वैयाकरणभूषणसारः (काशिकाटीकासहितः)/शक्तिनिर्णयः

विकिस्रोतः तः
वैयाकरणभूषणसारः (काशिकाटीकासहितः)
शक्तिनिर्णयः
[[लेखकः :|]]

तस्याः = शक्तेः । 'अनादित्यर्थोग्यते'त्यत्र न आदिर्यस्याः सेत्यर्थो बोद्धव्यः । सैव शक्तिरिति । बोधकारणतारूपैव शक्तिरित्यर्थः । परे तु-"अर्यासंबद्धस्य शब्दस्यार्थविषयकबोध- जनकत्वान्वयथानुपपत्त्याकल्प्यमानशक्तिरूपसंबन्धस्य बोधजनकत्वरूपत्वं न संभवति, आत्माश्रया- पत्तेः । शाब्दबोधरूपफलोपधायकत्वान्यथानुपपत्त्या शाब्दबोधस्वरूपयोग्यतात्मकतत्कारणतारूपा शक्तिः कल्प्यत इत्यभ्युपगमे नोक्तदोष इति चेत्, तथापि प्रमाणानां जनकत्वतद्धटितातिरिक्त- संबन्दस्यैव प्रमितिप्रयोजकत्वस्य क्लृप्ततयेह जनकत्वस्य तथात्वकल्पनमनुचितम्, अन्यथा वह्न्याद्यनुमितिजनकत्वमेव धूमादिनिष्ठं वह्निधूमयोः संबन्धः स्यात्, विशिष्टप्रतीतिनियामकस्यैव संबन्धतया जनकत्वस्य तदनियामकतया संबन्धत्वासंभवश्च, इच्छायास्तद्विषयत्वस्य च विशिष्ट- प्रतीतिनियामकत्वाभावेन संबन्धत्वासंभवो बोध्यः, तस्मात् पदार्थान्तरं शक्ति"रित्याहुः । नैयायिकः शङ्कते-नन्विति । इयं शङ्का 'पदार्थान्तरं शक्ति'रिति पक्षेऽपि बोध्या । आधुनिके = आधुनिकसंकेतिते । तदभावात् = अनादिशक्तेरभावात्, तथा च ततः शाब्दबोधो न स्यात् । ननु तत्र शक्त्यभावे मानाभावोऽत आह-अन्यथेति । अन्यथा = तत्र शक्तिसत्त्वे । पित्रादिसंकेतेति । यदि तत्र शक्तिः स्यात्तर्हि पित्रादिसंकेतज्ञानस्य तद्‌ग्राहकसामग्रीसत्त्वेन तद्‌ग्रहापत्तिः, न चेष्टापत्तिः, तद्‌ग्रहरूपकारणघटितसामग्र्या शाब्दबोधापत्तेरित्यर्थः । तथा च योग्यमानुपलब्धिरेव तदभावे मानमिति भावः । लाक्षणिकेति । तस्यापि बोधजनकतया तत्राप्यनादिशक्तिप्रसङ्ग इत्यर्थः । संकेतज्ञानमिति । संकेतस्येश्वेरेच्छारूपस्य तीरादौ लक्ष्ये गङ्गापदजन्यबोधविषयत्व- सत्तेवपि न गङ्गापदजन्यबोधविषयत्वत्वेन तीरांशे गङ्गापदजन्यबोधविषयत्वप्रकारकत्वमीश्व- रेच्छाया उपेयते, किं तु शुद्धविषयत्वत्वेनैव, तावतैव भगवदिच्छायाः सर्वविषयकत्वाव्याधातात्, तथा च तत्पदजन्यबोधविषयत्वत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन भगवदिच्छारूपसंकेत- प्रकारकज्ञानस्य शक्तिग्रहे हेतुत्वाङ्गीकाराल्लाक्षणिके तथाविधसंकेतज्ञानाभावेन शक्तिज्ञानसंभवेन शाब्दबोधोपपत्तेये लक्षणांग्रहस्य हेतुत्वं कल्प्यते, एवं च शक्तिग्राहकाभावेन लाक्षणिके तत्सद्भावे मानाभावेन न शक्तिरिति भावः । आधुनिके पित्रादेरिति । तत्र विशिष्य 'चेत्रादिपदजन्यबोधविषयो जायता'मिति भगवत्संकेताभावात्-तादृशसंकेतग्राहककोशाद्यभावात् । 'द्वादशेऽहनि पिता नाम कुर्या'दिति सङ्केतस्तु न विशिष्य तत्तत्पदविषयक इति सोऽकिंचित्कर इति सङ्केतमात्रं
शक्तिरिति भावः । स्वरुपेण हेतुरिति । स्वरूपसम् हेतुरित्यर्थः ।
अगृहीतशक्तिकादिति-बहुव्रीहिः,-पदमन्यपदार्थः, तत्पुरुषेणागृहीतशक्तिकादपि पदा- तत्पुरुषस्य शाब्दबोधापत्तिः, तद्धेतुशक्तेः सत्त्वादित्यर्थः । सामान्यतो ज्ञातः = येन केनचिद्रूपेण ज्ञातः । तज्ज्ञाने इति । ईश्वरादिसङ्केते इत्यर्थः । लौकिकेति । लौकिकाश्च मीमांसकादयश्चेत्यर्थः, लौकिकपदेन पामरा निरीश्वरवादिनो मीमांसका अत्र बोध्याः, आदिपदेन बौद्धादयः । ननु तोषामीश्वरसङ्केतत्वेन ज्ञानसंभवेऽपि संकेतत्वेन तज्ज्ञानं संभवत्येवेत्यत आह__तत्तदर्थबोधजनकत्वग्रहवतामेवेति । एवेन-सङ्केतत्वप्रकारज्ञानव्युदासः, तथा च सङ्केतत्वज्ञानासत्त्वेऽप्युक्तज्ञानाच्छब्दबोधोत्पत्त्या व्यभिचारात्संकेतत्वेन ज्ञानमपि न हेतुरिति भावः । अर्थधीजनकतेति । अयं भावः__बोधजनकत्वं बोधजनकत्वयोग्यता, सा च तदवच्छेदकधर्मवत्त्वं, स च क्लृप्तत्वादीश्वरादिसंकेत एव, तस्य संकेतत्वेन ज्ञानस्य व्यबिचाराद्धेतुत्वासंभवेऽपि बोधजनकतावच्छेदकत्वेन ज्ञानस्य हेतुत्वं संभवत्येव, व्यभिचाराभावादिति । तज्ज्ञानं = संकेतज्ञानम् । लाघवेनेति । जनकतावच्छेदककोटावर्थधी- जनकतावच्छेदकत्वस्यानिवेशेन लाघवम् । सङ्केतज्ञानादेवेति । 'एव'शब्दस्तदर्थबोधजनकत्व- ग्रहव्यावर्तकः । अस्य = तदर्थबोधजनतावच्छेदकत्वग्रहस्य । अवगाहनेनेति । सविषयकेच्छादिज्ञानस्य स्वविषयेच्छादेर्यदंशे यत्प्रकारकत्वं तदंशे तत्प्रकारकत्वमिति नियमेन तादृशेच्छाज्ञानस्य पदेऽर्थबोधजनकत्वप्रकारकत्वस्याक्षतेरिति भावः । स्वातन्त्र्येणेति । इतराविशेषणत्वेनेत्यर्थः । अत्र तु प्रकारत्वांशे तस्य विशेषणत्वं, बोधजनकत्वप्रकारकत्वस्येच्छायां प्रकारत्वादिति भावः । अन्यथा = स्वतन्त्रास्वतन्त्रसाधारणतज्ज्ञानमात्रस्य हेतुत्वे । तद्‌ग्रहापत्तेरिति । अर्थग्रहापत्तेरित्यर्थः, तत्रापि नञर्थाभावे विशेणतया बोधजनकत्वस्याव- गाहनात् । वाधेन = पदे वाधेजनकत्वाभावनिश्चयेन । पदे परेति । 'इदम्पदमेतदर्थ- बोधजनक'मिति ज्ञानवानयमिति ज्ञानवतोऽपि । तद्‌ग्रहेति । पदेऽरिथबोधजनकत्व- ग्रहानुदयादित्यर्थः । अन्यथा = तदभावनिश्चयसत्त्वेऽपि तत्र तद्वत्तावगाहिज्ञानाभ्युपगमे । भ्रान्तत्वापत्तेरिति । भ्रान्तिज्ञस्य__'रजतत्वाभाववाञ्शुक्त्यादिः रजतत्वेन रूपेणानेन गृहीत' इति ज्ञानावश्यकत्वेऽपि रजतत्वाभाववच्छुक्तिविशेष्यकरजतत्वप्रकारकज्ञानसंभवात्तस्यापि रजतत्व- भ्रमाश्रयत्वं स्यादिति भावः । ननु गङ्गापदेपि तीरबोधकत्वस्य सत्त्वेन तीरशक्तत्वमेव स्यादिति लक्षणोच्छेदापत्तिस्तामिष्टापत्तया परिहरति__नापीति । साधरण्यादिति । एवं च व्यवहारात्तत्रापि शक्तिग्रहएवेति भावः, एतेन__तत्र शक्तिग्राहककोशादेरभावान्न गङ्गापदादौ तीरादिनिरूपिता शक्तिरभिमतेति प्रत्युक्तं, शक्तिग्राहकशिरोमणेर्व्यवहारस्य सत्त्वात्, प्रसिद्धयप्रसिद्धिभ्या मुख्य- लक्ष्यव्यवहार उपपादनीयः । ननु व्यवहारस्य लक्षणाग्राहकतयोपत्तौ गङ्गादिपदे तीरादिवाच- कत्वप्रमाणिकम्, 'अन्यायश्चानेकार्थत्व'मिति न्यायविरुद्धं च, अत एव गङ्गापदस्य तीर पर्यायमध्ये कोशे न पाठ इत्यत आह__किं चेति । शाब्दबोधानङ्गत्वात् = तथोपस्थितिसत्त्वेऽपि अगृहीतशक्तिकस्य पुसंस्तेन शब्देन शाब्दबोधजननात्तस्यास्तदनङ्गत्वं बोध्यम् ।
शक्तिजन्येति । शक्तिज्ञानजन्येत्यर्थः, एवमग्रेऽपि बोध्यं । 'ज्ञायमानवृत्तेरुपस्थितहेतुत्व'मिति नये तु यथाश्रुतमेव साधु । गौरवमिति । ननु तीरादौ गङ्गादिपदवाच्यत्वव्यवहारभावेन तत्र शक्तिस्वीकारोऽनुचित इति लक्षणाख्यं वृत्त्यन्तरमवश्यमभ्युपेयं, तथा च कार्यकारणभावद्वय-
कल्पनागौरवं न दोषायेत्यत आह__अपि चेति । अथवा तीरादिबोधजनकता गङ्गादिपदनिष्ठाप्रवहबोधजनकतातो भिन्नेति निर्विवादमेव, एवं च तीरबोधजनकतायामप शक्तित्वसंबन्धकल्पने तव मतेऽपि गौरवं, शक्यसंबन्धरूपलक्षणा तु क्लृप्तैवेति न तत्कल्पनमधिकं, तज्जन्योपस्थितेः शाब्दबोधहेतुत्वमात्रं मया कल्प्यत इति नाधिकं गौरवं ; बोधजनकतात्वं तु न शक्तित्वम्, अनुमानादिविधया बोधजनकत्वेऽतिप्रसङ्गात्, तदतिरिक्तजनकतात्वस्य शक्तित्वोक्तौ तु गौरवमन्यायश्चेति न्यायत्यागोऽपि नेत्याह-अपि चेति । व्यभिचारः__व्यतिरेकव्यभिचारः । तमुपपादयति-शक्तीति । अव्येति । समवायघटितसामानाधिकरण्यविशिष्टाव्यवहितोत्तरत्वसंबन्धे- नेत्यर्थः । तेन चैत्रीयशक्तिजन्योपस्थित्यनन्तरं जायमानमैत्रीयशाब्दबोधस्याप्यव्यवहितोत्तरत्व- संबन्धेनोपस्थितिमत्त्वेन तदुपस्थितेर्मैत्रात्मन्यसत्त्वेऽपि न व्यभिचारः, मैत्रीयशाब्दबोधस्य चैत्री- योपस्थित्यसमानाधिकरणत्वेन कार्यतावच्छेदकानाक्रान्तत्वात्, समानाधिकरण्यसंबन्धमात्रेण तत्त- दुपस्थितिमत्त्वस्य कार्यतावच्छेदककोटौ निवेशे__पूर्वकाले, परकाले वोत्पन्ने तत्पुरुषीयलक्षणा- जन्योपस्थितिजन्यशाब्दबोधे-शक्तिजन्योपस्थितेरव्यवहितपूर्वक्षणः तदात्मन्यसत्त्वेन व्यभिचार इत्य- व्यवहितोत्तरत्वा'नुसरणम्, अव्यवहितपूर्वकालोत्पन्ने तथाविधशाब्दबोधे व्यभिचारो मा प्रसाङ्क्षीदित्यु'त्तरत्व' निवेशनं, व्यवहितात्तरालोत्पन्ने बोधे व्यभिचारव्यावृत्तयेऽव्यवधानांशो- पादानम् । अनन्तेति । उपस्थितीनामानन्त्येन तद्भेदेन कार्यकारणभावानन्त्यापत्तेरिति भावः । उक्तसंबन्धेन शक्तिज्ञानजन्योपस्थितिविशिष्टशाब्दत्वावच्छिन्नं प्रति तादृशोपस्थितित्वेन कारणता,__लक्षणाजन्योपस्थितिविशिष्टशाब्दबोधं प्रति तथाविधोपस्थितित्वेन कारणतेति__ कार्यकारणभावद्वयेनैवोपपत्तौ न तदानन्त्यप्रसक्तिरिति न शङ्क्यम्, उपस्थितेस्तत्तद्वयक्तित्वे- नोपादानमन्ताराऽव्यवहितोत्तरत्वस्य निर्वक्तुमशक्यत्वात्, तथाहि स्वध्वंसाधिकरणक्षणध्वंसा- नधिकरणत्वे सति, स्वाधिकरणक्षणध्वंसाधिकरणत्वमव्यवहितोत्तरत्वम्, इदं च द्वितीयतृतीयक्षण- साधरणं, क्षणद्वयस्य-स्वध्वंसाधिकरणी भूतो यः स्वतृतीयक्षणस्तद्‌ध्वंसानधिकरणत्वात्, स्वाधि- करणभूतो यः क्षणः__प्रथमक्षणस्तद्‌ध्वंसाधिकरणत्वाच्च । चतुर्थादिक्षणव्यावृत्तये सत्यन्तस्य, स्वपूर्वक्षणव्यावृत्तये विशेष्यदलस्योपादानम् । अत्र स्वपदं न शक्तिजन्योपस्थितित्वादिना तथाविधोपस्थितिसामान्यपरं, सर्वस्यापि क्षणस्य स्वपूर्वकालोत्पन्नतथाविधोपस्थितिध्वंसाधिकरण- क्षणध्वंसाधिकरणत्वेन तत्तदवच्छिन्नभिन्नत्वाभावात्, किं तु तत्तदुपस्थितिव्यक्तिपरम्, एवं चोपस्थितीनामानन्त्येन कार्यकारणभावानन्त्यं स्फुटमेव । व्यभिचारः__एकैकाभावे सत्यपरेणोपस्थितिजननात् । गौरवं__कार्यकारणबावद्वयकल्पने गौरवम् । पूर्वोक्तसंबन्धेन शक्तिज्ञानविशिष्टोपस्थिति प्रति शक्तिज्ञानत्वेन कारणता, एवं__लक्षणाज्ञानविशिष्टोपस्थिति प्रति लक्षणाज्ञानत्वेन कारणतोपगम्यते व्यभिचारवारणायेति चेदनन्तकार्यकारणभावकल्पनाप्रयुक्तमति- गौरवमित्यर्थः । तत्सूचयन्नाह__प्राग्वदिति । पदतदर्थेति । पदं च, तदर्थश्च तयोर्भेदेनेत्यर्थः । कल्पने गौरवमिति । घटपदधर्मिकघटरूपार्थबोधकत्वप्रकारकज्ञानत्वेन, कलशादिपदधर्मिकतादृश- ज्ञानत्वेन च घटविषयकोपस्थितित्वावच्छिन्नं प्रति कारणतेतिवद्__घटादिपदात्पटाद्युपस्थितेः परमते लक्षणाज्ञानजन्यत्वेनाभिमताया निर्वाहाय घटादिपदधर्मिकस्य पटाद्यर्थबोधकत्वप्रकारक- ज्ञानस्य पटाद्युपस्थिति प्रति कारणताभ्युपेया, लक्षणाङ्गीकर्त्रा तु-घटादिपदधर्मिकपटाद्यर्थ- बोधकत्वप्रकारकज्ञानस्य पटाद्युपस्थिति प्रति कारणत्वं न कल्प्यं, शक्तिसहकारेण घटादि-
पदात्पटादिबोधजननादिति भावः । तवापि__वैयाकरणस्यापि । व्यभिचारेति । घटपदधर्मिकपट- बोधकत्वज्ञानं विनापि पटपदधर्मिकपटबोधकत्वप्रकारकज्ञानात्, पटपटधर्मिकपटबोधकत्वज्ञानं विनापि घटपदधर्मिकपटबोधकत्वज्ञानाच्च पटशाब्दबोधजननादित्यर्थः । अव्यवहितेति कार्य- तावच्छेदकस्याव्यवहितोत्तरत्वघटितत्वे चेत्यर्थः । तथा च स्वसामानाधिकरण्यविशिष्टस्वा- व्यवहितोत्तरत्वसंबन्धेनैकैकज्ञानविशिष्टोपस्थितित्वावच्छिन्नं प्रति तत्तज्ज्ञानत्वेन हेतुत्वं स्वीकार्यम्, एवं तत्तदुपस्थितिकार्यतावच्छेदकशरीरेऽपि उक्तविशिष्टसंबन्धेन तत्तदुपस्थितिवैशिष्ट्यं निवेश्य- मन्यथा व्यभिचारापत्तेरिति भावः । सुतारामिति । तथाविधज्ञानामानन्त्येन कार्यकारणभावानन्त्या- पत्त्यातिशयितं गौरवमिति सूचनाय प्रकर्षप्रत्ययः ।
शक्तिभ्रमेति । सर्वशब्दानां सर्वार्थवाचकत्वमनभ्युपगच्छतापि शक्तिभ्रमसहकृतघटपदेनापि पटबोधाङ्गीकारात्तन्निर्वाहाय घटपदधर्मिकपटशक्तिज्ञानत्वेन पटोपस्थिति प्रति हेतुतावश्यं स्वीकार्येति तत्तत्पदं तत्तदर्थमन्तर्भाव्य कार्यकारणभावानन्त्यापत्तेस्तुल्यत्वादित्यर्थः । लक्षणा- कार्येति । लक्षणाज्ञानकार्यकारणभावेत्यर्थः । वृत्तिजन्योपस्थितित्वेनैवेति । वृत्तिज्ञानजन्योप- स्थितित्वेनैवेत्यर्थः, 'एव'शब्देन शक्तिज्ञानजन्योपस्थितित्वेन, लक्षणाज्ञानजन्योपस्थितित्वेन च हेतुत्वस्य च व्यवच्छेदः । मया वाच्यमिति । तथा मन्मतेऽपि एकैक एव कायकारणभाव इति न गौरवमिति भावः । शाब्दबोधहेत्विति । शाब्दबोधहेतुश्चासौ पदार्थोपस्थितिश्चेति कर्मधारयः, तथोविधोपस्थित्यनुकूलो यः पदपदार्थयोः संबन्धस्तत्त्वस्येत्यर्थः । गगनरूपार्थे शब्दस्य समवायसंबन्धेऽतिप्रसङ्गवारणायानुकूलान्तं संबन्धविशेषणमुपात्तम्, उक्तसमवायस्याप्याकाशोप- स्थित्यनुकूलत्वादुक्तदोषस्तदवस्थ इति 'हेत्वन्त'विशेषणमुपस्थितेरुपात्तम् । गौरवादिति । शाब्दबोधजनकतात्वरूपशक्तित्वापेक्षया शक्तिलक्षणाभिन्नभेदात्मक__शक्तिलक्षणान्यतरत्वरूपवृत्ति- त्वस्य, शाब्दबोधेत्यादिरूपस्य च गुरुशरीरत्वादित्यर्थः । पदार्थोपस्थितिवृत्तेरिति । पदार्थोपस्थिति- निष्ठस्य शाब्दबोधहेतुतावच्छेदकस्य वृत्तिज्ञानजन्योपस्थितित्वरूपस्य । असंभवादिति । शाब्द बोधानुकूलत्वं__शाब्दबोधकारणत्वं, तस्य च कारणतावच्छेदकरूपाऽपरिचये दुर्ग्रहत्वेन, उक्तहेतुतावच्छेदकस्य दुर्ज्ञेयत्वेन च कार्यकारणभावग्रहस्यासंभवादिति भावः । ममापीति । अस्य 'मते'इति शेषः । शक्तिज्ञानत्वेनैवेति । न तु शक्तिज्ञानत्वेन, लक्षणाज्ञानत्वेन चेत्यर्थः । हेतुतेति । शाब्दबोधं प्रति, तदनुकूलापदार्थोपस्थिति प्रति च हेतुतेत्यर्थः । तथा च नैयायिकादिनयेऽप्येकैक एव हेतुहेतुमद्भाव इति भावः । 'शक्यादशक्योपस्थितिर्लक्षणे'ति पक्षे लक्षणा न शक्तिघटिता, प्रवाहादिरूपो यो वस्तुतो गङ्गापदादिशक्यार्थस्तद्धेतुकतीराद्युपस्थितेरेव लक्षणात्वात्, नचोक्तज्ञानस्योपस्थिति प्रत्युपयोग इत्यत आह__शक्यसंबन्धरूपेति । अत्र शक्तेर्विशेषणविधयैव प्रवेशो, न तूपलक्षणतया, एवं च गङ्गापदशक्यप्रवाहसंबन्धितीरमित्याद्या- कारक एव लक्षणाग्रहे हेतुर्न तु प्रवाहसंबन्धितीरमित्याद्याकारक इति भावः । समानविषयत्वस्य = तत्प्रवेशस्य, तद्विषयकोपस्थितौ तन्निष्ठविषयतानिरूपितशक्तिनिष्ठविषयताकज्ञानहेतुत्व- स्यावश्यकत्वादिति पर्यवसितोऽर्थः । गङ्गापदशक्यसंबन्धि तीरमिति लक्षणाज्ञानस्य, शक्यसंबन्धसंसर्गकस्य गङगापदात्तीरमित्याकारस्य वा लक्षणाज्ञानस्य__तीरविषयकत्वे सति शक्तिविषयकत्वेऽपि__न तीरांशे शक्तिविषयकत्वमिति न शक्तिज्ञानविधया तीरोपस्थितिनिर्वाहकता- संभवः । अत्र 'शक्तिज्ञानपदार्थोपस्थित्यो'रित्युपलक्षणं,__शक्तिज्ञानशाब्दबोधयोरित्यपि बोध्यम् ।
समानविषयकत्वाप्रवेशे बाधकमाह__अन्यथेति । संबन्धाग्रहेति । तद्‌ग्रहदशायां तु 'प्रवोहो गङ्गापदशक्य' इति ज्ञानात्तीरबोध इष्ट एवेति तद्‌ग्रहानुसरणम् । ननु तद्विषयकोपस्थित्यादिकं प्रति तद्विषयकशक्तिज्ञानत्वेन हेतुत्वमुपेयं, न तूक्तरूपेणेति__न लक्षणाज्ञानादिनिर्वाहः, ? तस्यापि तीरविषयकत्वात्, उक्तशक्तिज्ञानदापत्तिश्च न, तस्य तीराविषयकत्वादित्याशङ्क्याह__अपि चेति । प्रथमस्मपणस्य,__घटमानयेति वाक्यविषयकत्वानुसरणं,__वक्ष्यमाणस्मरणस्य घटविषय- कत्वस्य पदजन्यत्वस्य च संपत्त्ये । तस्य हस्तिपकविषयकत्वसंपत्तये हस्तिविषयकत्वमनुससार । गजवाक्योभयविषयकप्रत्यक्षस्यासंभवात्-स्मरत इति । वस्तुतस्तु स्मरणस्यैकत्वमित्यत्र न निर्भरः, क्रमिकानेकवर्णघटितानेकपदघटितस्य प्रत्यक्षं न संभवतीति स्मरणमनुसृतम् । अत एव हस्तिनोऽपि तदेवादृतं, कल्पनालाघवात् । वृत्तिजन्यत्वेति । शक्तिज्ञानजन्यत्वसत्त्वादित्यर्थः । वृत्तिजन्यत्वोत्कीर्तनं तु वृत्तिजन्योपस्थितित्वेन हेतुत्वपक्षेऽपि दूषणमाविष्कर्तुमिति बोध्यम् । एतेनेति । उक्तस्थले हस्तिपकस्य शाब्दबोधापत्तिरूपदूषणेन ।
ननु शक्तिज्ञानप्रयोज्यतावच्छेदकविषयतासंबन्धेन तथाविधोपस्थितेर्विषयतासंबन्धेन शाब्द- बोधे हेतुत्वमभ्युपेयतेऽतो नोक्तसमूहालम्बनस्मरणाद्धस्तिपकशाब्दबोधापत्तिः, हस्तिपकनिष्ठविषय- ताया घटपदशक्तिज्ञानप्रयोज्यतावच्छेदकत्वाभावात्, घटनिष्ठविषयतायास्तु__घटपदशक्तिज्ञान- प्रयोज्यतावच्छेदकत्वादुपपद्यते घटस्य शाब्दबोधविषयत्वं, तीरादिनिष्ठविषयताया अपि गङ्गपदीयलक्षणात्मकशक्तिज्ञानप्रयोज्यतावच्छेदकत्वस्याक्षततया गङ्गापदात्तीरोपस्थित्या तीरस्य शाब्दबोधविषयत्वोपपत्तिरिति चेन्न, हस्तिपकनिष्ठविषयताया अपि हस्तिपकपदधर्मिकशक्तिज्ञान- प्रयोज्यतावच्छेदकत्वेनोक्तस्थले तस्य शाब्दबोधापत्तेर्दुवारत्वात् ।
ननु तत्तच्छब्दविषयकशक्तिग्रहप्रयोज्यतावच्छेदकत्वं विषयतायां निवेश्यमतो नोक्तदोषोऽत आह__प्रयोज्यत्वस्येति । अनतीति । 'घटपदं घटशक्त'मिति शक्तिग्रहवतः पुंसो घटाद्धटोपस्थितौ तेन स्वसमवाय्युपस्थिताकाशस्य घटपदजन्यशाब्दबोधविषयत्वापत्तिः, तत्रापि घटपदशक्तिग्रह- प्रयोज्यतावच्छेदकविषयतासंबन्धेन तथाविधोपस्थितेः सत्त्वादिति भावः ।
न च शक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यता- कज्ञानत्वेन शाब्दबोधहेतुत्वं स्वीक्रियते, शक्तिसंबन्धेन शक्यसंबन्धेन वा पदप्रकारकार्थविशेष्यक- ज्ञाने शक्तेः संसर्गत्वात्, शक्तित्वनिष्ठावच्छेदकतापर्याप्तेरनिवेशाच्छक्यसंबन्धेन पदप्रकारकज्ञान- स्यापि संग्रहः, शक्तिसंबन्धावच्छिन्नप्रतियोगिताकपदाभावप्रकारकनिश्चयप्रतिबध्यत्वं तु-शक्य- संबन्धसंसर्गकपदप्रकारकज्ञानस्य न, पदप्रकारतानिरूपितशक्तिनिष्ठसांसर्गिकविषयताया अर्थ- निष्ठविशेष्यतानिरूपितत्वाभावात्, तन्निष्ठविशेष्यातानिरूपिततत्संबन्धनिष्ठसांसर्गिकविषयतानिरू- पिततन्निष्ठप्रकारताकबुद्धि प्रत्येव सद्धर्मिकतत्संबन्धावच्छिन्नप्रतियोगिताकतदभावनिश्चयस्य प्रति- बन्धकत्वात्, अन्यथा संयुक्तसमवायसंबन्धेन घटवत्ताबुद्धिरपि संयोगन घटाभावनिश्चये सति न स्यात् । इत्थं च न लक्षणाज्ञानस्य शाब्दबोधं प्रति पृथक्‌कारणत्वकल्पनापत्तिः, न वोक्तसमूहालम्बनस्मरणाद्धस्तिपकस्य शाब्दबोधापत्तिः, न वाकाशस्योक्तस्थले शाब्दबोधापत्तिश्चेति वाच्यं, शक्तिसमानकालिकपटपदसमवायसंबन्धेन घटपटप्रकारकाकाशादिविशेष्यकज्ञानादाकाशादेः शाब्दबोधापत्तेर्दुवारत्वात्, न चेष्टापत्तिः, अननुभवात्, परम्परासंबन्धस्तु न लक्षणात्वेन वृद्धसंमतः, अत एव काव्यप्रकाशकृद्भिः__'बाधो योगः फलेन नो' इत्युक्तम्, अन्यथा शैत्यपावनत्वादावपि तीरस्य स्वसंयुक्तसमवेतत्वरूपपरम्परसंबन्धस्य सत्त्वेन तदसंगतिः स्पष्टैव । ननु शक्यसंबन्ध- ज्ञानादेव यत्र तीरपस्थितिस्तत्र सर्वानुभवसिद्धबोधनिर्वाहाय लक्षणाज्ञानकारणत्वकल्पनं शाब्दिकस्यावश्यकमिति परमतेऽपि न प्राक्तनगौरवावकाश इति चेन्न, तत्रापि गङ्गापदं तीरबोधकमिति ज्ञानान्तरमेव तीरशाब्दबोधाङ्गीकारात् । न च तादृशज्ञानव्यक्तिकल्पनागौरवम्, फलमुखत्वेन तस्यादोषत्वात् । अन्येतु__वस्तुतस्तु सुषुप्त्यपगमक्षणमारभ्य पुनस्तदुत्पत्तिक्षणपर्यन्तं प्रत्यक्षात्मगुणोऽवश्यं वाच्यः, अत एव सुषुप्तिकालभिन्नस्य तथाविधगुणशून्यकालस्य मूर्च्छात्वमुच्यते, तथा च तादृशकाले ज्ञानाद्यावश्यकतया ज्ञानाद्यन्तरस्थाने इदमेव कल्प्यते इति क्क गौरवमिति वदन्तीति संक्षेपः, तदेतदिभिप्रेत्याह__विस्तरेण प्रपञ्चितं भूषणे इति ।। 37 ।।

का : 38
एवं = बीधजनकस्य शक्तित्वे । 'ईश्वरेच्छा शक्ति'रिति मते तु तत्तत्पदपदार्थसंबन्धत्वविशे-
षितेच्छाया एव शक्तित्वम् । एवं च गगरीशब्दाद्‌बोधोत्पत्त्या गगरीशब्दाद्धटबोधो जायतामितीच्छाया आवश्यकत्वेऽपि तस्या न गगरीशब्दसंबन्धत्वं कल्प्यते, तदनुग्राहककोशाद्य- भावान्नापभ्रंशे शक्तिप्रसङ्गः । एवं 'पदार्थान्तरं शक्ति'रिति मतेऽपि न तत्र सा कल्प्यत इति भावः । द्विधा = प्रकारद्वयेन, अपभ्रंशानां साक्षाद्‌बोधकत्वानभ्युपगम एकः प्रकारः, वाचकत्वे इष्टापत्तिरित्यपरः, तत्राद्यं समाधानं नैयायिकादिमतेन, द्वितीयं स्वमतेनेति विवेकः । अनुमाय = स्मृत्वा । अत एवाग्रे'तेषां साधुस्मरण एवोपयोग' इति वक्ष्यति । नन्वेवं तस्य वाचकत्मनुपपन्नं, साक्षाद्बोधकत्वस्यैव वाचकत्वरूपत्वादत आह__वाचको बोधक इति ।
साक्षात्तद्वाचकत्वमिति । साक्षात्तद्बोधकत्वरूपं तद्वाचकत्वमित्यर्थः । तादात्म्यमुपगम्ये- वेति । अर्थतादात्म्यं गगर्यादिशब्दे गृहीत्वेवेत्यर्थः । ग्रहस्य भ्रमत्वसूचनाय 'इवे'ति । तेन तेषामवाचकत्वं ध्वनितम्, तद्वाचक एव हि तत्तादात्म्याभ्युपगमात् । एतेन शक्तिभ्रमात्ततो बोध इति च सूचितम्, न च पामराणां शक्त्यग्रहे कथं शक्तिभ्रम इति वाच्यं, गगरीशब्दं श्रृण्वतः पुंसः साधुस्मरणाद्बोधेऽपि तटस्थस्य गगरीशब्दजन्य एवास्य बोध इति भ्रमेणाऽऽद्यस्य शक्तिभ्रमोऽन्येषां तन्मूलकस्य तद्भ्रमस्य संभवात् । न शिष्टैरिति । 'शिष्टैः-साधवः पर्याया इवापभ्रंशा नानुगम्यन्त' इति योजना, पर्यायसमुदाये न संगृह्यन्त इत्यर्थः । नयतः = अर्थ बोधयतः__साधुशब्दस्य, स्मृतिमात्रेण__अस्य 'अर्थबोधोपपत्ति'रिति शेषः । बंबंबेति । शिक्ष्यमाणो बालो 'बं बं बे'त्यव्यक्तं यदा प्रभाषते, तद्विदां = साधुशब्दं जानतां, व्यक्ते = साधुस्वरणे सति, निश्चयः = अर्थनिश्चयो भवतीत्यर्थः । असाधोः साधुप्रकृतिकत्वात् सादृश्येन तत्स्मरणमिति भावः । अत्र 'बं बं बे'ति पाठ एव युक्तो, न त्व'म्बाम्बे'ति , तस्य साधुत्वात् ।
पूर्वकारिकां व्याचष्टे__एवं साधाविति । साधुव्यवहितः = साधुस्मरणपूर्वकः । 'व्यवहारादे'रित्यादिपदादप्तवाक्यसंग्रहः । पर्यायतुल्यता-यथा सर्वेऽप्यनेकपर्याया एकस्यार्थस्य वाचका अविशेषात्तथापभ्रंशा अपीत्यर्थः । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाह__तेषामिति । पर्यायाणामित्यर्थः । एकत्वादिति । अत एव विनिगमनाविरहः, अन्यथा य एव पर्यायः सर्वदेशेषु प्रसिद्धस्तत्रैव शक्तिः सिध्येदिति भावः । तथा = सर्वदेशेषु एकता, तेषां देशभेदेन भिन्नत्वात्, अत एव 'वाचो यत्र विभिद्यन्ते तद्देशान्तरमिष्यते' इति स्मर्यते । अन्यथेति । अपभ्रंशानामवाचकत्वे चेत्यर्थः । तेषां वाचकत्वे तु तद्वयावर्तनायान्यविधमेव तद्वक्तव्यमिति भावः । न च लाक्षणिकासंग्रहः, तेषामपि क्कचिच्छक्तत्वात्, वृत्तिमत्त्वं वा तदर्थो बोध्यः । अविदुषामिति । तत्तदर्थबोधकत्वेन ग्रहशून्यानामित्यर्थः, एवं च तत्तच्छब्दत्वादिना पूर्वमनुभवेऽपि नेष्टसिद्धिः, तथानुभववतां तथाविधस्मरणसंभवेऽपि तस्य शाब्दबोधानुपयुक्तत्वात्, तत्तदर्थबोधकत्वेन स्मरणस्यैवोपयोगित्वादिति भावः । एतदभिप्रायेणैवाह__तेषामिति । पामराणामित्यर्थः, अपभ्रंश- मात्रव्युत्पन्नाः__पामराः । किं बोधकत्वरूपशक्तेर्भ्रमोऽभित उतेच्छारूपायाः ? तत्र नाद्य इत्यत आह__बोधकत्वस्येति । तत्तदर्थबोधजनकत्वस्येत्यर्थः । अबाधेनेति । 'नेदं तदर्थबोधक'मिति बाधनिश्चयाभावेनेत्यर्थः । बाधाभावादिति । गगर्यादिशब्दादपि घटादिरूपार्थबोधजननेन 'घटो गगरीशब्दजन्यबोधविषयो जायता'मितीश्वरेच्छावश्यकी, अन्यथा घटनिष्ठगगरीशब्दजन्यबोध- विषयत्वस्येश्वरेच्छाऽविषयतया तस्याः सर्वविषयकत्वानुपपत्तिः । न च तस्य सुद्धविषयतात्वेनैव घटांशे गगरीशब्दजन्यबोधविषयत्वप्रकारकत्वमिच्छाया उपगम्यते, न तु तच्छब्दजन्यबोध-
विषयतात्वेन, तावतापि तस्याः सर्वविषयकत्वानुपपत्तिरिति वाच्यं, घटनिष्ठविशेष्यतानिरूपित- प्रकारतावच्छेदकघटकतया तदनवगाहित्वेऽपि स्वातन्त्र्येण बोधांशे तदवगाहित्वोपगमात् । तत्त- च्छब्दजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन संबद्धेश्वरेच्छा शक्तिः, सा चैवं सति तत्र न संभवति, अथवा पदपदार्थसंबन्धत्वविशिष्टा तथाविधेश्वरेच्छा शक्तिः गगरीशब्दसंबन्धत्ववैशिष्ट्यं तु तस्या नाङ्गीक्रियत इति न तत्र शक्तिसंभव इति वाच्यं, ततोऽपि बोधोत्पादानुभवेन तत्रापि गगरीशब्दजन्यबोधविषयतात्वेन रूपेण तत्प्रकारकत्वस्येच्छाया अवश्याभ्युपेयत्वात्, गगरीशब्दघटैतदुभयसंबन्धत्ववैशिष्ट्यस्य वावश्यं स्वीकार्यत्वादिति तात्पर्यम् ।
पदार्थपदविशेषघटिताया इति । तत्तत्पदजन्यबोधविषयत्वप्रकारतानिरूपितार्थनिष्ठ- विशेष्यताकेच्छाया एव शक्तित्वेन गगरीशब्दजन्यबोधविषयत्वप्रकारिका घटविशेष्यिकेच्छैव शक्तिः, प्रकृते वाच्या, सा यद्यस्ति, न तर्हि तद्भ्रमः, यदि नास्ति, तर्हि सुतरां न तद्भ्रमः सिध्यति, क्कचित्प्रसिद्धस्य स्वविरहिणि ज्ञानस्यैव भ्रमत्वात् । अथ तत्तच्छब्दविशेष्यिका तत्तदर्थबोधजनकत्वप्रकारिकेच्छापि शक्तिविनिगमनाविरहात्, तथा च गगरीशब्दे घटबोधजनकत्व- प्रकारिकाया इच्छाया विषयतया घटशब्दे प्रसिद्धाया भ्रमः संभवतीति चेन्न, घटबोधकत्वप्रकारिकेच्छामात्रस्य शक्तित्वाभावेन तद्भ्रमस्यानुपयुक्तत्वात् । विगुणेषु = साधुशब्दे व्युत्पत्तिविधुरेषु । अभिधातृषु = वक्तृषु । व्यवकीर्णा = अन्यथाकृता, अपभ्रंशीकृतेति यावत् । अनित्यदिर्शिनां त्विति । 'कार्याः शब्दा' इति मते शास्त्रमात्रसमधिगम्यमर्थबोधकत्वमित्यपभ्रंशेषु शास्त्रेषु तद्‌ग्राहकस्याभावात्साधव एव वाचका नापभ्रंशा इति भवति भ्रम इति भावः ।
वाचकत्वस्य पुरुषभेदनियन्त्रितत्वाभावा'त्तेषां साधुरवाचक' इत्ययुक्तमत आह__अवाचको- ऽबोधक इति । ननु तत्पदजन्यबोधविषयत्वप्रकारिकेच्छैव शक्तिः, एवं तदर्थबोधजनकत्व- प्रकारिकेच्छा, आद्या शब्दघटिता न त्वर्थघटिता, चरमा त्वर्थघटिता, न तु शब्दघटिता, तथा च चरमाया विलक्षणविषयतासंबन्धेन गगर्यादिशब्दे भ्रमः संभवत्येवेत्यनुशयन आह-किं चेति । सर्वत्रैकत्वेनेति । महाराष्ट्रसंचारयोग्येष्वेकरूपत्वेनेत्यर्थः, तेन यावनाददेशेषु तदसत्त्वेऽपि न क्षतिः । संस्कृतशब्दस्यापि तत्रासत्त्वाच्च । पर्यायेष्विवेति । नानापर्यायनिष्ठा नानानुपूर्व्यो यथा शक्तितावच्छेदिका अङ्गीक्रियन्ते, तथापभ्रंशनिष्ठा अपि ताः शक्ततावच्छेदकत्वेन स्वीक्रियन्ताम- विशेषादित्यर्थः । साधूनामेव । न तु वाचकमात्रस्येत्यर्थः । अत एव "समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः" इति पस्पशाह्निके भाष्ये उक्तं, तत्र समानत्वं-शब्दान्तर- स्मरणापूर्वकत्वेन, अन्यथाऽव्यावर्तकतदुपादानस्य नैरर्थक्यापत्तेः । किं च यादृशं साधुशब्दानां हेतुत्वं तादृशमेवापशब्दानामपि स्वरसतः प्रतीयते, न तु व्यवहितं, तदुपमृद्येतासाधोरवाचकत्वाभ्यु- पगमे । न चैवमार्यम्लेच्छाधिकरणविरोधः-तत्र हि पीलुशब्दं वृक्षविशेषे आर्याः प्रयुञ्जते, तमेव बुध्यन्ते, अनार्यरूपम्लेच्छा गजे प्रयुञ्जते, तमेव प्रतियन्ति, एवं यवशब्दो दीर्घशूके, तद्भिन्नस्तु कङ्गौ, तत्रार्यप्रसिद्धेर्वलवत्त्वात् पीलुशब्दो वृक्षे एव शक्तो, न तु गजे, यवशब्दो दीर्घशूक एव न तु कङ्गाविति__सिद्धान्तितं-तद्विरुध्यत इति वाच्यम्, आर्यप्रसिद्धेर्वलवत्त्वाद्वेदे यवपदस्य दीर्घशूकपरत्वमेव न तु शक्तिसत्त्वेऽपि प्रियङ्गुपरत्वमिति सिद्धान्ताशयस्य वर्णनीयत्वात् । 'शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते, विकार एव आर्या भाष्यन्ते' इत्यादिभाष्यान्निरुक्ताच्च यथा शवत्यादीनां नियतविषयत्वं तथा वेदे तत्परत्वमेव यवशब्दस्येति कल्पनाया उचितत्वात्, शक्तिः
पुनरुभयत्र जागर्त्येव, अनार्ये प्रसिद्धेऽर्थे अशक्तत्वेऽसाधुत्वे वा तात्पर्ये मानाभावात् । जैमिनिरपि सूत्रयावभूव__'तेष्वदर्शनाद्विरोधस्य समा विप्रतिप्रतिः स्या'दिति । यवशब्दे उभयथा शब्दार्थावगमाद्विकल्पः स्यादिति तदर्थः । एवं पूर्वपक्षयित्वा सिद्धान्तसूत्रमाह-'शास्त्रस्थानां तन्निमित्तत्वात्' इति । शास्त्रस्थानां = शास्त्रनिष्णातानां__शिष्टानां,शब्दार्थे, वेदे इति शेषः, तेषां स्मृतिरविच्छिन्ना स्मृतिः, शब्देषु वेदेषु च ते शिष्टा हि श्रुतिस्मृतिधारणे निमित्तमित्यर्थः । अपभ्रंशानां वाचकत्वादेव__वाचकस्य व्यञ्जकत्वे 'माएधरोव अरण'मित्यादि भाषोदाहरणं काव्यप्रकाशकृतामाञ्जस्येन संगच्छते इत्यलं विस्तरेण । पुण्यजननेत । तदुक्तमेकः पूर्वपरयोरिति सूत्रे भाष्ये-' एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवती'ति । इयं श्रुतिरिति प्राञ्चः । स्मृतिरित्यन्ये । पापजननेति । पापजनकोऽसाधुशब्दप्रयोग इति बोधनाय'न म्लेच्छितवा' इति निषेधः, विषेधेन निषेध्येऽनिष्टबोधनादिति भावः, अयञ्च निषेधो याज्ञे कर्मण्येवेति पस्पशाह्निके भाष्यादौ स्पष्टं, निरूपितं चैतत्प्रागाख्यातार्थविचारे । पुण्यजननेति । तत्त्वरूपयोग्यत्वरूपं पुण्यजनकत्वमित्यर्थः, एवमग्रे़ऽपि । कोशादीति । आदिपदमाप्तवाक्यादि- संग्रहाय । व्यकरणादीत्यादिपदमुपमानसंग्रहाय, कोशादेः साक्षात्प्रातिपदिकशक्तिग्राहकतया प्रथमतस्तदुपादानं, प्रायः कोशादित एव शक्तिग्रहाच्च । ब्राह्मणे फलेति । 'राजा राजसूयेन यजेते'त्यत्र राजपदस्य रूढ्या क्षत्रियार्थकतया ब्राह्मणस्य तदनधिकारित्वान्त्तेन कृते तत्र फलाजनकत्वमित्यर्थः । नाश्वादौ साधुत्वमिति । अर्थविशेषनिबन्धनत्वात्साधुत्वस्येति । पर्यवसितमिति । अपभ्रंशास्तु न तदर्थे व्युत्पन्ना इति न साधव इति भावः । गौणानामिति । 'सिहो माणवक' इत्यादौ सिंहादिशब्दानां क्रौर्यादिगुणयोगात् पुरुषे आगतानां = प्रवृत्तानामित्यर्थः, 'तत्र आगतः' इत्यण् । गुणे = गोत्वादिधर्मे । तत्पुरस्कारेण = तत्तद्धर्मपुरस्कारेण, शक्यतावच्छेदकधर्मारोपेणेति यावत् । आरोपे निमित्तं तु क्रौर्यादिगुणयोगः, 'सिहो माणवक' इत्यादौ सिंहत्वादिरूपेण माणवकादेर्भानमिति भावः, 'गङ्गायां घोष' इत्यादावप्येवम् । स्पष्टं चेदं काव्यप्रदीपोद्योते । 'क्रूरो माणवक' इत्याकारकबोधभ्युपगन्तृनये तु इदं न संगच्छते, सिंहादिशब्दानां क्रौर्याद्यवाचकत्वात् । गुणवाचकशुक्लादिशब्दपरत्वेन प्रकृतग्रन्थयोजने तु 'गङ्गायां घोषः' 'सिंहो माणवक' इत्याद्यसंग्रहापत्तिः । आधुनिकेति । शक्यतावच्छेदकातिरिक्त- रूपेण बोधकतात्पर्यकाणां लाक्षणिकानां त्वित्यर्थः । लक्षणयाप्यसाधुरिति । अत एव कर्मादौ षष्ठ्यादेरनुशासनं चरितार्थनित्यन्यत्र विस्तरः, अपभ्रंशानां वाचकत्वेऽपि न प्रातिपदिकसंज्ञा, साधुत्वस्याप्युद्देश्यतावच्छेदकत्वात्, अत एव 'सिद्धे शब्दार्थसंबन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः' इति वार्तिककृतोक्तम्, 'साध्वनुशासनेऽस्मिञ्शास्त्रे' इति च भाष्ये उक्तम् । एवं साधुत्वज्ञानस्य शाब्दबोधे हेतुत्वमसाधुत्वनिश्चयस्य प्रतिबन्धकत्वं वेति कथं तेभ्यो साधुत्वग्रहवतां बोध इति न शङ्क्यं, साधुत्वज्ञानविरहिणामसाधुत्वनिश्चयवतामपि शाब्दानुभवात्, साधुत्वज्ञानस्य हेतुत्वादसाधुत्वनिश्चयस्याप्रतिबन्धकत्वाच्च, तदेतदभिप्रेत्याह-विस्तरेणेति ।। 38 ।।

का : 39
अतिरिक्तेति । इच्छाविशेषातिरिक्तेत्यर्थः, सा पुनर्बोधजनकतारूपा, पदार्थान्तररूपा वा
भवतु । संबन्धो विषय इति । तज्जन्यप्रतिपत्तिविषयः । तथा च 'संबन्धशब्दे संबन्ध' इत्यस्य संबन्धशब्दवाच्यः संबन्ध इत्यर्थः, एवं योग्यतां प्रतीत्यादेरर्थो बोध्यः, 'संबन्ध' शब्दस्य 'योग्यता'शब्दस्य चार्थप्रदर्शनस्य प्रकृतोपयोगमाह-घटपदमित्यादिना । अत्र योग्यं = घटरूपार्थे योग्यं, तद्विषयकबोधजननयोग्यमिति यावत् । एतत्संबन्धीति । घटसंबन्धीत्यर्थः सा = शक्तिः । तथा च प्राथमिकशक्तिग्रह उक्तव्यवहाराद्भवति, तत्र च संबन्धादिशब्दशक्तिग्रहोऽपेक्षितो- ऽतस्तदर्थप्रदर्शनं कृतं, तत्र दृष्टान्तो-मातेति । 'योग्यव'दिति पाठे मात्रादियोग्यः = तत्प्रतियोगिकत्वादविशिष्टः, संबन्धो, यथा लोकव्यवहाद् गृह्यते तथेत्यर्थः, 'योगव'दिति पाठस्तु सम्यगेव । परे तु -संबन्धशब्दे [सम्बन्धो] योग्यतां प्रति बोधजनकतावच्छेदकधर्मरूपयोग्यता- निरूपितो यस्तादात्म्यलक्षणः संबन्धः स एव योग्यता, सा च स्वाभाविक्येवानादवृद्धव्यवहार- परम्परापरपर्यायो योऽस्मदादिसमयस्तेन गृहितेनोक्तेश्वरसमयान्निश्चीयते, यथा मातापुत्रयोर्जन्य- जनकभावलक्षणसंबन्धो व्यवहारान्निश्चीये तथेत्यर्थः, न तु जनकत्वमेव योग्यता, 'एतज्जननेऽयं योग्य' इति व्यवहारादित्याहुः । अत्र कल्पे-'संबन्धशब्द' इत्यस्य-संबन्ध्यत इति संबन्धः, कर्मणि घञू__तत्तदर्थे संबद्धो घटादिशब्द इत्यर्थो बोध्यः, संबन्धशब्दो योग्यतां प्रति संबद्धो योग्यतेति कारिकायां योजना बोध्या । अथवा 'इदं पदमेतदर्थसंबन्धी'त्यत्रत्यसंबन्धशब्द इत्यर्थः, इत्थं च संबन्धशब्दो-भावघञन्त एव, संबन्धो योग्यतेत्यस्य योग्यताविषय इत्यर्थ इति दिक् ।।
* इति शक्तिनिर्णयः ।। 6 ।। *