विष्णुस्मृतिः/नवचत्वारिंशात्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

मार्गशीर्षशुक्लैकादश्यां उपोषितो द्वादश्यां भगवन्तं श्रीवासुदेवं अर्चयेत् । । ४९.१ । ।

पुष्पधूपानुलेपनदीपनैवेद्यैः वह्निब्राह्मणतर्पणैश्च । । ४९.२ । ।

व्रतं एतत्संवत्सरं कृत्वा पापेभ्यः पूतो भवति । । ४९.३ । ।

यावज्जीवं कृत्वा श्वेतद्वीपं आप्नोति । । ४९.४ । ।

उभयपक्षद्वादशीष्वेवं संवत्सरेण स्वर्गलोकं आप्नोति । । ४९.५ । ।

यावज्जीवं कृत्वा विष्णुलोकं । । ४९.६ । ।

एवं एव पञ्चदशीष्वपि । । ४९.७ । ।

ब्रह्मभूतं अमावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् । । ४९.८ । ।

दृश्येते सहितौ यस्यां दिवि चन्द्रबृहस्पती ।
पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा । । ४९.९ । ।

तस्यां दानोपवासाद्यं अक्षयं परिकीर्तितम् ।
तथैव द्वादशी शुक्ला या स्याच्छ्रवणसंयुता । । ४९.१० । ।