वाक्यपदीयम्/तृतीयोध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← द्वितीयोध्यायः वाक्यपदीयम्
तृतीयोध्यायः
[[लेखकः :|]]

३,१ः जातिसमुद्देश
द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् । । ३,१.१ । ।
पदार्थानां अपोद्धारे जातिर्वा द्रव्यं एव वा ।
पदार्थौ सर्वशब्दानां नित्यावेवोपवर्णितौ । । ३,१.२ । ।
केषां चित्साहचर्येण जातिः शक्त्युपलक्षणम् ।
खदिरादिष्वशक्तेषु शक्तः प्रतिनिधीयते । । ३,१.३ । ।
अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते ।
अतो जात्यभिधानेऽपि शक्तिहीनं न गृह्यते । । ३,१.४ । ।
संश्लेषमात्रं बध्नातिर्यदि स्यात्तु विवक्षितः ।
शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् । । ३,१.५ । ।
स्वा जातिः प्रथमं शब्दैः सर्वैरेवाभिधीयते ।
ततोऽर्थजातिरूपेषु तदध्यारोपकल्पना । । ३,१.६ । ।
यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते ।
संयोगिसन्निकर्षाच्च वस्त्रादिष्वपि गृह्यते । । ३,१.७ । ।
तथा शब्दार्थसंबन्धाच्छब्दे जातिरवस्थिता ।
व्यपदेशेऽर्थजातीनां जातिकार्याय कल्पते । । ३,१.८ । ।
जातिशब्दैकशेषे सा जातीनां जातिरिष्यते ।
शब्दजातय इत्यत्र तज्जातिः शब्दजातिषु । । ३,१.९ । ।
या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा ।
जातिः सा शब्दजातित्वं अव्यतिक्रम्य वर्तते । । ३,१.१० । ।
अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः ।
व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः । । ३,१.११ । ।
जातौ पदार्थे जातिर्वा विशेषो वापि जातिवत् ।
शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः । । ३,१.१२ । ।
द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते ।
द्रव्यधर्माश्रयाद्द्रव्यं अतः सर्वोऽर्थ इष्यते । । ३,१.१३ । ।
अनुप्रवृत्तिधर्मो वा जातिः स्यात्सर्वजातिषु ।
व्यावृत्तिधर्मसामान्यं विशेषे जातिरिष्यते । । ३,१.१४ । ।
संयोगिधर्मभेदेन देशे च परिकल्पिते ।
तेषु देशेषु सामान्यं आकाशस्यापि विद्यते । । ३,१.१५ । ।
अदेशानां घटादीनां देशाः संबन्धिनो यथा ।
आकाशस्याप्यदेशस्य देशाः संबन्धिनस्तथा । । ३,१.१६ । ।
भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्वनुवर्तते ।
समवायिषु भेदस्य ग्रहणं विनिवर्तते । । ३,१.१७ । ।
अतः संयोगिदेशानां गौणत्वं परिकल्प्यते ।
अविवेकात्प्रदेशेभ्यो मुख्यत्वं समवायिनाम् । । ३,१.१८ । ।
अनुप्रवृत्तिरूपा या प्रख्या तां आकृतिं विदुः ।
के चिद्व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते । । ३,१.१९ । ।
भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ।
भावात्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते । । ३,१.२० । ।
नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता ।
आत्मतत्त्वेषु भावानां असंसृष्टेषु विद्यते । । ३,१.२१ । ।
सर्वशक्त्यात्मभूतत्वं एकस्यैवेति निर्णये ।
भावानां आत्मभेदस्य कल्पना स्यादनर्थिका । । ३,१.२२ । ।
तस्माद्द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः ।
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः । । ३,१.२३ । ।
यथैव चेन्द्रियादीनां आत्मभूता समग्रता ।
तथा संबन्धिसंबन्ध- संसर्गेऽपि प्रतीयते । । ३,१.२४ । ।
न तदुत्पद्यते किं चिद्यस्य जातिर्न विद्यते ।
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका । । ३,१.२५ । ।
कारणेषु पदं कृत्वा नित्यानित्येषु जातयः ।
क्व चित्कार्येष्वभिव्यक्तिं उपयान्ति पुनः पुनः । । ३,१.२६ । ।
निर्वर्त्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् ।
स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका । । ३,१.२७ । ।
विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् ।
व्यक्त्याश्रितास्रिता जातेः संख्याजातिर्विशेषिका । । ३,१.२८ । ।
यथा जलादिभिर्व्यक्तं मुखं एवाभिधीयते ।
तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते । । ३,१.२९ । ।
यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते ।
इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते । । ३,१.३० । ।
तथात्मरूपग्रहणात्केषां चिद्व्यक्तयो विना ।
सामान्यज्ञानभेदानां उपयान्ति निमित्तताम् । । ३,१.३१ । ।
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्मृताः । । ३,१.३२ । ।
संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः । । ३,१.३३ । ।
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तां आहुस्त्वतलादयः । । ३,१.३४ । ।
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्त्वं इति कथ्यते । । ३,१.३५ । ।
सैव भावविकारेषु षडवस्थाः प्रपद्यते ।
क्रमेण शक्तिभिः स्वाभिरेवं प्रत्यवभासते । । ३,१.३६ । ।
आत्मभूतः क्रमोऽप्यस्या यत्रेदं कालदर्शनम् ।
पौर्वापर्यादिरूपेण प्रविभक्तं इव स्थितम् । । ३,१.३७ । ।
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते । । ३,१.३८ । ।
पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानां आश्रयाज्जन्म कथ्यते । । ३,१.३९ । ।
आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः ।
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः । । ३,१.४० । ।
पृथिव्यादिष्वभिव्यक्तौ न संस्थानं अपेक्षते ।
अनुच्छिन्नाश्रयाज्जातिरनित्येऽप्याश्रये स्थिता । । ३,१.४१ । ।
अनुच्छेद्याश्रयां एके सर्वां जातिं प्रचक्षते ।
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः । । ३,१.४२ । ।
प्रकृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनाम् ।
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः । । ३,१.४३ । ।
ब्राह्मणत्वादयो भावाः सर्वप्राणिष्ववस्थिताः ।
अभिव्यक्ताः स्वकार्याणां साधका इत्यपि स्मृतिः । । ३,१.४४ । ।
चित्रादिष्वप्यभिव्यक्तिर्जातीनां कैश्चिदिष्यते ।
प्राण्याश्रितास्तु ताः प्राप्तौ निमित्तं पुण्यपापयोः । । ३,१.४५ । ।
ज्ञानं त्वस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः ।
आभ्यासान्मणिरूप्यादि- विशेषेष्विव तद्विदाम् । । ३,१.४६ । ।
जात्युत्पलादिगन्धादौ भेदतत्त्वं यदाश्रितम् ।
तद्भावप्रत्ययैर्लोकेऽनित्यत्वान्नाभिधीयते । । ३,१.४७ । ।
अस्वशब्दाभिधानास्तु नरसिंहादिजातयः ।
सरूपावयवेवान्या तासु श्रुतिरवस्थिता । । ३,१.४८ । ।
जात्यवस्थापरिच्छेदे संख्या संख्यात्वं एव वा ।
विप्रकर्षेऽपि संसर्गादुपकाराय कल्पते । । ३,१.४९ । ।
लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये ।
संख्याकर्मादिशक्तीनां श्रुतिसाम्येऽपि दृश्यते । । ३,१.५० । ।
न विना संख्यया कश्चित्सत्त्वभूतोऽर्थ उच्यते ।
अतः सर्वस्य निर्देशे संख्या स्यादविवक्षिता । । ३,१.५१ । ।
एकत्वं वा बहुत्वं वा केषां चिदविवक्षितम् ।
तद्धि जात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम् । । ३,१.५२ । ।
यद्येतौ व्याधितौ स्यातां देयं स्यादिदं औषधम् ।
इत्येवं लक्षणेऽर्थस्य द्वित्वं स्यादविवक्षितम् । । ३,१.५३ । ।
एकादिशब्दवाच्यायाः कर्मस्वङ्गत्वं इष्यते ।
संख्यायाः खनति द्वाभ्यां इति रूपाद्धि साश्रिता । । ३,१.५४ । ।
यजेत पशुनेत्यत्र संस्कारस्यापि संभवे ।
यथा जातिस्तथैकत्वं साधनत्वेन गम्यते । । ३,१.५५ । ।
लिङ्गात्तु स्यात्द्वितीयादेस्तदेकत्वं विवक्षितम् ।
एकार्थविषयत्वे च तल्लिङ्गं जातिसंख्ययोः । । ३,१.५६ । ।
अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः ।
क्रियायां अङ्गभावश्च तत्त्वेतस्माद्विवक्षितम् । । ३,१.५७ । ।
ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक्पृथक् ।
प्राजापत्या नवेत्येवम्- आदिभेदसमन्विताः । । ३,१.५८ । ।
अङ्गत्वेन प्रतीतानां संमार्गे त्वङ्गिनां पुनः ।
निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता । । ३,१.५९ । ।
नान्यत्र विधिरस्तीति संस्कारो नापि चाङ्गिता ।
हेतुः संख्याविवक्षाया यत्नात्सा हि विवक्षिता । । ३,१.६० । ।
संमार्जने विशेषश्च न ग्रहे क्व चिदाश्रितः ।
विहितास्ते च संस्कार्याः सर्वेषां आश्रयस्ततः । । ३,१.६१ । ।
प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिया ।
पशुना न प्रकल्पेत तत्स्यादेव प्रकल्पनम् । । ३,१.६२ । ।
एकेन च प्रसिद्धायां क्रियायां यदि संभवात् ।
पश्वन्तरं उपादेयं उपादानं अनर्थकम् । । ३,१.६३ । ।
यथैवाहितगर्भायां गर्भाधानां अनर्थकम् ।
तथैकेन प्रसिद्धायां पश्वन्तरं अनर्थकम् । । ३,१.६४ । ।
तावतार्थस्य सिद्धत्वादेकत्वस्याव्यतिक्रमम् ।
के चिदिच्छन्ति न त्वत्र संख्याङ्गत्वेन गृह्यते । । ३,१.६५ । ।
द्वितीयादि तु यल्लिङ्गं उक्तन्यायानुवादि तत् ।
न संख्या साधनत्वेन जातिवत्तेन गम्यते । । ३,१.६६ । ।
अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति ।
युक्तं यत्साधनत्वं स्यान्न त्वन्यार्थोपलक्षणम् । । ३,१.६७ । ।
साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते ।
संख्याव्यापारधर्मोऽतस्तेन लिङ्गेन गम्यते । । ३,१.६८ । ।
अपूर्वस्य विधेयत्वात्प्राधान्यं अवसीयते ।
विहितस्य परार्थत्वाच्छेशभावः प्रतीयते । । ३,१.६९ । ।
संमार्गस्य विधेयत्वातन्यत्र विहिते ग्रहे ।
विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते । । ३,१.७० । ।
विधिवाक्यान्तरे संख्या पशोर्नास्ति विरोधिनी ।
तस्मात्सगुण एवासौ सहैकत्वेन गम्यते । । ३,१.७१ । ।
निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्युपदिश्यते ।
गुनस्तेनार्थिता तस्य द्रव्येणेव प्रतीयते । । ३,१.७२ । ।
कश्चिदेव गुणो द्रव्ये यथा सामर्थ्यलक्षणः ।
आधारोऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः । । ३,१.७३ । ।
तयोस्तु पृथगर्थित्वे संबन्धो यः प्रतीयते ।
न तस्मिन्नुपघातोऽस्ति कल्प्यं अन्यन्न चाश्रुतम् । । ३,१.७४ । ।
क्रियया योऽभिसंबन्धः स श्रुतिप्रापितस्तयोः ।
आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते । । ३,१.७५ । ।
तत्र द्रव्यगुणाभावे प्रत्येकं स्याद्विकल्पनम् ।
श्रुतिप्राप्तो हि संबन्धो बलवान्वाक्यलक्षणात् । । ३,१.७६ । ।
यदा तु जातिः शक्तिर्वा क्रियां प्रत्युपदिश्यते ।
सामर्थ्यात्संनिधीयेते तत्र द्रव्यगुणौ तदा । । ३,१.७७ । ।
जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति ।
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः । । ३,१.७८ । ।
व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः ।
साक्षाद्द्रव्यं क्रियायोगि गुणस्तस्माद्विकल्पते । । ३,१.७९ । ।
साम्येनान्यतराभावे विकल्पः कैश्चिदिष्यते ।
अतद्गुणोऽतश्छागः स्यान्मेषो वा तद्गुणो भवेत् । । ३,१.८० । ।
जातेराश्रितसंख्यायाः प्रवृत्तिरुपलभ्यते ।
संख्याविशेषं उत्सृज्य क्वचित्सैव प्रवर्तते । । ३,१.८१ । ।
पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया ।
स्वार्थं प्रवर्तमानं तु न संख्यां अवलम्बते । । ३,१.८२ । ।
यजेत पशुनेत्यत्र यज्यर्थायां पशुश्रुतौ ।
कृतार्थैकेन पशुना प्रधानं भवति क्रिया । । ३,१.८३ । ।
यावतां संभवो यस्य स कुर्यात्तावतां यदि ।
आलम्भनं गुणैस्तेन प्रधानं स्यात्प्रयोजितम् । । ३,१.८४ । ।
संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः ।
संख्याविशेषग्रहणं नैव तत्राद्रियामहे । । ३,१.८५ । ।
शिष्यमाणपरे वाक्ये यदेकग्रहणं कृतम् ।
शेषे विशिष्टसंख्येऽपि व्यक्तं तल्लिङ्गदर्शनम् । । ३,१.८६ । ।
समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते । । ३,१.८७ । ।
गुणेऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये ।
संख्या कर्ता तथा कर्मण्यविशिष्टः प्रतीयते । । ३,१.८८ । ।
यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः ।
निवृत्तौ चरितार्थत्वात्संख्या तत्राविवक्षिता । । ३,१.८९ । ।
सरूपसमुदायात्तु विभक्तिर्या विधीयते ।
एकस्तत्रार्थवान्सिद्धः समुदायस्य वाचकः । । ३,१.९० । ।
प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ ।
सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे । । ३,१.९१ । ।
अभेदरूपं सादृश्यं आत्मभूताश्च शक्तयः ।
जातिपर्यायवाचित्वं एषां अप्युपवर्ण्यते । । ३,१.९२ । ।
दण्डोपादित्सया दण्डं यद्यपि प्रतिपद्यते ।
न तस्मादेव सामर्थ्यात्स दण्डीति प्रतीयते । । ३,१.९३ । ।
नेच्छानिमित्तादिच्छावानिति ज्ञानं प्रवर्तते ।
तस्मात्सत्यपि सामर्थ्ये बुद्धिरर्थान्तराश्रया । । ३,१.९४ । ।
स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते ।
सर्वस्यान्ते यतस्तस्माद्व्यवहारो न कल्पते । । ३,१.९५ । ।
यदा भेदान्परित्यज्य बुद्ध्यैक इव गृह्यते ।
व्यक्त्यात्मैव तदा तत्र बुद्धिरेका प्रवर्तते । । ३,१.९६ । ।
भेदरूपैरनुस्यूतं यदैकं इव मन्यते ।
समूहावग्रहा बुद्धिर्बहुभ्यो जायते तदा । । ३,१.९७ । ।

  • यदा सहविवक्षायां एकबुद्धिनिबन्धनः ।

बद्धावयवविच्छेदः समुदायोऽभिधीयते । । ३,१.९८ * । ।

  • प्रतिक्रियं समाप्तत्वादेको भेदसमन्वितः ।

द्वन्द्वे द्वित्वादिभेदेन तदासावुपगम्यते । । ३,१.९९ * । ।
सकृत्प्रवृत्तावेकत्वं आवृत्तौ सदृशात्मताम् ।
भिन्नात्मकानां व्यक्तीनां भेदापोहात्प्रपद्यते । । ३,१.१०० । ।
अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते ।
अर्थो व्यावृत्तरूपोऽपि तथा तत्त्वेन गृह्यते । । ३,१.१०१ । ।
सरूपाणां च सर्वेषां न भेदोपनिपातिनः ।
विद्यन्ते वाचकाः शब्दा नापि भेदोऽवधार्यते । । ३,१.१०२ । ।
ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः ।
तेषां दुरवधारत्वाज्ज्ञानाद्येकत्वदर्शनम् । । ३,१.१०३ । ।
ज्ञानेष्वपि यथार्थेषु तथा सर्वेषु जातयः ।
संसर्गदर्शने सन्ति ताश्चार्थस्य प्रसाधिकाः । । ३,१.१०४ । ।
ज्ञेयस्थं एव सामान्यं ज्ञानानां उपकारकम् ।
न जातु ज्ञेयवज्ज्ञानं पररूपेण रूप्यते । । ३,१.१०५ । ।
यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते ।
ज्ञानाकारस्तथान्येन न ज्ञानेनोपगृह्यते । । ३,१.१०६ । ।

  • न चात्मसमवेतस्य सामान्यस्यावधारणे ।

ज्ञानशक्तिः समर्था स्याज्ज्ञातस्यान्यस्य वस्तुनः । । ३,१.१०७ * । ।

  • अयौगपद्ये ज्ञानानां अस्येत्यग्रहणं न च ।

यथोपलब्धि स्मरणं उपलब्धे च जायते । । ३,१.१०८ * । ।
घटज्ञानं इति ज्ञानं घटज्ञानविलक्षणम् ।
घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् । । ३,१.१०९ । ।
यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।
अर्थरूपविविक्तं च स्वरूपं नावधार्यते । । ३,१.११० । ।


३,२ः ढ्रव्यसमुद्देशः
आत्मा वस्तु स्वभावश्च शरीरं तत्त्वं इत्यपि ।
द्रव्यं इत्यस्य पर्यायास्तच्च नित्यं इति स्मृतम् । । ३,२.१ । ।
सत्यं वस्तु तदाकारैरसत्यैरवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यं एवाभिधीयते । । ३,२.२ । ।
अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतं गृहशब्देन शुद्धं एवाभिधीयते । । ३,२.३ । ।
सुवर्णादि यथा युक्तं स्वैराकारैरपायिभिः ।
रुचकाद्यभिधानानां शुद्धं एवैति वाच्यताम् । । ३,२.४ । ।
आकारैश्च व्यवच्छेदात्सार्वार्थ्यं अवरुध्यते ।
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः । । ३,२.५ । ।
तेष्वाकारेषु यः शब्दस्तथाभूतेषु वर्तते ।
तत्त्वात्मकत्वात्तेनापि नित्यं एवाभिधीयते । । ३,२.६ । ।
न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः ।
अतत्त्वं इति मन्यन्ते तत्त्वं एवाविचारितम् । । ३,२.७ । ।
विकल्परूपं भजते तत्त्वं एवाविकल्पितम् ।
न चात्र कालभेदोऽस्ति कालभेदश्चगृह्यते । । ३,२.८ । ।
यथा विषयधर्माणां ज्ञानेऽत्यन्तं असंभवः ।
तदात्मेव च तत्सिद्धं अत्यन्तं अतदात्मकम् । । ३,२.९ । ।
तथा विकाररूपाणां तत्त्वेऽत्यन्तं असंभवः ।
तदात्मेव च तत्तत्त्वं अत्यम्न्तं अतदात्मकम् । । ३,२.१० । ।
सत्यं आकृतिसंहारे यदन्ते व्यवतिष्ठते ।
तन्नित्यं शब्दवाच्यं तच्छब्दात्तच्च न भिद्यते । । ३,२.११ । ।
न तदस्ति न तन्नास्ति न तदेकं न तत्पृथक् ।
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा । । ३,२.१२ । ।
तन्नास्ति विद्यते तच्च तदेकं तत्पृथक्पृथक् ।
संसृष्टं च विभक्तं च विकृतं तत्तदन्यथा । । ३,२.१३ । ।
तस्य शब्दार्थसंबन्ध- रूपं एकस्य दृश्यते ।
तद्दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् । । ३,२.१४ । ।
विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् । । ३,२.१५ । ।
वाच्या सा सर्वशब्दानां शब्दाश्च न पृथक्ततः ।
अपृथक्त्वे च संबन्धस्तयोर्नानात्मनोरिव । । ३,२.१६ । ।
आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः । । ३,२.१७ । ।
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धं उपलभ्यते । । ३,२.१८ । ।

३.३ः Sअंबन्धसमुद्देश
ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते ।
शब्दैरुच्चरितैस्तेषां संबन्धः समवस्थितः । । ३,३.१ । ।
प्रतिपत्तुर्भवत्यर्थे ज्ञाने वा संशयः क्वचित् ।
स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते । । ३,३.२ । ।
अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।
योगः शब्दार्थयोस्तत्त्वं अप्यतो व्यपदिश्यते । । ३,३.३ । ।
नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् ।
अत्यन्तपरतन्त्रत्वाद्रूपं नास्यापदिश्यते । । ३,३.४ । ।
उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते ।
शक्तीनां अपि सा शक्तिर्गुणानां अप्यसौ गुणः । । ३,३.५ । ।
तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः ।
तयोरप्युपकारार्था नियतास्तदुपाधयः । । ३,३.६ । ।
का चिदेव हि सावस्था कार्यप्रसवसूचिता ।
कस्य चित्केन चिद्यस्यां संयोग उपजायते । । ३,३.७ । ।
निरात्मकानां उत्पत्तौ नियमः क्वचिदेव यः ।
तेनैवाव्यपवर्गश्च प्राप्तभेदे स यत्कृतः । । ३,३.८ । ।
आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।
यतश्चैकत्वनानात्वं तत्त्वं नाध्यवसीयते । । ३,३.९ । ।
तां शक्तिं समवायाख्यां शक्तीनां उपकारिणीम् ।
हेदाभेदावतिक्रान्तां अन्यथैव व्यवस्थिताम् । । ३,३.१० । ।
धर्मं सर्वपदार्थानां अतीतः सर्वलक्षणः ।
अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः । । ३,३.११ । ।
पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।
संबन्धस्तेन शब्दार्थः प्रविभक्तुं न शक्यते । । ३,३.१२ । ।
समवायात्स्व आधारः स्वा च जातिः प्रतीयते ।
एकार्थसमवायात्तु गुणाः स्वाधार एव ये । । ३,३.१३ । ।
द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः ।
तत्प्रदेशविभागाश्च गुणा द्वित्वादयश्च ये । । ३,३.१४ । ।
के चित्स्वाश्रयसंयुक्ताः के चित्तत्समवायिनः ।
संयुक्तसमवेतेषु समवेतास्तथापरे । । ३,३.१५ । ।
स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।
समवायस्य संबन्धो नापरस्तत्र दृश्यते । । ३,३.१६ । ।
संबन्धस्याविशिष्टत्वान्न चात्र नियमो भवेत् ।
तस्माच्छब्दार्थयोर्नैवं संबन्धः परिकल्प्यते । । ३,३.१७ । ।
अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।
क्व चित्स्वस्वामियोगाख्योऽभेदेऽन्यत्रापि स क्रमः । । ३,३.१८ । ।
प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।
प्रयोक्ता प्रतिपत्ता वा न शब्दैरनुगच्छति । । ३,३.१९ । ।
अवाच्यं इति यद्वाच्यं तदवाच्यतया यदा ।
वाच्यं इत्यवसीयेत वाच्यं एव तदा भवेत् । । ३,३.२० । ।
अथाप्यवाच्यं इत्येवं, न तद्वाच्यं प्रतीयते ।
विवक्षितास्य यावस्था सैव नाध्यवसीयते । । ३,३.२१ । ।
तथान्यथा सर्वथा च यस्यावाच्यत्वं उच्यते ।
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते । । ३,३.२२ । ।
न हि संशयरूपेऽर्थे शेषत्वेन व्यवस्थिते ।
अव्युदासे स्वरूपस्य संशयोऽन्यः प्रवर्तते । । ३,३.२३ । ।
यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।
प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते । । ३,३.२४ । ।
सर्वं मिथ्या ब्रवीमीति नैतद्वाक्यं विवक्ष्यते ।
तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते । । ३,३.२५ । ।
न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।
प्रतिपाद्यं न तत्तत्र येनान्यत्प्रतिपाद्यते । । ३,३.२६ । ।
असाधिका प्रतिज्ञेति नेयं एवाभिधीयते ।
यथा, तथास्य धर्मोऽपि नात्र कश्चित्प्रतीयते । । ३,३.२७ । ।
व्यापारस्यापरो यस्मान्न व्यापारोऽस्ति कश्चन ।
विरोधं अनवस्थां वा तस्मात्सर्वत्र नाश्रयेत् । । ३,३.२८ । ।
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा । । ३,३.२९ । ।
असाधुरनुमानेन वाचकः कैश्चिदिष्यते ।
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः । । ३,३.३० । ।
संबन्धशब्दे संबन्धो योग्यताञं प्रति योग्यता ।
समयाद्योग्यतासंविन्मातापुत्रादियोगवत् । । ३,३.३१ । ।
शब्दः कारणं अर्थस्य स हि तेनोपजन्यते ।
तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते । । ३,३.३२ । ।
भोजनाद्यपि मन्यन्ते बुद्ध्यर्थे यदसंभवि ।
बुद्ध्यर्थादेव बुद्ध्यर्थे जाते तदपि दृश्यते । । ३,३.३३ । ।
अनित्येष्वपि नित्यत्वं अभिधेयात्मना स्थितम् ।
अनित्यत्वं स्वशक्तिर्वा सा च नित्यान्न भिद्यते । । ३,३.३४ । ।
शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः ।
क्रियते सोऽभिसंबन्धं अन्तरेण कथं भवेत् । । ३,३.३५ । ।
नावश्यं अभिधेयेषु संस्कारः स तथाविधः ।
दृस्यते न च संबन्धस्तथाभूतो विवक्षितः । । ३,३.३६ । ।
सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते ।
शब्दस्यार्थे यतस्तत्र संबन्धोऽस्तीति गम्यते । । ३,३.३७ । ।
नित्येऽनित्येऽपि वाप्यर्थे पुरुषेण कथंचन ।
संबन्धोऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते । । ३,३.३८ । ।
व्यपदेशे पदार्थानां अन्या सत्तौपचारिकी ।
सर्वावस्थासु सर्वेषां आत्मरूपस्य दर्शिका । । ३,३.३९ । ।
स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः ।
स्वशक्तियोगात्संबन्धं ताद्रूप्येणेव गच्छति । । ३,३.४० । ।
तद्वच्छब्दोऽपि सत्तायां अस्यां पूर्वं व्यवस्थितः ।
धर्मैरुपैति संबन्धं अविरोधिविरोधिभिः । । ३,३.४१ । ।
एवं च प्रतिषेध्येषु प्रतिषेधप्रक्ल्प्तये ।
आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते । । ३,३.४२ । ।
आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते ।
यदि सज्जायते कस्मादथासज्जायते कथम् । । ३,३.४३ । ।
सतो हि गन्तुर्गमनं, सति गम्ये प्रवर्तते ।
गन्तृवच्चेन्न जन्मार्थो, न चेत्तद्वन्न जायते । । ३,३.४४ । ।
उपचर्य तु कर्तारं अभिधानप्रवृत्तये ।
पुनश्च कर्मभावेन तां क्रियां च तदाश्रयाम् । । ३,३.४५ । ।
अथोपचारसत्तैवं विधेयस्तत्र लादयः ।
जन्मना तु विरोधित्वान्मुख्या सत्ता न विद्यते । । ३,३.४६ । ।
आत्मानं आत्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः । । ३,३.४७ । ।
प्राक्च सत्ताभिसंबन्धान्मुख्या सत्ता कथं भवेत् ।
असंश्च नास्तेः कर्ता स्यादुपचारस्तु पूर्ववत् । । ३,३.४८ । ।
तस्माद्भिन्नेषु धर्मेषु विरोधिष्वविरोधिनीम् ।
विरोधिख्यापनायैव शब्दैस्तैस्तैरुपाश्रिताम् । । ३,३.४९ । ।
अभिन्नकालां अर्थेषु भिन्नकालेष्ववस्थिताम् ।
प्रवृत्तिहेतुं सर्वेषां शब्दानां औपचारिकीम् । । ३,३.५० । ।
एतां सत्तां पदार्थो हि न कश्चिदतिवर्तते ।
सा च संप्रतिसत्तायाः पृथग्भाश्ये निदर्शिता । । ३,३.५१ । ।
प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।
विपर्ययं अभावं वा व्यवहारोऽनुवर्तते । । ३,३.५२ । ।
यथेन्द्रियस्य वैगुण्यान्मात्राध्यारोपवानिव ।
जायते प्रत्ययोऽर्थेभ्यस्तथैवोद्देशजा मतिः । । ३,३.५३ । ।
अकृत्स्नविषयाभासं शब्दः प्रत्ययं आश्रितः ।
अर्थं आहान्यरूपेण स्वरूपेणानिरूपितम् । । ३,३.५४ । ।
रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।
ज्ञानं प्रत्यभिलापं च सदृशौ बालपण्डितौ । । ३,३.५५ । ।
सर्वार्थरूपता शुद्धिर्ज्ञानस्य निरुपाश्रया ।
ततोऽप्यस्य परां शुद्धिं एके प्राहुररूपिकाम् । । ३,३.५६ । ।
उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।
कालुष्यं इव तत्तस्य संसर्गे व्यतिभेदजम् । । ३,३.५७ । ।
यथा च ज्ञानं आलेखादशुद्धौ व्यवतिष्ठते ।
तथोपाश्रयवानर्थः स्वरूपाद्विप्रकृष्यते । । ३,३.५८ । ।
एवं अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।
भावाभावावभेदेन व्यवहारानुपातिनौ । । ३,३.५९ । ।
यथा भावं उपाश्रित्य तदभावोऽनुगम्यते ।
तथाभावं उपाश्रित्य तद्भावोऽप्यनुगम्यते । । ३,३.६० । ।
नाभावो जायते भावो नैति भावोऽनुपाख्यताम् ।
एकस्मादात्मनोऽनन्यौ भावाभावौ विकल्पितौ । । ३,३.६१ । ।
अभावस्यानुपाख्यत्वात्कारणं न प्रसाधकम् ।
सोपाख्यस्य तु भावस्य कारणं किं करिश्यति । । ३,३.६२ । ।
तस्मात्सर्वं अभावो वा भावो वा सर्वं इष्यते ।
न त्ववस्थान्तरं किं चिदेकस्मात्सत्यतः स्थितम् । । ३,३.६३ । ।
तस्मान्नाभावं इच्छन्ति ये लोके भाववादिनः ।
अभाववादिनो वापि न भावं तत्त्वलक्षणम् । । ३,३.६४ । ।
अद्वये चैव सर्वस्मिन्स्वभावादेकलक्षणे ।
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते । । ३,३.६५ । ।
चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।
एवं द्वैविध्यं अप्येतद्भावाभावव्यपाश्रयम् । । ३,३.६६ । ।
अविरोधी विरोधी वा सन्नसन्वापि युक्तितः ।
क्रमवानक्रमो वापि नाभाव उपपद्यते । । ३,३.६७ । ।
अविरोधी विरोधी वा सन्नसन्वापि तत्त्वतः ।
क्रमवानक्रमो वापि तेन भावो न विद्यते । । ३,३.६८ । ।
अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः ।
तस्मिन्नसति भावेऽपि त्रैकाल्यं नावतिष्ठते । । ३,३.६९ । ।
आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।
आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते । । ३,३.७० । ।
तत्त्वे विरोधो नानात्व उपकारो न कश्चन ।
तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते । । ३,३.७१ । ।
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् ।
तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः । । ३,३.७२ । ।
सामान्यं वा विशेषं वा यस्मादाहुर्विशेषवत् ।
शब्दास्तस्मादसत्येषु भेदेष्वेव व्यवस्थिताः । । ३,३.७३ । ।
न ह्यभावस्य सद्भावे भावस्यात्मा प्रहीयते ।
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते । । ३,३.७४ । ।
न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते । । ३,३.७५ । ।
अभावो यदि वस्तु स्यात्तत्रेयं स्यात्विचारणा ।
ततश्च तदभावेऽपि स्याद्विचार्यं इदं पुनः । । ३,३.७६ । ।
अवस्तु स्यादतीतं यद्व्यवहारस्य गोचरम् ।
तत्र वस्तुगतो भेदो न निर्वचनं अर्हति । । ३,३.७७ । ।
अपदेऽर्थे पदन्यासः कारणस्य न विद्यते ।
अथ च प्रागसद्भावः कारणे सति दृष्यते । । ३,३.७८ । ।
का तस्य प्रागवस्थेति वस्त्वाश्रितं इदं पुनः ।
प्रागवस्थेति न ह्येतद्द्वयं अप्यस्त्यवस्तुनि । । ३,३.७९ । ।
न चोर्ध्वं अस्ति नास्तीति वचनायानिबन्धनम् ।
अलं स्यादपदस्थानं एतद्वाचः प्रचक्षते । । ३,३.८० । ।
अत्यद्भुता त्वियं वृत्तिर्यदभागं यदक्रमम् ।
भावानां प्रागभूतानां आत्मतत्त्वं प्रकाशते । । ३,३.८१ । ।
विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।
मुख्येनेव पदार्थेन व्यवहारो विधीयते । । ३,३.८२ । ।
भावशक्तिं अतश्चैनां मन्यन्ते नित्यवादिनः ।
भावं एव क्रमं प्राहुर्न भावादपरः क्रमः । । ३,३.८३ । ।
क्रमान्न यौगपद्यस्य कश्चिद्भेदोऽस्ति तत्त्वतः ।
यथैव भावान्नाभावः कश्चिदन्योऽवसीयते । । ३,३.८४ । ।
कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ।
न च निर्देशमात्रेण व्यतिरेकोऽनुगम्यते । । ३,३.८५ । ।
आधारं कल्पयन्बुद्ध्या नाभावे व्यवतिष्ठते ।
अवस्तुष्वपि नोत्प्रेक्षा कस्य चित्प्रतिबध्यते । । ३,३.८६ । ।
तस्माच्छक्तिविभागेन नित्यः सदसदात्मकः ।
एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते । । ३,३.८७ । ।
व्यवहारश्च लोकस्य पदार्थैः परिकल्पितैः ।
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते । । ३,३.८८ । ।

३,४ः भूयोद्रव्यसमुद्देशः
संसर्गरूपात्संभूताः संविद्रूपादपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात्प्रकृतिप्रत्ययार्थवत् । । ३,४.१ । ।
निमित्तभूताः साधुत्वे शास्त्रादनुमितात्मकाः ।
के चित्पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् । । ३,४.२ । ।
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यं इत्युच्यते सोऽर्तो भेद्यत्वेन विवक्शितः । । ३,४.३ । ।

३,५ः ङुणसमुदेश
संसर्गि भेदकं यद्यत्सव्यापारं प्रतीयते ।
गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् । । ३,५.१ । ।
द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः ।
भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते । । ३,५.२ । ।
सर्वस्यैव प्रधानस्य न विना भेदहेतुना ।
प्रकर्षो विद्यते नापिऽशब्दस्योपैति वाच्यताम् । । ३,५.३ । ।
विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः ।
विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः । । ३,५.४ । ।
वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि ।
प्रकर्षो नियमाभावात्स्यादविज्ञातहेतुकः । । ३,५.५ । ।
सर्वं च सर्वतोऽवश्यं नियमेन प्रकृष्यते ।
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा । । ३,५.६ । ।
नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि ।
द्रव्यस्य स्यादुपादानं प्रकर्षं प्रत्यनर्थकम् । । ३,५.७ । ।
सव्यापारो गुणस्तस्मात्स्वप्रकर्षनिबन्धनः ।
द्रव्यात्मानं भिनत्त्येव स्वप्रकर्षं निवेशयन् । । ३,५.८ । ।
अरूपं पररूपेण द्रव्यं आख्यायते यथा ।
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा । । ३,५.९ । ।

३,६ः ढिक्समुद्देश
दिक्साधनं क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानां अत्यन्तं अनवस्थिताः । । ३,६.१ । ।
व्यतिरेकस्य यो हेतुरवधिप्रतिपाद्ययोः ।
ऋज्वित्येवं यतोऽन्येन विना बुद्धिः प्रवर्तते । । ३,६.२ । ।
कर्मनो जातिभेदानां अभिव्यक्तिर्यदाश्रया ।
सा स्वैरुपाधिभिर्भिन्ना शक्तिर्दिगिति कथ्यते । । ३,६.३ । ।
परापरत्वे मूर्तिनां देशभेदनिबन्धने ।
तत एव प्रकल्पेते क्रमरूपे तु कालतः । । ३,६.४ । ।
आकाशस्य प्रदेशेन भागैश्चान्यैः पृथक्पृथक् ।
सा संयोगविभागानां उपाधित्वाय कल्पते । । ३,६.५ । ।
दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।
शक्तयः खलु भावानां उपकारप्रभाविताः । । ३,६.६ । ।
प्रत्यस्तरूपा भावेषु दिक्पूर्वेत्यभिधीयते ।
पूर्वबुद्धिर्यतो दिक्सा समाख्यामात्रं अन्यथा । । ३,६.७ । ।
स्वाङ्गाद्व्यवस्था या लोके न तस्यां नियता दिशः ।
प्रत्यङ्मुखस्य यत्पश्चात्तत्पुरस्ताद्विपर्यये । । ३,६.८ । ।
देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।
रूढं अप्यपरत्वेन पूर्वं इत्यभिधीयते । । ३,६.९ । ।
अतो भाषितपुंस्कत्वात्पुंवद्भावो न सिध्यति ।
अस्मिन्नर्थे न शब्देन प्रसवः क्व चिदुच्यते । । ३,६.१० । ।
दिक्शक्तेरभिधाने तु नियतं दिशि दर्शनम् ।
पूर्वादिनां यथा षष्टेर्जीवितस्यावधारणे । । ३,६.११ । ।
छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते ।
अतद्धर्मसु भावेषु भागभेदो न कल्पते । । ३,६.१२ । ।
परमाणोरभागस्य दिशा भागो विधीयते ।
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते । । ३,६.१३ । ।
अदेशाश्चाप्यभागाश्च निष्क्रमा निरुपाश्रयाः ।
भावाः संसर्गिरूपात्तु शक्तिभेदः प्रकल्पते । । ३,६.१४ । ।
निर्भागात्मकता तुल्या परमाणोर्घटस्य च ।
भागः शक्त्यन्तरं तत्र परिमाणं च यत्तयोः । । ३,६.१५ । ।
यतः प्रकल्पते भेदो भेदस्तत्रापि दृश्यते ।
अदृष्टोपरतिं भेदं अतोऽयुक्ततरं विदुः । । ३,६.१६ । ।
सर्वत्र तस्य कार्यस्य दर्शनाद्विभुरिष्यते ।
विभुत्वं एतदेवाहुरन्यः कायवतां विधिः । । ३,६.१७ । ।
चैतन्यवत्स्थिता लोके दिक्कालपरिकल्पना ।
प्रकृतिं प्राणिनां तां हि कोऽन्यथा स्थापयिष्यति । । ३,६.१८ । ।
संकरो व्यवहाराणां प्रकृतेः स्याद्विपर्यये ।
तस्मात्त्यजन्निमान्भावान्पुनरेवावलम्बते । । ३,६.१९ । ।
तस्यास्तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः ।
भिन्ना दिक्तेन भेदेन भेदायैवोपकल्पते । । ३,६.२० । ।
अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः ।
पूर्वं अस्येति षष्ठ्येव दृष्टा धर्मान्तराश्रये । । ३,६.२१ । ।
पूर्वादिनां विपर्यासोऽदृष्टश्चावध्यसंकरे ।
ऋज्वेतदस्येत्येतच्च लिङ्गं न व्यतिकीर्यते । । ३,६.२२ । ।
अन्तःकरणधर्मो वा बहिरेवं प्रकाशते ।
अस्यां त्वन्तर्बहिर्भावः प्रक्रियायां न विद्यते । । ३,६.२३ । ।
एकत्वं आसां शक्तीनां नानात्वं वेति कल्पने ।
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् । । ३,६.२४ । ।
विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः ।
भावेषु व्यवहारा ये लोकस्तत्रानुगम्यते । । ३,६.२५ । ।
नैकत्वं अस्त्यनानात्वं विनैकत्वेन नेतरत् ।
परमार्थे तयोरेष भेदोऽत्यन्तं न विद्यते । । ३,६.२६ । ।
न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः ।
न च लौकिकं एकत्वं तासां आत्मसु विद्यते । । ३,६.२७ । ।
नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् ।
नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् । । ३,६.२८ । ।

३,७ः Sआधनसमुद्देश
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।
क्रियाणां अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः । । ३,७.१ । ।
शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः ।
सर्वदा सर्वथा भावात्क्व चित्किं चिद्विवक्ष्यते । । ३,७.२ । ।
साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः ।
सन्नसन्वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते । । ३,७.३ । ।
बुद्ध्या समीहितैकत्वान्पञ्चालान्कुरुभिर्यदा ।
पुनर्विभजते वक्ता तदापायः प्रतीयते । । ३,७.४ । ।
शब्दोपहितरूपांश्च बुद्धेर्विषयतां गतान् ।
प्रत्यक्षं इव कंसादीन्साधनत्वेन मन्यते । । ३,७.५ । ।
बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना । । ३,७.६ । ।
व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् । । ३,७.७ । ।
स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्वपि भावेषु कल्पनोपनिबन्धनम् । । ३,७.८ । ।
शक्तयः शक्तिमन्तश्च सर्वे संसर्गवादिनाम् ।
भावास्तेष्वस्वशब्देषु साधनत्वं निरूप्यते । । ३,७.९ । ।
घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् । । ३,७.१० । ।
स्वैः सामान्यविशेषैश्च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस्तास्तथाश्रयैः । । ३,७.११ । ।
इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् ।
यद्यदा यदनुग्राहि तत्तदा तत्र साधनम् । । ३,७.१२ । ।
स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते ।
विभक्त्यादिभिरेवासावुपकारः प्रतीयते । । ३,७.१३ । ।
निमित्तभावो भावानां उपकारार्थं आश्रितः ।
नतिरावर्जनेत्येवं सिद्धः साधनं इष्यते । । ३,७.१४ । ।
स तेभ्यो व्यतिरिक्तो वा तेषां आत्मैव वा तथा ।
व्यतिरेकं उपाश्रित्य साधनत्वेन कल्प्यते । । ३,७.१५ । ।
संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा ।
व्यवसायस्तथारम्भे साधनत्वाय कल्पते । । ३,७.१६ । ।
पूर्वस्मिन्या क्रिया सैव परस्मिन्साधनं मता ।
संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः । । ३,७.१७ । ।
निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसंभवः । । ३,७.१८ । ।
पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वं उच्यते ।
अयं अस्यां इयं त्वस्मादिति भेदो विवक्षया । । ३,७.१९ । ।
गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायां अपि संपूर्णैः स्वैर्व्यापारैः समन्विताः । । ३,७.२० । ।
करणत्वादिभिर्ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यं उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् । । ३,७.२१ । ।
यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ । । ३,७.२२ । ।
तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु ।
कर्तृत्वं करणत्वादेरुत्तरं न विरुध्यते । । ३,७.२३ । ।
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः । । ३,७.२४ । ।
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुरिष्यते । । ३,७.२५ । ।
क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा ।
हेत्वर्था तु क्रिया तस्मान्न स प्रतिनिधीयते । । ३,७.२६ । ।
प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः ।
तादर्थ्यं आनुलोम्येन हेतुत्वानुगतं तु तत् । । ३,७.२७ । ।
सर्वत्र सहजा शक्तिर्यावद्द्रव्यं अवस्थिता ।
क्रियाकाले त्वभिव्यक्तेराश्रयादुपकारिणी । । ३,७.२८ । ।
कुड्यस्यावरणे शक्तिरस्यादीनां विदारणे ।
सर्वदा स तु सन्धर्मः क्रियाकाले निरूप्यते । । ३,७.२९ । ।
स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा । । ३,७.३० । ।
तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैरसिर्यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान्गृह्यते तदा । । ३,७.३१ । ।
प्रा"न्निमित्तान्तरोद्भूतं क्रियायाः कैश्चिदिष्यते ।
साधनं सहजं कैश्चित्क्रियान्यैः पूर्वं इष्यते । । ३,७.३२ । ।
प्रवृत्तिरेव प्रथमं क्व चिदप्यनपाश्रिता ।
शक्तीरेकाधिकरणे स्रोतोवदपकर्षति । । ३,७.३३ । ।
अपूर्वं कालशक्तिं वा क्रियां वा कालं एव वा ।
तं एवम्लक्सनं भावं के चिदाहुह्कथं च न । । ३,७.३४ । ।
नित्याः षट्शक्तयोऽअन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धयेऽर्थेषु जातिवत्समवस्थिताः । । ३,७.३५ । ।
द्रव्याकारादिभेदेन ताश्चापरिमिता इव ।
दृश्यन्ते तत्त्वं आसां तु षट्शक्तीर्नातिवर्तते । । ३,७.३६ । ।
निमित्तभेदादेकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वं एवाहुस्तत्प्रवृत्तेर्निबन्धनम् । । ३,७.३७ । ।
तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तदुच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते । । ३,७.३८ । ।
परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वं एव प्रकाशते । । ३,७.३९ । ।
यत्पृथक्त्वं असंदिग्धं तदेकत्वान्न भिद्यते ।
यदेकत्वं असंदिग्धं तत्पृथक्त्वान्न भिद्यते । । ३,७.४० । ।
द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः । । ३,७.४१ । ।
कालविच्छेदरूपेण तदेवैकं अवस्थितम् ।
स ह्यपूर्वापरो भावः क्रमरूपेण लक्ष्यते । । ३,७.४२ । ।
दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वयेऽसति ।
वृक्षाद्यर्थान्वयस्तस्माद्विभक्त्यर्थोऽन्य इष्यते । । ३,७.४३ । ।
सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट्कर्माख्यादिभेदेन शेषभेदस्तु सप्तमी । । ३,७.४४ । ।
[अथ कर्माधिकारः]
निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् । । ३,७.४५ । ।
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् ।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् । । ३,७.४६ । ।
सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते । । ३,७.४७ । ।
प्रकृतेस्तु विवक्षायां विकार्यं कैश्चिदन्यथा ।
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् । । ३,७.४८ । ।
यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते ।
तन्निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् । । ३,७.४९ । ।
प्रकृत्युच्छेदसंभूतं किं चित्काष्ठादिभस्मवत् ।
किं चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् । । ३,७.५० । ।
क्रियाकृता विशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यं इति कथ्यते । । ३,७.५१ । ।
विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषां चित्तदभिव्यक्ति- सिद्धिर्दृष्टिविषादिषु । । ३,७.५२ । ।
आभासोपगमो व्यक्तिः सोढत्वं इति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः । । ३,७.५३ । ।
निर्वर्त्यादिषु तत्पूर्वं अनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः । । ३,७.५४ । ।
तद्व्यापारविवेकेऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टांल्लभते क्व चिच्छास्त्राश्रयान्विधीन् । । ३,७.५५ । ।
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते । । ३,७.५६ । ।
तानि धात्वन्तराण्येव पचिसिध्यतिवद्विदुः ।
भेदेऽपि तुल्यरूपत्वादेकत्वपरिकल्पना । । ३,७.५७ । ।
एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः । । ३,७.५८ । ।
न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते । । ३,७.५९ । ।
अवस्थां पञ्चमीं आहुर्ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते । । ३,७.६० । ।
ब्रवीति पचतेरर्थं सिध्यतिर्न विना णिचा ।
स ण्यन्तः पचतेरर्थे प्राकृते व्यवतिष्ठते । । ३,७.६१ । ।
केषां चिद्देवदत्तादेर्व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते । । ३,७.६२ । ।
निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते । । ३,७.६३ । ।
सदृशादिषु यत्कर्म- कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये । । ३,७.६४ । ।
कुतश्चिदाहृत्य पदं एवं च परिकल्पने ।
कर्मस्थभावकत्वं स्याद्दर्शनाद्यभिधायिनाम् । । ३,७.६५ । ।
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकाश्यते । । ३,७.६६ । ।
कालभावाध्वदेशानां अन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वं उपजायते । । ३,७.६७ । ।
आधारत्वं इव प्राप्तास्ते पुनर्द्रव्यकर्मसु ।
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वं उत्तरम् । । ३,७.६८ । ।
अतस्तैः कर्मभिर्धातुर्युक्तोऽद्रव्यैरकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते । । ३,७.६९ । ।
सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल । । ३,७.७० । ।
प्रधानकर्म कथितं यत्क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तं अन्यत्त्वकथितं स्मृतम् । । ३,७.७१ । ।
दुह्यादिवन्नयत्यादौ कर्मत्वं अकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच्छेष इष्यते । । ३,७.७२ । ।
अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा । । ३,७.७३ । ।
करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणोऽपि स्वकक्ष्यायां न स्यादतिशयस्तथा । । ३,७.७४ । ।
कर्मणस्त्वाप्तुं इष्टत्व आश्रितेऽतिशयो यतः ।
आश्रीयते ततोऽत्यन्तं भेदः पूर्वेण कर्मणा । । ३,७.७५ । ।
णिजन्ते च यथा कर्ता सक्रियः सन्प्रयुज्यते ।
न दुह्यादौ तथा कर्ता निष्क्रियोऽपि प्रयुज्यते । । ३,७.७६ । ।
भेदवाक्यं तु यन्ण्यन्ते नीदुहिप्रकृतौ च यत् ।
शब्दान्तरत्वान्नैवास्ति संस्पर्शस्तस्य धातुना । । ३,७.७७ । ।
यथैवैकं अपादानं शास्त्रे भेदेन दर्शितम् ।
तथैकं एव कर्मापि भेदेन प्रतिपादितम् । । ३,७.७८ । ।
निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणां एव साध्यत्वात्सिद्धरूपोऽभिधीयते । । ३,७.७९ । ।
अहितेषु यथा लौल्यात्कर्तुरिच्छोपजायते ।
विषादिषु भयादिभ्यस्तथैवासौ प्रवर्तते । । ३,७.८० । ।
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानं अनुरुध्यते । । ३,७.८१ । ।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रकाशते । । ३,७.८२ । ।
पचावनुक्तं यत्कर्म क्त्वान्ते भावाभिधायिनि ।
भुजौ शक्त्यन्तरेऽप्युक्ते तत्तद्धर्म प्रकाशते । । ३,७.८३ । ।
इषेश्च गमिसंस्पर्शाद्ग्रामे यो लो विधीयते ।
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः । । ३,७.८४ । ।
पक्त्वा भुज्यत इत्यत्र केषां चिन्न व्यपेक्षते ।
ओदनं पचतिः सोऽसावनुमानात्प्रतीयते । । ३,७.८५ । ।
तथाभिनिविशौ कर्म यत्ति"नन्तेऽभिधीयते ।
क्त्वान्तेऽधिकरणत्वेऽपि न तत्रेच्छन्ति सप्तमीम् । । ३,७.८६ । ।
यन्निर्वृत्ताश्रयं कर्म प्राप्तेरप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तदीप्सितम् । । ३,७.८७ । ।
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया । । ३,७.८८ । ।
भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः । । ३,७.८९ । ।
[इति कर्माधिकारः]
[अथ करणाधिकारः]
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् । । ३,७.९० । ।
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः । । ३,७.९१ । ।
करणेषु तु संस्कारं आरभन्ते पुनः पुनः ।
विनियोगविशेषांश्च प्रधानस्य प्रसिद्धये । । ३,७.९२ । ।
स्वकक्ष्यासु प्रकर्षश्च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस्तत्र लक्षणम् । । ३,७.९३ । ।
स्वातन्त्र्येऽपि प्रयोक्तार आरादेवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते । । ३,७.९४ । ।
क्रियासिद्धौ प्रकर्षोऽयं न्यग्भावस्त्वेव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते । । ३,७.९५ । ।
अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते । । ३,७.९६ । ।
आत्मभेदेऽपि सत्येवं एकोऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद्भेदेऽपि कर्तृत्वं बाधकं ततः । । ३,७.९७ । ।
यथा च संनिधानेन करणत्वं प्रतीयते ।
तथैवासंनिधानेऽपि क्रियासिद्धेः प्रतीयते । । ३,७.९८ । ।
स्तोकस्य वाभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते । । ३,७.९९ । ।
धर्माणां तद्वता भेदादभेदाच्च विशिष्यते ।
क्रियावधेरवच्छेद- विशेषाद्भिद्यते यथा । । ३,७.१०० । ।
[इति करणाधिकारः]

[अथ कर्त्रधिकारः]
प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि ।
तदधीनप्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् । । ३,७.१०१ । ।
अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्शनात् ।
आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरुच्यते । । ३,७.१०२ । ।
धर्मैरभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात्कर्ता प्रतीयते । । ३,७.१०३ । ।
एकस्य बुद्ध्यवस्थाभिर्भेदे च परिकल्पिते ।
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते । । ३,७.१०४ । ।
उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः ।
अविशिष्टः सतान्येन कर्ता भवति जन्मनः । । ३,७.१०@ । ।
कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते । । ३,७.१०६ । ।
यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सतां एके प्रचक्षते । । ३,७.१०७ । ।
विभक्तयोनि यत्कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर्व्यक्तिरूपेण तस्यापि व्यवतिष्ठते । । ३,७.१०८ । ।
भावेष्वेव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्यप्यपदे नास्ति न च सद्भिद्यते ततः । । ३,७.१०९ । ।
बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।
तेषां अन्येन तत्त्वेन व्यवहारो न विद्यते । । ३,७.११० । ।
आकाशस्य यथा भेदश्छायायाश्चलनं यथा ।
जन्मनाशावभेदेऽपि तथा कैश्चित्प्रकल्पितौ । । ३,७.१११ । ।
यथैवाकाशनास्तित्वं असन्मूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वं असदाकाशनिश्रयम् । । ३,७.११२ । ।
यथा तदर्थैर्व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणादेष कार्यकारणयोः क्रमः । । ३,७.११३ । ।
विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये ।
भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः । । ३,७.११४ । ।
क्ल्पि संपद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् । । ३,७.११५ । ।
वाक्ये संपद्यतेः कर्ता स"न्घश्च्व्यन्तस्य कथ्यते ।
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता । । ३,७.११६ । ।
अत्वं संपद्यते यस्त्वं न तस्मिन्युष्मदाश्रया ।
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते । । ३,७.११७ । ।
पूर्वावस्थां अविजहत्संस्पृशन्धर्मं उत्तरम् ।
संमूर्छित इवार्थात्मा जायमानोऽभिधीयते । । ३,७.११८ । ।
सव्यापारतरः कश्चित्क्व चिद्धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्योऽपि शक्तयः । । ३,७.११९ । ।
विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्यत्र सव्यापारं प्रतीयते । । ३,७.१२० । ।
त्वं अन्यो भवसीत्येषा तत्र स्यात्परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद्गतिर्भवेत् । । ३,७.१२१ । ।
संभावनात्क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायां आत्मसाध्यायां साधनानां प्रयोजकः । । ३,७.१२२ । ।
प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेव निश्रितः ।
अविशिष्टो भवत्यन्यैः स्वतन्त्रैर्मुक्तसंशयैः । । ३,७.१२३ । ।
निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये । । ३,७.१२४ । ।
[इति कर्त्रधिकारः][अथ हेत्वधिकारः]
प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन् ।
कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते । । ३,७.१२५ । ।
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड्विधीयते ।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः । । ३,७.१२६ । ।
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः ।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते । । ३,७.१२७ । ।
क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः । । ३,७.१२८ । ।
[इति हेत्वधिकारः]
[अथ संप्रदानाधिकारः]
अनिराकरणात्कर्तुस्त्यागा"न्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते संप्रदानताम् । । ३,७.१२९ । ।
हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यं उच्यते । । ३,७.१३० । ।
भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।
परस्या"न्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम् । । ३,७.१३१ । ।
क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात्स्वाख्ययैवोपचर्यते । । ३,७.१३२ । ।
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते । । ३,७.१३३ । ।
विकल्पेनैव सर्वत्र संज्ञे स्यातां उभे यदि ।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् । । ३,७.१३४ । ।
त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।
आस्थितं कर्म यत्तत्र द्वैरूप्यं भजते क्रिया । । ३,७.१३५ । ।
[इति संप्रदानाधिकारः]

[अथापादानाधिकारः]
निर्दिष्टविषयं किं चिदुपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानं उच्यते । । ३,७.१३६ । ।
संयोगभेदाद्भिन्नात्मा गमिरेव भ्रमिर्यथा ।
ध्रुवावधिरपायोऽपि समवेतस्तथाध्रुवे । । ३,७.१३७ । ।
द्रव्यस्वभावो न ध्रौव्यं इति सूत्रे प्रतीयते ।
अपायविषयं ध्रौव्यं यत्तु तावद्विवक्षितम् । । ३,७.१३८ । ।
सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यदपायेन तस्याध्रौव्यं प्रचक्षते । । ३,७.१३९ । ।
उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते । । ३,७.१४० । ।
मेषान्तरक्रियापेक्षं अवधित्वं पृथक्पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथक् । । ३,७.१४१ । ।
अभेदेन क्रियैका तु द्विसाध्या चेद्विवक्षिता ।
मेषावपाये कर्तारौ यद्यन्यो विद्यतेऽवधिः । । ३,७.१४२ । ।
गतिर्विना त्ववधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्येवं भाष्ये निदर्शितम् । । ३,७.१४३ । ।
भेदाभेदौ पृथग्भावः स्थितिश्चेति विरोधिनः ।
युगपन्न विवक्ष्यन्ते सर्वे धर्मा बलाहके । । ३,७.१४४ । ।
धनुषा विध्यतीत्यत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात्तदुभयं सह । । ३,७.१४५ । ।
एकैव वा सती शक्तिर्द्विरूपा व्यवतिष्ठते ।
निमित्तं संज्ञयोस्तत्र परया बाध्यतेऽपरा । । ३,७.१४६ । ।
निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।
उपात्तापेक्षितापायः सोऽबुधप्रतिपत्तये । । ३,७.१४७ । ।
[इत्यपादानाधिकारः]
[अथाधिकरणाधिकारः]
कर्तृकर्मव्यवहितां असाक्षाद्धारयत्क्रियाम् ।
उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् । । ३,७.१४८ । ।
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु ।
उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् । । ३,७.१४९ । ।
अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः । । ३,७.१५० । ।
आकाशं एव केषां चिद्देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता । । ३,७.१५१ । ।
इदं अत्रेति भावानां अभावान्न प्रकल्पते ।
व्यपदेशस्तं आकाश- निमित्तं संप्रचक्षते । । ३,७.१५२ । ।
कालात्क्रिया विभज्यन्त आकाशात्सर्वमूर्तयः ।
एतावांश्चैव भेदोऽयं अभेदोपनिबन्धनः । । ३,७.१५३ । ।
यद्यप्युपवसिर्देश- विशेषं अनुरुध्यते ।
शब्दप्रवृत्तिधर्मात्तु कालं एवावलम्बते । । ३,७.१५४ । ।
वसतावप्रयुक्तेऽपि देशोऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् । । ३,७.१५५ । ।
[इत्यधिकरणाधिकारः]
[अथ शेषाधिकारः]
संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायां अश्रुतायां वा क्रियायां सोऽभिधीयते । । ३,७.१५६ । ।
द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन्प्रधानेऽप्युपयुज्यते । । ३,७.१५७ । ।
निमित्तनियमः शब्दात्संबन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस्तु स विशेषोऽवरुध्यते । । ३,७.१५८ । ।
साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये । । ३,७.१५९ । ।
निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते । । ३,७.१६० । ।
अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे । । ३,७.१६१ । ।
प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगेऽतः प्रधानत्वं न हीयते । । ३,७.१६२ । ।
[इति शेषाधिकारः]
सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः ।
प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते । । ३,७.१६३ । ।
संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः ।
उद्देशेन विभक्त्यर्था वाक्यार्थात्समपोद्धृताः । । ३,७.१६४ । ।
विभक्त्यर्थेऽव्ययीभाव- वचनादवसीयताम् ।
अन्यो द्रव्याद्विभक्त्यर्थः सोऽव्ययेनाभिधीयते । । ३,७.१६५ । ।
द्रव्यं तु यद्यथाभूतं तदत्यन्तं तथा भवेत् ।
क्रियायोगेऽपि तस्यासौ द्रव्यात्मा नापहीयते । । ३,७.१६६ । ।
तस्माद्यत्करणं द्रव्यं तत्कर्म न पुनर्भवेत् ।
सर्वस्य वान्यथाभावस्तस्य द्रव्यात्मनो भवेत् । । ३,७.१६७ । ।

३,८ः क्रियासमुद्देश
यावत्सिद्धं असिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतियते । । ३,८.१ । ।
कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः ।
ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते । । ३,८.२ । ।
श्वेते श्वेतत इत्येतच्छ्वेतत्वेन प्रकाशते ।
आश्रितक्रमरूपत्वादभिधानं प्रवर्तते । । ३,८.३ । ।
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते । । ३,८.४ । ।
समूहः स तत्बाभूतः प्रतिभेदं समूहिसु ।
समाप्यते ततो भेदे कालभेदस्य संभवः । । ३,८.५ । ।
क्रमात्सदसतां तेषां आत्मानो न समूहिनाम् ।
सद्वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः । । ३,८.६ । ।
यथा गौरिति सम्घातः सर्वो नेन्द्रियगोचरः ।
भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते । । ३,८.७ । ।
इन्द्रियैरन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः ।
अलातचक्रवद्रूपं क्रियाणां परिकल्प्यते । । ३,८.८ । ।
यथा च भागाः पचतेरुदकासेचनादयः ।
उदकासेचनादिनां ज्ञेया भागास्तथापरे । । ३,८.९ । ।
यश्चापकर्षपर्यन्तं अनुप्राप्तः प्रतीयते ।
तत्रैकस्मिन्क्रियाशब्दः केवले न प्रयुज्यते । । ३,८.१० । ।
पूर्वोत्तरैस्तथा भागैः समवस्थापितक्रमः ।
एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते । । ३,८.११ । ।
कालानुपाति यद्रूपं तदस्तीत्यनुगम्यते ।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते । । ३,८.१२ । ।
व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना ।
उपचारो हि मुख्यस्य संभवादवतिष्ठते । । ३,८.१३ । ।
आहितोत्तरशक्तित्वात्प्रत्येकं वा समूहिनः ।
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः । । ३,८.१४ । ।
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।
प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यता । । ३,८.१५ । ।

  • क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम् ।

अनपेक्ष्य प्रयुञ्जीत गच्छतीत्यवधारयन् । । ३,८.१६ * । ।
सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते ।
तावत्परेषां रूपेण साध्यः सन्नभिधीयते । । ३,८.१७ । ।
सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान्निवर्तते ।
न क्रियावाचिनां तस्मात्प्रयोगस्तत्र विद्यते । । ३,८.१८ । ।
स चापूर्वापरिभूत एकत्वादक्रमात्मकः ।
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते । । ३,८.१९ । ।
असन्निवर्तते तस्माद्यत्सत्तदुपलभ्यते ।
तयोः सदसतोश्चासावात्मैक इव गृह्यते । । ३,८.२० । ।
जातिं अन्ये क्रियां आहुरनेकव्यक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते । । ३,८.२१ । ।
अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।
सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते । । ३,८.२२ । ।
स्वव्यापारविशिष्टानां सत्ता वा, कर्तृकर्मनाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी । । ३,८.२३ । ।
अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।
भाव एव हि धात्वर्थ इत्यविच्छिन्न आगमः । । ३,८.२४ । ।
बुद्धिं तज्जातिं अन्ये तु बुद्धिसत्तां अथापरे ।
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते । । ३,८.२५ । ।
आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ । । ३,८.२६ । ।
ताभ्यां सर्वप्रवृत्तीनां अभेदेनोपसम्ग्रहः ।
जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते । । ३,८.२७ । ।

  • जायमानान्न जन्र्नान्यद्विनाशेऽप्यपदार्थता ।

अतो भावविकारेषु सत्तैका व्यवतिष्ठते । । ३,८.२८ * । ।

  • पूर्वभागस्तु यज्जातात्तज्जन्मेत्यपदिश्यते ।

आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते । । ३,८.२९ । ।
आख्यातशब्दैरर्थोऽसावेवंभूतोऽभिधीयते ।
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् । । ३,८.३० । ।
फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।
तदन्यदेव पूर्वेषां नाग इत्यपदिश्यते । । ३,८.३१ । ।
नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद्विना ।
कल्पते पररूपेण वस्त्वन्यदनुगम्यते । । ३,८.३२ । ।
भावाभावौ घटादिनां अस्पृशन्नपि पाणिना ।
कश्चिद्वेदाप्रकाशेऽपि प्रकाशे तत एव वा । । ३,८.३३ । ।
व्यापि सौक्ष्म्यं क्व चिद्याति क्व चित्संहन्यते पुनः ।
अकुर्वाणोऽथ वा किं चित्स्वशक्त्यैवं प्रकाशते । । ३,८.३४ । ।
सर्वरूपस्य तत्त्वस्य यत्क्रमेणेव दर्शनम् ।
भागैरिव प्रक्ल्प्तिश्च तां क्रियां अपरे विदुः । । ३,८.३५ । ।
सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।
साध्या च साधनं चैव फलं भोक्ता फलस्य च । । ३,८.३६ । ।
क्रियां अन्ये तु मन्यन्ते क्व चिदप्यनपाश्रिताम् ।
साधनैकार्थकारित्वे प्रवृत्तिं अनपायिनीम् । । ३,८.३७ । ।
सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते । । ३,८.३८ । ।
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम् ।
व्यापाराणां ततोऽन्यत्वं अपरैरुपवर्ण्यते । । ३,८.३९ । ।
बहूनां संभवेऽर्थानां के चिदेवोपकारिनः ।
संसर्गे कश्चिदेसां तु प्राधान्येन प्रतीयते । । ३,८.४० । ।
साध्यत्वात्तत्र चाख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः । । ३,८.४१ । ।
एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।
संख्यास्तत्रोपलभ्यन्ते संख्येयावयवक्रियाः । । ३,८.४२ । ।
सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन । । ३,८.४३ । ।
तत्र कारकयोगाया यद्याख्यातं निबन्धनम् ।
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः । । ३,८.४४ । ।
एकाभिधान एकोऽर्थो युगपच्च द्विधर्मभाक् ।
न संभवति सिद्धत्वे स साध्यः स्यात्कथं पुनः । । ३,८.४५ । ।
एतावत्साधनं साध्यं एतावदिति कल्पना ।
शास्त्र एव न वाक्येऽस्ति विभागः परमार्थतः । । ३,८.४६ । ।
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिस्वपि क्रमः । । ३,८.४७ । ।
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः । । ३,८.४८ । ।
बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता ।
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते । । ३,८.४९ । ।
तत्र यं प्रति साध्यत्वं असिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन्साध्यत्वं न तं एव पुनः प्रति । । ३,८.५० । ।
राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते । । ३,८.५१ । ।
मृगो धावति पश्येति साध्यसाधनरूपता ।
तथा विषयभेदेन सरणस्योपपद्यते । । ३,८.५२ । ।
लकृत्यक्तखलर्थानां तथाव्ययकृतां अपि ।
रूढिनिष्ठाघञादिनां धातुः साध्यस्य वाचकः । । ३,८.५३ । ।
साध्यस्यापरिनिष्पत्तेः सोऽयं इत्यनुपग्रहः ।
तिङन्तैरन्तरेणेवं उपमानं ततो न तैः । । ३,८.५४ । ।
साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः ।
तेनाध्यारोप एव स्यादुपमा तु न विद्यते । । ३,८.५५ । ।
न्यूनेषु च समाप्तार्थं उपमानं विधीयते ।
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते । । ३,८.५६ । ।
येनैव हेतुना हंसः पततीत्यभिधीयते ।
आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते । । ३,८.५७ । ।
क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते ।
सिद्धेश्च प्रक्रमे साध्यं उपमातुं न शक्यते । । ३,८.५८ । ।
वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः । । ३,८.५९ । ।
सामान्ये भाव इत्यत्र यल्लिङ्गं उपलभ्यते ।
भेदानां अनुमेयत्वान्न तत्तेषु विवक्ष्यते । । ३,८.६० । ।
निर्देशे चरितार्थत्वाल्लिङ्गं भावेऽविवक्सितम् ।
उपमानविधित्वाच्च भावादन्यत्पचादिसु । । ३,८.६१ । ।
भवतौ यत्पचादिनां तावदत्रोपदिश्यते ।
न च लिङ्गं पचादिनां भवतौ समवस्थितम् । । ३,८.६२ । ।
एकश्च सोऽर्थः सत्ताख्यः कथं चित्कैश्चिदुच्यते ।
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् । । ३,८.६३ । ।
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते ।
सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः । । ३,८.६४ । ।

३,९ः कालसमुद्देशः
व्यापारव्यतिरेकेण कालं एके प्रचक्षते ।
नित्यं एकं विभु द्रव्यं परिमाणं क्रियावताम् । । ३,९.१ । ।
दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । । ३,९.२ । ।
उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।
निमित्तं कालं एवाहुर्विभक्तेनात्मना स्थितम् । । ३,९.३ । ।
तं अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते । । ३,९.४ । ।
यदि न प्रतिबध्नीयात्प्रतिबन्धं च नोत्सृजेत् ।
अवस्था व्यतिकीर्येरन्पौर्वापर्यविनाकृताः । । ३,९.५ । ।
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः ।
न हि भिन्नं अभिन्नं वा वस्तु किं चन विद्यते । । ३,९.६ । ।
नैको न चाप्यनेकोऽस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते । । ३,९.७ । ।
संसर्गिनां तु ये भेदा विशेषास्तस्य ते मताः ।
स भिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते । । ३,९.८ । ।
विशिष्टकालसंबन्धाद्वृत्तिलाभः प्रकल्पते ।
शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते । । ३,९.९ । ।
जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।
नित्याधीनस्थितित्वाच्च स्थितिर्नियमपूर्विका । । ३,९.१० । ।
स्थितस्यानुग्रहस्तैस्तैर्धर्मैः संसर्गिभिस्ततः ।
प्रतिबन्धस्तिरोभावः प्रहाणं इति चात्मनः । । ३,९.११ । ।
प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते । । ३,९.१२ । ।
मूर्तीनां तेन भिन्नानां आचयापचयाः पृथक् ।
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना । । ३,९.१३ । ।
जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन्सर्वाः कालाख्यां लभते विभुः । । ३,९.१४ । ।
प्रतिभद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः ।
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः । । ३,९.१५ । ।
विशिष्टकालसंबन्धाल्लब्धपाकासु शक्तिषु ।
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा । । ३,९.१६ । ।
जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते ।
कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते । । ३,९.१७ । ।
ततस्तु समवायाख्या शक्तिर्भेदस्य बाधिका ।
एकत्वं इव ता व्यक्तीरापादयति कारणैः । । ३,९.१८ । ।
अथास्मान्नियमादूर्ध्वं जातयो याः प्रयोजिकाः ।
ताः सर्वा व्यक्तिं आयान्ति स्वच्छे छाया इवाम्भसि । । ३,९.१९ । ।
कारणानुविधायित्वादथ कारण पूर्वकाः ।
गुणास्तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः । । ३,९.२० । ।
आश्रयाणां च नित्यत्वं आश्रितानां च नित्यता ।
ता व्यक्तीरनुगृह्णाति स्थितिस्तेन प्रकल्पते । । ३,९.२१ । ।
अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।
विनाशायैव तत्शृष्टं अस्वाधीनस्थितिं विदुः । । ३,९.२२ । ।
स्थितः संसर्गिभिर्भावैः स्वक्रियास्वनुगृह्यते ।
नैषां सत्तां अनुद्गृह्य वृत्तिर्जन्मवतां स्मृता । । ३,९.२३ । ।
जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ।
सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः । । ३,९.२४ । ।
प्रयोजकास्तु ये भावाः स्थितिभागस्य हेतवः ।
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते । । ३,९.२५ । ।
यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।
अपदं जायते सर्वं तथास्यात्मा प्रहीयते । । ३,९.२६ । ।
क्रिययोरपवर्गिण्योर्नानार्थसमवेतयोः ।
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् । । ३,९.२७ । ।
यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।
गुरुत्वं परिमीयेत कालादेवं क्रियागतिः । । ३,९.२८ । ।
जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः ।
व्रीहिर्यथोदकं तेन हायनाख्यां प्रपद्यते । । ३,९.२९ । ।
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शास्वती ।
तया विभज्यमानोऽसौ भजते क्रमरूपताम् । । ३,९.३० । ।
कर्तृभेदात्तदर्थेषु प्रचयापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते । । ३,९.३१ । ।
क्रियाभेदाद्यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते ।
क्रियाभेदात्तथैकस्मिन्नृत्वाद्याख्योपजायते । । ३,९.३२ । ।
आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते ।
धर्मान्तराणां अध्यास- भेदात्सदसदात्मनः । । ३,९.३३ । ।
यावांश्च द्व्यणुकादीनां तावान्हिमवतोऽप्यसौ ।
न ह्यात्मा कस्य चिद्भेत्तुं प्रचेतुं वापि शक्यते । । ३,९.३४ । ।
अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते ।
शनैरिदं इदं क्षिप्रं इति तेन प्रतीयते । । ३,९.३५ । ।
असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते ।
सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते । । ३,९.३६ । ।
क्रियोपाधिश्च सन्भूत- भविष्यद्वर्तमानताः ।
एकादशाभिराकारैर्विभक्ताः प्रतिपद्यते । । ३,९.३७ । ।
भूतः पञ्चविधस्तत्र भविष्यंश्च चतुर्विधः ।
वर्तमानो द्विधाख्यात इत्येकादश कल्पनाः । । ३,९.३८ । ।
काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते ।
भावास्ततो निवर्तन्ते तत्र संक्रान्तशक्तयः । । ३,९.३९ । ।
भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् ।
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते । । ३,९.४० । ।
तृणपर्णलतादीनि यथा स्रोतोऽनुकर्षति ।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा । । ३,९.४१ । ।
आविश्येवानुसंधत्ते यथा गतिमतां गतीः ।
वायुस्तत्रैव कालात्मा विधत्ते क्रमरूपताम् । । ३,९.४२ । ।
अयनप्रविभागश्च गतीश्च ज्योतिषां ध्रुवा ।
निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः । । ३,९.४३ । ।
मात्राणां परिणामा ये कालवृत्त्यनुपातिनः ।
नक्षत्राख्या पृथक्तेषु चिह्नमात्रं तु तारकाः । । ३,९.४४ । ।
रुतैर्मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।
छायादिपरिणामैश्च ऋतुधामा निरूप्यते । । ३,९.४५ । ।
निर्भासोपगमो योऽयं क्रमवानिव दृश्यते ।
अक्रमस्यापि विश्वस्य तत्कालस्य विचेष्टितम् । । ३,९.४६ । ।
दूरान्तिकव्यवस्थानं अध्वाधिकरणं यथा ।
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा । । ३,९.४७ । ।
तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धा यांल्लोको नातिवर्तते । । ३,९.४८ । ।
एकस्य शक्तयस्तिस्रः कालस्य समवस्थिताः ।
यत्संबन्धेन भावानां दर्शनादर्शने सताम् । । ३,९.४९ । ।
द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।
शक्तिस्तु वर्तमानाख्या भावरूपप्रकाशिनी । । ३,९.५० । ।
अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका ।
अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते । । ३,९.५१ । ।
तमःप्रकाशवत्त्वेते त्रयोऽध्वानो व्यवस्थिताः ।
अक्रमास्तेषु भावानां क्रमः समुपलभ्यते । । ३,९.५२ । ।
द्वौ तु तत्र तमोरूपावेकस्यालोकवत्स्थितिः ।
अतीतं अपि केषां चित्पुनर्विपरिवर्तते । । ३,९.५३ । ।
युगपद्वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।
केषां चिद्वर्तमानत्वाच्चैति तद्वदतीतताम् । । ३,९.५४ । ।
हेतुपकारादाक्षिप्तो वर्तमानत्वं आगतः ।
शान्तहेतूपकारः सन्पुनर्नोपैति दर्शनम् । । ३,९.५५ । ।
द्वे एव कालस्य विभोः केषां चिच्छक्तिवर्त्मनी ।
करोति याभ्यां भावानां उन्मीलननिमीलने । । ३,९.५६ । ।
कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः ।
के चिद्बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते । । ३,९.५७ । ।
ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।
कालात्मानं अनाश्रित्य व्यवहर्तुं न शक्यते । । ३,९.५८ । ।
तिस्रो भावस्य भावस्य केषां चिद्भावशक्तयः ।
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च । । ३,९.५९ । ।
सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः ।
क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते । । ३,९.६० । ।
दर्शनादर्शनेनैकं दृष्टादृष्टं तदेव तु ।
अध्वनां एकता नास्ति न च किं चिन्निवर्तते । । ३,९.६१ । ।
शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् ।
प्रथमं तदविद्यायां यद्विद्यायां न विद्यते । । ३,९.६२ । ।
अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् । । ३,९.६३ । ।
ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु ।
कथं प्रचययोगः स्यात्कल्पनामात्रहेतुकः । । ३,९.६४ । ।
अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।
अभिन्नं अपि शब्दस्य तत्त्वं अप्रचयात्मकम् । । ३,९.६५ । ।
एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।
परिमाणविकल्पेन शब्दात्मनि न विद्यते । । ३,९.६६ । ।
अनुनिष्पादिकल्पेन येऽन्तराल इव स्थिताः ।
शब्दास्ते प्रतिपत्तॄणां उपायाः प्रतिपत्तये । । ३,९.६७ । ।
विशिष्टं अवधिं तं तं उपादाय प्रकल्पते ।
कालः कालवतां एकः क्षणमासर्तुभेदभाक् । । ३,९.६८ । ।
बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितः ।
तावानेव क्षणः कालो युगमन्वन्तराणि वा । । ३,९.६९ । ।
प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।
यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् । । ३,९.७० । ।
अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।
कालस्य वृत्तिरात्मापि तं एवास्यानुवर्तते । । ३,९.७१ । ।
आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।
बहुरूपस्य भावेषु बहुधा तेन भिद्यते । । ३,९.७२ । ।
त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।
तावत्तद्वृद्धियोगेन कालतत्त्वं विकल्पते । । ३,९.७३ । ।
व्यतिक्रमेऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन । । ३,९.७४ । ।
उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपातेऽपि ताद्धर्म्यं इव लक्ष्यते । । ३,९.७५ । ।
आदित्यग्रहनक्षत्र- परिस्पन्दं अथापरे ।
भिन्नं आवृत्तिभेदेन कालं कालविदो विदुः । । ३,९.७६ । ।
क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते । । ३,९.७७ । ।
ज्ञाने रूपस्य संक्रान्तिर्ज्ञानेनैवानुसंहृतिः ।
अतः क्रियान्तराभावे सा क्रिया काल इष्यते । । ३,९.७८ । ।
भूतो घट इतीयं च सत्ताया एव भूतता ।
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते । । ३,९.७९ । ।
परतो भिद्यते सर्वं आत्मा तु न विकल्प्यते ।
पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते । । ३,९.८० । ।
प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः । । ३,९.८१ । ।

  • व्यवधानं इवोपैति निवृत्त इव दृश्यते ।

क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः । । ३,९.८२ * । ।

  • न च विच्छिन्नरूपोऽपि सोऽविरामान्निवर्तते ।

सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते । । ३,९.८३ * । ।

  • तदन्तरालदृष्टा वा सर्वैवावयवक्रिया * ।

सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते । । ३,९.८४ । ।
सदसद्वापि वस्तु स्यात्तृतीयं नास्ति किं चन ।
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते । । ३,९.८५ । ।
निर्वृत्तिरूपं एकस्य भेदाभावान्न कल्पते ।
सदसद्वापि तेनैकं क्रमरूपं कथं भवेत् । । ३,९.८६ । ।
बहूनां चानवस्थानादेकं एवोपलभ्यते ।
यथोपलब्धि स्मरणं तत्र चाप्युपपद्यते । । ३,९.८७ । ।
सदसद्रूपं एकं स्याद्सर्वस्यैकत्वकल्पने ।
निर्वृत्तिरूपं निर्वृत्तेः सामान्यं अथ वा भवेत् । । ३,९.८८ । ।
कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत्तथा ।
आत्मतत्त्वेन गृह्येत सा चास्मिन्वर्तमानता । । ३,९.८९ । ।
क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते ।
संक्रान्तरूपं एकत्र तां आहुर्वर्तमानताम् । । ३,९.९० । ।
क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा ।
न च भूतं अनुत्पन्नं न भविष्यत्तथाविधम् । । ३,९.९१ । ।
प्राग्विरुद्धक्रियोत्पादान्निर्वृत्ते वा विरोधिनि ।
व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते । । ३,९.९२ । ।
व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।
भाव्यासीदिति सूत्रेण तत्कालेऽन्यत्र शिष्यते । । ३,९.९३ । ।
स्वकाल एव साधुत्वे कालभेदे गतिः कथम् ।
वाक्यार्थादतदर्थेषु विशिष्टत्वं न सिध्यति । । ३,९.९४ । ।
तदर्थश्चेदवयवो भाविनो भूततागतिः ।
न स्यादत्यन्तभूतत्वं एवैकं तत्र संभवेत् । । ३,९.९५ । ।
विशिष्टकालता पूर्वं तथापि तु विशेषणे ।
आश्रयात्सोऽन्तरङ्गत्वात्तत्र साधुर्भविष्यति । । ३,९.९६ । ।
आमिश्र एव प्रक्रान्तः स पदार्थस्तथाविधः ।
केवलस्य विमिश्रत्वं नित्येऽर्थे नोपपद्यते । । ३,९.९७ । ।
शुद्धे च काले व्याख्यातं आमिश्रे न प्रसिध्यति ।
साधुत्वं अयथाकालं तत्सूत्रेणोपदिश्यते । । ३,९.९८ । ।
आख्यातपदवाच्येऽर्थे निर्वर्त्यत्वात्प्रधानता ।
विशेषणं तदाक्षेपात्तत्काले व्यवतिष्ठते । । ३,९.९९ । ।
संप्रत्ययानुकारो वा शब्दव्यापार एव वा ।
अध्यस्यते विरुद्धेऽर्थे न च तेन विरुध्यते । । ३,९.१०० । ।
भूतं भविष्यदित्येतौ प्रत्ययौ वर्तमानताम् ।
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् । । ३,९.१०१ । ।
अध्वनो वर्तमानस्य विषयेण भविष्यता ।
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते । । ३,९.१०३ । ।
इच्छा चिकीर्शतीत्यत्र स्वकालं अनुरुध्यते ।
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते । । ३,९.१०४ । ।
आशास्यमानतन्त्रत्वादाशंसायां विपर्ययः ।
प्रयोक्तृधर्मः शब्दार्थे शब्दैरेवानुशज्यते । । ३,९.१०५ । ।
अप्छालिबीजसंयोगे वर्तते निष्पदिर्यदा ।
तत्रावयववृत्तित्वाद्भविष्यत्प्रतिषेधनम् । । ३,९.१०६ । ।
फलप्रसवरूपे तु निष्पदौ भूतकालता ।
धर्मान्तरेषु तद्रूपं अध्यस्य परिकल्प्यते । । ३,९.१०७ । ।
उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।
तत्र रूपं यदध्यस्तं तत्कालं तत्प्रतीयते । । ३,९.१०८ । ।
निष्पत्ताववधिः कश्चित्कश्चित्प्रतिविवक्षितः ।
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते । । ३,९.१०९ । ।
अबहिःसाधनाधीना सिद्धिर्यत्र विवक्षिता ।
तत्साधनान्तराभावात्सिद्धं इत्यपदिश्यते । । ३,९.११० । ।
तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता ।
अनागतत्वं अस्तित्वं हेतुधर्मव्यपेक्षणे । । ३,९.१११ । ।
सतां इन्द्रियसंबन्धात्सैव सत्ता विशिष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः । । ३,९.११२ । ।
अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद्भेदः स तत्र न विवक्षितः । । ३,९.११३ । ।
योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिदवतिष्ठते ।
स्वस्मिन्नात्मनि तत्रान्यद्भूतं भावि च कथ्यते । । ३,९.११४ । ।

३,१०ः पुरुषसमुद्देश
प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मनोः ।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ । । ३,१०.१ । ।
सदसद्वापि चैतन्यं एताभ्यां अवगम्यते ।
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते । । ३,१०.२ । ।
बुधिजानातिचितिभिः प्रथमे पुरुषे सति ।
सम्ज्ञानार्थैर्न चैतन्य- स्योपयोगः प्रकाश्यते । । ३,१०.३ । ।
संबोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते ।
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः । । ३,१०.४ । ।
संबोधनं न लोकेऽस्ति विधातव्येन वस्तुना ।
स्वाहेन्द्रशत्रुर्वर्धस्व यथा राजा भवेति च । । ३,१०.५ । ।
युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता ।
युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ । । ३,१०.६ । ।
गुणप्रधानताभेदः पुरुशादिविपर्ययः ।
निर्देशश्चान्यथा शास्त्रे नित्यत्वान्न विरुध्यते । । ३,१०.७ । ।
यथानिर्देशं अर्थाः स्युर्येसां शास्त्रं विधायकम् ।
किं चित्सामान्यं आश्रित्य स्थिते तु प्रतिपादनम् । । ३,१०.८ । ।
योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् । । ३,१०.९ । ।

३,११ः Sअंख्यासमुद्देश
संख्यावान्सत्त्वभूतोऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः । । ३,११.१ । ।
स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा ।
भेदहेतुत्वं आश्रित्य संख्येति व्यपदिश्यते । । ३,११.२ । ।
समवेता परिच्छेद्ये क्व चिदन्यत्र सा स्थिता ।
प्रकल्पयति भावानां संख्या भेदं तथात्मनः । । ३,११.३ । ।
परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा ।
संख्याशब्दाभिधेयत्वं भेदहेतोस्तथा गुणे । । ३,११.४ । ।
अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।
अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे । । ३,११.५ । ।
स्वबुद्ध्या तं अपोद्धृत्य लोकोऽप्यागमं आश्रितः ।
स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये । । ३,११.६ । ।
परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः ।
शब्दः सर्वपदार्थाना स्वधर्मद्विप्रकृष्यते । । ३,११.७ । ।
यथैवाविषयं ज्ञानं न किं चिदवभासते ।
तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते । । ३,११.८ । ।
भेदेन तु समाख्यातं यल्लोकोऽप्यनुवर्तते ।
आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते । । ३,११.९ । ।
बुद्धौ स्थितेषु तेष्वेवं अध्यारोपो न दुर्लभः ।
परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् । । ३,११.१० । ।
सामान्येष्वपि सामान्यं विशेषेषु विशिष्टता ।
संख्यासु संख्या लिङ्गेषु लिङ्गं एवं प्रकल्पते । । ३,११.११ । ।
अतो द्रव्याश्रितां संख्यां आहुः संसर्गवादिनः ।
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् । । ३,११.१२ । ।
आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते ।
अतद्रूपेण संसर्गात्सा निमित्तसरूपता । । ३,११.१३ । ।
संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा ।
सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते । । ३,११.१४ । ।
द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः ।
विना तेन न संख्यानां अन्यासां अस्ति संभवः । । ३,११.१५ । ।
एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।
एकत्वाभ्यां समुत्पन्नं एवं वा तत्प्रतीयते । । ३,११.१६ । ।
एकत्वसमुदायो वा सापेक्षे वा पृथक्पृथक् ।
एकत्वे द्वित्वं इत्येवं तयोर्द्विवचनं भवेत् । । ३,११.१७ । ।
एकोऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः । । ३,११.१८ । ।
संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते ।
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका । । ३,११.१९ । ।
एकविंशतिसंख्वावां संख्यान्तरसरूपयोः ।
एकस्यां बुद्ध्यनावृत्त्या, भागयोरिव कल्पना । । ३,११.२० । ।
असंख्यासमुदायत्वात्संख्याकार्यं विधीयते ।
समूहत्वे तु तन्न स्यात्स्वाङ्गादिसमुदायवत् । । ३,११.२१ । ।
संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः । । ३,११.२२ । ।
न संख्यायां न संख्येये द्वौ दशेत्यस्ति संभवः ।
भेदाभावान्न संख्यायां विरोधान्न तदाश्रये । । ३,११.२३ । ।
संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते । । ३,११.२४ । ।
संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।
रूपं न रूपं अप्येवं सम्ज्ञा सा हि सितादिषु । । ३,११.२५ । ।
संख्यानजातियोगात्तु संख्या संख्येति कथ्यते ।
रूपत्वजातियोगाच्च रूपे रूपं इति स्मृतम् । । ३,११.२६ । ।
निमित्तं एकं इत्यत्र विभक्त्या नाभिधीयते ।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते । । ३,११.२७ । ।
एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा ।
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः । । ३,११.२८ । ।
तदेकं अपि चैकत्वं विभक्तिश्रवणादृते ।
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते । । ३,११.२९ । ।
अन्वयव्यतिरेकौ च यदि स्याद्वचनान्तरम् ।
स्यातां असति तस्मिम्श्च प्रकृत्यर्थो न कल्प्यते । । ३,११.३० । ।
एकत्वं एक इत्यत्र शुद्धद्रव्यविशेषणम् ।
सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते । । ३,११.३१ । ।
द्व्येकयोरिति निर्देशात्संख्यामात्रेऽपि संभवः ।
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वं उच्यते । । ३,११.३२ । ।

३,१२ः ऊपग्रहसमुद्देश
य आत्मनेपदाद्भेदः क्व चिदर्थस्य गम्यते ।
अन्यतश्चापि लादेशान्मन्यन्ते तं उपग्रहम् । । ३,१२.१ । ।
क्व चित्साधनं एवासौ क्व चित्तस्य विशेषणम् ।
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् । । ३,१२.२ । ।
क्रिया विषयभेदेन जीविकादिषु भिद्यते ।
लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते । । ३,१२.३ । ।
धात्वर्थस्तद्विशेषश्चाप्युक्तः क्व चिदुपग्रहः ।
धात्वर्थो गन्धनादिः स्याद्व्यतिहारो विशेषणम् । । ३,१२.४ । ।
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता ।
असति वा सति वापि विवक्षितनिबन्धना । । ३,१२.५ । ।
केसां चित्कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदं अन्येसां तदर्था प्रकृतिर्यथा । । ३,१२.६ । ।
क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते । । ३,१२.७ । ।
संविधानं पचादिनां क्व चिदर्थः प्रतीयते ।
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका । । ३,१२.८ । ।
कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तथाभूता क्रिया या हि तत्कर्ता फलभाग्यतः । । ३,१२.९ । ।
यथोपलक्ष्यते कालस्तारकादर्शनादिभिः ।
तथा फलविशेषेण क्रियाभेदो निदर्श्यते । । ३,१२.१० । ।
क्रियाविशेषवचने सामर्थ्यं उपरुध्यते ।
केसां चिदन्ये तु कृताः स्वरितेतो ञितस्तथा । । ३,१२.११ । ।
अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थं अनुषज्यते ।
तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता । । ३,१२.१२ । ।
दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः ।
ण्यर्थोपादायिनस्तस्मान्न तुल्यार्थाः पचादिभिः । । ३,१२.१३ । ।
उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः ।
ण्यर्थोपादायिता तस्मान्नियताः शब्दशक्तयः । । ३,१२.१४ । ।
तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे ।
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् । । ३,१२.१५ । ।
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः । । ३,१२.१६ । ।
तस्मादवस्थितेऽप्यर्थे कस्य चित्प्रतिबध्यते ।
शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वाख्यायते विधिः । । ३,१२.१७ । ।
यस्यार्थस्य प्रसिद्ध्यर्थं आरभ्यन्ते पचादयः ।
तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् । । ३,१२.१८ । ।
यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् ।
युगपद्धर्मभेदेन धातुस्तत्र न वर्तते । । ३,१२.१९ । ।
यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम् ।
परस्मैपदं अन्यत्र संस्काराद्यभिधायिनि । । ३,१२.२० । ।
संविधातुश्च सांनिध्याद्दासे धर्मोऽनुसज्यते ।
प्लक्षशब्दस्य सांनिध्यान्न्यग्रोधे प्लक्षता यथा । । ३,१२.२१ । ।
पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।
छत्त्रिणा चाभिसंबन्धाच्छत्त्रिशब्दाभिधेयता । । ३,१२.२२ । ।
अर्थात्प्रतीतं अन्योन्यं पारार्थ्यं अविवक्षितम् ।
इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते । । ३,१२.२३ । ।
अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।
भाष्ये नोदाहृतं कस्मात्प्राप्तं तत्रात्मनेपदम् । । ३,१२.२४ । ।
प्रतीतत्वात्तदर्थस्य शेषत्वं यदि कल्प्यते ।
न स्यात्प्राप्तविभाषासौ स्वरितेतां निवर्तिका । । ३,१२.२५ । ।
शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः ।
तद्धर्मा यजिरित्येवं न स्यात्तत्रात्मनेपदम् । । ३,१२.२६ । ।
अत्र तूपपदेनायं अर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान्नात्रात्मनेपदम् । । ३,१२.२७ । ।

३,१३ः लिङ्गसमुद्देश
स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा । । ३,१३.१ । ।
शब्दोपजनितोऽर्थात्मा शब्दसंस्कार इत्यपि ।
लिङ्गानां लिङ्गतत्त्वज्ञैर्विकल्पाः सप्त दर्शिताः । । ३,१३.२ । ।
उपादानविकल्पाश्च लिङ्गानां सप्त वर्णिताः ।
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः । । ३,१३.३ । ।
तिस्रो जातय एवैताः केसां चित्समवस्थिताः ।
अविरुद्धा, विरुद्धाभिर्गोमहिष्यादिजातिभिः । । ३,१३.४ । ।
हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः ।
अतस्तां जातिं इच्छन्ति द्रव्यादिसमवायिनीम् । । ३,१३.५ । ।
परतन्त्रस्य यल्लिङ्गं अपोद्धारे विवक्षिते ।
तत्रासौ शब्दसंस्कारः शब्दैरेव व्यपाश्रितः । । ३,१३.६ । ।
बुद्ध्या कल्पितरूपेषु लिङ्गेष्वपि च संभवः ।
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर्व्यपदिश्यते । । ३,१३.७ । ।
यथा सलिलनिर्भासा मृगतृष्णासु जायते ।
जलोपलब्ध्यनुगुणाद्बीजाद्बुद्धिर्जलेऽसति । । ३,१३.८ । ।
तथैवाव्यपदेश्येभ्यो हेतुभ्यस्तारकादिषु ।
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः । । ३,१३.९ । ।
व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।
अव्यक्तव्यञ्जनाव्यक्तेर्जातिर्न परिकल्प्यते । । ३,१३.१० । ।
अस्तित्वं च प्रतिज्ञाय सदादर्शनं इच्छतः ।
अत्यन्तादर्शने न स्यादसत्त्वं प्रति निश्चयः । । ३,१३.११ । ।
न चालं अनुमानाय शब्दोऽदर्शनपूर्वकः ।
सिद्धे हि दर्शने किं स्यादनुमानप्रयोजनम् । । ३,१३.१२ । ।
आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः । । ३,१३.१३ । ।
सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे ।
त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः । । ३,१३.१४ । ।
रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् ।
का चित्प्रलीयते का चित्कथं चिदभिवर्धते । । ३,१३.१५ । ।
क्वथितोदकवच्चैषां अनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता । । ३,१३.१६ । ।
प्रवृत्तेरेकरूपत्वं साम्यं वा स्थितिरुच्यते ।
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते । । ३,१३.१७ । ।
गुणा इत्येव बुद्धेर्वा निमित्तत्वं स्थितिर्मता ।
स्थितेश्च सर्वलिङ्गानां सर्वनामत्वं उच्यते । । ३,१३.१८ । ।
स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।
कस्य चिच्छब्दसंस्कारे व्यापारः क्व चिदिष्यते । । ३,१३.१९ । ।
संनिधाने निमित्तानां किं चिदेव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिन्गेषु नियमस्तथा । । ३,१३.२० । ।
भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद्यद्धर्मेऽङ्गतां एति लिङ्गं तत्तत्प्रचक्षते । । ३,१३.२१ । ।
स्वरभेदाद्यथा शब्दाः साधवो विषयान्तरे ।
लिङ्गभेदात्तथा सिद्धात्साधुत्वं अनुगम्यते । । ३,१३.२२ । ।
प्रयोगो विप्रयोगश्च लोके यत्रोपलभ्यते ।
शास्त्रं आरभ्यते तत्र न प्रयोगाविपर्यये । । ३,१३.२३ । ।
उपाधिभेदादर्थेषु गुणधर्मस्य कस्य चित् ।
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता । । ३,१३.२४ । ।
हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वं अवस्थितम् ।
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता । । ३,१३.२५ । ।
शब्दान्तरानां भिन्नेऽर्थ उपायाः प्रतिपत्तये ।
एकतां इव निश्चित्य लघ्वर्थं उपदर्शिताः । । ३,१३.२६ । ।
उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानं इत्यपि ।
आत्मरूपं तु भावानां स्थितिरित्यपदिश्यते । । ३,१३.२७ । ।
दृष्टं निमित्तं केसां चिज्जात्यादिवदवस्थितम् ।
दृष्टवच्छब्दसंस्कार- मात्रं तु परिकल्पितम् । । ३,१३.२८ । ।
यथा प्रसिद्धेऽप्येकत्वे नानात्वाभिनिवेशिनः ।
नानात्वं जनयन्तीव शब्दा लिङ्गेऽपि स क्रमः । । ३,१३.२९ । ।
इदं वेयं अयं वेति शब्दसंस्कारमात्रकम् ।
निमित्तदर्शनादर्थे कैश्चित्सर्वत्र वर्ण्यते । । ३,१३.३० । ।
नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस्तदिष्यते । । ३,१३.३१ । ।

३,१४ः वृत्तिसमुद्देश
कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थादयः सर्वे यस्मात्कुत्सादिहेतवः । । ३,१४.१ । ।
देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते । । ३,१४.२ । ।
प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः ।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते । । ३,१४.३ । ।
कुत्सितत्वेन कुत्स्यो वा न सम्यग्वापि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते । । ३,१४.४ । ।
न च सांप्रतिकी कुत्सा भेदाभावात्प्रतीयते ।
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते । । ३,१४.५ । ।
विशेषणविशेष्यत्वं पदयोरुपजायते ।
न प्रातिपदिकार्थश्च तत्रैव व्यतिरिच्यते । । ३,१४.६ । ।
विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषां उपकारिणाम् । । ३,१४.७ । ।
विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः ।
सामानाधिकरण्यस्य प्रसिद्धिर्द्रव्यशब्दयोः । । ३,१४.८ । ।
द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते । । ३,१४.९ । ।
सामान्यानां असंबन्धात्तौ विशेषे व्यवस्थितौ ।
रूपाभेदाद्विशेषं तं अभिव्यङ्क्तुं न शक्नुतः । । ३,१४.१० । ।
तावेव संनिपतितौ भेदेन प्रतिपादने ।
अवच्छेदं इवाधाय संशयं व्यपकर्षतः । । ३,१४.११ । ।
द्रव्यात्मा गुणसंसर्ग- भेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते । । ३,१४.१२ । ।
निमित्तैरभिसंबन्धाद्या निमित्तसरूपता ।
तयैकस्यापि नानात्वं रूपभेदात्प्रकल्पते । । ३,१४.१३ । ।
द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्भेदादाश्रयत्वे नियुज्यते । । ३,१४.१४ । ।
बुद्ध्यैकं भिद्यते भिन्नं एकत्वं चोपगच्छति ।
बुद्ध्यावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका । । ३,१४.१५ । ।
व्यपदेशिवदेकस्मिन्बुद्ध्या नानात्वकल्पना ।
तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते । । ३,१४.१६ । ।
क्रियाभेदेन दृष्टानां अश्मादीनां पुनः पुनः ।
किं चिद्दर्शनं अन्येन दर्शनेनापदिश्यते । । ३,१४.१७ । ।
प्रयोगभेदाद्धातूनां प्रकल्प्य बहुरूपताम् ।
भेदाभेदावुपादाय क्व चिदेकाच्त्वं उच्यते । । ३,१४.१८ । ।
अन्वयव्यतिरेकाभ्यां अर्थवान्परिकल्पितः ।
एको धात्वर्थविगमाद्वर्णत्वेनोपचर्यते । । ३,१४.१९ । ।
द्रव्यात्मानस्त्रयस्तस्माद्बुद्धौ नाना व्यवस्थिताः ।
आश्रयाश्रयिधर्मेणेत्ययं पूर्वेभ्य आगमः । । ३,१४.२० । ।
सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते ।
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वं एव च । । ३,१४.२१ । ।
केषां चिज्जातिगुणयोरेकार्थसमवेतयोः ।
वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि । । ३,१४.२२ । ।
संस्तु रूपरसादिनां आश्रयो नाभिधीयते ।
द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः । । ३,१४.२३ । ।
द्रव्याभिधायी कृष्णादिराकाङ्क्षावान्प्रवर्तते ।
निमित्तानुविधायित्वात्तत्तिलादौ न विद्यते । । ३,१४.२४ । ।
एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते । । ३,१४.२५ । ।
गुणमात्राभिधायित्वं के चिदिच्छन्ति वृत्तिषु ।
अजाश्वादिषु संबन्धाद्रूढीनां इव रूढिभिः । । ३,१४.२६ । ।
तिले पूर्वं उपात्ते वा तत्रैव मतुबिष्यते ।
स च धर्मः समासेषु गुणस्तस्माद्विशेषणम् । । ३,१४.२७ । ।
[पट्वीमृद्व्योः समासे तु यद्यप्येकार्थवृत्तिता ।
भिन्नं अत्राधिकरणं प्राग्वृत्तेस्तच्च गृह्यते । । ३,१४.२८ * । ।
अनुस्यूतेव भेदाभ्यां एका प्रख्योपजायते ।
यदा सहविवक्षां तां आहुर्द्वन्द्वैकशेषयोः । । ३,१४.२९ । ।
इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् ।
प्रत्येकं च समूहोऽसौ समूहिषु समाप्यते । । ३,१४.३० । ।
व्यापारसमुदायस्य यथाधिश्रयणादिषु ।
प्रत्येकं जातिवद्वृत्तिस्तथा द्वन्द्वपदेष्वपि । । ३,१४.३१ । ।
शौण्डार्धर्चपुरोडाश- च्छत्त्रिणोऽत्र निदर्शनम् ।
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु । । ३,१४.३२ । ।
अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।
याभ्यां चैकं अनेकार्थं ताभ्यां एवापरं पदम् । । ३,१४.३३ । ।
समुदायान्तरत्वाच्च तादृशोऽर्थो न लौकिकः ।
अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते । । ३,१४.३४ । ।
दुःखा दुरुपपादा च तस्माद्भाष्येऽप्युदाहृता ।
युगपद्वाचिता सा तु व्यवहारार्थं आश्रिता । । ३,१४.३५ । ।
समुदायं उपक्रम्य पदं तस्यां प्रयुज्यते ।
विभागेन समाख्याने ततस्तद्द्व्यर्थं उच्यते । । ३,१४.३६ । ।
वाक्येऽपि नियता धर्माः के चिद्वृत्तौ द्वयोस्तथा ।
ते त्वभेदेन सामर्थ्य- मात्र एवोपवर्णिताः । । ३,१४.३७ । ।
वृत्तौ विशेषवृत्तित्वाद्भेदे सामान्यवाचिता ।
उपमानसमासादौ श्यामादीनां उदाहृता । । ३,१४.३८ । ।
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ।
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते । । ३,१४.३९ । ।
भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः ।
प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु । । ३,१४.४० । ।
क्रीडाया, जीविकायाश्च वाक्येनावचनात्तथा ।
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा । । ३,१४.४१ । ।
निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् । । ३,१४.४२ । ।
विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् ।
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् । । ३,१४.४३ । ।
सामर्थ्यं अविशेषोक्तं अपि लोकव्यवस्थया ।
वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः । । ३,१४.४४ । ।
अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुध्यते ।
एकार्थीभाव एवातः समासाख्या विधीयते । । ३,१४.४५ । ।
व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते ।
तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते । । ३,१४.४६ । ।
तुल्यश्रुतित्वात्तत्त्वेऽपि राजादीनां उपाश्रिते ।
वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान्निवर्तते । । ३,१४.४७ । ।
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते । । ३,१४.४८ । ।
समुदायेन संबन्धो येसां गुरुकुलादिना ।
संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह । । ३,१४.४९ । ।
अबुधान्प्रत्युपायाश्च विचित्राः प्रतिपत्तये ।
शब्दान्तरत्वादत्यन्त- भेदो वाक्यसमासयोः । । ३,१४.५० । ।
असमासे समासे च गोरथादिष्वदर्शनात् ।
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः । । ३,१४.५१ । ।
शब्दान्तरत्वाद्युक्तादिः क्व चिद्वाक्ये प्रयुज्यते ।
प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु । । ३,१४.५२ । ।
विशेषणविशेस्यत्वं कैश्चिदेकस्तथाश्रयः ।
उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः । । ३,१४.५३ । ।
पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना । । ३,१४.५४ । ।
श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् ।
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् । । ३,१४.५५ । ।
सप्तपर्णादिवद्भेदो न वृत्तौ विद्यते क्व चित् ।
रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तये । । ३,१४.५६ । ।
या सामान्याश्रया संज्ञा विशेषविषया च या ।
बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः । । ३,१४.५७ । ।
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि ।
स्यात्स्यात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः । । ३,१४.५८ । ।
समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।
भेद एव विभाषाया नियतो विषयो यतः । । ३,१४.५९ । ।
यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता ।
अभेदप्रक्रमेऽत्यन्तं भेदानां अपसारणात् । । ३,१४.६० । ।
महाकष्टश्रितेत्येवं न स्याद्भेदः पदत्रये ।
वृत्ताववयवस्यात्त्वं यस्मान्न प्रतिषिध्यते । । ३,१४.६१ । ।
महारण्यं अतीते तु त्रिपदाद्भिद्यते स्वरः ।
यस्मात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः । । ३,१४.६२ । ।
सतिशिष्टबलियस्त्वात्थाथादिस्वर एव तु ।
द्विपदे तेन यगपत्त्रितयं न समस्यते । । ३,१४.६३ । ।
येषां अपूज्यमानत्वं परार्थानुगमात्मके ।
विशेषणविशेष्यत्वं अपि तेषां न कल्पते । । ३,१४.६४ । ।
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा ।
शब्दान्तरत्वाद्वाक्ये तु वृत्तौ नित्यं न विद्यते । । ३,१४.६५ । ।
विशेषकर्मसंबन्धे निर्भुक्तेऽपि कृतादिभिः ।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते । । ३,१४.६६ । ।
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि तत् ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् । । ३,१४.६७ । ।
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
संबध्यते क्रिया तद्वत्कृतपूर्व्यादिषु स्थिता । । ३,१४.६८ । ।
मुण्डिसूत्र्वादयोऽसद्भिर्भागैरनुगता इव ।
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् । । ३,१४.६९ । ।
पुत्रीयतौ न पुत्रोऽस्ति विशेषेच्छा तु तादृशी ।
विनैव पुत्रानुगमाद्या पुत्रे व्यवतिष्ठते । । ३,१४.७० । ।
प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः ।
न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् । । ३,१४.७१ । ।
तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।
अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः । । ३,१४.७२ । ।
आक्षेपाच्च प्रयोगे.न विषयान्तरवर्तिना ।
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते । । ३,१४.७३ । ।
प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना ।
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते । । ३,१४.७४ । ।
शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः ।
अन्वाख्येयास्तथा शास्त्रं अतिदूरे व्यवस्थितम् । । ३,१४.७५ । ।
अर्थस्यानुगमं कं चिद्दृष्ट्वैव परिकल्पितम् ।
पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् । । ३,१४.७६ । ।
अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता ।
उपायान्प्रतिपत्तीनां नाभिमन्येत सत्यतः । । ३,१४.७७ । ।
यथैव डित्थे दवतिः पाचके पचतिस्तथा ।
डयतिश्च पचिश्चैव द्वावप्येतावलौकिकौ । । ३,१४.७८ । ।
प्रकृतिप्रत्ययावूह्यौ पदात्ताभ्यां पदं तथा ।
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान्प्रति । । ३,१४.७९ । ।
शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते ।
युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् । । ३,१४.८० । ।
अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते ।
राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा । । ३,१४.८१ । ।
विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः ।
गर्गादयो लुका तेषां साधुत्वं अनुगम्यते । । ३,१४.८२ । ।
[सोऽयं इत्यभिसंबन्धात्प्रत्ययेन विना यदि ।
भृग्वादयः प्रयुज्येरन्नापत्ये नियमो भवेत् । । ३,१४.८३ * । ।
सोऽयं इत्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते ।
प्रष्ठादिषु न जायैव नियमेन प्रतीयते । । ३,१४.८४ । ।
मानमेयाभिसंबन्ध- विशेषेऽङ्गीकृते तथा ।
प्रस्थादीनां असाधुत्वं तद्धितेन विना भवेत् । । ३,१४.८५ । ।
तद्धितो योगभेदेन वाक्यं वा स्याद्विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः । । ३,१४.८६ । ।
व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् ।
युज्यतेऽङ्गीकृताधिक्यं तत्सर्वाभिर्विभक्तिभिः । । ३,१४.८७ । ।
शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।
असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् । । ३,१४.८८ । ।
विशेषणाद्विशेष्येऽर्थे तद्भावाभ्युच्चये सति ।
पुनश्च प्रतिसंहारे वृत्तिं एके प्रचक्षते । । ३,१४.८९ । ।
निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।
निमित्तवति बुद्धेश्च न निमित्तसरूपता । । ३,१४.९० । ।
संस्कारसहिताज्ज्ञानान्नोपश्लेसः स्मृतेरपि ।
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात्तथा स्थितम् । । ३,१४.९१ । ।
अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।
तस्मादनुपकारे वा ग्राह्यं वा न तथा स्थितम् । । ३,१४.९२ । ।
अनुस्यूतेव संसृष्टैरर्थे बुद्धिः प्रवर्तते ।
व्याख्यातारो विभज्यार्थांस्तान्भेदेन प्रचक्षते । । ३,१४.९३ । ।
तदात्मन्यविभक्ते च बुद्ध्यन्तरं उपाश्रिताः ।
विभागं इव मन्यन्ते विशेषणविशेष्ययोः । । ३,१४.९४ । ।
अबुधान्प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् । । ३,१४.९५ । ।
अन्वयाद्गम्यते सोऽर्थो विरोधी वा निवर्तते ।
द्व्यर्थं अर्थान्तरे वापि तत्राहुरुपसर्जनम् । । ३,१४.९६ । ।
उपायमात्रं नानात्वं समूहस्त्वेक एव सः ।
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना । । ३,१४.९७ । ।
वृत्तिं वर्तयतां एवं अबुधप्रतिपत्तये ।
भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः । । ३,१४.९८ । ।
वाचिका द्योतिका वापि संख्यानां वा विभक्तयः ।
तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते । । ३,१४.९९ । ।
अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते ।
संसर्गरुपं सैंख्यानां अविभक्तं तदुच्यते । । ३,१४.१०० । ।
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः । । ३,१४.१०१ । ।
भेदानां वा परित्यागात्संख्यात्मा स तथाविधः ।
व्यापाराज्जातिभागस्य भेदापोहेन वर्तते । । ३,१४.१०२ । ।
अगृहीतविशेषेण यथा रूपेण रूपवान् ।
प्रख्यायते न शुक्लादि- भेदरूपस्तु गृह्यते । । ३,१४.१०३ । ।
भेदरूपसमावेशे तथा सत्यविवक्षिते ।
भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते । । ३,१४.१०४ । ।
संकःयासामान्यरूपेण तदा सोऽम्शः प्रतीयते ।
अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः । । ३,१४.१०५ । ।
अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः ।
अभिन्नव्यपदेशार्हं अन्तरालं तदेतयोः । । ३,१४.१०६ । ।
अलुकश्चैकवद्भावस्तस्मिन्सति न शिष्यते ।
स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे । । ३,१४.१०७ । ।
जातौ द्विवचनाभावात्तद्वृत्तिषु न विद्यते ।
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः । । ३,१४.१०८ । ।
आश्रयाद्भेदवत्तायाः सर्वभेदसमन्वयः ।
द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते । । ३,१४.१०९ । ।
सर्वद्रव्यगतिश्चैवं एकशेषश्च नोच्यते ।
प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् । । ३,१४.११० । ।
वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति । । ३,१४.१११ । ।
प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।
वृत्तौ संख्याविशेषाणां त्यागाद्भेदो निवर्तते । । ३,१४.११२ । ।
विद्यमानासु संख्यासु के चित्संख्यान्तरं विदुः ।
अभेदाख्यं उपग्राहि वृत्तौ तच्चोपजायते । । ३,१४.११३ । ।
व्यापारं याति भेदाख्यैस्तत्स्वैरवयवैः क्व चित् ।
आत्मा भेदानपेक्षोऽस्य क्व चिदेति निमित्तताम् । । ३,१४.११४ । ।
दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते ।
व्यापारभेदः संख्यायास्तस्मादेव व्यवस्थितः । । ३,१४.११५ । ।
द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।
विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्ठते । । ३,१४.११६ । ।
द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते ।
सोऽयं इत्यभिसंबन्धादुभशब्दे न तत्तथा । । ३,१४.११७ । ।
उभयस्तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।
सूत्रेऽपि नित्यग्रहणं तदर्थं अभिधीयते । । ३,१४.११८ । ।
आपि के चापरार्थत्वान्नाभेद उपजायते ।
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते । । ३,१४.११९ । ।
स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः ।
स्वभावादपरार्थत्वात्तत्र भेदो न हीयते । । ३,१४.१२० । ।
तस्माद्द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते ।
प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः । । ३,१४.१२१ । ।
प्राप्तिः प्रगृह्यसंज्ञाया न स्यात्प्रत्ययलक्षणात् ।
कुमार्यगारे न ह्यस्ति समासो वचनान्तरे । । ३,१४.१२२ । ।
एकद्वयोर्यञादिनां विभाषा लुङ्न कल्पते ।
यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति । । ३,१४.१२३ । ।
दृष्टो गार्ग्यतरे भेदस्तथा गर्गतरा इति ।
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ । । ३,१४.१२४ । ।
उपाधिभूता या संख्या प्रकृतौ समवस्थिता ।
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना । । ३,१४.१२५ । ।
शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतां आश्रित्य संख्यां भेदेन वर्तते । । ३,१४.१.२६ । ।
वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।
इष्टोऽभेदादृते तत्र पतिमाणं अनर्थकम् । । ३,१४.१२७ । ।
भिन्नस्याभेदवचनात्प्रस्थादिभ्यः शसो विधिः ।
तद्धर्मत्वादभेदात्तु घटादिभ्यो न दृश्यते । । ३,१४.१२८ । ।
श्रूयते वचनं यत्र भावस्तत्र विशिष्यते ।
निवर्तते यद्वचनं तस्य भावो न विद्यते । । ३,१४.१२९ । ।
कार्यं सत्ताश्रयं शास्त्रादप्रवृत्तिरदर्शनम् ।
वाक्ये दृष्टं यदत्यन्तं अभावस्तस्य वृत्तिषु । । ३,१४.१३० । ।
सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।
श्रूयमानं तु वचनं विशिष्टं उपलभ्यते । । ३,१४.१३१ । ।
अभावो वा लुको यत्र रूपवान्वा विधीयते ।
व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते । । ३,१४.१३२ । ।
भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।
सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् । । ३,१४.१३३ । ।
आतेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते ।
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः । । ३,१४.१३४ । ।
अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटा इति ।
प्रसक्ते शास्त्रं आरब्धं सिद्धये लिङ्गसंख्ययोः । । ३,१४.१३५ । ।
परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते । । ३,१४.१३६ । ।
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तेरभिन्नरूपत्वात्तेषु वृत्तिर्न विद्यते । । ३,१४.१३७ । ।
रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः ।
तस्मात्तदाश्रयं लिङ्गं वचनं च प्रसज्यते । । ३,१४.१३८ । ।
सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना ।
संबध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् । । ३,१४.१३९ । ।
भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये ।
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते । । ३,१४.१४० । ।
विशेषवृत्तेरपि च रूपाभेदादलक्षितः ।
यस्माद्विशेषस्तेनात्र भेदकार्यं न कल्पते । । ३,१४.१४१ । ।
विशेष एव सामान्यं विशेसाद्भिद्यते यतः ।
अभेदो हि विशेषाणां आश्रितो विनिवर्तकः । । ३,१४.१४२ । ।
यद्यदाश्रीयते तत्तदन्यस्य विनिवर्तकम् ।
भेदाभेदविभागस्तु सामान्ये न निरूप्यते । । ३,१४.१४३ । ।
अपोद्धारश्च सामान्यं इति तस्योपकारिनः ।
निमित्तावस्थं एवातस्तत्स्वधर्मेण गृह्यते । । ३,१४.१४४ । ।
अनिर्धारितधर्मत्वाद्भेदा एव विकल्पिताः ।
निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेसिताः । । ३,१४.१४५ । ।
यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।
प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा । । ३,१४.१४६ । ।
तत्र प्रयोगोऽनियतो गुणानां आश्रयैः सह ।
सामान्यं यत्तदत्यन्तं तत्रैव समवस्थितम् । । ३,१४.१४७ । ।
न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते ।
शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते । । ३,१४.१४८ । ।
व्यतिरेके च सत्येवं मतुपः श्रवनं भवेत् ।
लुगन्वाख्यायते तस्माद्रसादिभ्यश्च नास्ति सः । । ३,१४.१४९ । ।
यत्सोऽयं इति संबन्धाद्रूपाभेदेन वर्तते ।
शुक्लादिवत्ततो लोपस्तद्रसादौ न विद्यते । । ३,१४.१५० । ।
आवेशो लिङ्गसंख्याभ्यां क्व चिन्मञ्चादिवत्स्थितह् ।
सोऽयं इत्यभिसंबन्धे स प्रस्थादौ न विद्यते । । ३,१४.१५१ । ।
लिङ्गं लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् ।
सोऽयं इत्यभिसंबन्धात्पुंशब्दे स्त्र्यभिधायिनि । । ३,१४.१५२ । ।
आश्रये लिङ्गसंख्याभ्यां आश्रितं व्यपदिश्यते ।
विशेषणानां चाजातेरिति शास्त्रव्यवस्थया । । ३,१४.१५३ । ।
निमित्तानुविधायित्वाद्ये धर्मा भेदहेतुषु ।
त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते । । ३,१४.१५४ । ।
आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।
निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः । । ३,१४.१५५ । ।
हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु ।
मनुष्यलुब्विशेषाणां अभिधेयाश्रयं द्वयम् । । ३,१४.१५६ । ।
जातिप्रयोगे जात्या चेत्संबन्धं उपगच्छति ।
विशेषणं ततो धर्माञ् जातेस्तत्प्रतिपद्यते । । ३,१४.१५७ । ।
लुबन्ते संनिपतितं जातेरन्यद्विशेषणम् ।
लुबन्तस्य प्रधानत्वात्तद्धर्मैर्व्यपदिश्यते । । ३,१४.१५८ । ।
नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये ।
भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसंख्ययोः । । ३,१४.१५९ । ।
यदि षष्ठीद्वितीयान्तान्निकृष्टात्तमबादयः ।
न्यक्कारिणि स्युरुत्कृष्टे प्रकृतेः स्याद्विलिङ्गता । । ३,१४.१६० । ।
काल्यां कालाद्द्वितीयान्तात्काले काल्यास्तरब्भवेत् ।
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् । । ३,१४.१६१ । ।
न्यक्कर्तृषु च गर्गेषु गार्ग्यात्स्यात्तच्च नेष्यते ।
कुमार्याः स्वार्थिके ङीप्स्यात्प्रकृत्यर्थो हि नाधिकः । । ३,१४.१६२ । ।
षष्ठ्यन्तादधिके तस्माद्गुणे स्वाश्रयवर्तिनि ।
उत्कृष्टसमवेतायां क्रियायां वा विधीयते । । ३,१४.१६३ । ।
उपात्तं च प्रकृत्यर्थो द्रव्यं एवाश्रयस्तयोः ।
सोऽयं इत्यभिसंबन्धादभेदेन प्रतीयते । । ३,१४.१६४ । ।
रूपाभेदाच्च तद्द्रव्यं आकाङ्क्षावत्प्रतीयते ।
विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते । । ३,१४.१६५ । ।
भिन्नरूपेसु यल्लिङ्गं विशेषेसु व्यवस्थितम् ।
संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते । । ३,१४.१६६ । ।
आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः ।
कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः । । ३,१४.१६७ । ।
निमित्तं आश्रयत्वेन गृह्येत यदि साधनम् ।
कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः । । ३,१४.१६८ । ।
शास्त्रे निमित्तभावेन समुदायादपोद्धृतः ।
स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा । । ३,१४.१६९ । ।
स्त्रीशब्दो गुणशब्दत्वात्तुल्यधर्मा सितादिभिः ।
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये । । ३,१४.१७० । ।
स्त्र्यर्थः संस्त्यानवद्द्रव्यं प्रकृत्यर्थश्च यद्यसौ ।
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति । । ३,१४.१७१ । ।
संस्त्यानेन क्व चिद्द्रव्यं दृष्टं यद्युपलक्षितम् ।
अनङ्गीकृतसंस्त्यानात्तद्वृत्तेः प्रत्ययो भवेत् । । ३,१४.१७२ । ।
भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते ।
ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा । । ३,१४.१७३ । ।
तद्वन्तो हि प्रधानत्वात्प्रत्ययाणां प्रयोजकाः ।
सामानाधिकरैण्येऽपि तस्माट्टाबादिसंभवः । । ३,१४.१७४ । ।
गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।
प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा । । ३,१४.१७५ । ।
संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते ।
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः । । ३,१४.१७६ । ।
उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् ।
तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् । । ३,१४.१७७ । ।
संस्त्यानं प्रत्ययस्यार्थः शुद्धं आश्रीयते यदा ।
तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति । । ३,१४.१७८ । ।
जातिश्चेत्स्त्रीत्वं एवासौ भेदोऽन्यत्राविवक्षितः ।
यस्माद्भिन्नैरपि द्रव्यैस्तदेकं सद्विशिष्यते । । ३,१४.१७९ । ।
मात्राणां हि तिरोभावे परिमाणं न विद्यते ।
कुमार्य इति तेन स्यात्कुमार्यां भेदसंभवात् । । ३,१४.१८० । ।
जातिसंख्यासमाहारैर्यथैव सहचारिणि ।
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते । । ३,१४.१८१ । ।
मूर्तिभ्यो मूर्तिधर्माणां तथाभेदस्य दर्शनात् ।
सामानाधिकरण्यं च क्रियायोगश्च कल्पते । । ३,१४.१८२ । ।
सामानाधिकरण्ये तु मतुब्लोपादपेक्षिते ।
लुक्तद्धितलुकीति स्याल्लुक्तत्राप्युपलक्षणम् । । ३,१४.१८३ । ।
केसां चित्त्यक्तभेदेषु द्रव्येष्वेव विधीयते ।
संस्त्यानवत्सु टाबादिरभेदेन समन्वयात् । । ३,१४.१८४ । ।
सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।
क्रियाभिर्युज्यते भेदैर्भागशश्चावतिष्ठते । । ३,१४.१८५ । ।
शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते ।
स्त्रीत्वं तु प्रत्ययार्थत्वादभिधाविषयो यतः । । ३,१४.१८६ । ।
सोऽयं इत्यभिसंबन्धादाश्रयं प्रतिपद्यते ।
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः । । ३,१४.१८७ । ।
साकाङ्क्षत्वाद्गुणत्वेन सामान्यं वोपदिश्यते ।
व्यक्तीनां आत्मधर्मोऽसावेकप्रख्यानिबन्धनः । । ३,१४.१८८ । ।
एवम्भूता च सावस्था भागभेदपरिग्रहे ।
कृते बुद्ध्यैव भेदानां आश्रयत्वे च कल्पिते । । ३,१४.१८९ । ।
निस्कृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः ।
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते । । ३,१४.१९० । ।
अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।
अविशिष्टार्थवृत्तित्वं रूपाभेदात्प्रतीयते । । ३,१४.१९१ । ।
विकल्पवति वा वृत्तिर्निवर्त्येऽथ समुच्चिते ।
तेषां अज्ञातशक्तीनां द्योतकेन नियम्यते । । ३,१४.१९२ । ।
वृत्तौ विशिष्टरूपत्वाच्चशब्दो विनिवर्तते ।
अर्थभेदेऽपि सारूप्यात्तच्चार्थेनापदिश्यते । । ३,१४.१९३ । ।
चस्य चासत्त्वभूतोऽर्थः स एवाश्रियते यदि ।
तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् । । ३,१४.१९४ । ।
चार्थः शब्दे क्व चिद्भेदात्कथं चित्समवस्थितः ।
द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् । । ३,१४.१९५ । ।
विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।
द्योतकत्वान्न कल्पेत तस्मात्सदुपलक्ष्यते । । ३,१४.१९६ । ।
तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।
शब्दः कश्चित्तं एवार्थं कथं चित्प्रतिपद्यते । । ३,१४.१९७ । ।
शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः ।
अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते । । ३,१४.१९८ । ।
समुच्चितः स्याद्द्वन्द्वार्थो गुणभूतसमुच्चयः ।
समुच्चयो वापि भवेद्गुणभूतसमुच्चितः । । ३,१४.१९९ । ।
समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।
समुच्चयस्य प्राधान्ये शास्त्रं स्यात्प्रतिपादकम् । । ३,१४.२०० । ।
समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः ।
निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः । । ३,१४.२०१ । ।
समुच्चयो निमित्तं चेत्स्यान्निमित्तानुवर्तनम् ।
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः । । ३,१४.२०२ । ।
समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा ।
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते । । ३,१४.२०३ । ।
पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते ।
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस्त्वर्थस्य वाचकः । । ३,१४.२०४ । ।
निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।
गुणप्रधानभावेन क्रियायोगो न कल्पते । । ३,१४.२०५ । ।
यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते ।
अर्थो द्वन्द्वस्य तत्र स्यादुपादानं अनर्थकम् । । ३,१४.२०६ । ।
समुच्चयवतोऽर्थस्य वाचको नानुवर्तते ।
निमित्तं अपि चास्यार्थः स्वधर्मैर्युज्यते ततः । । ३,१४.२०७ । ।
बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।
समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते । । ३,१४.२०८ । ।
यो वावयवभेदाभ्यां भेदवद्भ्यां इवान्वितः ।
एकः समूहो धर्मान्स भागयोः प्रतिपद्यते । । ३,१४.२०९ । ।
एकश्च द्व्यात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः ।
यौ भेदावाश्रितस्तत्स्थे लिङ्गसंख्ये प्रपद्यते । । ३,१४.२१० । ।
यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।
चैत्रशब्दो बहुव्रिहावप्रयोगस्तथा भवेत् । । ३,१४.२११ । ।
यथा गौरिति शुक्लादेरभिधानं न विद्यते ।
एवं यस्याभिसंबन्धो गोभिस्तावत्प्रतीयते । । ३,१४.२१२ । ।
संबन्धी नियतो रूढश्चित्राणां न च विद्यते ।
गवां यथा वज्रपाणिस्त्र्यक्षे वाऽपि व्यवस्थितः । । ३,१४.२१३ । ।
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः । । ३,१४.२१४ । ।
अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः ।
न चित्रगुर्विशेषाणां रूपाभेदात्तु वाचकः । । ३,१४.२१५ । ।
यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते ।
एवं यदि स्यात्सामान्यं तस्य न स्यात्प्रतिश्रुतिः । । ३,१४.२१६ । ।
सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः ।
यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः । । ३,१४.२१७ । ।
विभक्त्यर्थाभिधानाद्वा षष्ठी नानुप्रयुज्यते ।
द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते । । ३,१४.२१८ । ।
सामानाधिकरण्यं चेन्मतुब्लोपात्प्रकल्पते ।
मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते । । ३,१४.२१९ । ।
संबन्धस्य च संबन्दी संबन्धोऽन्यः प्रसज्यते ।
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते । । ३,१४.२२० । ।
विभक्त्यर्थप्रधानत्वात्ततस्तत्रेति न क्रिया ।
दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते । । ३,१४.२२१ । ।
अन्तर्भवेच्च संबन्धः प्राधान्याभिहितः कथम् ।
स प्रातिपदिकार्थश्च तथाभूतः कथं भत्वेत् । । ३,१४.२२२ । ।
असंभवात्तु संबन्धे संबन्धसहचारिणि ।
जातिसंख्यासमाहार- कार्याणां इव संभवः । । ३,१४.२२३ । ।
सोऽयं इत्यभिसंबन्धाद्विशिष्टाश्रयवाचिनाम् ।
शुक्लादिवल्लिङ्गसंख्ये शास्त्रारम्भाद्भविष्यतः । । ३,१४.२२४ । ।
भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर्भवेत् । । ३,१४.२२५ । ।
साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते ।
कृत्स्नार्थवृत्तेः साधुत्वं इत्यर्थग्रहणं कृतम् । । ३,१४.२२६ । ।
सोऽयं इत्यभिसंबन्धाद्द्रव्यवृत्तिरयं यदा ।
सलिङ्गस्य ससंख्यस्य तदा साधुत्वं उच्यते । । ३,१४.२२७ । ।
अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् । । ३,१४.२२८ । ।
साधर्म्यं अव्ययेन स्याद्बहुव्रीहेस्तथा सति ।
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् । । ३,१४.२२९ । ।
प्रयुक्तेन च संबन्धाच्चैत्रादिश्रवनं भवेत् ।
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना । । ३,१४.२३० । ।
अभिधानेऽपि संख्यायाः संख्यात्वं न निवर्तते ।
षष्ठ्यर्थस्याभिधाने तु स्यात्प्रातिपदिकार्थता । । ३,१४.२३१ । ।
अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।
वस्त्वन्तरं उपक्षिप्तं इति के चित्प्रचक्षते । । ३,१४.२३२ । ।
संबन्दिभिर्विशिष्टानां संबन्धानां निमित्तता ।
संबन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता । । ३,१४.२३३ । ।
के चित्संयोगिनो दण्डाद्विषाणात्समवायिनः ।
तद्वति प्रत्ययानाहुर्बहुव्रीहिं तथैव च । । ३,१४.२३४ । ।
भिन्नं संबन्धिभेदेन संबन्धं अपरे विदुः ।
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते । । ३,१४.२३५ । ।
प्रधानं अन्यार्थतया भिन्नं स्वैरुपसर्जनैः ।
निमित्तं अब्बिधेयं वा सर्वपश्चादपेक्ष्यते । । ३,१४.२३६ । ।
स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते ।
प्राधान्य एव तस्येष्टो बहुव्रीहिर्विवक्षिते । । ३,१४.२३७ । ।
गवां विशेषणत्वेन यदा तद्वान्प्रवर्तते ।
अस्यैता इति तत्रार्थे बहुव्रीहिर्न विद्यते । । ३,१४.२३८ । ।
यदा प्रत्यवमर्शस्तु तासां स्वामी गवां इति ।
गोभिस्तदाभिसंबन्धो निमित्तत्वाय कल्पते । । ३,१४.२३९ । ।
अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये ।
निमित्तानुविधायित्वात्तद्धर्मार्थः प्रसज्यते । । ३,१४.२४० । ।
नाना चित्रा इति यथा निमित्तं अनुरुध्यते ।
नानाभूतेऽपि वृत्तः सन्बहुव्रीहिस्तथा भवेत् । । ३,१४.२४१ । ।
संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते । । ३,१४.२४२ । ।
संख्वावांल्लिङ्गवाम्श्चार्थोऽभिन्नधर्मा, निमित्ततः ।
आसन्न एव द्रव्यत्वात्तद्धर्मैर्न विरुध्यते । । ३,१४.२४३ । ।
विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।
द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः । । ३,१४.२४४ । ।
द्रव्यमात्रस्य निर्देशे भेदोऽयं अविवक्षितः ।
ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः । । ३,१४.२४५ । ।
द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।
द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः । । ३,१४.२४६ । ।
संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते ।
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि । । ३,१४.२४७ । ।
द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः ।
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते । । ३,१४.२४८ । ।
शास्त्रप्रवृत्तिभेदेऽपि लौकिकोऽर्थो न भिद्यते ।
नञ्समसे यतस्तत्र त्रयः पक्षा विचारिताः । । ३,१४.२४९ । ।
शब्दान्तरेऽपि चैकत्वं आश्रित्यैवं विचारणा ।
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते । । ३,१४.२५० । ।
प्राक्समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा ।
स्वभावतो निवृत्तानां रूपाभेदादलक्षिता । । ३,१४.२५१ । ।
ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया ।
क्रियया यस्य संबन्धो वृत्तिस्तस्य न विद्यते । । ३,१४.२५२ । ।
पाचकादिपदस्था चेन्नञा संबध्यते क्रिया ।
तत्र सत्तानुपादानात्त्रिपक्षी नोपपद्यते । । ३,१४.२५३ । ।
सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते ।
असन्निति समासेऽस्मिन्सत्तान्या परिकल्प्यताम् । । ३,१४.२५४ । ।
क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।
विशेषणविशेष्यत्वं नञासत्ताभिधायिना । । ३,१४.२५५ । ।
क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः ।
ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः । । ३,१४.२५६ । ।
वृत्तौ यथा गताद्यर्थं उपादाय निरादयः ।
युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः । । ३,१४.२५७ । ।
तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः ।
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् । । ३,१४.२५८ । ।
कामचारे च सत्येवं असतः स्यात्प्रधानता, ।
गुणत्वं इतरेषां च तेषां वा स्यात्प्रधानता । । ३,१४.२५९ । ।
प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः । । ३,१४.२६० । ।
यथा गौरादिभिस्तेषां अवच्छेदो विधीयते ।
असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा । । ३,१४.२६१ । ।
यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते ।
तथासत्ताभिधानाय निरुपाख्योऽपि कल्पते । । ३,१४.२६२ । ।
क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।
जात्या भिन्नां ततः सत्तां प्रसक्तां अपकर्षति । । ३,१४.२६३ । ।
अभाव इति भावस्य प्रतिषेधे विवक्षिते ।
सोपाख्यत्वं अनाश्रित्य प्रतिषेधो न कल्पते । । ३,१४.२६४ । ।
अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः । । ३,१४.२६५ । ।
यथैकदेशकरणात्कृत इत्वभिधीयते ।
अकृतश्चेति संघातः स एवाब्राह्मणे क्रमः । । ३,१४.२६६ । ।
ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात्प्रसज्यते ।
अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् । । ३,१४.२६७ । ।
अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये ।
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः । । ३,१४.२६८ । ।
पदार्थानुपघातेन दृश्यतेऽन्यविशेषणम् ।
अथ जातिमतोऽर्थस्य कश्चिद्धर्मो निवर्तितः । । ३,१४.२६९ । ।
अवश्यं ब्राह्मणे कश्चित्क्व चिद्धर्मो न विद्यते ।
विशेषावचनात्तत्र नञः श्रुतिरनर्थिका । । ३,१४.२७० । ।
अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।
अन्वाख्यानाद्धि साधुत्वं एवंभूते प्रतीयते । । ३,१४.२७१ । ।
पदार्थानुपघातेन यद्यप्यत्र विशेषणम् ।
उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा । । ३,१४.२७२ । ।
विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।
तथाभूते तथाभावो गम्यते भेदहेतुभिः । । ३,१४.२७३ । ।
निवृत्तेऽवयवस्तस्मिन्पदार्थे वर्तते कथम् ।
नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते । । ३,१४.२७४ । ।
आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः ।
शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका । । ३,१४.२७५ । ।
अथ स्वभावो वचनादन्वाख्येयत्वं अर्हति ।
तद्वाच्यं अप्रसिद्धत्वान्नञार्थो विनिवर्त्यते । । ३,१४.२७६ । ।
यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते ।
प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ । । ३,१४.२७७ । ।
किमर्थं अतथाभूतेऽसति मुख्यार्थसंभवे ।
भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते । । ३,१४.२७८ । ।
अयं पदार्थ एतस्मिन्क्षत्रियादौ न विद्यते ।
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते । । ३,१४.२७९ । ।
बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते ।
प्रवृत्तिर्वा निवृत्तिर्वा ग्रुत्या ह्यर्थोऽनुसज्यते । । ३,१४.२८० । ।
असम्यगुपदेशाद्वा निमित्तात्संशयस्य वा ।
शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययात् । । ३,१४.२८१ । ।
अनेकस्मादस इति प्राधान्ये सति सिध्यति ।
सापेक्षत्वं प्रधानानां एवं युक्तं त्वतल्विधौ । । ३,१४.२८२ । ।
एकस्य च प्रधानत्वात्तद्विशेषणसंनिधौ ।
प्रधानधर्माव्यावृत्तिरतो न वचनान्तरम् । । ३,१४.२८३ । ।
प्रधानं अत्र भेद्यत्वादेकार्थो विकृतो नञा ।
हित्वा स्वधर्मान्वर्तन्ते द्व्यादयोऽप्येकतां गताः । । ३,१४.२८४ । ।
ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।
द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते । । ३,१४.२८५ । ।
एकत्वयोगं आसाद्य स धर्मः प्रतिषिध्यते ।
द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् । । ३,१४.२८६ । ।
आविष्टसंख्यो वाक्येऽसौ यथा द्व्यादौ प्रयुज्यते ।
वृत्तौ तस्य प्रधानत्वात्सा संख्या न निवर्तते । । ३,१४.२८७ । ।
प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते ।
वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते । । ३,१४.२८८ । ।
अशुक्ल इति कृष्णादिर्यथार्थः संप्रतीयते ।
संख्यान्तरं तथानेक इत्यत्राप्यभिधीयते । । ३,१४.२८९ । ।
क्रियाप्रसङ्गात्सर्वेषु कर्मस्वङ्गीकृतेषु च ।
एकस्मिन्प्रतिषिद्धेऽपि प्राप्तं अन्यत्प्रतीयते । । ३,१४.२९० । ।
क्रियाश्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधने ।
पर्युदासे तु नियतं संख्येयान्तरं उच्यते । । ३,१४.२९१ । ।
धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।
अर्थात्सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते । । ३,१४.२९२ । ।
निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।
अनेक इति पश्चाच्च तिष्ठतीत्यनुषज्यते । । ३,१४.२९३ । ।
साध्यत्वात्तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।
प्रागेवाङ्गीकृतं द्रव्यं अतः पूर्वेण भिद्यते । । ३,१४.२९४ । ।
संख्यैव प्रतिषेधेन संख्यान्तरं अपेक्षते ।
वाक्येऽपि तेन नैकत्व- मात्रं एव निवर्त्यते । । ३,१४.२९५ । ।
स्नेहान्तरादवच्छेदस्तथासत्तेः प्रतीयते ।
तैलेन भोजनेऽप्राप्ते न त्वन्यदुपसेचनम् । । ३,१४.२९६ । ।
एकार्थे वर्तमानाभ्यां असता ब्राह्मणेन च ।
यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते । । ३,१४.२९७ । ।
श्यामेव शस्त्री कन्येति यथान्यद्व्यपदिश्यते ।
असन्ब्राह्मण इत्याभ्यां तथान्ये क्षत्रियादयः । । ३,१४.२९८ । ।
असास्नो गौरिति यथा, गवयो व्यपदिश्यते ।
जात्यन्तरं न गोरेव सस्नाभावः प्रतीयते । । ३,१४.२९९ । ।
तुल्यरूपं यथाख्यातं कण्टकैर्भेदहेतुभिः ।
खदिरं जातिभेदेन खर्जूरात्प्रतिपद्यते । । ३,१४.३०० । ।
अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।
अङ्गीकृतोपमानेन तथान्योऽर्थोऽभिधीयते । । ३,१४.३०१ । ।
अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः ।
तद्रूपत्वात्स हेमन्त इत्यभिन्नः प्रतीयते । । ३,१४.३०२ । ।
अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते । । ३,१४.३०३ । ।
न चैवंविषयः कश्चिद्बहुव्रीहिः प्रकल्पते ।
अगुरश्व इति व्याप्तिर्नञ्समासेन यस्य न । । ३,१४.३०४ । ।
द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः ।
अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययोः । । ३,१४.३०५ । ।
विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः ।
यदा विषयभिन्नं तत्तदासत्त्वं प्रतीयते । । ३,१४.३०६ । ।
ब्राह्मणत्वेन चासत्त्वादुच्यते सत्तदन्यथा ।
असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते । । ३,१४.३०७ । ।
समन्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः ।
अयोगो लिङ्गसंख्याभ्यां स्याद्वा सामान्यधर्मता । । ३,१४.३०८ । ।
प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।
निमित्तानुविधानं च न सर्वत्र स्वभावतः । । ३,१४.३०९ । ।
निमित्तानुविधाने च क्रियायोगो न कल्पते ।
तथा चाव्यपदेश्यत्वादुपादानं अनर्थकम् । । ३,१४.३१० । ।
असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः ।
प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसंख्यताम् । । ३,१४.३११ । ।
प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः ।
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते । । ३,१४.३१२ । ।
समासे श्रूयते स्वार्थो येन तद्वांस्तदाश्रयः ।
द्रव्यं तु लिङ्गसंख्यावदसताभ्यन्तरीकृतम् । । ३,१४.३१३ । ।
एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ ।
असतैव तु भेदानां सर्वेषां उपसंग्रहः । । ३,१४.३१४ । ।
ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः ।
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् । । ३,१४.३१५ । ।
विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः ।
अवर्षादिषु दोसश्च हेमन्तोऽन्याश्रयो यतः । । ३,१४.३१६ । ।
आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।
एकत्वादेकशब्दत्वं न्याय्यं तस्याश्च वर्ण्यते । । ३,१४.३१७ । ।
आविष्टलिङ्गता तस्यां स्याद्ग्राम्यपगुसङ्घवत् ।
द्रव्यभेदेऽपि चैकत्वात्तत्रैकवचनं भवेत् । । ३,१४.३१८ । ।
आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते ।
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः । । ३,१४.३१९ । ।
सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।
विरोधित्वात्प्रसज्येत नाश्रितं तच्च लौकिकम् । । ३,१४.३२० । ।
सामान्यं आकृतिर्भावो जातिरित्यत्र लौकिकम् ।
लिङ्गं न संभवत्येव तेनान्यत्परिगृह्यते । । ३,१४.३२१ । ।
प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते ।
आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते । । ३,१४.३२२ । ।
प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश्चैवात्र संभवः । । ३,१४.३२३ । ।
यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते ।
अनुयातीव सोऽन्येषां प्रवृत्तीर्विश्वगाश्रयाः । । ३,१४.३२४ । ।
तेनास्य चितिरूपं च चितिकालश्च भिद्यते ।
तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते । । ३,१४.३२५ । ।
अचेतनेषु चैतन्यं संक्रान्तं इव दृश्यते ।
प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् । । ३,१४.३२६ । ।
अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।
क्व चित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति । । ३,१४.३२७ । ।
कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते । । ३,१४.३२८ । ।
लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन ।
तस्मात्सप्त विकल्पा ये सैवात्राविष्टलिङ्गता । । ३,१४.३२९ । ।
वचने नियमः शास्त्राद्द्रव्यस्याभ्युपगम्यते ।
यतस्तदाकृतौ शास्त्रं अन्यथैव समर्थ्यते । । ३,१४.३३० । ।
वर्तते यो बहुष्वर्थोऽभेदे तस्य विवक्षिते ।
स्वाश्रयैर्व्यपदिष्टस्य शास्त्रे वचनं उच्यते । । ३,१४.३३१ । ।
यदा त्वाश्रयभेदेन भेद एव प्रतीयते ।
आकृतेर्द्रव्यपक्षेन तदा भेदो न विद्यते । । ३,१४.३३२ । ।
अभेदे त्वेकशब्दत्वाच्छास्त्राच्च वचने सति ।
एकशेषो न वक्तव्यो वचनानां च संभवः । । ३,१४.३३३ । ।
ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।
आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते । । ३,१४.३३४ । ।
व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः ।
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते । । ३,१४.३३५ । ।
गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।
उपकारि गुणः शेषः परार्थ इति कल्पना । । ३,१४.३३६ । ।
द्रव्ये न गुणभावोऽस्ति विनाद्रव्याभिधायिताम् ।
आकृतौ वा प्रधानत्वं अत एवं समर्थ्यते । । ३,१४.३३७ । ।
कैश्चिद्गुणप्रधानत्वं नामाख्यातवदिष्यते ।
न वृत्तिवत्परार्थस्य गुणभावस्तु वर्ण्यते । । ३,१४.३३८ । ।
गुणभूतस्य नानात्वादाकृतेरेकशब्दता ।
सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् । । ३,१४.३३९ । ।
साधनं गुणभावेन क्रियाया भेदकं यथा ।
आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते । । ३,१४.३४० । ।
एकत्वे तुल्यरूपत्वाच्छब्दानां प्रतिपादने ।
निमित्तात्तद्वतोऽर्थस्य विशिष्टग्रहणे सति । । ३,१४.३४१ । ।
सोऽयं इत्यभिसंबन्धादाश्रयैराकृतेः सह ।
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः । । ३,१४.३४२ । ।
प्राक्च जात्यभिसंबन्धात्सर्वनामाभिधेयता ।
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः । । ३,१४.३४३ । ।
पाकौ पाका इति यथा भेदकः कैश्चिदाश्रयः ।
इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् । । ३,१४.३४४ । ।
आश्रयस्यानुपादाने केवलं लभते यदि ।
आधारधर्मान्सामान्यं पुरस्तात्तद्विचारितम् । । ३,१४.३४५ । ।
जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।
अशब्दवाच्यात्संबन्धाद्व्यक्तिरप्युपजायते । । ३,१४.३४६ । ।
सोऽयं इत्यभिसंबन्धाज्जातिधर्मोपचर्यते ।
द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते । । ३,१४.३४७ । ।
मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः ।
तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते । । ३,१४.३४८ । ।
तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।
जातिरुत्सृष्टसंख्या तु द्रव्यात्मन्यनुषज्यते । । ३,१४.३४९ । ।
अस्येदं इति वा यत्र सोऽयं इत्यपि वा श्रुतिः ।
वर्तते परधर्मेण तदन्यदभिधीयते । । ३,१४.३५० । ।
यत्प्रधानं न तस्यास्ति स्वरूपं अनिरूपनात् ।
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते । । ३,१४.३५१ । ।
गुणस्य भेदकाले तु प्राधान्यं उपजायते ।
संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते । । ३,१४.३५२ । ।
जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।
जातेरेव पदार्थत्वं न तदाभ्युपगम्यते । । ३,१४.३५३ । ।
प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्यते ।
प्रतिपत्तेरुपायेषु न तत्त्वं अनुगम्यते । । ३,१४.३५४ । ।
अपृथक्शब्दवाच्यस्य जातिराश्रीयते यदा ।
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता । । ३,१४.३५५ । ।
द्रव्यस्य सति संस्पर्शे द्रव्यं आश्रीयते यदा ।
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता । । ३,१४.३५६ । ।
अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते ।
यदा संबन्धवज्जातिः सापि द्रव्यपदार्थता । । ३,१४.३५७ । ।
अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः ।
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता । । ३,१४.३५८ । ।
आश्रिते त्वाश्रयकृतं भेदं अभ्युपगच्छता ।
पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् । । ३,१४.३५९ । ।
अनिर्जातस्य निर्ज्ञानं येन तन्मानं उच्यते ।
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते । । ३,१४.३६० । ।
अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।
साकल्येनापरिज्ञानादुपमानं तदुच्यते । । ३,१४.३६१ । ।
द्वयोः समानयोर्धर्म उपमानोपमेययोः ।
समास उपमानानां शब्दैस्तदभिधायिभिः । । ३,१४.३६२ । ।
आधारभेदाद्भेदो यः श्यामत्वे सोऽविवक्षितः ।
गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते । । ३,१४.३६३ । ।
गुणयोर्नियतो भेदो गुणजातेस्तथैकता ।
एकत्वेऽत्यन्तभेदे वा, नोपमानस्य संभवः । । ३,१४.३६४ । ।
जातिमात्रव्यपेक्षायां उपमार्थो न कश्चन ।
श्यामत्वं एकं गुणयोरुभयोरपि वर्तते । । ३,१४.३६५ । ।
येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते ।
स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते । । ३,१४.३६६ । ।
आश्रयाद्यो गुणे भेदो जातेर्या चाविशिष्टता ।
ताभ्यां उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते । । ३,१४.३६७ । ।
सोऽयं एकत्वनानात्वे व्यवहारः समाश्रितः ।
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते । । ३,१४.३६८ । ।
श्यामेत्येवाभिधियेत जातिमात्रे विवक्षिते ।
शस्त्र्यादिनां उपादाने तत्र नास्ति प्रयोजनम् । । ३,१४.३६९ । ।
अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।
श्यामेषु केषु चिद्वृत्तिर्यस्य सोऽत्र व्यपेक्ष्यते । । ३,१४.३७० । ।
श्यामेषु केषु चित्किं चित्किं चित्सर्वत्र वर्तते ।
सामान्यं कश्चिदेकस्मिञ् छ्यामे भेदो व्यवस्थितः । । ३,१४.३७१ । ।
तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु ।
गन्धानां सति भेदे तु सादृश्यं उपलभ्यते । । ३,१४.३७२ । ।
गुणानां आश्रयाद्भेदः स्वतो वाप्यनुगम्यते ।
अनिर्देश्याद्विशेषाद्वा संकराद्वा गुणान्तरैः । । ३,१४.३७३ । ।
उपमानं प्रसिद्धत्वात्सर्वत्र व्यतिरिच्यते ।
उपमेयत्वं आधिक्ये साम्ये वा न निवर्तते । । ३,१४.३७४ । ।
अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।
अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते । । ३,१४.३७५ । ।
मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते । । ३,१४.३७६ । ।
रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।
भिन्नेन यस्य भेद्यानां उपमानं तदुच्यते । । ३,१४.३७७ । ।
धर्मः समानः श्यामादिरुपमानोपमेययोः ।
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते । । ३,१४.३७८ । ।
शस्त्रीकुमार्योः सदृशः श्याम इत्येवं आश्रिते ।
व्यपदेश्यं अनेनेति निमित्तं गुणयोः स्थितम् । । ३,१४.३७९ । ।
यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् ।
भेदाश्रयं तदाख्यानं उपमानोपमेययोः । । ३,१४.३८० । ।
तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।
लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् । । ३,१४.३८१ । ।
शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते । । ३,१४.३८२ । ।
शस्त्रिं स्वेन गुणेनातो मिमानां आश्रयान्तरम् ।
असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते । । ३,१४.३८३ । ।
उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते ।
श्रुतोऽथ वोपमानस्थ उपमेयेऽनुमियते । । ३,१४.३८४ । ।
अधीयते ब्राह्मणवत्क्षत्रिया इति दृश्यते ।
उपमेयस्य भिन्नत्वाद्वचनं क्षत्रियाश्रयम् । । ३,१४.३८५ । ।
साधारणं ब्रुवन्धर्म क्व चिदेव व्यवस्थितम् ।
सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते । । ३,१४.३८६ । ।
नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते ।
भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते । । ३,१४.३८७ । ।
नात्यन्ताय मिमीते यत्सामान्ये समवस्थितम् ।
सादृश्यादुपमेयार्थ- समीपे परिकल्प्यते । । ३,१४.३८८ । ।
मानं प्रति समीपं वा सादृश्येन प्रतीयते ।
परिच्छेदाद्धि सादृश्यं इह मानोपमानयोः । । ३,१४.३८९ । ।
एकजातिव्यपेक्षायां तदेवेत्यवसीयते ।
भेदस्यैव व्यपेक्षायां अन्यदेवेति गम्यते । । ३,१४.३९० । ।
कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।
अत्यन्तैकत्वविषयो न स्यात्तेनात्र सम्शयः । । ३,१४.३९१ । ।
भेदेऽपि तुल्यरूपत्वाच्छालीमं तानिति दृश्यते ।
जात्यभेदात्स एवायं इति भिन्नोऽभिधीयते । । ३,१४.३९२ । ।
कथं ह्यवयवोऽन्यस्य स्यादन्य इति चोच्यते ।
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते । । ३,१४.३९३ । ।
अभेदस्य विवक्षायां एकत्वं सङ्घसङ्घिनोः ।
सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वं उदाहृतम् । । ३,१४.३९४ । ।
तत्राभिन्नव्यपेक्षायां उपमार्थो न विद्यते ।
यो हि गौरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे । । ३,१४.३९५ । ।
व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।
न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति । । ३,१४.३९६ । ।
किं चिद्यत्रास्ति सामान्यं यदि भेदाश्च के चन ।
गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः । । ३,१४.३९७ । ।
सामान्यं श्यामतान्यैव तद्धि साधारणं द्वयोः ।
तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्यते । । ३,१४.३९८ । ।
श्यामत्वं एव सामान्यं अन्येषां उभयोः स्थितम् ।
संपूर्नत्वात्तदन्यस्माद्विशेष इति गम्यते । । ३,१४.३९९ । ।
आकृतौ वापि सामान्ये क्व चिदेव व्यवस्थिताः ।
श्यामादौ येऽवसीयन्ते विशेषास्त इहाश्रिताः । । ३,१४.४०० । ।
जातेरभेदे भेदे वा सादृश्यं तत्प्रचक्षते ।
कश्चित्कदा चितर्थात्मा तथाभूतोऽपदिश्यते । । ३,१४.४०१ । ।
यत्रार्थे प्रत्ययाभेदो न कदा चिद्विकल्पते ।
अविद्यमानभेदत्वात्स एक इति गम्यते । । ३,१४.४०२ । ।
योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते ।
व्यापारं जातिभागस्य तत्रापि प्रतिजानते । । ३,१४.४०३ । ।
जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।
व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते । । ३,१४.४०४ । ।
अन्यत्र वर्तमानं सद्भेदाभेदसमन्वितम् ।
निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते । । ३,१४.४०५ । ।
आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।
स सादृश्यस्य विषय इत्यन्यैरपदिश्यते । । ३,१४.४०६ । ।
परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।
तथान्याधिगमापेक्षं उपमानं प्रचक्षते । । ३,१४.४०७ । ।
गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा ।
व्यवहारास्तथौपम्यं अप्यपेक्षानिबन्धनम् । । ३,१४.४०८ । ।
श्यामत्वं उपमाने चेद्वृत्तं वृत्तौ प्रयुज्यते ।
उपमेयं समासेन बाह्यं तत्राभिधीयते । । ३,१४.४०९ । ।
टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् ।
सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् । । ३,१४.४१० । ।
अथ त्वेकविभक्तित्वाद्गुणत्वाद्वोपसर्जनम् ।
नैवं तित्तिरिकल्माष्यां इष्टः स्त्रीप्रत्ययो भवेत् । । ३,१४.४११ । ।
सतिशिष्टबलीयस्त्वाद्बाह्ये ङिषि च सत्यपि ।
उपमानस्वरो न स्यात्तस्मात्स्त्र्यन्तः समस्यते । । ३,१४.४१२ । ।
गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।
प्रधानस्य तथा न स्याद्व्याघ्रादौ लिङ्गदर्शनम् । । ३,१४.४१३ । ।
तस्मात्सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे ।
नैवंजातीयकं शास्त्रे संभवत्युपसर्जनम् । । ३,१४.४१४ । ।
उपमेयात्मनि श्यामो वर्तमानोऽभिधीयते ।
उपमानेष्वनिर्दिष्टः सामर्थ्यात्स प्रतीयते । । ३,१४.४१५ । ।
द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते ।
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः । । ३,१४.४१६ । ।
भेदभावनयैतच्च समासेऽप्युपवर्ण्यते ।
विशिष्टगुणभिन्नेऽर्थे पदं अन्यत्प्रयुज्यते । । ३,१४.४१७ । ।
यदि भिन्नाधिकरणो वचनादनुगम्यते ।
मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति । । ३,१४.४१८ । ।
अस्त्रीपूर्वपदत्वात्तु पुंवद्भावो भविष्यति ।
यथैव मृगदुग्धादौ न चेत्स्त्र्यर्थो विवक्ष्यते । । ३,१४.४१९ । ।
शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते ।
तस्यां एवोभयं तस्मादुच्यते शास्त्रविग्रहे । । ३,१४.४२० । ।
पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।
बह्वपेक्ष्यं अतस्तस्यां उभयप्रतिपादनम् । । ३,१४.४२१ । ।
श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।
तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते । । ३,१४.४२२ । ।
अथ श्यामेव शस्त्रीयं श्यामेत्येवं प्रयुज्यते ।
शस्त्री यथेयं श्यामेति तावदेव प्रतीयते । । ३,१४.४२३ । ।
उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।
पृथग्द्वयोः श्रुतोऽप्येष नेष्टस्वार्थस्य वाचकः । । ३,१४.४२४ । ।
उपमेयं तु यद्वाच्यं तस्य चेत्प्रतिपादने ।
सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृच्छ्रुतौ । । ३,१४.४२५ । ।
प्रकाराधारभेदेन विशेषे समवस्थितः ।
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् । । ३,१४.४२६ । ।
सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित्प्रतीयते ।
गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः । । ३,१४.४२७ । ।
व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः ।
रूपात्सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् । । ३,१४.४२८ । ।
व्याघ्रशब्दो यदा शौर्यात्पुरुषार्थेऽवतिष्ठते ।
तदाधिकरणाभेदात्समासस्यास्ति संभवः । । ३,१४.४२९ । ।
शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।
भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति संभवः । । ३,१४.४३० । ।
सामानाधिकरण्येऽपि गुणभेदस्य संभवात् ।
प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते । । ३,१४.४३१ । ।
पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये ।
तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः । । ३,१४.४३२ । ।
असंभवेऽपि वा वृत्तेः स्यादेतल्लिङ्गदर्शनम् ।
अच्वेरिति यथा लिङ्गं अभावेऽपि भृशादिषु । । ३,१४.४३३ । ।
वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते ।
तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते । । ३,१४.४३४ । ।
क्रियेत्युपाधिः प्राथम्यात्प्रकृत्यर्थस्य यद्यपि ।
न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते । । ३,१४.४३५ । ।
सत्त्ववृत्तस्य शेषे वा तृतीया साधनेऽपि वा ।
तिङां असत्त्ववाचित्वादुभयं तन्न विद्यते । । ३,१४.४३६ । ।
पाकादयस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।
न क्रियेत्यपदिश्यन्ते कृत्वोऽर्थप्रत्यये यथा । । ३,१४.४३७ । ।
ये चाव्ययकृतः के चित्क्रियाधर्मसमन्विताः ।
तेषां असत्त्ववाचित्वं तिङन्तैर्न विशिष्यते । । ३,१४.४३८ । ।
कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।
उपमानोपमेयत्वं तत्रात्यन्तं असंभवि । । ३,१४.४३९ । ।
न केवलौ द्रव्यगुणौ तद्वान्वाप्युपमीयते ।
शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन । । ३,१४.४४० । ।
उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः । । ३,१४.४४१ । ।
होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते ।
विरोधात्क्रियया तस्मात्क्रियावान्नोपमीयते । । ३,१४.४४२ । ।
क्रिया समानजातिया तद्भावान्नोपमीयते ।
जातिभेदेऽपि पाकेन भिन्नाः पाकादयः क्रियाः । । ३,१४.४४३ । ।
आधारभेदाद्भिन्नायां उपमानस्य संभवः ।
अध्येतव्येन विप्राणां तुल्यं अध्ययनं विशाम् । । ३,१४.४४४ । ।
अर्थात्प्रकरणाद्वापि यत्रापेक्ष्यं प्रतीयते ।
सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते । । ३,१४.४४५ । ।
तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।
क्रियावदपि कार्याणां दर्शनात्प्रत्ययो भवेत् । । ३,१४.४४६ । ।
अतिङ्ग्रहणं एवं तु समासस्य निवर्तकम् ।
गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् । । ३,१४.४४७ । ।
सर्वस्य परिहारार्थं समुदायत्वं आश्रितम् ।
शुद्धायाः संभवान्न स्यात्क्रियाया ब्राह्मणादिषु । । ३,१४.४४८ । ।
उपमानविवक्षायां स्वधर्मश्च निवर्तते ।
क्रियाया न श्रुताद्यस्मादुपमानं समाप्यते । । ३,१४.४४९ । ।
तृतीयोऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः ।
व्यापारवान्न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते । । ३,१४.४५० । ।
द्रव्ये वापि क्रियायां वा निमित्तात्तत्प्रकल्पते ।
क्रियाणां विद्यमानत्वाद्वृत्तिर्न स्याद्गवादिषु । । ३,१४.४५१ । ।
अभावात्केवलायास्तु तद्वानर्थः प्रतीयते ।
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः । । ३,१४.४५२ । ।
क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः । । ३,१४.४५३ । ।
यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।
द्रव्यवद्गुणशब्देऽपि स निमित्तं अपेक्षते । । ३,१४.४५४ । ।
यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।
यथा तथोपमानेषु व्यपेक्ष न निवर्तते । । ३,१४.४५५ । ।
क्रियावृत्तेस्तृतीयान्तस्य्- ऐवं चासंभवे सति ।
प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः । । ३,१४.४५६ । ।
अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् ।
न्यायेनायुक्तं इत्यत्र जीवतौ प्राणकर्मवत् । । ३,१४.४५७ । ।
शास्त्राभ्यासाच्च भेदोऽयं अयुक्तं इति वर्ण्यते ।
अशोभनं असंबद्धं इति रूढिर्व्यवस्थिता । । ३,१४.४५८ । ।
विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् ।
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् । । ३,१४.४५९ । ।
विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे ।
विभक्त्यन्तरसंबन्धः सामर्थ्यादनुमीयते । । ३,१४.४६० । ।
सारूप्यात्तु तदेवेदं इति तत्रोपचर्यते ।
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् । । ३,१४.४६१ । ।
प्रकृतिश्चेत्तृतीयान्ता तेनेत्यस्मात्प्रतीयते ।
क्रियेति प्रथमान्ता सा कथं भवितुं अर्हति । । ३,१४.४६२ । ।
क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।
तेनेत्यस्य हि संबन्धः सूत्रस्थेन न विद्यते । । ३,१४.४६३ । ।
सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते ।
तेन यत्तत्तृतीयान्तं क्रिया चेत्सेति गम्यते । । ३,१४.४६४ । ।
उपाधेः कस्य चिद्वाक्ये प्रयोग उपलभ्यते ।
प्रतीयमानधर्मान्यो न कदा चित्प्रयुज्यते । । ३,१४.४६५ । ।
नीलं उत्पलं इत्यत्र न विशेष्ये न भेदके ।
कश्चित्तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते । । ३,१४.४६६ । ।
अत्यन्तानुगमात्तत्र न सूत्रे न च विग्रहे ।
विभक्तिपरिणामेन किं चिदस्ति प्रयोजनम् । । ३,१४.४६७ । ।
तृतीयान्तं क्रियेत्येतद्विग्रहे न प्रयुज्यते ।
यथा दण्डः प्रहरणं क्रीडायां इति दृश्यते । । ३,१४.४६८ । ।
घविधौ यच्च संज्ञायां इति सूत्र उदाहृतम् ।
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते । । ३,१४.४६९ । ।
यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।
ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः । । ३,१४.४७० । ।
समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।
शब्दास्तत्त्वविवक्षायां समुच्चयविकल्पयोः । । ३,१४.४७१ । ।
समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु ।
भेदाधिष्ठानया योगस्तेसां भवति संख्यया । । ३,१४.४७२ । ।
सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः ।
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः । । ३,१४.४७३ । ।
संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिनः ।
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता । । ३,१४.४७४ । ।
केवलानां तु भावानां न रूपं अवधार्यते ।
अनिरूपितरूपेषु तेषु शब्दो न वर्तते । । ३,१४.४७५ । ।
पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते ।
वर्ततेऽवयवे नापि नोपात्तं त्यजते क्व चित् । । ३,१४.४७६ । ।
समुदायाभिधायि च यदि भेदं विशेषयेत् ।
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद्भवेत् । । ३,१४.४७७ । ।
समूहे च प्रदेशे च पञ्चाला इति दृश्यते ।
तथा विशेषणं सर्व इत्येतदुपपद्यते । । ३,१४.४७८ । ।
तथार्धपिप्पलीत्यत्र जात्यन्तरनिवृत्तये ।
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते । । ३,१४.४७९ । ।
पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् ।
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते । । ३,१४.४८० । ।
प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः ।
प्रदेशे दर्शनं तेषां अर्थप्रकरणादिभिः । । ३,१४.४८१ । ।
यदुपव्यञ्जनं जातेः सहचारि च कर्मसु ।
तत्र वा रूढसंबन्धं यत्प्रायेणोपलक्षितम् । । ३,१४.४८२ । ।
समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते ।
अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः । । ३,१४.४८३ । ।
यश्च तुल्यश्रुतिर्दृष्टः समुदाये व्यवस्थितः ।
तेनोपचरितैकत्वं प्रदेशेऽप्युपलभ्यते । । ३,१४.४८४ । ।
संस्कारादुपघाताद्वा वृत्तोऽक्तपरिमाणके ।
तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते । । ३,१४.४८५ । ।
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः । । ३,१४.४८६ । ।
कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः ।
गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः । । ३,१४.४८७ । ।
पटावयववृत्तास्तु यदा तत्र पटादयः ।
तदा तैलादिवत्तेषां जातिशब्दत्वं उच्यते । । ३,१४.४८८ । ।
निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः ।
प्रदेशे समुदाये वा गुणोऽन्येषां निवर्तकः । । ३,१४.४८९ । ।
ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः । । ३,१४.४९० । ।
ब्राह्मणाध्ययने वृत्तिर्यदि स्याद्ब्राह्मणश्रुतेः ।
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति । । ३,१४.४९१ । ।
अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः ।
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता । । ३,१४.४९२ । ।
सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना ।
चैत्रात्षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर्यथा । । ३,१४.४९३ । ।
ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु ।
संप्रदानादियोगश्च क्रियामात्रे न कल्पते । । ३,१४.४९४ । ।
क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च ।
पाठः कदा चित्कर्तव्यस्तुल्यौ पक्षावुभौ यतः । । ३,१४.४९५ । ।
जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः ।
क्रियायास्तु श्रुतिर्यस्मात्तद्वत्यर्थेऽवतिष्ठते । । ३,१४.४९६ । ।
अक्रियाणां निवृत्त्यर्था, यतश्चात्र क्रियाश्रुतिः ।
क्रियोपलक्षिते तस्मात्क्रियाशब्दः प्रतीयते । । ३,१४.४९७ । ।
होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् ।
अपेक्षणीया शुद्धेऽर्थे तस्माद्वृत्तिर्न कस्य चित् । । ३,१४.४९८ । ।
सर्वं वाप्येकदेशो वा यस्मिन्नाश्रियते क्व चित् ।
विशेषवृत्तिं तं सर्वं आहुर्भेदे व्यवस्थितम् । । ३,१४.४९९ । ।
समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् । । ३,१४.५०० । ।
न हि ब्राह्मण इत्यत्र भेदः कश्चिदपाश्रितः ।
अपाकृतो वा तेनायं समुदाये व्यवस्थितः । । ३,१४.५०१ । ।
क्रिया त्वाश्रीयते यस्मिन्स भेदोऽध्यवसीयते ।
तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते । । ३,१४.५०२ । ।
उपमाने क्रियावृत्तिं उपमेये क्रियाश्रुतिः ।
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् । । ३,१४.५०३ । ।
व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।
क्रियावद्वचनाच्छब्दात्प्रत्ययः प्रतिपाद्यते । । ३,१४.५०४ । ।
क्रियावतोऽपि सादृश्ये वक्तुं इष्टे क्रियावता ।
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते । । ३,१४.५०५ । ।
अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् ।
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् । । ३,१४.५०६ । ।
प्रकृत्यर्थे विशिष्टेऽपि प्रत्ययार्थाविशेषणात् ।
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते । । ३,१४.५०७ । ।
याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः ।
ताभिः क्रियावतः पुत्राद्गुणतुल्ये वतिर्भवेत् । । ३,१४.५०८ । ।
अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि ।
क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् । । ३,१४.५०९ । ।
क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।
प्रधानानुग्रहात्साम्याद्विभक्तेश्चावतिष्ठते । । ३,१४.५१० । ।
प्रकृतेरविशिष्टत्वात्क्रियातुल्ये प्रसज्यते ।
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये । । ३,१४.५११ । ।
स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।
अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यते वतिः । । ३,१४.५१२ । ।
द्वयं विशेष्यते तेन यदेकत्र विशेषणम् ।
तुल्यशब्दो हि तं धर्मं उभयस्थं अपेक्षते । । ३,१४.५१३ । ।
एकः समानो धर्मश्चेदुपमानोपमेययोः ।
तुलया संमितं तुल्यं इति तत्रोपपद्यते । । ३,१४.५१४ । ।
सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते ।
न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया । । ३,१४.५१५ । ।
अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः ।
ये धर्मा नियतास्तेषां पुत्रादिषु न विद्यते । । ३,१४.५१६ । ।
अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता ।
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते । । ३,१४.५१७ । ।
द्वयोः प्रतिविधानाच्च ज्यायस्त्वं अभिधीयते ।
नित्यासत्त्वाभिधायित्वात्प्रत्ययार्थविशेषणे । । ३,१४.५१८ । ।
असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः । । ३,१४.५१९ । ।
क्रियावतस्तु ग्रहणात्प्रकृत्यर्थविशेषणे ।
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता । । ३,१४.५२० । ।
यदा क्रियानिमित्तं तु सादृश्यं स्यात्क्रियावतोः ।
क्रियावतोऽभिधेयत्वात्तदा द्रव्याभिधायिता । । ३,१४.५२१ । ।
अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् ।
ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् । । ३,१४.५२२ । ।
सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।
तुल्यं इत्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् । । ३,१४.५२३ । ।
क्रियावतोश्च सादृश्ये प्रत्ययार्थविशेषणे ।
अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः । । ३,१४.५२४ । ।
तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते ।
अर्थो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः । । ३,१४.५२५ । ।
भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना ।
पश्यति ब्राह्मणं इव तुल्यं विप्रेण पश्यति । । ३,१४.५२६ । ।
ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् । । ३,१४.५२७ । ।
ब्राह्मणादिव वैश्यात्त्वं अधीष्वाध्ययनं बहु ।
इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन । । ३,१४.५२८ । ।
तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।
मधुरायाश्च मातुश्च कथं सादृश्यकल्पना । । ३,१४.५२९ । ।
मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।
मधुरामातृशब्दाभ्यां अभेदेनाभिधीयते । । ३,१४.५३० । ।
उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा ।
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः । । ३,१४.५३१ । ।
यथाध्ययनयोः साम्यं अध्येत्रोरपदिश्यते ।
तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः । । ३,१४.५३२ । ।
इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः ।
क्रियाशब्दश्रुतौ भेदो न कश्चिद्विद्यते तयोः । । ३,१४.५३३ । ।
यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते ।
रूपाभेदात्त्वनिर्ज्ञाता क्रियात्र श्रूयते पुनः । । ३,१४.५३४ । ।
यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।
सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः । । ३,१४.५३५ । ।
एवं च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः ।
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः । । ३,१४.५३६ । ।
इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते ।
क्रियाणां एव सदृश्वे पूर्वसूत्रे विधीयते । । ३,१४.५३७ । ।
मधुरायां इव गृहा ब्राह्मणस्येव पाण्डुराः ।
इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् । । ३,१४.५३८ । ।
आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।
ऋते क्रियाया ग्रहणात्पूर्वयोगेन सिध्यति । । ३,१४.५३९ । ।
मधुरावयवे वृत्तिर्व्वाख्याता मधुराश्रुतेः ।
ब्राह्मणावयवान्दन्तान्वक्ष्यति ब्राह्मणश्रुतिः । । ३,१४.५४० । ।
न का चिदिवयोगे तु बाह्यात्संबन्धिनो ।
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् । । ३,१४.५४१ । ।
आधिक्यं तुल्यशब्देन संबन्ध उपजायते ।
षष्ठीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः । । ३,१४.५४२ । ।
इवशब्दप्रयोगे तु बाह्यात्संबन्धिनो विना ।
नाधिक्यं उपमानेऽस्ति द्योतकः स प्रयुज्यते । । ३,१४.५४३ । ।
इवे यो व्यतिरेकोऽत्र स प्रासादादिहेतुकः ।
तुल्ये तद्विषयापेक्षं आधिक्यं उपजायते । । ३,१४.५४४ । ।
गवयेन समोऽनद्वानिति वृत्तिस्तथा भवेत् ।
न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः । । ३,१४.५४५ । ।
उपमेयेन संबन्धात्प्राक्प्रासादादिहेतुके ।
व्यतिरेके वतेर्भावो न तुल्यार्थत्वहेतुके । । ३,१४.५४६ । ।
इवशब्देन संबन्धे न तृतीया विधीयते ।
प्रकृतां तां अतस्त्यक्त्वा विभक्त्यन्तरं आश्रितम् । । ३,१४.५४७ । ।
सप्तम्यपि न तत्रास्ति ज्ञापकार्था तु सा कृता ।
इष्टा सा शेषविषये नियतासु विभक्तिषु । । ३,१४.५४८ । ।
यदि तु व्यतिरेकेण विषयेऽस्मिन्विभक्तयः ।
प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदर्शयेत् । । ३,१४.५४९ । ।
व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद्विना ।
सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः । । ३,१४.५५० । ।
अत्यन्तं अत्र विषये सप्तम्या ज्ञापकार्थया ।
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः । । ३,१४.५५१ । ।
पूर्वाभ्यां एव योगाभ्यां विग्रहान्तरकल्पनात् ।
अर्हार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते । । ३,१४.५५२ । ।
तेन तुल्यं इति प्राप्ते क्रियोपाधिः प्रसिध्यति ।
राजवद्वर्तते राजेत्यत्र भेदे विवक्षिते । । ३,१४.५५३ । ।
राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।
युधिष्ठिरान्तास्तेऽन्येषां उपमानं महीक्षिताम् । । ३,१४.५५४ । ।
सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।
सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते । । ३,१४.५५५ । ।
राजवद्रूपं अस्येति राजन्येव विवक्षिते ।
अक्रियार्थेन योगेन द्वितीयेन भविष्यति । । ३,१४.५५६ । ।
उपमानाविवक्षायां नियमार्थोऽयं उच्यते ।
धर्मोऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः । । ३,१४.५५७ । ।
कृतहस्तवदित्येतत्प्रसिद्धेष्वेव दृश्यते ।
राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि । । ३,१४.५५८ । ।
अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तं असंभवः ।
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः । । ३,१४.५५९ । ।
अर्हतेश्च क्रिया कर्त्री या तस्यां वतिरिष्यते ।
राजानं अर्हति च्छत्त्रं इति न त्वेवमादिषु । । ३,१४.५६० । ।
प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् । । ३,१४.५६१ । ।
तदर्हं इति नारब्धं सूत्रं व्याकरणान्तरे ।
संभवत्युपमात्रापि भेदस्य परिकल्पनात् । । ३,१४.५६२ । ।
एकस्य कार्यनिर्ज्ञानात्सिद्धस्य विषयान्तरे ।
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते । । ३,१४.५६३ । ।
सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते ।
प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः । । ३,१४.५६४ । ।
दस्युहेन्द्र इवेत्येतदैन्द्रमन्त्रे प्रयुज्यते ।
अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन्विवक्षिते । । ३,१४.५६५ । ।
पूर्वां अवस्थां आश्रित्य यावस्था व्यपदिश्यते ।
सदृशस्त्वं तवैवेति तत्रैवं अभिधीयते । । ३,१४.५६६ । ।
प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते ।
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते । । ३,१४.५६७ । ।
योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः ।
तेनास्मिन्विषये भिन्नं अभिन्नं वा न विद्यते । । ३,१४.५६८ । ।
अङ्गदी कुण्डली चेति दर्शयन्भेदहेतुभिः ।
चैत्रं ईदृशं इत्याह बुद्ध्यवस्थापरिग्रहात् । । ३,१४.५६९ । ।
एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते ।
तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते । । ३,१४.५७० । ।
बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।
जन्यन्त इव शब्दानां अर्थाः सर्वे विवक्षया । । ३,१४.५७१ । ।
तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः ।
न तत्र कश्चित्सादृश्यं सदपि प्रतिपद्यते । । ३,१४.५७२ । ।
अत्यन्तं विषये भिन्ने यावत्प्रख्या न भिद्यते ।
न तावत्प्रत्यभिज्ञानं कस्य चिद्विनिवर्तते । । ३,१४.५७३ । ।
अयं एव तु सूत्रेण भेदो भेदेन दर्शितः ।
प्रसिद्धं अपि दुर्ज्ञानं अबुधः प्रतिपद्यते । । ३,१४.५७४ । ।
वैयाकरणवद्ब्रूते न वैयाकरणः सदा ।
वैयाकरणवद्ब्रूष्वेत्यतः सोऽप्यभिधीयते । । ३,१४.५७५ । ।
के चित्पुमांसो भाषन्ते स्त्रीवत्पुंवच्च योषितः ।
व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते । । ३,१४.५७६ । ।
सदृशस्त्वं तवैवेति लोके यदभिधीयते ।
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते । । ३,१४.५७७ । ।
युक्तं औपयिकं राज्ञ इत्यर्थस्य निदर्शने ।
उपमानाविवक्षायां तदर्हं इति पठ्यते । । ३,१४.५७८ । ।
प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते ।
उपमानाभिसंबन्धादस्मिन्वतिरुदाहृतः । । ३,१४.५७९ । ।
प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् ।
उपसर्गाद्वतौ सिद्धा धातौ धात्वर्थकल्पना । । ३,१४.५८० । ।
स्वं रूपं इति चैतस्मिन्नर्थस्यापि परिग्रहः ।
रूपवज्ज्ञापितस्तस्मादासन्नोऽर्थो ग्रहीष्यते । । ३,१४.५८१ । ।
धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।
धातुना कृतं इत्येवं अस्मिन्सूत्रे प्रतीयते । । ३,१४.५८२ । ।
यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते ।
विषयेऽदर्शनात्तत्र लोपस्तस्याभिधीयते । । ३,१४.५८३ । ।
क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते । । ३,१४.५८४ । ।
प्रत्ययेन विना प्रादिस्तत्रार्थे न प्रयुज्यते ।
भेदेन तु समाख्याने विभागः परिकल्पितः । । ३,१४.५८५ । ।
अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।
विभक्तिभिर्नियोगः स्याद्यथैव तसिलादिषु । । ३,१४.५८६ । ।
पाठाद्यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते ।
तेषां उद्वत इत्यत्र वक्तव्या सविभक्तिता । । ३,१४.५८७ । ।
वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् ।
नञ्स्नञावपवादस्य बाधकं तन्निपातनम् । । ३,१४.५८८ । ।
एतं उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति ।
तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते । । ३,१४.५८९ । ।
नञ्स्नञौ विहितौ येन स योगो नावगाहते ।
वतिप्रकरणं तद्धि लिङ्गं एवं समर्थ्यते । । ३,१४.५९० । ।
अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।
ऊहस्तथोपमानानां अङ्गवन्नोपलभ्यते । । ३,१४.५९१ । ।
गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।
पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः । । ३,१४.५९२ । ।
उपमानस्य भेदाच्च बहुषु स्यादञो विधिः ।
काश्यपा इति लोपः स्यात्तथा प्रतिकृतिष्वपि । । ३,१४.५९३ । ।
एवं तु युक्तवद्भावादत्रैकवचनं भवेत् ।
लुं मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये । । ३,१४.५९४ । ।
उपमेयेषु भिन्नेषु किं चिदेकं प्रवर्तते ।
प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यते । । ३,१४.५९५ । ।
यदा प्रत्युपमेयं तु तदेकैकं अवस्थितम् ।
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते । । ३,१४.५९६ । ।
यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् । । ३,१४.५९७ । ।
प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।
अर्थभेदो लुबन्तेषु नैवं कश्चन दृश्यते । । ३,१४.५९८ । ।
येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते ।
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते । । ३,१४.५९९ । ।
यथा गुडतिलादीनां प्रयोगादेकसंख्यता ।
पाकादेरप्रयोगे तु भिन्ना संख्याभिधीयते । । ३,१४.६०० । ।
यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।
संबन्धिनां अतो भेद उपमेये न गम्यते । । ३,१४.६०१ । ।
तस्मात्सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये ।
उपमेयगतो भेद उपमानेषु दृश्यते । । ३,१४.६०२ । ।
उपमानं समस्तानां अभिन्नं श्रूयते क्व चित् ।
भिन्नानां उपमेयनां एकैकं वोपमीयते । । ३,१४.६०३ । ।
यथा गरुड इत्येतद्व्यूहापेक्षं प्रयुज्यते ।
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् । । ३,१४.६०४ । ।
एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।
काश्यपस्येति तेनायं प्रत्येकं अवतिष्ठते । । ३,१४.६०५ । ।
मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते ।
सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते । । ३,१४.६०६ । ।
छापेक्षा तद्विषयता विधेयत्वान्न गम्यते ।
काकतालीयं इत्यत्र प्रसिद्धं ह्युपलक्षणम् । । ३,१४.६०७ । ।
राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् ।
तेन च्छस्य विधानात्प्राग्व्यपदेशो न विद्यते । । ३,१४.६०८ । ।
द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते ।
एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते । । ३,१४.६०९ । ।
चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।
दस्योरभिनिपातस्तु तालस्य पतनं यथा । । ३,१४.६१० । ।
संनिपाते तयोर्यान्या क्रिया तत्रोपजायते ।
वधादिरुपमेयेऽर्थे तया छविधिरिष्यते । । ३,१४.६११ । ।
क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते ।
पातागमनयोः काक- तालशब्दौ तथा स्थितौ । । ३,१४.६१२ । ।
यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते ।
प्रयोगवाक्वं यल्लोके तदेवं न प्रयुज्यते । । ३,१४.६१३ । ।
ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् ।
तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते । । ३,१४.६१४ । ।
काकस्य तालेन यथा वधो यस्य तु दस्युना ।
तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते । । ३,१४.६१५ । ।
चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे ।
मणिमड्डूकखद्योतान्सादृश्वेन प्रचक्षते । । ३,१४.६१६ । ।
तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।
श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभो मणिः । । ३,१४.६१७ । ।
प्रविकासिप्रभोऽल्पोऽपि महान्य उपलभ्यते ।
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते । । ३,१४.६१८ । ।
सादृश्यं एव सर्वत्र प्रकारः कैश्चिदिष्यते ।
भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते । । ३,१४.६१९ । ।
प्रकारवचनः कश्चित्प्रकारवति संस्थितः ।
प्रकारमात्रे वर्तित्वा कश्चित्तद्वति वर्तते । । ३,१४.६२० । ।
सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।
तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः । । ३,१४.६२१ । ।
विप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः ।
स चायं अव्ययीभावे भेदो भेदेन दर्शितः । । ३,१४.६२२ । ।
सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते ।
यत्तु मूर्तिगतं साम्यं तत्सहेनाभिधीयते । । ३,१४.६२३ । ।
इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते । । ३,१४.६२४ । ।
गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।
शुक्लादौ सति निष्पन्ने वाहीको न द्विरुच्यते । । ३,१४.६२५ । ।

इति भर्तृहरिकृतं वाक्यपदीयं समाप्तं