब्दिकमते समुदायाशक्ति रेतदर्थमेवोपेयते, वाक्ये तु चद्वयेन तत्साहित्यं प्रतिपाद्यतेऽतो विविक्तविषयत्वं वृत्तिवाक्ययोः, एवमेव द्वन्द्वेऽपि बोध्यम् । अन्ये तु__नीलं च तदुत्पलं चेति वाक्ये नीलादिपदोत्तरविभक्तेरभेदोऽर्थः, तस्याश्रयत्वसंबन्धेनोत्तरपदार्थोऽन्वयः, समासे तु नीलादिपदेनैव लक्षणया नीलाद्यभेदः प्रतिपाद्यते, तथा च लक्षणया तादृशार्थविवक्षायां समासो, विभक्त्या तद्विवक्षायां वाक्यमिति व्यवस्थायाः संभवः, 'एकार्थीबावपदेनापि वाक्यदृष्टपदार्थघटितार्थे लक्षणैवोच्यत इति भाव इत्यूचुः । एवमौपगवादवपि उपग्वादिशब्दस्योपग्वादिसंबन्धे लक्षणेति बोध्यम् . सक्तिसाधिकेति । वृत्तिमात्रे शक्तिसाधिकेत्यर्थः । अवयवशक्त्यग्रहस्य लक्षणाग्रहे कथं बाधकत्वमत आह__न च शक्त्यग्रह इति । 'न च संभवती'त योजना । न चेत्यस्य__न हीत्यर्थः । शक्तिग्रहं विना शक्यानुपस्थितौ शक्यसंबन्धरूपलक्षणाग्रहवैधुर्येण पझत्वविशिष्टार्थ- बोधासंभव इति भावः । तथा चावयवशक्तिग्रहविरहदशायमापि पङ्कजपदात् पझत्वप्रकारकबोध- स्यानुभवसिद्धस्य संपत्तये समुदायशक्त्यावश्यकत्वमिति तात्पर्यार्थः । एवमेव 'रथकार'शब्देऽपि समुदायशक्त्यभ्युगम आवश्यक इति न पूर्वोक्ताधिकरणविरोध इति बोध्यम् . नन्वेवं राजादिपदशक्त्यग्रहदशायां राजसंबधी पुरुष इत बोधो न स्यादित तत्रापि समुदायशक्तिरभ्यु- पगन्तव्येत्याशङ्कामिष्टापत्त्या परिहरति__अत एवेति । अवयवशक्तिज्ञानस्य लक्षणया विशिष्टार्थबोधप्रयोजकत्वादेवेत्यर्थः । न बोध इति । तथा च तत्रावयवशक्तिग्रहविरहसमये तादृशबोधाभाव एवानुभवसिद्धो न तु बोध इति बोधानुदय इष्टापत्तिरेवेति भावः । 'बहुव्युत्पत्तिभञ्जनमिति । मूले एव प्रागेतद्वयाख्यातम् । उत्तरपद एव लक्षणायां विनिगमकमाह__पूर्वपदस्येति । तल्लक्षणाया इति । पूर्वपदलक्षणाग्रहस्येत्यर्थः । धातुप्रत्ययेति । धातुप्रत्यययोस्तदर्थयोश्च ज्ञानसाध्यतयेत्यर्थः, धात्वादिज्ञानं विना तदर्थज्ञानानुपपत्त्यार्थज्ञानद्वारा धात्वादिज्ञानस्यापि लक्षणाग्रहप्रयोजकत्वमिति भावः । ननु 'प्राप्ते'ति समुदाये न लक्षणा, तस्य शक्त्यभावेन शक्यसंबन्धरूपलक्षणाया असंभवात्, किं तु तत्तद्धटकक्तप्रत्यये एव, तथा च तत्तदर्थज्ञानमात्रसाध्यत्वं, न तु धातुतदर्थज्ञानसाध्यत्वमपि, कर्तृकप्राप्तिकर्मलक्षणायामपि उदकशब्दतदर्थज्ञानसाध्यतया साम्यमेव । ननु क्तप्रत्यये उदक कर्तृकप्राप्तिकर्मलक्षणायां तादृशधातुसमभिव्याहारज्ञानस्य तात्पर्यग्राहकत्वं वाच्यमन्यथातिप्रसङ्गात्, एवं च धातुतदर्थज्ञानसाध्यत्वमक्षतमेव, किं च 'स्वबोध्यसंबन्धो लक्षणे'ति मामांसकमते 'प्राप्ते'ति समुदाये लक्षणासंभवात्तत्तदर्थज्ञानसाध्यत्वमनपवादमिति स्फुटमेवेति चेत्__उदकपदे तादृशार्थ- लक्षणायामप प्राप्तपदसमभिव्याहारस्य तात्पर्यग्राहकतया धातुप्रत्ययतदर्थज्ञानसाध्यत्वं दुरपह्नवमेव, प्राप्तिकर्मज्ञानं विना तत्संबन्धरूपलक्षणाग्रहाऽसंभवादित्यत उत्तरपदलक्षणायां विनिगमकान्तरमाह__प्रत्ययानामिति । संनिहितेति । संनिहितं यत्पदं तदर्थगतेत्यर्थः । अत्र 'राजपुरुषमानये'त्यत्र राज्ञि न प्रत्ययार्थकर्मत्वाद्यन्वयः, अन्यथा द्विवचनापत्तेः, पुरुषे आनयनकर्मत्वविरहग्रहदशायां राजनि आनयनकर्मत्वान्वयतात्पर्येण 'राजपुरुषमानये'ति प्रयोगापत्तेश्च, तादृशश्रवणानन्तरं तदर्थबोधे सति राजानयनापत्तेश्च । एतेन__राजनि तदन्वये इष्टापत्तिनिंरस्ता । घटादिपदघटककचरमवर्णस्यैव वाचकत्वं स्यात्तु ल्यन्यायादिति शाब्दिकोक्तप्रतिबन्दीरूपं दूषणं निरस्यति__घटादिपदे चेति । अतिरिक्ता शक्तिरिति । तद्धटकधात्वादिशक्त्यतिरिक्ता, गृहीतशक्तिकपदशक्त्यतिरिक्ता, बोधकत्वातिरिक्ता वेत्यर्थः ।
विशिष्टे कल्प्यते = विशिष्ट एव कल्प्यते । संकेतितत्वात् = कोशादिना संकेतितत्वेन बोधनात् । ननु बोधकत्वरूपा शक्ति्चरमवर्णे एव स्यात्, किं च तदन्यथानुपपत्त्या तदतिरिक्ता कल्प्यमानापि शक्तिस्तत्रैव पर्यवस्योदित्याशङ्क्याह__बोधकत्वस्यापीति । बोधजनकत्वपर्याप्त्यधि- करणत्वस्यपीत्यर्थः । तेन बोधकत्वाश्रयत्वस्य तत्र सत्त्वेऽपि न क्षतिः । ननु प्रकृतेऽपि 'चित्रगुस्वामी'ति बोधान्यथानुपपत्त्या कल्प्यमाना लक्षणापि उत्तरपदवत् पूर्वपदेऽपि कल्प्याऽ- विशेषादित्याशङ्क्याह__प्रकृते चेति . सा कल्प्यत इति । लक्षणा कल्प्य इत्यर्थः । विशेष इति । चरमवर्णस्यात्यन्तं प्रत्ययसंनिधानेऽपि तस्य बोधकत्वाननुभवात्समुदायस्यैव वाचकत्वं कल्प्यत इति भावः । स्वीकृत चेति । तथा च घटादिशब्दे चरमवर्णस्यैव वाचकत्वे इष्टापत्तिरिति भावः ।
मीमांसकम्मन्यैरिति । खशि 'अरुर्द्विष'दिति मुम् । मीमांसकमात्मानं मन्यन्त इत्यर्थः । अनेनास्वरसः सूचितः, तन्मूलं तु कोशादिविरोधः । संज्ञादिकमिति । आदिना__सुब्लुक्, समुदायात्पुनः सुबुत्पत्तिरनुदात्तं पदमित्यस्य प्रवृत्तिः परिगृह्यते । आकाङ्क्षादिसाचिव्येनार्थ- बोधकत्वरूपार्थवत्त्वस्यापि प्रातिपदिकसंज्ञाप्रयोजकत्वस्वीकारे गौरवं, 'चित्रगु'रित्यादौ तदसंभवश्च, गोशब्दस्यैव लक्षणया विशिष्टार्थबोधकत्वात्, न चार्थबोधजनकज्ञानविषय- शब्दत्वमर्थवत्त्वं ग्राह्यम्, तच्चैकस्य पदस्य लक्षणया,-परस्य तात्पर्यग्रहकतया चेत्येवं समूहस्य निष्प्रत्यूहमिति वाच्यं, प्रत्येकं विभक्त्युत्पत्त्यापत्तेः, 'एकाचद्विर्वचन'न्यायेन तु न तद्वारणसंभवः, यत्र समुदायकार्यणावयवानुग्रहस्तत्रैव तत्प्रवृत्तेः, 'एकाचो द्वे प्रथमस्ये'त्यादिनिर्देशेन तद्वारणे तु गौरवमिति भावः । तदेतदुक्तं__स्यान्महद्गौरवं तस्मादिति । समासग्रहणात्सेति . सा = प्रातिप- दिकसंज्ञा । तथा च समासग्रहणं विध्यर्थ'मिति भावः । ननु तस्य नियमार्थत्वाभावेऽपि क्षत्यभावः, किं चा'सूर्यपश्याः' 'शशशृङ्ग'मित्यादावर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाविधायकतया नियमार्थत्वानुपपत्तिश्चेत्याशङ्क्याह__भूषणे स्पष्टं प्रतिपादितत्वादिति । 'असूर्यपश्या' इत्यादावपि 'असूर्ये'त्यत्र सूर्यकर्मकदर्शनाभाववति शक्तिकल्पनेन 'अर्थवत्' सूत्रेणैव सा सिध्यति, उक्तं च समर्थसूत्रे कैयटे__'असमर्थसमासेऽपि क्रियायामुभयोः संनिपातादेकार्थीभावस्तद्‌द्वाराकोस्त्येव' इति । उभयोः = नञ्सूर्यपदयोः । शशशृङ्गादिपदेऽपि विशकलितं प्रसिद्धमारोपितसंबन्धं शक्यमतः 'अर्थव'त्सूत्रप्राप्तिरस्त्येव, किं च समासरूपधर्मिग्राहकात् 'असूर्यललाटयो'रिति मानाद- सूर्येत्वस्य प्रातिपदिकसंज्ञा सिध्यति, न ह प्रातिपदिकत्वं, सुबुत्पर्त्ति च विनोपपदत्वं__समीपो- च्चारितपदत्वरूपं__निर्वहतीति स्पष्टं निबन्धेषु । शशशृङ्गादेर्वौद्धोऽर्थो वाच्य इति स्पष्टं__विवहणादौ । एवं च मन्मते समासग्रहणस्य नियमार्थत्वं सुस्थमेव, अपि च__'कृत्तद्धिते'ति सूत्रेऽपि तदन्तविधिलाभाय 'अर्थव'दित्यनुवर्तते इति स्पष्टं भाष्यादिषु, तथा च समासे शक्त्यनङ्गीकारे समासग्रहणेनापि न सा सिध्यति । 'अर्थवत्पदस्य कृत्तद्धितयोरेव संबन्धो न समास' इति तु न युक्तम्, तथा सति द्वन्द्वस्यासाधुत्वापत्तेरन्यतरस्य पाण्डित्ये 'देवदत्तेयज्ञदत्तौ पण्डिता'विति प्रयोगाभावात्, द्वन्द्वघटकयावत्पार्थे इतरपदार्थान्वये एव द्वन्द्वस्य साधुत्वं, न तु तद्धटकयत्किंचित्पदार्थे तदन्वये इत्यभ्युपगमात्, सौत्रत्वात् साधुत्वकल्पने तु गौरवमेव । समासग्रहणस्य विध्यर्थत्वेऽपि__'बहुपटव' इत्यत्रार्थवत्‌वाभावेनार्थवत्सूत्रेण प्रातिपदिकत्वानापत्त्या 'चितः सप्रकृते'रिति वचनेन चित्त्वप्रयुक्तान्तोदात्तत्वं वाक्रोत्तरवर्तिंनो- ऽकारस्य स्यात्, इष्यते तु टकारोत्तरवत्यर्थकारस्येति स्पष्टं भाष्यादौ । सिद्धान्ते तु__'अन्तरङ्गानपी'ति न्यायेन प्रथमजसो
लुगुत्तरमेव प्रवर्तते स्वर इतीष्टसिद्धिः, 'बहुच्पूर्वस्ये'ति वचनारम्भे गौरवम् । न च तद्धितशब्दस्य तद्धिशिष्टपरतया 'कृत्तद्धिते'-ति सूत्रेणेव तत्र प्रातिपदिकत्वमिति वाच्यं, 'पचतकी'त्यादावतिप्रसङ्गात्, 'बहुपटवस्तिष्ठन्तीति वाक्येऽति- प्रसङ्गाच्च । यस्मात्तद्धितो विहितस्तद्धितविशिष्टस्य तस्यैव प्रकृतिप्रत्ययसमुदायस्य ग्रहणे प्रमाणाभावात्, तादृशवचनान्तरकल्पने गौरवाच्चेति भावः ।
एतेनाव्यवहितपूर्वत्वाञ्यवहितोत्तरत्वान्यतरसंबन्धेन तद्धितविशिष्टस्य ग्रहणमिति न पचत- कीत्यादावतिप्रसङ्ग इति निरस्तम्, उक्तवाक्यावारणात्, 'प्रत्ययग्रहणे तदन्तग्रहण'मिति परिभाषा- विरुद्धार्थकल्पने मानाभावाच्च । एवं 'मूलकेनोपदंशं भूङ्क्ते' इत्यत्र 'मूलकेनोपदश'मित्यस्य कृद्ग्रहणपरिभाषया प्रातिपदिकत्वापत्तिर्मूलकस्योपदंशनकर्मत्वं, भूजौ करणत्वं चास्ति, विभक्तिस्तु प्रधानक्रियां प्रति करणत्वप्रयुक्ता तृतीयैव कृतेति मूलकस्येत्युपदंशनकारकत्वाक्षतेः । न च 'तृतीयाप्रभृतीनी'ति विकल्पेन समासविधानसामर्थ्यान्न तादृशवाक्यस्य प्रातिपदिकत्वं, विभक्ति- श्रणस्यैव तत्फलत्वादिति वाच्यं,समासे उत्तरपदप्रकृतिस्वरः असमासे तु उदातद्वयमिति स्वर- विशेषस्य तत्फलस्य संभवात्, 'दधि उपदंश'मित्यत्र पक्षे 'इकोऽसवर्णे' इति प्रकृतिभावप्रवृत्तेरपि फलस्य संभवाच्च । एतेनोतरपदप्रकृतिस्वरे विकल्पयितव्ये समासविकल्पविधानवैयर्थ्य निरस्तम् । अनिभिधानेन तद्वैयर्थ्योपपादनं तु न समञ्जसम् । न च कृद्‌ग्रहणे इति परिभाषाया ज्ञापकसिद्धतयासार्वत्रिकत्वेन कृत्तद्धितेत्यत्रावृत्त्या न मूलकेनेत्यादावतिप्रसङ्ग इति वाच्यम् । अगतिकाश्रयणस्यायुक्तत्वात् । सिद्धान्ते तु समासग्रहणकृतनियमेन परत्वाद्बाध इति कृत्तद्धित इत्यत्र 'कृद्‌ग्रहणे' इति परिभाषाया अप्रवृत्तेरेवेति भूषणादितोऽवगन्तव्यमित्यलमतिविस्तरेण । समासवाक्ये । समासात्मके वाक्ये इत्यर्थः । लाक्षणिकार्थवत्त्वस्याप्यसंभवादिति । इदं नैयायिकं प्रत्युच्यते । स्वबोध्यसंबन्धरूपलक्षणावादिमीमांसकमते तत्संभवेऽपि निरूढलक्षणायाः शक्तितुल्यतया शाब्दिकाभिमतसिद्धिरिति भावः । भाष्यसिद्ध इति । 'अप्रत्यय इति चेत् तिबेकादेशे प्रतिषेधोऽन्तवत्त्वात्' । 'अप्रत्यय इति चेत् तिबेकादेशे प्रतिषेधो वक्तव्यः । काण्डे कुड्ये ।' इत्यर्थवत्‌सूत्रभाष्यसिद्ध इत्यर्थः । कृतमलम् । अर्थवदादिसूत्रद्वयं नारम्भणीयं किं त्वतिप्‌प्रातिपदिकं समासश्च इति सूत्रद्वयं रचनीयमित्यर्थः । समासस्यापीति । समासस्यापि तिबन्तभिन्नत्वात् । तिपः प्रत्ययत्वेन प्रत्ययग्रहणे यस्मादिति परिभाषायाः प्रवृत्तेरिति भावः ।
अर्थवत्त्वावश्यकत्वेनेति । अर्थवदिति विशेषणस्यावश्यकत्वेनेत्यर्थः । ननु संख्याकर्मादेर- भावादेकैकस्माद्वर्णात् सुबुत्पत्तिर्न बविष्यति औत्सर्गिकमेव वचनमपि गमकसत्त्व एव स्पष्टम् । अत एव 'ङ्याप्-' सूत्रे भाष्ये तत्सूत्राभावे तिङ्न्तेभ्यः सुबुत्पत्तिशङ्कैकत्वादीनामुक्तत्वान्नेति समाहिता । एवं च फलाभावात् प्रतिवर्ण प्रातिपदिकसंज्ञापि न भविष्यतीति चेत् तथापि दश दाडिमानि षडपूपा इत्याद्यनन्विताथकसमुदायस्य वारणाय 'अर्थवत्' इति विशेषस्यावश्यकत्वम् । तत्र हि प्रातिपदिकत्वे सति 'सूपो धातु-' इति लुक् स्यादिति भाष्यादौ स्पष्टम् । नियमार्थसमासग्रहणेन तु__न वारणं कर्तुं शक्यम्, नियमस्य सजातीयापेक्षतया परस्परान्वितार्थकसमुदायस्यैव तेन वारणात्, अत एव 'गवित्याहे'त्यादौ समुदायस्य न प्रातिपदिकसंज्ञेति स्पष्टं शब्देन्दुशेखरादौ ।
समासाव्याप्तीति । समासग्हणस्य विध्यर्थत्वे तु पूर्वोक्तदूषणगणप्रसङ्ग इति भावः । 'असमासवाक्यस्य ने'ति तृतीयं सूत्रमपि कर्तव्यमिति चेद् गौरवमिति भावः । अत्र समाद्यन्तानां
प्रातिपादिकत्वापादनं तु न कृतं, तत्त्वेऽपि तेभ्यः सुबुत्पतेरापत्त्यंसभवात्, अपादैस्तिर्बादिभिर्वाध- नात् । ननु समासग्रहणस्य विध्यर्थत्वेऽपि 'मूलकेने'त्यत्र पूर्वोक्तक्रमेणातिप्रसङ्गो वारित इत्यतो दोषान्तरमाह-किं चैवमिति । एवम् = समुदायशक्त्यनङ्गीकारे । अर्धपिप्पलीत्यादाविति । आदिना-'पूर्वकाय' इत्यादेरितेतरद्वन्द्वस्य च संग्रहः । द्वन्द्वे व्यवहितपदार्थेऽपि कर्मत्वाद्यन्वयेन व्यभिचारो द्रष्टव्यः, अव्ययीभावादिभेदं निवेश्य व्युत्पत्तेस्तदतिरिक्तविषयकत्वसंपादने त्वनेकभेदनिवेशेन गौरवमिति भावः ।
ननुपकुम्भमित्यत्र कुम्भपदस्यैव लक्षणया कुम्भसमीपार्थकत्वमेवमर्घपिप्लीत्यादावपि पिप्पल्यादिशब्दस्यैव विशिष्टार्थकत्वमिति न तत्र व्यभिचार इति चेद्विशिष्टेऽर्थे लक्षणां वनैवान्वयोपपत्तौ तत्स्वीकारोऽनुचितः, अत एव 'पूर्वपदार्थप्रधानोऽव्ययीभाव' इति संगच्छते, किं च द्वन्द्वे व्यभिचारो दृढ एवेति भावः । भाष्यकारमतेऽर्धपिप्पल्यादेः कर्मधारयत्वेनोत्तरपदार्थप्राधान्येन तत्र व्यभिचाराभावेऽप्युपकुम्भादौ व्यभिचारो निष्प्रत्यूह एवेति ध्येयम् । समस्यमानपदोत्तरमेवेति । समस्यमानं पदं च समासघटकीभूतपदं पूर्व परं मध्यमं च, तथा चाव्ययीभावेऽव्ययम्, एकदेशिसमासे एकदेशवाचिपदं, द्वन्द्वे सर्वपदान्यपि समस्यमानानीति तत्तदर्थे विभक्त्यर्थान्वयः । अव्ययीभावादिसमासेऽव्ययं सुबन्तेन समस्यते इत्यादिनाव्ययादेरेव समसनक्रियाकर्मत्वं बोध्यते, नत्वस्येति बोध्यम् । एवं च समासे क्कचित्पूर्वपदार्थे क्कचिदुत्तरपदार्थे क्कचिद्यावत्समस्यामान- पदार्थेऽन्वय इत्यत्र तदनुशासनंयोग्यतादिकं नियामकमिति भावः । विशिष्टोत्तरमेवेति । समासरूपसमुदायोत्तरमेवेत्यर्थः । एवशब्देन समासघटकपदव्यवच्छेदः ।
अनुशासनात् = प्रातिपदिकात् स्वादयो भवन्तीत्यनुशासनात्, तथा चसमस्यमानपदोत्तरं तदनुशासनमसिद्धमेवेति तात्पर्यम्, न च प्रतिलक्ष्यं लक्षणभेदेन समस्यमानरूपप्रातिपदिकत्वाश्रयात् स्वादय इत्येवानुशासनं कल्प्यत इति वाच्यम्, प्रातिपदिकत्वपर्याप्त्यधिकरणात्, स्वादय इत्यनुशासनस्यैव समर्थसूत्रभाष्यसिद्धतयात्रान्यथा तत्कल्पने मानाभावात्, समुदायस्याङ्गत्वान- पत्तेरवयवस्य तदापत्तेश्च, तथा सति 'देवस्य पुरुषो देवपुरुषस्तस्येदं दैवपुरुष'मित्यादौ समुदायादेर्वृद्धिर्न स्यादुत्तरपदादेरेव स्यात् । 'अवयवादृतो'रित्यादेर्ज्ञापकात् समुदायादेरेव भविष्यतीति चेत्, एतादृशक्लिष्टकल्पनापेक्षया समुदायशक्त्यनुसरणमेव युक्तमिति भावः । एवमुपकुम्भमित्यादौ समुदायोत्तरं विभक्तिश्रवणानापत्तिरपि द्रष्टव्या इत्येव । कल्प्यत इति । न तु प्रकृतित्वपर्याप्त्यधिकरणार्थे विभक्त्यर्थान्वय इति कल्प्यत इत्यर्थः । प्रकृतित्वाश्रयत्वं चोत्तरपदे पूर्वपदेऽपीति नोक्तदोष इति भावः । अन्वयप्रसङ्ग इति । आनयनाधिकर्मत्वान्वयप्रसङ्ग इत्यर्थः । इष्टापत्तिस्तु न, सत्यपि तात्पर्ये विना लक्षणां तादृशान्वयोधाननुभवात् । पङ्कानयन- प्रसङ्गाच्च । अभीष्टापत्तौ स्थलान्तरेऽतिप्रसङ्गमाह-अघटमिति । पूर्वोक्तस्थले दण्डादिविशिष्टे क्रियान्वये विशेषणीभूतदण्डादावप्यन्वये कदाचिदिष्टापत्तिः स्यात्, अत्र तु न कस्यापि घटे आनयनकर्मत्वान्वयोऽनुभवसिद्ध इति भावः । विशेषणतया न तत्रेति । प्रकृतिजन्यप्रतीतिविशेष्ये एव विभक्त्यर्थान्वय इति व्युत्पत्तेरिति भावः । चित्रगुस्वामिनस्तु प्रकृतिजन्यप्रतीतिविशेष्यतया न विभक्त्यर्थान्वयानुपपत्तिः । आनयनाद्यन्वयः = आनयनकर्मत्वाद्यन्वयः । जन्यतायाः = पञ्चम्यर्थभूतायाः । रूपसुखादावनन्वयेति । नीलरूपसुखयोर्नीलदिशब्दजन्यप्रतीतिविशेष्यत्वा- भावात्, नीलशब्दस्य नीलरूपविशिष्टपरत्वात्, सुखिशब्दस्य तद्विशिष्टबोधकत्वात्, अथैकत्र-
विशेषणतयान्विते इतरत्र विशेषणतयान्वय एवाव्युत्पन्नो, न तु विशेष्यतयान्वय इति न 'दण्डिनं पूजये'त्यादौ पूजनकर्मत्वाद्यन्वयापत्तिः, 'पाकान्नील' इत्यादौ नीलादौ पाकादिजन्यत्वाद्यन्वयानुप- पत्तिश्चेति चेन्न, एवं सति 'शूली पूज्य' इत्यादौ 'शूलादौ पूज्यादिरूपविशेषणान्वयापत्तेः, किं च शूलिनि द्वित्वादेर्बाधे शूलेऽपाधे 'शूलिनौ पश्यत' इत्यादिप्रयोगापत्तिरिति दिक् । ज्ञानविषयत्वमात्रमिति । न तु प्रकृतिवृत्त्या तज्जन्यज्ञानविषयत्वमित्यर्थः । अत्र = उत्तरपदादि- लक्षयचित्रगुस्वाम्यादौ । समवायेनेति । समवायेनोपस्थिते आकाशे घटपदोत्तरवर्तिद्वितीयार्थ- कर्मत्वान्वयवारणायेत्यर्थः । वृत्त्या प्रकृत्यर्थत्वस्य = वृत्त्या प्रकृतिजन्यज्ञानविषयत्वस्य । आवश्यकत्वात् = अवश्यं प्रवेशनीथत्वात् । 'घट'मित्यादौ घटत्वादौ कर्मत्वाद्यन्वयवारणाय विषयतासामान्यमुपेक्ष्य विशेष्यत्वप्रवेशः, अत एव 'दण्डिनं पश्ये'त्यादौ दण्डादौ न तदन्वयः । आकाशे न तदन्वयः, प्रत्ययप्राग्वर्तिपदवृत्त्येत्यस्यापि निवेश्यात्वादिति भावः । कृष्णे तृतीयार्थेति । अव्यवधानांशनिवेशे तु 'उपकुम्भ'मित्यादौ पूर्वपदार्थे विभक्त्यार्थान्वयापत्तिरिति भावः । एवं 'बहुपटः', 'सर्वक' इत्यादावव्यप्तिः, 'दधीयद्ददाती'त्यादौ दध्यादावतिव्याप्तिश्च द्रष्टव्या, 'यदुत्तरं यः प्रत्ययो विहितस्तत्त्वे सती'ति निवेशे तु__'चित्रगु'रित्यादाबुत्तरपदस्य तत्त्वाभायादुक्तदोषता- दवस्थ्यं बोध्यम् । क्लप्तव्युत्पत्तीति । 'प्रत्ययानां प्रकृत्यर्थान्विते'ति व्युत्पत्तीत्यर्थः । नन्वनेकसमासरूपसमुदायेषु शक्तिकल्पनामपेक्ष्य व्युत्पत्त्यन्तरकल्पना, क्लप्तव्युत्पत्तित्यागश्च न गुरुरत आहदिगिति । तदर्थस्तु-'राजपुरुष' इत्यादौ राजसंबन्धिलक्षणायां राज्ञ पकदेशतया विशेषणान्वयवारणेऽपि 'दास्याः पुत्र' इत्याद्यलुक्‌समासे लक्षणायां मानभावेन दास्यादौ शोभना- दिविशेषणान्वयो दुर्वारः, तत्रापि संबन्धिलक्षणायां दासीसंबन्धिबोधः स्यात्, इष्टापत्तिस्तु न, सर्वानुभवविरोधात्, अलुग्विषयीभूतविभक्तिर्न स्वार्थोपस्थापिका, अत एवा'प्सुचरो' 'गोषुचर' इत्यत्र न बहुत्वप्रतीतिः, एवं च दासीशब्दस्य दासीसंबन्धिलक्षणायामपि राज्ञः पुरुष इति वाक्यादिव समासादपि राजसंबन्धप्रकारकः संबन्धसंसर्गको राजप्रकारकपुरुषविशेष्यको बोधो भाष्यादिसिद्धः संबन्धिलक्षणायां न निर्वहतीत्यादिर्बोध्यः । तथात्वाभावादिति । विभक्तिजन्योपस्थितिविषयत्वा- भावादित्यर्थः । ननु 'शुभ्रस्तण्डुल' इत्यादौ शुभ्रादिरूपनामार्थप्रकारकशाब्दबोधो विशेष्यतासंबन्धेन तण्डुलादौ जायते, न च तत्र विभक्तिजन्योपस्तितिर्विशेष्यतयेति व्यभिचारान्नोक्तकार्यकारणसंभवः, तण्डुलः पचती'त्यत्र उक्तबोधवारणायागत्या धातुजन्योपस्थितेः प्रतिबन्धकत्वमास्थेयं, धातुभिन्नजन्योपस्थितेर्हेतुत्वं वा कल्प्यम्, तथा च 'राजपुरुष' इत्यादावन्वयबोधे बाधकभाव इत्याशङ्क्याह-तण्डुलः शुभ्र इत्यादाविति । प्रातिपदिकार्थकप्रथमेति । प्रातिपदिकस्यार्थो यस्यास्तादृशी या प्रथमा तदर्थे इत्यार्थः । 'प्रातिपदिकार्थमात्रे प्रथमे'त्यस्य प्रतिपदिकार्थमात्रे वाच्ये प्रथमेत्यर्थः, 'पाक' इत्यादौ व्यापारस्येव प्रातिपदिकार्थस्यापि द्वेधा भानं, विभक्त्याऽसत्त्वरूपेण स उपस्थाप्यते इति विरूपोपस्थितेः सत्त्वेनाभेदान्वयसंभव इति भावः, एवं च नोक्त कार्यकारणभावे व्यभिचार इति भावः ।
नन्वत्र व्यभिचारवारणेऽपि 'शुभ्रं तण्डुलं' 'शुभ्रेण तण्डुलेने'त्यादौ व्यभिचारो दुर्वार एव, द्वितीयादेः प्रातिपदिकार्थे विहितत्वाभावादत आह__शुभ्रेण तण्डुलेनेतीति । अभेदार्थेति । कर्माद्यभेदस्य कर्मादिरूपतयाऽभेदस्यानुशासनविषयत्वादिति भावः । एवमेव 'स्तोकं पचती'त्यादौ न व्यभिचारः । ननु विशेष्यवाचकपदोत्तरविभक्त्यैव कर्माद्यर्थस्य गमिततया विशेषणवाचकपदोत्तर-
विभक्तिः साधुत्वार्थैव, तथा च शुभ्रपदार्थस्य तण्डुलेनैयान्वयो वाच्य इति व्यभिचारस्तदवस्थ एवेत्याशङ्क्याह-पार्ष्णिको वेति । अयं भावः-कर्मण्येव द्वितीयोत्यादिनियमेन साधुत्वार्थे विभक्तिरिति न युक्तं, किं तु कर्माद्ययिंकैव, 'कटोऽपि कर्म भीष्मादयोऽपि कर्म' इति भाष्याद्विशेषणेऽपि कर्मत्वादिसत्त्वात्, एवं च कारकाणां क्रियायैवान्वय इति नियमात् क्रियायामन्वयः, तथा च विशेषणविशेष्ययोः परस्परमन्वयाभावान्न व्यभिचारः, न च क्रिययान्वयादेव व्यभिचारः, विभक्त्यर्थद्वारैव तदन्वयस्याङ्गीकारात्, परस्परान्वयाभावे विशेष्यस्य व्यवच्छेदो न स्यात्, तथा च 'शुभ्रेण तण्डुलेन शिवं पूजये'दित्युक्तेऽपि श्यामादितण्डुलेन येन केनचिच्छुभ्रेण पूजनप्रसक्तिः, एवं सामर्थ्याभावाच्छुभ्रतण्डुलो नीलोत्पलमित्यादिः समासो न स्यादिति दोषपरिहाराय द्वयोः पाष्णिकः परस्परमन्वयबोधोऽङ्गीकृतः, स च शाब्दो, मानसो वा । न च सामर्थ्यविरहेऽपि 'विशेषणं विशेष्येणे'त्यादिना विधानसामर्थ्यात्समास इति वाच्यं, तत्सामर्थ्यात् पाष्णिंकबोधकल्पनाया एय युक्तत्वादिति भावः ।
परे तु प्रथमायाः प्रातिपदिकार्थो न वाच्यो बोधावृत्तिप्रसङ्गात्, एकरूपेणोपस्थितयोरन्व- यासंभवाच्च । भिन्नरूपेण बोधाननुभवाच्च, अत एव तत्तत्प्रतिपदिकेन तत्तदर्थे विवक्षिते तदुत्तरं प्रथमेत्येव वाक्यार्थः स्वीक्रियते, एवं विशेषणविभक्तेरभेदत्वेनाभेदार्थकत्वे मानाभावः, कर्माद्यभेदस्य कर्माभेदरूपत्वेऽपि कर्मत्वादिनैव वाच्यताया अनुशासनसिद्धत्वात् कथं तर्हि शुभ्रादिपदाद् द्वितीयेति चेदत्राहुरनभिहितसूत्रे भाष्यकाराः__'विशिष्टस्य क्रिययेप्सितत्वात् कर्मत्वादुभयत्रापि द्वितीया' इति । विशिष्टनिष्ठं कर्मत्वं समानविभक्तिकत्वं विना न प्रत्याययितुं शक्यत इति तद्भावः । अत्र पक्षेऽपि विशेषणपदात् कर्मत्वाद्यनालिङ्गतार्थोपस्थितिः, विशेष्यात्तु तद्वैशिष्ट्येन प्रतीतेर्विशिष्ट- स्यैककर्मत्वबोधः, ततोऽथवा कटोऽपि कर्म भीष्मादयोऽपीति' समदधुः । अत्र पक्षे विशेषणपदं पृथक्‌तत्तच्छक्तिमत्तया प्रतिपादकं, द्रव्येणाभेदात्तु तस्याः शक्तेर्वाक्यार्थबोधेन विशिष्य ग्रहः, अत्रापि पक्षे विशेष्यविशेषणयोः परस्परमन्वयपूर्वकमेव क्रियान्वयः, कारकाणां भावनान्वयनियभङ्गस्तु न, साक्षात् क्रियाजनकानां साक्षादेव भावनान्वयः, द्रव्यद्वारा तज्जनकानां तु द्रव्यद्वारैवान्वय इति नियमाङ्गीकरात् । 'गुणानां च परार्थत्वा'दिति न्यायस्य तु नात्रावसरः, यतो द्रव्यगुणयोरुक्तरीत्या समत्वाभावः, ततो विशेष्यस्यैव कर्मत्वं, तत्सामानाधिकरण्याद् भीष्मादिभ्योऽपि द्वितीयेति समादधुः ।
अत्र कैयटोपाध्यायाः__यथेश्वरसुहृदः निर्धना अपि तद्धनेनैव धनफलभाजस्तद्वत्तदेकयो- पक्षेमत्वादिति, विशेष्यसमानशक्ति विना विशेष्यतयैकार्थबोधैकत्वरूपसामानाधिकरण्यानुपपत्तिरिति विशेषणस्य विशेष्यसमानशक्तिकत्वमेव, तच्चारोपितमेवेति ततोऽपि विभक्तिनिर्वाह इति भावः । अस्मिन्नपि पक्षे तयोरेव परस्परमन्वयो लभ्यत" इत्याहुः । विस्तरस्तु मञ्जूषादितोऽनगन्तव्यो ग्रन्थविस्तरभयान्नेह वितन्यते । एवं च 'शुभ्रस्तण्डुल' इत्यादौ व्यभिचारो दुष्परिहरः, तद्वारणार्थ भेदसंबन्धावच्छिन्ननामार्थप्रकारताकत्वं विभक्तिजन्योपस्थितेः कार्यतावच्छेदके यदि निवेश्यते, तर्हि-राजसंबन्धिनो भेदेन बोधे नोक्तं वाधकमिति प्रतिभात, 'किं चे'त्युत्तरग्रन्थ इत एवास्वरसाद्वोक्त इति बोध्यम् ।
ननु समाससमानार्थकत्वं समासजन्यप्रतीतिविषयार्थप्रतीतिजनकत्वं, तच्च प्रकृतेऽक्षतं, समासजन्यप्रतीतिविषयराजसंबन्धविषयकप्रतीतिजनकत्वाद्राज्ञः पुरुष इत्यस्येत्यत आह__
अन्यथेति । उक्तप्रतीतिमात्रजनकत्वस्य विर्गहरूपत्वे । तस्मात्-विग्रहरूपविवरणात् । शक्तिनिर्णयो न स्यादिति । विवरणविव्रियमाणयोः समानार्थकत्वनियमे विवरणस्य शक्तिनिर्णाकत्वं संभवेत्, असामानार्थकस्याप्युक्तस्य विवरणत्वाङ्गीकारे तु तादृशनियमभङ्गेन विवरणादभियुक्तोक्तः शक्तिनिर्णयो न स्यात्, तथा च फलार्थककरोतिना विवरणादाख्यातस्य यत्ने शक्तिरित्यादिकं विलीयेतेति भावः, अथवा 'राज्ञः पुरुष' इति विग्रहस्य समासनिष्ठार्थबोधकतानिर्णायकत्वमनु- भवसिद्धं भज्येतेति भावः । प्रसंगादिति । राज्यसंबन्धस्य नामार्थत्वेनाभेदसंबन्धेनैव पुरुषेणान्वयबोध स्यान्न त्वाश्रयसंबन्धेनेति भावः । ननु समानविभक्तिकत्वं नामार्थयोरभेदबोधे तन्त्रं, तच्चात्र नास्तीति कथं राजसंबन्धः पुरुष इति बोधापत्तिरत आह__विरुद्वविभक्तीति । 'सुन्दरं दधि' 'सेचकृद्वारी'त्यादौ व्यभिचारात् समानविभक्तिकत्वस्योक्तबोधे प्रयोजकत्वासंभवा- द्विरुद्धविभक्तिराहित्यस्यैव प्रयोजकत्वमुररीक्रियत इति भावः । इदं चापादनं योग्यताज्ञानं भ्रमात्मकमयोग्यतानिश्चयाभावो वा यदा वर्तते तदा बोध्यम्, वस्तुतस्तु__स्वमते योग्यताज्ञानस्य हेतुत्वमयोग्यतानिश्चयस्य प्रतिबन्धकत्वं च नास्तीति पूर्व निरूपितं न विस्मर्तव्यम् ।
अथोक्तव्युत्पत्तिनिर्वाहको__नामार्थप्रकारकाभेदान्वयबोधे विरुद्धविभक्तिरहितनामजन्योप- स्थितिर्हेतुरिति कार्यकारणभावो न संभवति, 'चैत्रस्य सुतस्य धन'मित्यत्रातिप्रसङ्गादिति चेन्न, विभक्त्यर्थमनन्तर्भाव्य नामार्थन्वयमात्रबोधे उक्तकार्यकारणभावाङ्गीकारात्, चैत्रमात्रप्रकारकस्या- भेदसंसर्गकबोधस्येष्टत्वादिति भावः । विरुद्धविभक्तिः = विरुद्धार्थकविभक्तिविभिन्नार्थकविभक्तिरिति यावत्, तादृशविभक्तिराहित्यमुक्तबोधे तन्त्रम् । 'राज्ञः सुतस्य धन'मित्यत्र तु विभक्त्योर्न समानार्थकत्वमेकत्र जन्यत्वस्यापरत्र स्वत्वस्य तदर्थत्वात्, 'राज्ञः पुरुषस्य धन'मित्यत्र षष्ठीद्वयस्य स्वत्वार्थकत्वेऽपि तयोः स्वत्वयोर्भिन्नत्वान्न दोष इति तु परे । समासे व्युत्पत्त्यन्तरमङ्गीकुर्म इति चेदतिरिक्तशक्तिसिद्धिरप्रत्यूहैव, तदेतत् सर्वमभिप्रेत्याह__प्रपञ्चितं वैयाकारणभूषणे इति ।
अत एव = पृथगुपस्थित्यभावप्रयोजकसमुदायशक्तरङ्गीकारादेव । भक्षमुद्दिश्येति । एकरूपेत्यर्थः । भङ्गापत्तेरिति । तथा सति सामर्थ्यविघातात् समासो न स्यादिति भावः । समासे हि सर्वपदार्थानामुद्देश्यत्वं विधेयत्वं वा भवति, यथा 'धवखदिरौ सुन्दरौ' 'इमौ वृक्षौ धवखदिरा'विति । न तु समासघटकैकपदार्थमुद्दिश्य तद्‌घटकापरपदार्थस्य विधेयत्वमुक्तदोषादिति प्रथम्यविशिष्टभक्ष इति मीमांसातृतीयाध्यायस्थस्तत्रत्यसिद्धान्तो बोध्यः । त्र्यङ्गैः स्विष्टकृत- मिति । 'पशौ हृदयस्याग्रेऽवद्यती'त्यादिना एकादशाङ्गानां होमस्य विधानेन 'प्रकृतिवद्विकृति'रिति न्यायेनैकादाशभिरङ्गैहोमे प्राप्ते इदं वाक्यमारभ्यते, तत्राङ्गानुवादेन त्रित्वं विधीयत इति पूर्वपक्षः, उक्तदोषात् त्रित्वविशिष्टाङ्गान्तरविधिरिति दशमाध्याये सिद्धान्तितम्, एतच्च विशिष्टशक्तिपक्षे घटपदाद्घटघटत्वयोरिव विशिष्टशक्त्यैव प्राथम्यविशिष्टभक्षस्य त्रित्वविशिष्टाङ्गानां चोपस्थित्या वाक्यार्थरूपोद्देश्यविधेयभावेनान्वयासंभवात् संगच्छते, समुदायशक्त्यनङ्गीकारे तु 'प्रथमो भक्षस्त्रिभिरङ्गै'रितिवत् समासेऽपि तथान्वयः स्यादित्यधिकरणविरोध इति समुदितार्थः । न च 'यद्‌वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षण'मित्याद्य- भियुक्तोक्तस्योद्देश्यताविधेयतानियामकस्य यद्‌वृत्तयोगप्राथम्यादेरभावान्न भक्षार्थानुवादेन प्राथम्यादिविधिरिति वाच्यं, 'प्रथमो भक्ष' इत्यादावपि तदनापत्तेः, अत एवे'त्याद्युद्देश्य- लक्षण'मित्यत्रादिपदं यद्‌वृत्तादेरनियतत्वसूचनार्थमुपात्तम् ।
विधेयताया विशेष्यमात्रनिष्ठतया न प्राथम्यदेर्विधेयत्वमित्यपि न युक्तम्, अज्ञातस्यैव विधेयत्वेन तस्य विशेष्यत्वबद्‌ विशेषणत्वस्यापि संभवेन तथा नियने मानाभावात्, अत एव 'प्रथमो भक्ष' इत्यत्र प्राथम्यादेर्विधेयत्वानुभवः, न च समस्तभिन्नपदजन्योपस्थितेस्तादृक्‌शाब्दबोधे हेतुतया न भक्षाद्यनुवादेन प्राथम्यादिविध्यापत्तिरिति वाच्यम्, 'पीतवासाश्चतुर्भुजः' 'प्रथमभक्षः कर्तव्य' इत्यादौ तथा बोधानापत्तेः, न च भेदप्रतियोगिसमस्तपदे उद्देश्यविधेयवाचकोभयघटितत्वं निवेश्योक्तहेतु- हेतुमद्भावकल्पनान्न कोऽपि दोष इति वाच्यं, तथाविधगुरुतरकार्यकारणभावकल्पनापेक्षयैकार्थी- भावकल्पनायामेव समीचनतेत्याशयात् । परे तु__'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' 'सप्तदशारत्निर्वाजपेयस्य यूपो भवती'त्यादौ उष्णीषयूपारत्नी अनूद्य लौहित्यसप्तदशत्वयो- विंधिरिति मीमांसकसिद्धान्तात्तथान्वयाभिप्रायेण समासप्रयोगे प्राप्तत्वादिपर्यालोचनोत्तरं तथा बोध इष्ट एव, अत एव 'अपृक्त एकाल् प्रत्ययः' 'अभ्यासलोपश्चे'त्यादिप्रयोगे तथार्थोऽनुभूयते, अत एवालंकारिकैः 'न्यक्कारोऽयमतीव मे यदरय'इत्यादौ उद्देश्यवाचकेदम्पदाप्रकृतेऽपि विलम्बेन तथाप्रतीतिः, समासे तथाप्रतीत्यभाव इत्युत्सर्गपरित्यागेन सहृदयोद्वेगो वा दुष्टिबीजं, तद्वदेवास्यापि नासाधुतोक्तसौत्रप्रयोगात्, न चात्र यूपारत्न्युष्णीषयोरतिदेशप्राप्ततयातिदेशादु- पदेशस्य बलत्त्वेन सप्तदशारत्निरित्यादिवाक्यैरेवादौ विशिष्टविधिरिति वाच्यं, यूपऋत्विजामप्यतिदेशप्राप्ततयातिदेशपर्यालोचनोत्तरमेवास्य विधेः प्रकृत्तेः, 'प्रथमभक्ष' इत्यत्र तु समाख्यापेक्षया वाक्यश्रुत्योर्बलवत्त्वेन प्रथमतो नैव भक्षान्तरविधिरित्यादि मञ्जूषायां प्रत्यपीपदन् । प्रपञ्चितं भूषणे इति । 'अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती'ति श्रुतम्, अत्र हि किमरुणिमा वाक्याद्भित्त्वा प्राकरणिकेषु सर्वद्रव्येषु निवेश्यः ? किं वा क्रीणातिना संबन्धमनुभूय तदङ्गं सदेकहायन्याम् ? इति संदेहे-अमूर्तत्वेन क्रियायां करणकारकत्वासंभवात्ततो विच्छिन्नस्य प्रकारणकल्पितश्रुतानुमितैकदेशनिष्पन्नेन वाक्येनारुणिम्न प्रकृतापूर्वसाधनीभूतद्रव्यपरिच्छेदं भावयेदित्याकारकेण प्राकरणिकसर्वद्रव्याङ्गत्वमिति पूर्वपक्षे-योद्यताज्ञानं न शाब्दबोधकारणमपि त्वयोग्यतानिश्चयस्य प्रतिबन्धकत्वमात्रं, ततश्च तादृशनिश्चयाभावसत्त्वे आरुण्यस्यापि क्रियान्वयबोधोपपत्तिः, पाष्णिंकस्तु द्रव्येणान्वय इति न ततो विच्छेदकशङ्केत्यादि सिद्धान्तितम् । अत्र पूर्वपक्षस्य नोक्तिसंभवः, विशिष्टशक्त्यस्वीकारे पिङ्गाक्ष्येकहायनीशब्दयोरपि पिङ्गत्वाक्षित्वैकत्वहायनत्वादेर्वाच्यतया तेषामप्यमूर्तत्वात् क्रयणकरणत्वसंभवेन करणस्यैतद्वाक्या- दलाभेनारुण्यप्राकरणिककरणानुवादासंभवे वा वाक्यभेदशङ्काया एवासंभवात्, त्रिष्वपि लक्षितद्रव्यविध्युपपत्तौ वाक्यभेदशङ्काया निवर्त्तित्वाच्च, त्रयाणामपि लाक्षणिकत्वाविशेषे बहुव्रीह्योरेव द्र्यविधायाकत्वं नारुणपदस्येत्यत्र विनिगमकासंभवादित्यादिकं भूषणे निरूपितम् ।
अथ तृतीयाया निष्कृष्टशक्तिवाचकत्वमिति मीमांसकसिद्धान्तात्तया मास्तु करणीभूतद्रव्यानु- वादः, 'अरुणे'ति प्रातिपदिकेन गुणबाचकेनापि लक्षणया द्रव्यप्रतिपादकत्वं संभवत्येव, प्रतिपाद्यं द्रव्यं च तृतीयासंयोगात् करणत्वेन भासते, तथा च गुणविशिष्टकरणप्रतीतिरुपपद्यते, एवं च करणतयावगतानि द्रव्याणि विशेष्यताऽनूद्यतद्धटितविशेषणरूपो गुणः परिच्छेदकत्वेन विधीयते, येन द्रव्येण किचित् क्रियते तदरुणगुणकेनेति पूर्वपक्षः संभवदुक्तिकं एव । एतेन वाक्यभेदेनारुण्यस्य प्रकारणे निवेशो न संभवति, न तावत् प्राकरणिकक्रियाभिः संबन्धो मूर्तत्वात्, द्रव्यैः कारकत्वात्, अनुयातानि च द्रव्याणि कथं गुणसंबन्धं भजेरन्निति पूर्वपक्षोऽपि निरस्तः,
तदेतद् ध्वनयन्नाह__आस्तां विस्तर इति । अत्र जैमिनीयानां जैमिनिसूत्रविरोधोऽत्यन्तमनुचित इति ध्वननार्थ__जैमिमीयैरवश्याभ्यपेय इत्युक्तमित्यलं विस्तरेण ।। 34 ।।

का :- 35
ननु समुदायशक्तित्यवस्थापनानन्तरम्__'आख्यातं तद्धितिकृतोः' इत्याद्यभिहितं, तन्न पूर्वग्रंथसंगतमित्याशङ्कानिराकरणाय संगतिमाह__राजपुरुष इत्यादावित्यादिना । राजा चासाविति । राजपदं विग्रहस्थमपि राजसंबन्धिपरमत एव विग्रहस्य समाससमानार्थत्वाहानिरिति भावः । इत्येव विग्रह इति । 'एव' शब्देन प्रसिद्धस्य राज्ञः पुरुष इत्यस्य निरासः । अथ षष्ठ्यन्तेन विग्रहेऽपि राजपदं राजसंबन्धिलक्षकं, षष्ठ्यभेदार्थिकेत्यभ्युपगमे निर्वहत्येव समानार्थत्वमिति चेत्, षष्ट्यर्थाभेदस्य विग्रहे राजसंबन्धिनं प्रति प्राधान्येन भानात् समासे तथाऽभानात् समानार्थत्वहानेरनुद्धारात्, षष्ठ्या अभेदार्थत्वे मानाभावाच्च । अथ साधुत्वार्थिका षष्ठीति न समाससामानार्थत्वहानिरिति चेन्न, संबन्धे एव षष्ठ्या विधानात्, साधुत्वार्थकतत्प्रयोगानुपपत्तेः । गवामयमित्येवेति । 'विग्रह' इत्यनुषज्यते । 'शेषो बहुव्रीहिरित सूत्रादिति । यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः, तादृशं च स्वादित्रिकमेवेति भावः । प्रथमान्तम् = प्रथमान्तपदघटितं । पक्षे लभ्यत इति । समासस्य वैकल्पिकत्वादिति भावः । भिन्नार्थत्वादिति । 'राजपुरुष' इति समासाद्राजसंबन्धिप्रकारकस्याभेदसंसर्गस्य, 'चित्रगुरिति समासाच्चित्राभिन्नगोस्वामीत्याकारकस्य वर्तिपदार्थप्रकारकान्यपदार्थविशेष्यकस्य, चित्रा गावो यस्येति वाक्यात् तत्स्वामिकाश्चित्रः गाव इत्याकारकस्यान्यपदार्थप्रकारकस्य वर्तिपदार्थ- विशेष्यकस्य बोधस्योत्पदाद्भिन्नार्थत्वमिति भावः । आक्षिक इति । 'तेन दीव्यतीति' सूत्रेण देवनकर्तरि ठक् । कुम्भकार इत्यत्र 'कर्मण्यणिति सूत्रेणाण् । कुम्भानुकूलेति कुम्भकर्मकोत्पत्त्यनुकूलव्यापारेत्यर्थः, उत्पत्त्यानुकूलव्यापारो धात्वर्थः । मीमांसकस्यापीति । अस्य 'संमति'रिति शेषः । न विवरणत्वबाधक इति । तद्धितकृतोरर्थप्रदर्शकवाक्ये गुणप्रधान्यवैपरीत्येऽपि विवरणत्ववच्तित्रा गावो यस्येति वाक्येऽपि विवरणत्वसंभवादिति भावः । तथा च वृत्तिजन्यबोधसमानविषयकबोधजनकत्वमेव विग्रहस्य नियंतं, न तु तज्जन्यबोध- समानप्रकारकबोधजनकत्वमपीति भावः । किं च__चित्राणां गवामयमिति विग्रहस्य मत्वर्थे बहुव्रीहिः, कर्तृकर्मवचनेनाप्रथमायाः अप्रथमाविभक्त्यर्थे बहुव्रीहिः, शेषो बहुव्रीहिस्त्रिकतः शेष इत्यादि मुनिवचनविरुद्धत्वं च, न चालौकिके प्रथमान्तानामेव प्रवेशान्न तद्धिरोध इति वाच्यम्, अलौकिकके यद्विभक्त्यन्तानां प्रवेशस्तद्विभक्त्यन्तानामेव परिनिष्ठितानां लौकिकेऽर्थबोधनाय सति संभवे प्रवेशस्यौचित्यात्, न तु षष्ठ्यन्तघटितविग्रहो न युक्तः, अषर्ष्ठ्यबहुव्रीहावेवमप्यर्थ- साम्यासंभवात्, प्राप्तस्योदकस्यायमिति विग्रहादुदककर्तृकप्राप्तिकर्मेत्याकारकस्य समासजन्यस्य सर्वानुभवसिद्धस्यानुदयात् प्राप्तिकर्त्रुदकसंबन्धीत्याकारकबोधस्यैव तत उदयादिति__दूषणं न सम्यक्, उदककर्तृकप्राप्तिकर्मत्वादिरूपस्यैव संबन्धस्यैव भानेन समाससमानार्थकत्व- निर्वाहादिति__" मामांसकनव्योक्तं प्रत्युक्तम्, उक्तमुनिवचनविरुद्धत्वात् ।
परे तु 'तत्र दृष्टो विपर्यय' इत्यस्य तद्धितकृदन्तयोः कर्त्रादिमुख्यविशेष्यकबोधजनकत्वं विग्रहवाक्यस्य, भावनाममुख्यविशेष्यकबोधजनकत्वं तद्धितान्तादेर्थत्प्रकारकयद्विशेष्यकबोधजनकत्वं
तद्विपरीतविशेष्यविशेषणभावापन्नार्थविषयकबोधजनकत्वं पर्यवसितमित्यर्थो न एकाधिकरणे, पूर्वदृष्टगुणत्यागपूर्वकगुणान्तरस्वीकारस्यैव विपर्ययपदार्थत्वात्, विशेष्यतादिविरर्ययसत्त्वेऽपि तस्याख्यातनिष्ठत्वाभावात्, किं तु लोके प्रयुक्ततिडन्तस्य यथा भावनामुख्यविशेष्यकबोधजनकत्वं न तथा बोधजनकत्वे, विग्रहवाक्यस्थस्य तस्यापि तु तद्धितान्तादिवत् कर्त्रादिमुख्यविशेष्यक- बोधजनकत्वमित्यर्थः, एवं च न वृत्तिवाक्ययोः समानार्थत्वभङ्गः । हरिपद्यमेतत्समानार्थकं पुञ्जराजेनाप्येवमेव व्याख्यातम्, अनेन तुल्यन्यायात् सर्वत्र वृत्त्यर्थप्रदर्शकवाक्ये एवमेवेति सूचितम् । तथा च 'तद्वहति' सूत्रभाष्ये वहत्यर्थे रथादिभ्यः प्रत्ययविधानमनर्थकम्, 'तस्येदम्' इति विहितत्वादित्युक्त्वा वोढेति द्रव्यप्रधानं वहतीति क्रियाप्रधानमित्याशयेनान्यः शब्दो रथं वहत्यन्यो रथस्य वोढेति, तेन न सिध्यतीत्याशङ्क्यार्थसामान्यात् सिद्धं, य एवार्थो रथं वहति, स एव रथस्य वोढेति तद्वैयर्थ्यदार्ढ्य कृत्वा 'द्विरथ्य' इत्यादौ यतो लुङ् मा भूदित्येतदर्थ तदिति सिद्धान्त उक्तः, इदमर्थे प्रत्यये तु तस्य प्राग्दीव्यतीयत्वेन 'द्विगोर्लुक्' इति लुक् स्यात्, अयं तु न प्राग्दीव्यतीय इति न लुक्, य एवार्थ इत्यादेः-रथ्यस्य विग्रहभूते रथं वहतीत्यत्र स एव तद्विग्रहभूते रथस्य वोढेत्यत्रेत्यर्थः, विग्रहाघटकतिडन्ते तुक्रियाप्राधान्यमेव, वृत्तिवाक्ययोः समानार्थत्वानुरोधात्, चित्रा गावो यस्येति विग्रहस्यापि चित्रगोस्वामीत्याकारबोधजनकत्व- मङ्गीक्रियते, एवं 'प्राप्तीदक' इति समासः प्राप्तिकर्त्रुदककर्मेत्याकारकमेव बोधं जनयति, उदके विशेष्यभूते कर्मत्वनिरुपकत्वस्य बाधाद्वशेषणप्राप्तौ 'शिखी ध्वस्त' इतिवत्पर्यवसानम् । अत एव प्राप्तादिपदे विशेष्यविशेषणभावव्यत्वासकल्पनप्रयुक्तगौरवं न । अत एव पूर्वोत्तरपदयोः समानाधिकरण्यस्य बहुव्रीह्युपजीव्यस्य भङ्गः, पुंवद्भावानापत्तिश्च नेति वदन्तीत्यन्यत्र विस्तरः ।। 35 ।।

का :-36
तथा विग्रहः = चित्रा गावो यस्येत्याद्याकारो विग्रहः । अधिकरणसिद्धान्त इति । 'निषादस्थपति'शब्दो लक्षणाविरहेण लाघवात् कर्मधारयो न तु षष्ठीतत्पुपुष इति तत्रत्यसिद्धान्त- स्तत्सिद्धिर्विशिष्टशक्तिस्वीकारे न स्यादुभयत्रापि शक्त्यविशषादित्यर्थः । ननु शक्तिग्रहे- ऽन्तरङ्गत्वमित्याद्यसंगतमुभयत्रापि श्तिग्रहस्य तुल्यकालत्वादित्यत आह__अयं भाव इति । निषादस्वामिके इति । निपादः स्थपत्तिः स्वामी यस्येति बहुव्रीहिपक्षे इत्यर्थः, 'स्थपति'शब्दः स्वामिपर्यायः । सर्वत्र शक्तत्वादिति । तात्पर्यसत्त्वे निषादसंबन्धिस्वाम्यादेरपि बोधोत्पत्तेस्तत्रापि शक्तिरावश्यकी, सति तात्पर्ये परमतेऽपि लक्षणया तद्बोधस्योत्पत्तेरिष्टत्वादिति भावः, एतच्चात्रैव समनन्तरं वक्ष्यति । तत्कल्पनायां = तात्पर्यकल्पनायाम् । पूर्वोपस्थितार्थ एवेति । निषादरूपस्थपतावेव निषादसंबन्ध्यपेक्षया तदुपस्थितेः प्रथमत एवोत्पत्तेः । एवं च शक्तिनिर्णाय- कतात्पर्यग्रहेऽन्तरङ्गत्वादिकं पर्यवस्यति, कर्मधारयशक्तिग्रहापेक्षया षष्ठीतत्पुरुषशक्तिग्रहस्य षष्ठ्यर्थरूपाधिकविषयत्वेन गौरवमित्यपि बोध्यम् । उपस्थित्यादीत्यादिपदेन वा तद् ग्राह्यम् । जैमिनिरप्याह__'स्थपतिनपादः स्याच्छब्दसामर्थ्या'दिति । निषादाभिन्नः स्थपतिरेव निषादस्थपितशब्दबोध्यः, अन्तरङ्गत्वेन तथाविधेऽर्थे शीघ्रोपस्थितिजनकत्वानुकूलशक्तिरूप- सामर्थादिति तदर्थः । ननु मीमांसकमते समासे शक्त्यभावात् कथं तन्नानार्थमत आह__ परेषामिति । सति तात्पर्ये इति । षष्ठीतत्पुरुषाद्यर्थे तात्पर्ये सतीत्यर्थः । यष्टीः प्रवेशयेति- वदिति । तत्र
यथा मुख्यार्थान्वयानुपपत्त्यबावेऽपि तात्पर्यानुपपत्त्या यष्टिधरलाक्षणिकत्वमेवं प्रकृतेऽन्वयानुपपत्त्यभावेऽपि षष्ठीतत्पुरुषाद्यर्थे तात्पर्यानुपपत्त्या लक्षणा दुवरित्यर्थः 'चिन्तर'मित्यस्य 'नासंगत'मिति शेषः । स्थपतिशब्दस्य गुणशब्दत्वं, निषादशब्दस्य 'अम्बष्ठः शूद्रयां निषादो जातः पारशवोऽपि वे'ति स्वरणादनुलोमजातिविशेषवाचित्वम् । तथा च कर्म- धारयस्थपतिशब्दस्य पूर्वनिपातापत्तिस्तु न शङ्क्या, राजन्दन्तादित्वेन परनिपातात् । अथ संबन्ध्यंशे नित्यसाकाङ्क्षत्वेन षष्ठीतत्पुरु, एव युक्त इति चेन्न, जैमिनिना 'लिङ्गदर्शनाच्च' इति हेत्वन्तराभिधानात् । लिङ्गं च दृश्यते कूटं दक्षिणेति । कूटं हि निषादानामेव स्वमिति शाबर- भाष्यमिति दिक् ।। 36 ।।

इति समासशक्तिनिरूपणम् ।।