विज्ञाननौकाष्टकम्

विकिस्रोतः तः
विज्ञाननौकाष्टकम्
शङ्कराचार्यः
१९५३

॥ विज्ञाननौकाष्टकम् ॥

तपोयज्ञदानादिभिश्शुद्धबुद्धिर्विरक्तोग्रजातिः परे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्वं परं- ब्रह्मनित्यं तदेवाहमस्मि ॥ १

 दयाळुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य भक्त्त्या

विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निधिध्यस्य विद्वान् परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २

 यदानन्दरूपप्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेद .

शून्यम् । अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्मनित्यं तदेवाहमस्मि ॥ ३

 यदज्ञानतो भाति विश्वं समस्तं प्रणष्टं च सद्यो-

यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं. ब्रह्म नित्यं तदेवाहमस्मि ॥ ४

 अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं

यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ५१० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

 निषेधे कृते नेति नेतीति वाक्यै स्समाधिस्थिता-

नां यदा भाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं- ब्रह्म नित्यं तदेवाहमस्मि ॥ ६

 यदानन्दलेशैस्सदानन्दिविश्वं यदा भाति चान्य-

त्तथा भाति सर्वम् । यदालोचने हेयमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७

 यदानन्दसिन्धौ निमग्नः पुमान्स्यादविद्याविला-

सस्समस्तप्रपञ्चः । तदा न स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥ फलश्रुतिः ॥

स्वरूपानुसन्धानरूपस्तुतिं य: पठेदादराद्भक्ति-

भावो मनुष्यः । शृणोतीह वा नित्यमुद्युक्तचित्तो- भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९

 विज्ञाननौकां परिगृह्य कश्चित्तरेद्यवज्ञानमयं भवा-

ब्धिम् । ज्ञानाम्भसा यः परिहृत्य तृष्णां विष्णोः पदं याति स एव धन्यः ॥ १०

इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर भगवत्पादाचार्य विरचितं विज्ञाननौकाष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=विज्ञाननौकाष्टकम्&oldid=320228" इत्यस्माद् प्रतिप्राप्तम्