वेदपादस्तवः

विकिस्रोतः तः
वेदपादस्तवः
जैमिनिः
१९५३

॥ अथ वेदपादस्तवप्रारम्भः ॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।। १
कुण्डलीकृतनागेन्द्रं खण्डेन्दुकृतशेखरम् ।
पिण्डीकृतमहाविघ्नं दुण्डिराजं नमाम्यहम् ॥ २
मातामहमहाशैलं महस्तदपितामहम् ।
कारणं जगतां वन्दे कण्ठादुपरिवारणम् ॥ ३
ऋषय ऊचुः-
पुण्डरीकपुरं प्राप्य जैमिनिमुनिसत्तमः ।
किं चकार महायोगी नूतनो वक्तुमर्हसि ॥ ४
सूत उवाच:-
भगवान् जैमिनिर्धीमान्पुण्डरीकपुरे पुरा ।
महर्षिसिद्धगन्धर्वयक्षकिन्नरसेविते ॥ ५
नृत्यद्धिरसरस्सङ्घैर्दिव्यगानैश्च शोभिते ।
नृत्यन्तं परमीशानं ददर्श सदसि प्रभुम् ॥ ६

ननाम दूरतो दृष्ट्वा दण्डवत्क्षितिमण्डले ।
वपावुत्थाय देवस्य ताण्डवामृतमङ्गळम् ॥ ७
पार्श्वस्थितां महादेवीं पश्यन्तीं, तस्य ताण्डवम् ।
दृष्ट्वा सुसंहृष्टमनाः पपात पुरतो मुनिः ॥ ८
ततशिष्यास्समाहूय वेदशास्त्रार्थपारगान् ।
अनिकेशमकेशं च सतयोगं च माधवम् ।। ९
वक्रनासं समित्पाणिं धूमगन्धि कुशासनम् ।
एतैस्सार्थं महादेवं पूजयामास जैमिनिः ॥ १०
ततोऽपि वेदवेदान्तसारार्थं तत्प्रसादतः ।
कृताञ्जलिरुवाचेदं वेदान्तस्तवमुत्तमम् ॥ ११
श्रीजैमिनिस्वाच:-
विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥ १२
उमाकोमलहस्ताब्जसम्भावितललाटिकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ।। १३
शिवं विष्णोश्च दुर्दर्शं नरः कस्स्तोतुमर्हति ।

तस्मान्मत्तस्तुतिस्सेयमभ्रादृष्टिरिवाजनि ॥ १४
नमश्शिवाय साम्बाय नमश्शर्वाय शम्भवे ।
नमो नटाय रुद्राय सदसस्पतये नमः ॥ १५
पादभिन्नाहिलोकाय मौळिभिन्नाण्डभित्तये ।
भुजभ्रान्तदिगन्ताय भूतानां पतये नमः ॥ १६
क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे ।
फणीन्द्रमेखलायास्तु पशूनां पतये नमः ॥ १७
कालकालाय सोमाय योगिने शूलपाणये ।
अस्थिभूषाय शुद्धाय जगतां पतये नमः ॥ १८
पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् ।
गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ १९
शङ्कराय नमस्तुभ्यं मङ्गळाय नमोऽस्तु ते।
धनानां पतये तुभ्यमन्नानां पतये नमः॥ २०
अष्टाङ्गयोगहृष्टायं क्लिष्टभक्तेष्टदायिने ।
इष्टिघ्नास्तुतयूष्टाय पुष्टानां पतये नमः ॥ २१
पञ्चभूताधिपतये कालाधिपतये नमः ।

नम आत्माधिपतये दिशां च पतये नमः ॥ २२
विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने ।
विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ॥ २३
ईशान ते तत्पुरुष नमो घोराय ते सदा ।
वामदेव नमस्तुभ्यं सद्योजाताय वै नमः । २४
भूतिभूषाय भक्तानां भीतिभङ्गरताय ते।
नमो भवाय भर्गाय नमो रुद्राय मीढुषे ।
सहस्राङ्गाय साम्बाय सहस्राधीश ते नमः।
सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ॥
सुकपोलाय सोमाय सुललाटाय सुश्रुवे ।
सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥
वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् ।
समस्तजगतां नाथं सदसस्पतिमद्भुतम् ।। २८
भवक्लेशनिमित्तोरुभयच्छेदकृते सताम् ।
नमस्तुभ्यमषाढाय सहमानाय वेधसे ।। २९
सुजङ्घं- सूदरं सूरुं सुकण्ठं सोमभूषणम् ।

सुगण्डं सुदृशं वन्दे सुगन्धिं पुष्टिवर्धनम् ॥ ३०
भिक्षाहार हरित्क्षौमं रक्षाभूषं क्षितिक्षमम् ।
यक्षेशेष्टं नमामीशमक्षरं परमं प्रभुम् ।। ३१
अर्धालकमवस्त्रार्धमस्थ्युत्पलदळस्रजम् ।
अर्धपुंलक्षणं वन्दे पुरुषं कृष्णपिङ्गळम् ॥ ३२
सकृत्प्रणतसंसारमहासागरतारकम् ।
प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ॥ ३३
त्रातारं जगतामीशं दातारं सर्वसम्पदाम् ।
नेतारं मरुतां वन्दे जेतारमपराजितम् ॥ ३४
तं त्वामन्तकहन्तारं वन्दे मन्दाकिनीधरम् ।
ततानि विदधे योऽयमिमानि त्रीणि विष्टपान् ॥ ३५
सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् ।
यतश्च यजुषा सार्थमृचस्सामानि जज्ञिरे ॥ ३६
भवन्तं सुदृशं वन्दे भूतभव्यभवत्पतिम् ।
त्यजन्तीतरकर्माणि यो विश्वा भुवि पश्यति ॥ ३७
हरं सुरनियन्तारं परं तमहमानतः ।

यदाज्ञया जगत्सर्व व्याप्य नारायणः स्थितः ॥ ३८
तं नमामि महादेवं यन्नियोगादिदं जगत् ।
कल्पादौ भगवान् धाता यथापूर्वमकल्पयत् ॥ ३९
ईश्वरं तमहं वन्दे यस्य लिङ्गमहर्निशम् ।
यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः ॥ ४०
नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा ।
अवापुस्त्वं स्वमैश्वर्यं देवासः पूषरातयः ।। ४१
तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे ।
सततं यतयश्शान्तास्सञ्जानाना उपासते॥ ४२
तदस्मै सतवं कुर्मो नमः कमलकान्तये।
उमाकुचपदोरस्का या ते रुद्र शिवा तनूः ॥ ४३
नमस्ते रुद्र भावाय नमस्ते रुद्र केळये।
नमस्ते रुद्र शान्त्यै च नमस्ते रुद्र मन्यथे ॥ ४४
ईशानं सकलाराध्यं वन्दे सम्पत्समृद्धिदम् ।
यस्य चासीद्धरिश्शस्त्रं ब्रह्मा भवति सारथिः॥ ४५
क्षताश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक ।

बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ॥ ४६
नमः परशवे देवशूलायानलरोचिषे।
हर्यग्नीन्द्वान्मने तुभ्यमुतोत इषवे नमः ॥ ४७
नमस्ते वासुकिज्याय विष्फाराय च शङ्कर ।
महते मेरुरूपाय नमस्ते अस्तु धन्वने ॥ ४८.
सुरेतरवधूहार हारिणी हरयानिते ।
अन्यान्यस्त्राण्यहं तूर्णमहं तेभ्योऽकरं नमः ॥ ४९
धराधरसुतालीलसरोजाहतबाहवे।
तस्मै तुभ्यमवोचाम नमो अस्मा अवस्यवः ॥ ५०
रक्ष मामक्षम क्षीणमक्षक्षतमशिक्षितम् ।
अनाथं दीनमापन्नं दरिद्रं नीललोहित ॥ ५१
दुर्मुखं दुष्क्रियं दुष्टं रक्ष मामीश मादृशम् ।
मादृशानामहं नत्वदन्यं विन्नामि रायसे ।
भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा
दयाळो देशमानानामस्माकमविता भव ॥
परदारं परावासं परवस्त्रं पराप्रियम् ।

हर पाहि परान्नं मां पुरुनामन् पुरुष्टुत ॥ ५४
कीलोकैर्यत्कृतं पुष्टैर्नावमानं सहामहे ।
देवेश तव दानेभ्यो भूरिदा भूरिदेहिनः ॥ ५५
लोकानामुपपन्नानां गर्विणामीश पश्यताम् ।
अस्मभ्यं क्षेत्रमायुश्च वसुस्सार्हं तथा भर ॥ ५६
याच्ञादौ महतीं लज्जामस्मदीयां घृणानिधे।
त्वमेव वेत्सि नस्तूर्णमिवग् स्तोतृभ्य आभर ।। ५७
जाया माता पिता चान्ये मा द्विषन्त्यमतिं कृशम् ।
देहि मे महतीं विद्यां राधा विश्वपुषा सह ॥ ५८
अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु ।
मेरुधन्वन्नशक्तेभ्यो बलं देहि तनूषुणः ॥ ५९
लब्धारिषसहस्रस्य नित्यमिष्टवियोगिनः ।
हृद्रोगं मम देवेश हरिमाणं च नाशय ॥ ६०
ये ये रोगा: पिशाचा वा नरा देवाश्च मामिह ।
बाधन्ते देव तान् सर्वान् निबाधस्व महानसि ॥ ६१
त्वमेव रक्षितास्माकं नान्यः कश्चन विद्यते ।

तस्मात्स्वीकृत्य देवेश रक्षाणो ब्रह्मणस्पते ॥ ६२
त्वमेवोमापते माता त्वं पिता त्वं पितामहः ।
त्वमायुस्त्वं मतिस्त्वं श्रीरुत भ्रातोत्तमस्सखा ॥ ६३
यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ।
ततः क्षमस्व तत्सर्वं यन्मया दुष्कृतं कृतम् ॥ ६४
स्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ।
अतो देव महादेव त्वमस्माकं तवस्तसि ॥ ६५
सुस्थितं भस्मगौराङ्गं तरुणादित्यविप्रहम् ।.
प्रसन्नवदनं सौम्यं गायेद्वा मनसा गिरा ॥ ६६
एष एव तु सोऽस्माकं नृत्यन्तं त्वावभासते ।
लोकयन्तमुमाकान्तं पश्येम शरदश्शतम् ॥ ६७
अरोगिणो महाभागा विद्वांसश्व बहुश्रुताः ।
भवन्ति स्वत्प्रसादेन जीवेम शरदश्शतम् ।। ६८
सदा च बन्धुभिस्सार्थं त्वदीयं ताण्डवामृतम् ।
पिबत: काममीशानं ददाम शरदश्शतम् ॥ ६९
देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् ।

कामं मधुमयं पीत्वा मोदाम शरदश्शतम् ।। ७०
कीटा नागा: पिशाचा वा ये वा केवा भवे भवे।
तव दासा महादेव भवाम शरदश्शतम् ॥ ७१
सभायामीश ते दिव्यं नृत्यवाद्यकलस्वनम् ।
श्रवणाभ्यां महादेव शृणवाम शरदश्शतम् ॥ ७२
स्मृतिमात्रेण संसारविनाशनपराणि ते।
नामानि तव दिव्यानि प्रब्रवाम शरदश्शतम् ॥७३
इधुसन्धानमात्रेण दग्धत्रिपुरधूर्जटे।
आधिभिर्व्याधिभिर्नित्यमजीतास्स्याम शरदश्शतम् ।। ७४
चारुचामीकराभासं गौरीकुचपदोरसम् ।
कदानुलोपयिष्यामि युवानं विश्रुतं कविम् ॥ ७५
प्रमथेन्द्रावृतं प्रीतवदनं प्रियभाषणम् ।
सेविष्येऽहं कदा साम्ब सुभासं शुक्रशोचिषम् ॥ ७६
बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् ।
स्वीकरिष्यति किंन्वीशो नीलग्रीवो विलोहितः ॥ ७७

कालशूरानलासक्तभीतिव्याकुलमानसम् ।
कदानु रक्ष्यतीशो मां तु सुग्रीवो अवानतः ॥ ७८
गायका यूयमायात यदि राधादिलिप्सवः ।
धनदस्य सखे सायमुपास्मै गायता नरः ॥ ७९
आगच्छत सखायो मे यदि यूयं मुमुक्षवः ।
स्तुतेशमेवं मुक्त्यर्थमेषविप्रैरभिष्टुतः ॥ ८०
पदे पदे पदे देवपदं नः स्नेह्यति ध्रुवम्।
प्रदक्षिणं प्रकुर्वीत मध्यक्षं धर्मणामिमम् ॥ ८१
सर्वं कार्यं युवाभ्यां हि सुकृतं सुहदौ मम ।
अञ्जलिं कुरुतं हस्तौ रुद्राय स्थिरधन्विने ॥ ८२
यन्मूर्धं मरुतामूर्ध्वं भवं चन्द्रार्धमूर्धकम् ।
मूर्धघ्नं च चतुर्मूर्धे नमस्याकल्मनीकिनम् ॥ ८३
नयने नयनोद्भूतदमनालीढमन्मथम् ।
पश्यन्तं तरुणं सौम्यं भ्राजमानं हिरण्मयम् ॥ ८४
सभायां शूलिनस्सन्ध्यानृत्तवाद्यस्वनामृतम् ।
कर्णौ तूर्णं यथाकामं पातं गौराविवैरिणे ॥

नासिके वासुकिश्वासवासिताभासितोरसम् ।
घ्रायतं गरळग्रीवमस्मभ्यं शर्म यच्छतम् ।। ८६
स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापते ।
स्तवमुच्चतरं ब्रूहि जयतामिव दुन्दुमिः ॥ ८७
चेतःपोत न शोचस्त्वं निन्द्यं विन्दाखिळं जगत् ।
अस्य नृत्तामृतं शम्भोर्र्गौरो न तृषितः पिब ॥८८
सुगन्धि सुखसंस्पर्शं कामदं सोमभूषणम् ।
गाढमालिङ्ग मच्चित्त योषा जारमिव प्रियम् ।। ८९
महामयूखाय महाभुजाय
महाशरीराय महाम्बराय ।
महाकिरीटाय महेश्वराय
महोमहाय सुष्टुतमीरयामि ॥ ९०
यथा कथञ्चिद्रचिताभिरीश
प्रसादतश्चारुभिरादरेण ।
प्रपूजयामस्स्तुतिभिर्महेश-
मबाढमुग्र्ं सहमानमाभिः ॥ ९१

नमश्शिवाय त्रिपुरान्तकाय
जगत्त्रयेशाय दिगम्बराय।
नमोऽस्तु मुख्याय हराय भूयो
नमो जघन्याय च बुध्न्याय च ॥ ९२
नमो विकाराय विकारिणे ते
नमो भवायास्तु भवोद्भवाय ।
बहु प्रजात्यन्तविचित्ररूपा
यतः प्रसूता जगतः प्रसूती ॥ ९३
तस्मै सुरेशोरुकिरीटनाना-
रत्नावृताष्टापदविष्टराय।
भस्माङ्गरागाय नमः परस्मै
यस्मात्परान्नापरमस्ति किंचित् ॥ ९४
सर्पाधिराजौषधिनाथ युद्ध-
क्षुभ्यज्जटामण्डलगह्वराय ।
तुभ्यं नमस्सुन्दरताण्डवाय
यस्मिन्निदग्ं सञ्चविचैति सर्वम् ।। ९५

नमामि नित्यं त्रिपुरारिमेनं
यमान्तकं षण्मुखतातमीशम् ।
ललाटनेत्रार्दितपुष्पचापं
विश्वं पुराणं तमसः परस्तात् ॥ ९६
मुरारिनेत्रार्थितपादपद्म-
मुमाङ्घ्रिलाक्षारससक्तपाणिम् ।
नमामि देवं विषनीलकण्ठं
हिरण्यदन्तं शुचिवर्णमादरात् ।। ९७
अनन्तमव्यक्तमचिन्त्यमेकं
हरन्तमाशाम्बरमम्बराभम् ।
अजं पुराणं प्रणमामि योऽय-
मणोरणीयान्महतो महीयान् ॥ ९८
अन्तस्थमात्मानमजं न दृष्ट्वा
भ्रमन्ति मूढा गिरिगह्वरेषु ।
पश्चादुदक्षिणतः पुरस्ता-
दधस्विवासीदुपरि स्विदासीत् ॥ ९९

इमं नमामीश्वरमिन्दुमौळिं
शिवं महानन्दमशोकदुःखम् ।
हुदम्बुजे तिष्ठति यः परास्मा
परीत्य सर्वाः प्रदिशो दिशश्च ॥ १००
रागादिकापथ्यसमुद्भवेन
भग्नं भवाख्येन महामयेन ।
विलोक्य मां पालय चन्द्रमौळे
भिषक्तमं त्वाभिसजां शृणोमि ॥ १०१
दुःखाम्बुराशिं सुखलेशहीन-
मस्पृष्टपुण्यं बहुपातकं माम् ।
मृत्योः करस्थं भवसर्पभीतं
पश्चात्पुरस्तादधरादुदक्स्थात् ॥ १०२
गिरीन्द्रजाचारुसुखावलोक-
सुगीतया चारुतयैव दृष्ट्या।
वयं दयापूरितयैव सूर्ण-
मपोन मावा दुरिता तरेम ॥ १०२

वेदपादस्तवः
अपारसंसारसमुद्रमध्ये
निमग्नमुत्क्रोशमनल्परागम् ।
मामक्षयं पाहि महेश जुष्ट-
मोजिष्ठया दक्षिणयैव रातिम् ।। १०४
स्मरन् पुरा सञ्चितपातकानि
खरं यमस्याभिमुखं यमारे।
बिभेमि मे देहि यथेष्टमायु-
र्यदि क्षतायुर्यदि वा परेतः ॥ १०५
सुगन्धगस्सुन्दरभस्मगौरै-
रनन्तभोगैर्मृदुलैरघोरैः।
इमं कदालिङ्गति मां पिनाकी
स्थिरोभरङ्गैः पुरुरूप उग्रः॥ १०६
क्रोशन्तमीशः पतितं भवाब्धौ
नागास्यमण्डूकमिवातिभीतम् ।
कदानु मां रक्ष्यति देवदेवो
हिरण्यरूपस्स हिरण्यसन्दृक् ॥

चारुस्मितं चन्द्रकलावतंसं
गौरीकटाक्षार्हमयुग्मनेत्रम् ।
आलोकयिष्यामि कदानु देव-
मादित्यवर्णं तमसः परस्तात् ॥ १०८
आगच्छतात्राशु मुमुक्षवो ये
यूयं शिवं चिन्तयतोऽन्तरब्जे ।
ध्यायन्ति मुक्त्यर्थमिमं हि नित्यं
वेदान्तविज्ञानसुनिश्चितार्थाः ॥ १०९
आयात यूयं भुवनाधिपत्य-
कामा महेशं सकृदर्चयध्वम् ।
एनं पुराभ्यर्च्य हिरण्यगर्भो
भूतस्य जातः पतिरेक आसीत् ॥ ११०
ये कामयन्ते विपुलां श्रियं ते
श्रीकण्ठमेनं सकृदानमन्ताम् ।
श्रीमानयं श्रीपतिवन्द्यपाद-
श्श्रीणामुदारो धरुणो रयीणाम् ॥ १११

सुपुत्त्रकामा अपि ये मनुष्या
युवानमेनं गिरिशं यजन्ताम् ।
यतस्वयम्भूर्जगतां विधाता
हिरण्यगर्भस्समवर्तताग्रे ॥ ११२
अलं किमुक्तैर्बहुभिरसमीरितं
समस्तमस्याश्रयणेन सिध्यति ।
पुरैनमाश्रित्य हि कुम्भसम्भवो
दिवा न सक्तं पलितो युवाजनि ॥ ११३
अन्यं परित्यज्य ममाक्षिभृङ्गा
सर्वे सदैनं शिवमाश्रयध्वम् ।
आमोदवानेव मृदुश्शिवोऽयं
स्वादुः किलायं मधुमान् उतायम् ॥
भविष्यसि त्वं प्रतिमाविहीना
विनिर्जिताऽशेषनरामरा च ।
नमोऽस्तु ते वाणि महेशमेनं
स्तुहि श्रुतं गर्तनदं युवानम् ॥

यद्यन्मनश्चिन्तयसि स्वमिष्टं
तत्तद्भविष्यत्यखिलं ध्रुवं ते ।
दुःखे निवृत्ते विषये कदाचि-
धक्ष्यामहे सौमनसाय रुद्रम् ॥ ११६
अज्ञानयोगादपचारकर्म
यत्पूर्वमस्माभिरनुष्ठितं ते।
तद्देव सौढ्वा सकलं दयाळो
पितेव पुत्रान् प्रति नो जुषस्व ॥ ११७
संसाराख्यक्रुद्धसर्पेण तीव्रैः
रागद्वेषोन्मादलोभादिदन्तैः ।
दष्टं दृष्टया मां दयाळुः पिनाकी
देवस्त्राता प्रायतामप्रयच्छन् ।
इत्युक्त्वान्ते यत्समाधेर्न मन्त्री
रुद्रं ध्यात्वा यान्ति जन्माहिदष्टाः ।
सन्तो नीलग्रीवमन्त्रात्मनाहं
तत्वायामि ब्रह्मणा वन्दमानः ॥

भवातिभीषणज्वरेण पीडितान्महाभया-
नशेषपातकालयानदूरकाललोचनान् ।
अनाथनाथ ते करेण मेषजेन कालह-
न्नुदूषणोवसो महेमृशस्व शूर राधसे ॥ १२०
जयेम येन सर्वमेतदिष्टमष्टदिग्गतं
भुवः स्थलं नभःस्थलं दिवःस्थलं च तद्गतम् ।
य एष सर्वदेवदानवानतस्सभापति-
स्समो ददा तुरं रयिं रयिं पिशङ्गसन्धृतम् ॥ १२१
नमो भवाय ते हराय भूतिभासितो
रसे नमो भवारये भवार्तिभीतिभङ्गदायिने ।
नमश्शिवाय विश्वपाय शाश्वताय शूलिने
न यस्य हन्यते सखा न जीयते कदाचन ॥ १२१
सुरपतिपतये नमो नमः
क्षितिपतिपतये नमो नमः।
ज्यापतिपतये नमो नमोऽम्बिका-
पतय उमापतये पशुपतये नमो नमः ॥

विनायकं वन्दनमस्तकाहति-
प्रणादसङ्गुष्टसमस्तविष्ठपम् ।
नमामि नित्यं प्रणतार्तिनाशनं
कविं कवीनामुपमश्रवस्तमम् ॥ १२४
देवा युद्धे यागे विप्राः स्वीयां सिद्धिं ह्रायं ह्रायम् ।
ये सिद्ध्यन्ति स्कन्दं वन्दे सुब्रह्मण्योग्रं सुब्रह्मण्योग्रम् ॥ १२५
नमश्शिवायै जगदम्बिकायै
शिवप्रियायै शिवविग्रहायै।
समुद्बभूवाद्रिपतेरसुतायै
चतुष्कवर्दायुवतिस्सुपेशाः ॥ १२६
हिरण्यवर्णां मणिनूपुराङ्घ्रिं
प्रसन्नवक्त्रांशुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं
वचो विदं वाचमुदीरयन्तीम् ॥ १२७
नमामि मेनातनयाममेय-
मुमामिमां मानवतीं च मान्याम् ।

करोति या भूतिसितौ स्तनौ द्वौ
प्रियं सखायं परिषस्वजाना ॥ १२८
कान्तामिमां कान्तनितान्तकान्ति
भ्रान्तामुमां तां नतहर्यजेन्द्राम् ।
नकोस्मियास्ते गिरिशस्य पार्श्वे
विश्वानि देवी भुवनामिचक्ष्या ॥ १२९
वन्दे गौरीं तुङ्गपीनस्तनीं तां
चन्द्रापीडां मृष्टसर्वाङ्गरागाम् ।
एषा देवी प्राणिनामन्तरात्मा
देवं देवं राधसे चोदयन्तीम् ॥ १३०
एनां वन्दे दीनरक्षाविनोदा-
मेनां कन्यामानतानन्ददात्रीम् ।
या विद्यानां मङ्गळाना च वाचा-
मेषा नेत्री राधसरसूनृतानाम् ॥ १३१
भवानुभूतोरुभयापहन्त्री
भवानुभागाभरणकभोगी।
धियं परां देहि शिवप्रिये मे
ययातिविश्वा दुरिता तरेम ॥ १३२

शिवे कथं त्वं स्तुतिभिस्तु गीयसे
जगत्त्रयी केळिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरेन्दिरा शची
सरस्वती वा सुभगागदिर्वसु ॥ १३३
इमं स्तवं जैमिनिना समीरितं
द्विजोत्तमो यः पठतीशभक्तितः ।
तमिष्टवाक्विद्धिमतिश्रियः परं
परिष्वजन्ते जनयो यथामतिम् ।। १३४
महीपतिर्यस्तु युयुत्सुरादरा-
दिदं पठत्याशु तथैव सादरात् ।
प्रयान्ति वा शीघ्रमथान्तकं भियं
परं दधाना हृदयेषु शत्रवः ॥ १३५
लभन्ते पठन्तो मतिं बुद्धिकामा
लभन्ते चिरायुस्तथाऽऽयुष्यकामाः ।
लभन्ते तथैव श्रियं पुष्टिकामा
लभन्ते ह पुत्रान् लभन्ते ह पौत्रान् ॥१३६
इति श्रीजैमिनिमहर्षिणा प्रणीतो वेदपादस्तवस्सम्पूर्णः ॥

"https://sa.wikisource.org/w/index.php?title=वेदपादस्तवः&oldid=320000" इत्यस्माद् प्रतिप्राप्तम्