महाभाष्यम्/पञ्चमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

-5-1-1- प्राक् क्रीताच्छः (1883)
(छप्रत्ययाधिकरणम्)
(पदकृत्यभाष्यम्)
प्राग्वचनं किमर्थम्?
(5587 प्राक्पदप्रयोजनवार्तिकम्।। 1 ।।)
- प्राग्वचन उक्तम् -
(भाष्यम्) किमुक्तम्?
तत्र तावदुक्तम्-- प्राग्वचनं सकृद्विधानार्थम्, अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः ःथ्द्य;ति।
ःथ्द्य;हापि प्राग्वचनं क्रियते सकृद्विधानार्थम्। सकृद्विहितः प्रत्ययो विहितो यथा स्यात्, योगे योगे तस्य ग्रहणं मा कार्षमिति।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्। अधिकारः प्रतियोगं तस्यानिर्देशार्थ ःथ्द्य;ति योगे योग उपतिष्ठते।।
(समाधानवार्तिकस्मारकभाष्यम्)
अधिकारात्सिद्धमिति चेदपवादविषये छप्रसङ्गः
अधिकारात् सिद्धमिति चेदपवादविषये छः प्राप्नोति। उगवादिभ्यो यत् (5।1।2) छश्च, ःथ्द्य;ति छोऽपि प्राप्नोति।
तस्मात् प्राग्वचनं कर्तव्यम्।।
(प्राक्पदार्थनिरूपकभाष्यम्)
अथ क्रियमाणेऽपि प्राग्वचने कथमिदं विज्ञायते--प्राक् क्रीताद्याः प्रकृतयः, आहोस्वित्प्राक्क्रीताद्येऽर्था ःथ्द्य;ति।
किं चातः?
यदि विज्ञायते--प्राक्क्रीताद्याः प्रकृतय ःथ्द्य;ति,
स एव दोषः--अपवादविषये छप्रसङ्ग ःथ्द्य;ति।
अथ विज्ञायते प्राक् क्रीताद्येऽर्था ःथ्द्य;ति
न दोषो भवति। समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यत् छं बाधिष्यते।।
यथा न दोषस्तथाऽस्तु।
प्राक् क्रीताद्येऽर्था ःथ्द्य;ति विज्ञायते।
कुत एतत्?
तथा ह्ययं प्राधान्येनार्थं प्रतिनिर्दिशति। ःथ्द्य;तरथा हि बह्व्यस्तत्र प्रकृतयः पठ्यन्ते, ततो यां कांचिदेव प्रकृतिमवधित्वेनोपाददीत।
अथ वा पुनरस्तु--प्राक् क्रीताद्याः प्रकृतय ःथ्द्य;ति। ननु चोक्तमपवादविषयेऽपि छप्रसङ्ग ःथ्द्य;ति।।
(आक्षेपनिवारकवार्तिकस्मारकभाष्यम्)
 न वा क्वचिद्वावचनात्
न वा एष दोषः।
किं कारणम्?
क्वचिद्वावचनात्। यदयं क्वचिद्वावचनं करोति--विभाषा हविरपूपादिभ्यः (5।1।4) ःथ्द्य;ति, तज्ज्ञापयति--नापवादविषये छो भवतीति।।
(आक्षेपभाष्यम्)
यद्येवम्, नार्थः प्राग्वचनेन, अधिकारात्सिद्धम्।
ननु चोक्तमधिकारात्सिद्धमिति चेदपवादविषये छप्रसङ्ग ःथ्द्य;ति।
परिहृतमेतत्--न वा क्वचिद्वावचनात् ःथ्द्य;ति।
(सिद्धान्तभाष्यम्)
अथ किमर्थमियानवधिर्गृह्यते, न प्राक् ठञ्ञ ःथ्द्य;त्येवोच्येत। एतज्ज्ञापयत्याचार्यः--अर्थेष्वयं भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यत् छं बाधते।।
-5-1-2- उगवादिभ्यो यत् (1884)
(यतोऽधिकरणम्)
(5588 पूर्वविप्रतिषेधबोधकमेकदेशिवार्तिकम्।। 1 ।।)
- यञ्ञ्ञ्ञ्यावञ्ञः पूर्वविप्रतिषिद्धं सनङ्गूपानहौ प्रयोजनम् -
(भाष्यम्) यञ्ञ्ञ्ञ्यौ भवतोऽञ्ञः पूर्वविप्रतिषेधेन।
किं प्रयोजनम्?
सनङ्गूपानहौ प्रयोजनम्।
यतोऽवकाशः -- शङ्कव्यं दारु, पिचव्यः कार्पासः।
अञ्ञोऽवकाशः--वार्ध्रम्, वारत्रम्।
सनङ्गुर्नाम चर्मविकारः, तस्मादुभयं प्राप्नोति -- सनङ्गव्यं चर्म।।
ञ्ञ्यस्यावकाशः--औपानह्यं दारु।
अञ्ञः स एव।
उपानन्नाम चर्मविकारस्तस्मादुभयं प्राप्नोति--औपानह्यं चर्म।।
(5589 विप्रतिषेधबोधकवार्तिकम्।। 2 ।।)
- ढञ्ञ्च -
(भाष्यम्) ढञ्ञ्च भवत्यञ्ञः पूर्वविप्रतिषेधेन।
ढञ्ञोऽवकाशः--छादिषेयं तृणम्।
अञ्ञः स एव।
छदिर्नाम चर्मविकारस्तस्मादुभयं प्राप्नोति--छादिषेयं चर्म।
ढञ्ञ् भवति पूर्वविप्रतिषेधेन।।
(5590 विप्रतिषेधबोधकवार्तिकम्।। 3 ।।)
- हविरपूपादिभ्यो विभाषाया यत् -
(भाष्यम्) हविरपूपादिभ्यो विभाषाया यद्भवति पूर्वविप्रतिषेधेन।
हविरपूपादिभ्यो विभाषाया अवकाशः--आमिक्ष्यम्--आमिक्षीयम्। पुरोडाश्यम्--पुरोडाशीयम्।
यतः स एव।
ःथ्द्य;होभयं प्राप्नोति--चरव्यास्तण्डुलाः।
यद्भवति पूर्वविप्रतिषेधेन।।
(5591 विप्रतिषेधबोधकवार्तिकम्।। 4 ।।)
- अन्नविकारेभ्यश्च -
(भाष्यम्) अन्नविकारेभ्यश्च विभाषाया यद्भवति पूर्वविप्रतिषेधेन।
अन्नविकारेभ्यश्च विभाषाया अवकाशः--सुर्याः, सुरीयाः।
यतः स एव।
ःथ्द्य;होभयं प्राप्नोति--सक्तव्या धाना ःथ्द्य;ति।
यद्भवति पूर्वविप्रतिषेधेन।।
(विप्रतिषेधानर्थक्यबोधकमेकदेशिभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।
न वक्तव्यः। ःथ्द्य;ष्टवाची परशब्दः--विप्रतिषेधे परं यदिष्टं तद्भवतीति।
(वार्तिकावतरणभाष्यम्)
अयं नाभिशब्दो गवादिषु पठ्यते। तत्रैवोच्यते--नाभि नभं चेति। तत्र चोद्यते--
(5592 नाभेः प्रत्ययानुपपादकवार्तिकम्।। 5 ।।)
- नाभेर्नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् -
(भाष्यम्) नाभेर्नभभावे प्रत्ययस्यानुपपत्तिः।
किं कारणम्?
प्रकृत्यभावात्।
विकृतेः प्रकृतावभिधेयायां प्रत्ययेन भवितव्यम्, न च नाभिसंज्ञिकाया विकृतेः प्रकृतिरस्ति। यदेव हि तन्मण्डलचक्राणां मण्डलचक्रं तन्नभ्यमित्युच्यते।।
(5593 रूपसाधकं वार्तिकम्।। 6 ।।)
- सिद्धं तु शाखादिषु वचनात् ह्रस्वत्वं च -
(भाष्यम्) सिद्धमेतत्।
कथम्?
शाखादिषु नाभिशब्दः पठितव्यः, ह्रस्वत्वं च वक्तव्यम्। नाभिरिव--नभ्यमिति।
कः पुनरिहोपमार्थः?
यत्तदक्षधारणं परिवर्तनं वा।।
अपर आह--यत्तदञ्ञ्जनोपाञ्ञ्जनमिति।
(गवादिगणपाठप्रयोजनभाष्यम्)
न तर्हीदानीमिदं वक्तव्यम्--नाभि नभं चेति।
वक्तव्यं च।
किं प्रयोजनम्?
यान्येतान्यरवन्ति चक्राणि तदर्थम्। तत्र नाभिसंज्ञिकाया विकृतेः प्रकृतिरस्ति।
यानि चाप्यनरवन्ति चक्राणि तदर्थमपीदं वक्तव्यम्। दृश्यते हि समुदायादववस्य पृथक्त्वम्।
तद्यथा--वार्क्षी शाखेति।।
गुणान्तरयोगाच्च विकारशब्दो दृश्यते।
तद्यथा--बौभीतको यूपः, खादिरं चषालमिति।
तत्रावयवात्समुदाये वृत्तिर्भविष्यति।।
(वृक्षे नभ्यशब्दोपपादकवार्तिकावतरणभाष्यम्)
अथ यो नभ्यार्थो वृक्षः कथं तत्र भवितव्यम्--नभ्यो वृक्षः, नभ्या शिंशपेति?
(5594 एकदेशिसमाधानवार्तिकम्।। 7 ।।)
- नभ्यात्तु लुग्वचनम् -
(भाष्यम्) नभ्यात्तु लुग्वक्तव्यः।
स तर्हि लुग्वक्तव्यः।
(सिद्धान्तभाष्यम्)
न वक्तव्यः। तार्दथ्यात्ताच्छब्द्यं भविष्यति। नभ्यार्थो नभ्य ःथ्द्य;ति।।
-5-1-3- कम्बलाच्च संज्ञायाम् (1885)
(सूत्रप्रत्याख्यानपरं भाष्यम्)
अयं योगः शक्योऽवक्तुम्।
कथमशीतिशतं कम्बल्यमिति?
निपातनादेतत्सिद्धम्।
किं निपातनम्?
अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4।1।22) ःथ्द्य;ति।
ःथ्द्य;दं तर्हि प्रयोजनम्--संज्ञायामिति वक्ष्यामीति।
ःथ्द्य;ह मा भूत्--कम्बलीया ःढ़द्य;र्णाः।
एतदपि नास्ति प्रयोजनम्। परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणं क्रियते--परिमाणार्थम्, परिमाणं च संज्ञैव।।
-5-1-4- विभाषा हविरपूपादिभ्यः (1886)
(अप्राप्तविभाषानिश्चायकं भाष्यम्)
किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते।
अथं च प्राप्ते? कथं वाऽप्राप्ते?
ःढ़द्य;र्णान्तादिति वा नित्ये प्राप्ते, अन्यत्र वाऽप्राप्ते।।
(5595 सिद्धान्तवार्तिकम्।। 1 ।।)
- हविरपूपादिभ्योऽप्राप्ते -
(भाष्यम्) हविरपूपादिभ्योऽप्राप्ते विभाषा, प्राप्ते नित्यो विधिः। चरव्यास्तण्डुलाः।।
-5-1-6- शरीरावयवाद्यत् (1888)
(5596 संग्राहकवार्तिकम्।। 1 ।।)
- यत्प्रकरणे रथाच्च -
(भाष्यम्) यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम्। रथाय हिता-रथ्या।।
-5-1-7- खलयवमाषतिलवृषब्रह्मणश्च (1889)
(अनिष्टरूपनिवारकं भाष्यम्)
वृषशब्दोऽयमकारान्तो गृह्यते।
वृषन्शब्दोऽपि नकारान्तोऽस्ति तस्योपसंख्यानं कर्तव्यम्, वृषशब्दश्चादेशो वक्तव्यः। वृष्णे हितमिति विगृह्य--वृष्यमित्येव यथा स्यात्।
तथा ब्रह्मन्शब्दो नकारान्तो गृह्यते।
ब्राह्मणशब्दश्चाकारान्तोऽप्यस्ति तस्योपसंख्यानं कर्तव्यम्, ब्रह्मन्शब्दश्चादेशो वक्तव्यः। ब्राह्मणेभ्यो हितमिति विगृह्य--ब्रह्मण्यमित्येव यथा स्यात्।
तत्तर्हि वक्तव्यम्।
न वक्तव्यम्। समानार्थावेतौ--वृषशब्दो वृषन्शब्दश्च, ब्रह्मन्शब्दो ब्राह्मणशब्दश्च। आतश्च समानार्थौ, एवं ह्याह--कुतो नु चरसि ब्रह्मन् कुतो नुचरसिब्राह्मण--ःथ्द्य;ति।
तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति--अविरविकन्यायेन।
तद्यथा--अवेर्मांसमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति--आविकमिति।
एवमिहापि वृषाय हितमिति विगृह्य--वृष्यमिति भविष्यति। वृष्णे हितमिति विगृह्य वाक्यमेव।
तथा ब्रह्मणे हितमिति विगृह्य ब्रह्मण्यमिति भविष्यति, ब्राह्मणेभ्यो हितमिति--विगृह्य वाक्यमेव भविष्यति।
त्रैशब्द्यं चेह साध्यम्, तच्चैवं सति सिद्धं भवति।।
5-1-1- आ. 7 (833 विधिसूत्रम्)
-5-1-9- आत्मन्विश्वजनभोगोत्तरपदात्खः 1891
(खाधिकरणम्)
(5597 भोगोत्तरपदात्खविधाने पूर्वपक्षे आक्षेपवार्तिकम्।। 1 ।।)
- भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात् -
(भाष्यम्) भोगोत्तरपदात्खविधानेऽनिर्देशः। अगमको निर्देशोऽनिर्देशः।
किं कारणम्?
पूर्वपदार्थहितत्वात्। उत्तरपदार्थप्रधानस्तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्यय ःथ्द्य;ष्यते। पितृभोगाय हिते प्राप्नोति, पित्रे चैव हित ःथ्द्य;ष्यते।
एवं तर्हि भोगीनर्प्रत्ययो विधास्यते।।
(5598 न्यासान्तरविधाने दोषवार्तिकम्।। 2 ।।)
 भोगीनरिति चेद्वावचनम्।।
(भाष्यम्) भोगीनरिति यदि प्रत्ययो विधीयते वावचनं कर्तव्यम्, मात्रीयः पित्रीय ःथ्द्य;त्यपि यथा स्यादिति।।
(5599 एकदेशिवार्तिकम्।। 3 ।।)
- राजाचार्याभ्यां नित्यम् -
(भाष्यम्) राजाचार्याभ्यां नित्यमिति वक्तव्यम्। राजभोगीनः।
आचार्यादणत्वं च। आचार्यभोगीनः।।
किं भोगीनर्प्रत्ययो विधीयत ःथ्द्य;त्यतः राजाचार्याभ्यां नित्यमिति वक्तव्यम्?
नेत्याह--सर्वथा राजाचार्याभ्यां नित्यमिति वक्तव्यम्।।
ःथ्द्य;ह च ग्रामणिभोगीनः, सेनानिभोगीन ःथ्द्य;ति उत्तरपदे ःथ्द्य;ति ह्रस्वत्वं न प्राप्नोति।
ःथ्द्य;ह चाब्भोगीन ःथ्द्य;ति अपोभि (7।4।48) ःथ्द्य;ति तत्वं प्राप्नोति। सूत्रं च भिद्यते।।
(सिद्धान्तभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तम्--भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात्--ःथ्द्य;ति।
नैष दोषः। अयं भोगशब्दोऽस्त्येव द्रव्यपदार्थकः। तद्यथा--भोगवानयं देश ःथ्द्य;त्युच्यते यस्मिन्गावः सस्यानि च वर्तन्ते।
अस्ति क्रियापदार्थकः। तद्यथा--भोगवानयं ब्राह्मण ःथ्द्य;त्युच्यते। यः सम्यक् स्नानादीः क्रिया अनुभवति।
तद्यः क्रियापदार्थकस्तस्येदं ग्रहणम्।
यश्च पितृस्थाभ्यः क्रियाभ्यो हितः, संबन्धादसौ पित्रेऽपि हितो भवति।।
यदि संबन्धात्, अस्तु द्रव्यपदार्थकस्यापि ग्रहणम्। योऽपि हि पितृद्रव्याय हितः, संबन्धादसौ पित्रे हितो भवति।।
अथ वा भोगशब्दः शरीरवाच्यपि दृश्यते। तद्यथा--अहिरिव भोगैः पर्येति बाहुम्। अहिरिव शरीरैरिति गम्यते।
एवं पितृशरीराय हितः-पितृभोगीण ःथ्द्य;ति।।
(5600 उपसङ्खयानवार्तिकम्।। 4 ।।)
- खविधाने पञ्ञ्चजनादुपसंख्यानम् -
(भाष्यम्) खविधाने पञ्ञ्चजनादुपसंख्यानं कर्तव्यम्। पञ्ञ्चजनाय हितः--पञ्ञ्चजनीनः।
समानाधिकरण ःथ्द्य;ति वक्तव्यम्। यो हि पञ्ञ्चानां जनाय हितः--पञ्ञ्चजनीयः स भवति।।
(5601 विधिवार्तिकम्।। 5 ।।)
- सर्वजनाट्ठञ्ञ्च -
(भाष्यम्) सर्वजनाट्ठञ्ञ्च वक्तव्यः, खश्च। सर्वजनाय--हितः सार्वजनिकः, सर्वजनीनः।
समानाधिकरण ःथ्द्य;ति च वक्तव्यम्। यो हि सर्वेषां जनाय हितः--सर्वजनीयः स भवति।।
(5602 नित्यत्वबोधकवार्तिकम्।। 6 ।।)
- महाजनान्नित्यम् -
(भाष्यम्) महाजनान्नित्यं ठञ्ञ्वक्तव्यः। महाजनाय हितो माहाजनिकः।
तत्पुरुष ःथ्द्य;ति वक्तव्यम्, बहुव्रीहौ मा भूदिति। महान् जनोऽस्य--महाजनः, महाजनाय हितः--महाजनीयः।
(समानाधिकरणाद्युपाधिप्रत्याख्याने भाष्यम्)
यदि तर्ह्यतिप्रसङ्गाः सन्तीत्युपाधिः क्रियते, आद्यन्यासेऽप्युपाधिः कर्तव्यः--आत्मन्विश्वजन समानाधिकरण ःथ्द्य;ति वक्तव्यम्। यो हि विश्वेषां जनाय हितः--विश्वजनीयः स भवति।
अथ मतमेतत्--अनभिधानादाद्यन्यासे न भविष्यतीति, ःथ्द्य;हापि नार्थ उपाधिग्रहणेन।
ःथ्द्य;हाप्यनभिधानान्न भविष्यति।।
-5-1-10- सर्वपुरुषाभ्यां णढञ्ञौ (1892)
(छप्रत्ययापवादणढञ्ञोरधिकरणम्)
(5603 विकल्पवार्तिकम्।।1।।)
सर्वाण्णस्य वेति वक्तव्यम्। सार्वः, सर्वीयः।
(5604 अर्थविधायकवार्तिकम्।।2।।)
पुरुषाद्वधे।।
पुरुषाद्वध ःथ्द्य;ति वक्तव्यम्। पौरुषेयो वधः। अत्यल्पमिदमुच्यते--पुरुषाद्वध ःथ्द्य;ति । पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्। पौरुषेयो वधः। पौरुषेयो विकारः। पौरुषेयस्समूहः। तेन कृतं पौरुषेयम्।
-5-1-12- तदर्थं विकृतेः प्रकृतौ (1894)
(तदर्थे प्रत्ययविध्यधिकरणम्)
(5605 संग्रहवार्तिकम्।। 1 ।।)
- तदर्थमिति कृत्यनामभ्यष्ठञ्ञ् -
(भाष्यम्) तदर्थमिति कृत्यनामभ्यष्ठञ्ञ्वक्तव्यः। ःथ्द्य;न्द्रमहार्थमैन्द्रमहिकम्। गाङ्गामहिकम्। काशेरुयज्ञिकम्।।
(5606 प्रत्याख्यानवार्तिकम्।। 2 ।।)
- न वा प्रयोजनेन कृतत्वात् -
(भाष्यम्) न वा वक्तव्यम्।
किं कारणम्?
प्रयोजनेन कृतत्वात्। यद्धीन्द्रमहार्थम्, ःथ्द्य;न्द्रमहस्तस्य प्रयोजनं भवति; तत्र प्रयोजनम् (5।1।109) ःथ्द्य;त्येव सिद्धम्।।
-5-1-13- छदिरुपधिबलेर्ढञ्ञ् (1895)
(ढञ्ञोऽधिकरणम्)
(5607 आक्षेपवार्तिकम्।। 1 ।।)
- उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्य भावात् -
(भाष्यम्) उपध्यर्थमिति प्रत्ययस्यानुपपत्तिः।
किं कारणम्?
उपध्यभावाद्। विकृतेः प्रकृतावभिधेयायां प्रत्ययेन भवितव्यम्, न चोपधिसंज्ञिकाया विकृतेः प्रकृतिरस्ति।
यद्धि तद्रथाङ्गं तदौपधेयमित्युच्यते।।
(5608 एकदेशिसमाधानवार्तिकम्।। 2 ।।)
- सिद्धं तु कृदन्तस्य स्वार्थेऽञ्ञ्वचनात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
कृदन्तस्य स्वार्थे अञ्ञ्वक्तव्यः। उपधीयते--उपधेयम्, उपधेयमेवौपधेयम्।
सिद्ध्यति।
सूत्रं तर्हि भिद्यते।।
(सिद्धान्तभाष्यम्)
यथान्यासमेवास्तु।
ननु चोक्तम्--उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावात् ःथ्द्य;ति।
नैतदस्ति। अयमुपधिशब्दोऽस्त्येव कर्मसाधनः--उपधीयते--उपधिरिति। अस्ति भावसाधनः--उपधानमुपधिरिति। तद्यो
भावसाधनस्तस्येदं ग्रहणम्।
एवमपि न सिध्यति।
किं कारणम्?
विकृतेः प्रकृताविति वर्तते।
प्रकृतिविकृतिग्रहणं निवर्तिष्यते। तच्चावश्यं निर्वत्यम्, ःथ्द्य;हार्थमुत्तरार्थं च। ःथ्द्य;हार्थं तावत्--बालेयास्तण्डुलाः। उत्तरार्थम्--ऋषभोपानहोर्ञ्ञ्यः (5।1।14) आर्षभ्यो वत्स ःथ्द्य;ति।।
(अनुवृत्तिनिश्चायकभाष्यम्)
अथ तदर्थमित्यनुवर्तते, उताहो न।
किं चार्थोऽनुवृत्त्या?
बाढमर्थः--तदस्य तदस्मिन् स्यादिति (5।1।16) तदर्थे यथा स्यात्, ःथ्द्य;ह मा भूत्--प्रासादो देवदत्तस्य स्यादिति, प्राकारो नगरस्य स्यादिति।
यदि तदर्थमित्यनुवर्तते ऋषभोपानहोर्ञ्ञ्यः ऋषभार्थः घासः, उपानदर्थस्तिलकल्क ःथ्द्य;त्यत्रापि प्राप्नोति।
एवं तर्हि--अनुवर्तते प्रकृतिविकृतिग्रहणम्।
ननु चोक्तं बल्यृषभयोर्न सिध्यतीति।
कं पुनर्भवान् विकारं मत्वाऽऽह--वल्यृषभयोर्न सिध्यतीति?
(विकारपदार्थबोधकं भाष्यम्)
यदि तावद्यः प्रकृत्युपमर्देन भवति स विकारः,
वैभीतिको यूपः, खादिरं चषालमिति न सिध्यति।
अथ मतमेतत्तदेव गुणान्तरयुक्तं विकार ःथ्द्य;ति,
बल्यृषभयोरपि सिद्धं भवति। गुणान्तरयुक्ता हि तण्डुला बालेयाः, गुणान्तरयुक्तश्च वत्स आर्षभ्यः।
औपधेयं तु न सिध्यति।
वचनात्स्वार्थिको भविष्यति।।
-5-1-16- तदस्य तदस्मिन्त्स्यादिति (1898)
(पदकृत्यभाष्यम्)
(षष्ठी सप्तम्यर्थे प्रत्ययाधिकरणम्)
स्याद्ग्रहणं किमर्थम्?
ःथ्द्य;ह मा भूत्--प्रासादो देवदत्तस्य, प्राकारो नगरस्येति।
(स्याद्ग्रहणाक्षेपभाष्यम्)
अथ क्रियमाणेऽपि स्याद्ग्रहण ःथ्द्य;ह कस्मान्न भवति--प्रासादो देवदत्तस्य स्यात्, प्राकारो नगरस्य स्यादिति।
शक्यार्थे लिङिति वक्तव्यम्।
नैवं शक्यम्, ःथ्द्य;दानीमेव ह्युक्तम्--न ह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणमिति।
एवं तर्हि--ःथ्द्य;तिकरणः क्रियते। ततश्चेद्विवक्षा भवति। विवक्षा च द्वयी। अस्त्येव प्रायोक्त्री विवक्षा, अस्ति लौकिकी।
प्रायोक्त्री विवक्षा--प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते।
लौकिकी विवक्षा--यत्र प्रायस्य संप्रत्ययः, प्राय ःथ्द्य;ति लोको व्यपदिश्यते। न च प्रासादो देवदत्तस्य स्यात्
प्राकारो नगरस्य स्यादित्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात्।।
(सिद्धान्तभाष्यम्)
यद्येवम्, नार्थः स्याद्ग्रहणेन। न हि प्रासादो देवदत्तस्य प्राकारो नगरस्येत्यत्रोत्पद्यमानेन प्रत्ययेन प्रायस्य संप्रत्ययः स्यात्।।
-5-1-19- आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (1901)
(ठगधिकरणम्)
(परिमाणतः संख्यायाः पृथग्ग्रहणप्रयोजनभाष्यम्)
किमर्थं संख्यायाः पृथग्ग्रहणं क्रियते? न संख्याऽपि परिमाणमेव, तत्र परिमाणपर्युदासेन पर्युदासो भविष्यति।
एवं तर्हि सिद्धे सति यत्संख्यायाः पृथग्ग्रहणं करोति तज्ज्ञापयत्याचार्य्यः--अन्या संख्या, अन्यत्परिमाणमिति।।
किमेतस्य ज्ञापने प्रयोजनम्?
अपरिमाणबिस्ताचितकम्बलेभ्यो न तद्धितलुकि (4।1।22) ःथ्द्य;ति--द्वाभ्यां शताभ्यां क्रीता द्विशता, त्रिशता। परिमाणपर्युदासेन पर्युदासो न भवतीति।।
(परिमाणतः संख्याभेदे दोषभाष्यम्)
यद्येतज्ज्ञाप्यते, तदस्य परिमाणम् संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु (5।1।57-58) ःथ्द्य;ति विशेषणं न प्रकल्पते--परिमाणं या संख्येति। ःथ्द्य;ह च क्रीतवत्परिमाणात् (4।3।196) ःथ्द्य;ति संख्याविहितस्य प्रत्ययस्यातिदेशो न प्रकल्पते। शतस्य विकारः--शत्यः, शतिकः, साहस्र ःथ्द्य;ति।।
(ज्ञापकासम्भवप्रदर्शनभाष्यम्)
यत्तावदुच्यते--एतज्ज्ञापयत्याचार्यः--अन्या संख्या, अन्यत्परिमाणमिति।
नैतज्ज्ञापकसाध्यम्--अन्या संख्या, अन्यत्परिमाणमिति।
न्यायसिद्धमेवैतत्।
भेदमात्रं संख्याऽऽह। यच्चेषीकान्तं यच्चापरिमाणं तस्य सर्वस्य संख्या भेदमात्रं ब्रवीति।
परिमाणं तु सर्वतः। सर्वतो मानमिति चातः परिमाणमिति। प्रस्थस्य च समानाकृतेर्न कुतश्चिद्विशेषो गम्यते--न चोन्मानतः, न परिमाणतः, न प्रमाणतः।।
(उन्मानादिलक्षणैः संख्यायाः परिमाणतो भेदबोधकं भाष्यम्)
किं पुनरुन्मानम्? किं परिमाणम्? किं प्रमाणम्?
ःढ़द्य;र्ध्वमानं किलोन्मानम्
ःढ़द्य;र्ध्वं यन्मीयते तदुन्मानम्।।
परिमाणं तु सर्वतः।
सर्वतो मानमिति चातः परिमाणम्।
कुत एतत्?
परिः सर्वतोभावे वर्तते।
आयामस्तु प्रमाणं स्यात्
आयामविवक्षायां प्रमाणमित्येतद्भवति।।
संख्या बाह्या तु सर्वतः।।
आतश्च सर्वतः संख्या बाह्या--
भेदमात्रं ब्रवीत्येषा
नैषा मानं कुतश्च न।।
एवं च कृत्वा संख्यायाः पृथग्ग्रहणं क्रियते।।
(संख्याया भेदे पूर्वोक्तदोषनिरासभाष्यम्)
यदप्युच्यते--तदस्य परिमाणं संख्यायाः संज्ञासङ्घसूत्राध्ययनेष्विति विशेषणं न प्रकल्पत ःथ्द्य;ति
आहायम्--परिमाणं या संख्येति, न चास्ति संख्या परिमाणम्, तत्र वचनादियती विवक्षा भविष्यति।
यदप्युच्यते--क्रीतवत्परिमाणादिति च संख्याविहितस्य प्रत्ययस्यातिदेशो न प्रकल्पते ःथ्द्य;ति
संख्याया ःथ्द्य;ति च तत्र वक्तव्यम्।।
(ठगाद्यधिकारमर्यादासम्भवभाष्यम्)
किं पुनरिमे ठगादयः प्रागर्हाद्भवन्ति, आहो स्वित्सहार्हेण।
कश्चात्र विशेषः?
(5609 प्रथममर्यादाऽऽक्षेपवार्तिकम्।। 1 ।।)
- ठगादयः प्रागर्हाच्चेदर्हे तद्विधिः -
(भाष्यम्) ठगादयः प्रागर्हाच्चेदर्हे तद्विधिः। अर्हे ठगादयो विधेयाः। शतमर्हति--शत्यः--शतिकः, साहस्र ःथ्द्य;ति।
वस्ने वचनात्सिद्धम्।
ःथ्द्य;ह यः शतमर्हति शतं तस्य वस्नो भवति। तत्र सोऽस्यांशवस्नभृतयः (5।1।56) ःथ्द्य;त्येव सिद्धम्।।
(5610 आक्षेपवार्तिकम्।। 2 ।।)
- वस्ने वचनात्सिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः -
(भाष्यम्) वस्ने वचनात्सिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः। मांसौदनिकोऽतिथिः, श्वैतच्छत्रिकः, कालायसूपिकः।।
तथा गुणानां परिप्रश्नो भवति--किमयं ब्राह्मणोऽर्हति।
शतमर्हति--शत्यः, शतिकः, साहस्रः, नैष्किक ःथ्द्य;सि न सिध्यति।।
(द्वितीयमर्यादाक्षेपवार्तिकावतरणभाष्यम्)
सन्तु तर्हि सहार्हेण।।
(5611 द्वितीयमर्यादाक्षेपवार्तिकम्।। 3 ।। )
- आर्हाच्चेद्भोजनादिष्वतिप्रसङ्गः -
(भाष्यम्) आर्हाच्चेद्भोजनादिष्वतिप्रसङ्गो भवति--भोजनमर्हति, पानमर्हतीति।
किमुच्यते भोजनादिष्वतिप्रसङ्ग ःथ्द्य;ति, यदा छेदादिभ्य ःथ्द्य;त्युच्यते। अवश्यं मांसौदनिकाद्यर्थं योगविभागः कर्तव्यः--तदर्हति, ततः--छेदादिभ्यो नित्यमिति। तस्मिन् क्रियमाणे भोजनादिष्वतिप्रसङ्गो भवति।।
(5612 समाधानवार्तिकम्।। 4 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति।
अनभिधानाद्भोजनादिष्वतिप्रसङ्गो न भवति।
अथ वा योगविभागो न करिष्यते।
कथं मांसौदनिकोऽतिथिः, श्वैतच्छत्रिकः, कालायसूपिकः?
अस्मिन् दीयते, अस्मा ःथ्द्य;ति च, एवमेतत्सिद्धम्।
अथ वा पुनः सन्तु प्रागर्हात्।
ननु चोक्तं ठगादयः प्रागर्हाच्चेदर्हे तद्विधिरिति। परिहृतमेतद्--वस्ने वचनात्सिद्धमिति।
ननु चोक्तं वस्ने वचनात्सिद्धमिति चेन्मांसोदनिकादिष्वप्राप्तिरिति, तथा गुणानां परिप्रश्नो भवति--किमयं ब्राह्मणोर्हति, शतमर्हति शत्यः, शतिकः, साहस्रः, नैष्किक ःथ्द्य;ति न सिध्यतीति।
अस्मिन् दीयते, अस्मा ःथ्द्य;ति च--एवमेतत् सिद्धम्।।
-5-1-20- असमासे निष्कादिभ्यः (1902)
(पदकृत्यभाष्यम्)
असमास ःथ्द्य;ति किमर्थम्?
परमनिष्केण क्रीतम्-परमनैष्किकम्।
नैतदस्ति। निष्कशब्दात्प्रत्ययो विधीयते, तत्र कः प्रसङ्गो यत्परमनिष्कशब्दात्स्यात्। नैव प्राप्नोति, नार्थः प्रतिषेधेन।
तदन्तविधिना प्राप्नोति।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।।
अत उत्तरं पठति--
(5613 असमासपदप्रयोजनवार्तिकम्।। 1 ।।)
- निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य -
(भाष्यम्) निष्कादिष्वसमासग्रहणं क्रियते ज्ञापकार्थम्।
किं ज्ञाप्यम्?
एतज्ज्ञापयत्याचार्य्यः--पूर्वत्र तदन्तविधेः प्रतिषेधो न भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
प्राग्वतेष्ठञ्ञ् (5।1।18) ःथ्द्य;त्यत्र तदन्तविधिः सिद्धो भवति।।
नैतदस्ति प्रयोजनम्।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न च ठञ्ञ्विधौ काचित्प्रकृतिर्गृह्यते।
ःथ्द्य;दं तर्हि प्रयोजनम्--आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5।1।19)--परमगोपुच्छेन क्रीतं पारमगोपुच्छिकम्। अत्र तदन्तविधिः सिद्धो भवति।।
एतदपि नास्ति प्रयोजनम्।
विधौ प्रतिषेधः, प्रतिषेधश्चायम्।
एवं तर्हि ज्ञापयत्याचार्यः--ःथ्द्य;त उत्तरं तदन्तविधेः प्रतिषेधो न भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्?
पारायणतुरायणचान्द्रायणं वर्तयति (5।1।72) द्वैपारायणिकः, त्रैपारायणिकः। अत्र तदन्तविधिः सिद्धो भवति।।
एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत्--प्राग्वतेः संख्यापूर्वंपदानां तदन्तग्रहणमलुकीति।
पूर्वत्रैव तर्हि प्रयोजनम्। खलयवमाषतिलवृषब्रह्मणश्च (5।1।7) ःथ्द्य;ति। कृष्णतिलेभ्यो हितः- कृष्णतिल्यः, राजमाषेभ्यो हितं--राजमाष्यम्।।
(5614 उपसङ्ख्यानवार्तिकम्।। 2 ।।)
- प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि -
(भाष्यम्) प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि कर्तव्यम्। पारायणतुरायणचान्द्रायणं वर्तयति। द्वैपारायणिकः। त्रैपारायणिकः।
अलुकीति किमर्थम्?
द्वाभ्यां शूर्पाभ्यां क्रीतम्--द्विशूर्पम्, त्रिशूर्पम्। द्विशूर्पेण क्रीतम्--द्विशौर्पिकम्, त्रिशौर्पिकम्।।
-5-1-21- शताच्च ठन्यतावशते (1903)
(ठन्यतोरधिकरणम्)
(5615 अर्थविशेषबोधकवार्तिकम्।। 1 ।।)
- शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः -
(भाष्यम्) शतप्रतिषेधेऽन्यशतत्वे प्रतिषेधो न भवतीति वक्तव्यम्।
ःथ्द्य;ह मा भूत्--शतेन क्रीतं शत्यं शाकटशतमिति।
अन्यशतत्व ःथ्द्य;ति किम्? शतकं निदानमिति।।
-5-1-22- संख्याया अतिशदन्तायाः कन् (1904)
(कनोऽधिकरणम्)
(उपसंख्यानभाष्यम्)
डतेश्चेति वक्तव्यम्।
ःथ्द्य;हापि यथा स्यात्--कतिभिः क्रीतं कतिकम्।
किं पुनः कारणं न सिध्यति?
त्यन्ताया नेति प्रतिषेधः प्राप्नोति।।
(5616 उपसंख्यानानर्थक्यबोधकं वार्तिकम्।। 1 ।।)
- तिप्रतिषेधाड्डुतिग्रहणमिति चेदर्थवद्ग्रहणात्सिद्धम् -
(भाष्यम्) अर्थवतस्तिशब्दस्य ग्रहणम्, न च डतेस्तिशब्दोऽर्थवान्।।
(सिद्धान्तभाष्यम्)
नैषा परिभाषा ःथ्द्य;ह शक्या विज्ञातुम्, न हि केवलेन प्रत्ययेनार्थो गम्यते।
किं तर्हि?
सप्रकृतिकेन।
क्व तर्ह्येषा परिभाषा कर्तव्या भवति?
यान्येतानि शब्दसंघातग्रहणानि।।
तत्तर्हि वक्तव्यम्?
न वक्तव्यम्, अर्थवद्ग्रहणात्सिद्धम्।
ननु चोक्तम्--नैषा परिभाषेह शक्या विज्ञातुं न हि केवलेन प्रत्ययेनार्थो गम्यते केन तर्हि सप्रकृतिकेन--ःथ्द्य;ति।
केवलेनापि प्रत्ययेनार्थो गम्यते।
कथम्।
उक्तम्--अन्वयव्यतिरेकाभ्याम्।।
-5-1-23- वतोरिड्वा (1905)
(ःथ्द्य;डागमाधिकरणम्)
(एकदेश्याक्षेपभाष्यम्)
कस्यायमिडि्वधीयते?
कन ःथ्द्य;त्याह।
तत्कनो ग्रहणं कर्तव्यम्, अक्रियमाणे हि प्रत्ययाधिकारात् प्रत्ययोऽयं विज्ञार्यते।
टित्करणसार्मथ्यादादिर्भविष्यति।
अस्त्यन्यटि्टत्करणस्य प्रयोजनम्--टित ःथ्द्य;ति ःथ्द्य;र्कारो यथा स्यात्।
अकारान्तप्रकरणे ःथ्द्य;र्कारः, न चैषोऽकारान्तः।
एवमपि कुत एतत्--टित्करणसार्मथ्यादादिर्भविष्यति, न पुनरकारान्तप्रकरणे अनकारान्तादपि ःथ्द्य;र्कारः स्यात्?
तत्स्माकनो ग्रहणं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते।
क्व प्रकृतम्?
संख्याया अतिशदन्तायाः कन्(5।1।22) ःथ्द्य;ति।
तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः।
वतोरित्येषा पञ्ञ्चमी कन्निति प्रथमायाः षष्ठीं प्रकल्पयिष्यति--तस्मादित्युत्तरस्य ःथ्द्य;ति।
प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति।
नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते।।
-5-1-24- विंशतित्रिशद्भ्यां ड्वुनसंज्ञायाम् (1906)
(कन्ड्वुनोरधिकरणम्)
(पदकृत्यभाष्यम्)
असंज्ञायामिति किमर्थम्? त्रिंशत्कः, विंशतिकः।
कथं चात्र कन् भवति?
संख्यायाः कन् भवतीति।
अतिशदन्ताया ःथ्द्य;ति प्रतिषेधः प्राप्नोति।
एवं तर्ह्याचार्य्यप्रवृत्तिर्ज्ञापयति--भवत्यत्र कन्निति, यदयं विंशतिकात्खः (5।1।32) ःथ्द्य;ति प्रत्ययान्तनिपातनं करोति।
विंशतेरेतज्ज्ञापकं स्यात्।
नेत्याह, योगापेक्षं ज्ञापकम्।
अथ वा योगविभागः करिष्यते--विंशतित्रिंशद्भ्यां कन् भवतीति।
ततः ड्वुनसंज्ञायामिति।।
-5-1-25- कंसाटि्टठन् (1907)
(टिठन्प्रत्ययाधिकरणम्)
(5617 उपसंख्यानवार्तिकम्।। 1 ।।)
- टिठन्नर्धाच्च -
(भाष्यम्) टिठन्नर्धाच्चेति वक्तव्यम्। अर्धिकः, अर्धिकी।।
(8618 उपसंख्यानवार्तिकम्।। 2 ।।)
- कार्षापणाद्वा प्रतिश्च -
(भाष्यम्) कार्षापणाद्वा टिठन्वक्तव्यः, वा च प्रतिरादेशो वक्तव्यः। कार्षापणिकः, कार्षापणिकी। प्रतिकः, प्रतिकी।।
-5-1-28- अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् (1910)
(5619 निमित्तग्रहणावश्यकत्वबोधकवार्तिकम्।। 1 ।।)
- द्विगोर्लुक्युक्तम् -
(लुकोऽधिकरणम्)
(भाष्यम्) किमुक्तम्?
तत्र तावदुक्तम्-- द्विगोर्लुकि तन्निमित्तग्रहणम् अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि ःथ्द्य;ति।
ःथ्द्य;हापि द्विगोर्लुकि तन्निमित्तग्रहणं कर्तव्यम्। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुग्भवतीति वक्तव्यम्।
ःथ्द्य;ह मा भूत्-- द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। द्विशूर्पेण क्रीतं द्विशौर्पिकम्। त्रिशौर्पिकम्।
 अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि ।
अर्थविशेषस्यासंप्रत्ययेऽतन्निमित्तादपीति वक्तव्यम्।
किं प्रयोजनम्? द्वयोः शूर्पयोः समाहारः--द्विशूर्पी। द्विशूर्प्या क्रीतमिति विगृह्य द्विशूर्पमित्येव यथा स्यात्।।
(तन्निमित्तपदार्थबोधकभाष्यम्)
अथ क्रियमाणेऽपि तन्निमित्तग्रहणे कथमिदं विज्ञायते--तस्य निमित्तं-तन्निमित्तम्, तन्निमित्तादिति, आहोस्वित्स निमित्तं यस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति।
किं चातः?
यदि विज्ञायते--तस्य निमित्तं तन्निमित्तम्, तन्निमित्तादिति।
क्रियमाणेऽपि हि तन्निमित्तग्रहणेऽत्र प्राप्नोति--द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकम्। त्रिशौर्पिकम्।
अथ विज्ञायते--स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति।
न दोषो भवति।
यथा न दोषस्तथाऽस्तु।
स निमित्तमस्य सोऽयं तन्निमित्तः, तन्निमित्तादिति विज्ञायते।
कुत एतत्?
यदयमाह--अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति।
(निमित्तग्रहणानावश्यकत्वबोधकभाष्यम्)
तत्तर्हि तन्निमित्तग्रहणं कर्तव्यम्।
न कर्तव्यम्।
द्विगोरिति नैषा पञ्ञ्चमी।
का तर्हि?
संबन्धषष्ठी। द्विगोस्तद्धितस्य लुग्भवति। द्विगोर्यस्तद्धितः।
किं च द्विगोस्तद्धितः?
निमित्तम्। यस्मिन् द्विगुरित्येतद्भवति।
कस्मिंश्चैतद्भवति?
प्रत्यये।
ःथ्द्य;दं तर्हि वक्तव्यम्--अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति।
एतच्च न वक्तव्यम्। ःथ्द्य;हास्माभिस्त्रैशब्द्यं साध्यम्--द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्प्या क्रीतम्, द्विशूर्पम्। त्रिशूर्पमिति।
तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः करिष्यते, अपरस्मादुत्पत्तिर्भविष्यति--अविरविकन्यायेन।
तद्यथा--अवेर्मांसमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति--आविकमिति।
एवमिहापि--द्वाभ्यां शूर्पाभ्यां क्रीतमिति विगृह्य--द्विशूर्पमिति भविष्यति।
द्विशूर्प्या क्रीतमिति विगृह्य--वाक्यमेव भविष्यति।।
(पदकृत्यभाष्यम्)
असंज्ञायामिति किमर्थम्?
पाञ्ञ्चलोहितिकम्, पाञ्ञ्चकलापिकम्।।
(5620 असंज्ञाग्रहणानर्थक्यबोधकवार्तिकम्।। 2 ।।)
- संज्ञाप्रतिषेधानर्थक्यं च तन्निमित्तत्वाल्लोपस्य -
(भाष्यम्) संज्ञाप्रतिषेधश्चानर्थकः
किं कारणम्?
तन्निमित्तत्वाल्लोपस्य। नान्तरेण तद्धितं तद्धितस्य च लुकं द्विगुः संज्ञाऽस्ति, यस्तस्मादुत्पद्यते नासौ तन्निमित्तं स्यात्। एवं तर्हि ःथ्द्य;दं स्यात्--पञ्ञ्चानां लोहितानां समाहारः पञ्ञ्चलोहिती, पञ्ञ्चलोहित्या क्रीतमिति।
अत्रापि पञ्ञ्चलोहितमित्येव भवितव्यम्। कथम्?
उक्तं ह्येतत्--अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपीति।।
(5621 अद्ध्यर्धग्रहणानर्थक्यबोधकवार्तिकम्।। 3 ।।)
- उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम् -
(भाष्यम्) उक्तं संख्यात्वेऽध्यर्धग्रहणस्य प्रयोजनम्।
किमुक्तम्?
अध्यर्धग्रहणं च समासकन्विध्यर्थं लुकि चाग्रहणमिति।
तस्मादिहाध्यर्धग्रहणानर्थक्यम्।
तस्मादिहाध्यर्धग्रहणमनर्थकम्, द्विगोरित्येव लुक् सिद्धः।।
-5-1-29- विभाषा कार्षापणसहस्राभ्याम् (1911)
(746 विधिसूत्रम् ।। 5 । 1 । 1 आ. 20)
(5622 उपसंख्यानवार्तिकम्।। 1 ।।)
- कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसंख्यानम् -
(भाष्यम्) कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसंख्यानं कर्तव्यम्। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्।।
-5-1-30- द्वित्रिपूर्वान्निष्कात् (1912)
(5623 सूत्रविषयनिर्धारकवार्तिकम्।। 1 ।।)
- द्वित्रिभ्यां द्वैयोग्यम् -
(भाष्यम्) द्वित्रिभ्यामिति यदुच्यते द्वैयोग्यमेतद्द्रष्टव्यम्।
किमिदं द्वैयोग्यमिति?
द्वयोर्योगयोर्भवं--द्वियोगम्, द्वियोगस्य भावो द्वैयोग्यमिति।।
(वार्तिकप्रत्याख्याने भाष्यम्)
द्वेष्यं विजानीयादविशेषेणेत उत्तरं द्वित्रिभ्यामिति।
तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे द्वित्रिभ्यां द्वैयोग्यमिति।।
(5624 संग्रहवार्तिकम्।। 2 ।।)
- तत्र च बहुग्रहणम् -
(भाष्यम्) तत्र च बहुग्रहणं कर्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। बहुबिस्तम्, बहुबैस्तिकम्।।
-5-1-31- बिस्ताच्च (1913)
(5623 सूत्रविषयनिर्धारकवार्तिकम्।। 1 ।।)
- द्वित्रिभ्यां द्वैयोग्यम् -
(भाष्यम्) द्वित्रिभ्यामिति यदुच्यते द्वैयोग्यमेतद्द्रष्टव्यम्।
किमिदं द्वैयोग्यमिति?
द्वयोर्योगयोर्भवं--द्वियोगम्, द्वियोगस्य भावो द्वैयोग्यमिति।।
(वार्तिकप्रत्याख्याने भाष्यम्)
द्वेष्यं विजानीयादविशेषेणेत उत्तरं द्वित्रिभ्यामिति।
तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे द्वित्रिभ्यां द्वैयोग्यमिति।।
(5624 संग्रहवार्तिकम्।। 2 ।।)
- तत्र च बहुग्रहणम् -
(भाष्यम्) तत्र च बहुग्रहणं कर्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। बहुबिस्तम्, बहुबैस्तिकम्।।
-5-1-33- खार्या ःथ्द्य;र्कन् (1915)
(ःथ्द्य;र्कन्प्रत्ययाधिकरणम्)
(5625 ःथ्द्य;ष्टाख्याने वार्तिकम्।। 1 ।।)
- खार्या ःथ्द्य;र्कन् केवलायाश्च -
(भाष्यम्) खार्या ःथ्द्य;र्कन् केवलायाश्चेति वक्तव्यम्। खारीकम्।।
(5626 उपसंख्यानवार्तिकम्।। 2 ।।)
- काकिण्याश्चोपसंख्यानम् -
(भाष्यम्) काकिण्याश्चोपसंख्यानं कर्तव्यम्। अध्यर्धकाकिणीकम्, द्विकाकिणीकम्।।
(5627 ःथ्द्य;ष्टाख्याने वार्तिकम्।। 3 ।।)
- केवलायाश्च -
(भाष्यम्) केवलायाश्चेति वक्तव्यम्। काकिणीकम्।।
-5-1-35- शाणाद्वा (1917)
(यतोऽधिकरणम्)
(5628 उपसंख्यानवार्तिकम्।। 1 ।।)
- शतशाणाभ्यां वा -
(भाष्यम्) शतशाणाभ्यां वेति वक्तव्यम्। अध्यर्धशतम्, अध्यर्धशत्यम्। पञ्ञ्चशतम्, पञ्ञ्चशत्यम्। अध्यर्धशाणम्, अध्यर्धशाण्यम्। पञ्ञ्चशाणम्, पञ्ञ्चशाण्यम्।।
(5629 उपसंख्यानवार्तिकम्।। 2 ।।)
- द्वित्रिपूर्वादण्च -
(भाष्यम्) द्वित्रिपूर्वादण्चेति वक्तव्यम्। द्विशाणम्, त्रिशाणम्। द्वैशाणम्, त्रैशाणम्। द्विशाण्यम्, त्रिशाण्यम्।।
-5-1-37- तेन क्रीतम् (1919)
(क्रीतार्थाधिकरणम्)
(5630 एकदेश्युपसंख्यानवार्तिकम्।। 7 ।।)
- तेन क्रीतमिति करणात् -
(भाष्यम्) तेन क्रीतमित्यत्र करणादिति वक्तव्यम्। ःथ्द्य;ह मा भूद्--देवदत्तेन क्रीतम्, यज्ञदत्तेन क्रीतमिति।।
(5631 एकदेश्युपसंख्यानवार्तिकम्।। 2 ।।)
- अकर्त्रेकान्तात् -
(भाष्यम्) अकर्त्रेकान्तादिति वक्तव्यम्। ःथ्द्य;ह मा भूत्--देवदत्तेन पाणिना क्रीतमिति।।
(5632 एकदेश्युपसंख्यानवार्तिकम्।। 3 ।।)
- संख्यैकवचनाद् द्विगोश्चोपसंख्यानम् -
(भाष्यम्) संख्याया ःथ्द्य;ति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्- पञ्ञ्चभिः क्रीतं पञ्ञ्चकम्।
किं पुनः कारणं न सिध्यति?
एकवचनान्तादिति वक्ष्यति, तस्यायं परस्तादपकर्षः।
एकवचनात्।
एकवचनान्तादिति वक्तव्यम्। ःथ्द्य;ह मा भूत्--शूर्पाभ्यां क्रीतम्, शूर्पैः क्रीतमिति।
द्विगोश्चेति वक्तव्यम्। ःथ्द्य;हापि यथा स्यात्--द्वाभ्यां शूर्पाभ्यां क्रीतं--द्विशूर्पम्, त्रिशूर्पमिति।
(आक्षेपभाष्यम्)
यद्येकवचनान्तादित्युच्यते, मुद्गैः क्रीतं मौदि्गकम्, माषैः क्रीतं माषिकमिति न सिध्यति।
परिमाणस्य संख्याया यदेकवचनं तदन्तादिति वक्तव्यम्।
तत्तर्ह्येकवचनान्तादिति वक्तव्यम्। तस्मिंश्च क्रियमाणे बहु वक्तव्यं भवति।
न वक्तव्यम्।
कस्मान्न भवति शूर्पाभ्यां क्रीतं शूर्पैः क्रीतमिति?
(5633 सिद्धान्तवार्तिकम्।। 4 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति।।
यद्येवम्, करणात् अकर्त्रेकान्तात् ःथ्द्य;त्यपि न वक्तव्यम्।।
कर्तुः कर्त्रेकान्ताद्वा कस्मान्न भवति?
अनभिधानात्।।
-5-1-38- तस्य निमित्तं संयोगोत्पातौ (1920)
(संयोगोत्पातयोरर्थनिश्चायकभाष्यम्)
संयोगोत्पातयोः को विशेषः?
संयोगो नाम स भवति--ःथ्द्य;दं कृत्वेदमवाप्यत ःथ्द्य;ति।
उत्पातो नाम स भवति--यादृच्छिको भेदो वा छेदो वा पद्म वा पर्णं वा।।
(5634 उपसंख्यानवार्तिकम्।। 1 ।।)
- तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् -
(भाष्यम्) तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानं कर्तव्यम्। वातस्य शमनं कोपनं वा--वातिकम्, पैत्तिकम्, श्लैष्मिकम्।।
(5635 उपसंख्यानवार्तिकम्।। 2 ।।)
- संनिपाताच्च -
(भाष्यम्) सन्निपाताच्चेति वक्तव्यम्। सान्निपातिकम्।।
-5-1-47- तदस्मिन् वृद्ध्यायलाभशुल्कोपादा दीयते (1929)
(अर्थाधिकरणम्)
(5637 एकदेश्युपसंख्यानवार्तिकम्।। 1 ।।)
- तदस्मिन् दीयतेऽस्मा ःथ्द्य;ति च -
(भाष्यम्) तदस्मिन् दीयतेऽस्मा ःथ्द्य;ति चेति वक्तव्यम्। पञ्ञ्च वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते अस्मै--पञ्ञ्चकः, सप्तकः, अष्टकः, नवकः, दशकः।।
(सिद्धान्तभाष्यम्)
तत्तर्हि उपसंख्यानं कर्तव्यम्।
न कर्तव्यम्।
यद्धि यस्मै दीयते तस्मिन्नपि तद्दीयते, तत्र तदस्मिन् दीयते ःथ्द्य;त्येव सिद्धम्।।
-5-1-48- पूरणार्धाट्ठन् (1930)
(ठनोऽधिकरणम्)
(5638 एकदेशिवार्तिकम्।। 1 ।।)
- ठन्प्रकरणेऽनन्तादुपसंख्यानम् -
(भाष्यम्) ठन्प्रकरणेऽनन्तादुपसंख्यानं कर्तव्यम्। द्वितीयिकः। तृतीयिकः।
किं पुनः कारणं न सिध्यति?
पूरणादित्युच्यते। न चैतत्पूरणान्तम्। अनैतत्पर्यवपन्नम्।।
(सिद्धान्तभाष्यम्)
पूरणं नामार्थः, तमर्थमाह तीयशब्दः, पूरणं सोऽसौ भवति।
पूरणान्तात्स्वार्थे भागे अन्, सोऽपि पूरणं भवत्येव।।
-5-1-52- सम्भवत्यवहरति पचति (1934)
(अर्थाधिकरणम्)
(5639 उपसंख्यानवार्तिकम्।। 1 ।।)
- तत्पचतीति द्रोणादण्च -
(भाष्यम्) तत्पचतीति द्रोणादण् चेति वक्तव्यम्। द्रोणं पचति द्रौणी, द्रौणिकी।।
-5-1-55- कुलिजाल्लुक्खौ च (1937)
(लुक्खाधिकरणम्)
(5640 लुक्खग्रहणानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- कुलिजाच्चेति सिद्धे लुक्खग्रहणानर्थक्यं पूर्वस्मिन् त्रिकभावात् -
(भाष्यम्) कुलिजाच्चेत्येव सिद्धं नार्थो लुक्खग्रहणेन।
किं कारणम्?
पूर्वस्मिंस्त्रिकभावात्। पूर्वस्मिन् योगे सर्व एष त्रिको निर्दिश्यते--द्व्याढकी, द्व्याढकिकी, द्व्याढकीना।।
-5-1-57- तदस्य परिमाणम् (1939)
-5-1-58- संख्यायाः संज्ञासंघसूत्राध्ययनेषु (1940)
(अर्थाधिकरणम्)
(5641 संख्येयमात्रार्थकत्वेनाऽप्राप्तौ प्रत्ययबोधकवार्तिकम्।। 1 ।।)
- संज्ञायां स्वार्थे -
(भाष्यम्) संज्ञायां स्वार्थे प्रत्यय उत्पाद्यः। पञ्ञ्चैव पञ्ञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। सप्तका ब्रह्मवृक्षाः।।
(5642 संघादिषु प्रत्ययबोधकवार्तिकम्।। 2 ।।)
- ततः परिमाणिनि -
(भाष्यम्) ततः परः प्रत्ययः परिमाणिनीति वक्तव्यम्। पञ्ञ्चकः संघः। दशकः संघः।।
(5643 प्रथमवार्तिकाक्षेपयैकदेशिवार्तिकम्।। 3 ।।)
- जीवितपरिमाणे चोपसंख्यानम् -
(भाष्यम्) जीवितपरिमाणे चोपसंख्यानं कर्तव्यम्। षष्टिर्जीवितपरिमाणमस्य--षाष्टिकः, साप्ततिकः।।
(5644 एकदेशिनिरासवार्तिकम्।। 4 ।।)
- जीवितपरिमाणे चेत्यनर्थकं वचनं कालादिति सिद्धत्वात् -
(भाष्यम्) जीवितपरिमाणे चेत्यनर्थकं वचनम्।।
किं कारणम्?
कालादिति सिद्धत्वात्। कालात् (5।1।78) ःथ्द्य;त्येव सिद्धम्। ःथ्द्य;ह यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भूतो भवति। तत्र तमधीष्टो भृतो भूतो भावीत्येव सिद्धम्।।
अवश्यं चैतदेवं विज्ञेयम्।।
(5645 एकदेशिवार्तिके दोषप्रदर्शकं वार्तिकम्।। 5 ।।)
- ःथ्द्य;ह वचने हि लुक्प्रसङ्गः -
(भाष्यम्) ःथ्द्य;ह हि क्रियमाणे लुक् प्रसज्येत--द्विषाष्टिकः, त्रिषाष्टिकः।
अनेन सति लुग्भवति।
तेन सति कस्मान्न भवति?
आर्हादित्युच्यते।
न सिध्यति।
किं कारणम्?
न हीमे कालशब्दाः।
किं तर्हि?
संख्याशब्दा ःथ्द्य;मे।
ःथ्द्य;मेऽपि कालशब्दाः।
कथम्?
संख्या संख्येये वर्तते।
यदि तर्हि यो यः काले वर्तते स स कालशब्दः, रमणीयादिष्वतिप्रसङ्गो भवति। रमणीयं कालं भूतः, शोभनं कालं भूतः। अथ मतमेतत्--काले दृष्टः शब्दः कालशब्दः, कालं यो न व्यभिचरति--ःथ्द्य;ति। न रमणीयादिष्वतिप्रसङ्गो भवति, जीवितपरिमाणे तूपसंख्यानं कर्तव्यम्।
ःथ्द्य;ह चोपसंख्यानं कर्तव्यम्--वार्षशतिकः, वार्षसहस्रिक ःथ्द्य;ति।
किं पुनः कारणं न सिध्यति?
न हि वर्षशतशब्दः संख्या।
किं तर्हि?
संख्येये वर्तते वर्षशतशब्दः।
एवं तर्हि--
(5646 योगविभागबोधकवार्तिकम्।। 6 ।।)
- अन्येभ्योऽपि दृश्यते खारशताद्यर्थम् -
(भाष्यम्) अन्येभ्योऽपि दृश्यत ःथ्द्य;ति वक्तव्यम्।
किं प्रयोजनम्?
खारशताद्यर्थम्। खारशतिको राशिः। खारसहस्रिको राशिः।।
(सिद्धान्ताभिप्रायकं भाष्यम्)
अयं तर्हि दोषः--ःथ्द्य;ह वचने हि लुक्प्रसङ्ग ःथ्द्य;ति।
न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति।
किं तर्हि?
यत्र क्रियमाणे न दोषस्तत्र कर्तव्यम्।
क्व च क्रियमाणे न दोषः? परमार्हात्।
तत्तर्हि उपसंख्यानं कर्तव्यम्।
न कर्तव्यम्।
कालादित्येव सिद्धम्।
ननु चोक्तं नेमे कालशब्दाः, किं तर्हि, संख्याशब्दा ःथ्द्य;ति।
ननु चोक्तमिमेऽपि कालशब्दाः। कथं? संख्या संख्येये वर्तते।
ननु चोक्तं यदि तर्हि यो यः शब्दः काले वर्तते स स कालशब्दः, रमणीयादिष्वतिप्रसङ्गो भवतीति।।
(5647 सिद्धान्तवार्तिकम्।। 7 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति। अनभिधानाद्रमणीयादिषूत्पत्तिर्न भविष्यति।।
(5648 उपसङ्ख्यानवार्तिकम्।। 8 ।।)
- स्तोमे डविधिः पञ्ञ्चदशाद्यर्थः -
(भाष्यम्) स्तोमे डो विधेयः।
किं प्रयोजनम्?
पञ्ञ्चदशाद्यर्थः। पञ्ञ्चदशः स्तोमः। सप्तदशः स्तोम ःथ्द्य;ति।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य प्रथमे पादे प्रथममाह्निकम्।।
-5-1-59- पङि्क्तविंशतित्रिंशच्चत्वारिंशत्पञ्ञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् (1941)
(निपातनाधिकरणम्)
(वार्तिकावतरणभाष्यम्)
ःथ्द्य;मे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाश्च निपात्यन्ते, तत्र न ज्ञायते--का प्रकृतिः, कः प्रत्ययः, कः प्रत्ययार्थ ःथ्द्य;ति। तत्र वक्तव्यम्--ःथ्द्य;यं प्रकृतिः, अयं प्रत्ययः, अयं प्रत्ययार्थ ःथ्द्य;ति।
ःथ्द्य;मे ब्रूमः--द्विशब्दादयं दशदर्थाभिधायिनः स्वार्थे शतिच् प्रत्ययो निपात्यते, विन्भावश्च। द्वौ दशतौ विंशतिः।।
(5649 विंशत्यादीनां दशदाद्यर्थे समासवचनानुपपत्तिरूपाक्षेपवार्तिकम्।। 1 ।।)
- विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्तिः -
(भाष्यम्) विंशत्यादयो दशदर्थे चेत्समासो नोपपद्यते--विंशतिगवमिति।
किं कारणम्? द्रव्यमनभिहितम्, तस्यानभिहितत्वात् षष्ठी प्राप्नोति, षष्ठ्यन्तं च समासे पूर्वं निपतति। तत्र गोविंशतिरिति प्राप्नोति।।
न चैवं भवितव्यम्--गोविंशतिरिति?
भवितव्यम् च, विंशतिगवं तु न सिध्यति।।
ःथ्द्य;ह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासो न प्राप्नोति।।
वचनं च विधेयम्।। विंशतिः।
द्वित्वाद्दशतोर्दवयोर्द्विवचनमिति द्विवचनं प्राप्नोति।।
(वार्तिकावतरणभाष्यम्)
एवं तर्हि--परिमाणिनि विंशत्यादयो भविष्यन्ति।।
(5650 परिमाण्यर्थस्वीकारे दोषोद्भावकवार्तिकम्।। 2 ।।)
- परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् -
(भाष्यम्) परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययो विधेयः। विंशकः संघः।।
(5651 परिमाण्यर्थे द्वितीयदोषोद्भावकवार्तिकम्।। 3 ।।)
- षष्ठीवचनविधिश्च -
(भाष्यम्) षष्ठी च विधेया। गवां विंशतिः। द्रव्यमभिहितं तस्याभिहितत्वात् षष्ठी न प्राप्नोति।।
एकवचनं च विधेयम्। विंशतिर्गावः।
गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम्(1।4।21) ःथ्द्य;ति बहुवचनं प्राप्नोति।।
(5652 दृष्टान्तनिदर्शनेनाक्षेपवारकवार्तिकम् ।। 4 ।।)
- अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु -
(भाष्यम्) अनारम्भो वा पुनर्विंशत्यादीनां न्याय्यः।
कथं सिध्यति?
प्रातिपदिकविज्ञानात्।
कथं प्रातिपदिकविज्ञानम्?
विंशत्यादयोऽव्युत्पन्नानि प्रातिपदिकानि। यथा सहस्रादिषु।
तद्यथा--सहस्रम्---अयुतम्--अर्बुदम्--ःथ्द्य;ति, न चानुगमः क्रियते, भवति चाभिधानम्।।
(सहस्रादिष्वाक्षेपसमाधानभाष्यम्)
यथा सहस्रादिष्वित्युच्यते,
अथ सहस्रादिष्वपि कथं भवितव्यम्--सहस्रं गवाम्। सहस्रं गावः। सहस्रगवम्। गोसहस्रमिति।
यावताऽत्रापि संहेहः, नासूया कर्तव्या यत्रानुगमः क्रियते।।
(विंशत्यादीनां समुदायबोधकत्वस्वीकारेण वार्तिकाक्षिप्तदोषवारणभाष्यम्)
ननु चोक्तम्--विंशत्यादयो दशदर्थे चेत्--समासवचनानुपपत्तिः, परिमाणिनि चेत्--पुनः स्वार्थे प्रत्ययविधानम्,
षष्ठीवचनविधिश्चेति।।
नैष दोषः।
समुदाये विंशत्यादयो भविष्यन्ति।
किं वक्तव्यमेतत्?
न हि।
कथमनुच्यमानं गंस्यते?
सङ्घ ःथ्द्य;ति वर्तते, सङ्घः समूहः समुदाय ःथ्द्य;त्यनर्थान्तरम्।।
(विंशत्यादीनां गुणवचनत्वबोधकभाष्यम्)
त एते विंशत्यादयः समुदाये सन्तो भाववचना भवन्ति, भाववचनाः सन्तो गुणवचना भवन्ति, गुणवचनाः सन्तोऽविशिष्टा भवन्त्यन्यैर्गुणवचनैः।।
(गुणानां गुणिविशेषकत्वबोधकभाष्यम्)
अन्येषु च गुणवचनेषु कदाचिद्गुणो गुणिविशेषको भवति, तद्यथा--शुक्लः पट ःथ्द्य;ति।।
(गुणिनां गुणव्यपदेशदर्शकभाष्यम्)
कदाचिद्गुणिना गुणो व्यपदिश्यते, तद्यथा--पटस्य शुक्ल ःथ्द्य;ति।।
(आक्षेपपरिहारदर्शकभाष्यम्)
तद्यदा तावदुच्यते--विंशत्यादयो दशदर्थे चेत्-- समासवचनानुपपत्तिरिति, सामानाधिकरण्यं तदा गुणगुणिनोः।
वचनपरिहारस्तिष्ठतु तावत्।
परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानमिति, संहनने वृत्तः संहनने वर्तिष्यते, संख्यासंहनने वृत्तो द्रव्यसंहनने वर्तिष्यते।।
अथ षष्ठी तदा गुणिना गुणो विशेष्यते।।
(वचनदोषपरिहारभाष्यम्)
वचनपरिहार उभयोरेवम्।
उभयोरपि पक्षयोरेवं कृत्वा वचनपरिहारः--
(विंशत्यादीनां गुणवचनत्वसाधने आक्षेपभाष्यम्)
यदि तर्हि--ःथ्द्य;मे विंशत्यादयो गुणवचनाः स्युः, सधर्मभिरन्यैर्गुणवचनैर्भवितव्यम्।
अन्ये च गुणवचना द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते, तद्यथा--शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला ःथ्द्य;ति। यदसौ द्रव्यं श्रितो गुणस्तस्य यल्लिङ्गं वचनं च तद्गुणस्यापि भवति।।
(विंशत्यादीनां गुणवचनानां लिङ्गसंख्याऽननुवर्तनेन दोषाभावबोधकभाष्यम्)
विंशत्यादयः पुनर्नानुवर्तन्ते।
अन्येऽपि वै गुणवचना नावश्यं द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, तद्यथा--गावो धनम्। पुत्रा अपत्यम्। ःथ्द्य;न्द्राग्नी देवता। विश्वेदेवा देवता। यावन्तस्ते तां वाशितामनुयन्ति सर्वे ते दक्षिणा समृद्ध्या ःथ्द्य;ति।।
(लिङ्गसंख्याननुवर्तनहेतुबोधकभाष्यम्)
अथात्राननुवृत्तौ हेतुः शक्यो वक्तुम्?
बाढं शक्यो वक्तुम्।
कामं तर्ह्युच्यताम्। ःथ्द्य;ह--कदाचिद्गुणः प्राधान्येन विवक्षितो भवति, तद्यथा--पञ्ञ्चोडुपशतानि तीर्णानि। पञ्ञ्चवध्रीशतानि तीर्णानि। अश्वैर्युद्धम्। असिभिर्युद्धमिति। न चासयो युध्यन्ते, असिगुणाः पुरुषा युध्यन्ते, गुणस्तु खलु प्राधान्येन विवक्षितो भवति।।
ःथ्द्य;ह तावद्गावो धनमिति, धिनोतेर्धनम्, एको गुणः स च प्राधान्येन विवक्षितः।।
पुत्रा अपत्यमिति, अपतनादपत्यम्, एको गुणस्स प्राधान्येन विवक्षितः।।
ःथ्द्य;न्द्राग्नी देवता--विश्वेदेवा देवता ःथ्द्य;ति, दिवेरैश्वर्यकर्मणो देवः, तस्मात्स्वार्थे तल्, एको गुणः स प्राधान्येन विवक्षितः।
यावन्तस्ते तां वाशितामनुयन्ति सर्वे ते दक्षिणा समृद्ध्या ःथ्द्य;ति, दक्षतेर्वृद्धिकर्मणो दक्षिणा एको गुणः स प्राधान्येन विवक्षितः, तस्यैकत्वादेकवचनं भविष्यति।।
विंशत्यादिषु चाप्येको गुणः स प्राधान्येन विवक्षितः, तस्यैकत्वादेकवचनं भविष्यति।।
(विंशत्यादीनां गुणवचनत्वे आक्षेपभाष्यम्)
अयं तर्हि विंशत्यादिषु भाववचनेषु दोषः--गोविंशतिरानीयतामिति, भावानयने चोदिते द्रव्यानयनं न प्राप्नोति।।
(दृष्टान्तप्रदर्शनपूर्वकं समाधानभाष्यम्)
नैष दोषः।
ःथ्द्य;दं तावदयं प्रष्टव्यः--अथेह--गौरनुबन्ध्योऽजोऽग्नीषोमीय ःथ्द्य;ति कथमाकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते ःथ्द्य;ति।
असंभवात्।
आकृतावारम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते।
ःथ्द्य;दमप्येवंजातीयकमेव। असंभवाद्भावानयनस्य द्रव्यानयनं भविष्यति।।
(प्रकारान्तरेण समाधानभाष्यम्)
अथ वा अव्यतिरेकात्।।
-5-1-64- छेदादिभ्यो नित्यम् (1946)
-5-1-76- पन्थो ण नित्यम् (1958)
(णप्रत्ययाधिकरणम्)
(5653 सूत्रद्वयेऽपि नित्यग्रहणाक्षेपवार्तिकम्।। 1 ।।)
- छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रहणानर्थक्यम् -
(भाष्यम्) छेदादिपथिभ्यो नित्यग्रहणमनर्थकम्।
किं कारणम्?
विग्रहदर्शनात्। विग्रहो दृश्यते--छेदमर्हति, पन्थानं गच्छतीति।।
(नित्यग्रहणप्रयोजनभाष्यम्)
विकारार्थं तर्हीदं नित्यग्रहणं क्रियते, विकारेण विग्रहो मा भूदिति।
विराग विरङ्गं च। पन्थो ण नित्यमिति।।
(5654 नित्यग्रहणवैफल्यबोधकवार्तिकम्।। 2 ।।)
- विकारार्थमिति चेदकङादिभिस्तुल्यम् -
(भाष्यम्) विकारार्थमिति चेदकङादिभिस्तुल्यमेतत्। यथाऽकङादिभिर्विकारैर्विग्रहो न भवति, एवमाभ्यामपि न भविष्यति।
(सन्नियोगशिष्टन्यायेन नित्यग्रहणवैफल्यबोधकभाष्यम्)
किं पुनरिहाकर्तव्यं नित्यग्रहणं क्रियते, आहोस्विदन्यत्र कर्तव्यं न क्रियते?
ःथ्द्य;हाकर्तव्यं क्रियते। एष एव न्यायो यदुत-संनियोगशिष्टानामन्यतरापाये उभयोरप्यभावः। तद्यथा--देवदत्तयज्ञदत्ताभ्यामिदं कर्तव्यमिति देवदत्तापाये यज्ञदत्तोऽपि न करोति।।
-5-1-71- यज्ञर्त्विग्भ्यां घखञ्ञौ (1953 )
(घखञ्ञ्प्रत्ययाधिकरणम्)
(5655 उपसङ्ख्यानवार्तिकम्।। 1 ।।)
- यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् -
(भाष्यम्) यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानं कर्तव्यम्।
यज्ञकर्मार्हतीति यज्ञियो देशः।
ऋत्विक्कर्मार्हतीत्यार्त्विजीनं ब्राह्मणकुलमिति।।
-5-1-72- पारायणतुरायणचान्द्रायणं वर्तयति (1954)
(ठञ्ञोऽधिकरणम्)
(5656 वर्तयति निर्द्देशस्यानुपपत्तिबोधकवार्तिकम्।। 1 ।।)
- तद्वर्तयतीत्यनिर्देशस्तत्रादर्शनात् -
(भाष्यम्) तद्वर्तयतीत्यनिर्देशः। अगमको निर्देशोऽनिर्देशः।
पारायणं को वर्तयति?
यः परस्य करोति।
तुरायणं को वर्तयति?
यश्चरुपुरोडाशान्निर्वर्तयति।
तत्रादर्शनात्। न च तत्र प्रत्ययो दृश्यते।।
(5657 अन्यत्रप्रत्ययोत्पत्तिरूपदोषबोधकवार्तिकम्।। 2 ।।)
- ःथ्द्य;ङ्यज्योश्च दर्शनात् -
(भाष्यम्) ःथ्द्य;ङ्यज्योश्च प्रत्ययो दृश्यते।
यः पारायणमधीते स पारायणिक ःथ्द्य;त्युच्यते।
यस्तुरायणेन यजते स तौरायणिक ःथ्द्य;त्युच्यते।।
(वार्तिकाक्षिप्तदोषनिवारकं सिद्धान्तभाष्यम्)
यश्चैवाधीते यश्च परस्य करोति, उभौ तौ वर्तयतः।
यश्च यजते यश्च पुरोडाशान्निर्वर्तयति, उभौ तौ वर्तयतः।।
उभयत्र कस्मान्न भवति?
अनभिधानात्।।
-5-1-74- योजनं गच्छति (1956)
(5658 उपसंख्यानवार्तिकम्।। 1 ।।)
- योजनं गच्छतीति क्रोशशतयोजनशतयोरुपसंख्यानम् -
(भाष्यम्) योजनं गच्छतीत्यत्र क्रोशशतयोजनशतयोरुपसंख्यानं कर्तव्यम्।
क्रोशशतं गच्छति--ःथ्द्य;ति--क्रौशशतिकः।
योजनशतं गच्छति--ःथ्द्य;ति--यौजनशतिक ःथ्द्य;ति।।
(5659 अर्थोपसंख्यानवार्तिकम्।। 2 ।।)
- ततोऽभिगमनमर्हतीति च -
(भाष्यम्) ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानं कर्तव्यम्।
क्रोशशतादभिगमनमर्हति--क्रौशशतिको भिक्षुः। योजनशतादभिगमनमर्हति--यौजनशतिको गुरुः।।
-5-1-77- उत्तरपथेनाहृतं च (1959)
(5660 उपसंख्यानवार्तिकम्।। 1 ।।)
- आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसंख्यानम् -
(भाष्यम्) आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसंख्यानं कर्तव्यम्।
वारिपथेन गच्छति--वारिपथिकः। वारिपथेनाहृतम्--वारिपथिकम्--वारि।।
जङ्गल--जङ्गलपथेन गच्छति--जाङ्गलपथिकः। जङ्गलपथेनाहृतं--जाङ्गलपथिकम्--जङ्गल।।
स्थल--स्थलपथेन गच्छति--स्थालपथिकः। स्थलपथेनाहृतं--स्थालपथिकम्--स्थल।
कान्तार--कान्तारपथेन गच्छति--कान्तारपथिकः। कान्तरापथेनाहृतं--कान्तारपथिकम्।।
(5661 उपसंख्यानवार्तिकम्।। 2 ।।)
- अजपथशङ्कुपथाभ्यां च -
(भाष्यम्) अजपथशङ्कुपथाभ्यां चेति वक्तव्यम्।
अजपथेन गच्छति--आजपथिकः। अजपथेनाहृतम्--आजपथिकम्। शङ्कुपथेन गच्छति--शाङ्कुपथिकः। शङ्कुपथेनाहृतं--शाङ्कुपथिकम्।।
(5662 उपसंख्यानवार्तिकम्।। 3 ।।)
- मधुकमरिचयोरण् स्थलात् -
(भाष्यम्) मधुकमरिचयोरण् स्थलाद्वक्तव्यः। स्थालपथं मधुकम्। स्थालपथं मरिचम्।।
-5-1-80- तमधीष्टो भृतो भूतो भावी (1962)
(5663 तम् ःथ्द्य;ति द्वितीयान्तनिर्देशाक्षेपवार्तिकम्।। 1 ।।)
- अधीष्टभृतयोर्द्वितीयानिर्देशोऽनर्थकस्तत्रादर्शनात् -
(भाष्यम्) अधीष्टभृतयोर्द्वितीयानिर्देशोऽनर्थकः।
किं कारणम्?
तत्रादर्शनात्। न ह्यसौ मासमधीष्यते।
किं तर्हि?
मुहूर्तमसावधीष्टो मासं तत्कर्म करोति।
(5664 चतुर्थीनिर्देशेनाक्षेपनिरासवार्तिकम्।। 2 ।।)
- सिद्धं तु चतुर्थीनिर्देशात् -
(भाष्यम्) सिद्धमेतत्।
कथम्?
चतुर्थीनिर्देशः कर्तव्यः। तस्मा अधीष्ट ःथ्द्य;ति।
(वार्तिकानुपयोगप्रदर्शनपूर्वकं सिद्धान्तभाष्यम्)
स तर्हि चतुर्थीनिर्देशः कर्तव्यः?
न कर्तव्यः। तार्दथ्यात्ताच्छब्द्यं भविष्यति। मासार्थो मुहूर्तः--मासः।।
-5-1-84- अवयसि ठंश्च (1966)
(ठनोऽधिकरणम्)
(5665 अनुकर्षणनिर्धारकवार्तिकम्।। 1 ।।)
- अवयसि ठंश्चेत्यनन्तरस्यानुकर्षः -
(भाष्यम्) अवयसि ठंश्चेत्यनन्तरस्यानुकर्षो द्रष्टव्यः। द्वेष्यं विजानीयात् यबप्यनुवर्तत ःथ्द्य;ति।
तदाचार्यः सुहृद् भूत्वाऽन्वाचष्टे--अवयसि ठंश्चेत्यनन्तरस्यानुकर्ष ःथ्द्य;ति।।
-5-1-90- षष्टिकाः षष्टिरात्रेण पच्यन्ते (1972)
(निपातनाधिकरणम्)
(5666 षष्टिकशब्दमर्यादाकरणवार्तिकम्।। 1 ।।)
- षष्टिके संज्ञाग्रहणम् -
(भाष्यम्) षष्टिके संज्ञाग्रहणं कर्तव्यम्। मुद्गा अपि हि षष्टिरात्रेण पच्यन्ते तत्र मा भूदिति।।
(5667 सिद्धान्तवार्तिकम्।। 2 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति।।
-5-1-94- तदस्य ब्रह्मचर्यम् (1976)
(ब्रह्मचर्यार्थाधिकरणम्)
(5668 उपसंख्यानवार्तिकम्।। 1 ।।)
- तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसंख्यानम् -
(भाष्यम्) तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसंख्यानं कर्तव्यम्। महानाम्नीनां ब्रह्मचर्यं माहानाम्निकम्। आदित्यव्रतिकम्।।
(5669 उपसंख्यानवार्तिकम्।। 2 ।।)
- तच्चरतीति च -
(भाष्यम्) तच्चरतीति च महानाम्न्यादिभ्य उपसंख्यानं कर्तव्यम्। महानाम्नीश्चरति माहानाम्निकः।
आदित्यव्रतिकः।।
(आक्षेपभाष्यम्)
नैष युक्तो निर्देशस्तच्चरतीति। महानाम्न्यो नार्मच्चः, न च ताश्चर्यन्ते, व्रतं तासां चर्यते।।
(समाधानभाष्यम्)
नैष दोषः।
साहचर्यात्ताच्छब्द्यं भविष्यति। महानाम्नीसहचरितं व्रतं महानाम्न्यो व्रतमिति।।
(5670 उपसंख्यानवार्तिकम्।। 3 ।।)
- अवान्तरदीक्षाभ्यो डिनिः -
(भाष्यम्) अवान्तरदीक्षाभ्यो डिनिर्वक्तव्यः। अवान्तरदीक्षी, तिलव्रती।।
(5671 उरसंख्यानवार्तिकम्।। 4 ।।)
- अष्टाचत्वारिंशतो ङ्वुंश्च -
(भाष्यम्) अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्चवक्तव्यः। अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी।।
(5672 उपसंख्यानवार्तिकम्।। 5 ।।)
- चातुर्मास्यानां यलोपश्च -
(भाष्यम्) चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः। चातुर्मासकः। चातुर्मासी।
अथ किमिदं चातुर्मास्यानामिति?
(5673 चातुर्मास्यसिद्धिसाधकं वार्तिकम्।। 6 ।।)
- चतुर्मासाण्ण्यो यज्ञे तत्र भवे -
(भाष्यम्) चतुर्मासाण्ण्यो वक्तव्यः, यज्ञे तत्र भव ःथ्द्य;त्येतस्मिन्नर्थे। चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः।।
(5674 विधिवार्तिकम्।। 7 ।।)
- संज्ञायामण् -
(भाष्यम्) संज्ञायामण् वक्तव्यः। चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी।।
-5-1-95- तस्य दक्षिणा यज्ञाख्येभ्यः (1977)
(आख्यापदाक्षेपभाष्यम्)
आख्याग्रहणं किमर्थम्?
आख्यापदप्रयोजनभाष्यम्
तस्य दक्षिणा यज्ञेभ्यः ःथ्द्य;तीत्युच्यमाने य एव संज्ञीभूतका यज्ञास्तत उत्पत्तिः स्यात्---आग्निष्टोमिक्यः,राजसूयिक्यः,वाजपेयिक्यः। यत्र वा यज्ञशब्दोऽस्ति---नावयज्ञिक्यः,
पाकयज्ञिक्यः। ःथ्द्य;ह न स्यात्--पाञ्ञ्चौदनिक्यः,दाशौदनिक्यः। आख्याग्रहणे पुनः क्रियमाणे न दोषो भवति। ये च संज्ञीभूतका यज्ञाः, ये च न संज्ञीभूतकाः,यत्र च यज्ञशब्दोऽस्ति, यत्र च नास्ति, तदाख्यामात्रात्सिद्धं भवति।।
-5-1-96- तत्र च दीयते कार्यं भववत् (1978)
(अतिदेशाधिकरणम्)
(5675 कार्यग्रहणाक्षेपवार्तिकम्।। 1 ।।)
?B- कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् -
(भाष्यम्) कार्यग्रहणमनर्थकम्।
किं कारणम्?
तत्रभवेन कृतत्वात्। यद्धि मासे कार्यं मासे भवं तद्भवति, तत्र तत्र भवः (4।3।53) ःथ्द्य;त्येव सिद्धम्।
(दीयते ग्रहणाक्षेपभाष्यम्)
किमिदं भवान् कार्यग्रहणमेव प्रत्याचष्टे, न पुनर्दीयतेग्रहणमपि।
यथैव हि यन्मासे कार्यं तन्मासे भवं भवति, एवं यदपि मासे दीयते तदपि मासे भवं भवति। तत्र तत्र भवः
ःथ्द्य;त्येव सिद्धम्।
न सिध्यति। न तन्मासे दीयते।
किं तर्हि?
मासे गते।
एवं तंर्हि--औपश्लेषिकमधिकरणं विज्ञास्यते।।
(समाधानभाष्यम्)
एवं तर्हि योगविभागोत्तरकालमिदं पठितव्यम्--
तस्य दक्षिणा यज्ञाख्येभ्यः।
तत्र च दीयते।
ततः--कार्यं भववत् कालात् ःथ्द्य;ति।।
-5-1-97- व्युष्टादिभ्योऽण् (1979)
(अण्प्रत्ययाधिकरणम्)
(5676 उपसंख्यानवार्तिकम्।। 1 ।।)
- अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानम् -
(भाष्यम्) अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानं कर्तव्यम्।।
(अग्निपदादिभ्य उपसंख्यानस्य स्थलसम्भवबोधकं भाष्यम्)
त्रीणीमान्यण्ग्रहणानि--व्युष्टादिभ्योऽण्, समयस्तदस्य प्राप्तम् ऋतोरण् (5।1।104,105)। प्रयोजनम् विशाखाषाढादण् मन्थदण्डयोः (109,110) ःथ्द्य;ति।
तत्र न ज्ञायते कतरस्मिन्नण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्।।
(उपसंख्यानस्थलनिश्चायकभाष्यम्)
अविशेषात्सर्वत्र।
व्युष्टादिभ्योऽण् भवतीत्युक्त्वाऽग्निपदादिभ्यश्चेति वक्तव्यम्। अग्निपदे दीयते कार्यं वा--आग्निपदम्, पैलुमूलम्।
समयस्तदस्य प्राप्तमृतोरण्, अग्निपदादिभ्यश्चेति वक्तव्यम्। उपबस्ता प्राप्तोऽस्यौपवस्त्रम्, प्राशिता प्राप्तोऽस्य प्राशित्रम्।
प्रयोजनं विशाखाषाढादण् मन्थदण्डयोः, अग्निपदादिभ्यश्चेति वक्तव्यम्। चूडा प्रयोजनमस्य--चौडम्, श्रद्धा प्रयोजनमस्य--श्राद्धम्।।
-5-1-111- अनुप्रवचनादिभ्यश्छः (1993)
(छप्रत्ययाधिकरणम्)
(5677 उपसंख्यानवार्तिकम्।। 1 ।।)
- छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानम् -
(भाष्यम्) छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानं कर्तव्यम्। विशि--गेहानुप्रवेशनीयम्। पूरि--प्रपापूरणीयम्। पदि--गोप्रपदनीयम्, अश्वप्रपदनीयम्। रुहि--प्रासादारोहणीयम्।।
(5678 विधिवार्तिकम्।। 2 ।।)
- स्वर्गादिभ्यो यत् -
(भाष्यम्) स्वर्गादिभ्यो यत्प्रत्ययो भवति। र्स्वग्यम्। धन्यम्। यशस्यम्। आयुष्यम्।
(5678 लुग्विधिवार्तिकम्।। 1 ।।)
- पुण्याहवाचनादिभ्यो लुक् -
(भाष्यम्) पुण्याहवाचनादिभ्यो लुग्वक्तव्यः। पुण्याहवाचनम्। शान्तिवाचनम्। स्वस्तिवाचनम्।।
-5-1-113- ऐकागारिकट् चौरे (1995)
(5679 सूत्रप्रत्याख्यानवार्तिकम्।। 1 ।।)
- एकागारान्निपातनानर्थक्यं ठञ्ञ्प्रकरणात् -
(भाष्यम्) एकागारान्निपातनमनर्थकम्।
किं कारणम्?
ठञ्ञ्प्रकरणात्। ठञ्ञ् प्रकृतः सोऽनुवर्तिष्यते।
ःथ्द्य;दं तर्हि प्रयोजनम्--चोर ःथ्द्य;ति वक्ष्यामीति।
ःथ्द्य;ह मा भूत्--एकागारं प्रयोजनमस्य भिक्षोरिति।
यद्येतावत्प्रयोजनं स्यात् एकागाराच्चोरे ःथ्द्य;त्येव ब्रूयात्।।
-5-1-114- आकालिकडाद्यन्तवचने (1996)
(निपातनाधिकरणम्)
(5680 निपातनानर्थक्यबोधकवार्तिकम्।। 1 ।।)
- आकालान्निपातनानर्थक्यं ठञ्ञ् प्रकरणात् -
(भाष्यम्) आकालान्निपातनमनर्थकम्।
किं कारणम्?
ठञ्ञ्प्रकरणात्। ठञ्ञ् प्रकृतः सोऽनुवर्तिष्यते।।
(निपातनस्य फलान्तरबोधकं भाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--एतस्मिन् विशेषे निपातनं करिष्यामि समानकालस्याद्यन्तविवक्षायामिति।।
(5689 विधिवार्तिकम्।। 2 ।।)
- आकालाट्ठंश्च -
(भाष्यम्) आकालाट्ठंश्च वक्तव्यः। आकालिकी। आकालिका।।
-5-1-115- तेन तुल्यं क्रिया चेद्वतिः (1997)
(वतिप्रत्ययाधिकरणम्)
(निर्देशाक्षेपभाष्यम्)
ःथ्द्य;दमयुक्तं वर्तते।
किमत्रायुक्तम्?
यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति-ःथ्द्य;त्युच्यते,
कथं च तृतीयासमर्थं नाम क्रिया स्यात्।।
(समाधानभाष्यम्)
नैष दोषः। सर्व एते शब्दा गुणसमुदायेषु वर्तन्ते--ब्राह्मणः क्षत्रियो वैश्यः शूद्र ःथ्द्य;ति।
आतश्च गुणसमुदाये,
एवं ह्याह--
तपः श्रुतं च योनिश्च एतद् ब्राह्मणकारकम्।
तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ।। 1 ।।
तथा गौरः शुच्याचारः पिङ्गलः कपिलकेश ःथ्द्य;त्येतानप्यभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति। समुदायेषु च शब्दा वृत्ता अवयवेष्वपि वर्तन्ते।
तद्यथा--पूर्वे पञ्ञ्चालाः, उत्तरे पञ्ञ्चालाः। तैलं भुक्तम्, घृतं भुक्तम्। शुक्लः, नीलः, कृष्ण ःथ्द्य;ति।
एवमयं ब्राह्मणशब्दः समुदाये वृत्तोऽवयवेष्वपि वर्तते।।
(तृतीयासमर्थविशेषणे दोषदर्शकभाष्यम्)
यदि तर्हि तृतीयासमर्थं विशेष्यते, प्रत्ययार्थोऽविशेषितो भवति।
तत्र को दोषः? तृतीयासमर्थात् क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः स्यात्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यः पिङ्गल ःथ्द्य;ति।।
(प्रत्ययार्थविशेषणे दोषभाष्यम्)
अस्तु तर्हि प्रत्ययार्थविशेषणम्--यत्तत्तुल्यं क्रिया चेत्सा भवतीति।
एवमपि तृतीयासमर्थमविशेषितं भवति।
तत्र को दोषः?
तृतीयासमर्थादक्रियावाचिनः क्रियातुल्येऽपि प्रत्ययः प्राप्नोति।।
(प्रत्ययार्थविशेषणे दोषाभावबोधकभाष्यम्)
नैष दोषः। यत्तत्तुल्यं क्रिया चेत्सा भवतीत्युच्यते। तुलया च संमितं तुल्यम्, यदि च तृतीयासमर्थमपि क्रिया, प्रत्ययार्थोऽपि क्रिया, ततस्तुल्यं भवति।।
(तृतीयासमर्थस्य विशेषणे दोषाभावबोधकभाष्यम्)
अथ वा पुनरस्तु--यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवति--ःथ्द्य;त्येव।
ननु चोक्तं प्रत्ययार्थोऽविशेषित ःथ्द्य;ति।
तत्र को दोषः?
तृतीयासमर्थात् क्रियावाचिनो गुणतुल्येऽपि प्रत्ययः प्राप्नोति--पुत्रेण तुल्यः स्थूलः, पुत्रेण तुल्यः पिङ्गल ःथ्द्य;ति।
नैष दोषः। यत्तत्तृतीयासमर्थं क्रिया चेत्सा भवतीत्युच्यते, तुलया च संमितं तुल्यम्। यदि च तृतीयासमर्थमपि क्रिया, प्रत्ययार्थोऽपि क्रिया, ततस्तुल्यं भवति।।
(सिद्धान्तभाष्यम्)
किं पुनरत्र ज्यायः?
प्रत्ययार्थविशेषणमेव ज्यायः।
कुत एतत्?
एवं चैव हि कृत्वाऽऽचार्येण सूत्रं पठितम्। वतिना सामानाधिकरण्यं कृतम्।।
(प्रत्ययार्थविशेषणे फलान्तरकथनभाष्यम्)
अपि च वतेरव्ययेषु पाठो न कर्तव्यो भवति। क्रियायामयं भवन् लिङ्गसंख्याभ्यां न योक्ष्यते।।
-5-1-116- तत्र तस्येव (1998)
(प्रयोजनाक्षेपभाष्यम्)
किमर्थमिदमुच्यते? न तेन तुल्यं क्रिया चेद्वतिः (115) ःथ्द्य;त्येव सिद्धम्?
(सूत्रप्रयोजनबोधकभाष्यम्)
न सिध्यति।
तृतीयासमर्थात्तत्र प्रत्ययः--यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते।
न च काचिदिवशब्देन योगे तृतीया विधीयते।
ननु च सप्तम्यपि न विधीयते। एवं तर्हि सिद्धे सति यदिवशब्देन योगे सप्तमीसमर्थाद्वतिं शास्ति तज्ज्ञापयत्याचार्यः--भवति--ःथ्द्य;वशब्देन योगे सप्तमीति।
किमेतस्य ज्ञापने प्रयोजनम्?
देवेष्विव नाम, ब्राह्मणेष्विव नाम एष प्रयोग उपपन्नो भवति।।
-5-1-117- तदर्हम् (1999)
(सूत्राक्षेपभाष्यम्)
किमर्थमिदमुच्यते न तेन तुल्यं क्रिया चेद्वतिः (115) ःथ्द्य;त्येव सिद्धम्?
(फलसमर्थकभाष्यम्)
न सिध्यति।
तृतीयासमर्थात्तत्र यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते।
ःथ्द्य;ह पुनर्द्वितीयासमर्थादात्मार्हायां क्रियायामर्हतिकर्तरि निश्चितबलाधाने प्रत्यय उत्पाद्यते--ब्राह्मणवद्भवान्
वर्तते। एतद्वृत्तं ब्राह्मणमर्हतीति।।
-5-1-118- उपसर्गाच्छन्दसि धात्वर्थे (2000)
(अर्थग्रहणाक्षेपभाष्यम्)
अर्थग्रहणं किमर्थम्?
न उपसर्गाच्छन्दसि धातौ ःथ्द्य;त्येवोच्येत।।
धातुर्वै शब्दः, शब्दे कार्यस्यासंभवादर्थे कार्यं विज्ञास्यते।
कः पुनर्धात्वर्थः?
क्रिया।।
(समाधानभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--उत्तरपदलोपो यया विज्ञायेत्, धातुकृतोऽर्थो धात्वर्थ ःथ्द्य;ति।
कः पुनर्धातुकृतोऽर्थः?
साधनम्।
किं प्रयोजनम्?
साधनेऽयं भवन् लिङ्गसंख्याभ्यां योक्ष्यते। उद्गतानि उद्वतः, निगतानि निवत ःथ्द्य;ति।।
(5682 एकदेशिवार्तिकम्।। 1 ।।)
- स्त्रीपुंसाभ्यां वत्युपसंख्यानम् -
(भाष्यम्) स्त्रीपुंसाभ्यां वत्युपसंख्यानं कर्तव्यम्। स्त्रीवत्, पुंवदिति।
किं पुनः कारणं न सिध्यति?
ःथ्द्य;मौ नञ्ञस्नञ्ञौ प्राग्भवनादित्युच्येते तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयाताम्।।
(सिद्धान्तभाष्यम्)
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति--न वत्यर्थे नञ्ञ्स्नञ्ञौ भवत ःथ्द्य;ति, यदयं स्त्रियाः पुंवत् ःथ्द्य;ति निर्देशं करोति।। एवमपि स्त्रीवत् ःथ्द्य;ति न सिध्यति। योगापेक्षं ज्ञापकम्।।
-5-1-119- तस्य भावस्त्वतलौ (2001)
(त्वतल्प्रत्ययाधिकरणम्)
(5683 एकदेशिपूर्वपक्षवार्तिकम्।। 1 ।।)
- स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानम् -
(भाष्यम्) स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानं कर्तव्यम्। स्त्रीभावः--स्त्रीत्वम्, स्त्रीता। पुंभावः--पुंस्त्वम्, पुंस्तेति।
किं पुनः कारणं न सिध्यति?
ःथ्द्य;मौ नञ्ञ्स्नञ्ञौ प्राग्भवनादित्युच्येते, तौ विशेषविहितौ सामान्यविहितौ त्वतलौ बाधेयाताम्।।
(5684 एकदेशिपूर्वपक्षवार्तिकम्।। 2 ।।)
- वावचनं च -
(भाष्यम्) वावचनं च कर्तव्यम्।
किं प्रयोजनम्?
नञ्ञ्स्नञ्ञावपि यथा स्याताम्। स्त्रीभावः--स्त्रैणम्, पुंभावः--पौंस्नमिति।।
(5684 एकदेशिसमाधानवार्तिकम्।। 3 ।।)
- अपवादसमावेशाद्वा सिद्धम् -
(भाष्यम्) अपवादसमावेशाद्वा सिद्धमेतत्।
तद्यथा--ःथ्द्य;मनिच्प्रभृतिभिरपवादैः समावेशो भवति, एवमाभ्यामपि भविष्यति।।
(वार्तिकोक्तार्थसाधकसिद्धान्तभाष्यम्)
नैवेश्वर आज्ञापयति नापि धर्मसूत्रकाराः पठन्ति--ःथ्द्य;मनिच्प्रभृतिभिरपवादैः समावेशो भवतीति।
किं तर्हि? आ च त्वात् ःथ्द्य;त्यस्माद्यत्नादिमनिच्प्रभृतिभिरपवादैः समावेशो भवति, न चैतावत्राभ्यन्तरौ।
एतावप्यत्राभ्यन्तरौ।
कथम्?
अपवादसदेशा अपवादा भवन्तीति।
एतच्चैव न जानीमोऽपवादसदेशा अपवादा भवन्तीति।
अपि च कुत एतद्--एतावप्यत्राभ्यन्तराविति, न पुनः पूर्वौ वा स्यातां परौ वा।
एवं तर्हि वक्ष्यति--आ चत्वात् ःथ्द्य;त्यत्र चकारकरणस्य प्रयोजनं नञ्ञ्स्नञ्ञ्भ्यामपि समावेशो भवतीति।।
(5686 अतिव्याप्त्याशङ्ककवार्तिकम्।। 4 ।।)
- तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गः -
(भाष्यम्) तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गो भवति। ःथ्द्य;हापि प्राप्नोति--अभिप्रायो देवदत्तस्य मोदकेषु भोजने। ये नो भावास्ते नो भावाः पुत्राः पुत्रैश्चेष्टन्त ःथ्द्य;ति।।
(5687 अतिव्याप्तिनिवारकवार्तिकम्।। 5 ।।)
- सिद्धं तु यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ -
(भाष्यम्) सिद्धमेतत्।
कथम्?
यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने--तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम्, न चाभिप्रायादीनां भावाद् द्रव्ये देवदत्तशब्दो वर्तते।।
(द्रव्यगुणनिर्वचनभाष्यम्)
किं पुनर्द्रव्यं? के पुनर्गुणाः?
शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम्।।
(द्रव्यनिर्वचनोपक्रमभाष्यम्)
किं पुनरन्यच्छब्दादिभ्यो द्रव्यम्, आहोस्विदनन्यत्?
गुणस्यायं भावाद् द्रव्ये शब्दनिवेशं कुर्वन् ख्यापयति--अन्यच्छब्दादिभ्यो द्रव्यमिति।
अनन्यच्छब्दादिभ्यो द्रव्यम्, न ह्यन्यदुपलभ्यते। पशोः खल्वपि विशसितस्य पर्णशते व्यस्तस्य नान्यच्छब्दादिभ्य उपलभ्यते।।
(द्रव्यनिर्वचनभाष्यम्)
अन्यच्छब्दादिभ्यो द्रव्यम्, तत्त्वनुमानगम्यम्। तद्यथा--ओषधिवनस्पतीनां वृद्धिह्रासौ, ज्योतिषां गतिरिति।
कोऽसावनुमानः?
ःथ्द्य;ह समाने र्वष्मणि परिणाहे च अन्यत्तुलाग्रं भवति लोहस्य, अन्यत्कार्पासानाम्। यत्कृतो विशेषस्तद् द्रव्यम्।।
तथा कश्चित्स्पृशन्नेव च्छिनत्ति, कश्चिल्लम्बमानोऽपि न च्छिनति, यत्कृतो विशेषस्तद् द्रव्यम्।।
तथा कश्चिदेकेनैव प्रहारेण व्यपवर्गं करोति, कश्चिद् द्वाभ्यामपि न करोति, यत्कृतो विशेषस्तद् द्रव्यम्।।
(द्रव्यपरिचायकलक्षणभाष्यम्)
अथ वा यस्य गुणान्तरेष्वपि प्रादुर्भवत्सु तत्वं न विहन्यते तद् द्रव्यम्।
किं पुनस्तत्वम्?
तद्भावस्तत्वम्। तद्यथा--आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति, आमलकं बदरमित्येव भवति।।
(द्रव्यस्यान्वर्थलक्षणभाष्यम्)
अन्वर्थं खल्वपि निर्वचनं--गुणसंद्रावो द्रव्यमिति।।
(सिद्धं तु यस्येत्यादिन्यासाक्षेपभाष्यम्)
यदि तर्हि षष्ठीसमर्थाद् गुणे प्रत्यया उत्पद्यन्ते, किमियता सूत्रेण?
एतावद्वक्तव्यम्--षष्ठीसमर्थाद् गुण ःथ्द्य;ति।।
(एतादृशन्यासे दोषभाष्यम्)
षष्ठीसमर्थाद् गुण ःथ्द्य;तीयत्युच्यमाने द्विगुणा रज्जुस्त्रिगुणा रज्जुः, अत्रापि प्राप्नोति।।
(अवयवानामपि गुणत्वबोधकभाष्यम्)
नैष दोषः। गुणशब्दोऽयं बह्वर्थः। अस्त्येव समेष्ववयवेषु वर्तते। तद्यथा--द्विगुणा रज्जुः, त्रिगुणा रज्जुरिति।
अस्ति द्रव्यपदार्थकः। तद्यथा--गुणवानयं देश ःथ्द्य;त्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते।
अस्त्यप्राधान्ये वर्तते। तद्यथा--यो यत्राप्रधानं भवति स आह--गुणभूता वयमत्रेति।
अस्त्याचारे वर्तते। तद्यथा--गुणवानयं ब्राह्मण ःथ्द्य;त्युच्यते, यः सम्यगाचारं करोति।
अस्ति संस्कारे वर्तते। तद्यथा--संस्कृतमन्नं गुणवदित्युच्यते।।
(षष्ठीसमर्थाद्गुण ःथ्द्य;ति न्यासे अतिव्याप्तिदर्शकभाष्यम्)
अथवा सर्वत्रैवायं गुणशब्दः समेषु अवयवेषु वर्तते। तद्यथा--द्विगुणमध्ययनं त्रिगुणमध्ययनमित्युच्यते।
चर्चागुणान् क्रमगुणांश्चापेक्ष्य भवति, न संहितागुणांश्चर्चागुणांश्च।
यद्येवं गुणवदन्नमिति गुणशब्दो नोपपद्यते। नह्यन्नस्य सूपादयो गुणाः समा भवन्ति।
नावश्यं र्वष्मतः परिमाणत एव वा साम्यं भवति।
किं तर्हि?
युक्तितोऽपि। आतश्च युक्तितः, यो हि मुद्गप्रस्थे लवणप्रस्थं प्रक्षिपेन्नादो युक्तं स्यात्।
यदि तावददेरन्नं नादोऽत्तव्यं स्यात्।
अथानितेरन्नं नादो जग्ध्वा प्राण्यात्।।
(यस्य गुणस्येति न्यासस्याव्याप्तिप्रदर्शकं भाष्यम्)
शुक्लादिषु तर्हि र्वत्यभावाद् वृत्तिर्न प्राप्नोति। शुक्लत्वम्, शुक्लतेति।
किं पुनः कारणं शुक्लादय एवोदाह्रियन्ते, न पुनर्वृक्षादयोऽपि--वृक्षत्वम्, वृक्षतेति।
अस्त्यत्र विशेषः,
उभयवचना ह्येते द्रव्यं चाहुर्गुणं च, यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति।।
(अव्याप्त्यभावोपपादकभाष्यम्)
ःथ्द्य;मेऽपि तर्हि--उभयवचनाः।
कथम्?
आरभ्यते मतुब्लोपः--गुणवचनेभ्यो मतुपो लुग्भवतीति।
यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति।।
(अव्याप्तिदर्शकं भाष्यम्)
डित्थादिषु तर्हि र्वत्यभावाद वृत्तिर्न प्राप्नोति। डित्थत्वम्, डित्थता, डाम्भिट्टता, डाम्भिट्टत्वमिति।
अत्रापि--कश्चित् प्राथमकल्पिको डित्थो डाम्भिट्टश्चेति। तेन कृतां क्रियां गुणं वा यः कश्चित्करोति स उच्यते--डित्थत्वं त एतत्, डाम्भिट्टत्वं त एतत्। एवं डित्थाः कुर्वन्ति, एव डाम्भिट्टाः कुर्वन्ति।
यस्तर्हि प्राथमकल्पिको डित्थो डाम्भिट्टश्च, तस्य र्वत्यभावाद् वृत्तिर्न प्राप्नोति।
नैष दोषः।
यथैव तस्य काथंचित्कः प्रयोगः, एवं वृत्तिरपि भविष्यति।।
(5688 सिद्धं तु यस्येति न्यासं परित्यज्य अन्यन्यासे वार्तिकम्।। 6 ।।)
- यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावस्तदभिधाने -
(वार्तिकव्याख्याभाष्यम्)
किमेभिस्त्रिभिर्भावग्रहणैः क्रियते?
एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्यामर्थः। यद्वा--सर्वे शब्दाः स्वेनार्थेन भवन्ति स तेषामर्थ ःथ्द्य;ति, तदभिधाने वा
त्वतलौ भवत ःथ्द्य;ति वक्तव्यम्।।
नैवमन्यत्र भवति। न हि तेन रक्तं रागात्(4।2।1) ःथ्द्य;त्यत्र शब्देन रक्ते प्रत्यया उत्पद्यन्ते।
शब्देऽसंभवादर्थेन रक्ते प्रत्यया भविष्यन्ति।।
(न्यासप्रत्याख्यानकवार्तिकावतरणभाष्यम्)
तत्तर्ह्यन्यतरत्कर्तव्यम्। सूत्रं च भिद्यते।।
यथान्यासमेवास्तु।
ननु चोक्तं--तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गः ःथ्द्य;ति।।
(5689 न्यासप्रत्याख्यानकसिद्धान्तवार्तिकम्।। 7 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति। अनभिधानादभिप्रायादिषूत्पत्तिर्न भविष्यति।।
(5690 पूर्वविप्रतिषेधवार्तिकम्।। 8 ।।)
- त्वतल्भ्यां नञ्ञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम् -
(भाष्यम्) त्वतल्भ्यां नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन।
किं प्रयोजनम्?
त्वतलोः स्वरसिद्ध्यर्थम्। त्वतलोः स्वरसिद्धिर्यथा स्यात्।
त्वतलोरवकाशः--भावस्य वचनं प्रतिषेधस्यावचनम्--ब्राह्मणत्वम्, ब्राह्मणता।
नञ्ञ्समासस्यावकाशः--प्रतिषेधस्य वचनं भावस्यावचनम्--अब्राह्मणः, अवृषलः।
उभयवचने उभयं प्राप्नोति--अब्राह्मणत्वम्, अब्राह्मणता।
नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।।
(पूर्वविप्रतिषेधाभावोपपादकं भाष्यम्)
न वक्तव्यः। नात्र त्वतलौ प्राप्नुतः।
किं कारणम्?
असार्मथ्यात्।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दः प्रतिषेधमपेक्षते।।
नञ्ञ्समासोऽपि तर्हि न प्राप्नोति।
किं कारणम्?
असार्मथ्यादेव।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दो भावमपेक्षते।।
प्रधानमत्र तदा ब्राह्मणशब्दः, भवति च प्रधानस्य सापेक्षस्यापि समासः।।
(पूर्वविप्रतिषेधप्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थमिति वक्ष्यति, तत्र व्यवस्थार्थमिदं वक्तव्यम्।।
(5691 नञ्ञ्समासविकल्पबोधकवार्तिकम्।। 9 ।।)
- वा छन्दसि -
(भाष्यम्) वा छन्दसि नञ्ञ्समासो वक्तव्यः। निर्वीर्यतां वै यजमान आशास्ते अपशुतां। अयोनित्वाय। अशिथिलत्वाय। अगोतामनपत्यताम्।
भवेदिदं युक्तमुदाहरणम्--अयोनित्वाय, अशिथिलत्वायेति।
ःथ्द्य;दं त्वयुक्तम्--अपशुतामिति। नह्यसौ समासभावमाशास्ते।
किं तर्हि?
उत्तरपदाभावमाशास्ते--न पशोर्भाव ःथ्द्य;ति।।
(5692 प्रत्ययसमावेशे वार्तिकम्।। 10 ।।)
- नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् -
(भाष्यम्) नञ्ञ्समासादन्यो भाववचनो भवति विप्रतिषेधेन।
किं प्रयोजनम्?
स्वरोत्तरपदवृद्ध्यर्थम्।
स्वरार्थमुत्तरपदवृद्ध्यर्थं च।
स्वरार्थं तावत्--अप्रथिमा, --अम्रदिमा।
उत्तरपदवृद्ध्यर्थम्--अशौक्ल्यम्, अकार्ष्ण्यम्।।
-5-1-118- उपसर्गाच्छन्दसि धात्वर्थे (2000)
(अर्थग्रहणाक्षेपभाष्यम्)
अर्थग्रहणं किमर्थम्?
न उपसर्गाच्छन्दसि धातौ ःथ्द्य;त्येवोच्येत।।
धातुर्वै शब्दः, शब्दे कार्यस्यासंभवादर्थे कार्यं विज्ञास्यते।
कः पुनर्धात्वर्थः?
क्रिया।।
(समाधानभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--उत्तरपदलोपो यया विज्ञायेत्, धातुकृतोऽर्थो धात्वर्थ ःथ्द्य;ति।
कः पुनर्धातुकृतोऽर्थः?
साधनम्।
किं प्रयोजनम्?
साधनेऽयं भवन् लिङ्गसंख्याभ्यां योक्ष्यते। उद्गतानि उद्वतः, निगतानि निवत ःथ्द्य;ति।।
(5682 एकदेशिवार्तिकम्।। 1 ।।)
- स्त्रीपुंसाभ्यां वत्युपसंख्यानम् -
(भाष्यम्) स्त्रीपुंसाभ्यां वत्युपसंख्यानं कर्तव्यम्। स्त्रीवत्, पुंवदिति।
किं पुनः कारणं न सिध्यति?
ःथ्द्य;मौ नञ्ञस्नञ्ञौ प्राग्भवनादित्युच्येते तौ विशेषविहितौ सामान्यविहितं वतिं बाधेयाताम्।।
(सिद्धान्तभाष्यम्)
नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति--न वत्यर्थे नञ्ञ्स्नञ्ञौ भवत ःथ्द्य;ति, यदयं स्त्रियाः पुंवत् ःथ्द्य;ति निर्देशं करोति।। एवमपि स्त्रीवत् ःथ्द्य;ति न सिध्यति। योगापेक्षं ज्ञापकम्।।
-5-1-119- तस्य भावस्त्वतलौ (2001)
(त्वतल्प्रत्ययाधिकरणम्)
(5683 एकदेशिपूर्वपक्षवार्तिकम्।। 1 ।।)
- स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानम् -
(भाष्यम्) स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानं कर्तव्यम्। स्त्रीभावः--स्त्रीत्वम्, स्त्रीता। पुंभावः--पुंस्त्वम्, पुंस्तेति।
किं पुनः कारणं न सिध्यति?
ःथ्द्य;मौ नञ्ञ्स्नञ्ञौ प्राग्भवनादित्युच्येते, तौ विशेषविहितौ सामान्यविहितौ त्वतलौ बाधेयाताम्।।
(5684 एकदेशिपूर्वपक्षवार्तिकम्।। 2 ।।)
- वावचनं च -
(भाष्यम्) वावचनं च कर्तव्यम्।
किं प्रयोजनम्?
नञ्ञ्स्नञ्ञावपि यथा स्याताम्। स्त्रीभावः--स्त्रैणम्, पुंभावः--पौंस्नमिति।।
(5684 एकदेशिसमाधानवार्तिकम्।। 3 ।।)
- अपवादसमावेशाद्वा सिद्धम् -
(भाष्यम्) अपवादसमावेशाद्वा सिद्धमेतत्।
तद्यथा--ःथ्द्य;मनिच्प्रभृतिभिरपवादैः समावेशो भवति, एवमाभ्यामपि भविष्यति।।
(वार्तिकोक्तार्थसाधकसिद्धान्तभाष्यम्)
नैवेश्वर आज्ञापयति नापि धर्मसूत्रकाराः पठन्ति--ःथ्द्य;मनिच्प्रभृतिभिरपवादैः समावेशो भवतीति।
किं तर्हि? आ च त्वात् ःथ्द्य;त्यस्माद्यत्नादिमनिच्प्रभृतिभिरपवादैः समावेशो भवति, न चैतावत्राभ्यन्तरौ।
एतावप्यत्राभ्यन्तरौ।
कथम्?
अपवादसदेशा अपवादा भवन्तीति।
एतच्चैव न जानीमोऽपवादसदेशा अपवादा भवन्तीति।
अपि च कुत एतद्--एतावप्यत्राभ्यन्तराविति, न पुनः पूर्वौ वा स्यातां परौ वा।
एवं तर्हि वक्ष्यति--आ चत्वात् ःथ्द्य;त्यत्र चकारकरणस्य प्रयोजनं नञ्ञ्स्नञ्ञ्भ्यामपि समावेशो भवतीति।।
(5686 अतिव्याप्त्याशङ्ककवार्तिकम्।। 4 ।।)
- तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गः -
(भाष्यम्) तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गो भवति। ःथ्द्य;हापि प्राप्नोति--अभिप्रायो देवदत्तस्य मोदकेषु भोजने। ये नो भावास्ते नो भावाः पुत्राः पुत्रैश्चेष्टन्त ःथ्द्य;ति।।
(5687 अतिव्याप्तिनिवारकवार्तिकम्।। 5 ।।)
- सिद्धं तु यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ -
(भाष्यम्) सिद्धमेतत्।
कथम्?
यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने--तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम्, न चाभिप्रायादीनां भावाद् द्रव्ये देवदत्तशब्दो वर्तते।।
(द्रव्यगुणनिर्वचनभाष्यम्)
किं पुनर्द्रव्यं? के पुनर्गुणाः?
शब्दस्पर्शरूपरसगन्धा गुणाः, ततोऽन्यद् द्रव्यम्।।
(द्रव्यनिर्वचनोपक्रमभाष्यम्)
किं पुनरन्यच्छब्दादिभ्यो द्रव्यम्, आहोस्विदनन्यत्?
गुणस्यायं भावाद् द्रव्ये शब्दनिवेशं कुर्वन् ख्यापयति--अन्यच्छब्दादिभ्यो द्रव्यमिति।
अनन्यच्छब्दादिभ्यो द्रव्यम्, न ह्यन्यदुपलभ्यते। पशोः खल्वपि विशसितस्य पर्णशते व्यस्तस्य नान्यच्छब्दादिभ्य उपलभ्यते।।
(द्रव्यनिर्वचनभाष्यम्)
अन्यच्छब्दादिभ्यो द्रव्यम्, तत्त्वनुमानगम्यम्। तद्यथा--ओषधिवनस्पतीनां वृद्धिह्रासौ, ज्योतिषां गतिरिति।
कोऽसावनुमानः?
ःथ्द्य;ह समाने र्वष्मणि परिणाहे च अन्यत्तुलाग्रं भवति लोहस्य, अन्यत्कार्पासानाम्। यत्कृतो विशेषस्तद् द्रव्यम्।।
तथा कश्चित्स्पृशन्नेव च्छिनत्ति, कश्चिल्लम्बमानोऽपि न च्छिनति, यत्कृतो विशेषस्तद् द्रव्यम्।।
तथा कश्चिदेकेनैव प्रहारेण व्यपवर्गं करोति, कश्चिद् द्वाभ्यामपि न करोति, यत्कृतो विशेषस्तद् द्रव्यम्।।
(द्रव्यपरिचायकलक्षणभाष्यम्)
अथ वा यस्य गुणान्तरेष्वपि प्रादुर्भवत्सु तत्वं न विहन्यते तद् द्रव्यम्।
किं पुनस्तत्वम्?
तद्भावस्तत्वम्। तद्यथा--आमलकादीनां फलानां रक्तादयः पीतादयश्च गुणाः प्रादुर्भवन्ति, आमलकं बदरमित्येव भवति।।
(द्रव्यस्यान्वर्थलक्षणभाष्यम्)
अन्वर्थं खल्वपि निर्वचनं--गुणसंद्रावो द्रव्यमिति।।
(सिद्धं तु यस्येत्यादिन्यासाक्षेपभाष्यम्)
यदि तर्हि षष्ठीसमर्थाद् गुणे प्रत्यया उत्पद्यन्ते, किमियता सूत्रेण?
एतावद्वक्तव्यम्--षष्ठीसमर्थाद् गुण ःथ्द्य;ति।।
(एतादृशन्यासे दोषभाष्यम्)
षष्ठीसमर्थाद् गुण ःथ्द्य;तीयत्युच्यमाने द्विगुणा रज्जुस्त्रिगुणा रज्जुः, अत्रापि प्राप्नोति।।
(अवयवानामपि गुणत्वबोधकभाष्यम्)
नैष दोषः। गुणशब्दोऽयं बह्वर्थः। अस्त्येव समेष्ववयवेषु वर्तते। तद्यथा--द्विगुणा रज्जुः, त्रिगुणा रज्जुरिति।
अस्ति द्रव्यपदार्थकः। तद्यथा--गुणवानयं देश ःथ्द्य;त्युच्यते, यस्मिन् गावः सस्यानि च वर्तन्ते।
अस्त्यप्राधान्ये वर्तते। तद्यथा--यो यत्राप्रधानं भवति स आह--गुणभूता वयमत्रेति।
अस्त्याचारे वर्तते। तद्यथा--गुणवानयं ब्राह्मण ःथ्द्य;त्युच्यते, यः सम्यगाचारं करोति।
अस्ति संस्कारे वर्तते। तद्यथा--संस्कृतमन्नं गुणवदित्युच्यते।।
(षष्ठीसमर्थाद्गुण ःथ्द्य;ति न्यासे अतिव्याप्तिदर्शकभाष्यम्)
अथवा सर्वत्रैवायं गुणशब्दः समेषु अवयवेषु वर्तते। तद्यथा--द्विगुणमध्ययनं त्रिगुणमध्ययनमित्युच्यते। चर्चागुणान् क्रमगुणांश्चापेक्ष्य भवति, न संहितागुणांश्चर्चागुणांश्च।
यद्येवं गुणवदन्नमिति गुणशब्दो नोपपद्यते। नह्यन्नस्य सूपादयो गुणाः समा भवन्ति।
नावश्यं र्वष्मतः परिमाणत एव वा साम्यं भवति।
किं तर्हि?
युक्तितोऽपि। आतश्च युक्तितः, यो हि मुद्गप्रस्थे लवणप्रस्थं प्रक्षिपेन्नादो युक्तं स्यात्।
यदि तावददेरन्नं नादोऽत्तव्यं स्यात्।
अथानितेरन्नं नादो जग्ध्वा प्राण्यात्।।
(यस्य गुणस्येति न्यासस्याव्याप्तिप्रदर्शकं भाष्यम्)
शुक्लादिषु तर्हि र्वत्यभावाद् वृत्तिर्न प्राप्नोति। शुक्लत्वम्, शुक्लतेति।
किं पुनः कारणं शुक्लादय एवोदाह्रियन्ते, न पुनर्वृक्षादयोऽपि--वृक्षत्वम्, वृक्षतेति।
अस्त्यत्र विशेषः,
उभयवचना ह्येते द्रव्यं चाहुर्गुणं च, यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति।।
(अव्याप्त्यभावोपपादकभाष्यम्)
ःथ्द्य;मेऽपि तर्हि--उभयवचनाः।
कथम्?
आरभ्यते मतुब्लोपः--गुणवचनेभ्यो मतुपो लुग्भवतीति।
यतो द्रव्यवचनास्ततो वृत्तिर्भविष्यति।।
(अव्याप्तिदर्शकं भाष्यम्)
डित्थादिषु तर्हि र्वत्यभावाद वृत्तिर्न प्राप्नोति। डित्थत्वम्, डित्थता, डाम्भिट्टता, डाम्भिट्टत्वमिति।
अत्रापि--कश्चित् प्राथमकल्पिको डित्थो डाम्भिट्टश्चेति। तेन कृतां क्रियां गुणं वा यः कश्चित्करोति स उच्यते--डित्थत्वं त एतत्, डाम्भिट्टत्वं त एतत्। एवं डित्थाः कुर्वन्ति, एव डाम्भिट्टाः कुर्वन्ति।
यस्तर्हि प्राथमकल्पिको डित्थो डाम्भिट्टश्च, तस्य र्वत्यभावाद् वृत्तिर्न प्राप्नोति।
नैष दोषः।
यथैव तस्य काथंचित्कः प्रयोगः, एवं वृत्तिरपि भविष्यति।।
(5688 सिद्धं तु यस्येति न्यासं परित्यज्य अन्यन्यासे वार्तिकम्।। 6 ।।)
- यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावस्तदभिधाने -
(वार्तिकव्याख्याभाष्यम्)
किमेभिस्त्रिभिर्भावग्रहणैः क्रियते?
एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्यामर्थः। यद्वा--सर्वे शब्दाः स्वेनार्थेन भवन्ति स तेषामर्थ ःथ्द्य;ति, तदभिधाने वा
त्वतलौ भवत ःथ्द्य;ति वक्तव्यम्।।
नैवमन्यत्र भवति। न हि तेन रक्तं रागात्(4।2।1) ःथ्द्य;त्यत्र शब्देन रक्ते प्रत्यया उत्पद्यन्ते।
शब्देऽसंभवादर्थेन रक्ते प्रत्यया भविष्यन्ति।।
(न्यासप्रत्याख्यानकवार्तिकावतरणभाष्यम्)
तत्तर्ह्यन्यतरत्कर्तव्यम्। सूत्रं च भिद्यते।।
यथान्यासमेवास्तु।
ननु चोक्तं--तस्य भाव ःथ्द्य;त्यभिप्रायादिष्वतिप्रसङ्गः ःथ्द्य;ति।।
(5689 न्यासप्रत्याख्यानकसिद्धान्तवार्तिकम्।। 7 ।।)
- उक्तं वा -
(भाष्यम्) किमुक्तम्?
अनभिधानादिति। अनभिधानादभिप्रायादिषूत्पत्तिर्न भविष्यति।।
(5690 पूर्वविप्रतिषेधवार्तिकम्।। 8 ।।)
- त्वतल्भ्यां नञ्ञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम् -
(भाष्यम्) त्वतल्भ्यां नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन।
किं प्रयोजनम्?
त्वतलोः स्वरसिद्ध्यर्थम्। त्वतलोः स्वरसिद्धिर्यथा स्यात्।
त्वतलोरवकाशः--भावस्य वचनं प्रतिषेधस्यावचनम्--ब्राह्मणत्वम्, ब्राह्मणता।
नञ्ञ्समासस्यावकाशः--प्रतिषेधस्य वचनं भावस्यावचनम्--अब्राह्मणः, अवृषलः।
उभयवचने उभयं प्राप्नोति--अब्राह्मणत्वम्, अब्राह्मणता।
नञ्ञ्समासो भवति पूर्वविप्रतिषेधेन।
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः।।
(पूर्वविप्रतिषेधाभावोपपादकं भाष्यम्)
न वक्तव्यः। नात्र त्वतलौ प्राप्नुतः।
किं कारणम्?
असार्मथ्यात्।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दः प्रतिषेधमपेक्षते।।
नञ्ञ्समासोऽपि तर्हि न प्राप्नोति।
किं कारणम्?
असार्मथ्यादेव।
कथमसार्मथ्यम्?
सापेक्षमसमर्थं भवतीति। यावता ब्राह्मणशब्दो भावमपेक्षते।।
प्रधानमत्र तदा ब्राह्मणशब्दः, भवति च प्रधानस्य सापेक्षस्यापि समासः।।
(पूर्वविप्रतिषेधप्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थमिति वक्ष्यति, तत्र व्यवस्थार्थमिदं वक्तव्यम्।।
(5691 नञ्ञ्समासविकल्पबोधकवार्तिकम्।। 9 ।।)
- वा छन्दसि -
(भाष्यम्) वा छन्दसि नञ्ञ्समासो वक्तव्यः। निर्वीर्यतां वै यजमान आशास्ते अपशुतां। अयोनित्वाय। अशिथिलत्वाय। अगोतामनपत्यताम्।
भवेदिदं युक्तमुदाहरणम्--अयोनित्वाय, अशिथिलत्वायेति।
ःथ्द्य;दं त्वयुक्तम्--अपशुतामिति। नह्यसौ समासभावमाशास्ते।
किं तर्हि?
उत्तरपदाभावमाशास्ते--न पशोर्भाव ःथ्द्य;ति।।
(5692 प्रत्ययसमावेशे वार्तिकम्।। 10 ।।)
- नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् -
(भाष्यम्) नञ्ञ्समासादन्यो भाववचनो भवति विप्रतिषेधेन।
किं प्रयोजनम्?
स्वरोत्तरपदवृद्ध्यर्थम्।
स्वरार्थमुत्तरपदवृद्ध्यर्थं च।
स्वरार्थं तावत्--अप्रथिमा, --अम्रदिमा।
उत्तरपदवृद्ध्यर्थम्--अशौक्ल्यम्, अकार्ष्ण्यम्।।
-5-1-120- आ च त्वात् (2002)
(चकाराक्षेपप्रयोजनभाष्यम्)
किमर्थश्चकारः?
अनुकर्षणार्थः, त्वतलावनुकृष्येते।
नैतदस्ति प्रयोजनम्, प्रकृतौ त्वतालवनुवर्तिष्येते।।
अत उत्तरं पठति--
(5693 चकारप्रयोजनवार्तिकम्।। 1 ।।)
- आ च त्वादिति चकारकरणमपवादसमावेशार्थम् -
(भाष्यम्) आ च त्वादिति चकारकारणं क्रियते, अपवादसमावेशार्थम्। ःथ्द्य;मनिच्प्रभृतिभिरपवादैः समावेशो यथा स्यात्।।
(वार्तिकोक्तप्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्। आ त्वात् ःथ्द्य;त्येवेमनिच्प्रभृतिभिरपबादैः समावेशो भविष्यति।।
(प्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--आ त्वाद्याः प्रकृतयः--ताभ्यश्च त्वतलौ यथा स्यातां यतश्चोच्येते।।
(प्रयोजनाक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम्। आ त्वात् ःथ्द्य;त्येव आत्वाद्याः प्रकृतयः ताभ्यस्त्वतलौ भविष्यतः, यतश्चोच्येते।।
(प्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--आ त्वाद्येऽर्थास्तत्र त्वतलौ यथा स्यातां, यत्र चोच्येते।।
(प्रयोजनाक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम्। आ त्वात् ःथ्द्य;त्येव आ त्वाद्येऽर्थास्तत्र त्वतलौ भविष्यतः, यत्र चोच्येते।।
(सिद्धान्तप्रयोजनभाष्यम्)
ःथ्द्य;दं तर्हि प्रयोजनम्--आ त्वाद्याः प्रकृतयस्ताभ्यश्च त्वतलौ यथा स्याताम्, यस्याश्च प्रकृतेरेतस्मिन् विशेषेऽन्यः प्रत्यय उत्पद्यते।
किं कृतं भवति?
स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानं चोदितं तन्न वक्तव्यं भवति।।
-5-1-121- न नञ्ञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (2003)
(निषेधाधिकरणम्)
(निषेधप्रयोजनाक्षेपभाष्यम्)
कस्यायं प्रतिषेधः?
त्वतलोरित्याह।
नैतदस्ति प्रयोजनम्।
ःथ्द्य;ष्येते नञ्ञ्पूर्वात्तत्पुरुषात्वतलौ--अब्राह्मणत्वम्, अब्राह्मणतेति।
अत उत्तरं पठति--
(5694 निषेध्यकथनवार्तिकम्।। 1 ।।)
- न नञ्ञ्पूर्वादित्युत्तरस्य प्रतिषेधः -
(भाष्यम्) न नञ्ञ्पूर्वात् ःथ्द्य;त्युत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते।।
(प्रयोजनाक्षेपभाष्यम्)
नैतदस्ति प्रयोजनम्।
परिगणिताभ्यः प्रकृतिभ्य उत्तरो भावप्रत्ययो विधीयते, न च तत्र काचिन्नञ्ञ्पूर्वा प्रकृतिर्गृह्यते।
तदन्तविधिना प्राप्नोति।
ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते।
यत्र तर्हि तदन्तविधिरस्ति--पत्यन्तपुरोहितादिभ्यो यक्(5।1।128) ःथ्द्य;ति।
यद्येतावत्प्रयोजनं स्यात्तत्रैवायं ब्रूयात्--पत्यन्ताद्यग्भवति, नञ्ञ्पूर्वात्तत्पुरुषान्नेति।।
(प्रयोजनभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--उत्तरो भावप्रत्ययो नञ्ञ्पूर्वाद्बहुव्रीहेर्भवतीति।।
(आक्षेपभाष्यम्)
नेष्यते। त्वतलावेवेष्येते। अविद्यमानाः पृथवोऽस्यापृथुः, अपृथोर्भावः--अपृथुत्वम्, अपृथुतेति।
(प्रयोजनभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--उत्तरो भावप्रत्ययोऽन्यपूर्वात्तत्पुरुषाद्भवतीति।
(आक्षेपभाष्यम्)
नैवेष्यते। त्वतलावेवेष्येते। परमः पृथुः--परमपृथुः, परमपृथोर्भावः--परमपृथुत्वम्, परमपृथुता।
(प्रयोजनभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--उत्तरो भावप्रत्ययः सापेक्षाद्भवतीति।
किमेतस्य ज्ञापने प्रयोजनम्? नञ्ञ्समासादन्यो भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् ःथ्द्य;त्युक्तं तदुपपन्नं भवति।।
(प्रयोजनाक्षेपभाष्यम्)
एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति--सर्व एते तद्धिताः सापेक्षाद्भवन्तीति यदयं नञ्ञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः (6।2।155) ःथ्द्य;त्याह।।
-5-1-122- पृथ्वादिभ्य ःथ्द्य;मनिज्वा (2004)
(विकल्पाधिकरणम्)
(वाप्रयोजनजिज्ञासाभाष्यम्)
वावचनं किमर्थम्?
वाक्यमपि यथा स्यात्।
नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा (4।1।82) तया वाक्यमपि भविष्यति।
ःथ्द्य;दं तर्हि प्रयोजनम्--त्वतलावपि यथा स्याताम्।
एतदपि नास्ति प्रयोजनम्। आ च त्वात् ःथ्द्य;त्येतस्माद्यत्नात् त्वतलावपि भविष्यतः।।
अत उत्तरं पठति--
(5695 वाप्रयोजनवार्तिकम्।। 1 ।।)
- पृथ्वादिभ्यो वावचनमण्समावेशार्थम् -
(भाष्यम्) पृथ्वादिभ्यो वावचनं क्रियते, अण्समावेशो यथा स्यात्। पार्थवम्, प्रथिमा।।
-5-1-124- गुणवचनब्राह्मणादिभ्यः कर्मणि च (2006)
(ष्यञ्ञ्प्रत्ययाधिकरणम्)
(5696 उपसंख्यानवार्तिकम्।। 1 ।।)
- ब्राह्मणादिषु चातुर्र्वण्यादीनामुपसंख्यानम् -
(भाष्यम्) ब्राह्मणादिषु चातुर्र्वण्यादीनामुपसंख्यानं कर्तव्यम्। चातुर्र्वण्यम्। चातुर्वैद्यम्। चातुराश्रम्यम्।।
(5697 उपसंख्यानवार्तिकम्।। 2 ।।)
- अर्हतो नुम्च -
(भाष्यम्) अर्हतो नुम्च ष्यञ्ञ्च वक्तव्यः। अर्हतो भावः--आर्हन्त्यम्। आर्हन्ती।।
-5-1-125- स्तेनाद्यन्नलोपश्च (2007)
(यत्प्रत्ययाधिकरणम्)
(नेति संघातग्रहणसमर्थकं भाष्यम्)
किमिदं नलोपे वर्णग्रहणम्, आहोस्वित् संघातग्रहणम्।
किं चातः?
यदि वर्णग्रहणम्, स्तेयम्, नलोपे कृते अयादेशः प्राप्नोति।
अथ संघातग्रहणम्, अन्त्यस्य लोपः कस्मान्न भवति।
सिद्धोऽन्त्यलोपः यस्य 6।4।148 ःथ्द्य;त्येव। तत्रारम्भसार्मथ्यात्सर्वस्य भविष्यति।।
-5-1-130- हायनान्तयुवादिभ्योऽण् (2012)
(अणोऽधिकरणम्)
(5698 उपसंख्यानवार्तिकम्।। 1 ।।)
- अण्प्रकरणे श्रोत्रियस्य घलोपश्च -
(भाष्यम्) अण्प्रकरणे श्रोत्रियस्योपसंख्यानं कर्तव्यम्, घलोपश्च वक्तव्यः। श्रोत्रियस्य भावः श्रौत्रम्।।
ःथ्द्य;ति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम्।।
।। पादश्च समाप्तः ।।
-9-9-999-