विश्वन्तरावदानम्

विकिस्रोतः तः
विश्वन्तरावदानम्
[[लेखकः :|]]


(१) पुनरपि यथैष अकृतज्ञः अकृतवेदी तच्छ्रूयतां
(२) भूतपूर्वं भिक्षवो विश्वपुर्यां राजधान्यां विश्वामित्रो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं. धार्मिको धर्मराजा धर्मेण राज्यं कारयति. स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः
(३) सोऽपरेण समयेन देव्या सार्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता
(४) साष्टानां व नावानां वा मासानामत्ययात्प्रसूता. दारको जात अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिरा प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुंगनासः सर्वांगप्रत्यंगोपेतः
(५) तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते. किं भवतु दारकस्य नामेति ज्ञातय ऊचुर्यस्मादयं दारको विश्वामित्रस्य राज्ञः पुत्रस्तस्माद्भवतु दारकस्य विश्वन्तर इति नामेति. तस्य विश्वन्तर इति नामधेयं व्यवस्थापितं.
(६) विश्वन्तरो दारकः अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तः द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनकधात्रीभ्यां. स अष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्ध्यते ह्रदस्थमिव पङ्कजं
(७) स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायां. स यानि तानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायामश्वपृष्ठे रथे त्सरौ धनुष्यपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे च्छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः
(८) विश्वन्तरः कुमारो श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते तस्य प्रदानविस्तरमुपश्रुत्य योजनशतादभ्यर्थिजनोऽभ्यागच्छति. सर्वं च परिपूर्णमनोरथं प्रेषयति
(९) अथ कदाचिद्बोधिसत्वो मणिकनकरजतवज्रविद्रुमवैडूर्यमुसारगल्वार्केन्द्रनीलविद्योतितं चन्दनवरसारपरिणामितं सिंहव्याघ्रद्वीपिचर्मपरिणद्धं पवनबलसमजवैः कनकरजतमणिघण्टिकापूर्णितरवैश्चतुर्भिस्तुरगैर्युक्तं स्यन्दनवरमधिरुह्य नगरादुद्यानाभिमुखो निर्ययौ.
(१०) अथ केचित्प्रत्यर्थिकप्रयुक्ता विप्रा वेदवेदांगविदस्त्वरितत्वरितं विश्वन्तरकुमारमभिगम्योचुः जयतु भवां क्षत्रियकुमारः इत्याह च
सर्वेषु खलु लोकेषु विश्रुतः सर्वदो भवान् ।
रथमेतद्द्विजातिभ्यो दानं त्वं दातुमर्हसि ॥
(११) इत्येवमुक्ते बोधिसत्वो लघुलघ्वेव तस्माद्रथवरादवतीर्य हृष्टतुष्टप्रमुदितहृदयस्तेभ्यो द्विजातिभ्यस्तं रथवरमुपदर्शयन्नुवाच
यथा मया रथस्त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिमुत्तमाम् ॥
(१२) सोऽपरेण समयेन कुन्दकुमुदहिमरजतसिताभ्रवर्णं सप्तसुजातसुप्रतिष्ठितचरणतलमैरावणद्विरदविलासगामिनं परस्वाभाव्यलक्षणालंकृतं पुण्यदर्शनं राज्यवर्धनं नाम गजवरमधिरुह्य परितुष्टभृत्यमित्रसेवकानुयात्रिकैश्चन्द्र इव नक्षत्रगणपरिवृतः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौंचमयूरशुकशारिकाकोकिलजीवंजीववकनिर्घोषितवनषण्डमुद्यानभूमिं विनिर्ययौ
(१३) अथ केचित्प्रत्यर्थिकप्रयुक्ता विप्रा वेदवेदांगविदस्त्वरितत्वरितं विश्वन्तरकुमारमभिगम्योचुः: जयतु भवां क्षत्रियकुमार इत्याह च
सदैत्यामरलोकेषु विश्रुतः सर्वदो भवाम् ।
दातुमेनं{द्} गजवरमस्मभ्यस्त्वमिहार्हसि ॥
(१४) एवमुक्ते बोधिसत्वस्तस्मादपि गजवराल्लघुलघ्वेवावतीर्य हृष्टतुष्टप्रमुदितमनास्तेभ्यो द्विजातिभ्यस्तं गजवरमुपदर्शयन्नुवाच
यथा मया गजस्त्यक्तो विप्रेभ्यः परया मुदा ।
तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिमुत्तमाम् ॥
(१५) शुश्राव च राजा विश्वामित्रः पुत्रेण चात्र विश्वन्तरेण राज्यवर्धनो नाम गजवरः प्रत्यर्थिकप्रयुक्तेभ्यो विप्रेभ्यो दत्तः इति. श्रुत्वा च पुन राज्ञा विस्वामित्रेण परमकोपकुपितेन विश्वन्तरः कुमार आहूयोक्तः: गच्छ कुमार न ते मद्विषये वस्तव्यमिति.
(१६) कुमारः पित्रा परित्यक्तश्चिन्तयामास: बोधाय मया कृतव्यवसायेन सर्वलोकानुग्रहार्थं बद्धसन्नाहेन गजोऽसौ त्यक्तस्
तद्गृहे वर्तमानेन देयं दानं यथाबलम् ।
तपोवनं वा संशृत्य कर्तव्यो नियमः परः ॥
ततोऽहं गृहमुत्सृज्य प्रयास्यामि तपोवनम् ।
वक्तुं न तूत्सहे वाक्यं न दास्यामीति याचकम् ॥
(१७) अथैवं कृतमतिर्बोधिसत्वो भार्याया माद्र्याः सकाशमभिगम्यैतद्विस्तरेण निवेदयामास. ततो माद्री सहश्रवणादेव प्रियविप्रयोगाशंकितहृदया कृतकरपुटा बोधिसत्वमुवाच: आर्यपुत्र यद्येवमहमपि तपोवनं यास्यामि. न शक्यं मया आर्यपुत्रवियुक्तया मुहूर्तमपि प्राणान् धारयितुं. कुतः
गगनमिव चन्द्रविहीनं सस्यविहीना भवेद्यथा पृथिवी ।
नलिनीव जलविहीना भर्तृविहीना तथा भवेन्नारी ॥
(१८) बोधिसत्व उवाच: अवश्यमेवावयोरन्ते वियोगेन भवितव्यं. एष हि लोकस्वभावः. त्वं च प्रवरान्नपानशयनासनसंवसनोपचिता परमसुकुमारशरीरा. तपोवने तृणपर्णोपचितायां भूम्यां स्वप्तव्यं, मूलपुष्पफलानि चाहारो दर्भोपलकुशकण्टकचितायां मह्यां विचरितव्यमभीक्ष्णं चोपवास उपवसितव्यः, सर्वजनस्यात्मा दर्शयितव्यः, सर्वप्रयत्नेनातिथयः पूजयितव्यास्. तत्रापि च मया अवश्यं यथाशक्त्या दानं देयं. तत्र भवत्या न कथंचिदनुतापः करणीयस्तत्पुनरपि तावत्संप्रधार्यतामिति.
माद्री कथयत्यार्यपुत्र यथाशक्त्याहमार्यपुत्रस्य अनुवर्तिष्यामीति.
बोधिसत्वः कथयति यद्येवं स्मर्तव्या ते इयं प्रतिज्ञेति.
(१९) ततो बोधिसत्वः पितरमभिगम्य मूर्ध्ना प्रणिपत्योवाच
क्षमस्व यत्तात मयापराद्धं गजप्रदानं प्रति पार्थिवेन्द्र ।
एष प्रयास्यामि पुरादरण्यं कोशक्षयो मा नृपते तवाभूद् ॥ इति
ततः पुत्रवियोगविक्लवो राजा बाष्पोपरुध्यमानगद्गदकण्ठ उवाच: पुत्र तिष्ठ निवर्त्यतां दानान्मतिरिति. बोधिसत्व उवाच
अप्येव परिवर्तेत धरा सधरणीधराः ।
प्रदानान्न त्वहं चित्तं निवर्तेयं महीपते ॥
इत्युक्त्वा प्रक्रान्तः.
(२०) ततः पुत्रदुहितृकलत्रसहितः शोकोत्कण्ठैः पौरजानपदशतसहस्रैरनुगम्यमानो रथमधिरुह्य तस्मान्नगरवरान्निर्जगाम.
(२१) अथ कश्चित्पुरुषस्तं रुदितपरिदेवितशब्दं श्रुत्वा महाजनकायं च नगरद्वारेण निर्गच्छन्तं दृष्ट्वान्यतमं पुरुषमुवाच: भोः पुरुष किंकृतोऽयं महाजनकायस्य रुदनशब्द इति. स उवाच: किं भवान्न जानीते. यदस्मद्-
देशात्स्वकान्नृपतिना स्वसुतः सुदंष्ट्रो
निर्वास्यते स्थिरधृतिर्निरतः प्रदाने ।
स प्रस्थितो वनमपेत्य सपुत्रदारः
पौराः च भृत्य करुणंकरुणं रुदन्ति ॥
(२२) ततो विश्वन्तरो बोधिसत्वस्तस्मान्नगरवरान्निर्गतान् पौरान् यथान्यायमभिगम्योवाच: निवर्तन्तु निवर्तन्तु भवन्तः. सुचिरमपि हि प्रियसंप्रयोगो भूत्वावश्यमेवान्ते वियोगावसानो भविष्यति. वासवृक्षाध्वप्रतिश्रयभूतोऽपि बन्धुजनवियोगोऽवश्यभावी प्रियविप्रयोगः. कुतः
सर्वेषु लोकेष्ववगम्य जन्तोः प्रियैर्वियोगो भवतीति मत्वा ।
कार्या भवद्भिर्भुवि सर्वयत्नैः स्थिराप्रकंप्या च शमाय बुद्धिः ॥
(२३) अथ त्रिंशद्योजनातिक्रान्तं बोधिसत्वमवेक्ष्यान्यतमो ब्राह्मणोऽभिगम्योवाच: भोः क्षत्रियकुमार इतस्त्रिंशन्मात्रैर्योजनैरधिष्ठानं यतोऽहं भवतो गुणश्रवणादागत इति. तदर्हसि भवाननेन रथवरेण मे सफलं श्रमं कर्तुमिति.
ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणमुवाच
अहो द्विजस्यास्य सुदारुणा मतिर्वनेऽपि योऽभ्यर्थयते नृपात्मजम् ।
न नाम कारुण्यमिहास्य जायते नरेन्द्रपुत्रे नृपतिश्रिया च्युते ॥
बोधिसत्व उवाच: एवं न खलु न खलु भवत्या ब्राह्मणः परिभाषणीयः. कुतः
यद्येते न भवेयुरर्थनदयो माद्रि प्रतिग्राहकाः
बोधिं कः समवाप्नुयाद्भुवि नरः सर्वप्रदानादृते ।
षड्भिः पारमिताभिरुत्तमगुणाः संबोधिसत्वाः सदा
दानाद्याभिरवाप्नुवन्ति नियतं सर्वज्ञतामुत्तमाम् ॥
(२४) अथ बोधिसत्वस्तमप्यश्वरथं परमेण प्रहर्षेण तस्मै ब्राह्मणाय दत्वोवाच
अन्नेन मात्सर्यमलप्रवाहिणा रथप्रदानेन ममास्त्विह द्विज ।
महर्षिभिः षड्भिरनुप्रवर्तितो निरास्रवो धर्ममयो महारथः ॥
(२५) ततो बोधिसत्वः प्रमुदितहृदयस्तमपि रथवरं ब्राह्मणाय दत्वा कृष्णाजिनां कुमारीं स्कन्धे आरोप्य माद्री च जालिनं कुमारं तपोवनाभिमुखौ संप्रस्थितौ. अनुपूर्वेण तपोवनमनुप्राप्तौ. ततो विश्वन्तरो बोधिसत्वस्तस्मिं तपोवने स्वहृदयप्ररितोषकरं व्रतमास्थाय विजहार.
(२६) तेन खलु समयेन अन्यतमस्मिं कर्वटके ब्राह्मणः प्रतिवसति स्म. तेन सदृशात्कुलात्कलत्रमानीतं. स तया सार्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जात अष्टादशभिरपलक्षणैः समन्वागतः. स यदा जुज्जवयति, तस्य जुज्जुको जुज्जुक इति संज्ञा संवृत्ता.
(२७) अन्यतमस्मिमपि कर्वटके ब्राह्मणः प्रतिवसति चतुर्वेदज्ञस्. तेन सदृशात्कुलात्कलत्रमानीतं. स तया सार्धं क्रीडति रमति परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता अभिरूपा दर्शनीया प्रासादिका चतुर्दिनावधिना महती संवृत्ता. तेन ब्राह्मणेन प्रतिज्ञा कृता: न मया कस्यचिदियं दुहिता रूपेण वा कुलेन वा धनेन वा शिल्पेन वा दातव्यापि तु यो ममान्तिकाच्चतुरो वेदानधिगमिष्यति, तस्य मयेयं दातव्या.
(२८) अथ जुज्जुको मन्त्रार्थी मन्त्रगवेषी तस्य गृहमुपसंक्रान्तः. स तेन ब्राह्मणेनाभिहितो: भो माणव कुतस्त्वं किं वा प्रार्थयसि
स कथयतीच्छाम्यहमुपाध्यायस्य पादशुश्रुषां कर्तुं.
स कथयति: शोभनमेवं कुरुष्व माणव. करणीयमेतद्ब्राह्मणानां.
(२९) स तस्यान्तिके वेदाध्ययनं कर्तुमारब्धः. स मेधावी जातीयः. तेन अल्पीयसा कालेन चत्वारो वेदा अधीताः
(३०) स ब्राह्मणः संलक्षयति: मया प्रतिज्ञा कृता न मया कस्यचिदियं दुहिता रूपेण वा कुलेन वा धनेन वा शिल्पेन वा दातव्या. अपि तु यो ममान्तिकाच्चतुरो वेदानधिगमिष्यति तस्य मयेयं दातव्या. अनेन च माणवकेन ममान्तिकाच्चतुरो वेदानधिगता. अयं च अष्टादशभिरपलक्षणैः समन्वागतः. यद्येतां दारिकां स प्रतिगृह्णीयाच्छोभनं स्यात्.
(३१) तस्य तेनोक्तं: माणव मया प्रतिज्ञा कृता न मया कस्यचिदियं दुहिता रूपेण वा कुलेन वा धनेन वा शिल्पेन वा दातव्या, अपि तु यो ममान्तिकाच्चतुरो वेदानधिगमिष्यति तस्य मयेदं दातव्या. त्वया च ममान्तिकाच्चतुरो वेदा अधिगताः. तवाहं दुहिता भार्यार्थमनुप्रयच्छामि.
स कथयति: स्वस्ति प्रतिगृहीता भवतु.
तस्य तेन महता श्रीसमुदयेन विवाहः कारितः कृत्वा कथयति: माणव पत्नीमादाय स्वगृहं गच्छ.
(३२) स तां पत्नीमादाय स्वगृहं गतः. स तया उच्यते: आर्यपुत्र सुकुमारा नाहं शक्नोमि कर्म कर्तुं. मम उपस्थायकमनुप्रयच्छेति.
स कथयति: भद्रे कुतो मम उपस्थायकः.
सा कथयत्यार्यपुत्र विश्वपुर्यां विश्वामित्रो नाम राजा. तस्य पुत्रो विश्वन्तरो नाम. स यत्किंचित्याच्यते तत्सर्वं ददाति. तस्य सकाशान्मम उपस्थायकं मृगय.
स कथयति: भद्रे यद्येवं सहितं गच्छावः.
(३३) स तया सार्धं विश्वपुरिं गत्वा पृच्छति: कुत्र विश्वन्तरकुमारस्.
ते कथयन्ति: तपोवनं संश्रितः.
(३४) अथ जुज्जुकः पत्न्या सार्धं तपोवनं गतः.
(३५) ततोऽसौ ब्राह्मणो माद्र्या मूलफलार्थमभिगतायास्तपोवनान्निर्गत्य विश्वन्तरमभिगम्योवाच: जयतु भवान् क्षत्रियकुमार इति


॥।


(४०) तमर्थं निवेदयामास:
नूनं तपोवनगतौ हि फलाम्बुभक्ष्यौ बालौ सुतौ नयनतुष्टिकरौ मनोज्ञौ ।
दुःखान्वितस्य जगतः परिमोक्षणार्थं विश्वन्तरस्त्यजति कंपति येन भूमिः ॥
(४१) ततस्तौ बालदारकौ पितुराशयपरित्यागबुद्धिमवगम्य करुणकरुणं रुदन्तौ विश्वन्तरस्य पादयोर्निपत्य कृतकरपुटावूचतुः: प्रसीद तात मावां परित्याक्षीस्तदानीं गुरुविहीनौ गमिष्यावः
अंबा च तात निष्क्रान्ता त्वं च नो दातुमर्हसि ।
यावत्तामपि पश्यावस्ततो दास्यति नौ भवान् ॥
ततो बोधिसत्वः सहविक्लवहृदय .. .. .. .. .. वदनस्तौ बालदारकौ परिष्वज्योवाच: पुत्रकौ
न मे हृदयमस्निग्धं नाकृपा नापि नैर्घृणम् ।
सर्वलोकहितार्थं तु त्यजामि गुणदर्शिनौ ॥
बुध्येवाहं परां बोधिमभिगम्य शिवां स्वयम् ।
दुःखार्णवगतं लोकं तारयेयं निराश्रयम् ॥
(४२) ततस्तौ बालदारकौ पितुराशयपरित्यागबुद्धिमवगम्य करुणदीनविलंबिताक्षरैः पादयोर्निपत्य कृतकरपुटावूचतुः
यद्येवं व्यवसायस्ते वचनादावयोस्त्वया
वक्तव्या जननी तात क्षन्तुमंब त्वमिहार्हसि ॥
अपि च तात
यन्नौ गुरोरपकृतं त्वयि बालबावाद्
यद्यप्रियं क्वचन किंचिदुदाहृतं वा ।
शुश्रूषया च परिपूरितमेव न स्याद्
बालापराध इति तत्खलु मर्षणीयम् ॥
इत्युक्त्वा पितरमभिवाद्य त्रिःप्रदक्षिणीकृत्य गुरुवचनपालकौ मुहुर्मुहुः संपरिवर्तमानौ नयनाम्बुपरिप्लुताक्षकौ तस्मादाश्रमपदाद्विनिश्चक्रामतुः.
(४३) ततो बोधिसत्वस्तैरतिकरुणैर्बालदारकवचोभिः विक्लवीकृतहृदयो बोधौ मनः प्रणिधाय तपोव + + + + निष्क्रान्तमात्रयोश्च पुनर्तयोर्बालदारकयोरयं त्रिसहस्रमहासहस्रो लोकधातुः षड्विकारं प्रकंपितोऽनेकैश्च देवतासहस्रैर्हाहाकारोऽन्तरिक्षाज्जातो बभूव
अहो प्रदानस्य माहात्म्यमहो सत्वस्य निश्चयः ।
बालाविमौ सुतौ त्यक्त्वा यन्न विक्रियते मनः ॥
(४४) तस्मिंश्च समये माद्री मूलफलान्यादायाश्रमपदाभिमुखी संप्रस्थिता. तेन च महता भूमिकंपेन त्वरितत्वरितमेवाश्रमपदं संप्रतस्थे. तत्रान्यतमा देवता सिंहरूपधारिणी भूत्व मार्गमवरुध्यमानावस्थिता मा हैव मद्री बोधिसत्त्वस्य सर्वसत्वनिर्मोक्षणकृतोद्योगस्य दानपारमितायां विघ्नमुत्पादयिष्यतीति.
ततो माद्री तां मृगराजवधूविलासिनीमुवाच
मृगराजवधूविलासिनि किमिदं मामुपरुध्य तिष्ठसि
ध्रुवमस्मि यथा पतिं गता लघु मार्गादपसर्प मे तथा ॥
अपि च
त्वमपि मृगराजपत्नी अहमपि भार्या नरेन्द्रसिंहस्य ।
धर्मेण भवसि भगिनी मृगराज्ञि ददस्व मे मार्गम् ॥
इत्येवमुक्ता सा सिंहरूपधारिणी देवता तस्मान्मार्गादपक्रान्ता
(४५) ततो माद्रीऽनिमित्तान्यप्रसन्नानीति मत्वा मुहूर्तं चिन्तयामास: यथायमन्तरिक्षे रुदनशब्दः श्रूयते, यथा च वनवासिनां भूतानां विद्रावणशब्दो व्यक्तमाश्रमपदे अकुशलं भविष्यतीत्याह च
यथा स्फुरति मे नेत्रं यथा रौति विहंगमः ।
कथन्नौ बालकौ त्यक्तौ यथा च मतिरुत्सुका ॥
यथायं पृथिवीकंपो वेपते हृदयं च मे ।
सुव्यक्तौ बालकौ त्यक्तौ यथा कायश्च सीदति ॥
(४६) सैवमनर्थशतसहस्राणि चिन्तयन्ती आस्रमपदं गत्वा प्रविश्य चाश्रमपदं ससंभ्रान्ता निरीक्षते, न पश्यति तौ पुत्रकौ. ततो माद्री विक्लवहृदया वेपमाना स्थानपदानुसारं विकल्पयत्यस्मिन् प्रदेशे जालिमां कुमारः सह भगिन्या मृगपोतकैरभीक्ष्णं क्रीडितवां. इमानि च ताभ्यां पांसुनगराणि कृतानि. इमानि च तयोः क्रीडनकानि. तौ तु न पश्यामि. अथ वा अंबा न दृश्यत इति पर्णकुटीं प्रविश्य शयितौ भविष्यतः
(४७) इत्येवमाशंकापरिगतहृदया सुतदर्शनलालसा मूलफलान्येकान्ते उपनिक्षिप्य बाष्पाम्बुपरिप्लुतेक्षणा भर्तुः पादयोर्निपत्य पृच्छत्यार्यपुत्र क्व गतौ तौ बालदारकाविति. विश्वन्तर उवाच
आशया समभिक्रान्तो ब्राह्मणो मम सन्निधिम् ।
तस्य तौ बालकौ दत्तौ तावनुज्ञातुमर्हसि ॥
(४८) अथैवमुक्ता माद्री विषदिग्धविद्धेव मृगी भूमौ निपपात. जलाश्रयोद्धृतेव मत्सी पृथिव्यामावर्तनं परिवर्तनं करोति स्म. हृतपोतेव कुररी करुणकरुणं विरौति स्म. प्रनष्टवत्सेव च गौर्बहुविधं हंभारवैर्विललाप. आह च
बालपंकजसमानवक्त्रकौ पद्मपत्रसुकुमारहस्तकौ ।
दुःखितावननुभूतदुःखकौ कां गतिं मम गतौ हि पुत्रकौ ॥
निरतौ मृगकैः सहाश्रमे मृगशावार्जवकौ मृगाक्षकौ ।
कथमद्य नु पुत्रकौ मम व्रजतोऽन्यस्य वशेन दुःखितौ ॥
नयनांबुपरिप्लुताक्षकौ विरुदन्तौ करुणं सुदुःखितौ ।
न च मेऽद्य सुदृष्टकौ कृतौ कृपणैर्जीवति दुःखितौ बत ॥
अंगे मम तौ विवृद्धकौ मूलपुष्पफलभोजनात्मकौ ।
क्षान्तिमार्दवैः सदा गुरुप्रियौ दुःखितौ हि परमं सुतौ मम ॥
ज्ञातिमातृपरिहीनकौ च तौ बन्धुभिश्च सहसा निराकृतौ ।
दुर्जनं जनमुपेत्य पापकं दुःखितौ हि परमं सुतौ मम ॥
क्षुत्तृषापरिगृहात्मकौ सदा कस्य तौ वशमुपागमिष्यतः ।
आर्त्तिदुःखपरिपीडितौ च तौ प्रेष्यभावमुपयास्यतो ध्रुवम् ॥
कर्म नूनमिह पापकं मया अन्यजन्मनि सुदारुणं कृतम् ।
प्राणिनः प्रियशतैर्वियोजिता येन गौरिव विरौम्यधर्मिका ॥
येन सत्यवचनेन मे सदा सर्वसत्वसमतां नतं मनस्।
तेन सत्यवचनेन मे सुतौ दासभावगमनाद्विमुच्यताम् ॥
(४९) ततो माद्री ताभ्यां बालदारकाभ्यां ये वृक्षा रोपितकाः पालितकाश्च तान् किसलयसंछन्नाण्दृष्ट्वा ससंभ्रमा परिष्वज्योवाच
बाल बाल कलशावसिक्तकाः पल्लवाः प्रपतिताश्रुबिन्दवः ।
चेतना इव रुदन्ति वृक्षका बालकाः स्तनविहीनका इवेति ॥
(५०) पुनश्च तयोर्बालदारकयोः क्रीडनकान्याश्रमवासिनो मृगशावकान् दृष्ट्वा करुणादीनविलंबितैरक्षरैः वचनमुवाच
दुःखमेतदपरं ह्यनल्पकं यद्रमन्ति मृगशावका इमे ।
तद्वयस्यपरिदर्शनोत्सुकाः स्थानकेषु परिमार्गमाणका ॥
(५१) ततो माद्री येन मार्गेण तौ बालदारकौ गतौ तं मार्गमनुसरन्ती तयोर्बालदारकयोरितश्चामुतश्च पदान्यरिक्तकानि दृष्ट्वा तीव्रदुःखाभ्याहता पुनरुवाच
ताड्यमानौ ध्रुवं नीतौ यथा पदविलंबितौ ।
क्वचिद्गतौ गतावृत्तौ हा नृशंस द्विजोत्तम ॥
बाष्पगद्गदनिरुद्धकण्ठकौ वेपमानरुचिराधरौष्ठकौ ।
तौ हि मे हरिणपरिप्लुताक्षकौ कोमलैश्चरणकैः कथं गताविति ॥
(५२) ततो बोधिसत्वस्तांस्तथापरिदेवनात्मिकां दृष्ट्वा ताभिस्ताभिः श्रुतिभिरनित्यताप्रतिसंयुक्ताभिः बहुप्रकारमनुसंज्ञापयन्नुवाच
न दर्पान्न च विद्वेषान्मया त्यक्तं सुतद्वयम् ।
सर्वसत्वहितार्थं तु त्यक्तौ तौ दुस्त्यजौ सुतौ ॥
आत्मपुत्रकलत्रांश्च त्यक्त्वा परमदुस्त्यजाम् ।
प्राप्नुवन्ति महासत्वा विधिवद्बोधिमुत्तमाम् ॥
त्यागाधिष्ठानान्माद्रि पुत्रौ यदा ते त्यक्तौ दुस्त्याजौ लोकनिर्मोक्षणार्थम् ।
दद्यां स्वां दारां वाहनं चापि वित्तं सर्वं सर्वेभ्यो दातुमेषा मतिर्मे ॥ इत्य्
(५३) अथ माद्री धैर्यमालंब्य चित्तेन बोधिसत्वमुवाच
न करोम्यन्तरायं ते मा ते भून्मतिरन्यथा ।
मामपीच्छसि चेद्दातुं निर्विशंकः प्रयच्छ माम् ॥
अपि च
यस्यार्थे स्वजनान् वीर त्यजसि स्नेहविक्लवाम् ।
तमर्थं प्राप्नुहि क्षिप्रं तारय त्रिभवाज्जगत् ॥
(५४) ततः शक्रो देवेन्द्रस्तदत्यद्भुतमतिदुष्करं माद्र्या बोधिसत्वस्य च व्यवसायमवगम्य त्रिदशगणपरिवृत उपरि विहायसा तदाश्रममुपगम्योदारेणावभासेन तद्वनमवभास्य गगनतलस्थ एव बोधिसत्वमुवाच
यथा मूढे लोके कुमतिमतिपर्याकुलमतौ
विभो भोगासक्ते सुतहृदयपाशानि सहिते ।
त्वमेको निःसंगस्त्यजसि तनयां स्नेहजनकां
ध्रुवं क्षेमं शान्तं विमलमरजं प्राप्स्यसि पदम् ॥
(५५) तदेवं प्रोत्साह्य बोधिसत्वं शक्रो देवेन्द्रश्चिन्तयामास: एकोऽयमुपस्थायकरहितः खेदमापत्स्यते. यन्वहमप्यस्मात्प्राथयेयमिति. ततो बोधिसत्वसकाशादपक्रम्य ब्राह्मणवेषमास्थाय पुनर्बोधिसत्वमुवाच
इमां सर्वानवद्यांगीमनुरक्तां पतिव्रताम् ।
संप्रयच्छ कुलश्लाघ्यां मम भृत्यार्थभागिनीम् ॥
(५६) ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणमुवाच
निर्लज्जश्चासि लुब्धश्च त्वमिह ब्राह्मणाधम ।
सद्धर्मनिरतां यस्त्वं मामिच्छसि पतिव्रताम् ॥
(५७) ततो बोधिसत्वः करुणापरिगतहृदयो माद्रीं निरीक्षितुमारब्धः. अथ माद्री बोधिसत्वमुवाच
न शोचाम्यहमात्मानं नापेक्षा मे तथात्मनि ।
यथा त्वामनुशोचामि कथमेको भविष्यसि ॥
ततो बोधिसत्वो माद्रीमुवाच
अहमिह भुवि माद्रि नानुशोच्यः परिमृगयं पदमक्षयं विशोकम् ।
तमिममनुसर द्विजं विशोका मृगशरणं त्वहमाश्रमेऽभ्युपैमि ॥
(५८) इति विदित्वा हृष्टतुष्टप्रमुदितमनाश्चिन्तयामास
इदमस्मिं वने दानं पश्चिमं मे भविष्यति
माद्रीप्रियां परित्यज्य भविष्याम्यपरिग्रहः ॥
इति विदित्वा माद्रीं च पाणिना गृहीत्वा तं ब्राह्मणमुवाच
भावानुरक्तशुश्रूषां सद्वृत्तां प्रियवादिनीम् ।
मम भार्यामिमां शिष्यां गृहाण त्वं द्विजोत्तम ॥
(५९) ततः पत्नीमुपस्पृश्य त्यजतो बोधिकांक्षया ।
षड्विकारमही कृत्स्ना चचालाम्भसि नौर्यथा ॥
(६०) ततो माद्री बाष्पोपरुध्यमाना गद्गदकण्ठी ब्राह्मणवशमागता पतिपुत्रदुहितृविरहिता इदमभ्रवीत्
कीदृङ्मया कृतं कर्म अनार्यं पूर्वजन्मसु ।
नष्टवत्सेव गौर्येन विरौमि विजने वने ॥
(६१) ततः शक्रो देवेन्द्रो ब्राह्मणवेषमन्तर्धाप्य स्ववेषेण स्थित्वा माद्रीमुवाच
न ब्राह्मणोऽस्मि सुभगे न च मानुषोऽस्मि
शक्रस्त्वहं ह्यसुरनाशकरः सुरेन्द्रः ।
प्रीतोऽस्म्यनेन विनयेन तवोत्तमेन
तद्ब्रूहि किं वरमपीच्छसि मत्सकाशात् ॥
ततो माद्री तद्वचनजनितसौमनस्या शक्रं प्रणिपत्योवाच
मम पुत्रौ सहस्राक्ष दासभावाद्विमोचय ।
पितामहसकाशं च प्रापय त्रिदशेश्वर ॥
(६२) तथेत्युक्त्वा महेन्द्रः पुनराश्रमं प्रविश्य बोधिसत्वसकाशमभिजग्मिवान्. माद्रीं च वामेन पाणिना गृहीत्वा बोधिसत्वमुवाच
अहं माद्रीमिमां तुभ्यं ददामि परिचारिकाम् ।
न च ते कस्यचिद्देया न्यासद्रोहो हि गर्हितः ॥
(६३) ततः शक्रो देवेन्द्रस्तं बालदारकपरिगृहीतारं ब्राह्मणं तथा व्यामोहयामास यथान्यनगरशंकया तदेव नगरमुपगम्य तौ बालदारकौ विक्रीतुमारब्धो यावदमात्यैर्दृष्ट्वा राज्ञो निवेदितं
एतौ पुत्रस्य ते पुत्रौ ब्राह्मणोऽस्मिन् पुरोत्तमे ।
जालिनं चेव कृष्णां च विक्रीणीते ति दारुणः ॥
(६४) एतच्छ्रुत्वोद्भ्रान्तचित्तः स राजा प्राह क्षिप्रं दर्शयध्वं कुमारौ ।
नार्यश्चक्रुः क्रोशमन्तःपुरस्थाः पौरा राज्ञः क्षिप्रमेयुः समीपम् ॥
यावदन्यतमेनामात्येन राज्ञः सकाशमुपनीतौ
पुत्रौ निरीक्ष्य स नृपोऽभिमुखोपनीतौ
क्षीणस्वरौ कृशतनू मलदिग्धगात्रौ ।
सिंहासनात्क्षितितले सहसा पपातः
पौरा विचुक्रुशुरमात्यगणाः स्त्रियश्च ॥
(६५) ततो राजा अमात्यानामन्त्रयते
वनेऽपि वसतो दानेष्वभिरतं मनः ।
तमिहानयत क्षिप्रं पत्न्या सार्धं सुलोचनम् ॥
(६६) ततः शक्रो देवेन्द्रो बोधिसत्वमभिनमस्यमानः स्वभवनमुपजगाम.
(६७) शक्रेण च राजनि विश्वामित्रे अभ्यतीते ब्राह्मणामात्यपौरजानपदैः सार्धं तदाश्रमपदं गत्वा बोधिसत्वं याचित्वा स्वपुरमानीय राज्ये प्रतिष्ठापितवान्.
(६८) ततो विश्वन्तरो राजा सर्वंददो बभूव. स श्रंनब्राह्मणवनीपकसुहृत्सम्बन्धिबान्धवानुजीविजनेषु अनेकप्रकाराणि दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते
बोधिं प्रार्थयमानेन दानं देयं विशारदः ।
क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कसे ॥
हिरण्यं च सुवर्णं च गवाश्वमणिकुण्डलम् ॥
दद्यात्संपन्नशीलेभ्यो दासकर्मकरं तथा ॥
सुतदारपरित्यागं कृत्वा मुक्तेन चेतसा ।
प्राप्नुवन्ति नराः शुद्धिमस्मिं लोके परत्र चेति ॥
(६९) यदा विश्वामित्रेण राज्ञा विश्वन्तरनिमित्तं जुज्जुकाय ब्राह्मणाय प्रभूतं धनं दत्तं तदासौ विस्तीर्णविभवो जातः. तस्य सुहृत्सम्बन्धिबान्धवा मित्राणि चागम्य कथयन्ति: या काचित्तव श्रीसौभाग्यसंपत्सर्वासौ विश्वन्तरकुमारमागम्येति. स कथयति: किं मम विश्वन्तरेण कृतमुत्तमवर्णप्रसूतोऽहं, दक्षिणीयो लोकस्य; येन मम भोगा उपनयन्ति.
(७०) भगवानाह: किं मन्यध्वे भिक्षवो योऽसौ विश्वन्तरो नाम राजकुमार अहमेव स तेन कालेन तेन समयेन. योऽसौ जुज्जुको ब्राह्मण एष एवासौ देवदत्तस्तेन कालेन तेन समयेन. तदाप्येष अकृतज्ञः अकृतवेदी. एतर्ह्यप्येष अकृतज्ञ अकृतवेदी. तस्मात्तर्हि भिक्षवः एवं शिक्षितव्यं यत्कृतज्ञा भविष्यामः कृतवेदिनः स्वल्पमपि कृतं न नाशयिष्यामः, प्रागेव प्रभूतं. इत्येवं वो भिक्षवः शिक्षितव्यम्.
विश्वन्तरावदानं समाप्तम्.

"https://sa.wikisource.org/w/index.php?title=विश्वन्तरावदानम्&oldid=396791" इत्यस्माद् प्रतिप्राप्तम्