राष्ट्रपालपरिपृच्छा

विकिस्रोतः तः
राष्ट्रपालपरिपृच्छा
[[लेखकः :|]]


राष्ट्रपालपरिपृच्छा

नमः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यः ॥

निदानपरिवर्तः प्रथमः ।

एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महताभिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः पञ्चभिश्च बोधिसत्त्वसहस्रैः, सर्वैरसङ्गप्रतिभानैः क्षान्तिप्रतिलब्धैर्निहतमारप्रत्यर्थिकैः सर्वबुद्धधर्मात्यासन्नीभूतैरेकहातिप्रतिबद्धैर्धरणीप्रतिलब्धैः समाधिप्रतिलब्धैरनन्तप्रतिभानप्रतिलब्धैरसङ्गवैशारद्यप्रतिरृद्धिवशितापरमपारमिप्राप्तैर्यावत्सर्वगुणवर्णपर्यादत्तैः । तद्यथा - समन्तभद्रेण च नाम बोधिसत्त्वेन महासत्त्वेन, समन्तनेत्रेण च बोधिसत्त्वेन महासत्त्वेन, समन्तावलोकितेन च समन्तरश्मिना च समन्तप्रभेण च उत्तरमतिना च वर्धमानमतिना च अनन्तमतिना च विपुलमतिना च अक्षयमतिना च धरणीधरेण च जगतींधरेण च जयमतिना च विशेषमतिना च धारणीश्वरराजेन च बोधिसत्त्वेन महासत्त्वेन । मञ्जुश्रीप्रमुखैश्च षष्टिभिरनुपमचित्तैः भद्रपालपूर्वंगमैश्च षोडशभिःसत्पुरुषैः ब्रम्हणा च सहांपतिना शक्रेण च देवानामिन्द्रेण चतुर्भिश्च लोकपालैः सुसीमेन च देवपुत्रेण सुस्थितमतिना च देवपुत्रेण सर्वैश्च देवेन्द्रैर्नागेन्दैः किन्नरेन्द्रैर्गन्धर्वेन्द्रैर्यक्षेन्द्रैरसुरेन्द्रैर्गरुडेन्द्रैः सर्वैरनेकजातिशतसहस्रपरिवारैस्तत्रैव पर्षदि संनिपतितैः संनिषण्णैः ॥

अथ खलु भगवान् श्रीगर्भसिंहासने संनिषण्णो मेरुरिवाभ्युद्गतः सर्वपर्षन्मण्डलात्, सूर्य इव सर्वलोकमवभासयन्, चन्द्र इव सर्वजगदवभासयन्, ब्रम्हेव प्रशान्तविहारी, शक्र इव दुरासदकायः, चक्रवर्तीव सप्तबोध्यङ्गरत्नसमन्वागतः, सिंह इवानात्मशून्यसर्वधर्मवादी, अग्निस्कन्ध इव सर्वजगदवभासकरः, सर्वदेवप्रभासमणिरत्नसमुच्चयमणिराजवद्देदीप्यमानः, सर्वं त्रिसाहस्रमहासाहस्रं लोकधातुमाभया स्फुरित्वा ब्रम्हस्वररुतरवितेन सर्वसत्त्वविज्ञापनानुगतेन घोषेणाशुविनिश्चितार्थः सर्वधर्मपरमपारमिप्राप्तः पर्षद्गतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्, स्वर्थंसुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रम्हचर्यं संप्रकाशयति स्म ॥

अथ खलु प्रामोद्यराजो नाम बोधिसत्त्वो महासत्त्वस्तस्यामेव पर्षदि संनिपतितोऽभूत्संनिषण्णः ।
स भगवन्तं सिंहासनस्थं सूर्यसहस्रातिरेकया प्रभया सर्वपर्षन्मण्डलं जिह्मीकुर्वन्तमतीव विरोचमानं दृष्ट्वा हृष्टतुष्टः प्रसादावर्जिरहृदय उत्थायासनात्कृतकरपुटो भगवन्तमाभिर्गाथाभिरभ्यष्टावीत्-

अभिभूय जिनो जगदेतान् देवगणासुरकिन्नरनागान् ।
श्रावकबुद्धसुतान्मेरुतेजा भासति हेमगिरिः स यथैव ॥ १ ॥
(वैद्य, र्प्१२१)
मेरुरिवामरसंघनिवासः सागरमध्यगतोऽपि विराजन् ।
कृपसागरमध्यगतोऽसौ मुञ्चति रश्मिसहस्रशतानि ॥ २ ॥
ब्रम्हविहारगतः स च ब्रम्ह ब्रम्हपुरस्थ इवाभिरराज ।
ध्यानविमोक्षसमाधिविहारी भासति सर्वजगे वरसत्त्वः ॥ ३ ॥
शक्र इव त्रिदशेषु विराजन् देवतमध्यगतः पृथुतेजाः ।
भासति सर्वजगे मुनिराजा लक्षणचित्रित ज्ञानगुणाढ्यः ॥ ४ ॥
द्वीपचतुर्नृपतिर्ह्यवभासी शोभति लोकमिमं त्वनुभासन् ।
आर्यपथे च नेयोजयमानः शोभति एष कृपाशयबुद्धिः ॥ ५ ॥
अग्निमणिप्रभध्यामकरोऽसौ भासति खे प्रतियन्निव सूर्यः ।
सूर्यसहस्रविशिष्टप्रभासो भासति बुद्धरविर्जगतीह ॥ ६ ॥
चन्द्र इवामल भाति निशीथे भासति सर्वजगेषु विशुद्धः ।
पूर्णशशाङ्कनिभं जिनवक्त्रं सर्वप्रभामभिभूय विभाति ॥ ७ ॥
पर्वतमूर्धनि अग्निर्यथैव रात्रिप्रशान्त प्रभासति सत्त्वान् ।
मोहतमो निखितं विनिहत्य भासति ज्ञानप्रभासु महर्षिः ॥ ८ ॥
पर्वतकन्दरधीरनिनादी त्रासयतीह मृगान् भुवि सिंहः ।
शून्यनिरात्मनिनादि नरेन्द्रः भासयते हि तथापरतीर्थ्यान् ॥ ९ ॥
सन्मणिराज इवोज्ज्वलतेजा भासति सर्वमणीनभिभूय ।
काञ्चनवर्णनिभो जिनकायो भासति सर्वजगत्यभिभूय ॥ १० ॥
न च तेऽस्ति समः क्वचि लोके उत्तरि नापि च विद्यति सत्त्वः ।
पुण्यतु ज्ञानतु वीर्यौपायैः सर्वगुणैश्च समो न तवास्ति ॥ ११ ॥
भासयते हि जगन्नरवीरो दृष्टु मया गुणसागर नाथः ।
गौरवजातविवर्धितप्रीतिः पादतले पतितोऽस्मि जिनाय ॥ १२ ॥
स्तुत्य मया रूपसागरबुद्धिं सर्वगुणाकर लोकप्रदीपम् ।
पुण्यमुपार्जितमत्र तेन सर्वजगत्स्पृशतां वरबोधिम् ॥ १३ ॥

अथ खलु प्रामोद्यराजो बोधिसत्त्वो महासत्त्वो भगवन्तमाभिर्गाथाभिरभिष्टुत्य कृताञ्जलिपुटोऽनिमिषाभ्यां नयनाभ्यां तथागतकायमवलोकयन् धर्मधातुमेव विचारयमाणो गम्भीरं दुरवगाहं दुर्दृशं दुरनुबोधमतर्क्यं तर्कापगतं शान्तं सूक्ष्मं चानुप्रविशन्, अचिन्त्यं बुद्धगोचरमनुविचारयमाणः, सर्वधर्मप्रसृतं तथागतज्ञानमनुचिन्तयमानः, असमसमं बुद्धविषयं संपश्यमानः, अचिन्त्यं तथागतोपायविषयगोचरमवतरन्, दह्र्मधातुनयस्वभावावतारतां च बुद्धानां भगवतामवकल्पयमानः, अनालयगगनगोचरा हि बुद्धा भगवन्त इति संपश्यन्, भूतकोट्यकोटिस्वभावावतारं सर्वधर्माणामित्यधिमुच्यमानः, अनावरणं च बुद्धविमोक्षमभिलषमाणः, (वैद्य, र्प्१२२) ध्रुवं शिवं शाश्वतं च बुद्धानां भगवतां कायमित्यवतरमाणः, सर्वबुद्धक्षेत्रप्रसरानुगतां सर्वसत्त्वाभिमुखता च तथागतकायस्यावतरन्, अपरान्तकल्पकोटिभिरपि नास्ति बुद्धानां भगवतां गुणपर्यन्तमित्यनुस्मरन्, प्रामोद्यराजो बोधिसत्त्वो महासत्त्वस्तूष्णीव्यवस्थितोऽभूत्धर्मधातुमेव विचारयमाणः ॥

तेन खलु पुनः समयेन आयुष्मान् राष्ट्रपालः श्रावस्त्यां त्रैमास्यं वर्षमुपगतः । त्रैमास्यात्ययेन कृतचीवरो निष्ठितचीवरः स पात्रचीवरमादाय भिक्षुसंघेन सार्धं नवकैरादिकर्मिकैरचिरप्रव्रजितैरनुपूर्वेण जनपदचारिकां चरन् येन राजगृहं महानगरं येन च गृध्रकूटः पर्वतराजस्तेनोपसंक्रान्तः ॥

अथ खल्वायुष्मान् राष्ट्रपालो येन भगवांस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणिकृत्यैकान्तेऽतिष्ठत् । एकान्तस्थितश्चायुष्मान् राष्ट्रपालः कृताञ्जलिपुटो भगवन्तमाभिर्गाथाभिरभ्यष्टवीत्-

वन्दमो नरवरं प्रभंकरं वन्दमो गगनतुल्यमानसम् ॥ १४ ॥
कीर्तयन्ति तव वर्ण नायकाः क्षेत्रकोटिप्रसरात्समन्ततः ।
श्रुत्व बुद्धसुत एन्ति हर्षिताः पूजनाय गुणसागरं मुनिम् ॥ १५ ॥
पूज कृत्व सुगतानुरूपतो धर्म श्रुत्व विरजं महामुनेः ।
यान्ति क्षेत्र स्वक हृष्टमानसा वर्णमाल तव तां प्रभाषतः ॥ १६ ॥
कल्पकोटिनयुतानचिन्तियान् सत्त्वकारणमचारचारिकाम् ।
नो च अस्ति तव खिन्न मानसमेषमाण वरबोधिमुत्तमाम् ॥ १७ ॥
दानशीलचरितोऽसि नायका क्षान्तिवीर्य अपि ध्यानशिक्षितः ।
प्रज्ञुपाय सद पारमिं गता तेन वन्दसि महाविनायकम् ॥ १८ ॥
ऋद्धिपादवरभिज्ञकोविदमिन्द्रियैर्बलविमोक्षशिक्षितम् ।
सर्वसत्त्वचरिते गतिं गतं वन्दमो असमज्ञानपारगम् ॥ १९ ॥
चित्तधार जगतः प्रजानसे या चरिर्यथ च कर्मसंभवः ।
येन वा नयमुखेन मुच्यते तं च वेत्सि भगवन्नरोत्तमा ॥ २० ॥
रागद्वेष जहि मोहसंभवं येन सत्त्व त्रिरपायगामिनः ।
येन यान्ति सुगतिं च कर्मणा जानसे सुकृतदुष्कृतं जगे ॥ २१ ॥
ये जगद्धितकरा अतीतकाः सांप्रतं च नरदेवपूजिताः ।
ये अनागत गुणाग्रपारगास्तां च सर्वसुगतान् प्रजानसे ॥ २२ ॥
क्षेत्रशुद्धिरपि चापि संभवो बोधिसत्त्वगणाः श्रावकास्तथा ।
यावदायुरथ वा महर्षिणां सर्वथा ह्यखिलतो विजानसि ॥ २३ ॥
(वैद्य, र्प्१२३)
निर्वृतौ च स्थिति धर्म यादृशी यादृशी च जिनधातुपूजना ।
धर्मकोशधर तत्र यादृशा तान् प्रजानसि नरोत्तमाखिलान् ॥ २४ ॥
ज्ञान दशबलस्य विदितं ह्यनावृतं वर्तते सततमध्वसु त्रिषु ।
सर्वधर्मनययुक्तमानसा ज्ञानसागर जिना नमोऽस्तु ते ॥ २५ ॥
नास्ति ते समसमः कुतोत्तरो लक्षणैश्च प्रतिमण्डिताश्रयः ।
तारकाभिरिव खं विचित्रितं वन्दमो मुनिवरं नरोत्तमम् ॥ २६ ॥
रूपमप्यसमकं मनोरमं जिम्ह कुर्वति जगत्सदेवकम् ।
ब्रम्ह शक्र अकनिष्ठदेवता अग्रतस्तव न ते विराजिते ॥ २७ ॥
काञ्चनाचल इवासि निर्मलः स्निग्ध केश मृदु दक्षिणोत्थिता ।
मेरुराज इव उष्णिषोद्गतो भासते विपुलपुण्यसंभवः ॥ २८ ॥
रश्मिकोटिनियुतान् प्रमुञ्चतो राजतोर्ण तव च भ्रुवोस्तटे ।
नेत्र उत्पलनिभं मनोरमं येन वीक्ष्यसि जगत्कृपाशयः ॥ २९ ॥
पूर्णचन्द्र इव निर्मले नभे भासते तव मुखं विनायक ।
तृप्यते न हि निरीक्षको जनो वन्दमो सुवदनं नरोत्तमम् ॥ ३० ॥ हंसबर्हिमृगराजविक्रमा मत्तवारणविलम्बगामिनः ।
कम्पयन् व्रजसि मेदिनीतलं वन्दमो दशबलं दृढव्रतम् ॥ ३१ ॥
दीर्घवृत्तरुचिरा कराङ्गुली शुद्धताम्र नखजालचित्रितम् ।
उत्थितः स्पृशति जानुमण्डले वन्दमो कनकवर्णसंनिभम् ॥ ३२ ॥
चित्रयन् व्रजसि मिदिनीतलं चक्रजालचितपादविक्रमैः ।
पादरश्मिपरिपाचिताश्च्युता देवलोकमुपयान्ति मानवाः ॥ ३३ ॥
धर्मराज धनसप्तदायका धर्मदानपति दान्तमानसा ।
शासमानु जग धर्मचर्यया धर्मस्वामि प्रणमामि नायकम् ॥ ३४ ॥
मैत्र वर्म स्मृति खड्गमुत्तमं शील चापमिषु प्रज्ञुपायतः ।
येन क्लेशरिपवो विघातितां जातिमृत्युभवतृष्णवर्धकाः ॥ ३५ ॥
तीर्ण तारयसि सत्त्वकोटियो मुक्त मोचयसि बन्धनाज्जगत् ।
मार्ग दर्शयसि क्षेम निर्ज्वरं येन यान्ति सुगताः शिवं पदम् ॥ ३६ ॥
यत्र जातिमरणा न विद्यते विप्रयोग न च दुःखसंभवः ।
तं शिवं पदवरं ह्यसंस्कृतं देशितासि करुणामुपेत्य हि ॥ ३७ ॥
स्तुत्य लोकप्रवरं महामुनिं सर्वधर्मवशिपारगं जिनम् ।
पुण्यमत्र यदुपार्जितं मया तेन बोधिमभिबुध्यतां जगत् ॥ ३८ ॥

अथ खल्वायुष्मान् राष्ट्रपालो भगवन्तमाभिर्गाथाभिरभिष्टुत्य कृताञ्जलिपुट उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं (वैद्य, र्प्१२४) प्रणम्य भगवन्तमेतदवेचत्- पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात्पृष्टः प्रश्नव्याकरणाय । एवमुक्ते भगवानायुष्मान्तं राष्ट्रपालमेतदवोचत्- पृच्छ त्वं राष्ट्रपाल यद्यदेवाकाङ्क्षसि । अहं ते तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि ॥

एवमुक्ते आयुष्मान् राष्ट्रपालो भगवन्तमेतदवोचत्- कतमैर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः सत्त्वधर्मगुणविशेषतामनुप्राप्नोति, अपराधीनज्ञानतां च प्रतिलभते, आशुप्रज्ञतां चानुप्राप्नोति, विनिश्चयप्रतिभानतां च प्रतिलभते, आलोकतां च प्रतिलभते, सर्वज्ञताप्रवेशं सत्त्वपरिपाकं विमतिप्रहाणं काङ्क्षप्रहाणं सर्वज्ञताविनिश्चयं प्रतिलभते, सत्त्वावतारकौशल्यं यथा वादितथाकारितां च भूतसंधायवचनं सत्त्वकौशल्यतां च, बुद्धानुस्मृतिप्रतिलाभं सर्वप्रश्नपरिपृच्छनतां च, सर्वधर्मधारणतां च क्षिप्रं च सर्वज्ञता मनुप्राप्नोति ? अथ खल्वायुष्मान् राष्ट्रपालस्तस्यां वेलायामिमा गाथा अभाषत -

बोधिसत्त्वचर्या सुनिश्चिता तत्त्वतो भवति योऽस्य संभवः ।
ज्ञागसागरकथाविनिश्चयं भाषतां मम जिनो नरोत्तमा ॥ ३९ ॥
उत्तप्तचामिकरविग्रहोपमा अग्रसत्त्ववर पुण्यसंचया ।
त्वं हि त्राण लयनं परायण अग्रचर्यममलं वदाद्य मे ॥ ४० ॥
ज्ञानलोतु(पु ?) भवते क्षयः कथं धारणी अमृत बोधि उद्गतम् ।
प्रज्ञासागर कथं विशुध्यते येन छिन्दति जनेऽस्य संशयम् ॥ ४१ ॥
संसरन् सुबहुकल्पकोटियः खेदबुद्धि न च जातु जायते ।
वीक्ष्य लोकमपि दुःखपीडितं तेषमर्थकुशलं निषेवते ॥ ४२ ॥ क्षेत्रशुद्धिपरिवारसंपदमायुरग्र्यमथ क्षेत्रसंपदम् ।
सत्त्वकारणकथा निरुत्तरा बोधिचर्यममलां प्रकाशय ॥ ४३ ॥
मारभञ्जन कुदृष्टिशोधना तृष्णशोषण विमुक्तिस्पर्शना ।
धर्मनेत्रि रयिन प्रमुह्यत सत्त्वरत्न निगदोत्तमां चरिम् ॥ ४४ ॥
रूप भोग प्रतिभानसंपदं स्निग्धवाक्पर्षदश्च तोषणी ।
मेघवत्सुगत तर्पयञ्जगत्देशयस्यपि च बुद्धगोचरम् ॥ ४५ ॥
मञ्जुघोष कलविङ्कुसुस्वरा ब्रह्मघोष कुमतिप्रणाशना ।
धर्मकाम पर्षत्समागता तर्पयामृतरसेन तां प्रभो ॥ ४६ ॥
अस्ति छन्द प्रवराग्रबोधये धर्मछन्द विहितो न युज्यते ।
देशनासमय एष नायका काल एष वररत्नश्रावणे ॥ ४७ ॥
बोधिकाङ्क्षु मम विद्यते मुने आशयं मम जिन प्रजानसे ।
प्रार्थयामि न जिनस्य हेठनां साधु उत्तमचरिं प्रकाशय ॥ ४८ ॥

(वैद्य, र्प्१२५)
एवमुक्ते भगवानायुष्मान्तं राष्ट्रपालमेतदवोचत्- साधु साधु राष्ट्रपाल । साधु साधु पुनस्त्वं राष्ट्रपाल यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । बहुजनहिताय त्वं राष्ट्रपाल प्रतिपन्नो बहुजनसुखाय अर्थाय हिताय देवानां च मनुष्याणां च, एतर्हि चानागतानां च बोधिसत्त्वानां महासत्त्वानां संपरिग्रहाय । तेन हि राष्ट्रपाल शॄणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्ये । साधु भगवन्नित्यायुष्मान् राष्ट्रपालो भगवतः प्रत्यश्रोषीत् । भगवांस्तस्यैतदवोचत्-

चतुर्भी राष्ट्रपाल धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व एतां परिशुद्धिं प्रतिलभते । कतमैश्चतुर्भिः ? यदुत आरागाध्याशयप्रतिपत्त्या सर्वसत्त्वसमचित्ततया शून्यताभावनतया यथावादितथाकारितया । एभी राष्ट्रपाल चतिर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व एतां परिशुद्धिं प्रतिलभते । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

आशयेन हि सदाभियुक्तका बोधिमार्ग अविवर्त्यमानसाः ।
नो च शाठ्य न खिलं न मायता तेषु विद्यति अनन्तज्ञानिनाम् ॥ ४९ ॥
दृष्ट्व सत्त्व दुखिताननायकान् जातिव्याधिजरमृत्युमर्दितान् ।
तारणार्थ भवतो * * जगत्धर्मनाव समुदानयन्ति ते ॥ ५० ॥
सर्वसत्त्वसमचित्त सूरता एकपुत्रकवदीक्षते जगत् ।
सर्वमेतदपि मोचयाम्यहमेवमाशय तथाग्रपुद्गलाः ॥ ५१ ॥
शून्यतासु सततं गतिं गत नैव चात्म न च सत्त्व विद्यते ।
स्वप्नमायसदृशं हि संस्कृतमत्र बाल अबुधो विमोहिता ॥ ५२ ॥
वाचया यथ वदन्ति ते बुधास्तत्र चैव प्रतिपत्तिया स्थिताः ।
दान्त शान्त सद दोषवर्जिता बोधिसत्त्वमार्गनिरता जिनात्मजाः ॥ ५३ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानामाश्वासप्रतिलाभा धर्माः । कतमे चत्वारः ? धारणी प्रतिलाभः कल्याणमित्रप्रतिलाभः गम्भीरधर्मक्षान्तिप्रतिलाभः परिशुद्धशीलसमाचारता । इमे राष्ट्रपाल चत्वारि बोधिसत्त्वानामाश्वासप्रतिलाभा धर्माः । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

लाभिनो भवन्ति धारणीषु ते सदा महायशा
धारयन्ति येन धर्म श्रेष्ठ सर्वबुद्धभाषितम् ।
न च प्रणाशयन्ति जातु भूयु वर्धते रति
असङ्गमेव तेषु ज्ञान सर्वधर्मपारगाः ॥ ५४ ॥
कल्याणमित्रमाप्नुवन्ति बोधि अङ्गवर्धका
देशयन्ति श्रेष्ठ मार्ग तस्य येन यान्ति नायकाः ।
न क्वचिच्च ते भवन्ति पापमित्रसेवका
दूरतो विवर्जयन्ति तेऽग्निवच्च दाहनात्मकान् ॥ ५५ ॥
(वैद्य, र्प्१२६)
गम्भीर धर्म श्रुत्व धीर शून्यतोपसंहितं
न चात्मसत्त्वजीवदृष्टि तेषु भोन्ति सर्वशः ।
अच्छिद्रशील ते भवन्ति शान्तदान्तमानसा
अनुत्तरे च बुद्धशीलि स त्व तां नियोजयेत् ॥ ५६ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां संसारप्राप्तानां प्रीतिकरणा धर्माः । कतमे चत्वारः ? बुद्धदर्शनं राष्ट्रपाल बोधिसत्त्वानां प्रीतिकरणो धर्मः । अनुलोमधर्मश्रवणं राष्ट्रपाल बोधिसत्त्वानां प्रीतिकरणो धर्मः । सर्वस्वपरित्यागः । अनुपलम्भधर्मक्षान्तिः । इमे राष्ट्रपाल बोधिसत्त्वानां संसारप्राप्तानां चत्वारः प्रीतिकरणा धर्माः । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

पश्यन्ति ते नरोत्तमं संबुद्धं सर्वजातिषु
सर्वलोक भासयन्त तेजसा समन्ततः ।
पूजयंस्तथा नरेन्द्रराज प्रेमगौरवस्थिता
वराग्रबोधिमेषमाण सत्त्वमोक्षकारणात् ॥ ५७ ॥
शृणोति धर्म नायकान शान्तमानुलोमिकम्
आशयेन श्रुत्व धीर योनिशः प्रयुज्यते ।
अनोपलम्भधर्म श्रुत्व काङ्क्ष नास्य जायते
निःसत्त्व इति सत्त्वधर्म नात्र आत्म विद्यते ॥ ५८ ॥
सर्वस्वपरित्यागि सो भवेत इत्यमग्रहो
प्रहृष्टचित्त दृष्ट्व चैव याचकमुपागतम् ।
ग्रामराष्ट्रमेदिनीं च पुत्र दार जीवितं
संत्यजन्ति सर्व नास्य जायते च चित्तैञ्जना ॥ ५९ ॥

चतुर्षु राष्ट्रपाल धर्मेषु बोधिसत्त्वेनानपेक्षेण भवितव्यम् । कतमेषु चतुर्षु ? गृहवासाद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम् । प्रव्रजित्वा राष्ट्रपाल बोधिसत्त्वेन लाभसत्कारादनपेक्षेण भवितव्यम् । कुलसंस्तवाद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम् । कायजीविताद्राष्ट्रपाल बोधिसत्त्वेनानपेक्षेण भवितव्यम् । एषु चतुर्षु राष्ट्रपाल धर्मेषु बोधिसत्त्वेनानपेक्षेण भवितव्यम् । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

त्यक्त्वा गेहमनन्तदोषगहनं चिन्तानपेक्षा सदा
तेऽरण्ये रतिमाप्नुवन्ति गुणिनः शान्तेन्द्रियाः सूरताः ।
न स्त्रीसंस्तवु नैव चापि पुरुसैस्तेषां क्वचिद्विद्यते
एकाकी विहरन्ति खड्गविमलाः शुद्दाशया निर्मलाः ॥ ६० ॥
(वैद्य, र्प्१२७)
लाभैर्नापि च तेषु हर्षित मनो लीयन्त्यलार्भैर्न च
अल्पेच्छा इतरेतरैरभिरता मायाकुहावर्जिताः ।
सत्त्वार्थाय च वीर्ययुक्तमनसो दाने दमेऽवस्थिता
ध्याने वीर्यगुणे च पारमिगताः संबुद्धज्ञानार्थिनः ॥ ६१ ॥
काये चाप्यनपेक्ष्य जीवित तथा त्यक्त्वा प्रियान् बान्धवाम्
युज्यन्ते सद बोधिमार्ग सुदृढा वज्रोपमाध्याशयाः ।
कायश्छिद्यति खण्डशश्च न भवेत्तेषां च चित्तेञ्जना
भूयो वीर्यमिहारभन्ति सुदृढं सर्वज्ञताकाङ्क्षिणः ॥ ६२ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानामननुतापकरणा धर्माः । कतमे चत्वारः ? शीलाखण्डनता राष्ट्रपाल बोधिसत्त्वानामननुतापकरणो धर्मः, अरण्यवासाकुत्स्यजनता, चतुणामार्यवंशानामनुवर्तनता, बाहुश्रुत्यप्रतिलाभो राष्ट्रपाल बोधिसत्त्वानामननुतापकरणो धर्मः । इमे राष्ट्रपाल चत्वारो बोधिसत्त्वानामननुतापकरणा धर्माः । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

रक्षन्ति शीलममलं मणिरत्नतुल्यं न च तेषु भोति अनुशील सुसंयतो वा ।
तत्रेव शीलि सद सत्त्व नियोजयन्ति । आकाङ्क्षमाणमिममुत्तमबुद्धशीलम् ॥ ६३ ॥
शून्ये च ते हि निवसन्ति शुभे अरण्ये नैवात्मसंज्ञ भवतेऽपि न जीवसंज्ञा ।
तृणकाष्ठकोथसम पशयति सत्त्वरूपं स्त्री नेह नास्ति च पुमान्न च आत्मनीयम् ॥ ६४ ॥
चतुरार्यवंशनिरता अकुहा आशाठ्या अध्याशयेन च प्रयुज्यति सोऽप्रमत्तः ।
कुर्वन्ति च श्रुतिगुणेषु सदाभियोगं संप्रार्थयन् सुगतज्ञानमहानुभावम् ॥ ६५ ॥
भवचारके जगदवेक्ष्य इदं ह्यनाथं जातीजरामरणशोकहतं रुजार्तम् ।
समुदानयित्व प्रवरां शिवधर्मनावं संतारयन्ति जनतां भवसागरौघात् ॥ ६६ ॥
न त्राणमन्य शरणं हि परायणं वा लोकस्य संस्कृतगतौ भ्रमतोऽस्ति कश्चित् ।
मयि सर्व एव परिमोचयितव्य सत्त्वा इत्यर्थमेव प्रणिधिर्मम अग्रबोधौ ॥ ६७ ॥

(वैद्य, र्प्१२८)
चतस्र इमा राष्ट्रपाल आजानेयगतयो बोधिसत्त्वेनानुगन्तव्याः । कतमाश्चतस्रः ? सुगतिप्रतिलाभः, स च बुद्धोत्पादसमवधानतया । गुरुशुश्रूषणा, सा च निरामिषसेवनतया । प्रान्तशय्यासनाभिरतिः, सा च लाभसत्कारानपेक्षतया । प्रतिभानप्रतिलाभः, स च गम्भीरधर्मक्षन्तिसमन्वागततया । इमा राष्ट्रपाल चतस्र आजानेयगतयोऽनुगन्तव्याः । इयमत्र धर्मता ॥

तत्रेदमुच्यते -

वनकन्दरेषु सततं निवसन्ति धीरा लाभेन ते सद अनर्थिक भोन्ति नित्यम् ।
प्रतिभानवान् सद भवन्ति असङ्गबुद्धी गम्भीरधर्मकुशला विगतप्रपञ्चाः ॥ ६८ ॥
शुश्रूषकाः सद भवन्ति गुरुषु नित्यं यथ ते वदन्ति हि तथैव च ते प्रयुक्ताः ।
आरागयन्ति सुगतान् बहावोऽप्रमेयान् कुर्वन्ति पूज विपुलां जिनज्ञानहेतोः ॥ ६९ ॥
श्रेष्ठा गतिर्भवति चापि महाशयानां देवेषु चैव मनुजेषु च मूर्ध्नप्राप्ताः ।
सम्बोधिमार्ग सद सत्त्व समादयन्ति संयोजयन्ति कुशलेषु दशस्वथापि ॥ ७० ॥
श्रुत्वा च बुद्धगुण ते च भवन्ति तुष्टा आसन्न ते तु नचिराद्भविता हि मह्यम् ।
संबुध्यतेऽपि च शिवां विरजाग्रबोधिं मोचिष्य सत्त्वनियुतानि अनन्तदुःखात् ॥ ७१ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां बोधिचर्यापरिशोधका धर्माः । कतमे चत्वारः ? अप्रतिहतविज्ञानविरहितस्य बोधिसत्त्वचर्या, कुहनलपननिष्पेषणपरिवर्जितस्यारण्यवासः, सर्वस्वपरित्यागिनो विपाकाप्रतिकाङ्क्षता, रात्रिंदिवं धर्मकामता धर्मभाणकानां च स्खलितागवेषणता । इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारो बोधिसत्त्वचर्यापरिशोधका धर्माः ॥

अथ खलु भगवंस्तस्यां विलायामिमा गाथा अभाषत -

न खिल मल न चापि रोषचित्तं न च पुनरेषति कस्यचित्सदोषम् ।
अशठ अकुह निष्प्रपञ्चचित्तो भवति अनुत्तरबोधिमीप्समानः ॥ ७२ ॥
(वैद्य, र्प्१२९)
गृहमतिविषमं च शोकमूलं कुजनसमागमयोनिमस्य दूरम् ।
त्यजति तदनपेक्ष्य प्रव्रजित्वा गिरिगहने विचरन्ति मोक्षकामाः ॥ ७३ ॥
अरण्य विविध सेवमानो भवति अनिश्रित सर्वज्ञात्रलाभे ।
काय अपि च जीवितेऽनपेक्षो विहरति सिंह इवोत्त्रसन् जितारिम् ॥ ७४ ॥
भवति च इतरेतरेण तुष्टः शकुनिसमः सद संचयं विहाय ।
न च भवति निकेतु सर्वलोके ज्ञान गवेषति नित्य बोधिमार्गे ॥ ७५ ॥
एक विहरति यथैव खड्गो न च पुन स त्रसते यथैव सिंहः ।
न च भुवि विश्वसते मृगेव त्रस्तो न च पुनरुन्नमते स पूजनेन ॥ ७६ ॥
जगदिदमभिवीक्ष्य च प्रपाते प्रपतितमुद्यते प्रमोक्षहेतोः ।
अहमपि जगतोऽस्य त्राणभूतो यदि कुशलेषु चरेयमप्रमत्तः ॥ ७७ ॥
सुमधुरवचनः स्मिताभिलाषी अकलुषचित्त प्रियाप्रियेषु नित्यम् ।
विहरति न च सज्जतेऽनिलो वा नरवरचर्यामिमाभीप्समानः ॥ ७८ ॥
शून्यतमधिमुक्तमानिमित्तं विचरति संस्कृत सर्वमायभूतम् ।
शमदमनिरतो विशालबुद्धिः अमृतरसेन च सर्वदा स तुष्टः ॥ ७९ ॥
प्रतिवदसि यथा (वसपथा ?) च बोधिमार्गे स तु परिशोधयते सदाशयं च ।
धारणीप्रतिलाभमेषमाणः सहति च दुःख सतां गुणाभिकाङ्क्षी ॥ ८० ॥
(वैद्य, र्प्१३०)
इमु चरिमभिवीक्ष्य बोधिसत्त्वो यो भवतेऽर्थिकु शो भवेत तुष्टः ।
य इह भवति बोधये असक्तो जनयति दोषशतानि सोऽल्पबुद्धिः ॥ ८१ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां प्रपाताः । कतमे चत्वारः ? अगौरवता राष्ट्रपाल बोधिसत्त्वानां प्रपातः । अकृतज्ञता शाठ्यसेवनता राष्ट्रपाल बोधिसत्त्वानां प्रपातः । लाभसत्काराध्यवसानं राष्ट्रपाल बोधिसत्त्वानां प्रपातः । कुहनलपनतया लाभसत्कारनिष्पादनं राष्ट्रपाल बोधिसत्त्वानां प्रपातः । इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारः प्रपाताः ॥

अथ खलु भगवांस्तस्या वेलायामिमा गाथा अभाषत -

नित्यमगौरव ते हि भवन्ति आर्यगुरुष्वपि मातृपितृषु ।
अकृतज्ञ शठाश्च भवन्ति नित्यमसंयतचारिण मूढाः ॥ ८२ ॥
अध्यवसानपराः सद लाभे ते कुहशाठ्याप्रयोगरताश्च ।
कश्चिदपीह समो मम नास्ति वक्ष्यति शीलगुणेषु कथंचित् ॥ ८३ ॥
ते च परस्परमेव च द्विष्टा छिद्रगवेषणनित्यप्रयुक्ताः ।
कृषिकर्मवणिज्यरताश्च श्रवणा (श्रमणा) हि सुदूरत तेषाम् ॥ ८४ ॥
एवमसंयत पश्चिमकाले भिक्षव शीलगुणेषु सुदूरे ।
तेऽन्तर हापयिष्यन्ति मधर्मं (मद्धर्मं ?) भण्डनविग्रह ईर्ष्यवशेन ॥ ८५ ॥
बोधिपथादपि नित्य सुदूरे आर्यधनादपि ते च सुदूरे ।
मोक्षपथं च विहाय प्रणीतं पञ्चसु ते गतिषु भमिष्यन्ति ॥ ८६ ॥

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारका धर्माः । कतमे चत्वारः ? अश्रद्दधानता राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः । कौसीद्यं राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः । मानो राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः । परपूजेर्ष्यामात्सर्यचित्तं राष्ट्रपाल बोधिसत्त्वानां बोधिपरिपन्थकारको धर्मः । इमे राष्ट्रपाल बोधिसत्त्वानां चत्वारो बोधिपरिपन्थकारका धर्माः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अश्रद्धाः कुसीदाः सद मूढचित्ता अभिमानिनस्तेऽपि सदा च क्रोधना ।
क्षमिणश्च दृष्ट्वा सद भिक्षु युक्तं दास्यन्ति दण्डं व्रजतो विहारात् ॥ ८७ ॥
परस्य पूजार्थमिहेर्ष्य जाता अवस्थानु चित्तस्य च तेषु नास्ति ।
(वैद्य, र्प्१३१)
अवतारप्रेक्षी स्खलितां गवेषी कोऽस्यापराधोऽस्तिह चोदयिष्ये ॥ ८८ ॥
दूरे इतस्ते मम शासनस्य गुणद्वेषिणस्ते हि अपायनिम्नाः ।
त्यक्त्वा जिनस्यापि च शासनं ते यास्यन्त्यपायं ज्वलितं प्रचण्डम् ॥ ८९ ॥
श्रुत्वा च तेषामिह पापचर्यामधर्मयुक्तां च गतिं सुदारुणाम् ।
युज्यध्व नित्यं सद बोधिमार्गे मा तप्स्यथा दुर्गतिषूपपन्नाः ॥ ९० ॥
बहुकल्पकोटीभि कदाचि बुद्धो उत्पद्यते लोकहितो महर्षिः ।
लब्धोऽधुना स प्रवरः क्षणोऽद्य त्यज प्रमादं यदि मोक्षकामः ॥ ९१ ॥

चत्वार इमे राष्ट्रपाल पुद्गला बोधिसत्त्वेन न सेवितव्याः । कतमे चत्वारः ? पापमित्रं राष्ट्रपाल पुद्गलो बोधिसत्त्वेन न सेवितव्यः । उपलम्भदृष्टिको राष्ट्रपाल पुद्गलो बोधिसत्त्वेन न सेवितव्यः । सद्धर्मप्रतिक्षेपकः पुद्गलो राष्ट्रपाल बोधिसत्त्वेन न सेवितव्यः । आमिषलोलुपः पुद्गलो राष्ट्रपाल बोधिसत्त्वेन न सेवितव्यः । इमे राष्ट्रपाल चत्वारः पुद्गला बोधिसत्त्वेन न सेवितव्याः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

ये पापमित्राणि विवर्जयन्ति कल्पाणमित्राणि सदा भजन्ति ।
वर्धन्ति ते बोधिपथेषु नित्यं यथ शुक्लपक्षे दिवि चन्द्रमण्डलम् ॥ ९२ ॥
उपलम्भदृष्ट्यां च सदा निविष्टा आत्मे निविष्टास्तथ जीवपोषे ।
विषकुम्भवत्ते सद वर्जयन्ति ये बुद्धज्ञानेन भवन्ति अर्थिकाः ॥ ९३ ॥
क्षिपन्ति ये धर्म नरोत्तमानां शान्तं विरागममृतानुकूलम् ।
तान् वर्जयेन्मीढघटां यथैव य इच्छते बुध्यितुमग्रबोधिम् ॥ ९४ ॥
अध्योषिता आमिष पात्रचीवरे कुलसंस्तवे चैव सदाभियुक्ताः ।
कुर्वीत सार्धं न हि तेषु संस्तवं तान् वर्जयेदग्निखधां (खदां) यथैव ॥ ९५ ॥
यस्येप्सितं धर्षयितुं हि मारं प्रवर्तितुं चक्रवरं ह्यनुत्तरम् ।
सत्त्वार्थमेवं विपुलं च कर्तुं वर्ज्याश्च तेनापि च पापमित्राः ॥ ९६ ॥
विवर्जयित्वा च प्रियाप्रियाणि लाभं यशो भण्डनमानमीर्ष्याम् ।
एषेत नित्यं सद बुद्धज्ञानं य इच्छते बुध्यितुमग्रबोधिम् ॥ ९७ ॥
(वैद्य, र्प्१३२)

चत्वार इमे राष्ट्रपाल बोधिसत्त्वानां दुःखविपाका धर्माः । कतमे चत्वारः ? ज्ञानेनाभिमन्यनता राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः । ईर्ष्यामात्सर्यचित्तं राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्माः । अनधिमुक्ती राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः । अपरिशुद्धज्ञानक्षान्तिसंभोगपर्येष्टी राष्ट्रपाल बोधिसत्त्वानां दुःखविपाको धर्मः । इमे राष्ट्रपाल बोधिसत्त्वानां दुःखविपाका धर्माः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

धर्मधरा भुवि ये तु भवन्ति पूजित सर्वजगेषु भवन्ति ।
अवमन्यति तानि आज्ञः (?) तेन स विन्दति दुःखमनन्तम् ॥ ९८ ॥
विषमेण स देशति भोगेन् छन्दरुचिः सद ज्ञानि अशुद्धे ।
मानोन्नत यश्च हि नित्यं नमते गुरुआर्यजनेषु ॥ ९९ ॥
अधिमुक्ति न विद्यति बुद्धे धर्मगणे च न तस्यधिमुक्तिः ।
शिक्ष धुतेषु न तस्यधिमुक्तिः पापमतेस्त्रिरपायमुखस्य ॥ १०० ॥
स इतश्च्युतो हि मनुजेषु कर्मवशादबुधो हि विमूढः ।
नरकेष्वथ तिर्यग्गतिषु प्रेतगतिषु च वन्दति दुःखम् । १०१ ॥
यस्य मतिर्भुवि लोकप्रदीपो दुःखक्षयान्तकरो नरवीरः ।
तेन अपायपथं प्रविहाय बोधिपथः सततं हि निषेव्यः ॥ १०२ ॥

चत्वारीमानि राष्ट्रपाल बोधिसत्त्वानां बन्धनानि । कतमानि चत्वारि ? परावमन्यनता बोधिसत्त्वानां बन्धनम् । लौकिकेनोपायेन भावनताप्रयोगनिमित्तसंज्ञा बोधिसत्त्वानां बन्धनम् । अनिगृहीतचित्तस्य ज्ञानविरहितस्य प्रमादसेवनता राष्ट्रपाल बोधिसत्त्वस्य बन्धनम् । प्रतिबद्धचित्तस्य कुलसंस्तवो राष्ट्रपाल बोधिसत्त्वस्य बन्धनम् । इमानि राष्ट्रपाल बोधिसत्त्वानां चत्वारि बन्धनानि ॥

अथ खलु भगवंस्तस्यां वेलायामिमा गाथा अभाषत -

अवमन्यति नित्य परस्य भावयते सद लौकिकध्यानम् ।
बध्यति तेभि स दृष्टिशतेभिः पङ्कि गजो यथ दुर्बलकायः ॥ १०३ ॥
कुलसंस्तवबन्धनयुक्तो यस्तु प्रमत्त सदा ग्रहचित्तः ।
ज्ञानविवर्जित मूढमतिश्च बध्यति एभि अयुक्तचरीभिः ॥ १०४ ॥
यो ह्यत इच्छति दुःखभयेभ्यो जातिजरामरणादिविमोक्षम् ।
सो अवमन्यन मन्यन त्यक्त्वा युज्यति बोधिपथे सततं च ॥ १०५ ॥
दुःखमनन्त सहित्वमशेषं सर्वसुखादनपेक्षि भवित्वा ।
त्यक्त्व प्रियाप्रियज्ञात्रमशेषं बुद्ध भवन्ति विकल्मष धीराः ॥ १०६ ॥
षट्सु प्रयुज्यत भूमिगुणेषु बलेन्द्रियज्ञाने ।
सर्वगुणैश्च सदा समुपेता बुद्ध भवेज्जरपञ्जरमुक्तः ॥ १०७ ॥
(वैद्य, र्प्१३३)
कल्प अचिन्तिय पूर्व चरन्तः सत्त्वहिताय चरन् वरबोधौ ।
दानदमे नियमेऽपि च नित्यं सुस्थित आसि त्यजित्व च ज्ञातीन् ॥ १०८ ॥
प्रान्तवने सद नित्य रतोऽहं शोषित आश्रयु बोधिनिदानम् ।
न च संसृतु वीर्यं कदाचिदेषत ज्ञान महापुरुषाणाम् ॥ १०९ ॥
भवचारके जगति दृष्ट्वा पञ्चगतिभ्रमभ्रामित सत्त्वान् ।
कृत्व कृपां विपुलामिह पूर्वे आर्जित बोधि बलाज्जगदर्थे ॥ ११० ॥
दुहितृस्वसुताः प्रियभार्याः त्यक्त पुरा धनधान्य प्रभूताः ।
जीवित इष्ट मही सुसमृद्धा एषत बोधिवरां बहुकल्पान् ॥ १११ ॥
फलपुष्पजलाढ्य सुरम्य आसि वने मुनि क्षान्तिरतोऽहम् ।
छिन्न करौ चरणौ कलिराज्ञा नैव मनोऽपि तदा मम दुष्टम् ॥ ११२ ॥
वनकन्दरि श्यामकु नाम आसि मुनिर्भरतो गुरुजीर्णो ।
दृढबाणहतेन नृपेण नैव मनं परिदूषितमासीत् ॥ ११३ ॥
शैलतटादनपेक्ष्य शरीरं प्रोत्सृजतश्च सुभाषितहेतोः ।
काये न च मे न च जीवे बोधिनिमित्तमवेक्ष्य बभूव ॥ ११४ ॥
व्याघ्रिसुतानपि जीवितहेतोस्त्यज्य तनुं परितर्पित व्याघ्री ।
गगनेऽभ्यनदन् सुरसंघाः साधु महापुरुष स्थिरवीर्य ॥ ११५ ॥
अतिदानरतश्च यदासीत्माणव पूर्वभवेषु चरंश्च ।
शोषितु रत्ननिदान समुद्रः प्राप्य मणिं सुखिताः कृत सत्त्वाः ॥ ११६ ॥
सुतसोम महीपतिरासीत्विश्रुतकीर्ति चरंश्च यदाहम् ।
वध्यगतं कृतकृत्यनयैर्मे राजशतं परिमोचितमाशु ॥ ११७ ॥
दुःखित वीक्ष्य नरं च दरिद्रं त्यक्त मया प्रियमेव शरीरम् ।
प्राप्य धनं स कृतश्च मयाढ्यः सर्वददेन नृपेण सता मे ॥ ११८ ॥
शरणागत वीक्ष्य कपोतं स्वं पिशितं विनिकृत्य शरीरात् ।
दत्तमपि स्वतनुर्न भयार्तस्त्यक्त इहापि नृपेण सता मे ॥ ११९ ॥
कृत्स्नमुपार्जितमाप्य भिषग्भिर्भैषजमप्रतिमं मम पूर्वम् ।
जीवित त्यज्य परस्य ददौ तं केसरिराज बभूव यदाहम् ॥ १२० ॥
(वैद्य, र्प्१३४)
चरता च पुरा जगदर्थे मद्रि पतिव्रत त्यक्त सपुत्रा ।
दुहिताप्यनपेक्ष्यदसंघ आसि नृपात्मजो यद सुदंष्ट्रः ॥ १२१ ॥
वर्षसहस्र मया परिपूर्णा मर्षित दुष्कराश्चतुरशीति ।
उत्तप्तवीर्यु यद आसीतर्थधनश्रियोऽपि च पुरा मे ॥ १२२ ॥
जिनधातुस्तूपपुरतो मे ज्वलित आश्रयः परमभक्त्या ।
पूजा कृता दशबलानामासि नृपात्मजि विमलतेजाः ॥ १२३ ॥
रौद्राक्ष एव च रुषित्वा याचितवान् स चापि मम शीर्षम् ।
दत्तं निकृत्य च मया तद्राज यदा च चन्द्रप्रभ आसीत् ॥ १२४ ॥
सर्वत्र ग्रामनगरेषु वीथिमुखेषु भैषजमुदारम् ।
सत्त्वार्थ स्थापित्मया ते पुण्यसमो बभूव च यदाहम् ॥ १२५ ॥
स्रीणां सहस्रमभिरूपाः काञ्चनमुक्तिभूषितशरीराः ।
त्यक्तां पूर्वभवेषु चरता मे आसि यदा शुभो नृपति पूर्वे ॥ १२६ ॥
पुष्पैर्वरैरपि च गन्धैः काञ्चनमुक्तिकाप्रवर श्रीमान् ।
त्यक्तश्च मे मकुट पूर्व आसि नृपो यदा रतनचूडः ॥ १२७ ॥
मृदुतूलपिचूपमसूक्ष्मौ कोमलपद्मपत्रसुकुमारौ ।
त्यक्तौ करौ सचरणौ मे पूर्व नृपेण धृतिमता च ॥ १२८ ॥
विनिगृह्य राक्षसिशतानि निर्घृणदारुणप्रबलचण्डा ।
कृत मानुषा बदरद्वीपे सिंहल सार्थवाह यद आसीत् ॥ १२९ ॥
कामेषु मृर्च्छितमना मे बालि स राक्षसी प्रमदसंज्ञा ।
पञ्चशतानि वणिजानां मोक्षित ते यदा भवे सुनेत्रः ॥ १३० ॥
चत्वारि कोटि प्रमदानामप्सरतुल्यरूपिणां विहाय ।
प्रव्रज्य निर्गतु जिनस्य शासने पुण्यरश्मि यद आसीत् ॥ १३१ ॥
मयि त्यक्तमङ्गुलि उदारा सत्त्वहितार्थमेव चरता मे ।
जालार्चिता विमलशुद्धा काञ्चनवर्ण पार्थिव यद आसीत् ॥ १३२ ॥
शुभ नीलपद्मसमवर्णा नेत्र मनोरमा हृदयकान्ता ।
त्यक्ता मया च जगदर्थे उत्पलनेत्रे पार्थिव यदासीत् ॥ १३३ ॥
प्रियविप्रयोगहत दृष्ट्वा स्त्री च प्रनष्टरूपमतिवेषा ।
परिमोचिता करुणया मे केशव वैद्यराज यद आसीत् ॥ १३४ ॥
व्याध्यातुरं च नरमीक्ष्य स्वं रुधिरं प्रदत्तमपि मेऽभूत् ।
निर्व्याधितः स च कृतो मे प्राग्भव सर्वदर्शि यदभूवम् ॥ १३५ ॥
(वैद्य, र्प्१३५)
हित्वा स्वमस्थि च शरीराद्व्याधिकृशस्य मज्ज मया दत्तम् ।
न च सत्त्व त्यक्त मय जातु आसि नृपो यदा कुसुम नाम ॥ १३६ ॥
सर्वस्वकोशमपि त्यक्त्व जीवित त्यक्त मे प्रिय मनापम् ।
नरु मोक्षितो व्यसनप्राप्त आसि नृपोऽर्थसिद्धि यद पूर्वम् ॥ १३७ ॥
चक्राङ्कितं कमलतुल्यं पणियुगं प्रदमत्तमनपेक्षम् ।
नृप आशुकेतु यद आसीद्बोधिमभीप्समान जगदर्थे ॥ १३८ ॥
नृप सर्वदर्शि यद आसीत्कारुणिको जनार्थहितकामः ।
त्यक्ता मया चतुरोऽपि च द्वीपाः स्फीतनरैर्व्रनरीशतैश्च ॥ १३९ ॥
मृदु कोमलं विकलगौरमूरु तच्छित्त्व हॄष्टमुदिताया ।
दत्तं स्वमांस रुधिरं मे ज्ञानवती यदासि नृपपुत्री ॥ १४० ॥
कनकाभपीनसुकुमारं त्यक्त स्तनद्वयं हॄदयकान्तम् ।
स्त्री प्रेक्ष्य मे क्षुधतृषार्तं सा रूप्य (प ?) वतीति वनिता यदाभूत् ॥ १४१ ॥
वरभूषणानपि सुरम्यान् रत्नमनेकवस्त्ररथयानान् ।
संत्यक्त दुस्त्यजमनेकं विश्रुतश्रीनृपेण च मयाभूत् ॥ १४२ ॥
राज्ञः सुतो तु विकृतज्ञः तारित सागराद्यद कृतज्ञः ।
रत्नार्थ नेत्र मम तेन उद्धृत नैव मे रुषित चित्तम् ॥ १४३ ॥
मा भूत्पिपीलिकवधो मे त्यक्त वराश्रयोऽपि चनपेक्ष्य ।
न च चित्त कम्पित तदा मे त्यक्त पूर्वभवेषु गोध यद आसीत् ॥ १४४ ॥
उपस्थानगौरवरतोऽहं वृद्धचरीषु नित्य रत आसीत् ।
न च मानवानपि च स्तब्ध आसि कपिंजलो विचरमाणः ॥ १४५ ॥
शरणागतस्य च मयार्थे त्यक्त समुच्छ्रयः कृप जनित्वा ।
न च त्यक्त वानरगतेन व्याधनरः शराभिनिहतेन ॥ १४६ ॥
गजवशगतेन शोषितो मे तनुरपि वृद्धगुरुं जगत्स्मरित्वा ।
सुरुचिरमशनं मया न भुक्तं मोक्षित आत्म गजा यदा तदासीत् ॥ १४७ ॥
ऋक्षपतिरभूव शैलदुर्गे हिमहत सप्त दिनानि रक्षितो मे ।
पुरुष वधकु तेन मे प्रयुक्तो न च प्रतिघात कृतश्च मे तदास्मिन् ॥ १४८ ॥
आसि गजो हिमकुन्दनिकाशो बोधिवराश्रित बुद्धगुणार्थी ।
स विषेण शरेण च विद्धो दंष्ट्रवरांस्त्यजमान न द्विष्टः ॥ १४९ ॥
(वैद्य, र्प्१३६)
वनगोचरि खण्डकद्वीपे तित्तिरिपोतक मैत्रविहारी ।
सहदर्शनेन शमितोऽग्निं देवगणा कुसुमानि क्षिपन्ति ॥ १५० ॥ गङ्गतरङ्गजलैर्हियमाणः तारित मे यद आसि मृगत्वे ।
वधका मम तेनपनीता नैव मनो मम तत्र प्रदुष्टम् ॥ १५१ ॥
तारित पञ्चशतं वणिजानां सागरमध्यगताश्च अनाथाः ।
तैश्च हतः क्षुधितैश्च तदाहं कच्छपयोनिगतोऽपि च मैत्रः ॥ १५२ ॥
बोधिचरिं चरमाणहु पूर्वं मत्स्य बभूव यदा जलचरी ।
त्यक्त मयाश्रय सत्त्वहिताय भक्षित प्राणिसहस्रशतेभिः ॥ १५३ ॥
व्याधिशताभिहतं जगदीक्ष्य समुच्छ्रय कृत्वा ।
सत्त्व कृताः सुखिता निरुजाश्च प्राणकु सौम्य तदा च यदासीत् ॥ १५४ ॥
सिंह बभूव यदा मृगराजा स्थामबलान्वित कारुणिकश्च ।
विद्ध शरेण न दूषित चित्तं मैत्रि तदा वधकेऽपि तदा मे ॥ १५५ ॥
शङ्खतुषारनिभो हयराजा आसि पुरा च समुद्रतटेऽहम् ।
राक्षसिमध्यगता वणिजो मे तारित कृत्व कृपां करुणां च ॥ १५६ ॥
बोधिचरिं चरमाण जनार्थे आसि कुणाल अहं यद पक्षी ।
वर्जित कामगुणा बहुदोषा नो च वशं प्रमदान गतोऽहम् ॥ १५७ ॥
आसि शशो वनगुल्मनिवासी शासती तं सुकृते शशवर्गम् ।
मुनिराश्रमवासि क्षुधार्तस्तस्य कृतेन मयाश्रयु त्यक्तः ॥ १५८ ॥
आसि शुको द्रुमपुष्पफलाढ्यो शुष्कद्रुमो न च मे स हि त्यक्तः ।
दृष्ट कृतज्ञ तदा मम शक्रस्तं कृतवांस्तरु पत्रफलाढ्यम् ॥ १५९ ॥
वानरसंघमुपद्रुत दॄष्ट्वा नागनृपेण विवर्जीतदेशम् ।
राजभयात्तु विमोक्षित ते मे वानरराज अहं यद आसीत् ॥ १६० ॥
शुक भूत पुरा गुरुहेतोः शालि हरंश्च नरेण गृहीतः ।
किं नु शुका हरसे मम शालि नाशयतेऽपि च पक्षि मशस्यम् ( मत्सस्यम्) ॥ १६१ ॥
शुक सोऽब्रवीद्भद्र शृणुष्व चौर्य हरामि न ते अहु शालिम् ।
जीर्णगुरुद्वयपोषणहेतोः शालि हरामि कृपार्थ तु तेषाम् ॥ १६२ ॥
(वैद्य, र्प्१३७)
बीज प्रकीर्ण यदा प्रथमं ते भाग ददामि सर्वजनस्य ।
तच्च गिरं वदतो मम श्रुत्वा तेनापि चौर्य भवेन्न कदाचित् ॥ १६३ ॥
साधु शुका हर शालि यथेष्टं दुर्लभ मानुष यस्यिमु भक्तिः ।
मानुष त्वं मय तीर्यगतेहा साधु दमः शम संयम तुभ्यम् ॥ १६४ ॥
इत्येवमानि चरितानि पूर्व चरन्त दुष्कर कृतानि ।
न च मे मनसि तत्र भवि खेद एषत उत्तमां विरज बोधिम् ॥ १६५ ॥
आध्यात्मिकं ह्यथ च बाह्यं नास्ति हि वस्तु यन्मया न दत्तम् ।
शीले च क्षान्ति तथ वीर्य ध्यान उपाय प्रज्ञ चरितोऽहम् ॥ १६६ ॥
मांसं त्वचं तथपि च मज्ज शोणितमेव दत्त स्वशरीरात् ।
प्रान्ते गुहासु च यदा मे शोषित आश्रयोऽपि चरता मे ॥ १६७ ॥
धुतयान देशित जिनेभिः यत्र प्रयुज्यतो जिन भवन्ति ।
तत्र धुते सततं च प्रयुक्तो आसि चरन्त पुरे अहु नित्यम् ॥ १६८ ॥
एतादृशा व्रत उदारा ये च निषेविता चरता मे ।
श्रुत्वा च तेषमिमाश्चर्यमेकपदे न भविष्यति छन्दः ॥ १६९ ॥
हास्यु भविष्यति इम श्रुणित्वा शासनमेतदेव च तडानीम् ।
आहारमैथुनपरास्ते मिद्धसदाभिभूत शतकाङ्क्षाः ॥ १७० ॥
धर्मद्विषः सद अनार्याः शासनदूषका गुणविहीनाः ।
श्रुत्वा च धर्ममिम शान्तं नैष जिनोक्त इत्यभिवदन्ति ॥ १७१ ॥
आचार्यो मे श्रुतसमुद्रो आसि बहुश्रुतः कथिकश्रेष्ठः ।
तेनापि चैष प्रतिषिद्धो बुद्धवचो हि नैष तु कथंचित् ॥ १७२ ॥
परतोऽप्यभूदपि च वृद्धः तस्य गुरुः स शामितगुणौघः ।
तेनापि नैष हि गृहीतो मात्र प्रयुज्यथ वितथमेतत् ॥ १७३ ॥
यत्रात्म नास्ति न च जीवो देशित पुद्गलोऽपि न कथंचित् ।
व्यर्थः श्रमोऽत्र घटते यः शीलप्रयोग संवरक्रिया च ॥ १७४ ॥
यद्यस्ति चैव महायानं नात्र हि आत्म सत्त्व मनुजो वा ।
व्यर्थः श्रमोऽत्र हि कृतो मे यत्र न चात्मसत्त्वौपलब्धिः ॥ १७५ ॥
कवितानि हैव स्वमतानि पापमतैः कुतीर्थिकमतैश्च ।
भाषेत नो जिन कदाचित्वाचमिमां हि भिक्षुपरिभाषाम् ॥ १७६ ॥
ह्रीरपत्रापशीलचरिताश्च ध्वाङ्क्ष प्रगम्भ उद्धतप्रचण्डाः ।
भविता हि भिक्षव ममेह शासनि ईर्ष्यमानमददग्धाः ॥ १७७ ॥
विध्यन्त हस्त तथा पादांश्चीवरकर्णका निधुनन्तः ।
काषायकण्ठ विचरन्ता ग्रामकुलेषु मद्यमदमत्ताः ॥ १७८ ॥
(वैद्य, र्प्१३८)
बुद्धस्य ते ध्वज गृहीत्वा सेवकरा गृहस्थजनतायाम् ।
लेखं वहन्ति सततं ते शासनदं विहाय गुणराशिम् । १७९ ॥ गोगर्दभाश्वपशुदानात्संभवते हि दास्य पि तेषाम् ।
कृषिकर्मवाणिज्यप्रयोगा युक्तमनाश्च तेऽनिशमार्याः ॥ १८० ॥
नैषामनार्यमपि वाच्यं नैव च किंचिदस्ति यदकार्यम् ।
स्तौपिक सांघिकं ह्यपि च वित्तं पौग्दलिकं च यच्च सममेषाम् ॥ १८१ ॥
भिक्षुण वीक्ष्य च गुणाढ्यं तेष्वपि चाप्यवर्ण कथयन्ति ।
दुःशील वञ्चक प्रविश्य कुहास्ते स्त्री च विनाशयन्ति हि सुघोराः ॥ १८२ ॥
गृद्धो गृहीण तथा कामैर्यादृशे प्रव्रजित्व ते गृद्धाः ।
भार्यां सुता दुहितरश्च तेषु भविष्य गृहिसमानम् ॥ १८३ ॥
यत्रैव सत्कृत कुले ते चीवरपिण्डपातपरिभोगैः ।
तस्यैव दारपरिगृद्धा क्लेशवशानुगाः सद अनार्याः ॥ १८४ ॥
कामा इमे खलु न सेव्याः पातन तिर्यक्प्रेतनिरयेषु ।
वक्ष्यन्ति ते सद गृहीणां ते च स्वयमदान्त अनुपशान्ताः ॥ १८५ ॥
स्वयमेव ते यथ अदान्ताः शिष्यगणोऽपि तेष न सुदान्तः ।
आहारमैथुनकथायां रात्रिदिवानि तेषु गमिष्यन्ति ॥ १८६ ॥
सेवार्थमेव न गुणार्थं ते खलु संग्रहं ददति तेषाम् ।
शिष्यगणैः स्वकैः परिवृतोऽहं पूज जने सदात्र चल सिध्य ॥ १८७ ॥
कथयन्ति तेऽपि च जनस्य संग्रह एष मे करुणयैषाम् ।
उपस्थाम प्रार्थयामि तेभ्य शिष्यगणेभ्य एव न कदाचित् ॥ १८८ ॥
रोगाभिभूत बहु तत्र कुष्ठिलाश्चित्रगात्रसुविरूपाः ।
प्रव्रजिष्यन्ति नरकेषु आगता आगता सद अनार्याः ॥ १८९ ॥
उद्देशसंवरविहीना भिक्षुगुणेषु ते सद वियुक्ताः ।
गृहिणो न तेऽपि व्न च भिक्षू वर्जित ते यथा श्मशान इव दारुः ॥ १९० ॥
शिक्षासु चादर न तेषां स्यान्न च प्रातिमोक्षविनये वा ।
उद्दामगाः स्ववशगास्ते अङ्कुशमुक्तका इव गजेन्द्राः ॥ १९१ ॥
वनवासिनामपि हि तेषां ग्रामगतं भविष्यति हि चित्तम् ।
क्लेशाग्निना प्रपतितानां चित्तमवस्थितं हि न च तेषाम् ॥ १९२ ॥
विस्मृत्य बुद्धगुण सर्वान् शिक्षधुतांश्च तेऽपि च उपायान ।
मदमानदर्पपरिपूर्णां ते प्रपतन्ति दारुणवीचीम् ॥ १९३ ॥
(वैद्य, र्प्१३९)
राजकथारताश्च सततं ते चोरकथाभिकीर्तनरताश्च ।
ज्ञातिनिषेवने च निरतास्ते चिन्तयमान रात्रिंदिवसानि ॥ १९४ ॥
ध्यानं तथाध्ययनं त्यक्त्वा नित्य विहारकर्मणि नियुक्ताः ।
आवासगृध्रकुटीकास्ते च अदान्तशिष्यपरिवाराः ॥ १९५ ॥
न च कर्मिको ह्यहं विहारे आत्मन हेतुरेष हि कृतो मे ।
ये भिक्षवो ममानुकूलास्तेष्ववकाशमस्ति हि विहारे ॥ १९६ ॥
ये शीलवन्त गुणवन्तो धर्मधरा जनार्थमभियुक्ताम् ।
दमसंयमे सततयुक्ताः संग्रह तेषु ते न कुरुते च ॥ १९७ ॥
लयनं ममैतदुद्दिष्टं सार्धविहारिणोऽपि च ममेदम् ।
संमोदिकस्य च ममेदं गच्छ न तेऽस्ति वास इह कश्चित् ॥ १९८ ॥
शय्यासनं निखिल दत्तं भिक्षवः स्थापिता इह प्रभूताः ।
न च लाभसंभव इहास्ति किं परिभोक्ष्यसेऽत्र व्रज भिक्षो ॥ १९९ ॥
शय्यासनोद्दिशन तेषां नैव भविष्यतेऽपि च कदाचित् ।
गृहिसंचयाश्च भवितारस्ते च प्रभूतभाण्डपरिवाराः ॥ २०० ॥
निर्भर्त्सिता पि च समन्तात्ते हि ममौरसाश्चरिमकाले ।
वचनं न चैते मं हि स्मृत्वा प्रान्तवने तदाभिनिवसन्ति ॥ २०१ ॥
हा शासनं जिनवरस्य नाशमुपेक्ष्य हि नचिरेण ।
लाभाभिभूत गुणद्विष्टा भिक्षवः प्रादुर्भूत बहु यत्र ॥ २०२ ॥
परिभूतकाश्च सततं ते पश्चिमकालि शीलगुणयुक्ताः ।
ते चाप्यरण्यवनवासी ग्राम विहाय राष्ट्रनगराणि ॥ २०३ ॥
सद सत्कृता गुणविहीना भेदक सूचकाः कलहकामाः ।
ते शास्तृसंमत जनस्य ते च भविष्यन्ति मानमददग्धाः ॥ २०४ ॥
इम शासनं गुणनिधानं सर्वगुणाकारं परमरम्यम् ।
नाशं प्रयास्यति ममेह शीलविपत्तिरिर्ष्यमददोषैः ॥ २०५ ॥
रत्नाकरो यथ विलुप्तः स्थास्यति पद्मिनीव परिशुष्का ।
यूप वररत्नमयं भग्नं नश्यति शासनं चरिमकाले ॥ २०६ ॥
प्रेतादृशश्चरिमकाले धर्मविलोप वर्ततो सुघोरः ।
ते चापि भिक्षव अदान्ता नाशयितारः शासनं ममेदम् ॥ २०७ ॥
म चर्यसेवनिरतानां दूरत संगतिः क्वचन तेषाम् ।
प्रेतगतिर्न्रकेऽपि च वासः तिर्यगतिश्च इतो हि च्युतानाम् ॥ २०८ ॥
(वैद्य, र्प्१४०)
अनुभूय तीव्रकटुकानि दुःखमनन्त वर्षशतमनेकैः ।
लब्ध्वा स मानुषभवं वा जायति दुःखितः सतत शोच्यः ॥ २०९ ॥
अन्धोऽथ वा बधिर काणो जायति चित्रगात्र सुविरूपा ।
बीभत्सरूपभयदर्शी पापचरीमिमां सतत सेवी ॥ २१० ॥
विश्रम्भतेऽस्य न च कश्चित्श्रद्दधतेऽस्य चापि न च वाक्यम् ।
निर्भर्स्तितो भवति नित्यं योऽभिनिषेवते विषमचर्याम् ॥ २११ ॥
ते रोगदुःखशततप्तास्ताडित लोष्टकाष्ठप्रहरेभिः ।
क्षुत्तृष्ण येन परितप्तास्ते च भवन्ति सदा सुपरिभूताः ॥ २१२ ॥
दुःखा अनन्त इति ज्ञात्वा दूर पापचर्यं विजहित्वा ।
सेवेथ साधुचरि नित्यं मा भवितानुताप इह पश्चात् ॥ २१३ ॥
यस्य प्रियो भवति बुद्धो आर्यगणश्च शिक्ष धुतधर्माः ।
अभियुज्यथा सततमेवं त्यक्त्व च ज्ञात्रलाभयशकीर्ति ॥ २१४ ॥
मायोपमं हि (भि ?) दुरमेतत्स्वप्नसमं च संस्कृतमवीक्ष्यम् ।
नचिराद्भविष्यति वियोगः सर्वप्रियैर्न नित्यमिह कश्चित् ॥ २१५ ॥
उद्युज्यतां घटत नित्यं पारमितासु भूमिषु बलेषु ।
मा जातु संशयत वीर्यं यावन्न बुध्यथा प्रवरबोधिम् ॥ २१६ ॥

निदानपरिवर्तः प्रथमः ॥

द्वितीयः परिवर्तः ।

यद्भूयसा राष्ट्रपाल बोधिसत्त्वयानीयानां पुद्गलानामिमे दोषा भविष्यन्ति - अनभियुक्ता अनभियुक्तान् पूजयिष्यन्ति, शठाः शठान् पूजयिष्यन्ति, अज्ञा अज्ञान् सत्कर्तव्यान्मन्यन्ते, आमिषप्रियाश्च भविष्यन्ति । अध्यवसाने बहुलाः कुलमत्सराः शठा ध्वाङ्क्षा मुखराः कुहकाः क्षात्रगुरुकाः । अन्योन्यवर्णभाषणतया लाभं निष्पादयिष्यन्ति । लाभपर्येष्ट्यर्थं च ते ग्रामं प्रवेक्ष्यन्ति, न सत्त्वपरिपाकार्थं न सत्त्वानुकम्पार्थम् । ते अज्ञानिनो ज्ञाननिमित्तमात्मानं प्रतिज्ञास्यन्ति - कथं मां परे विजानीयुः ? बहुश्रुतः कल्याणधर्म इति । अगौरवाश्च भविष्यन्ति यथात्रानभियुक्ताः । भिन्नभाजनीभूता भविष्यन्ति अन्योन्यस्खलितगवेषिणः । नष्टप्रयोगा अज्ञाः कुसीदाज्ञाना नवकल्पनबहुलाः । अन्योन्यभिन्नधर्मसंगायनतया स्वच्छन्दा दृढवैरा आकीर्णव्यापादा अयुक्तपरिभाषाञ्जनसंज्ञप्त्या इह शासने चरिष्यन्ति आपरिपृच्छनशीलाः । धर्मश्रवणेनानर्थिकाः । अयुक्तचर्यया दरिद्रकुलेषूपपत्तिं परिगृहीष्यन्ति । ते दरिद्रकुले प्रव्रजिताः समाना लाभमात्रकेनेह शासने तुष्टिमुत्पादयिष्यन्ति । तेषामत्ययदेशनापि न भविष्यति किं पुनर्ज्ञानाभिसमयः । ते बुद्धगुणान् रिचित्वा ज्ञात्रलाभमात्रकेन श्रव(म)णाः स्म इत्यात्मानं प्रतिज्ञास्यन्ति । नाहं राष्ट्रपाल तेषां तथारूपाणां (वैद्य, र्प्१४१) पुद्गलानामानुलोमिकामपि क्षान्तिं वदामि कुतः पुनर्बुद्धज्ञानम् । सुगतिस्तेषां दूरे, किं पुनर्बोधिः । तेषां पुना राष्ट्रपाल तथारूपाणां पुद्गलानामष्टौ
बोधेः परिपन्थकरान् धर्मान् वदामि । कतमानष्टौ ? अपायोपपत्तिः दरिद्रकुलोपपत्तिः प्रत्यन्तजनपदोपत्तिः नीचलुकोपपत्तिर्दुर्वर्णतान्धत्वगतिकाः पापमित्रसमवधानं बहुमान्यता विषमापरिहारेण कालक्रियाः । इमान् राष्ट्रपाल अष्टौ धर्मान् बोधेः परिपन्थकरान् वदामि । तत्कस्य हेतोः ? नाहं राष्ट्रपाल वचनप्रतिज्ञस्य बोधिमिति वदामि । न कुहकस्य चर्यापरिशुद्धिं वदामि । न शठस्य बोधिचर्यां वदामि । नामिषगुरुकस्य बुद्धपूजां वदामि । नाभिमानिनः प्रज्ञापरिशुद्धिं वदामि । नाहं दुष्प्रज्ञसमन्वागतस्य संशयच्छेदनं वदामि । नाहं मत्सरिण आशयपरिशुद्धिं वदामि । नाहमनधिमुक्तिबहुलस्य धारणीप्रतिलाभं वदामि । नाहमसद्गुणपर्येषकस्य सुगतिप्रतिलाभं वदामि । न कुलमत्सरस्य कायपरिशुद्धिं वदामि । नाहमकल्पितार्यपथस्य बुद्धसमवधानं वदामि । न कुलाध्यवसितस्य वाक्परिशुद्धिं वदामि । न गौरवस्य चित्तपरिशुद्धिं वदामि । नाहममात्रज्ञस्य धर्मकामतां वदामि । न कायजीवितसापेक्षस्य धर्मवेष्टिं वदामि । नाहं राष्ट्रपाल षटशास्तॄंस्तथा विगर्हामि यथा तान्मोहपुरुषान् विगर्हामि । तत्कस्य हेतोः ? अन्यथावादिनस्ते अन्यथाकारिणः, विसंवादकाः सदेवकस्य लोकस्य ॥

अथ खलु भगवंस्तस्यां वेलायामिमा गाथा अभाषत -

असंयता उद्धत उन्नताश्च अगौरवा मानिन लाभौत्सदा ।
क्लेशाभिभूताः सखिलाः सकिंचनाः सुदूर ते तादृश अग्रबोधये ॥ २१७ ॥
लाभाभिभूतस्य कुसीद वर्धते कुसीदभूतस्य प्रनष्ट श्रद्धा ।
श्रद्धाविपन्नस्य प्रनष्ट शील दुःशीलभूतस्य प्रनष्ट संगतिः ॥ २१८ ॥
दरिद्रभूताश्च हि प्रव्रजित्वा दारिद्य्रमुक्तां समवाप्य पूजाम् ।
तैः काञ्चनो भारमिवापविद्धः स सस्यभारः पुनरुद्गृहीतः ॥ २१९ ॥ लाभार्थिकोअरण्यमुपैति वस्तुं गवेषते तत्र गतश्च ज्ञातीन् ।
अभिज्ञविद्याप्रतिभानसंपदो विहाय गृह्णाति स चापि ज्ञातीन् ॥ २२० ॥
अपायभूमिं गतिमक्षणेषु दरिद्रतां नीचकुलोपपत्तिम् ।
जात्यन्धदौर्बल्यमथाल्पस्थामतां गृह्णन्ति ते मानवशेन मूढाः ॥ २२१ ॥
ते वृत्तिचर्यापरिहीनभावाः प्रमादलाभेन स्मृतिप्रनष्टाः ।
घोरं प्रयास्यन्ति महाप्रपातं यतो न मोक्षोऽस्त्यपि कल्पकोटिभिः ॥ २२२ ॥
यदीह लाभिन भवेत बोधिस्तद्देवदत्तोऽपि लभेत बोधिम् ।
वैरम्भवातेन यथैव पक्षी क्षिप्यन्ति लाभेन तथा अयुक्ताः ॥ २२३ ॥
पुण्यैर्विहीनाः परदारगृद्धा अशुद्धशीलाः कुशलेषु बोद्दरः ।
ते शासनेऽनर्थश्मशानदारुवत्ये बोधिचित्तेन अलब्धज्ञानाः ॥ २२४ ॥
बोध्यर्थिकोऽन्वेषति बुद्धधर्मान्न तिष्ठते चापि यथा समोक्षः ।
दृढाः स लेपेन कृतः कपिर्वा मानाभिभूतस्य तथैव बोधिः ॥ २२५ ॥
(वैद्य, र्प्१४२)
बोध्यर्थिकेनापि मया स्वजीवं त्यक्तः प्रियः धर्मपदस्य हेतोः ।
त्यक्त्वा च धर्मांस्त अयुक्तयोगाः निरर्थभूता निपतन्ति शासनम् ॥ २२६ ॥
महाप्रपातं ज्वलितं हुताशनं सुभाषितार्थे पतितोऽस्मि पूर्वे ।
श्रुत्वा च तस्मिन् प्रतिपत्तिये स्थितो विहाय सर्वाणि प्रियाप्रियाणि ॥ २२७ ॥
श्रुत्वा गुणाढ्यं च विचित्रशासनं तेषां स्पृहा नैकपदेऽपि जायते ।
अधर्मकामस्य कुतोऽस्ति बोधिः यथैव चान्धस्य पथि प्रकाशनम् ॥ २२८ ॥
इति ॥

भूतपूर्वं राष्ट्रपाल अतीतेऽध्वन्यसंख्यएयैः कल्पैरसंख्येयतरैरचिन्त्यैरतुल्यैरप्रमाणैर्विपुलैरप्रमेयैर्यदासीत् । तेन कालेन तेन समयेन सिद्धार्थबुद्धिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान् । तेन च समयेन अर्चिष्मान्नाम राजाभूत् । अर्चिष्मतः पुना राष्ट्रपाल राज्ञो जम्बूद्वीपे राज्यमभूत्षोडशयोजनसहस्राणि । तेन च राष्ट्रपाल कालेन तस्मिन् जम्बूद्वीपे विंशतिनगरसहस्राण्यभूवन् सर्वाणि कुलकोटिसहस्रिकाणि । तस्य खलु पुना राष्ट्रपाल राज्ञोऽर्चिष्मतो रत्नप्रभासं नाम नगरमभूद्राजधानी यत्र स राजा अर्चिष्मान् प्रतिवसति द्वादशयोजनान्यायामेन पूर्वेण पश्चिमेन च, सप्त योजनानि विस्तरेण दक्षिणेनोत्तरेण च, सप्तानां रत्नानां च सप्तप्राकारमष्टापदसुकृतम् । तेन च समयेन दशवर्षकोटिनियुतानि सत्त्वानामायुःप्रमाणमभूत् । राज्ञः पुना राष्ट्रपाल अर्चिष्मतः पुण्यरश्मिर्नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः । तस्य जातमात्रस्यैव निधानसहस्रं प्रादुर्भूतम् । सप्तानां रत्नानामेकं चात्र निधानं राज्ञः प्रासादे प्रादुर्भूतं दशपौरुषप्रमाणं सप्तानां रत्नानाम् । तस्य खलु पुना राष्ट्रपाल पुण्यरश्मे राजकुमारस्य जातामात्रस्यैव सर्वे जाम्बूद्वीपकाः सत्त्वा आत्तमनसोऽभूवन् । ये च सत्त्वा बन्धनगतास्तेषां बन्धनमोक्षोऽभूत् । तेन खलु पुना राष्ट्रपाल पुण्यरश्मिना राजकुमारेण सप्तभिर्दिवसैः सर्वशिल्पान्यधिगतानि यावन्ति लौकिकानि ॥

अथ खलु राष्ट्रपाल पुण्यरश्मे राजकुमारस्य शुद्धावासकायिका देवता अर्धरात्रकालसमये संचोदयन्ति स्म - अप्रमत्तेन ते कुमार सदा भवितव्यम् । अनित्यताप्रत्यवेक्षणकुशलेन भवितव्यम् । अल्पं हि कुमार जीवितं मनुष्याणाम् । गमनीयः संपरायः । परलोकभयदर्शिना च ते भवितव्यं न सर्मक्रियोद्धुरेण । तस्यां वेलायामिमा गाथा अभाषत -

मा कुमार भव सुप्रमत्तको मा प्रमादवशमभ्युपेष्यसे ।
अप्रमाद सुगतेन वर्णितो निन्दिता हि सुगतैः प्रमत्तकाः ॥ २२९ ॥
अप्रमत्त इह ये च सूरता दानसंयमरता अमत्सराः ।
सर्वसत्त्वकृपमैत्रमानसा ते भवन्ति नचिरान्नरोत्तमाः ॥ २३० ॥
येऽप्रमेय सुगता अतीताः सांप्रतं च हि येऽप्यनागताः ।
सर्वएव कुशलैस्त उद्गता अप्रमादपथ एव सुस्थिताः ॥ २३१ ॥
अन्नपानमथ वस्त्रभोजनं हेमरूप्यमणिभूषणम् ।
दत्तं तैरपि च कल्पकोटियः प्रार्थयद्भिरिह बोधिमुत्तमाम् ॥ २३२ ॥
(वैद्य, र्प्१४३)
हस्तपादमथ कर्णनासिका याचिता ददति संप्रहर्षिताः ।
सर्वबोधिगुणपूरिताशयाः ते भवन्ति नचिरान्नरोत्तमाः ॥ २३३ ॥
रज्यसौख्यविभवांश्च सर्वशो विप्रहाय दयिताः स्रियोऽपि च ।
रङ्गमायसदृशं हि संस्कृतं संश्रयस्व वनमेव निःस्पृहः ॥ २३४ ॥
जीवितं चपलमध्रुवं सदा मृत्तिकाघटक एव भेदि च ।
याचितोपममशाश्वतं सदा नात्र नित्यमशुभं कुमारक ॥ २३५ ॥
नेह मात्र न पिता न बान्धवा धारयन्ति यतमान दुर्गतिम् ।
यत्कृतं हि शुभाशुभं तत्प्रायन्तमनुयाति पृष्ठतः ॥ २३६ ॥
कामहेतु बहुकल्पसागरा अन्यमन्यवधिता निरर्थकाः ।
कस्यचिन्न च कृतं त्वया हितं व्यर्थ एव च निवेशितः श्रमः ॥ २३७ ॥
अद्य ते जगत एषतो हितं बोधिशान्तमतुलं पदोत्तमम् ।
मज्जमांसमपि चर्म शुष्यते यद्यपि त्वमपि मा कृथा श्रमम् ॥ २३८ ॥
दुर्लभो हि सुगतस्य संभवः शान्तधर्मश्रवणं सुदुर्लभम् ।
मारपक्षमवधूय यत्नतो बुद्धज्ञान नचिरेण लप्स्यसे ॥ २३९ ॥
भद्रमित्रपरिसेवकः सदा पापमित्रपरिवर्जको भव ।
सत्पथे उपनयन्ति ते सदा दुष्पथा च सततं निवारकाः ॥ २४० ॥
साधु वीर्यमपि कृत्व सुस्थिरं कायजीवितस्पृहां विहाय च ।
वज्रकल्पहृदया दृढाश्रया बुद्धमार्गमिममेव सुश्रुतम् ॥ २४१ ॥
दुर्लभं पदवरं ह्यनुत्तरं सर्व एव पुरिमा नरोत्तमा ।
अरण्यगोचररताः प्रभंकराः तेष त्वं चर पथेऽनुवर्तकः ॥ २४२ ॥
अरण्यवासनिरतः सदा भव मातृपुत्रपितृबान्धवान् प्रियान् ।
विप्रहाय सकलं सुहृज्जनं कायजीवितकृतामपि तृष्णाम् ।
एषताद्य विपुलं सुगतज्ञानसंचयमेषता पदवरं ह्यनुत्तरम् ॥ २४३ ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तत उपादाय दशभिर्वर्षैर्न जातु स्त्यानमिद्धमवक्रामितवान्, न जातु हसितवान्, न क्रीडितो न रमितः, न परिचारितो न जातूद्यानभूमिं गतो न जातु सखायान् दृष्ट्वा विस्मितः । न जातु गीताभिलाष्यभूत् । न राज्यधनगृहनगरेषु स्पृहामुत्पादितवान् । एवं सर्ववस्तुषु अनपेक्षोऽभूत् । एकः प्रध्यायमानः स्थितोऽभूत्प्रतिसंलीनः परमदौर्बल्यभावं विचिन्तयन् । असारमित्वरं च लोकमनाश्वसन् । अप्रियसमवधानं प्रियविनाभावं बालोल्लापनं संसाररतिनिरास्वादं राज्यसुखं विमोघधर्मं (वैद्य, र्प्१४४) भवाभीष्टं शमतृप्तं पृथग्जनत्वं सदा विरुद्धम् । बालायुक्तजनमध्यगतोऽस्मि यन्न्वहं तूष्णीभावेनातिनामध्येयम् । स एकान्ते तूष्णीभूतः अप्रमादं विचिन्तयन् प्रियविनाभावमेकाकी विहरति स्म ॥

अथ खलु राष्ट्रपाल राज्ञार्चिष्मता अन्यतरस्मिन् पृथिवीप्रदेशे रतिप्रधानं नाम नगरं मापितमभूत्कुमारस्य परिभोगार्थम् । दक्षिणेनोत्तरेण च सप्त वीथीशतानि, सप्तभिः प्राकारैः समन्ततोऽनुपरिक्षिप्तमभूत्सप्तरत्नमयैः किङ्किणीजालसमुच्छ्रितैर्मुक्ताजालरत्नयष्टिवितानैः । सर्वेषु च वीथीमुखेषु अशीतिरत्नयष्टिसहस्राणि स्थापितान्यभूवन् । सर्वस्या च रत्नयष्टयां यष्टिरत्नसूत्रसहस्राणि निबद्धान्यभूवन् । सर्वत्र च रत्नसूत्रे चतुर्दश तालपङ्क्तिकोट्यो निबद्धान्यभूवन्, यासां वातेनेरितानां वातसंघट्टितानां तद्यथापि नाम तूर्यशतसहस्रस्य घोषशब्दः स्यात् । सर्वेषु च वीथीमुखेषु पञ्च पञ्च कन्याशतानि स्थापितान्यभूवन् गीतकुशलानि नृत्तकुशलानि प्रथमयौवनप्राप्तानि सर्वजगत्परिभोग्यानि । तासां च राज्ञार्चिष्मता आज्ञा दत्ताभूत्- रात्रिदिवं भवन्तीभिर्नान्या क्था कार्यामन्यत्र नृत्तगीतवादितेन । सर्वे रञ्जयितव्या ये केचिच्चतुर्षु दिक्ष्वागच्छन्ति । अप्येवं नाम कुमारस्य रतिचित्तमुत्पद्येत । न च कस्यचित्सत्त्वस्यापनायं वक्तव्यम् । तेषु च पुनः सर्ववीथीमुखेषु अन्नमन्नार्थिकेभ्यो दीयते, पानं पानार्थिकेभ्यः, यानं यानार्थिकेभ्यो यावद्वद्वस्त्रगन्धमाल्यविलेपनशय्योपाश्रयजीवितपरिष्कारं सुवर्णरूप्यमणिमुक्तावैडूर्य शङ्खशिलाप्रवालजातरूपरजत हस्त्यश्वशोधनं सर्वाभरणं रत्नराशयश्च स्थापिता अभूवन् सर्वजनपरिभोगार्थम् । तेन च समयेन मध्ये नगरस्य समन्ततो योजनं गृहं कुमारस्य मापितमभूत्परिभोगाय सप्तानां रत्नानामष्टापदनिबद्धं तोरणसप्तप्रतिमण्डितम् । तत्र चैकः प्रासादः कारितोऽभूत्, यत्र चतस्रः शयनकोट्यः प्रज्ञप्तमभूत्कुमारस्य परिभोगार्थम् । तत्र च मध्ये उद्यानं
मापितमभूत्सर्वपुष्पवृक्षसर्वफलवृक्षसर्वरत्नवृक्षप्रतिस्फुटं संछादितमभूत । तस्य खलु पुना राष्ट्रपाल उद्यानस्य मध्ये पुष्करिणि कारिताभूत्सप्तरत्नमयी चतूरत्नसोपानी, तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य । अष्टोत्तरं च सिंहमुखशतं येन गन्धोदकं प्रविशति तस्याः खलु पुनः पुष्करिण्याः । अष्टशतमेव सिंहमुखानां येन पुनरेव तद्वारि निर्वहति । उत्पलपद्मकुमुदपुण्डरीकैः सततसमितं संपुष्पिता समन्ततश्च रत्नवृक्षपरिवारिता सर्वकालिकैश्च पुष्पफलवृक्षैः परिस्फुटा । तस्याः पुष्करिण्याः तीरे अष्टशतं रत्नवृक्षाणां मापितमभूत् । सर्वस्मिन् रत्नवृक्षे षष्टिषष्टि रत्नसूत्राणि निबद्धानि । सर्वत्र च तालपङ्क्तिकोट्यो निबद्धाः । तासां च वातेनेरितानां वातसंघट्टितानां शब्दो निश्चरति तद्यथापि नाम तूर्यशतसहस्रस्य संप्रवादितस्य । सा च पुष्करिणि उपरिरत्नजालसंछादिताभूत्, मा कुमारस्य रजो पांशुर्वा शरीरे निपतिष्यतीति ॥

तेन च समयेन तस्मिन् प्रासादे चतस्र आसनकोट्यः प्रज्ञप्ता अभूवन् सप्तरत्नमय्यः । सर्वस्मिंश्चासने पञ्च पञ्च दूष्यशतानि प्रज्ञ्प्तान्यभूवन् । तत्र च मध्ये आसनं प्रज्ञप्तं सप्तरत्नमयं सप्तपौरुषमुच्चत्वेन अशीतिदूष्यकोटिभिः प्रज्ञप्तम्, यत्र पुण्यरश्मी राजकुमारो (वैद्य, र्प्१४५) निषेत्स्यत इति । सर्वत्र चासनमूले अगरुगन्धघटिका धूप्यते । त्रिष्कृत्वो दिवसस्य त्रिष्कृत्वो रात्रेः पुष्पसंस्तरः क्रियते । सुवर्णछदनाच्छादितं सुवर्णपद्मप्रलम्बितं मुक्ताजालविततं मणिरत्नप्रभावभासितमशीतिसहस्रप्रलम्बितम् । सर्वत्र च रत्नवृक्षे पताकाशतानि प्रलम्बितान्यभूवन् । सर्वत्र चोद्याने नवतिर्मणिरत्नशतसहस्राणि योजनप्रभाणि स्थापितान्यभूवन्, तेषां च प्रभया सर्वलोकोऽवभासितोऽभूत् । तस्मिन् पुना राष्ट्रपाल उद्याने शुकसारिकक्रोञ्चकोकिलमयूरहंसचक्रवाककुनालकलविङ्कजीवंजीवका मनुष्यप्रलापिनः पक्षिणोऽभूवन् । येषां निकूजितानि नदतां नन्दने देवानामिव मदनीयः शब्दो निश्चरति । कुमारस्य च परिभोगार्थं पञ्चरसशतप्रकाराणि भोजनानि सततसमितमभिसंस्कृतान्यभूवन् सर्वाकारसंपन्नानि ॥

तेन च पुनः समयेन विंशवर्षाः समानाः षोडशवर्षातिक्रान्ताः कुमारकाः सर्वनगरेभ्यः समुदानीय तत्र च नगरे प्रवेशिता अभूवन् सर्वशिल्पस्थानकर्मस्थानविधिज्ञाः । सर्वलोइकिकरत्युपकरणविधिज्ञानामशीतिकोट्यः तस्मिन्नगरे प्रवेशिता अभूवन् । तस्य मातापितृभ्यां कोटिः कन्यानां दत्ता, ज्ञातिसंघेन कोटिः, नैगमज्ञानपदैः कोटिः, सर्वराजेन कोटिः कन्यानां दत्ता अभूवन् । ताश्च सर्वा अभुरूपाः प्रासादिका दर्शनीयाः सर्वाः षोडशवर्षप्रमाणा जात्या गीतकुशला वाद्यकुशला नृत्तकुशला हसितकुशलाः पुरुषोपसंक्रमणकुशला आर्जवाः शिशवा मधुरा वृद्धयः पूर्वाभिलापिन्यः स्मितमुखाशोपचारकुशलाः सर्वकलासु विधिज्ञा नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिगौर्यो नातिश्यामाः । यासामुत्पलगन्धो मुधात्प्रवाति, चन्दनगन्धो गात्रेभ्यः प्रवाति । व्यक्तामिव देवकन्यकाः, एकान्तमनामयचारोण्यः । तासां मध्यगतः पुण्यरश्मी राजकुमारः संगीतिसंप्रभाणितेन तत्र च संगीतिशब्दे चैवं चित्तमुत्पादयति - महानमित्रसंघो बतायं मम प्रादुर्भुतः कुशलधर्मपरिमोषकः । हन्त अनपेक्षो भविष्यामि । स तस्मिन् समये स्याद्यथापि नाम वध्यः पुरुषो दृष्ट्वा न विस्मयचित्त मुत्पादयति, एवमेव पुण्यरश्मी राजकुमारः तां प्रमदां दृष्ट्वा न विष्मयति, नापि तत्र नगरे, न च सखीभिंर्विस्मयति स्म । तैश्च दशभिर्वर्षैर्न जातु रूपनिमित्तमुद्गृहीतवान् । न शब्दनिमित्तं न गन्ध निमित्तं न रसनिमित्तं न स्पर्शनिमित्तमुद्गृहीतवान् । अन्यत्रैवंरूपं चित्तं प्रवर्तयते स्म - कदा
तावदेवंरूपादमित्रसंघमध्यान्मम मोक्षो भविष्यति ? कदाहमप्रमादचर्यां चरिष्यामि येन मे मोक्षो भविष्यति ? अथ खलु ताः कन्यकाः राज्ञोऽर्चिष्मत आरोचयन्ति स्म - न देव कुमारः क्रीडति, न रमते, न परिचारयति ? अथ खलु राष्ट्रपाल राजा अर्चिष्मानशीतिभी राजसहस्रैः सार्धं येन पुण्यरश्मी राजकुमारस्तेनोपसंक्रामत् । उपसंक्रम्याश्रुमुखः प्रवेपमानेन कायेन शोचमानो धरणितले प्रपतितः । स उत्थाय धरणितलात्पुण्यरश्मिं राजकुमारं गाथाभिध्यभाषत -

प्रक्षस्व पुत्रवररत्न मम प्रलापं शोकार्दितो निपतितोऽस्मि भुवि क्षपान्ते ।
केनाप्रियं तव कृतं मं तद्ब्रवीहि ज्येष्ठं ददामि यदिहास्य क्षणेन दण्डम् ॥ २४४ ॥
(वैद्य, र्प्१४६)
प्रेक्षस्व मेऽद्य नगरं सुरसंघरम्यं मनसा मयाभिरचित्तं यदिदं त्वदर्थे ।
किमिहाङ्गमद्य विकलं मम तद्वदाशु शक्रस्य वाद्य विभवं तव दर्शयामि ॥ २४५ ॥
शोकार्दितं कमललोचनचारुनेत्रं स्त्रीसंघमप्सरसमं विलपन्तमीक्ष ।
एताभिरन्यैश्च रमस्व विनीय शोकं किं शल्यविद्ध इव ध्यायसि दीनवक्रः ॥ २४६ ॥
एताः स्वरङ्गरुचिराः सुरतेर्विधिज्ञाः संगीतितालसमये च विनिश्चयज्ञाः ।
कालस्तवाद्य सुरतस्य न शोचितस्य म्लानं सरोरुहमिवासि किमद्य दीनः ॥ २४७ ॥ उद्यानपुष्पफलपत्रविकीर्णशाखा उद्विद्धचित्रमिव चित्ररथं सुराणाम् ।
संचिन्तयस्व प्रथमं हि वयस्तवेदं कालो रते रम इहाद्य सुत प्रसीद ॥ २४८ ॥
तुल्या तवेयमपि पुष्करिणी सुराणां स्नानार्थमुत्पलसरोजवनाभिकीर्णा ।
पद्मानि मत्तवरषट्पदभूषितानि संचिन्त्य तां क इह नाभिरमेत पुत्र ॥ २४९ ॥
हंसा मयूरशुकसारिककोकिलाश्च कोणालजीवकलविङ्क मनोज्ञघोषाः ।
गन्धर्वमादन इवा हिमवत्समीपे श्रुत्वा नरः क इह नात्र रतिं लभेत ॥ २५० ॥
एता विमानमणिचूडसमुक्तजाला वैडूर्यकाञ्चनचिता इव वैजयन्ते ।
रत्नासनानि च वराणि वरास्तृतानि चारुस्वरा कनककङ्कणतालपङ्क्त्यः ॥ २५१ ॥ गम्भीरधीरवरतूर्यनिनादघुष्टा वीथीषु दानविसरास्तव चापि हेतोः ।
कन्याः सहस्रबहुगीतरुताः क्रियन्ते श्रूयन्ति नन्दनवनेऽप्सरसां यथैव ।
(वैद्य, र्प्१४७)
कस्मान् त्रिविष्टपसमे भवने मनोज्ञे विक्षिप्तचित्त इह किं न रतिं करोषि ॥
२५२ ॥
एते कुमार तव देवसमानगर्भाः क्रीडासखाय सह पुत्र रमस्व चैभिः ।
माता पिता च तव संस्थित साश्रुकण्ठाः किं दुःख नास्ति करुणा च जने तवास्मिन् ॥ २५३ ॥
सोऽथाब्रवीद्गुणचितो भवदोषदर्शी निर्विण्ण संस्कृतमनर्थिक कामभोगैः ।
संसारपञ्चरगतं जगदीक्ष्यं चेदं मोक्षार्थिकः पितरमाह शृणुष्व देव ॥ २५४ ॥
देवाप्रियं मं कृतं न हि केनचिन्मे किं त्वस्ति मेऽद्य न हि कामगुणेषु छन्दः ।
सर्वे प्रियां रिपुसमा हि निरानुरक्ता ये क्लेशदुर्गतिप्रपात प्रपातयन्ति ॥
२५५ ॥
एताः स्त्रियो ह्यबुधबालजनाभिरामा मारस्य पाशगुणबद्ध महाप्रपाताः ।
नित्यं तथा विगर्हित आर्यजनेन चैताः सेवामि किं नरकदुर्गतिशोकमूलाः ॥
२५६ ॥
एताः स्त्रियो हि छविमात्रकरूपरभ्याः स्नाय्वस्थियन्त्रमशुचीभि निरर्थकोऽहम् ।
प्रस्राविणी रुधिरमूत्रशकृन्मलानां व्यक्तं श्मशानसदृशीषु कथं रमेयम् ॥ २५७ ॥
गीतं न श्रोष्यमपि वाद्यरुतं न ग्राह्यं स्वप्नाय माभिरतयोऽबुधमोहनाश्च ।
संकल्पलालस गता अबुधा तु नाशं किं क्लेशदास इव बालजनो भविष्ये ॥ २५८ ॥
सर्वे इमे द्रुमलता शिशिरे प्रवृत्ते कान्तारवृक्षसदृशा हि भवन्त्यरम्याः ।
सर्वश्रियो विधमनी हि अनित्यतेयं मोहात्प्रमादमुपयामि चले तु जीवे ॥ २५९ ॥
चित्तं समुद्र इव तर्पयितुं न शक्यं तृष्णाप्रवृत्तिनिरतः पुनरेव काङ्क्ष ।
(वैद्य, र्प्१४८)
अन्योन्यघाति जगदीक्ष्य हि कामहेतोः मेरुर्यथैव पवनैरहमप्रम्प्यः ॥ २६० ॥
न त्वं पिता न सहजा मम नापि भार्याः त्राता न बान्धवजना नृपते ह्मपायात् ।
सर्वे वयं तृणगता इव बिन्दुलेखा मा तात चित्तवशगा भवतां प्रमत्ताः ॥ २६१ ॥
धिग्यौवनेन मनुजेश्वर यन्न नित्यं धिग्जीवितस्य गमनं गिरितोयशीघ्रम् ।
धिक्संस्कृतं क्षयमिदं तडिदभ्रलोलं धिक्कण्डितस्य त्रिभवे नृप कामरागः ॥ २६२ ॥
संचोदितोऽस्मि विबुधैर्भव अप्रमत्तो नो बोधिसत्त्व भवते विषयाभिलग्नः ।
बुद्धो भवेयमिह लोकहितानुकम्पी नास्ति प्रमादचरितस्य नरेन्द्र बोधिः ॥ २६३ ॥
कामातुरो भवति यो नृप चित्तदासः स हि पुण्यनाशनिरतो विनिवृत्तस्वर्गः ।
हिंसासमिद्धमपि नाभिचरेत जातु पक्षीव पञ्जरगतः कथमाश्वसेत ॥ २६४ ॥
धातूश्च सर्पसदृशा वधकाश्च स्कन्धाः चित्तं च सास्रवमनर्थक शून्य ग्रामः ।
विषस्तम्बपुष्पित इवेह नरेन्द्र कायः ओघेऽतिरुह्यति कथं नु रतिर्ममात्र ॥ २६५ ॥
संप्रेक्षसे जगदिदं कुगतिप्रपन्नं व्यक्तं पदं गगनतुल्यमपि ज्वलन्तम् ।
तेषां प्रमोक्षणनिमित्तमिहाद्य राजन् शिवधर्मनाव समुदानयितास्मि शीघ्रम् ॥ २६६ ॥
सुप्तान् विबोधयितुमातुर जीवितार्थं शल्य निमूलयितुमुत्पथगान् विनेतुम् ।
प्रोद्घुष्य बन्धनबिमोक्ष महासहस्रे संतर्पयंश्चिरदरिद्र सुभाषितेन ॥ २६७ ॥
सीदन्त दुर्गतिपथादपि चोद्धरिष्ये अन्धे चक्षुरपि तृष्णलताविशोषी ।
(वैद्य, र्प्१४९)
प्रज्ञार्चिरुत्तमविमुक्तिकृतप्रदीपो द्रक्षन्ति येन त्रिभवं नटरङ्गकल्पम् ॥ २६८ ॥
मेघं कृपाकरुणपारमिताभ्रकूटं सत्त्वार्थगर्जित विपश्यनविद्युमाली ।
बोध्यङ्गधारसुखशीतलवृष्टिजालैः शीतीकरोमि च जगच्चिरकालतप्तम् ॥ २६९ ॥
एतत्स्मरन्नहमिह क्षितिशोपविष्टो नास्तीह मे प्रणिधि संस्कृतसर्वकामैः ।
बोध्यर्थिको हि विचरामिह सत्त्वहेतोः एकांशिको न हि भवाभिरतौ ममेच्छा ॥ २७० ॥
जानन् वसेत्क इह पार्थिव शत्रुमध्ये को बुद्धिमान् सभयमार्गपथं व्रजेत ।
को वा सचक्षुरिह तात पतेत्प्रपाते को बोधिमार्गमधिगम्य भवेत्प्रमत्तः ॥ २७१ ॥
अनुस्रोत सर्वजगती प्रतिस्रोता सोऽहं वाचा न शक्यमिह पार्थिव बोधि प्राप्तुम् ।
मेरुप्रयातमपि सागरमुत्सहेयं न त्वेव मे मन इहाभिरमेत कामैः ॥ २७२ ॥
गच्छाशु पार्थिव वरस्वजनेन सार्धं सर्वां हि राष्ट्ररतिमुत्सृज सर्वलोके ।
आदाय गच्छतु यथाभिमतं हि यस्य गृह्याप्रमाद मम तात न राज्यकोट्या ॥ २७३ ॥
शक्या न नारिगणमध्यगतेन बोधिः प्राप्तुं शिवं पदमनुत्तरयोगक्षेमम् ।
गच्छाम्यहं गिरिवनान्तरमाश्रयामि प्राप्ता ह्यरण्यनिरतेन जिनेन बोधिः ॥ २७४ ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारः प्रासादतलगत एव ताभिः प्रमदाभिः सार्धं चंक्रमन्नुद्विग्नमनाः संस्त्रिभिरीर्यापथैर्विहरति । कतमैस्त्रिभिः ? स्थानेन चंक्रमेण निषद्यया । स्त्यानमिद्धपरिवर्जितः उपरिप्रासादतलगतोऽष्टम्यां भूमौ स्थितः । सोऽर्धरात्रकालसमये अश्रोषीत्- अन्तरीक्षाच्छुद्धावासकायिका देवता बुद्धस्य वर्णं भाषमाणा गच्छन्ति, विस्तरेण धर्मस्य संघस्य वर्णं भाषमाणा गच्छन्ति । श्रुत्वा च राष्ट्रपाल पुण्यरश्मी राजकुमारः संहृष्टरोमकूपजातः अश्रु निपातयति । स संवेगजातोऽञ्जलिं कृत्वा तां देवतां गाथाभिरध्यभाषत -

(वैद्य, र्प्१५०)
मयि करुण जनित्वा देवता दुःखितेऽस्मिन् यदि न कुरुत मन्युं किंचिदेवाभिपृच्छे । कस्य गुण वदन्तो गच्छेतात्रान्तरीक्षे सुखितमिह मनो मे वाक्यमेतं निशाम्य ॥ २७५


अथ खलु राष्ट्रपाल ता देवताः पुण्यरश्मिराजकुमारं गाथाभिरध्यभाषन्त -

श्रवणमुपगतस्ते किं न बुद्धः कुमार शरणमशरणानां नाम सिद्धार्थबुद्धिः ।
परचरिकुशलोऽसौ पुण्यप्रज्ञागुणढ्यो दशनियुतसहस्राध्यायिनां तस्य संघः ॥ २७६ ॥

पुण्यरस्मिराह -

अहमपि जिन दृक्ष्ये कीदृशं तस्य रूपं वदत अपि च सर्वे कीदृशो चास्य वर्णः ।
अहमपि परिपृच्छे कीदृशी बोधिचर्या भवति यथ चरन् वै सर्वसत्त्वैकनाथः ॥ २७७ ॥

अथ खलु ता देवताः पुण्यरश्मिं राजकुमारं गाथाभिरध्यभाषन्त -

स्नुग्धरुचिकेशा दक्षिणावर्तजाता गिरिततमिव हैम शोभते चास्य चोष्णि ।
गगन इव च शून्यो भासते चास्य ऊर्णा स्फटिकमणिविशुद्धा दक्षिणा नाभि जाता ॥ २७८ ॥
भ्रमरगणविशुद्धा नेत्र नीलोत्पलाभा सिंहहनु नरेन्द्रओ बिम्ब ओष्ठः स्वयंभूः ।
सृजति च सहस्रं वै रश्मिकोटीरनन्तान् स्फुरति च त्रिसहस्रान् दुर्गतीः शोषयंश्च ॥ २७९ ॥
समसहितसुवृत्ता दन्त चित्र सुशुक्ला हिमरजतविशुद्धा विंशति द्वेगुणास्य ।
जिनवरप्रवरस्य तस्य दंष्ट्राश्चतस्रः स्वकमुखप्रतिच्छादा तस्य जिह्वा प्रभूता ॥ २८० ॥
गिरि वरसहितार्था तस्य प्रल्हादनीया सहित अकुटिला च ब्रम्हघोषा सुयुक्ता ।
तूर्यशतसहस्रैर्वाग्जिनस्यार्हतुल्या विमतिशमकरी सा तोषणी अर्थिकानाम् ॥ २८१ ॥
(वैद्य, र्प्१५१)
अविकलगुणचित्रा बोधि अङ्गानुकूला हारशतसहस्रा गुम्फिता धर्ममाला ।
तूर्यरतिविघुष्टा देवतागीतरम्या अमररुचिस्वरा वै ह्लादनी वाग्जिनस्य ॥ २८२ ॥
कीन्नरकलविङ्काकोकिलाचक्रवाका बर्हिणकलहंसाघोष कोनालकानाम् ।
ब्रम्हरुतनिर्घोषा किन्नराणां स्वराङ्गा अखलितमनवद्या सर्वार्थानुबोधा ॥ २८३ ॥
चित्रस्फटिकश्लक्ष्णा पण्डितानां मनापा चोदनी विनयनीया बोधनी प्रेमणीया ।
परचरिमनकूला तोषणी पृच्छमाना इमगुण वचना चैतस्य धर्मेश्वरस्य ॥ २८४ ॥
कम्बुरुचिर ग्रीवा शान्तसंवृत्तस्कन्धः । दीर्घपरिघ बाहू तस्य सप्तोत्सदाङ्गम् ।
कर रुचिरसुवृत्ता दिर्घवृत्ताङ्गुलीकाः तपितकनकवर्णं तस्य गात्रं जिनस्य ॥ २८५ ॥
रोम परिणताश्च दक्षिणो चैकजाता नाभि निखिल दुर्गा गुह्यकोशो हयो वा ।
ऊरु गजकरो वा एणजङ्घः स्वयंभूः करतल सुविचित्रा स्वस्तिकाश्चक्रचित्राः ॥ २८६ ॥
गजपतिगतिगामी सिंहविक्रान्तगामी वृषभललितगामी इन्द्रयष्टिप्रवृद्धः ।
गगनकुसुमवृष्टिः पुष्पछत्रा भवन्ति व्रजतिमनुव्रजन्ति धर्म एतेऽद्भुतस्य ॥ २८७ ॥
लाभ अथ अलाभे सौख्यदुःखे जिनस्य अयशसि यश एवं निन्दशंसासु चैवम् ।
जलरुहमिव तोयैः सर्वतो नोपलिप्तः एवमिह नृसिंहो नास्ति सत्त्वः समोऽस्य ॥ २८८ ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारः बुद्धस्य वर्णं श्रुत्वा, विस्तरेण धर्मस्य संघस्य वर्णं श्रुत्वा, तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत् ।
अथ खलु राष्ट्रपाल पुष्परश्मे राजकुमारस्यैतदभवत्- यादृशः संबुधो भगवान्, यादृशी चास्य संघसंपत्, यादृशश्च तेन धर्मः साक्षात्कृतः, यादृशी चास्य शिष्यसंपत्, यथा विषयसमवधानश्च (वैद्य, र्प्१५२) संसारः, यथाकृतज्ञश्च संसारः, यथाकॄतज्ञाश्च बालपृथग्जनाः, यथा विषमा च सत्कायदृष्टिः, यथा बह्वादीनवश्च गृहावासः, यथा बहुदोषाश्च कामाः, यथा गर्हितश्च पण्डितैः प्रमादः, यथा संमोहं चाविद्यान्धकारम्, यथा दुःप्रतिवेधाश्च संस्काराः, यथा दुर्दमं चित्रम्, यथा गम्भीरं नामरूपम्, यथानास्वादं षडायतनम्, यथा दुःखविपाकश्चापरिज्ञातः स्पर्शः, यथा बह्वादीनवा वेदनाः, यथा गाढबन्धना तृष्णा, यथा दुःप्रतिनिःसरणं चोपादानम्, यथानार्या भवतृष्णा, भवे सति यथा दुःखसमुच्छेद्या च जातिः, यथा विकारकरी च जरा, यथा विलोपकारकश्च व्याधिः, यथा निरुवुरक्तं च मरणम्, यथाल्पास्वादा च प्रवृत्तिः, यथा बह्वादीनवा च भवाभिनिर्वृत्तिः, यथा रमणीयं च तथागतशासनम्, नेदं शक्यं कामदासेन क्लेशसंमोहितेन चित्तखिलेन प्रमादाभिरतेन बालमध्यगतेनायोनिशश्चित्तेन संसाररक्तचित्तेन दुर्जनमध्यगतेन न शक्यं सुगतिपन्थानमपि विशोधयितुं कुतः पुनरनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् । तस्यैतदभूत्- यन्न्वहमित एव प्रासादात्प्राङ्भुखः प्रपतेयम्, मा मे द्वारेण निष्क्रमतो ज्ञातिसंघोऽन्तरायं कुर्यात् ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारो येन भगवान् सिद्धार्थबुद्धिस्थथागतस्तन्मुखस्ततः प्रासादादात्मानमुत्सृष्टवान्, एवं च भाषते स्म - सचेत्स तथागतः सर्वं जानाति सर्वं पश्यति, समन्वाहरतु मां तथागतः । अथ खलु राष्ट्रपाल सिद्धार्थबुद्धिस्तथागतोऽर्हन् सम्यक्संबुद्धो दक्षिणपाणिं प्रसार्य प्रभां प्रामुञ्चत्, यया पुण्यरश्मि राजकुमारः स्पृष्टोऽभूत् । तस्याश्च प्रभायाः शतसहस्रपत्रं पद्मं शकटचक्रप्रमाणमात्रं प्रादुर्भूतम् । तस्माच्च पद्मात्रश्मिशतसहस्राणि निश्चरन्ति स्म, महांश्चावभासोऽभूत्, येनावभासेन पुण्यरश्मी राजकुमारः स्फुटोऽभूत् । अह्त्खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तस्मिन् पद्मे स्थित्वा येन स भगवान् सिद्धार्धबुद्धिस्तथागतोऽर्हन् सम्यक्संबुद्धः, तेनाञ्जलिं प्रणम्य नमो बुद्धायेत्युदानमुदानयति स्म ॥

अथ खलु राष्ट्रपाल तेन सिद्धार्थबुद्धिना तथागतेन सा प्रभा प्रतिसंहृता । स च कुमारस्तस्य भगवतः पादमूले छिन्नापादप इव प्रपतितः शतसहस्रकृत्वस्तथागतं वन्दते स्म ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तं भगवन्तं गाथाभिरध्यभाषत -

मया चिरादद्य हि वैद्यराजः कृच्छ्रादवाप्तोऽद्य चिरातुरेण ।
आचक्ष्व मे नाथ कथं स्थितोऽहं लाभी भवेयं सुगतस्य शासने ॥ २८९ ॥
श्रुतो मया नायक अप्रमादो निशाम्य रात्रौ दिवि देवताभ्यः ।
श्रुत्वा च संविग्न हि आगतोऽहं कथं नराणां भवते प्रमादः ॥ २९० ॥
प्रनष्टमार्गस्य भवाद्य देशिको जात्यन्धभूतस्य भवाद्य चक्षुः ।
महाप्रपातादिह मां समुद्धर श्रद्धाकरा कारुणिका चिकित्सका ॥ २९१ ॥
दरिद्रभूतस्य कुरुष्व संग्रहं बद्धस्य मोक्षं कुरु मेऽद्य नाथ ।
ससंशयेभ्यो विमतिं च छिन्द चर्यां च मे व्याकुरु बोधिमार्गे ॥ २९२ ॥
(वैद्य, र्प्१५३)
तीर्थं च संदर्शय उह्यतो मे दीपं कुरुष्वापि ममान्धकारे ।
व्रणीकृतं मां हि कुरुष्व निर्व्रणं शल्यं च मे उद्धर वैद्यराज ॥ २९३ ॥
विमोच्य मां दुर्गतिसंकटात्त्वं भवोपलम्भग्रहणं निकृन्त ।
संतार मां शोकमहौघपारमष्टाङ्गमार्गेण महापथेन ॥ २९४ ॥
परीत्तमायुः क्षयधर्मि जीवितं बह्वन्तरायं कुशलं भवत्यपि ।
पुण्यस्य सिध्यत्यचिराद्विपाकः लब्धक्षणो मेऽद्य वदैकनिश्चयम् ॥ २९५ ॥
एतद्धि मे व्याकुरु लोकनाथ स्याद्बोधिसत्त्वो हि यथाप्रमत्तः ।
यथा चरन्नुत्तमबोधिचारिकां प्रमोचयेयं भवबन्धनाज्जगत् ॥ २९६ ॥

अथ खलु राष्ट्रपाल सिद्धार्थबुद्धिस्तथागतः पुण्यरश्मे राजकुमारस्याध्याशयं विदित्वा विस्तरेण बोधिचर्यां संप्रकाशयति, यं श्रुत्वा पुण्यरश्मिना राजकुमारेण विमोक्षा नाम धारणी प्रओलब्धा, पञ्चाभिज्ञाः प्रतिलब्धाः । स वैहायसे स्थित्वा पुष्पाण्यभिनिर्माय तं तथागतमभ्यवकिरति स्म, अभिप्रकिरति स्म ॥

अथ खलु राष्ट्रपाल पुण्यरश्मि राजकुमारस्तस्मादन्तरीक्षादवतीर्य तं भगवन्तं सिद्धार्थबुद्धिं तथागतं गाथाभिरभ्यष्टावीत्-

वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा ।
वन्दामि ते असमज्ञानधरा सदृशो न तेऽस्ति त्रिभवे विरजः ॥ २९७ ॥
मृदु चारु स्निग्ध शुभ केश जिना गिरिराजतुल्य तव चोष्णिरिह ।
नोष्णीषमीक्षितु तवास्ति समो विभ्राजते भ्रुवि वरेऽपि तवोर्ण मुने ॥ २९८ ॥
कुन्देन्दुशङ्खहिमशुभ्रनिभा नीलोत्पलाभशुभनेत्रवरा ।
कृपयेक्षसे जगदिदं हि यया वन्दामि ते विमलनेत्र जिना ॥ २९९ ॥
जिह्वा प्रभूत तनु ताम्रनि(भा) वदनं च छादयसि येनस्वकम् ।
धर्मं वदन् विनयसे च जगत्वन्दामि ते मधुरस्नुग्धगिरम् ॥ ३०० ॥
दशना शुभाः सुदृढ वज्रनिभाः त्रिंशद्दशाप्यविरलाः सहिताः ।
कुर्वन् स्मितं विनयसे च जगत्वन्दामि ते मधुरसत्यकथा ॥ ३०१ ॥
रूपेण चाप्रतिसमोऽसि जिना प्रभया च भासयसि क्षेत्रशतान् ।
ब्रम्हेन्द्रपाल जगतो भगवन् जिम्हीभवन्ति तव ते प्रभया ॥ ३०२ ॥
एणेयजङ्घ भगवन्न समा गजराजबर्हिमृगराजगतेः ।
ईक्षन् व्रजस्यति युगं भगवन् संकम्पयन् धरणिशैलतटम् ॥ ३०३ ॥
कायश्च लक्षणचितो भगवन् श्लक्ष्ण च्छवी कनकवर्णं तव ।
नेक्षन् जगद्व्रजति तृप्तिमिदं रूपं तवाप्रतिमरूपधर ॥ ३०४ ॥
त्वं पूर्व कल्पशतचीर्णतपा त्वं सर्वत्यागदमदानरतः ।
त्वं सर्वसत्त्वकृपमैत्रमना वन्दामि ते परमकारुणिक ॥ ३०५ ॥
(वैद्य, र्प्१५४)
त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढम् ।
त्वं ध्यानप्रज्ञप्रभतेजधरो वन्दामि ते असमज्ञानधर ॥ ३०६ ॥
त्व वादिशूर कुगणिप्रमथि त्वं सिंहवन्नदसि पर्षदि च ।
त्वं वैद्यराज त्रिमलान्तकरो वन्दामि ते परमप्रीतिकर ॥ ३०७ ॥
वाक्कायमानसविशुद्ध मुने त्रिभवेष्वलिप्त जलपद्ममिव ।
त्वं ब्रम्हघोष कलविङ्करवा वन्दामि ते त्रिभवपारगतम् ॥ ३०८ ॥
मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विदितम् ।
नात्मा न सत्त्व न च जीवगति धर्मा मरीचिदकचन्द्रसमाः ॥ ३०९ ॥
शून्याश्च शान्त अनुत्पादनय अविजानदेव जगदुद्भ्रमति ।
तेषामुपायनययुक्तिशतैरवतारत्यस्यपि कृपालुतया ॥ ३१० ॥
रागादिभिश्च बहुरोगशतैः संतापितं सततमीक्ष्य जगद् ।
वैद्योत्तमो विचरसेऽप्रतिमः परिमोचय सुगत सत्त्वशतान् ॥ ३११ ॥ जातीजरामरणशोकहतं प्रियविप्रयोगपरिदेवशतैः ।
सततातुरं च जगदीक्ष्य मुने परिमोचयन् विचरसे कृपया ॥ ३१२ ॥
रथचक्रवद्भ्रमति सर्वजगत्तिर्यक्षु प्रेतनिरये सुगतौ ।
मूढा अदेशिक अनाथगताः तेषां प्रदर्शयसि मार्गम् ॥ ३१३ ॥
ये ते बभूव पुरिमाश्च जिना धर्मेश्वरा जगति चार्थकराः ।
अयमेव तैः प्रकथितोऽर्यपथो यं देशयस्यपि विभोऽप्रतिमः ॥ ३१४ ॥
स्निग्धं ह्यकर्षय मनोज्ञ वरं ब्रम्हाधिकं परमप्रीतिकरम् ।
गन्धर्वकिन्नरवराप्सरसामभिभूय तां गिरमुदाहरसे ॥ ३१५ ॥ सत्यार्जवक्षयमुपायनयैः परिशोधितां गिरमनन्तगुणाम् ।
श्रुत्वा हि यां नियुतसत्त्वशता यानत्रयेण जिन यान्ति शमम् ॥ ३१६ ॥
तव पूजया सुखमनेकविधं दिव्यं लभन्ति मनुजेषु तथा ।
आढ्यो महाधन महाविभवो भवते जगद्धितकरो नृपतिः ॥ ३१७ ॥
वलचक्रवर्त्यपि च द्वीपपतिः जगदावृणोति दशभिः कुशलैः ।
रत्नानि सप्त लभते सुशुभां त्वयि संप्रसादजनकोऽप्रतिम ॥ ३१८ ॥
ब्रम्हापि शक्र अपि लोकपतिः भवते च संतुषितदेवपतिः ।
परिनिर्मितोऽपि च सुयामपतिः त्वत्पूजया भवति चापि जिनः ॥ ३१९ ॥
एवं ह्यमोघ तव पूज कृता संदर्शनं श्रवणमप्यसमम् ।
भवते जगद्विविधदुःखहरः स्पृशते परं पदवरं ह्यजरम् ॥ ३२० ॥
मार्गज्ञ मार्गकुशला भगवन् कुपथान्निवारयसि लोकमिमम् ।
क्षेमे शिवे विरज आर्यपथे प्रतिष्ठापप्यस्यपि जगद्भगवन् ॥३२१ ॥
(वैद्य, र्प्१५५)
पुण्याधिकस्य तव पुण्यनिधेः सतताक्षया भवति पुण्यक्रिया ।
बहुकल्पकोटीषु न याति क्षयं यावन्न संस्पृशति बोधिचराम् ॥ ३२२ ॥
परिशुद्ध क्षेत्र लभते रुचिरं परनिर्मिताभ सद प्रीतिकरम् ।
शुद्धाश्च कायवचसा मनसा सत्त्वा भवन्त्यपि च क्षेत्रवरे ॥ ३२३ ॥
इत्येवमादिगुण नैकविधान् लभते जिनार्चनकृतान्मनुजः ।
स्वर्गापवर्ग मनुजेषु सुखं भवते च पुण्यनिधि सर्वजगे ॥ ३२४ ॥
कीर्तिर्यशश्च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान् ।
संकीर्तयन्ति सुगताः सततं तव वर्णमाल पर्षत्सु जिना ॥ ३२५ ॥
विगतज्वरा जगति मोक्षकरा प्रियदर्शना परमकारुणिका ।
शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवरा ॥ ३२६ ॥
लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितस्तव निशाम्य गिरम् ।
भवितास्मि वीर सुगतौ प्रतिमः विभजिष्य धर्मममलं जगतः ॥ ३२७ ॥
स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतम् ।
पुण्यं यदर्जितमिदं विपुलं जगदाप्नुयादपि च बुद्धपदम् ॥ ३२८ ॥

अथ खलु राष्ट्रपाल राजा अर्चिष्मांस्तस्या रात्र्या अत्ययेनाश्रोषीत्कुमारस्यान्तःपुरे रुदितशब्दम् । श्रुत्वा च शीघ्रं त्वरमाणरूपो येन रतिप्रधानं नगरं तेनोपसंक्रामत् । उपसंक्रम्यैतदवोचत्- किं भवन्त्यो रुदन्ति ? ता अवोचान् - पुण्यरश्मी राजकुमारो न दृश्यते । अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यार्थे छिन्नपादप इन धरणीतले प्रपतितः । स उत्थाय धरणितलात्सहस्रशश्च तन्नगरं परिचरति रुदमानः । अथ खलु राष्ट्रपाल या तस्मिन्नगरे नगरदेवता सा राजानमर्चिष्मन्तमेतदवोचत्- गतो महाराज कुमारः पूर्वस्मिन् दिग्भागे सिद्धार्थबुद्धिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय ॥

अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यान्तःपुरेण सार्धं चतुरशीतिभिः प्राणकोटिनियुतशतसहस्रैर्येन पूर्वो दिग्भागस्तेनोपजगाम । येन सिद्धार्थबुद्धिस्तथागतोऽर्हन् सम्यस्संबुद्धस्तेनोपसंक्रान्तः । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्दित्वा एकान्तेऽतिष्ठत् । एकान्तस्थितश्च राजा अर्चिष्मान् भगवन्तमाभिर्गाथाभिरभ्यष्टावीत्-

वन्दामि गुणज्ञानसागरं नरवीरं यस्य नास्ति समः कुतोऽधिकस्त्रिभवेऽस्मिन् ।
देवेन्द्रासुरराजसत्कृतं वरसत्त्वं तृप्तिं नैति जनो निरीक्षतस्तव रूपम् ॥ ३२९ ॥
द्वात्रिंशत्तव कायलक्षणा सुविशुद्धा मेरुर्वा वररत्नचित्रितः परिशुद्धः ।
श्लक्ष्णं काञ्चनवर्णसंनिभं जिनकान्तं वन्दामि प्रियरूपदर्शनं मुनिकायम् ॥ ३३० ॥
(वैद्य, र्प्१५६)
कल्पानचिन्त्य शताश्च कोटियो व्रत चीर्णा बुद्धकोटिशताश्च सत्कृता बहुकल्पान् ।
यष्टा यज्ञशता अचिन्तियापरिमाणा कायस्तेन तवाभिराजते अभिरूपः ॥ ३३१ ॥
दानशीलसमाधिप्रज्ञयापि च क्षान्त्या वीर्यध्यानमुपायशोधितं तव रूपम् ।
चन्द्रार्कमणिद्युतिप्रभा न विराजि शक्रब्रम्हप्रभा न भासते पुरतस्ते ॥ ३३२ ॥
रूपं दर्शयते मनोरमं जगदर्थे प्रतिभासोदकचन्द्रसंनिभं यथ माया ।
सर्वास्वेव च दिक्षु दृश्यते जिनकायो नो चा रूपप्रमाणु दृश्यते सुगतानाम् ॥ ३३३ ॥
तुषितेषु क्वचिदेव दृश्यसे निवसंस्त्वं व्यूढमानश्च पुनः सुपाण्डरगजभूतः ।
मातु कुक्षिगतश्च दृश्यसेऽपि च वीरः सर्वत्रानुगतो महामुने नभतुल्यः ॥ ३३४ ॥
जातिं संदर्शयसे क्वचिद्भवान् दिशतासु गच्छन् सप्त पदानि दृश्यसे क्वचिदुर्व्याम् ।
ह्येष्ठोऽहं सनरामरे जगे अतिदेवो मोचिष्ये जग दुःखसागराद्गिर मुञ्चन् ॥ ३३५ ॥
धर्मसंशयु नास्ति ते मुने क्वचिदेव शिक्षां चापि च लोक दृश्यते लिपिज्ञाने शान्तं ध्यानसमाधिगोचरमनुप्राप्तं स्त्रीणां मध्यगतश्च दृश्यते क्वचिदेव ॥ ३३६ ॥
त्यक्त्वा मातापिता महीतले प्रमदाश्च ज्ञातीन् शोकहतान् विमूर्च्छितान् विरुवन्तः ।
निष्क्रान्तो वनवासमीक्ष्यसे पदमेकं देवाकोटिशतैः परिवृतो वरसत्त्वः ॥ ३३७ ॥
मारास्ते चतुरोऽपि निर्जिताश्चिरकालं मारान् धर्षयमाण दृश्यतेऽपि च क्षेत्रे ।
चक्रं वर्तयसेऽप्यचिन्तियं पुरिमेण चक्रं वर्तयमान दृश्यसे कृपया त्वम् ॥ ३३८ ॥
(वैद्य, र्प्१५७)
नित्यं शाश्वतदृष्टिसंज्ञितं जगदीक्ष्य निर्वास्य इति वाच भाषसे परिषत्सु ।
संसाराभिरतं जगत्सततमीक्ष्य शान्तां शीतगतिं च निर्वृतिं वदसि त्वम् ॥ ३३९ ॥
पुण्यज्ञानमुपायप्रज्ञतो न समस्ते स्फुरसे कायप्रभाय त्वं मुने बहुक्षेत्रान् ।
भाषन्ते तव वर्ण नायका दिशतासु वन्दे त्वामसमन्तगोचरं मुनिराजम् ॥ ३४० ॥
वन्दामोऽपि च धर्मतामखिलप्राप्तं सर्वसत्त्वक्रियासु दृश्यसे यथ माया ।
न च तेऽस्त्यागमनं क्वचिद्गमनं वा मायाधर्म सति प्रतिष्ठितमभिवन्दे ॥ ३४१ ॥
साधु त्वं नरवीर भाषसे वरमार्गं बोधिर्येन वरा ह्यवाप्यते जगदर्थे ।
एतामप्यहमाशु धर्मतामनुबुद्धा देशेयं नरवीरं धमतां जगदर्थे ॥ ३४२ ॥
सर्वज्ञं विगतज्वरं नरवीरं यस्य नास्ति समः कुतोऽधिकस्त्रिभवेऽस्मिन् ।
स्तुत्वा पुण्यमुपार्जितं मया यदिह तेन शान्तां बोधिवरामनुत्तरां स्पृशतु लोकः ॥ ३४३ ॥

अथ खलु राष्ट्रपाल स तथागतः सिद्धार्थबुद्धिः राज्ञोऽर्चिष्मतोऽध्याशयं विदित्वा तथा धर्मं देशयामास यथा सर्वे अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तं भगवन्तं सिद्धार्थबुद्धिं तथागतमेतदवोचत्- अधिवासयतु भगवानस्माकां नगरे श्वोभक्तेन । अधिवासयति च भगवान् पुण्यरश्मे राजकुमारस्य तूष्णीभावेनानुकम्पामुपादाय ॥

अथ खलु पुण्यरश्मी राजकुमारस्तौ मातापितरौ ताश्व प्रमदा आमन्त्रयति स्म - अनुमोदयन्तु भवन्तः सर्वे सहिताः सर्वे समग्राः । यथालंकृतं रतिप्रधानं नगरं तथागतस्य निर्यातयामुअनपेक्षः । तैरेकस्वरेणानुमोदितम् ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारो यथालंकृतं रतिप्रधानं नगरं तथागताय निर्यातयति स्म अनपेक्षः । पञ्चरसशतव्यूहेन च भोजनेन तं तथागतं प्रतिपादयति स्म सार्धं भिक्षुसंघेन । सर्वेषां तेषां भिक्षूणां सप्तरत्नचितान् विहारान् कारयामास मणिचंक्रमान् प्रज्ञप्तानुपरि च रत्नजालवितानविततान् वामदक्षिणेन पुष्पवृक्षसुपरिनिष्ठितान् । पुण्डरीकपुष्करिण्युपशिभितान्युभयतो मुखनिर्मलदूष्यशतसहस्रप्रज्ञप्तानि (वैद्य, र्प्१५८) शय्यासनानि । एकैकस्य च भिक्षोरभिवन्द्य चीवरो दीयते स्म एकैकः । अन्योन्यानि चीवराण्यनिप्रदीयन्ते दिवसे दिवसे । स त्रिभिर्वर्षकोटिभिः स्त्यानमिद्धं नावक्रामितवान्, नात्मप्रेम कृतवान्, बुद्धपूजां प्रति नान्यमनसिकारः । एतस्मिन्नन्तरे न कामवितर्कं वितर्कितवान्, न व्यापादवितर्कं न विहिंसावितर्कं न राज्यतृष्णाम् । सर्वथानपेक्षोऽभूत्काये जीविते च, प्रागेवान्यतरस्मिन् बाह्यवस्तुनि । एतस्मिन्नन्तरे यद्भगवता भाषितं तत्सर्वमवधारितम्, न च द्विरपि स तथागतः पृष्टः । एतस्मिन्नन्तरे न स्नातो न सर्पितैलेन वा गात्रं म्रक्षितम्, न पादधावनं कृतम्, न क्लान्तसंज्ञोत्पादिता, न जातु निषण्णोऽन्यत्र भक्तपरिभोगार्थमुच्चारप्रस्रावणार्थं च । यस्मिंश्च समये स तथागतः परिनिर्वृतस्तस्मिन् समये लोहितचन्द्रनस्य चिता कारिता । यत्र स तथागतो ध्मापितस्तस्मिन्नेव च पृथिविप्रदेशे वर्षशतसहस्रं धातूनां पूजां कृतवान् । सर्वं जम्बूद्वीपं सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्ववाद्यैर्यावत्सर्वपूजासत्कारान् कृत्वा पञ्चाच्चतुर्नवतिः स्तूपकोट्यः प्रतिष्ठापितवान् । ते च स्तूपाः
सप्तरत्नमया रत्नजालसंछन्ना मुक्ताजालवितानवितताः । सप्तानां रत्नानां पञ्च पञ्च छत्रशतान्येकैकस्मिन् स्तूपे आरोपितवान् । सर्वत्र च स्तूपे तूर्यशतसहस्राणि निश्चारितवान् । समन्ततश्च जम्बूद्वीपे पुष्पवृक्षान् रोपितवान् । एकैकत्र दीप्यते सर्वगन्धतैलस्य । सर्वगन्धमाल्यविलेपनैश्च पूजामकरोत् । अनेनोपायेन वर्षकोटिं पूजां कॄत्वाः ततः प्रव्रजितः । स प्रव्रजिता त्रैचीवरिकोऽभवत् । नित्यं पिण्डपातचारिकोऽनैषद्यिकः । न जातु पार्श्वं दत्तवान्, न स्त्यानमिद्धमवक्रामितवान् । तेन निरामिषचित्तेन चतको वर्षकोट्यो धर्मदानं दत्तम् । न चानेनान्तशः । साधुकारोऽपि परस्यान्तिकात्प्रतिकाङ्क्षितः, कुतः पुनर्लाभसत्कारः । नापि क्लान्तोऽभूद्धर्मश्रवणेन धर्मदेशनया च । तस्य देवताः परिचर्यां कुर्वन्ति स्म । तस्य चानुशिक्षित्वा सर्वजनपदोऽन्तःपुरं सर्वपादमूलं सर्वसहायाश्च प्रव्रजिताः ॥

अथ खलु राष्ट्रपाल शूद्धावासकायिकानां देवपुत्राणामेतदभवत्- पुण्यरश्मेरनुशिक्षमाणः सर्वराज्यजनकदः प्रव्रजितः । अस्माभिस्तस्योपस्थानपरिचर्या कर्तव्या । त्रयाणां रत्नानामुपस्थान कृतं भविष्यति । तस्य पुनस्तथागतस्य परिनिर्वृतस्य चतुःषष्टिवर्षकोट्यः सद्धर्मस्तस्थौ । सर्वस्य पुण्यरश्मिना भिक्षुणा बुद्धसहस्रस्य चैवंरूपा पूजा कृताभूत् ॥

स्यात्खलु पुनस्ते राष्ट्रपाल एतर्हि काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेनार्चिष्मान्नाम राजाभूत् । न खलु पुनस्त्वयैवं द्रष्टव्यम् । तत्कस्य हेतोः ? अमितायुः स तथागतस्तेन कालेन तेन समयेनार्चिष्मान्नाम राजाभूत् । स्यात्खलु पुनस्ते राष्ट्रपाल - अन्यः स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारोऽभूत् । न खलु पुनस्त्वयैवं द्रष्टव्यम् । तत्कस्य हेतोः ? अहं स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारोऽभूत् । यापि सा नगरदेवता, अक्षोभ्यस्तथागतोऽभूत् ।
(वैद्य, र्प्१५९) तस्मात्तर्हि राष्ट्रपाल बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन तस्य पुण्यरश्मिराजकुमारस्यानिशिक्षितव्यमध्याशयप्रतिपत्त्या प्रियाप्रियपरित्यागितया अप्रमादचर्यया - एवं दुःखाभिसंस्कारप्रतिलब्धा मेऽनुत्तरा सम्यक्संबोधिरिति । तत्तेऽनभियुक्ता लाभसत्कारश्लोकगुरुका ज्ञात्यध्यवसिता मानहता लाभहतास्तपस्विनो विहन्यन्ते, लाभहेतोः शासनाद्दूरीभवन्ति, निरर्थकं प्रव्रजिताः श्रमणदूषका बोधिसत्त्वखटुकाः कायवाक्चित्तवङ्काः नैमित्तिकाः वितथप्रतिज्ञाः स्वप्रतिज्ञातश्च्युताः चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारनिमित्तमध्यवसिताः । अह्रीका अनपत्रपा अचारित्रा असद्धर्मप्रसृता गोचरविरहिता बुद्धगोचराद्दूरीभूता बुद्धज्ञानविरहिताः मोक्षचित्तविरहिताः बोधिचित्तविरहिताः । तस्मात्तर्हि राष्ट्रपाल इममेवंरूपं धर्मं श्रुत्वा बोद्धव्यम् - पापमित्रान्युद्युक्तानि न सेवितव्यानि लाभार्थिकानाम् ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अप्रमेये दशबलचलिते लाभे ज्ञातौ परिगतहृदया ।
हित्वा बोधिं गुणशतनिचितां लाभार्थं ते परकुलनिचताः ॥ ३४४ ॥
ध्वाङ्क्षा दुष्टा ह्रीधृतिरहिता क्षेत्रार्थं ते नमुचिवशगताः ।
क्लेशाधीना भवगतिप्रणता भाषन्त्येवं वयमपि गुणिनः ॥ ३४५ ॥
कायोऽरण्ये स्मृतिरपि नगरे लाभार्थं ते चरितविकल्पे ।
दूरे मोक्षो नभ इव धरणि दूरे जाहु भुजगवदेतान् ॥ ३४६ ॥
बुद्धो धर्मो न च प्रियवदतां तद्वत्संघो गुणशतभरितः ।
हित्वा स्वर्गं कुपथप्रयाता अष्टविघातैर्भवशतविहताः ॥ ३४७ ॥
श्रुत्वैनां मम चारिकां समुपदिष्टां भूताध्याशयतोऽत्र युज्यथा प्रतिपत्त्या ।
दुष्प्राप्यं बहुकल्पकोटिभिः क्षणप्राप्ता तस्मादत्र यथोक्तधर्मतामभियुज्येत् ॥ ३४८ ॥
यो हीच्छेद्वरबोधि बुध्यितुं वरयाने स्मार्यास्तेन महीपते गुणास्तस्य ।
संचिन्त्य यथाभूत योनिशः स्थातव्यमेवं बोधि असङ्ग रिध्यते सुगतानाम् ॥ ३४९ ॥
आर्यं वंशं निषेवते गुणप्रेक्षी ज्ञानं तत्र उत्पादयेच्छु इवात्र ।
मा एवं प्रविजह्य शासनं गुणमण्डं सर्वास्वेतगतीषु पञ्चसू यथ बालाः ॥ ३५० ॥
(वैद्य, र्प्१६०)
शैलारण्यगुहानिजासिनो भवतेह तत्रस्थाश्च म आत्म मन्यथा पटपंसी ।
आत्मानं परिभाषथा सततनित्य - मनुस्मरन्तो बुद्धकोटि विरागिता पुरिमा ये ॥ ३५१ ॥
काये जीवित तृष्ण उत्सृह अनपेक्षा धर्मे युज्यत तीव्र गौरवं जनयित्वा ।
प्रतिपत्तिश्च मयापि भाषिता इह सूत्रे पश्चा बोधि न तेषु दुर्लभा इह स्थित्वा ॥ ३५२ ॥
ये युक्ताश्च इहापि हर्षिता जिनयाने श्रुत्वा युक्त सुदुर्मना भवितारः ।
तस्माद्वै जनयेत शासने अधिमुक्तिं मा पश्चादनुताप भेष्यथा विचरमाणाः ॥ ३५३ ॥

यश्च पुना राष्ट्रपाल बोधिसत्त्वः पञ्चपारमितासु चरेत्, यश्चेह धर्मपर्यायप्रतिपत्या संपादयेत्- अहमत्र शिक्षिष्येऽहमत्र संवरे स्थास्यामि । एष पुण्यस्कन्धोऽस्य पुण्यस्कन्धस्य पुरतः शततमामपि कलां नोपैति सहस्रतमामपि शतसहस्रतमामपि कोटिशतसहस्रतमामपि, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि धृतिपदमपि नोपैति । अस्मिन् खलु पुनर्धर्मपर्याये भास्यमाणे त्रिंशतां नियुतानां सदेवमानुषासुरायाश्च प्रजाया अनुत्पदन्तपूर्वाण्यनुत्तरस्यां सम्यक्संबोधौ चित्तान्युत्पन्नानि । अवैवर्त्याश्चाभूवन्ननुत्तरस्याः सम्यक्सम्बोधेः । सप्तानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि ॥

अथ खलु आयुष्मान् राष्ट्रपालो भगवन्तमेतदवोचत्- किंनामायं भगवन् धर्मपर्यायः,कथं चैनः धारयामि ? एवमुक्ते भगवानायुष्मन्तं राष्ट्रपालमेतदवोचत्- अमोघप्रतिज्ञाविशुद्धमिति नाम धारय । सत्पुरुषविक्रीडितं बोधिसत्त्वचर्याविनिश्चयं नाम धारय । अर्थपारिपूरी च नाम धारय ॥

इदमवोचद्भगवान् । आत्तमना आयुष्मान् राष्ट्रपालः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन् ॥

इति पुण्यरश्मेः सत्पुरुषस्य पूर्वयोगसूत्ररत्नराजं समाप्तम् ॥
आर्यराष्ट्रपालपरिपृच्छा नाम महायानसूत्रं समाप्तम् ॥

(वैद्य, र्प्१६१-१६४): श्लोकसूची

"https://sa.wikisource.org/w/index.php?title=राष्ट्रपालपरिपृच्छा&oldid=371213" इत्यस्माद् प्रतिप्राप्तम्