वराहपुराणम्/अध्यायः ४६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४५ वराहपुराणम्
अध्यायः ४६
[[लेखकः :|]]
अध्यायः ४७ →

दुर्वासा उवाच ।
आषाढेऽप्येवमेवं तु संकल्प्य विधिना नरः ।
अर्चयेत् परमं देवं गन्धपुष्पैरनेकशः ।। ४६.१ ।।
वासुदेवाय पादौ तु कटिं संकर्षणाय च ।
प्रद्युम्नायेति जठरं अनिरुद्धाय वै उरः ।। ४६.२ ।।
चक्रपाणयेति भुजौ कण्ठं भूपतये तथा ।
स्वनाम्ना शङ्खचक्रौ तु पुरुषायेति वै शिरः ।। ४६.३ ।।
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।
विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ।
काञ्चनं वासुदेवं तु चतुर्व्यूहं सनातनम् ।। ४६.४ ।।
तमभ्यर्च्य विधानेन गन्धपुष्पादिभिः क्रमात् ।
प्राग्वत् तं ब्राह्मणे दद्याद् वेदवादिनि सुव्रते ।
एवं नियमयुक्तस्य यत्पुण्यं तच्छृणुष्व मे ।। ४६.५ ।।
वसुदेवोऽभवद् राजा यदुवंशविवर्द्धनः ।
देवकी तस्य भार्या तु समानव्रतधारिणी ।। ४६.६ ।।
सा त्वपुत्राऽभवत् साध्वी पतिधर्मपरायणा ।
तस्य कालेन महता नारदोऽभ्यगमद् गृहम् ।। ४६.७ ।।
वसुदेवेनासौ भक्त्या पूजितो वाक्यमब्रवीत् ।
वसुदेव श्रुणुष्व त्वं देवकार्यं ममानघ ।
श्रुत्वैतां च कथां शीघ्रमागतोऽस्मि तवान्तिकम् ।। ४६.८ ।।
पृथिवी देवसमितौ मया दृष्टा यदूत्तम ।
गत्वा च जल्पती भारं न शक्ता ऊहितुं सुराः ।। ४६.९ ।।
सौभकंसजरासन्धाः पुनर्नरक एव च ।
कुरुपाञ्चालभोजाश्च बलिनो दानवाः सुराः ।
पीडयन्ति समेता मां तान् हनध्वं सुरोत्तमाः ।। ४६.१० ।।
एवमुक्ताः पृथिव्या ते देवा नारायणं गताः ।
मनसा स च देवेशः प्रत्यक्षस्तत् क्षणात् बभौ ।। ४६.११ ।।
उवाच च सुरश्रेष्ठः स्वयं कार्यमिदं सुराः ।
साधयामि न सन्देहो मर्त्यं गत्वा मनुष्यवत् ।। ४६.१२ ।।
किंत्वाषाढे शुक्लपक्षे या नारी सह भर्त्तृणा ।
उपोष्यति मनुष्येषु तस्या गर्भे भवाम्यहम् ।। ४६.१३ ।।
एवमुक्त्वा गतो देवः स्वयं चाहमिहागतः ।
उपदिष्टं तु भवतो अपुत्रस्य विशेषतः ।
उपोष्य लभते पुत्रं सहभार्यो न संशयः ।। ४६.१४ ।।
एतां च द्वादशीं कृत्वा वसुदेवस्तथाप्तवान् ।
महतीं च श्रियं प्राप्तः पुत्रपौत्रसमन्वितः ।। ४६.१५ ।।
भुक्त्वा राज्यश्रियं सोऽथ गतः परमिकां गतिम् ।
एष ते विधिरुद्दिष्ट आषाढे मासि वै मुने ।। ४६.१६ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे षट्चत्वारिंशोऽध्यायः ।। ४६ ।।