वैयाकरणभूषणसारः (काशिकाटीकासहितः)/नामार्थनिर्णयः

विकिस्रोतः तः
वैयाकरणभूषणसारः (काशिकाटीकासहितः)
नामार्थनिर्णयः
[[लेखकः :|]]

सकलनाममूलभूतधात्वर्थ तत्प्रकृतिकतिङ्थास्तत्प्रसङ्गेन सुबर्थाश्च निरूप्यावसरसंगत्या नामार्थान्निरूपयतीत्याशयेनाह-नामार्थानिति । प्रातिपदिकार्थानित्यर्थः । एकादिशब्दानां साधारण- तयानभिमतार्थपरत्वशङ्कानिवृत्तये प्रकृते विवक्षितानार्थानाह-एकं जातिरित्यादिना । गौरादिति । अनेकव्यक्तिषु शक्तिकल्पने, जातौ च तत्कल्पने तत्र शक्यतावच्छेदकत्वस्य वा कल्पने गौरवादित्यर्थः । न च जातिशक्तिमतेऽपि जातिगतगोत्वत्वादिधर्मे शक्यतावच्छेदकत्वमङ्गी- करणीयम्, एवं च तस्य गवान्यासमवेतत्वे सति सकलगोसमवेतत्वरूपस्य शक्यत्वमावश्यकमिति विपरीतं गौरवमिति वाच्यम् । अत्रालक्ष्यस्यापि लक्ष्यातावच्छेदकत्ववत् अशक्यस्यापि शक्यता-
वच्छेदकत्वसंभवाद्, गुरुभूतेऽवच्छेदकत्वस्वीकारप्रयुक्तं गौरवमित्यपि न, शब्दार्थयोस्तादात्म्या- च्छब्दगतजातेरेव शक्यतावच्छेदकत्वात्, तद्वृत्तिधर्मस्याऽऽविद्यकधर्मविशेषरूपत्वाद्वा, गोत्वत्व- मित्यादौ तस्यैव त्वादिप्रत्ययार्थत्वं न तु गवेतरासमवेतत्वघटितस्य, गौरवादिति स्पष्टमन्यत्र ।
व्यत्तयन्तरे लक्षणायामिति । स्वीक्रियमाणायामिति शेषः, तत्स्वीकारश्च व्यक्त्यन्तरबोधान्य- थानुपपत्त्यावश्यकः । स्वसमवेतेति । शक्यत्वेनाभिमतव्यक्तिविशेषः स्वपदार्थः । इति लाघवमिति । तथा चोक्तलाघवं विनिगमकमिति न विनगमनाविरह इति भावः । उपजीव्यत्वादपि जातिरेव वाच्येति युक्तमित्याह-नागृहीतेति । 'नागृहीतविशेषणा बुद्धिविशेष्यमवगाहत' इति न्यायशरीरं, विशिष्टबुद्धि प्रति विशेषणज्ञानस्य हेतुतयागृहीतविशेषणा एतादृशी बुद्धिर्न विशेषणाविशिष्ट- विशेष्यविषयिणी भवति । नञ्द्वयेन प्रथमतो विशेषणविषयकग्रहस्यावश्यकत्वं सूचितम् । तदिदमुक्तं भट्टैः__
'विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे' । इति ।
नन्वेवं व्यक्तिबोधो न स्यात् । न चाक्षेपात् पीनो देवदत्त इत्यत्र रात्रिभोजनवदिति वाच्यम्, प्रकृतिवृत्त्यनुपस्थिततया गां दद्यादित्यादौ व्यक्तौ कर्मत्वाद्यन्वयानुपपत्तेः । प्रत्ययानां प्रकृत्यर्थान्वितेत्यादिव्युत्पत्तेः । पदार्थन्तरान्वयश्च तत्र न स्याद् वृत्तिग्रहविशेष्ये एव तदन्वयात् । अन्यथा समवायेनोपस्थिताकाशेऽपि तदन्वयापत्तेः । उक्तं हि तद्भूताधिकरणे__
'गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैविभक्त्या वा धूमोऽयं ज्वलतीतिवत् ।।' इति ।
विशेषणं, विशेषणीभूतव्यावर्तनं विशेषणताख्यविषयतावत्तया प्रतिपादनं वा तदर्थः । किं चापत्तिरूप आक्षेपोऽपि न संभवति । गां दद्यादित्यादितोऽनुपपत्तिज्ञानं विनापि बोधदर्शनात् । समानवित्तिवेद्यत्वमेवाक्षेप इति गुरवो मेनिरे । तथा चोक्तं तैः-यावती हि जातिधीर्व्यक्ति विषयीकरोति, अतो जातिभासकसामग्र्या एव व्यक्तिभासकत्वमङ्गीकार्यम् । व्यक्तिप्रत्यक्षं विना जातिप्रत्यक्षाभावेन तत्रैवैतन्नियमावधारणात्, तथा च जातिशक्तिज्ञानमेव व्याक्तिविशेष्यकजाति- प्रकारकशब्दबोधं प्रति कारणमिति पर्यवसन्नमिति, तदपि न । एवं सति गोत्वमस्तीत्यतो गोत्व- त्वविशिष्टबोधापत्तेः । लक्षणैवाक्षेपपदार्थः । एवं च तयोपस्थितव्यक्तौ विभक्त्यर्थाद्यन्वयः संभव- त्येवेत्यन्ये, तदपरे न क्षमन्ते__लक्षणायाः शक्यान्वयानुपपत्तिज्ञानाधीनतयोक्तदोषकवलितत्वादित्यत आह__व्यक्तिबोधस्त्विति । लक्षणयेति । निरूढलक्षणयेत्यर्थः । तत्र च नान्वयाद्यनुपपत्ति- ज्ञानापेक्षेति भावः । लक्षणयेति__जातिव्यक्त्योरभेदस्याप्युपलक्षणम् । तदुक्तं भट्टैः__
'तेन तल्लक्षितव्यक्तेः क्रियासंबन्धबोधना ।
व्यक्त्याकृत्योरभेदो वा वाक्यार्थेषु विवक्षितः ।।' इति ।
'तद्धितार्थ-' इति सूत्रे भाष्ये उक्तम्-' अथवा व्यतिरेकाद् द्रव्याकृत्योर्द्रव्यानयनम्' इति । गोत्वादिपदं तु गोत्यादिवृत्तिधर्मशक्तमिति न ततो गोत्वविशिष्टविषयकबोधः । नन्विदमसंगतं__' शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा ।'__
__इति नियमाल्लक्षणया शक्यगोत्वप्रकारकव्यक्तिविशेष्यकबोधानिर्वाहादिति चेन्न, एतन्नियमे मानाभावात् । शुक्लमानयेत्यादितो लक्षणया शक्यशुक्लरूपादिप्रकारकव्यक्तिविशेष्यकबोधोदयेन व्यभिचाराच्चेत्यभिप्रेत्याह__दिगिति । एतदभिप्रेत्यैव 'सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात्' इति वार्तिकं संगच्छते । सरूपसूत्रे भाष्येऽप्युक्तम्__'आकृति वाजप्यायनः' इति । अपरे मीमांसकास्तु__यथा व्यक्तिशक्तिमते गोत्वाद्यंशे शक्तिस्तदवच्छेदकता वा निरवच्छिन्ना, तथा जातिशक्तिमतेऽपि सा निरवच्छिन्नैवेति न गोत्वत्वादिनिवेशप्रयुक्तगौरवशङ्कापि । अत एवैतन्मतेऽपि स्वरूपतो गोत्वादिभाननिर्वाहः शाब्दबोधे । ननु गोत्वत्वादेः शक्यतावच्छेदकत्व- विरहेऽपि शक्तिग्रहकारणतायां गोत्वत्वादेर्धर्मितावच्छेदकताख्यविषयताप्रवेशाद् गौरवं दुर्निवारमेव, व्यक्तिशक्तिवादिमते स्वरूपतो गोत्वादिनिष्ठधर्मितावच्छेदकत्वस्यैव निवेशादिति चेन्न । निरूपितत्वसंबन्धेन स्वरूपतो गोत्वप्रकारकस्य गोपदविशेषणत्वापन्नशक्तिविशेष्यकस्य गोपदशक्तिर्गौरित्याकारस्य, शक्तिसंबन्धेन स्वरूपतस्तत्प्रकारकगोपदविशेष्यकस्य गोपदं गौरित्याकारकस्य वा शक्तिज्ञानस्यैव कारणत्वोपगमात् । तत्र च गोत्त्वादिविषयताया अप्रवेशात् । समवायेनैव स्वरूपतः प्रकारत्वमिति नियमस्तु न, घटं जानामित्याद्यनुव्यवसाये प्रकारितासंबन्धेन घटत्वादीनां स्वरूपतो ज्ञानाद्यंशे प्रकारोपगमादिति दिगिति समूचुः । अस्मिन् मते दूषणमुद्भावयन् व्यक्तिशक्तिमते साधकं वदंश्चैकपदस्य व्यक्तिपरत्वमाह__यद्वेति । केवलव्यक्तिरेवेति । एवशब्दव्यावर्त्या__जातिः । केवलशब्देनैव तद्वयावृत्तिसिद्धावेवः स्पष्टार्थः । केवलव्यक्तिपक्ष एवेति । जातिविशिष्टव्यक्तेः पदार्थत्वमते तु तज्जात्यवच्छिन्नविशेष्यताकशक्ति- ग्रहत्वेन तज्जातिप्रकारकतदाश्रयविशेष्यकशब्दत्वावच्छिन्नं प्रति हेतुतया अत्वादिजात्याश्रयसकल- व्यक्तिग्रहणसंभवेनाण्ग्रहणम् 'अणुदित्__' सूत्रे व्यर्थ स्यात् । केवलजातिशक्तिमते तु तद्वैयर्थ्य स्पष्टमेव । 'अण्ग्रहणस्य' इत्यस्य 'आरम्भेण' इत्यत्रान्वयः ।
एकशेषस्य चेति । 'सरूपाणा'मिति सूत्रारम्भेणेत्यर्थः । एकशेषारम्भस्य व्यक्तेः पदार्थतायां मानता, न तु केवलव्यक्तेः पदार्थतायां, जातिविशिष्टव्यक्तेः पदार्थत्वेऽपि तदारम्भस्यावश्यकत्वात् । यद्वा तज्जात्यानुगतीकृतानेकार्थानामेकशब्देन प्रतिपादनस्य वक्ष्यमाणतया केवलव्यक्तेः पदार्थत्वसाधकतेति बोध्यम् । न च जातेः पदार्थत्वेऽप्यक्षादिपदार्थभाषपाशादिसाधारणजातेरभावे- नानेकमाषत्वपाशत्वादितात्पर्येण अक्षा इत्यादिप्रयोगनिर्वाहायैकशेषसूत्रारम्भ आवश्यक इति वाच्यम्, अश्नोतेरक्षशब्दस्य व्युत्पादनाद्धात्वर्थव्याप्तिगतव्याप्तित्वरूपजातिः स्वसमवायि- समवायात्मकपरंपरासंबन्धेन माषपाशादिसंबद्धाक्षपदवाच्येत्यभ्युपगमात् । तथा चोक्तं सरूप- सूत्रभाष्ये__'अश्नोतेरक्षस्तत्र क्रियासामान्यात् सिद्धम्' इति । क्रियागतं सामान्यमित्यर्थः । तथाविधक्रियासमनियतं सामान्यमक्षपदार्थत्रयसमवेतमित्यर्थ इत्यपरे । तथा च तादृशजातेः संभवेनोक्तदोषानवकाशात् तस्यापि = केवलव्यक्तिशक्तिपक्षस्यापि शास्त्रं मानमुक्त्वा युक्तिमपि तत्र प्रमाणयति__युक्तं चैतदिति । व्यक्तावेवेति । घटमानयेति वाक्यप्रयोगानन्तरकालिकप्रयोज्यकर्तृ- कानयमादिरूपव्यवहारेण व्यक्तावेव शक्तिग्रहादित्यर्थः । ननु व्यक्तौ जातोऽपि शक्तिग्रहो लाघवादग्रे बाध्यते, बाधो नामाप्रामाण्यग्रह इति चन्द्रमण्डलादिप्रमाणं पूर्व मिन्द्रियेण गृहीतमपि ज्योतिःशास्त्रेण बाध्यते, न तु लाघवमात्रेणेति न दोषः । पूर्व जातोऽपि कर्मधारय- निश्चयोऽग्रेऽपूर्वविद्याकल्पनभिया बाध्येतेति निषादस्थपत्यधिकरणविरोध इति चेन्न । पूर्व जातस्य
लाघवमात्रेण बाधायोगात् । अन्यथा निषादस्थपति याजयेदित्यत्र गां दद्यादित्यत्रानुपपत्तिश्च, जातिशक्तिमते गोत्वादेर्दानाद्यसंभवात् । लक्षितव्यक्तिमादाय तदुपपत्तिरित्यपि न युक्तम् । व्यक्त्यन्तरे शक्यसम्बन्धाऽग्रहात्, व्यक्त्यन्तरविषयकसंबन्धग्रहस्य तदितरव्यक्तिबोधाजनकत्वात् । अन्यथा हस्तित्वधर्मितावच्छेदककादेकहस्तिविषयकहस्तिपकसंबन्धग्रहात् कालान्तरे हस्तिपक- दर्शने हस्त्यन्तरस्मरणापत्तेः । गां नयेत्यादिवाक्येषु वृत्तिद्वयकल्पनायां गौरवं च । अत एव__'जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति ।
नित्यत्काल्लक्षणीयाया व्यक्तेस्ते हि विशेषणे ।।'__
__इति मण्डनिमिश्रोक्तमप्यपास्तम् । जातिव्यक्त्योरभेदाद्दानान्वय इति चेत्तथा सति व्यक्तेर्वाच्यत्वं स्वीकृतमेवेति भावः । ननु व्यक्तीनामानन्त्याच्छक्त्यानन्त्यप्रसङ्गः, कुत्रचिदेव व्यक्तौ शक्तिरिति नोक्तदोष इति चेदेवं सत्यगृहीतशक्तिकव्यक्तिबोधेऽप्यव्यभिचारेण शक्तिग्रहस्य शाब्दबोधहेतुत्वभङ्गापत्तिः । शक्तिग्रहाविषयत्वाविशेषाद् घटपदात् तटादेरपि बोधापत्तिश्च । तदुक्तं मीमांसकादिभिः__'आनन्त्यव्यभिचाराभ्यां शक्त्यनेकत्वदोषतः ।'
__इत्याशङ्कामपाकुर्वन्नाह-संबन्धितावच्छेदकस्येति । शक्यतावच्छेदकस्येत्यर्थः । जाति- रूपस्य तस्येति जोजना । एवं च संबन्धितावच्छेदकस्यैव विशेष्यतया विवक्षणान्नपुंसकनिर्देशो- पपत्तिः । अन्यथा संबन्धितावच्छेदिकाया इति स्यादिति बोध्यम् । एकैवेति । शक्यव्यक्तीनामा- नन्त्येऽप्युपलक्षणीभूतघटत्वादिजातेरैक्यात्तदैक्यं, कारणतायाः निरूपकाश्रयव्यक्तिबाहुल्येऽप्यवच्छेद- कदण्डत्वादेरैक्यादैक्यवदिति भावः । तद्धर्मावच्छिन्नधर्मिकशक्तिग्रहस्य तद्धर्मप्रकारकतद्धर्माश्रय- विशेष्यकशाब्दत्वावच्छिन्नं प्रति कारणत्वाच्छक्तिग्रहस्य यावद्वयक्तिविषयकत्वासंभवेऽपि न व्यभिचारः । कार्यत्वकारणत्वयोरवच्छेदककोदौ तत्तद्वयक्तिविषयताया अनिवेशात् । तत्तद्धर्म- स्याशक्यत्वेऽपि तद्विषयतायाः कार्यतावच्छेदककोटिप्रवेशाद्भानोपपत्तिश्च । घटपदात् पटादिबोध- प्रसङ्गे द्रव्यत्वप्रकारकघटभानप्रसङ्गश्च नेति भावः । शङ्कते-न चैवमिति । एवं = घटत्वादेः शक्यतावच्छेदकत्वे । शक्यतावच्छेदकत्वादिति । शक्यत्वे सति शक्तिग्रहीयार्थनिष्ठधर्मितावच्छे- दकत्वरूपत्वाच्छक्यतावच्छेदकत्वस्य घटत्वादेरपि वाच्यत्वमावश्यकमिति भावः । तदेव वाच्यमिति । एवं च केवलव्यक्तिवाच्यतापक्षोऽत्यन्तासंभवह्रस्त इति तात्पर्यम् । अलक्ष्यत्वेऽपीति । यथा गङ्गायां घोष इत्यादौ तीरत्वाद्यवच्छिन्नधर्मिकप्रवाहरूपशक्यसंबन्धिताग्रहादेव तीरत्वादिप्रकार- कोस्थितिशाब्दबोधनर्वाहः, संबन्धितावच्छेदकत्वग्रहस्यैवोपस्थित्यादिविषयताप्रयोजकत्वान्न तु तदंशेऽपि समुदिततात्पर्यार्थः । शक्यतावच्छेदकत्वेऽपि वृत्त्यात्मकसंबन्धशून्ये तत्तत्संबन्धितावच्छे- दकत्वमुपेयत इति शङ्का निरस्ता । अयं च दृषान्तो नैयायिकनये । आलंकारिकादिनये तु लक्ष्यतावच्छेदकेऽपि लक्षणास्त्येव । तथा चोक्तम्__
'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत् सा लक्षणा__।।' इति ।
लक्ष्यते = ज्ञायत इत्यर्थः । एवं च नात्माश्रयः । एवं च शक्यादशक्योपस्थिति- रूपायास्तस्या लक्ष्यतावच्छेदकेऽपि विषयतया सत्त्वमनपवादमेवेत्याहुरिति दिक् । उक्तेऽर्थेरुणाधिकरणस्थभट्टोक्ति साधकतयोपन्यस्यति । आनन्त्येऽपीति । भावानां = घटादीनां- वाच्यत्वेनाभिमतानाम् । एकम् = अनेकव्यक्तिसंबद्धं घटत्वादिकम् । सुकरसम्बन्धः =
सुकरसंबन्धग्रहः, संबन्धः = शक्तिरूपः । न च व्यभिचरिष्यतीत्यस्योक्तोऽभिप्रायः । आकृति- पदार्थस्येति__आकृतिः पदार्थो यस्येति ब्हुव्रीहिः । इति भाष्यादिति । इदं च सरूपसूत्रस्थं भाष्यम् । विशिष्टं वाच्यमिति । जातिविशिष्टं गावादिकं गावादिशब्दवाच्यमित्यर्थः । अत एव चक्षुरादिशब्दवाच्यमित्यर्थप्रमाणवच्छद्बरूपप्रमाणस्य स्वसंबद्धविषयस्यैव ग्राहित्वमिति नियमभङ्गे न । परे तु "न ह्याकृतिपदार्थस्य द्रव्यं न पदार्थः द्रव्यपदार्थकस्य वाकृतिर्न पदार्थः, उभयोरुभयं पदार्थः कस्यचित् किंचित् प्रधानभूतं किंचिद्गुणभूत"मित्यादि भाष्ये द्रव्यपदार्थवादे आकृते- विशेषणत्वोक्त्या तज्जात्यनुगीतकृतानेकव्याक्तिबोधस्यैकशब्देनैव संभवेन तत्पक्षेऽप्येकशेषो नारम्भणीय इति सूचितम् । जातिवादे व्यक्तेर्व्यक्तिवादे जातेः शक्यतावच्छेदकत्वमिति च सूचित- मित्याहुः । ननु विशिष्टस्य पदार्थतापक्षे एकमिति विरुद्धं स्यादत आह-एकमित्यस्य चेति । चस्त्वर्थः । अयं = वक्ष्यमाणः । जातिरेवेति । शक्तिज्ञानविष्ठकारणतायां विषयतासंबन्धेन जातिरेवावच्छेदिका न तु व्यक्तिः, तद्विषयकशक्तिज्ञानत्वेन कारणत्वाभावादिति भावः । एकं नामार्थ इत्यस्यैकं = सामान्यमेव तादृशकारणतावच्छेदकमित्यर्थ एतन्मते बोध्यः । एतदेव विशदयति-तथा चेति । घटत्वांशेऽन्याप्रकारकेति । तेन घटत्वमस्तीत्यतो न घटत्वविशिष्ट- बोधापत्तिः । एवं जातिरस्तीत्यतोऽपि । एतेन घटत्वमस्तीत्यतस्तथाविधबोधवारणाय विशिष्टशक्तिज्ञानत्वेन कारणतावश्यकीति दूषणं निरस्तम् । घटत्वत्वावच्छिन्ने एव घटत्वपदाशक्तर्घटत्वांशे तत्प्रकारकशक्तिधिय एव संभवात् । अयमेव कुब्जशक्तिवाद इति गीये मीमांसकैः । यद्विषयकत्वेन शक्तिधियो हेतुता तस्यैव शक्यत्वमिति नियमे मानाभावेन व्यक्तेरपि शक्यत्वसिद्धिः । ननु विनिगममाविरहाद् व्यक्तिविषयकशक्तिज्ञानत्वेनैव तथाविधबोधं प्रति हेतुतास्त्विति चेन्न, व्यक्तिनामानन्त्यादनन्तव्यक्तिविषयकत्वनिवेशे गौरवात् । न च यत्किंचिज्जात्याश्रयव्यक्तिविषयकत्वमेव निवेश्यमिति न गौरवमिति वाच्यम्, द्रव्यादिपदाशक्ति- ज्ञानस्यापि द्वव्यत्वाश्रयव्यक्तिविषयकत्वेनैव हेतुतापत्तौ घटादिपदादपि द्रव्यत्वप्रकारकधोधापत्तेः । पर्यायान्तराद् द्रव्यत्वप्रकारकबोधानुपपत्त्या द्रव्यपदज्ञानत्वेन हेतुत्वोपगमासंभवादित्यादिकं बृहद्भूषणे द्रष्टव्यमित्यभिप्रेत्याह__प्रपञ्चितं भूषण इति । पूर्ववत् = विषयतासंबन्धेन तादृशकारणतावच्छेदकमित्यर्थस्वीकारेण परिहरणीयः । अन्यथा पूर्वमते एकस्यैव नामार्थत्वमेतन्मते च द्वयोस्तथात्वमिति विरोधः स्पष्ट एव । पूर्वत्र विशिष्टस्य पदार्थत्वे विरोधः परिहृतः, इह तु द्वयोस्तथात्वे स परिहृतः । ननु 'रतनकेशवती स्त्री स्यात्' इत्यादिना विवक्षितमवयवसंस्थानविशेषरूपं स्त्रीत्वादिकं नैतच्छास्त्रीयप्रक्रिया निर्वाहकम् । दारानित्यादौ नत्वाभावप्रसङ्गात् । न चारोपेण निर्वाह इति युक्तम् । विशेषदर्शिनान्तदसंभवात् । न चागार्यः स संभवत्येवेति वाच्यम् । तदसत्त्वेऽपि तथाविधप्रयोगाणामिष्टत्वात् । अत एव स्त्रियामिति सूत्रे भाष्यकारैरुक्तानुपपत्त्यान्यथा स्त्रीत्वादिनिर्वचनं कृतमित्याशङ्क्य भाष्योक्तरीतिमनुसरति__सत्त्वेति । ननूपचयापचयादेर्विरुद्धस्यैकत्र समावेशायोगात् तटस्तटी तटमित्यादेरनुपपत्तिः । गुणानां क्षणिकत्वपुरस्कारेण तदुपपत्तिरित्यपि न युक्तम्, एवमपि युगपत्तथाव्यवहारानुपपत्तेर्दुष्परिहारत्वात् । अविकारिण्युपचयाद्यसंभवाद्ब्रह्म आत्मेत्यादिब्यवहारानुपपत्तेश्च । आरोपादरे तु लौकिकलिङ्गानादरो निर्बीज इत्यत आह__तत्तच्छब्दनिष्ठमिति । नन्वत्रापि पक्षे एकशब्दे अनेकविरुद्धलिङ्गासंभवतादवस्थ्यमत आह__तमेव विरुद्धेति । भिद्यन्त इति । तथा च
नोक्तदोषावकाशः । नन्वेवं 'तटं त्रि'ष्वित्यादिव्यवहारानुपपत्तिरत आह__कोषांचिदिति । समानेति । अयं चाभेदारोपे हेतुः । एवं चेति । विङ्गस्य शब्दनिष्टत्वे चेत्यर्थः । परे तु उपचयाद्यवस्थात्रयस्य सार्वत्रिकत्वादिदं लिङ्गं केवलान्वयि, इदं वस्तु इयं व्यक्तिरयं पदार्थ इत्यादिब्यवहराणामप्रतिबद्धसकलजनसिद्धप्रसरात् । तच्चार्थनिष्ठम् । 'एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च' इति भाष्याच्च । 'पुष्यतारका नक्षत्रमिति नानाशब्दत्वदर्शनात् स्तनकेशाद्यतिरिक्तमेव लिङ्गमर्थनिष्ठं, कुटी कुटिर इत्यादौ रेफस्यावयवस्योपजनने लिङ्गभेददर्शनाच्चेत्यर्थ' इति कैयटोपाध्यायाः । अत एवोपक्रमभाष्ये 'रूपरसगन्धस्पर्शशब्दानां स्त्यानप्रसवौ लिङ्गम्' इत्युक्तम् । यस्माद्रूपादयोन हि शब्दगताः ।
नन्वेवं 'पुंलिङ्गः शब्द' इति व्यवहारानुपपत्तिरिति चेन्न । वाच्यवाचकयोरभेदोपचारादर्श आद्यजन्तत्वाद्वा तदुपपत्तेः । आत्मा ब्रह्मेत्यादि व्यवहारसिद्धिस्तु ब्रह्मणि सर्वस्यैवाध्यासेन परंपरया संरत्यानादिसत्त्वेन चोपपद्यते । 'उपचयादेर्विरुद्धस्यैकत्रासमावेशात् तटस्तटीत्याद्यनुपपत्ति'रिति न वाच्यम्, कोशभाष्यादिप्रामाण्येन विरोधस्यैव विरहात् । कश्चिच्छब्द एकलिङ्गविशिष्टार्थे, कश्चिलिङ्गद्वयविशिष्ट इत्यादिकं कोशादितोऽवसेयम् । तत्र टिघुभादिवल्लघुसंज्ञाकरणौचित्येऽपि गुरुसंज्ञाकरणात् नत्वादिशाश्त्रप्रवृत्तौ लौकिकमपि लिङ्गं निमित्तत्वेनाश्रीयते । संख्यासंज्ञावत् पुंसादिसंकेतानामधिकसंग्रहार्थत्वेऽपि लोकप्रसिद्धार्थनिरासार्थत्वाभावाच्च । लौकिकासंभवे तु शाश्त्रीये एव नत्वादिप्रवृत्तिः । तत्संभवे तु शाश्त्रीयविशिष्टलौकिक एव, न तु केवलशास्त्रीये । नत्वादिकार्येण लोकिकलिङ्गस्यार्थगतस्य बोधात् ।
'आविर्भावस्तिरोभावः स्थितिश्चेत्यप्यपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः ।।'
__इति हरिकारिकातोऽपि तस्यार्थनिष्टत्वमेवावसीयते । अत्रापिना सति संभवे लौकिकलिङ्गस्यापि नत्वादिप्रवृत्तौ निमित्तत्वमिति सूचितम्' इत्यादि मञ्जूषायां प्रत्यपीपदन् । ननु तस्य शब्दनिष्टत्वे शब्दवाच्यत्वेऽप्यर्थे तदन्वयासंभवेन पशुना यजेतेति विहितयागस्य च्छाग्यापि करणापत्तिरित्यत आह__तच्च लिङ्गमिति । अर्थपरिच्छेदकत्वेनेति । तद्विशेषणत्वे- नेत्यर्थः । लिङ्गविशेषविशिष्टस्यैवार्थविशेषवाचकताया लिङ्गानुशासनशाश्त्रसिद्धतया च स्वाश्रयवाच्यत्वसंबन्धेनार्थविशेषणत्वोपपत्तिः । एवं च पुंस्त्वविशिष्टपशोरेव विधानाच्छग्या न तत्करणापत्तिः, पुंलिङ्गस्य पशुशब्दस्य पुंव्यक्तेरेव वाचकत्वमन्यथा परंपरया तस्यार्थ- विशेषणत्वाभ्युपगमवैयर्थ्यापत्तेरिति भावः । पश्वादिशब्दोक्तमिति । अस्य 'पुंस्त्वं पशुशब्दार्थ- परिच्छेदकत्वेनान्वेती'ति शेषः । पशु श्त्रियां नास्तीति । पशु यदि श्त्रियां नास्ति-पशुना यजेतेति वाक्यान्तर्गतः पशुशब्दः-नाभावेन पुंलिङ्गत्वबोधनात् स्त्रियां नास्तीति हेतोः पशुना यजेतेत्यादिविधिश्छाग्यादीनङ्गत्वेन न प्रयोजयति = न ग्राहयतीत्यर्थः । ननु पुंलिङ्गः पशुशब्दः पुंव्यक्तेरेव वाचक इति यदि नियमः स्यात्तदोक्तं संभवेत्, स एव तु नेत्याशयेन शङ्कते-न चेति । व्यक्त्यादिशब्दोक्तेति । व्यक्त्यादिशब्दोक्तलिङ्गस्य यथा साधारण्यं = स्वाश्रयवाच्यतासंबन्धेन पुमादिसंबद्धत्वमत एव तत्तदर्थव्यावर्तकं, तथा पश्वादिशब्दोक्तलिङ्गस्याप्युक्तपरंपरासंबन्धेन स्त्रीव्यक्तिसंबद्धत्वात्तदपि न व्यावर्तकं भवेत् तन्मात्रनिष्ठस्यैव तद्वयावर्तकत्वान्न तु व्यभिचारिण
इति समुदितार्थः । पश्वादिशब्दोक्तस्य-अत्र लिङ्गस्येत्यनुषज्यते । व्यक्तिशब्दस्य क्तिन्नन्तत्वेन नित्यश्त्रीलिङ्गत्वात् साधारण्येऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे मानाभावान्न साधारण्यमिति परिहरति-व्यक्तिशब्दस्येति । वेदे दर्शनादिति । पश्वेत्यादिदर्शनात् स्त्रीलिङ्गेऽपि पशुशब्द इति भावः . पुलिङ्गे नादेशप्रवृत्योक्तरूपासिद्धिः स्पष्टैव । तथा 'घेर्ङिति' इति गुणप्रवृत्त्या पश्व इति रूपासिद्धिश्च । ननु स्त्रीलिङ्गेऽपि गुणप्रवृत्त्योक्तरूपासिद्धिस्तदवस्थैव । न च 'ङिति ह्रस्वश्च' इति नदीसंज्ञाप्रवृत्त्या न घिसंज्ञेति वाच्यम्, तथा सत्याट्प्रवृत्त्योक्तदोषतादवस्थ्यादित चेन्न, छान्तसत्वादाडप्रवृत्तेः सूपपदत्वमित्याशयात् । 'जसादिषु च्छन्दसि वावचनम्' इति वचनेन पुंलिङ्गऽप्युक्तप्रयोगसिद्धिरिति तु न शङ्क्यम्, स्त्रीलिङ्गे तदाश्रयणं विनाप्युक्तरीत्या निर्वाहः । आगमशाश्त्रस्य 'सागरं तर्त्तुकामस्ये'त्यादावनित्यत्वं दृष्टमिति तत्राङप्रवृत्त्यर्थं छान्दसत्वमना- श्रयणीयमित्याशयात् । लिङ्गान्तरसाधकहेत्वन्तरमप्याह-मीमांसायामिति । चतुर्थे = चतुर्थाध्याये । तत्प्रथमचरणे एतदवगन्तव्यम् । 'ननु नियतपुंलिङ्गत्वे प्रमाणाभावा'दित्यसंगतम्, 'उप्रत्ययान्ताः पुंसी'ति व्याकरणस्यैव मानत्वादित्याशङ्क्य पशुशब्दस्य नियतपु'लिङ्गत्वे प्रमाणसद्धावेऽपि प्रकारान्तरेण च्छागीग्रहणप्रसक्ति वारयति__वस्तुतस्त्विति । नाभावाभाव इत्युक्तेरिति । तथा च पश्वेत्यादिप्रयोगानुपपत्तिरपि न__पशुशब्दस्य नियतपुंलिङ्गत्वेऽपीति भावः । नित्यपुंस्त्वनिर्णयादिति । नित्यपुंलिङ्गत्वनिर्णयादित्यर्थः । तथा च पुंस्त्वस्य साधारण्याद्वयावर्तकत्वानुपपत्तिरिति भावः । तथा च स्त्रीव्यक्तिव्यावर्तिकाया उक्तयुक्तेरसंभवेऽपि तद्वयावर्तकयुक्त्यन्तरं द्दर्शयति__'छागो वा मन्त्र-' इति-षष्ठाध्यायचरमाधिकरणसिद्धान्तसूत्रम् । तत्र हि 'अग्नीषोमीयं पशुमालभेते'त्यत्र पशुशब्देन नाश्वादिर्ग्राह्यः कि त्वज एव 'छागस्य वपायाः' इति मन्त्रवर्णादिति निर्णीतम्, तद्वत् पुंस्त्वस्यापि तत एव निर्णय इत्यर्थः । यथा 'संदिग्धे तु वाक्यशेषात्' इत्यधिकरणे विधौ संदेहे वाक्यशेषान्निर्णयः संख्यादिवत्, यथा 'सारस्वतौ मेषौ भवत' इत्यत्र तद्धितप्रकृतिः शब्दः पुंलिङ्गः स्त्रीलिङ्गो वेति संदेहे 'एतद्वै दैव्यं मिथुनम्' इत्यर्थवादेकशेषेणोभयोर्ग्रहणमिति निर्णीतम् । नन्वस्तूक्तस्थले तावदेवं तथापि सर्वनामनिष्ठ- लिङ्गस्य चेतनाचेतनस्त्रीपुंससाधारणत्वात् 'प्रास्मा अग्रि भरते'त्यध्रिगु ? प्रैषस्य स्त्रियामपि प्रवृत्त्यापत्तिः । न चेष्टापत्तिः । मीमांसकसिद्धान्तविरोधात् । लौकिकलिङ्गस्य वाच्यत्वपक्षे तु न दोषः, मुख्यसंभवे गौणपरिग्रहस्यान्याय्यत्वेनारोपस्याप्यसंभवादिति चेन्न । पूर्वोपस्थिततद्रूपेणोप- स्थापकादस्मै एनमित्यादि पदाच्छागत्वादिविशिष्टानामिव पुंस्त्वादिविशिष्टानामेव पशूनामुपस्थित्या मेष्यामप्रवृत्तेः संभवादित्यादिः-विस्तरो बृहद्भूषणेऽनुसंधेय इत्याशयेनाह-विस्तरेण प्रपञ्चितं भूषणे इति । लिङ्गस्यार्थनिष्ठत्वपक्षेऽपि 'छागो वा मन्त्र-' इत्यादिन्यायेन पुंव्यक्तेरेव ग्रहणमिति बोध्यम् । वैशेषिकास्तु पुंस्त्वादयो जातयस्तथा च हरिभिरुक्तम्__
'तिश्त्रो जातय एवैताः केषांचित् समवस्थिताः ।
अविरुद्धा विरुद्धाभिर्गोणहिष्यादिजातिभिः ।।' इति ।
__परस्परविरुद्धाभिर्गोत्वमहिषत्वादिजातिभिः सह परस्परमविरुद्धा एताः समवस्थिता इत्यर्थः । केषांचिद् = वैशेषिकाणामिति हेलाराजः । गोत्वादिजातीनां परस्परमविरोधे महिष्यादावपि गवादिव्यवहारापत्तिर्गवादावपि महिषादिव्यवहारापत्तिस्तासां परस्परविरोध- स्वीकारेऽपि पुंस्त्वादिरियं व्यक्तिरयं पदार्थ इत्यादिव्यवहारस्य सार्वत्रिकत्वादविरोध इति तात्पर्यम्
। तद्वाच्यमिति । तत् = निङ्गादित्रयम् । तत एव = प्रत्ययादेव । प्रकृतेरेव वाचकत्वमित । न च तत्र प्रकृतेर्लक्षणेति वाच्यम्, अनुपपत्तिप्रतिसंधानं विनापि बोधात् । अनन्तप्रकृतिषु शक्तिकल्पनागौरवं तु फलमुखत्वान्न दोषकृत् । प्रकृतौ गृहीतशक्तिकस्य प्रकृतिमात्रादपि लिङ्गादिबोधोदयाच्च । लिङ्गानुशासनस्य प्रकृतिविषयस्यैव दर्शनाच्च । अत एव 'द्वयेकयोः-' इत्यादेष्चानिर्दिष्टार्था इति न्यायेन संख्याद्यर्थकत्वे सिद्धे नियामकत्वं भाष्यकृदभिमतं संगच्छते ।
अतिप्रसङ्गस्तु तात्पर्यादेर्नियामकस्याश्रवणात् परिहरणीय इत्याहुः । केचित्तु संख्यामात्रं विभक्त्यर्थः, इतरच्चतुष्टयं प्रातिपदिकार्थ इत्याहुः । तदुक्तम्__
वाचिका द्योतिका वा स्युर्द्वित्वादीनां विभक्तयः ।।' इति ।
अत्रेदं बोध्यम्__घटादिशब्दे लिङ्गादिनिरूपिता पृथक् पृथक् शक्तिः स्वीकार्या, एकपदोपस्थितानामप्यर्थानामाकाङ्क्षावैचित्र्यात् परस्परमन्वयः । तत्र लिङ्गसंख्ययोः प्रकृत्यर्थे विशेषणत्वं, कारकस्य विशेष्यत्वम् । यद्वा__तस्यापि विशेषणत्वमेव, द्योतकत्वात्, प्रातिपदिकस्य लिङ्गसंख्यादिविशिष्टार्थकत्वे त्वेकत्वविशिष्टे द्वित्वादिविशिष्टे च शक्तिकल्पने गौरवं, गोरूपमित्यादौ संख्याद्यनवच्छिन्नबोधानुपपत्तिश्च, विशकलितपदार्थत्वपक्षे तात्पर्यग्राहकाभावात् तादृशबोधनिर्वाहः ।
अन्ये तु धातुवदविशिष्टे एव शक्तिः, केवलघटत्वादिविशिष्टेऽपि पृथक्शक्तिस्वीकारात् संख्याद्यविषयकबोधनिर्वाह इत्याहुः । ननु पञ्चानामपि प्रातिपदिकार्थत्वे प्रातिपदिकार्थप्रकारक- शाब्दबोधे सुबादिजन्योपस्थितिर्हेतुरित्यादेर्विलयप्रसङ्ग इति चेन्न, विभक्तिद्योत्यार्थमादाय तदुपपत्तेरित्येक आहुः । परे तु तद्विलयेपीष्टापत्तिर्द्योत्यार्थस्य विशेषणत्वेन तादृशबोधस्य खपुष्पायमाणत्वादित्याहुः । वाचकताया युक्तत्वादिति । प्रातिपदिकापेक्षयाल्पतरप्रत्येष्वेव वाचकत्वकल्पनाया उचितत्वमिति भावः । 'शास्त्र' इति सामान्यपदप्रयोजनं स्पष्टयति__शाश्त्र इति । बहुष्विति ।। 25 ।।

काः 26
ननु शब्दस्य घटोऽस्तीत्यादिवाक्यजन्यशाब्दबोधविषयत्वाननुभवात् तत्तच्छब्दस्य तत्तच्छब्द- वाच्यत्वसाधनपरं 'शब्दोऽपि यदि भेदेन' इत्यादिमूलमसंगतमित्याशङ्कां निरसयत् शब्दस्य शाब्दबोधविषयत्वेऽभियुक्ततमभर्तृहर्यनुभवं प्रमाणयति-न सोऽस्तीति । शब्दानुगमः = शब्दभानम् । अनुविद्धमिव = तादात्म्येन संबद्धमिव । ज्ञाने आरोपितं शब्दतादात्म्यमिति बोधयितुमिवशब्दः । प्रत्यक्षादिरूपसकलज्ञाने शब्दभानं शब्दार्थयोस्तादत्म्यादुपपद्यते । केचित्तु शब्दार्थयोर्भेदेप्यनु- भवबलाज्ज्ञानसामान्यसामग्रया एव शब्दभासकत्वं कल्प्यतेऽतस्तदुपपत्तिः । अर्थज्ञानेनोद्बोधक- विधयोपस्थापितस्य शब्दस्य प्रत्यक्षादौ अर्थाशे प्रकारीभूय भानं बाधकाभावात्, अनुभवाच्चेति तु न युक्तं, शब्दोपस्थापकार्थज्ञाने तद्भानासंभवात् । उक्तरीत्यानुव्यवसाये एव तद्भानमुपपादयितुं शक्यत इत्याहुः । अत्र घटादिशब्दं पक्षीकृत्य तत्तच्छाब्दबोधविषयत्वं साध्यते__तादृशाभि- युक्तोक्त्या सकलजातीयज्ञानविषयत्वेन बोधितत्वरूपहेतुना । यावज्जातीयज्ञानविषयत्वं तदन्तर्गतयत्किञ्चिज्जातीयज्ञानविषयत्वं विना न संभवतीति नाप्रयोजकत्वमिति बोध्यम् । घटादिशब्दे विशिष्य तत्तच्छाब्दबोधविषयत्वस्य साध्यत्वपुरस्कारेण शब्दोस्तीत्यादिवाक्यजन्य-
शब्दबोधविषयत्वमादाय न सिद्धसाधनम् ।।
विनाशब्दविषयमिति । विष्ण्वादिशब्दरूपविषयं विनेत्यर्थः । शब्दविषयकत्वं विनेति पर्यवसितोऽर्थः । शत्तयनतिरेकात् = शक्तितुल्यत्वात् । अनादितात्पर्यस्योभयत्राप्यपेक्षणात् स्वारसिकलक्षणा न पदमादधाति, प्रयोजनासाचिव्यात् । लक्षणाया असंभव एव यत्र तादृशं स्थलं प्रदर्शयति__जबगडेति । शक्याग्रहेणेति । एकाक्षरकोशादिप्रामाण्येन प्रत्येकवर्णस्य शक्यार्थसत्येपि तदग्रहेणेत्यर्थः । ननु तत्र लक्षणाया अग्रहेपि लक्ष्यार्थबोधोस्तु लक्षणरूपसामग्र्या विद्यमानत्वा- दित्याशङ्क्याह__अज्ञातायाश्चेति । चस्त्वर्थे । अनुपयोगादिति । तज्ज्ञानं विनार्थोपस्थितेर- संभवात् । साधुतासंप्तिपत्तेः = साधुताभ्युपगमात् । स्पष्टं चेदमृलृक् सूत्रे भाष्ये । ननु तत्रापि स्वज्ञाप्यसंबन्धरूपा लक्षणा संभवत्येवेत्याशङ्क्याह__परनय इति । नैयायिकनये इत्यर्थः । एवं ञ्च स्वज्ञाप्यसंबन्धो लक्षणेति स्वीकर्तृमीमांसकमते तत्संभवेऽपि तस्य लक्षणात्वान- भ्युपगन्तृनैयायिकनये तत्र शक्तिस्वीकार आवश्यकः, अन्यथा बोधो न स्यात् । वृत्त्यार्थबोधजनकत्वरूपार्थवत्त्वाभावेन प्रातिपदिकसंज्ञापि न स्यात्, साधुत्वं च न स्यादिति भावः । क्कचित् = अनुकार्यानुकरणयोर्भेदविवक्षायाम् । मूलस्थतथेत्यस्यार्थमाह__प्रातिपदिकार्थ इति । सिद्ध इत्यस्य विवरणमुपस्थित इति । अर्थवदिति । अर्थेऽवभासमाने शब्दो भासते__उपस्थित- त्वादिति मूलार्थः, तत्फलितार्थः = अर्थवद्भासत इति । अर्थशब्दस्येवशब्देन सह समासस्तु न । तथा सति 'इवेन समास' इति विभक्तिश्रवणापत्तेः । ननु भेदाभेदात्मकपक्षद्वयेऽप्यनुकार्योपस्थितये शब्दांशे वृत्तिस्वीकारवश्यकतया मूले भेदपक्षे एव तदावश्यकताकथनमयुक्तमतस्तदभिप्रायमाह व्याख्यायाम्__अयं भाव इति । अनुकार्यानुकरणयोर्भेदे इति । तयोर्भेदविवक्षायां पटदिति कुर्वित्याद्यनुकरणानुकार्ययोर्भेदो ध्वनिमयत्ववर्णमयत्वादिरूपविरुद्धधर्मसंबन्धेन सिद्ध इति भावः ।
पदानुपस्थितत्वादिति । 'शक्त्यभावे' इत्यादिः । तथा च शक्त्यभावेनुकार्यस्य पदादुपस्थित्यसंभवादित्यर्थः । तत्सिद्धये = उपस्थितिसिद्धये । अन्यथा शाब्दबोधविषयत्वमपि न स्यात् । वृत्त्या पदजन्यपदार्थोपस्थितेरेव शाब्दबोधहेतुत्वात् । अनुकार्यानुकरणयोरभेदपक्षेतिरिक्त- शक्ति विनैव शाब्दबोधविषयत्वं भवतीत्याह__अभेदपक्षे प्रत्यक्षे इति । हेतुत्वादिति । अयमुपस्थितेः पदजन्यत्वे हेतुः । अतिप्रसङ्गेति । समवायेन घटादिशब्दजन्योपस्थितिविषयस्या- काशस्य घटोस्तीत्यादिवाक्यजन्यशाब्दबोधविषयत्वापत्तिवारणायेत्यर्थः । वृत्तिजन्यपदोपस्थितिरेव हेतुरिति सा च न प्रकृत इति न गवित्ययमाहेति वाक्यजबोधविषयतानुकार्यस्य संभवतीति तात्पर्यम् । नन्वाश्रयतासंबन्धेन शक्तिरूपवृत्तिमत्त्वस्य सत्त्वेपि निरूपकतासंबन्धेनासत्त्वाच्छाब्द- बोधविषयत्वानुपपत्तिस्तदवस्था,निरूपकतासंबन्धेन तत्सत्त्वस्यैव शब्दभानप्रयोजकत्वादित्या- शङ्क्याहनिरूपकतेति । वृत्तिमत एवेति । न तु निरूपकतया वृत्तिमत एवेत्यर्थः । कल्प्यत इति । अनुभवानुरोधाद् गौरवसत्त्वेपि तथाविधान्यतरसंबन्धेन तत्सत्वस्य शाब्दभानप्रयोजकत्वं कल्पयत इति भावः । उभयनिरूप्यत्वात् = उभयनिष्ठत्वात् । उभयस्पृगेव हि संबन्धः । अत एव जन्यजनकभावः अवयवावयविभावः संबन्ध इत्येवं रूप एव तार्किकादिवृद्धानां व्यवहारः । तद्बोधकत्वेन = अर्थबोधकत्वेन । एतेन बोध्यबोधकभावसंबन्धरूपा शक्तिरित्यावेदितम्, शब्दस्यापि तदाश्रयत्वात् । एवं च शब्दस्यापि वृत्त्या पदजन्यपदार्थोपस्थितेः सत्त्वान्न भानानुपपत्तिरिति भावः । भेदपक्षे तु अर्थनिरूपितशक्त्याश्रयत्वमनुकार्य एव नानुकरण इत्यनुकरणेनानुकार्योपस्थित्याद्यर्थ तत्र
शक्त्यन्तरकल्पनावश्यकीति भावः । 'स्वं रूपं शब्दस्य__' इत्यादिसूत्रं प्रणयतः पाणिनेरप्ययमर्थः संमतः । स्वोक्तेऽर्थे हर्युक्ति प्रमाणयति__उक्तं चेति । तेजसः = दीपादेः । एते = ग्राह्यत्वग्राहकत्वशक्ती इत्यर्थः । अयं भावः__द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगो हेतुरिति निर्विवादम्, अन्यथान्धकारेऽपि घटादिप्रत्यक्षापत्तेश्चक्षुसंयोगदशायाम् । तथा च यथा घटदीपाद्यालोकसंयोग एव घटवत् स्वस्यापि प्रत्यक्षजनकस्तथार्थगोचरशब्दनिष्ठशक्तिसहकृत एव शब्दोऽर्थस्य स्वस्य च प्रत्यक्षजनकः । यथा च घटचक्षुःसंयोगासत्त्वे स एवालोकसंयोगः स्वमात्रविषयकप्रत्यक्ष- जनकस्तथार्थे तात्पर्याभावे शब्दे च तात्पर्ये सति शब्दस्तद्वृत्त्यैव स्वस्यैव बोधं जनयति । द्रव्यतेजोभेदनिवेशस्तु न, गौरवात् प्रयोजनविरहाच्च । एवं च श्रोत्रेणोपस्थिते शक्तिग्रहात् । एतेन गामुच्चारयेत्युक्ते विकृतस्यैव श्रोत्रोपस्थितत्वात् उच्चारणापत्तिः । शब्दस्याप्रकृत्यर्थत्वात् तत्र विभक्त्यर्थान्वयानुपपत्तिश्च, स्वस्यैव प्रत्यक्षेण शीघ्रमुपस्थितत्वाद् गौरस्तीत्यादावपि शब्दमात्रभानापत्तिरित्यादिदूषणाभासा निरस्ताः । तात्पर्यग्रहसाचिव्याद् वृत्त्यैवाविकृतस्यैव शब्दादुपस्थितेः । अन्यथार्थपरत्वस्यैव न्याय्यत्वात् । तस्मादुक्ततात्पर्यनिर्णये सति शब्दस्यैव प्राधान्येन भानं तदसत्त्वे त्वर्थविशेषणत्वेनैवेति सिद्धमिति विस्तरो बृहद्भूषणेऽनुसंधेयः ।। 26 ।।

काः 27
अत इत्यस्य व्याख्यानमाह__गवित्ययमित्यादिना । न भिद्यन्त इति । तत्त्वेन न विवक्ष्यन्ते । एवं चानुकरणशब्दानामर्थवत्त्वाभावेऽनुकार्याभेदविवक्षा हेतुः । अर्थंवत्त्वादीत्यादिपदेन कृदन्तत्वादिसंग्रहः । इत्याद्य प्रवृत्ताविति । वृत्त्यार्थबोधकत्वरूपार्थवत्त्वाभावात् । साधुत्वमित्युप- पद्यत इति । वक्ष्यमाणरीत्याऽसाधुत्वाभावे शिष्टप्रयोगादिना साधुत्वमक्षतमेवेत्यर्थः । नन्वभेदाभावेऽपि तस्य साधुत्वं कुतो नेत्यशङ्क्याह__अन्यथेति । 'प्रत्ययः' 'परश्च' इति । प्रत्ययविधौ पञ्चमीनिर्देशात् षष्ठ्यंशविकलायाः 'तस्मादित्युत्तरस्य' इति परिभाषायाः प्रवृत्त्यैव प्रत्ययस्य प्रकृतिपरत्वलाभे सिद्धे 'परश्च' इति सूत्रं नियमार्थ, प्रत्ययपरैव प्रकृतिः प्रयोक्तव्येति, तदेतदभिप्रेत्यैव पठ्यते__न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः प्रयोक्तव्य इति । तथा च नियमशाश्त्राणां निषेधमुखेन प्रवृत्तिरितिपक्षे निषेधोल्लङ्घनं स्पष्टमेव ।विधिमुखेन प्रवृत्तिरिति भाष्यसिद्धान्ते त्वार्थिकनिषेधोल्लङ्घनमिति बोध्यम् । अभेदपक्षे उक्तरीत्या प्रातिपदिकत्वाभावेन प्रत्ययविधाबुद्देश्यतावच्छेदकाक्रान्तत्वरूपप्रकृतित्वाभावेन न केवलेति निषेधस्य पदत्वयोग्ये एव पदत्वरहिते 'अपदं ने'ति निषेधप्रवृत्त्या द्वितीयनिषेधस्य चानवतार इति भावः । अभेदपक्षे वृत्त्या अर्थबोधकत्वेऽपि शक्तिविषयबोधकत्वाभावान्न प्रातिपदिकत्वमिति बोध्यम् । परे तु सादृश्यमूलका- भेदविवक्षायां सादृश्यसंबन्धेनैवानुकरणेनानुकार्यमुपस्थाप्यते, वृत्तिज्ञानस्यानुकरणाजन्यशाब्दत्वमेव कार्यतावच्छेदकमिति तथोपस्थितस्यापि शाब्दज्ञानविषयोपपत्तिः । एवं च वृत्त्यार्थबोधकत्वरूपार्थ- वत्त्वाभावात् प्रातिपदिकत्वं न । अपदं न प्रयुञ्जीतेत्यत्रापदमपरिनिष्ठितमित्यर्थः, भू सत्तायामित्यादिनिर्देशात्परिनिष्ठतत्वं, एवञ्चानुकरणस्यापरिनिष्ठितत्वाभावोन्नोक्तनिषेधविषयत्व- मित्याहुः । इमौ द्वौ पक्षौ जातिव्यक्तिपक्षवद् व्यवस्थितौ तेन 'वार्तघ्नी पौर्णमास्यां कवतीषु रथन्तरं गायति' इत्यादि श्रुतिप्रयोगाः 'एरुः' 'एचोऽयवायावः' 'रषाभ्यां नोणः__' इत्यादि सूत्रप्रयोगाश्चोपपन्नाः, अभेदपक्षस्यैवाङ्गीकारे सुबन्तात्तद्धितोत्पत्या कवतीष्वित्युक्तश्रुति-
प्रयोगानुपपत्तिः स्यात् । एवं सूत्रप्रयोगानुपपत्तिरपि स्पष्टैव । व्यवस्थितपक्षद्वयाश्रयणे सर्वेष्टसिद्धिः ।। 27 ।।
*इति वैयाकरणभूषणसारव्याख्याने नामार्थनिर्णयः समाप्तः ।। 4 ।।