सामग्री पर जाएँ

महाभाष्यम्/द्वितीयोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

<M.2.313>
(221 समर्थपरिभाषासूत्रम् ।। 2।1।1। अ.1 सू.)
-2-1-1- समर्थः पदविधिः (350)
(अथ विधिशब्दार्थनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
विधिरिति कोयं शब्दः? ।।
(समाधानभाष्यम्)
विपूर्वाद्धाञ: कर्मसाधन इकारः -- विधीयते विधिरिति ।। किं पुनर्विधीयते?।। समासो विभक्तिविधानं पराङ्गवद्भावश्च ।।

(परिभाषात्वनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनरयमधिकारः, आहोस्वित् परिभाषा?।।
<M.2.314>
(प्रत्याक्षेपभाष्यम्)
कः पुनरधिकारपरिभाषयोर्विशेषः? ।।

(प्रत्याक्षेपसमाधानभाष्यम्)
अधिकारः प्रतियोगं तस्यानिर्देशार्थं इति योगेयोगे उपतिष्ठते ।। परिभाषा पुनरेकदेशस्था सती कृत्स्नं शास्त्रमभिज्वलयति प्रदीपवत्। तद्यथा प्रदीपः सुप्रज्वलित एकदेशस्थः सर्वं वेश्माभिज्वलयति ।।
(प्रत्याक्षेपान्तरभाष्यम्)
कः पुनरत्र प्रयत्नविशेषः?।।
(प्रत्याक्षेपान्तरसमाधानभाष्यम्)
अधिकारे सति स्वरयितव्यम्। परिभाषायां तु सर्वमपेक्ष्यम्।।
(संदेहान्तरभाष्यम्)
तथेदमपरं द्वैतं भवति -- एकार्थीभावो वा सामर्थ्यं स्यात्, व्यपेक्षा वेति?।।
<M.2.315>
(एकार्थीभावव्यपेक्षयोर्विशेषप्रदर्शकभाष्यम्)
तत्रैकार्थीभावे सामर्थ्येऽधिकारे च सति समास एकः संगृहीतो भवति। विभक्तिविधानं पराङ्गवद्भावश्चासंगृहीतः ।।
व्यपेक्षायां पुनः सार्मथ्येऽधिकारे च सति विभक्तिविधानं पराङ्गवद्भावश्च संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः ।। अन्यत्र खल्वपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति।। क्वान्यत्र? इसुसोः सार्मथ्ये न चवाहाहैवयुक्ते इति ।।
व्यपेक्षायां पुनः सार्मथ्ये परिभाषायां च सत्यां यावान् व्याकरणे पदगन्धो नाम स सर्वः संगृहीतो भवति। समासस्त्वेकोऽसंगृहीतः ।।

(सिद्धान्तभाष्यम्)
तत्रैकार्थीभावः सामार्थ्यं परिभाषा चेत्येवं सूत्रमभिन्नतरकं भवति।।
(आक्षेपभाष्यम्)
एवमपि क्वचिदकर्तव्यं समर्थग्रहणं क्रियते। क्वचिच्च कर्तव्यं न क्रियते। अकर्तव्यं तावत्क्रियते ---
समर्थानां प्रथमाद्वा इति। कर्तव्यं न क्रियते -- कर्मण्यण् समर्थादिति ।।
<M.2.316>
(आक्षेपसाधकभाष्यम्)
ननु च गम्यते तत्र सामर्थ्यं कुम्भकारो नगरकार इति ।।
(आक्षेपसमाधानभाष्यम्)
सत्यम्। गम्यते उत्पन्ने हि प्रत्यये। स एव तावत्समर्थादुत्पाद्यः ।।

(अथ समर्थपरिभाषाप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ समर्थग्रहणं किमर्थम् ?।।
(समाधानभाष्यम्)
बक्ष्यति -- द्वितीया श्रितादिभिः समस्यते कष्टश्रितो नरकश्रित इति ।। समर्थग्रहणं किमर्थम्?। पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्।
तृतीया तत्कृतार्थेन गुणवचनेन उपादानविकलः, शङ्कुलाखण्डः, किरिकाणः ।। समर्थग्रहणं किमर्थम्? त्वं तिष्ठ शङ्कुलया, खण्डो धावति मुसलेन। किं त्वं करिष्यसि शङ्कुलया, खण्डो विष्णुमित्र उपलेन ।।
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः गोहितम्। वृषभहितम्। अश्वहितम्।। समर्थग्रहणं किमर्थम्?। सुखं गोभ्यो, हितं देवदत्ताय।।
पञ्चमी भयेन वृकभयं दस्युभयं चोरभयम् ।। समर्थग्रहणं किमर्थम्?। गच्छ त्वं मा वृकेभ्यो, भयं देवदत्ताद्यज्ञदत्तस्य ।।
षष्ठी सुबन्तेन समस्यते। राजपुरुषः। ब्राह्मणकम्बलः ।। समर्थग्रहणं किमर्थम्?। भार्या राज्ञः, पुरुषो देवदत्तस्येति ।।
सप्तमी शौण्डैः अक्षशौण्डः स्त्रीशौण्डः।। समर्थग्रहणं किर्मथम्?। कुशलो देवदत्तोऽक्षेषु, शौण्डः पिबति पानागारे ।।
<M.2.317>
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि समर्थग्रहणे इह कस्मान्न भवति - महत्कष्टं श्रित इति?।।
(प्रत्याक्षेपभाष्यम्)
न वा भवति महाकष्टश्रित इति ?।।
(प्रत्याक्षेपसमाधानभाष्यम्)
भवति, यदैतद्वाक्यं भवति -- महत्कष्टं महाकष्टं महाकष्टं श्रितो महाकष्टश्रित इति। यदा त्वेतद्वाक्यं भवति -- महत्कष्टं श्रित इति, तदा न भवितव्यम्। तदा च प्राप्नोति ।।
(आक्षेपभाष्यम्)
तदा कस्मान्न भवति?।
(प्रत्याक्षेपभाष्यम्)
कस्य कस्मान्न भवति। किं द्वयोः, आहोस्विद्बहूनाम्?।
(आक्षेपाशयाविष्कारभाष्यम्)
बहूनां कस्मान्न भवति?।।
(समाधानभाष्यम्)
सुप्सुपेति वर्तते ।।
<M.2.318>
(आक्षेपभाष्यम्)
ननु च भो आकृतौ शास्त्राणि प्रवर्तन्ते। तद्यथा -- प्रातिपदिकाद् इति वर्तमानेऽन्यस्माच्चान्यस्माच्च प्रातिपदिकादुत्पत्तिर्भवति ।।

(समाधानभाष्यम्)
सत्यमेवमेतत्। आकृतिस्तु प्रत्येकं परिसमाप्यते, न समुदाये। यावत्येतत् परिसमाप्यते प्रातिपदिकादिति,
तावत् उत्पत्त्या भवितव्यम्, प्रत्येकं चैतत्परिसमाप्यते, न समुदाये। एवमिहापि यावत्येतत्परिसमाप्यते सुप्सुपेति, तावतः समासेन भवितव्यम्। द्वयोश्चैतत्परिसमाप्यते, न बहुषु ।।

(आक्षेपभाष्यम्)
द्वयोस्तर्हि कस्मान्न भवति?।
(समाधानभाष्यम्)
असामर्थ्यात् ।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति ।।
<M.2.319>
(आक्षेपभाष्यम्)
यदि सापेक्षमसमर्थं भवतीत्युच्यते, राजपुरुषोऽभिरूपः राजपुरुषो दर्शनीयः अत्र वृत्तिर्न प्राप्नोति।।
(समाधानभाष्यम्)
नैष दोषः। प्रधानमत्र सापेक्षम्। भवति च प्रधानस्य सापेक्षस्यापि समासः।।

(आक्षेपभाष्यम्)
यत्र तर्ह्यप्रधानं सापेक्षं भवति तत्र वृत्तिर्न प्राप्नोति -- देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्येति ।। अत्र वृत्तिर्न प्राप्नोति।।
(समाधानभाष्यम्)
नैष दोषः। समुदायापेक्षात्र षष्ठी सर्वं गुरुकुलमपेक्षते ।।

(समाधानबाधकभाष्यम्)
यत्र तर्हि न समुदायापेक्षा षष्ठी तत्र ते वृत्तिर्न प्राप्नोति -- किमोदनः शालीनाम् सक्त्वाढकमापणीयानाम् कुतो भवान्पाटलिपुत्रक इति। इह चापि देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपत्रो देवदत्तस्य दासभार्येति। यद्येषां समुदायापेक्षा षष्ठी स्यान्नैतन्नियोगतो गम्येत -- देवदत्तस्य यो गुरुस्तस्य पुत्र इति। किं तर्हि?। अन्यस्यापि गुरुपुत्रः देवदत्तस्य किंचिदित्येषोर्थो गम्येत यतस्तु खलु नियोगतो देवदत्तस्य यो गुरुस्तस्य यः पुत्र इत्येषोर्थो गम्यते, अतो मन्यामहे -- नैषा समुदायापेक्षा षष्ठीति।। अन्यत्र खल्वपि समर्थग्रहणे सापेक्षस्यापि कार्यं भवति। क्वान्यत्र?। इसुसोः सामर्थ्ये ब्राह्मणस्य सर्पिष्करोतीति। तस्मान्नैतच्छक्यं वक्तुं -- सापेक्षमसमर्थं भवतीति ।।
<M.2.320>
(आक्षेपभाष्यम्)
वृत्तिस्तर्हि कस्मान्न भवति महत्कष्टं श्रित इति? ।।

(1190 समाधानवार्तिकप्रथमखण्डम्।।)
 ।। सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न ।।
(भाष्यम्) सविशेषाणां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते इति वक्तव्यम् ।।
(आक्षेपभाष्यम्)
यदि सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इत्युच्यते, देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रो देवदत्तस्य दासभार्येत्यत्र वृत्तिर्न प्राप्नोति ।।
(समाधानवार्तिकद्वितीयखण्डम् ।। 1 ।। )
।। अगुरुपुत्रादीनाम् ।।
(भाष्यम्) अगुरुपुत्रादीनामिति वक्तव्यम् ।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यं सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यते अगुरुपुत्रादीनामिति ।।
(समाधानभाष्यम्)
न वक्तव्यम्।। वृत्तिस्तर्हि कस्मान्न भवति?। अगमकत्वात्।। इह समानार्थेन वाक्येन भवितव्यं समासेन च। यश्चेहार्थो वाक्येन गम्यते महत्कष्टं श्रितः इति, नासौ जातु चित्समासेन गम्यते महत्कष्टश्रितः इति। एतस्माद्धेतोर्ब्रूमः -- अगमकत्वादिति, न ब्रूमः -- अपशब्दः स्यादिति ।। यत्र च गमको भवति, भवति तत्र वृत्तिः। तद्यथा -- देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपत्रो देवदत्तस्य दासभार्येति।।
(प्रत्याख्यानभाष्यम्)
यद्यगमकत्वं हेतुः, नार्थः समर्थग्रहणेन। इहापि भार्या राज्ञः पुरुषो देवदत्तस्य इति योर्थो वाक्येन गम्यते, नासौ जातु चित्समासेन गम्यते भार्या राजपुरुषो देवदत्तस्य इति। तस्मान्नार्थः समर्थग्रहणेन ।।
(प्रत्याख्यानबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। अयमस्त्यसमर्थसमासो नञ्ञ्समासो गमकः, तस्य साधुत्वं माभूत् -- अकिंचित्कुर्वाणम् अमाषं हरमाणम् अगाधादुत्सृष्टम् इति ।।
<M.2.321>
(प्रत्याख्यानसाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अवश्यं कस्यचिन्नञ्ञ्समासस्यासमर्थस्य गमकस्य साधुत्वं वक्तव्यम्। असूर्यंपश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी ब्राह्मण इति ।। सुडनपुंसकस्य इत्येतन्नियमार्थं भविष्यति -- एतस्यैवासमर्थसमासस्य नञ्ञ्समासस्य गमकस्य साधुत्वं भवति नान्यस्येति। तस्मान्नार्थः समर्थग्रहणेन ।।

(अथ सामर्थ्यलक्षणभेदनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि समर्थग्रहणे समर्थमित्युच्यते। किं समर्थं नाम?।
(1191 समाधानवार्तिकम् ।। 2 ।।
।। पृथगर्थानामेकार्थीभावः समर्थवचनम् ।।
(व्याख्याभाष्यम्)
पृथगर्थानां पदानामेकार्थीभावः समर्थमित्युच्यते ।।
<M.2.322>
(आक्षेपभाष्यम्)
क्व पुनः पृथगर्थानि, क्वैकार्थानि?।।
(समाधानभाष्यम्)
वाक्ये पृथगर्थानि राज्ञः पुरुषः इति। समासे पुनरेकार्थानि राजपुरुषः इति ।।

(आक्षेपभाष्यम्)
किमुच्यते--पृथगर्थानीति। यावता राज्ञः पुरुष आनीयताम् इत्युक्ते राजपुरुष आनीयते। राजपुरुषः इति च स एव?।

(समाधानभाष्यम्)
नापि ब्रूमः -- अन्यस्यानयनं भवतीति ।।
(एकार्थीभावफलनिरूपणाधिकरणम्)
(व्यपेक्षावादिन आक्षेपभाष्यम्)
कस्तर्ह्येकार्थीभावकृतो विशेषः?।।
(एकार्थीभाववादिनः समाधानभाष्यम्)
सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसंबन्धः स्वर इति।।
(सुबलोपोदाहरणसमन्वयभाष्यम्)
सुबलोपो भवति वाक्ये -- राज्ञः पुरुष इति। समासे तु न भवति -- राजपुरुष इति ।।
<M.2.323>
(व्यवधानोदाहरणसमन्वयभाष्यम्)
व्यवधानं भवति वाक्ये -- राज्ञः ऋद्धस्य पुरुष इति। समासे तु न भवति -- राजपुरुष इति ।।
(यथेष्टाभिसंबन्धोदाहरणसमन्वयभाष्यम्)
यथेष्टमन्यतरेणाभिसंबन्धो भवति वाक्ये -- राज्ञः पुरुषः पुरुषो राज्ञ इति।। समासे न भवति -- राजपुरुष इति।।
(स्वरोदाहरणसमन्वयभाष्यम्)
द्वौ स्वरौ भवतो वाक्ये -- राज्ञः पुरुष इति। समासे पुनरेक एव -- राजपुरुष इति।।

(समाधानबाधकव्यपेक्षावादिभाष्यम्)
नैत एकार्थीभावकृता विशेषाः।। किं तर्हि?। वाचनिकान्येतीनि। आह हि भगवान् -- सुपोधातुप्रातिपदिकयोः उपसर्जनं पूर्वम् समासस्यान्त उदात्तो भवतीति।।
(एकार्थीभाववादिसमाधानान्तरभाष्यम्)
इमे तर्ह्योकार्थीभावकृता विशेषाः -- संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोग इति।।
(संख्याविशेषोदाहरणसमन्वयभाष्यम्)
संख्याविशेषो भवति वाक्ये -- राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषं इति। समासे न भवति -- राजपुरुषः इति।।
<M.2.324>
(संख्याविशेषानवगतौ कारणान्तरभाष्यम्)
अस्ति कारणं येनैतदेवं भवति।। किं कारणम्?। योसौ विशेषवाची शब्दस्तदसांनिध्यात्। अङ्ग हि भवांस्तमुच्चारयतु गंस्यते स विशेषः ।।

(कारणान्तरनिराकरणभाष्यम्)
ननु च नैतेनैवं भवितव्यम्। नहि शब्दकृतेन नामार्थेन भवितव्यम्। अर्थकृतेन नाम शब्देन भवितव्यम् ।।
(भाष्यम्) तदेतदेवं दृश्यताम् -- अर्थरूपमेवंजातीयं येनात्र विशेषो न गम्यत इति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते -- योसौ विशेषवाची शब्दस्तदसांनिध्यादत्र विशेषो न गम्यते इति इह तस्य विशेषो गम्येत -- अप्सुचरो गोषुचरो वर्षासुज इति।।
<M.2.325>
(व्यक्ताभिधानोदाहरमसमन्वयभाष्यम्)
व्यक्ताभिधानं भवति वाक्ये -- ब्राह्मणस्य कम्बलस्तिष्ठति इति। समासे पुनरव्यक्ताभिधानं
ब्राह्मणकम्बलस्तिष्ठति इति, संदेहो भवति - सम्बुद्धिर्वा स्यात्, षष्ठीसमासो वेति।।

(विशेषबाधकभाष्यम्)
एषोप्यविशेषः। भवति हि किंचिद्वाक्येऽव्यक्तम्, तच्च समासे व्यक्तम्। वाक्ये तावदव्यक्तम् -- अर्द्धं पशोर्देवदत्तस्य इति, संदेहो भवति -- पशुगुणस्य वा देवदत्तस्यार्द्धम्, अथ वा योसौ संज्ञीभूतः पशुर्नाम तस्य यदर्द्धमिति। तच्च समासे व्यक्तं भवति -- अर्धपशुर्देवदत्तस्येति।।

(उपसर्जनविशेषणरूपविशेषोदाहरणभाष्यम्)
उपसर्जनविशेषणं भवति वाक्ये -- ऋद्धस्य राज्ञः पुरुषः इति। समासे न भवति -- राजपुरुषं इति।।
(बाधकभाष्यम्)
एषोप्यविशेषः। समासेप्युपसर्जनविशेषणं भवति। तद्यथा -- देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रो देवदत्तस्य दासभार्येति।।

(चयोगरूपविशेषोदाहरणसमन्वयभाष्यम्)
चयोगो भवति वाक्ये स्वचयोगः स्वामिचयोगश्चेति।। स्वचयोगः -- राज्ञो गौश्चाश्वश्च पुरुषश्चेति। समासे न भवति -- राज्ञः गवाश्वपुरुषाः इति।। स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौरिति। समासे न भवति -- देवदत्तयज्ञदत्तविष्णुमित्राणां गौरिति।।

(आक्षेपभाष्यम्)
अथैतस्मिन्नेकार्थीभावकृते विशेषे किं स्वाभाविकं शब्दैरर्थानामभिधानम्, आहोस्विद्वाचनिकम्?।।
<M.2.326>
(समाधानभाष्यम्)
स्वाभाविकमित्याह ।। कुत एतत्?।। अर्थानादेशनात्। न ह्यर्था आदिश्यन्ते।
(आक्षेपभाष्यम्)
कथं पुनरर्थानादिशन्नेवं ब्रूयात्-नार्था आदिश्यन्ते इति। यदाह भगवान् - अनेकमन्यपदार्थे चार्थे द्वन्द्वः अपत्ये, रक्ते, निर्वृत्ते, इति ।।

(समाधानभाष्यम्)
नैतान्यर्थादेशनानि। स्वभावत एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते। तद्यथा -- कूपे हस्तदक्षिणः पन्थाः, अभ्रे चन्द्रमसं पश्य इति स्वभावतस्तस्य तत्रस्थस्य पथश्चन्द्रमसश्च निमित्तत्वेनान्वाख्यानं क्रियते। एवमिहापि चार्थे यः स द्वन्द्वः, अन्यपदार्थे यः स बहुव्रीहिरिति ।।

(आक्षेपभाष्यम्)
किं पुनः कारणमर्था नादिश्यन्ते?।।
(समाधानभाष्यम्)
तच्च लध्वर्थम्। लघ्वर्थं ह्यर्था नादिश्यन्ते। अवश्यं ह्यनेनार्थानादिशता केन चिच्छब्देन अर्थनिर्देशः कर्तव्यः स्यात्। तस्य च तावत्केन कृतः येनासौ क्रियते। अथ तस्य केनचित्कृतः, तस्य केन कृतः, तस्य केन कृत इत्यनवस्था च स्यात्।।
असंभवः खल्वप्यर्थादेशनस्य। को हि नाम समर्थो धातुप्रातिपदिकप्रत्ययनिपातानामर्थानादेष्टुम्।।

<M.2.327>
(आक्षेपभाष्यम्)
न चैतन्मन्तव्यं प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थोऽनिर्दिष्ट इति। भवति हि गुणाभिधाने गुणिनः संप्रत्ययः। तद्यथा -- शुक्लः कृष्ण इति।।
(समाधानभाष्यम्)
विषम उपन्यासः। सामान्यशब्दा एत एवं स्युः। सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषं वा विशेषेष्ववतिष्ठन्ते। यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कस्मिंश्चिदेव विशेषे वृक्षशब्दो वर्तते, अतो मन्यामहे -- नेमे सामान्यशब्दा इति। न चेत्सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते। प्रत्ययः प्रत्यथार्थे वर्तते।।

(समाधानान्तरभाष्म्)
अप्रवृत्तिः खल्वप्यर्थादेशनस्य। बहवो हि शब्दा येषामर्था न विज्ञायन्ते--जर्भरी तुर्फरीतू ।। अन्तरेण खल्वपि शब्दप्रयोगं बहवोर्था गम्यन्ते--अक्षिनिकोचैः पाणिविहारैश्च।। न खल्वपि निर्ज्ञातस्यार्थस्यान्वाख्याने किंचिदपि प्रयोजनमस्ति। यो ब्रूयात्पुरस्तादादित्य उदेति पश्चादस्तं गच्छति, मधुरो गुडः, कटुकं श्रृङ्गवेरमिति। किं तेन कृतं स्यात्।।
(1192 लाघवदर्शकवार्तिकम् ।। 3 ।।)
।। वावचनानर्थक्यं च स्वभावसिद्धत्वात् ।।
(भाष्यम्) वावचनमनर्थकम्।। किं कारणम्?। स्वभावसिद्धत्वात्। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्चेति। स्वभावतश्चैतद्भवति-- वाक्यं च समासश्च। तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्राप्ते वावचनेन किमन्यच्छक्यमभिसंबन्धुमन्यदतः संज्ञायाः। न च संज्ञाया भावाभावाविष्येते। तस्मान्नार्थो वावचनेन ।।
(अथ वृत्तिलक्षणभेदवर्णनाधिकरणम्।)
(कार्यशब्दिकपक्षाक्षेपभाष्यम्)
अथ ये वृत्तिं वर्तयन्ति, किं त आहुः?।।
<M.2.328>
(समाधानभाष्यम्)
परार्थाभिधानं वृत्तिरित्याहुः।।
(आक्षेपभाष्यम्)
अथ तेषामेवं ब्रुवतां किं जहत्स्वार्था वृत्तिर्भवति, आहोस्विदजहत्स्वार्था भवति?।। किं चातः?। यदिजहत्स्वार्था वृत्तिः राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्न्तोति, औपगवमानयेत्युक्ते अपत्यमात्रस्येति।। अथाजहत्स्वार्था वृत्तिः, उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।। का पुनर्वृत्तिर्न्याय्या?।।
<M.2.329>
(समाधानभाष्यम्)
जहत्स्वार्था।।

(आक्षेपभाष्यम्)
युक्तं पुनर्जहत्स्वार्था नाम वृत्तिः स्यात्?।।
(समाधानभाष्यम्)
बाढं युक्तम्। एव हि दृश्यते लोके--पुरुषोयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति। तद्यथा--तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति। एवं युक्तं यद्राजा पुरुषार्थे वर्तमानः स्वमर्थं जह्याद्। उपगुश्चापत्यार्थे वर्तमानः स्वमर्थं जह्यात्।।

(आक्षेपस्मारणभाष्यम्)
ननु चोक्तं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति। औपगवमानयेत्युक्तेऽपत्यमात्रस्येति।।
(समाधानभाष्यम्)
नैष दोषः। जहदप्यसौ स्वार्थं नात्यन्ताय जहाति, यः परार्थविरोधी स्वार्थस्तं जहाति। तद्यथा--तक्षा राजकर्मणि प्रवर्तमानः स्वं तक्षकर्म जहाति, न तु हिक्कितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधी विशेषणं नाम। तस्मात्तन्न हास्यति।।

(समाधानान्तरभाष्यम्)
अथ वाऽन्वंयाद्विशेषणं भविष्यति। तद्यथा--घृतघटस्तैलघट इति । निषिक्ते घृते तैले चान्वयाद्विशेषणं
भवति--अयं घृतघटोऽयं तैलघट इति।।
<M.2.330>
(समाधानान्तरबाधकभाष्यम्)
विषम उपन्यासः। भवति हि तत्र या च यावती चार्थमात्रा। अङ्ग हि भवानग्नौ निष्टप्य घृतघटं तृणकूर्चेन प्रक्षालयतु न गंस्यते स विशेषः।।
(समाधानसाधकभाष्यम्)
यथा तर्हि मल्लिकापुटश्चम्पकपुट इति। निष्कीर्णास्वपि सुमनः सु अन्वयाद्विशेषणं भवति--अयं मल्लिकापुटः, अयं चम्पकपुट इति।।

(समाधानान्तरभाष्यम्)
अथ वा समर्थाधिकारोयं वृत्तौ क्रियते। सामर्थ्यं नाम भेदः, संसर्गो वा।। अपर आह--भेदसंसर्गौ वा सामर्थ्यमिति।। कः पुनर्भेदः संसर्गो वा?। इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्, पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोपि राजानमन्येभ्यः स्वेभ्यः। एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि स्वार्थं जहाति कामं जहातु न जातुचित्पुरुषमात्रस्यानयनं भविष्यति।।
<M.2.331>
(अथाजहत्स्वार्थाङ्गीकारभाष्यम्)
अथ वा पुनरस्त्वजहत्स्वार्था वृत्तिः ।।
(आक्षेपभाष्यम्)
युक्तं पुनरिदं यदजहत्स्वार्था नाम वृत्तिः स्यात्?।।
(समाधानभाष्यम्)
बाढं युक्तम्। एवं हि दृश्यते लोके भिक्षुकोयं द्वितीयां भिक्षां समासाद्य पूर्वां न जहाति। संचयायैव प्रवर्तते।।

(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति-- इति ।।
(प्रत्याक्षेपभाष्यम्)
कस्याः पुनर्द्विवचनं प्राप्नोति?।।
(आक्षेपाशयभाष्यम्)
प्रथमायाः ।।
(समाधानभाष्यम्)
न प्रथमासमर्थो राजा।।
(आक्षेपाशयान्तरभाष्यम्।)
षष्ठ्यास्तर्हि प्राप्नोति।।
(समाधानभाष्यम्)
न षष्ठीसमर्थः पुरुषः।।
(पूर्वोक्ताशयाभ्युपगमभाष्यम्)
प्रथमाया एव तर्हि प्राप्नोति।।
(बाधकस्मारणभाष्यम्)
ननु चोक्तम्--न प्रथमासमर्थो राजा--इति।।
(आक्षेपाशयसाधकभाष्यम्)
अभिहितः सोर्थोन्तर्भूतः प्रातिपदिकार्थः संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं
प्राप्नोति।।
<M.2.332>
(1193 समाधानवार्तिकम् ।। 4 ।।)
।। संघातस्यैकार्थ्यान्नावयवसंख्यातः सुबुत्पत्तिः ।।
(भाष्यम्) संघातस्यैकत्वमर्थः। तेनावयवसंख्यातः सुबुत्पत्तिर्न भविष्यति।।
(1194 पक्षान्तरवार्तिकम् ।। 5 ।।)
।। परस्परव्यपेक्षां सामर्थ्यमेके ।।
(व्याख्याभाष्यम्)
परस्परव्यपेक्षां सामर्थ्यमेक इच्छन्ति ।। का पुनः शब्दयोर्व्यपेक्षा?। न ब्रूमः--शब्दयोरिति।। किं तर्हि?। अर्थयोः। इह राज्ञः पुरुष इत्युक्ते राजा पुरुषमपेक्षते ममायमिति; पुरुषोपि राजानमपेक्षते अहमस्येति। तयोरभिसंबन्धस्य षष्ठी वाचिका भवति। तद्यथा--कष्टं श्रित इति क्रियाकारकयोरभिसंबन्धस्य द्वितीया वाचिका भवति।।
<M.2.333>
(आक्षेपभाष्यम्)
अथ यद्येवैकार्थीभावः सामर्थ्यम् अथापि व्यपेक्षा सामर्थ्यम्। किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम्?।।

(समाधानभाष्यम्)
गतमित्याह।। कथम्?। समोयमर्थशब्देन सहसमासः। सम् चोपसर्गः। उपसर्गाश्च पुनरेवमात्मकाः--यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः। न चेह कश्चित् क्रियावाची शब्दः प्रयुज्यते, येन समः सामर्थ्यं स्यात्। तत्र प्रयोगादेतद्गन्तव्यम्--नूनमत्र कश्चित् प्रयोगार्हः शब्दो न प्रयुज्यते येन समः सामर्थ्यम् इति। तद्यथा--धूमं दृष्ट्वा--अग्निरत्र इति गम्यते,त्रिविष्टब्धकं दृष्ट्वा परिव्राजक इति।। कः पुनरसौ प्रयोगार्हः शब्दो न प्रयुज्यते?।। उच्यते सङ्गतार्थं समर्थं संसृष्टार्थं समर्थं संप्रेक्षितार्थं समर्थं संबद्धार्थं समर्थमिति।। तद्यदा तावदेकार्थीभावः सामर्थ्यम्, तदैवं विग्रहः करिष्यते--सङ्गतार्थः समर्थः, संसृष्टार्थः समर्थ इति। तद्यथा -- सङ्गतं घृतं सङ्गतं तैलम् इत्युच्यते, एकीभूतमिति गम्यते। संसृष्टार्थः समर्थ इति। तद्यथा -- संसृष्टोऽग्निः इत्युच्यते, एकीभूत इति गम्यते।।
यदा व्यपेक्षा सामर्थ्यम्, तदैवं विग्रहः करिष्यते--संप्रेक्षितार्थः समर्थः संबद्धार्थः समर्थ इति।। कः पुनरिह संबध्नात्यर्थः?।। व्यतिषङ्गः ।। संबद्ध इत्युच्यते यो रज्ज्वा अयसा वा कीलेन वा व्यतिषक्तो भवति।। नावश्यं बध्नातिर्व्यतिषङ्ग एव वर्तते। किं तर्हि? अहानावपि वर्तते। तद्यथा--संबद्धाविमौ दम्यौ इत्युच्यते यावन्योन्यं न जहीतः।। अथ वा भवति चैवंजातीयकेषु बध्नातिर्वर्तते। तद्यथाअस्ति नो गर्गैः संबन्धः अस्ति नो वत्सैः संबन्धः
इति ।।

(सामर्थ्यदूषणाधिकरणम्)
(व्यपेक्षादूषणाभाष्यम्)
अथैतस्मिन्व्यपेक्षायां सार्मथ्ये योसावेकार्थीभावकृतो विशेषः स वक्तव्यः ।।
<M.2.334>
(1195 दूषणदर्शकवार्तिकम् ।। 6 ।।
।। तत्र नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः ।।
(भाष्यम्) तत्रैतस्मिन् व्यपेक्षायां सार्मथ्ये सति नानाकारकान्निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः ।।
निघात--अयं दण्डो हरानेन। अस्ति दण्डस्य हरतेश्च व्यपेक्षेति कृत्वा निघातः प्राप्नोति ।।
युष्मदस्मदादेशाः--ओदनं पच तव भविष्यति। ओदनं पच मम भविष्यति। अस्त्योदनस्य युष्मदस्मदोश्च
व्यपेक्षेति कृत्वा वान्नावादयः प्राप्नुवन्ति।।
तेषां प्रतिषेधो वक्तव्यः ।।
<M.2.335>
(आक्षेपभाष्यम्)
किमुच्यते--नानाकारकादिति, यदा तेनैवासज्य ह्रियते।।
(समाधानभाष्यम्)
नापि ब्रूमः--अन्येनासज्य ह्रियत इति।। किं तर्हि?। शब्दप्रमाणका वयम्। यच्छब्द आह, तदस्माकं प्रमाणम्। शब्दश्चेह सत्तामाह--अयं दण्डः अस्तीति गम्यते। स दण्डः कर्ता भूत्वान्येन शब्देनाभिसंबध्यमानः करणं संपद्यते। तद्यथा--कश्चित्कंचित्पृच्छति--क्व देवदत्तः इति। स तस्मायाचष्टे--असौ वृक्षे इति कतरस्मिन् ठयस्तिष्ठति इति स वृक्षोधिकरणं भूत्वाऽन्येन शब्देनाभिसंबध्यमानः कर्ता संपद्यते।।
(1196 दूषणान्तरवार्तिकम् ।। 7 ।।)
।। प्रचये समासप्रतिषेधः ।।
(भाष्यम्) प्रचये समासप्रतिषेधो वक्तव्यः। राज्ञो गौश्चाऽश्वश्च पुरुषश्च राजगवाश्वपुरुषा इति।।
(1197 द्वितीयदूषणबाधकवार्तिकम् ।। 8 ।।)
।। समर्थतराणां वा ।।
(व्याख्याभाष्यम्)
समर्थतराणां वा पदानां समासो भविष्यति।। कानि पुनः समर्थतराणि?। यानि द्वन्द्वभावीनि।। कुत एतत्?। एषां ह्याशुतरा वृत्तिः प्राप्नोति। तद्यथा--समर्थतरोयं माणवकोऽध्ययनाय इत्युच्यते आशुतरग्रन्थः इति गम्यते।।
(व्याख्यान्तरभाष्यम्)
अपर आह--समर्थतराणां वा पदानां समासो भविष्यति।। कानि पुनः समर्थतराणि?। यानि द्वन्द्वभावीनि। कुत एतत्?। समानविभक्तीन्येतानि, अन्यविभक्ती राजा। भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च।।
<M.2.336>
(1198 द्वितीयदूषणबाधकवार्तिकान्तरम् ।। 9 ।।)
।। समुदायसार्मथ्याद्वा सिद्धम् ।।
(व्याख्याभाष्यम्)
समुदायसार्मथ्याद्वा पुनः सिद्धमेतत्। समुदायेन राज्ञः सामर्थ्यं भवति, नावयवेन।।
(व्याख्यान्तरभाष्यम्)
अपर आह--
(व्याख्यान्तराय न्यासान्तरम्)
। समर्थतराणां वा समुदायसार्मथ्यात् । ।।
(व्याख्याभाष्यम्)
समर्थतराणां वा पदानां समासो भविष्यति।। कुत एतत्?। समुदायसार्मथ्यादेव।।
(आक्षेपभाष्यम्)
अस्मिन्पक्षे वा इत्येतदसमर्थितं भवति।।
(समाधानभाष्यम्)
एतच्च समर्थितम्।। कथम्?। नैव वा पुनरत्र राज्ञोश्वपुरुषावपेक्षमाणस्य गवा सह समासो भवति।। कथं तर्हि गोः राजानमपेक्षमाणस्याश्वपुरुषाभ्यां सह समासो भवति?।। प्रधानमत्र तदा गौर्भवति। भवति च प्रधानस्य सापेक्षस्यापि समासः।।
(वाक्यलक्षमाधिकरणम्)
(1199 वाक्यलक्षणावार्तिक्म् ।। 10 ।।)
।। आख्यातं साव्ययकारकविशेषणं वाकम् ।।
(व्याख्याभाष्यम्)
आख्यातं साव्ययं सकारकं सकारकविंशेषणं वाक्यसंज्ञं भवतीति वक्तव्यम्।।
साव्ययम्--उच्चैः पठति नीचैः पठतीति।।
सकारकम्--ओदनं पचति।।
सकारकविशेषणम्--ओदनं मृदु विशदं पचति ।।
(1200 वाक्यलक्षणवार्तिकम् ।। 11 ।।)
।। सक्रियाविशेषणं च ।।
(व्याख्याभाष्यम्)
सक्रियाविशेषणं चेति वक्तव्यम्। सुष्ठु पचति दुष्ठु पचतीति।।
<M.2.337>
(वाक्यलक्षणन्यासान्तरभाष्यम्)
अपर आह--आख्यातं सविशेषणम् इत्येव। सर्वामि ह्येतानि विशेषणानि ।।
(1201 वाक्यलक्षणान्तरवार्तिकम् ।। 12 ।।)
।। एकतिङ् ।।
(व्याख्याभाष्यम्)
एकतिङ् वाक्यसंज्ञं भवतीति वक्तव्यम्। ब्रूहि ब्रूहि ।।
<M.2.338>
(1202 वाक्यलक्षणप्रयोजनवार्तिकम्।। 13 ।।)
।। समानवाक्ये निघातयुष्मदस्मदादेशाः ।।
(व्याख्याभाष्यम्)
समानवाक्य इति प्रकृत्य निघातयुष्मदस्मदादेशा वक्तव्याः।। किं प्रयोजनम् ?। नानावाक्येषु मा भूवन्निघातादय इति। अयं दण्डो हरानेन। ओदनं पच तव भविष्यति। ओदनं पच मम भविष्यति।।
(1203 दूषणवार्तिकम् ।। 14 ।।)
।। योगे प्रतिषेधश्चादिभिः ।।
(व्याख्याभाष्यम्)
चादिभिर्योगे प्रतिषेधो वक्तव्यः। ग्रामस्तव च स्वं मम च स्वम्।।
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते। यथान्यास एव चादिभिर्योगे प्रतिषेध उच्यते?।।
(समाधानभाष्यम्)
इदमद्यापूर्वं क्रियते वाक्यसंज्ञा समानवाक्याधिकारश्च। तद् द्वेष्यं विजानीयात् सर्वमेतद्विकल्पत इति। तदाचार्यः सुहृद् भूत्वान्वाचष्टे चादिभिर्योगे यथान्यासमेव भवतीति। सा चावश्यं वाक्यसंज्ञा वक्तव्या समानवाक्याधिकारश्च वक्तव्यः ।।
(1204 नियमफलवार्तिकम् ।। 15 ।।)
।। समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषूपसंख्यानमसमर्थत्वात् ।।
(व्याख्याभाष्यम्)
समर्थनिघाते हि सति समानाधिकरणयुक्तयुक्तेषूपसंख्यानं कर्तव्यं स्यात्।। समानाधिकरणपटवे ते दास्यामि, मृदवे ते दास्यामि।। समानाधिकरण।। युक्तयुक्ते--नद्यास्तिष्ठति कूले, वृक्षस्य लम्बते शाखायम्, शालीनां ते ओदनं ददामि, शालीनां मे ओदनं ददासि।। किं पुनः कारणं न सिद्ध्यति?। असमर्थत्वात्।।

(अथ राजगवीक्षीरे समासनिर्णयाधिकरणम्)
(1205 आक्षेपवार्तिकम् ।। 16 ।।)
।। राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठीभावात् ।।
(व्याख्याभाष्यम्)
राजगवीक्षीरे द्विसमासप्रसङ्गः।। किं कारणम्?। द्विषष्ठीभावात्। द्वे ह्यत्र षष्ठ्यौ राज्ञः गोः क्षीरमिति।।
<M.2.339>
(आक्षेपबाधकभाष्यम्)
किमुच्यते--द्विसमासप्रसङ्ग इति। यदा सुप्सुपेति वर्तते न तदा द्विसमासप्रसङ्ग इति ?।।
(आक्षेपाशयभाष्यम्)
नैवं विज्ञायते--द्वयोः सुबन्तयोः समासप्रसङ्गो द्विसमासप्रसङ्ग इति।। कथं तर्हि?। द्विप्रकारस्य समासस्य प्रसङ्गो द्विसमासप्रसङ्ग इति।। राजगोक्षीरम् इत्यपि प्राप्नोति।।
(तृतीयाक्षेपभाष्यम्)
न चैवं भवितव्यम्?।।
(तृतीयाक्षेपसमाधानभाष्यम्)
भवितव्यं च यदैतद्वाक्यं भवति--गौः क्षीरं गोक्षीरम्; राज्ञो गोक्षीरं राजगोक्षीरमिति। यदा त्वेतद्वाक्यं भवति--राज्ञो गोः क्षीरमिति, तदा न भवितव्यम्, तदा च प्राप्नोति।। तदा कस्मान्न भवति?।।
(1206 समाधानवार्तिकम् ।। 17 ।।)
।। सिद्धं तु राजविशिष्टाया गोः क्षीरेण सार्मथ्यात् ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?। राजविशिष्टाया गोः क्षीरेण सह समासो भवति, न केवलायाः।। किं वक्तव्यमेतत्?। नहि।। कथमनुच्यमानं गंस्यते?। यथैवायं गवि यतते, न च क्षीरमात्रेण संतोषं करोति। एवं राजन्यपि यतते राज्ञो या गौस्तस्या यत् क्षीरमिति।।
(समाधानान्तरभाष्यम्)
नैव वा पुनरत्र गो राजानमपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति।। किं कारणम्?। असर्मथ्यात्।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति।।
(आक्षेपभाष्यम्)
कथं तर्हि गोः क्षीरमपेक्षमाणाया राज्ञा सह समासो भवति?।।
(समाधानभाष्यम्)
प्रधानमत्र तदा गौर्भवति। भवति च प्रधानस्य सापेक्षस्यापि समासः ।।
(पदविधिग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थं पदविधौ समर्थाधिकारः क्रियते?।।
<M.2.340>
(1207 समाधानवार्तिकम् ।। 18 ।।)
।। पदविधौ समर्थवचनं वर्णाश्रये शास्त्र आनन्तर्यविज्ञानात् ।।
(व्याख्याभाष्यम्)
पदविधौ समर्थाधिकारः क्रियते। वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यं यथा विज्ञायेतेति। तिष्ठतु दध्यशान त्वं शाकेन तिष्ठतु कुमारी च्छत्रं हर देवदत्तेति।।
(निर्देशानर्थक्यपरिहाराधिकरणम्)
(1208 आक्षेपवार्तिकम् ।। 19 ।।)
।। समर्थाधिकारस्य विधेयसामानाधिकरण्यान्निर्देशानर्थक्यम् ।।
(व्याख्याभाष्यम्)
समर्थाधिकारोयं विधेयेन समानाधिकरण:। किं च विधेयम्?। समासः।। यावद् ब्रूयात्--समर्थः समासः इति, तावत्--समर्थः पदविधिः इति। न च राजपुरुष इत्येतस्यामवस्थायां समर्थाधिकारेण किंचिदपि शक्यं प्रवर्तयितुं निवर्तयितुं वा। समर्थाधिकारस्य विधेयसामानाधिकरण्याद् निर्देशोनर्थकः ।।
(1209 समाधानवार्तिकम् ।। 20 ।।)
।। सिद्धं तु समर्थानामिति वचनात् ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?।। समर्थानां पदानां विधिर्भवतीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
एवमपि द्व्येकयोर्न प्राप्नोति।।
(1210 समाधानवार्तिकम् ।। 21 ।।)
।। एकशेषनिर्देशाद्वा ।।
(व्याख्याभाष्यम्)
अथ वा एकशेषनिर्देशोयम्। समर्थस्य च समर्थयोश्च समर्थानां च समर्थानामिति।।
<M.2.341>
(आक्षेपभाष्यम्)
एवमपि षट्प्रभृतीनामेव प्राप्नोति। षट्प्रभृतिषु ह्येकशेषः परिसमाप्यते।।
(समाधानभाष्यम्)
नैष दोषः। प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति द्व्येकयोरपि भविष्यति।।
(आक्षेपभाष्यम्)
एवमपि विभक्तीनां न प्राप्नोति--समर्थात्समर्थे पदात्पद इति।
(समाधानभाष्यम्)
एवं तर्हि समर्थपदयोरयं विधिशब्देन सर्वविभक्त्यन्तः समासः--समर्थस्य विधिः समर्थविधिः, समर्थयोर्विधिः समर्थविधिः, समर्थानां विधिः समर्थविधिः, समर्थाद्विधिः समर्थविधिः, समर्थे विधिः समर्थविधिः। पदस्य विधिः पदविधिः, पदयोर्विधिः पदविधिः, पदानां विधिः पदविधिः, पदाद्विधिः पदविधिः, पदे विधिः पदविधिः। समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधिश्च समर्थविधयः। पदविधिश्च पदविधिश्च
पदविधिश्च पदविधिश्च पदविधिश्च पदविधयः। सामर्थविधयश्च पदविधयश्च समर्थः पदविधिः। पूर्वः समास उत्तरपदलोपी। यादृच्छिकी विभक्तिश्च।।
(सामानाधिकरण्योपपादनाधिकरणम्)
(1211 आक्षेपवार्तिकम् ।। 22 ।।)
।। समानाधिकरणेषूपसंख्यानमसमर्थत्वात् द्रव्यं पदार्थ इति चेत् ।।
(भाष्यम्) समानाधिकरणेषूपसंख्यानं कर्तव्यम्। वीरः पुरुषो वीरपुरुषः।। किं पुनः कारणं न सिद्ध्यति?। असमर्थत्वात्।। कथमसामर्थ्यम्?। द्रव्यं पदार्थ इति चेत्। यदि द्रव्यं पदार्थः, न भवति तदा सामर्थ्यम्। भेदाभावात्। अथ हि गुणः पदार्थः, भवति तदा सामर्थ्यम्। अन्यो हि वीरत्वं गुणः, अन्यो हि पुरुषत्वम्।।
<M.2.342>
(अन्यत्वस्य समार्थ्यहेतुत्वबाधकभाष्यम्)
न अन्यत्वमस्ति इतीयता सामर्थ्यं भवति। अन्यो हि देवदत्तो गोभ्यश्चाश्वेभ्यश्च। न च तस्यैतावता सामर्थ्यं भवति।।
(प्रत्याक्षेपभाष्यम्)
को वा विशेषः यद् गुणे पदार्थे सामर्थ्यं स्यात्। द्रव्ये च न स्याद्?।।
(प्रत्याक्षेपसमाधानभाष्यम्)
एष विशेषः। एकं तयोरधिकरणम्। अन्यश्च वीरत्वं गुणः, अन्यः पुरुषत्वम्।।
(समाधानबाधकभाष्यम्)
द्रव्यपदार्थिकस्यापि तर्हि गुणभेदात्सार्मथ्यं भविष्यति प्र्प्र्
(समाधानसाधकभाष्यम्)
अशक्यो द्रव्यपदार्थिकेन द्रव्यस्य गुणकृत उपकारः प्रतिज्ञातुम् ।।
(समाधानबाधकभाष्यम्)
ननु चाभ्यन्तरोसौ भवति।।
(समाधानसाधकभाष्यम्)
यद्यप्यभ्यन्तरः, न तु गम्यते। नहि गुड इत्युक्ते मधुरत्वं गम्यते, श्रृङ्गवेरमिति वा कटुकत्वम्।।
(समाधानबाधकभाष्यम्)
गुणपदार्थिकेनापि तर्हि अशक्यो गुणस्य द्रव्यकृत उपकारः प्रतिज्ञातुम्।
(समाधानसाधकभाष्यम्)
अथ गुणपदार्थिकः प्रतिजानीते।।
(प्रतिबन्दीभाष्यम्)
द्रव्यपदार्थिकोपि कस्मान्न प्रतिजानीते?।।
(प्रतिबन्दीबाधकभाष्यम्)
एवमनयोः सामर्थ्यं स्याद्वा न वा।।
(प्रत्याक्षेपभाष्यम्)
क्व च तावदिदं स्यात्--समानाधिकरणेनेति?।।
(प्रत्याक्षेपबाधकभाष्यम्)
यत्र सर्वं समानम्--इन्द्रः शक्रः पुरुहूतः पुरंदरः कन्दुः कोष्ठः कुसूलः इति।
<M.2.343>
(प्रत्याक्षेपसाधकभाष्यम्)
नैवंजातीयकानां समासेन भवितव्यं प्रत्ययेन वोत्पत्तव्यम्।। किं कारणम्?। अर्थगत्यर्थः शब्दप्रयोगः। अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते। तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम्। किं कारणम्?
उक्तार्थानामप्रयोग इति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--भृत्यभरणीय इति?।।
(समाधानभाष्यम्)
नैतौ समानार्थौ। एकोत्र शक्यार्थे कृत्यः, अपरोर्हे। शक्यो भर्तुं भृत्यः। अर्हति भृतिं (भरणीयः। भृत्यो भरणीयो भृत्य) भरणीय इति।।
(आक्षेपभाष्यम्)
यदि तर्हि यत्र किंचित्समानं कश्चिच्च विशेषः तत्र भवितव्यम्। इहापि तर्हि प्राप्नोति--दर्शनीयाया माता दर्शनीया मातेति। अत्रापि किंचित्समानं कश्चिच्च विशेषः। किं पुनस्तत्?। सद्भावान्यभावौ।।
(समाधानभाष्यम्)
न क्वचित्सद्भावान्यभावौ न स्तः, उच्यते चेदं समानाधिकरणेनेति, तत्र प्रकर्षगतिर्विज्ञास्यते--यत्र साधीयः सामानाधिकरण्यम्।। क्व च साधीयः सामानाधिकरण्यम्?। यत्र सर्वं समानं सद्भावान्यभावौ द्रव्यं च।।
(समाधानान्तरभाष्यम्)
अथ वा समानाधिकरणेनेति तत्समानमाश्रीयते यत्समानं भवति, न भवति च। न चैतत्समानं क्वचिदपि न भवति।।
<M.2.344>
(समाधानान्तरभाष्यम्)
अथ वा यावद् ब्रूयात्--समानद्रव्येणेति, तावत्--समानाधिकरणेनेति। द्रव्यं हि लोके अधिकरणम् इत्युपचर्यते। तद्यथा--एकस्मिन्द्रिव्ये व्युदितम्। एकस्मिन्नधिकरणे व्युदितम्। तथा व्याकरणे विप्रतिषिद्धं चानधिकरणवाचि अद्रव्यवाचीति गम्यते।।
(आक्षेपभाष्यम्)
एवमपीदमवश्यं वक्तव्यम्--समानाधिकरणमसमर्थवद्भवति इति।। किं प्रयोजनम्?। सर्पिःकालकं
यजुः पीतकम् इत्येवमर्थम्।।
(प्रत्याक्षेपभाष्यम्)
यदि समानाधिकरणमसमर्थवद्भवति इत्युच्यते सर्पिष्पीयते यजुष्क्रियत इत्यत्र षत्वं न प्राप्नोति।।
(प्रत्याक्षेपबाधकभाष्यम्)
अधात्वभिहितमित्येवं तत्।।
(उपसंहारभाष्यम्)
एवं च कृत्वा समानाधिकरणेषूपसंख्यानं कर्तव्यम्। वीरः पुरुषो वीरपुरुष इति। किं कारणम्?। असमर्थत्वात्?।
(1212 समाधानवार्तिकम्।। 23 ।।)
।। न वा वचनप्रामाण्यात् ।।
(व्याख्याभाष्यम्)
न वा कर्तव्यम्।। किं कारणम्?। वचनप्रामाण्यात्। वचनप्रामाण्यादत्र समासो भविष्यति।। किं वचनप्रामाण्यम्?। समानमध्यमध्यमवीराश्च इति।।
(1213 आक्षेपसमाधानातिदेशवार्तिकम् ।। 24 ।।)
।। लुप्ताख्यातेषु च ।।
(व्याख्याभाष्यम्)
लुप्ताख्यातेषु चोपसंख्यानं कर्तव्यम्। निष्कौशाम्बिः निर्वाराणसिः।।
लुप्ताख्यातेषु च।
किम्?। वचनप्रामाण्यादित्येव।। किं वचनप्रामाण्यम्?। कुगतिप्रादयः इति।।
(समाधानबाधकभाष्यम्)
अस्त्यन्यदेतस्य वचने प्रयोजनम्।। किम् ?। सुराजा अतिराजेति।।
<M.2.345>
(समाधानाशयभाष्यम्)
न ब्रूमो वृत्तिसूत्रवचनप्रामाण्यादिति। किं तर्हि?। वार्त्तिकवचनप्रामाण्यादिति। । सिद्धं तु क्वाङ्स्वतिदुर्गतिवचनात् ।। प्रादयः क्तार्थे । इति।।
(1214 समाधानान्तरवार्तिकम् ।। 25 ।।)
।। तदर्थगतेर्वा ।।
(भाष्यम्) तदर्थगतेर्वा पुनः सिद्धमेतत्।। किमिदं तदर्थगतेरिति?। तस्यार्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। यस्यार्थस्य कौशाम्ब्या सामर्थ्यं स निसोच्यते।। अथ वा सोर्थस्तदर्थः तदर्थस्य गतिस्तदर्थगतिस्तदर्थगतेरिति। योर्थः कौशाम्ब्या समर्थः स निसोच्यते।।
(अथ समासयोग्यपदसंख्यानिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
अथ यत्र बहूनां समासप्रसङ्गः किं तत्र द्वयोर्द्वयोः समासो भवति, आहोस्विदविशेषेण?।।
(विशेषजिज्ञासाभाष्यम्)
कश्चात्र विशेषः?।।
(1215 प्रथमपक्षे दूषणवार्तिकम् ।। 26 ।।)
।। समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणम् ।।
(व्याख्याभाष्यम्)
समासो द्वयोर्द्वयोश्चेद् द्वन्द्वेनेकग्रहणं कर्तव्यम्। चार्थे द्वन्द्वेनेकमिति वक्तव्यम्। इहापि यथास्यात्--प्लक्षन्यग्रोधखदिरपलाशा इति।।
<M.2.346>
(दूषणबाधकभाष्यम्)
नैष दोषः। अत्रापि द्वयोर्द्वयोः समासो भविष्यति।।
(1216 दूषणसाधकवार्तिकम् ।। 27 ।।)
।। द्वयोर्द्वयोः समास इति चेन्न बहुषु द्वित्वाभावात् ।।
(व्याख्याभाष्यम्)
द्वयोर्द्वयोः समास इति चेत्। तन्न। किं कारणम्?। बहुषु द्वित्वाभावात्। न बहुषु द्वित्वमस्ति।।
(आक्षेपबाधकभाष्यम्)
नावश्यमेवं विग्रहः कर्तव्यः--प्लक्षश्च न्यग्रोधश्च खदिरश्च पलाशश्चेति।। किं तर्हि?। एवं विग्रहः करिष्यते--प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, खदिरश्च पलाशश्च खदिरपलाशौ, प्लक्षन्यग्रोधौ च खदिरपलाशौ च प्लक्षन्यग्रोधखदिरपलाशा इति।।
(आक्षेपसाधकभाष्यम्)
होतृपोतृनेष्टोद्गातारः तर्हि न सिद्ध्यन्ति। होतापोतानेष्टोद्गातार इति प्राप्नोति।।
(प्रत्याक्षेपभाष्यम्)
न चैतदेवं भवितव्यम्?।।
(प्रत्याक्षेपबाधकभाष्यम्)
भवितव्यं च, यदैवं विग्रहः क्रियते--होता च पोता च होतापोतारौ, नेष्टा चोद्गाता च नेष्टोद्गातारौ, होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातार इति। होतृपोतृनेष्टोद्गातारस्तु न सिद्ध्यन्ति।।
(1217 दूषणान्तरवार्तिकम् ।। 28 ।।)
।। समासान्तप्रतिषेधश्च ।।
(व्याख्याभाष्यम्)
समासान्तस्य च प्रतिषेधो वक्तव्यः। वाक्त्वक्स्त्रुग्दृषदमिति। वाक्त्वचस्रुग्दृषदमिति प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। अत्रापि परेण सह समासो भविष्यति। स्रुक्च दृषच्च स्रुग्दृषदं त्वक् च स्रुग्दृषदं च त्वक्स्रुग्दृषदम्। वाक् च त्वक्स्रुग्दृषदं च वाक्त्वक्स्रुग्दृषदमिति।।
(प्रथमाक्षेपदाढर्‌यभाष्यम्)
होतृपोतृनेष्टोद्गातार एव तर्हि न सिद्ध्यति।।
<M.2.347>
(आक्षेपान्तरभाष्यम्)
इह च--
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिद्ध्यति।।
(द्वितीयपक्षाभ्युपगमभाष्यम्)
अस्तु तर्ह्यविशेषेण।।
(1218 आक्षेपवार्तिकम् ।। 29 ।।)
।। अविशेषेण बहुव्रीहावनेकपदप्रसङ्गः (तत्र स्वरसमासान्तपुंवद्भावेषु दोषः)।।।
(भाष्यम्) यद्यविशेषेण बहुव्रीहावनेकपदप्रसङ्गः।। तत्र को दोषः?। तत्र स्वरसमासान्तपुंवद्भावेषु दोषः। तत्र स्वरसमासान्तपुंवद्भावेषु दोषो भवति। स्वर--पूर्वशालाप्रियः अपरशालाप्रियः। स्वर।। समासान्त--पञ्चगवप्रियः पञ्चनावप्रियः। समासान्त।। पुंवद्भाव--खादिरेतरशम्यम् ।।
(1219 समाधानवार्तिकम् ।। 30 ।)
।। न वावयवतत्पुरुषत्वात् ।।
(व्याख्याभाष्यम्)
न वा एष दोषः। किं कारणम्। अवयवतत्पुरुषत्वात्। अवयवोत्र तत्पुरुषसंज्ञः, तदाश्रयौ
समासान्तपुंवद्भावौ भविष्यतः।।
(आक्षेपभाष्यम्)
स्वरः कथम्?।।
<M.2.348>
(1220 समाधानवार्तिकम् ।। 31 ।।)
।। तस्यान्तोदात्तत्वं विप्रतिषेधात्।।
(व्याख्याभाष्यम्)
अन्तोदात्तत्वं क्रियतां पूर्वपदप्रकृतिस्वर इति। अन्तोदात्तत्वं भवति विप्रतिषेधेन।।
(समाधानबाधकभाष्यम्)
नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परम् इत्युच्यते। पूर्वं चान्तोदात्तत्वम्, परं पूर्वपदप्रकृतिस्वरत्वम्।।
(समाधानाभिप्रायभाष्यम्)
न परविप्रतिषेधं ब्रूमः।। किं तर्हि?।। अन्तरङ्गविप्रतिषेधम्।।
(1221 समाधानहेत्वन्तरवार्तिकम् ।। 32 ।।)
।। निमित्तिस्वरबलीयस्त्वाद्वा ।।
(व्याख्याभाष्यम्)
अथ वा निमित्तस्वरान्निमित्तिस्वरो बलीयानिति वक्तव्यम्।। किं पुनर्निमित्तम्, को वा निमित्ती?। बहुव्रीहिर्निमित्तम्, तत्पुरुषो निमित्ती।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्--निमित्तस्वरान्निमित्तिस्वरो बलीयानिति?।।
(समाधानभाष्यम्)
न वक्तव्यम्।
(1222 समाधानसाधकवार्तिकम् ।। 33 ।।)
।। एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य ।।
(व्याख्याभाष्यम्)
यदयं युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठति तज्ज्ञापयत्याचार्यो निमित्तस्वरान्निमित्तिस्वरो बलीयानिति।।
(ज्ञापकत्वनिरासभाष्यम्)
कः पुनरर्हति युक्तारोह्यादिष्वेकशितिपाच्छब्दं पठितुम्। एवं किल नाम पठ्यते--एकः शितिः एकशितिः, एकशितिः पादो यस्येति। तच्च न। एवं विग्रहः करिष्यते--एकः शितिरेषु त इमे एकशितयः, एकशितयः पादा यस्येति एकशितिपादिति।। अथाप्येवं विग्रहः क्रियते--एकः शितिरेकशितिः, एकशितिः पादो यस्येति, एवमपि नार्थः पाठेन। इगन्ते द्विगौ इत्येष स्वरोत्र बाधको भविष्यति।।
<M.2.349>
(आक्षेपान्तरभाष्यम्)
अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति--
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रेणेति।
तत्र को दोषः? ।। तस्यान्तोदात्तत्वं विप्रतिषेधात् । इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन।।
(समाधानभाष्यम्)
नैष दोषः। नेदं बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणमारभ्यते।। किं तर्हि? यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तल्लक्षणमस्ति तस्यान्तोदात्तत्वं भविष्यति विप्रतिषेधेन।।
(आक्षेपभाष्यम्)
ननु चास्याप्यस्ति।। किम्?। विशेषणं विशेष्येण बहुलम् इति ।।
(समाधानभाष्यम्)
बहुलवचनान्न भविष्यति।।
(आक्षेपान्तरभाष्यम्)
अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा प्राप्नोति--अधिकषष्टिवर्ष इति।। तत्र को दोषः?। । तस्यान्तोदात्तत्वं विप्रतिषेधात् । इत्यन्तोदात्तत्वं स्याद्विप्रतिषेधेन ।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। इगन्ते द्विगौ इत्येष स्वरो बाधको भविष्यति।।
(आक्षेपान्तरभाष्यम्)
यस्तर्हि नेगन्तः--अधिकशतवर्ष इति।।
(प्रागुक्ताक्षेपस्यापि समञ्ञ्जसत्वभाष्यम्)
इह चाप्यधिकषष्टिवर्ष इति समासान्तः प्राप्नोति डचः प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशाद्यर्थम् इति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। अव्ययादेरित्येवं तत्।।
(आक्षेपभाष्यम्)
किं पुनः कारणम्--अव्ययादेरित्येवं तत्?।
(समाधानभाष्यम्)
इह मा भूद्--गोत्रिंशद्, गोचत्वारिंशदिति।।
(आक्षेपभाष्यम्)
बहुव्रीहिसंज्ञा तर्हि प्राप्नोति संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये इति।।
(समाधानभाष्यम्)
न संख्यां संख्येये वर्तयिष्यामः।। कथम्?। एवं विग्रहः करिष्यते--अधिका षष्टिर्वर्षाणामस्येति।।
<M.2.350>
(आक्षेपसाधकभाष्यम्)
यथा तर्हि स योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति।। कथं च स योगः प्रत्याख्यायते? । अशिष्यः संख्योत्तरपदः संख्येयार्थाभिधायित्वात् । इति।। प्रत्याख्याते तस्मिन्योगे संख्यां संख्येये वर्तयिष्यामः। तत्रैवं विग्रहः करिष्यते--अधिका षष्टिर्वर्षाण्यस्येति। सर्वथा वयमधिकषष्टवर्षान्न मुच्यामहे।। कथम्?। यावता स योगः प्रत्याख्यायते। अयं च विग्रहोस्ति--अधिका षष्टिर्वर्षाणामस्येति।
(आक्षेपबाधकभाष्यम्)
यत्तु तदुक्तम्--अधिकषष्टिवर्षो न सिद्ध्यतीति, स सिद्धो भवति।। कथम्?। यावता स योगः प्रत्याख्यायते। अयं च विग्रहोस्ति--अधिका षष्टिर्वर्षाण्यस्येति।।
(आक्षेपभाष्यम्)
अधिकशतवर्षस्तु न सिद्ध्यति।।
(समाधानभाष्यम्)
कर्तव्योत्र यत्नः।। समर्थः पदविधिः ।। 1 ।।
इति श्रीमहाभाष्ये द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम्।।
-2-1-2- सूबामन्त्रिते पराङ्गवत्स्वरे (351)
(222 अतिदेशसूत्रम् ।। 2।1।2 आ ।1। सूत्रम्)
(सुब्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
सुबिति किमर्थम् ?।।
(समाधानभाष्यम्)
करोष्यटन्।।
(समाधानबाधकभाष्यम्)
नैतदस्ति। असार्मथ्यादत्र न भविष्यति।। कथमसामर्थ्यम्?। समानाधिकरणमसमर्थवद्भवतीति।।
(समाधानभाष्यम्)
इदं तर्हि--पीड्ये पीड्यमानेति।।
(पूर्वोक्तसमाधानसाधकभाष्यम्)
इदं चाप्युदाहरणम्--करोष्यटन्।।
(आक्षेपबाधकस्मारणभाष्यम्)
ननु चोक्तम्--असार्मथ्यादत्र न भविष्यतीति। कथमसामर्थ्यम्?। समानाधिकरणमसमर्थवद्भवतीति।।
(समाधानभाष्यम्)
नैष दोषः। अधात्वभिहितमित्येवं तत्।।
(पराङ्गवद्भावविषयनिर्णयाधिकरणम्)
(1223 आक्षेपवार्तिकम् ।। 1 ।।)
।। आमन्त्रितस्य पराङ्गवद्भावे षष्ठ्यामन्त्रितकारकवचनम् ।।
(व्याख्याभाष्यम्)
आमन्त्रितस्य पराङ्गद्भावे षष्ठ्यन्तमामन्त्रितकारकं पराङ्गवद्भवतीति वक्तव्यम्। षष्ठ्यन्तं तावत्--मद्राणां राजन्, मगधानां राजन्।। आमन्त्रितकारकम्--कुण्डेनाटन्।।
(आमन्त्रितकारकोदाहरणबाधकभाष्यम्)
नास्त्यत्र विशेषः सति च पराङ्गवद्भावेऽसति वा ।।
(उदाहरणान्तरभाष्यम्)
इदं तर्हि--परशुना वृश्चन्।।
(1224 आक्षेपस्य प्रकारान्तरवार्तिकम्।। 2 ।।)
।। तन्निमित्तग्रहणं वा ।।
(व्याख्याभाष्यम्)
अथ वा तन्निमित्तग्रहणं कर्तव्यम्। आमन्त्रितनिमित्तं परस्याङ्गवद्भवतीति वक्तव्यम्। मद्राणां राजन्।।
(अनन्यथासाधकत्वभाष्यम्)
तच्चावश्यमन्यतरद्वक्तव्यम्।।
(1225 अन्यथासिद्धिवारकवार्तिकम् ।। 3 ।।)
।। अवचने हि सुबन्तमात्रप्रसङ्गः ।।
(व्याख्याभाष्यम्)
अनुच्यमाने त्वेतस्मिन्सुबन्तमात्रस्य पराङ्गवद्भावः प्रसज्येत। अस्यापि प्रसज्येत। क्षत्रेणाग्ने स्वायुः संरभस्व णित्रेणाग्ने मित्रधेये यतस्व।।
(आक्षेपभाष्यम्)
किं पुनरत्र ज्यायः?।।
(समाधानभाष्यम्)
तन्निमित्तग्रहणमेव ज्यायः। इदमपि सिद्धं भवति--गोषु स्वामिन् पशुषु स्वामिन्। एतद्धि नैव षष्ठ्यन्तम्, नाप्यामन्त्रितकारकम्।।
(1226 आक्षेपवार्तिकम् ।। 4 ।।)
।। सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमननन्तरत्वात्स्वरेऽवधारणाच्च।।
(व्याख्याभाष्यम्)
सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानं कर्तव्यम्। तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन्।। किं पुनः कारणं न सिद्ध्यति?। अननन्तरत्वात्।।
ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्यापि भविष्यति।।
स्वरेवधारणाच्च ।। स्वरेऽवधारणाच्च न सिद्ध्यति। स्वरेऽवधारणं क्रियते, नानन्तर्ये।।
(1227 आक्षेपवार्तिकम् ।। 5 ।।)
।। परमपि च्छन्दसि ।।
(व्याख्याभाष्यम्)
परमपि च्छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम्। आ ते पितर्मरुतां सुम्नमेतु। प्रति त्वा दुहितर्दिवः। वृणीष्व दुहितर्दिवः।।
(1228 आक्षेपवार्तिकम् ।। 6 ।।)
।। अव्ययप्रतिषेधश्च ।।
(व्याख्याभाष्यम्)
अव्ययानां च प्रतिषेधो वक्तव्यः। उच्यैरधीयान।।
(1229 पर्युदासवार्तिकम् ।। 7 ।।)
।। अनव्ययीभावस्य ।।
(व्याख्याभाष्यम्)
अव्ययीभावस्य नेति वक्तव्यम्। इह मा भूत् उपाग्न्यधीयान ।।
(स्वरेऽवधारणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थं स्वरेवधारणं क्रियते?।।
(1230 समाधानवार्तिकम्।। 8 ।।)
।। स्वरेवधारणं सुबलोपार्थम् ।।
(व्याख्याभाष्यम्)
स्वरेवधारणं क्रियते सुपो लोपो मा भूदिति। परशुना वृश्चन्।।
(1231 समाधानानर्थक्यवार्तिकम् ।। 9 ।।)
।। न वा सुबन्तैकान्तत्वात् ।।
(व्याख्याभाष्यम्)
न वा कर्तव्यम्। किं कारणम्?। सुबन्तैकान्तत्वात्। सुबन्तैकान्तः पराङ्गवद्भावो भवति।।
(1232 आनर्थक्यबाधकवार्तिकम् ।। 10 ।।)
।। प्रातिपदिकैकान्तस्तु सुब्लोपे ।।
(व्याख्याभाष्यम्)
प्रातिपदिकैकान्तस्तु भवति सुब्लोपे कृते।।

(आनर्थक्यसाधकभाष्यम्)
प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात्। तस्मात्स्वरेवधारणं न कर्तव्यं सुबलोपार्थं प्रातिपिदिकस्थायाः सुपो लुगुच्यते। तस्मात्स्वरग्रहणेन नार्थः।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्--षत्वणत्वे मा भूतामिति। कूपे सिञ्चन्। चर्म नमन्निति।।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। इह तावत्कूपे सिञ्चन्निति स्वाश्रयं पदादित्वं भविष्यति।।
(प्रयोजननिराकरणैकदेशिभाष्यम्)
चर्म नमन्निति पूर्वपदात्संज्ञायामग इत्येतस्मान्नियमान्न भविष्यति ।।
(निराकरणबाधकभाष्यम्)
ननु च समास एवैतद्भवति पूर्वपदमुत्तरपदमिति।।
(निराकरणसाधकैकदेशिभाष्यम्)
नेत्याह। अविशेषेणैव तद्भवति--पूर्वं पदं पूर्वपदम्। उत्तरं पदमुत्तरपदम्।। सुबामन्त्रिते ।। 2 ।।
<M.2.355>
-2-1-3- प्राक्कडारात्समासः (352)
(223 अधिकारसूत्रम् ।। 2।1।2 ।। अ.2.सू.)
(प्राग्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
प्राग्वचनं किमर्थम्?।।
(1233 समाधानवार्तिकम् ।। 1 ।।)
।। प्राग्वचनं समाससंज्ञाऽनिवृत्त्यर्थम् ।।
(व्याख्याभाष्यम्)
प्राग्वचनं क्रियते समाससंज्ञाया अनिवृत्तिर्यथा स्यात्। अक्रियमाणे प्राग्वचने अनवकाशा अव्ययीभावादयः संज्ञाः समाससंज्ञां बाधेरन्, ता मा बाधिषतेति प्राग्वचनं क्रियते।।
(एकदेशिनआक्षेपभाष्यम्)
अथ क्रियमाणेपि प्राग्वचने यावता अनवकाशा अव्ययीभावादिसंज्ञाः कस्मादेव न बाधन्ते?।।
(एकदेशिनःसमाधानभाष्यम्)
क्रियमाणे हि प्राग्वचने सत्यां समाससंज्ञायामेता अवयवसंज्ञा आरभ्यन्ते। तत्र वचनात्समावेशो भविष्यति।।
(समाधानबाधकभाष्यम्)
समाससंज्ञाप्यनवकाशा। सा वचनाद्भविष्यति।।
(समाधानसाधकभाष्यम्)
सावकाशा समाससंज्ञा।। कोवकाशः? विस्पष्टादीन्यवकाशः। विस्पष्टं पटुः विस्पष्टपटुः। व्यक्तं पटुः व्यक्तपटुः।।
(समाधानबाधकभाष्यम्)
  नैषोवकाशः। एषा ह्याचार्यस्य शैली लक्ष्यते--येनैवावयवकार्यं भवति तेनैव समुदायकार्यमपि भवतीति। येनैव चात्रावयवकार्यं स्वरः क्रियते, तेनैव समुदायवकार्यं समासोपि भविष्यति--विस्पष्टादीनि गुणवचनेषु इति।।
<M.2.356>
(प्रयेजनसमाधानान्तरभाष्यम्)
इदं तर्हि--काकतालीयमजाकृपाणीयम्।
(प्रयोजननिरासभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अत्रापि येनैवावयवकार्यं प्रत्ययोत्पत्तिः क्रियते, तेनैव समुदायकार्यं समाससंज्ञा भविष्यति समासाच्च तद्विषयाद् इति।।
(प्रयोजनान्तरभाष्यम्)
इदं तर्हि--पुनाराजः पुनर्गवः।।
(प्रयोजननिरासभाष्यम्)
अत्राप्यवश्यं तत्पुरुषसंज्ञा वक्तव्या। तत्पुरुषाश्रयः समासान्तो यथा स्यात्।।
(प्रयोजनभाष्यम्)
इदं तर्हि--पुनराधेयम्।।
(प्रयोजननिराकरणभाष्यम्)
अत्राप्यवश्यं गतिसंज्ञा वक्तव्या गतिकारकोपपदात्कृद् इत्येष स्वरो यथा स्यात्।।
(प्रयोजनभाष्यम्)
इदं तर्हि--पुनरुत्स्यूतं वासो देयम्।।

(प्रयोजननिरासभाष्यम्)
अत्राप्यवश्यं गतिसंज्ञा वक्तव्या गतिर्गतौ इति निघातो यथा स्यात्। यदि तन्नास्ति । पुनश्चनसौ छन्दसि। इति।। सति तस्मिंस्तेनैव सिद्धम्।।
<M.2.357>
(प्रयोजनभाष्यम्)
एवमप्येका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः। पर्यायः प्रसज्येत। तस्मात्प्राग्वचनं कर्तव्यम्।।
प्राक्कडारात् ।। 3 ।।
-2-1-4- सह सुपा (353)
(224 केवलसमाससंज्ञासूत्रम् ।। 2।1।2 आ.3 सू.)
(सहवचनप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
सहवचनं किमर्थम्?।।
(1234 समाधानवार्तिकम् ।। 1 ।।)
।। सहवचनं पृथगसमासार्थम् ।।
(व्याख्याभाष्यम्)
सहग्रहणं क्रियते सहभूतयोरेव समाससंज्ञा यथा स्याद् एकैकस्य समाससंज्ञा मा भूदिति।।
(आक्षेपभाष्यम्)
किं च स्यात्, यद्येकैकस्य समाससंज्ञा स्यात् ?।।
<M.2.358>
(समाधानभाष्यम्)
इह ऋक्पाद इति समासान्तः प्रसज्येत। इह राजाश्व इति द्वौ स्वरौ स्याताम्।
(आक्षेपभाष्यम्)
कथं च कृत्वैकैकस्य समाससंज्ञा प्राप्नोति?।।
(आक्षेपबाधकभाष्यम्)
प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टा इति। तद्यथा--वृद्धिगुणसंज्ञे प्रत्येकं भवतः।।
(आक्षेपसाधकभाष्यम्)
ननु चायमप्यस्ति दृष्टान्तः--समुदाये वाक्यपरिसमाप्तिः इति। तद्यथा--गर्गाः शतं दण्ड्यन्ताम् इति अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकमित्युच्यते, इहापि सहग्रहणं कर्तव्यम्। अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवतः, इहापि नार्थः सहग्रहणेन।।
(समाधानभाष्यम्)
एवं तर्हि सिद्धे सति यत्सहग्रहणं करोति--तस्यैतत्प्रयोजनम्--योगाङ्गं यथा विज्ञायेत सति च योगाङ्गे योगविभागः करिष्यते--सह। सुप् समस्यते। केन सह?। समर्थेन। अनुव्यचलद् अनुप्राविशत्।। ततः सुपा सुपा च सह सुप्समस्यते। अधिकारश्च लक्षणं च। यस्य समासस्यान्यल्लक्षणं नास्ति इदं तस्य लक्षणं भविष्यति।पुनरुत्स्यूतं वासो देयम् पुनर्निष्कृतो रथः
(न्यूनतापूर्त्यधिकरणम्)
<M.2.359>
(1235 आक्षेपवार्तिकम् ।। 2 ।।)
।। इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ।।
(व्याख्याभाष्यम्)
इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससीःथ्द्य;व। कन्येःथ्द्य;व।। सह सुपा ।। 4 ।।
-2-1-5- अव्ययीभावः (354)
(अव्ययीभावसमासप्रकरणम्)
(225 अधिकारसूत्रम् ।। 2।1।2 आ.4.सू.)
(महासंज्ञाप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अन्वर्थसंज्ञा यथा विज्ञायेत--अनव्ययमव्ययं भवतीत्यव्ययीभावः। अव्ययीभावोव्ययसंज्ञो भवतीत्येतन्न वक्तव्यं भवति।। अव्ययीभावः ।। 5 ।।
<M.2.360>
(226 अव्ययीभावसमाससंज्ञासूत्रम् ।। 2।1।2 आ.5 सू.)
-2-1-6- अव्ययं विभक्तिसमीपसमृद्धिवृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्य- संपत्तिसाकल्यान्तवचनेषु (355)
(अनिष्टवारणाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति सुमद्राः सुमगधाः सपुत्रः सच्छात्र इति। समृद्धौ साकल्य इति च प्राप्नोति?।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते।।
(आक्षेपबाधकयुक्त्यन्तरभाष्यम्)
अथ वा नेमे समासार्था निर्दिश्यन्ते।। किं तर्हि?। अव्ययार्था इमे निर्दिश्यन्ते। एतेष्वर्थेषु यदव्ययं वर्तते तत्सुबन्तेन सह समस्यत इति।। अव्ययं विभक्ति।। 6 ।।
-2-1-7- यथा ऽसादृश्ये (356 )
(227 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.6 सू.)
(सूत्रे यथाशब्दस्याव्युत्पन्नस्यैव ग्रहणाधिकरणम्)
(आक्षेपभाष्यम्)
असादृश्य इति किमर्थम्?।।
<M.2.361>
(समाधानभाष्यम्)
यथा देवदत्तस्तथा यज्ञदत्तः ।।
(आक्षेपभाष्यम्)
असादृश्य इत्युच्यते, तत्रेदं न सिद्ध्यति--यथाशक्ति यथाबलमिति। किं कारणम्?। यथेत्ययं प्रकारवचने थाल्, स च सादृश्ये वर्तते।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। अयं यथाशब्दोस्त्येवाव्युत्पन्नः प्रातिपदिकं वीप्सावाचि। अस्ति प्रकारवचने थाल्। तत्र यदव्युत्पन्नं प्रातिपदिकं वीप्सावाचि तस्येदं ग्रहणम्।।
(आक्षेपभाष्यम्)
अथ यः प्रकारवचने थाल्, तस्य ग्रहणं कस्मान्न भवति। पूर्वेण प्राप्नोति--सादृश्यसंपत्ति इति।।
(आक्षेपबाधकभाष्यम्)
प्रतिषेधवचनसार्मथ्यान्न भविष्यति।। यथाऽसादृश्ये ।। 7 ।।
-2-1-9- सुप् प्रतिना मात्रार्थे (358)
(228 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.7.सू.)
(सुब्ग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
सुबिति वर्तमाने पुनः सुब्ग्रहणं किमर्थम्?।।
<M.2.362>
(आक्षेपबाधकभाष्यम्)
अव्ययम् इत्येवं तदभूत्। सुब्मात्रे यथा स्यात्माषप्रति सूपप्रति ओदनप्रति।। सुप्प्रतिना ।। 9 ।।
-2-1-10- अक्षशलाकासंख्याः परिणा (359 )
(229 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आं 8 सूं)
(विभक्तिवचनव्यवहारनियमाधिकरणम्)
(1236 विभक्तिनियमवार्तिकम् ।। 1 ।।)
।। अक्षादयस्तृतीयान्ताः परिणा पूर्वोक्तस्य यथा न तदयथाद्योतने ।।
(व्याख्याभाष्यम्)
अक्षादयस्तृतीयान्ताः परिणा सह समस्यन्त इति वक्तव्यम्। पूर्वोक्तस्य यथा न तत्। अयथाजातीयके द्योत्ये। अक्षेणेदं न तथा वृत्तं यथा पूर्वमिति। अक्षपरि शलाकापरि।।
(1237 वचननियमवार्तिकम् ।। 2 ।।)
।। अक्षशलाकयोश्चैकवचनान्तयोः ।।
?B(व्याख्याभाष्यम्)
अक्षशलाकयोश्चैकवचनान्तयोरिति वक्तव्यम्। इह मा भूत्--अक्षाभ्यां वृत्तम्, अक्षैर्वृत्तम्।।
<M.2.363>
(1238 व्यवहारनियमवार्तिकम् ।। 3 ।।)
।। कितवव्यवहारे च ।।
(व्याख्याभाष्यम्)
कितवव्यवहार इति वक्तव्यम्। इह मा भूत्--अक्षेणेदं न तथा वृत्तं शकटेन यथा पूर्वमिति।। अक्षशलाका ।। 10 ।।
-2-1-11- विभाषा
(230 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.9 सू.)
(योगविभागाधिकरणम्)
(1239 वार्तिकम् ।। 1 ।।)
(।। विभाषेति योगविभागः ।। )
(भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः--अपपरिपबहिरञ्चवः पञ्चम्या इति।।
(पञ्चमीग्रहणप्रयोजनाधिकरणम्)
(प्रत्याख्यानभाष्यम्)
अपपरिबहिरञ्चवः पञ्चम्या।। पञ्चमीग्रहणं शक्यमकर्तुम्।। कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति।।
(प्रत्याख्यानबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात्--बहिर्ग्रामं बहिर्ग्रामात्।।
(आक्षेपभाष्यम्)
अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति।।
(समाधानभाष्यम्)
पञ्चमीग्रहमसार्मथ्यात्।। विभाषापपरि ।। 11 ।।
-2-1-12- अपपरिबहिरञ्चवः पञ्चम्या (360)
(230 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.9 सू.)
(योगविभागाधिकरणम्)
(1239 वार्तिकम् ।। 1 ।।)
(।। विभाषेति योगविभागः ।। )
(भाष्यम्) (विभाषेति) योगविभागः कर्तव्यः। विभाषा इत्ययमधिकारः। ततः--अपपरिपबहिरञ्चवः पञ्चम्या इति।।
(पञ्चमीग्रहणप्रयोजनाधिकरणम्)
(प्रत्याख्यानभाष्यम्)
अपपरिबहिरञ्चवः पञ्चम्या।। पञ्चमीग्रहणं शक्यमकर्तुम्।। कथम्?। सुबन्ते नेति वर्तते। एतैश्च कर्मप्रवचनीयैर्योगे पञ्चमी विधीयते। तत्रान्तरेणापि पञ्चमीग्रहणं पञ्चम्यन्तेन समासो भविष्यति।।
(प्रत्याख्यानबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। बहिःशब्देन योगे पञ्चमी न विधीयते तत्रापि यथा स्यात्--बहिर्ग्रामं बहिर्ग्रामात्।।
(आक्षेपभाष्यम्)
अथ क्रियमाणे पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथमिवैतत्सिद्ध्यति।।
(समाधानभाष्यम्)
पञ्चमीग्रहमसार्मथ्यात्।। विभाषापपरि ।। 12 ।।
<M.2.364>
(231 अव्ययीभावसंज्ञासूत्रम् ।। 2.1.2 आ.10 सू)
-2-1-13- आङ् मर्यादाभिविध्योः (361)
(प्रत्याख्यानभाष्यम्)
मर्यादाभिविधिग्रहणं शक्यमकर्तुम्। कथम्?।
पञ्चम्येति वर्तते। आङा च कर्मप्रवचनीयेन युक्ते पञ्चमी विधीयते। तयोश्चैवार्थयोराङ् कर्मप्रवचनीयसंज्ञो भवति नान्यत्र।। आङ्मर्यादाभिविध्योः ।। 12 ।।
-2-1-16- यस्य चायामः (364)
(232 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.11 सू.)
(उदाहरणनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम् ?।।
(समाधानभाष्यम्)
अनुगङ्गं हास्तिनपुरम्। अनुगङ्गं वाराणसी। अनुशोणं पाटलिपुत्रम्।।
(आक्षेपभाष्यम्)
यस्य चायाम इत्युच्यते। गङ्गा चाप्यायता, वाराणस्यप्यायता, तत्र कुत एतत्--गङ्गया सह समासो भविष्यति, नपुनर्वाराणस्येति?।।
(समाधानभाष्यम्)
एवं तर्हि लक्षणेन इति वर्तते। गङ्गा चैव लक्षणम् न वाराणसी ।।
(समाधानान्तरभाष्यम्)
अथ वायस्य चायामः इत्युच्यते। गङ्गा चाप्यायता वाराणस्यप्यायता। तत्र प्रकर्षगतिर्विज्ञास्यते--साधीयो यस्यायामः इति। साधीयश्च गङ्गायाः, न वारणस्याः ।। यस्य चायामः ।। 25 ।।
-2-1-17- तिष्ठद्गुप्रभृतीनि च (265)
(233 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.12 सू.)
(चकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः ?।।
(समाधानभाष्यम्)
एवकारार्थः--तिष्ठद्गुप्रभृतीन्येव ।। क्व मा भूत?। परमं तिष्ठद्गु।।
(अर्थविशेषनियमाधिकरणम्)
(1240 वार्तिकम् ।। 1 ।।)
।। तिष्ठद्गु कालविशेषे ।।
(व्याख्याभाष्यम्)
तिष्ठद्गु कालविशेष इति वक्तव्यम्। तिष्ठन्ति गावोऽस्मिन्काले स तिष्ठद्गु। वहद्गु।।
<M.2.365>
(1241 वार्तिकम् ।। 2 ।।)
।। खलेयवादीनि प्रथमान्तान्यन्यपदार्थे।।
(व्याख्याभाष्यम्)
खलेयवादीनि प्रथमान्तान्यन्यपदार्थे समस्यन्त इति वक्तव्यम्। खलेयवम्। खलेबुसम्। लूनयवम्। पूनयवम्। पूयमानयवम्।। तिष्ठद्गुप्रभृतीनि च ।। 16 ।।
-2-1-18- पारेमध्ये षष्ठ्या वा (366)
(234 अव्ययीभावसंज्ञासूत्रम् ।। 2।1।2 आ.13 सू.)
(वावचनप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
वावचनं किमर्थम्?।।
(आक्षेपबाधकभाष्यम्)
विभाषा समासो यथा स्यात्। समासेन मुक्ते वाक्यमपि यथा स्यात्--पारं गङ्गाया इति।।
(आक्षेपसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रकृता महाविभाषा। तया वाक्यमपि भविष्यति।।
(आक्षेपबाधकभाष्यम्)
इदं तर्हि प्रयोजनम्। अव्ययीभावेन मुक्ते षष्ठीसमासो यथा स्यात्--गङ्गापारमिति।।
(आक्षेपसाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। अयमपि विभाषा, षष्ठीसमासोपि,तावुभौ वचनाद्भविष्यतः ।।
(समाधानभाष्यम्)
अत उत्तरं पठति---
(1242 वार्तिकम् ।। 1 ।।)
।। पारेमध्ये षष्ठ्या वावचनम् (अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने)।।
(व्याख्याभाष्यम्)
पारेमध्ये षष्ठ्या वेति वक्तव्यम्।। अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने। अक्रियमाणे हि वावचने षष्ठीसमासस्याभावः स्याद्।। यथैकदेशिप्रधाने। तद्यथा--एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति।। किं पुनः कारणमेकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति?। समासतद्धितानां वृत्तिर्विभाषा, वृत्तिविषये नित्योपवादः।। इह पुनर्वावचने क्रियमाणे एकया वृत्तिर्विभाषा, अपरया वृत्तिविषये नित्योऽपवादः।।
<M.2.366>
(एकारान्तनिपातनाधिकरणम्)
(1243 वार्तिकम् ।। 2 ।।)
।। एकारान्तनिपातनं च ।।
(व्याख्याभाष्यम्)
एकारान्तनिपातनं च कर्तव्यम्। पारेगङ्गमिति।।
(निपातननिराकरणभाष्यम्)
न कर्तव्यम्। सप्तम्या अलुका सिद्धम्।।
(निपातनावश्यकताभाष्यम्)
भवेत् सिद्धं यदा सप्तमी। यदा त्वन्या विभक्तयस्तदा न सिद्ध्यति।। पारेमध्ये ।। 17 ।।
-2-1-20- नदीभिश्च (368)
(235 अव्ययीभावसंज्ञासूत्रम् ।। 2। 1। 2। आ.14 सू.)
(समाहारमात्रविषयकत्वाधिकरणम्)
(1244 वार्तिकम् ।। 1 ।।)
।। नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधः ।।
(व्याख्याभाष्यम्)
नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधो वक्तव्यः। द्वीरावतीको देशः। त्रीरावतीको देशः। नदीभिः संख्या इति प्राप्नोति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
न वक्तव्यः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोऽव्यीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते।।
<M.2.367>
(आक्षेपभाष्यम्)
ननु च यद्येनोच्यते स तस्यार्थो भवति। अत्र च वयमेताभ्यां पदाभ्यामेतमर्थमुच्यमानं पश्यामः।।
(आक्षेपबाधकभाष्यम्)
एतदेव न जानीमः--यद्येनोच्यते स तस्यार्थ इति।। अपि चान्यपदार्थप्रधानता न कल्पेत--चित्रगुः शबलगुः इति। किं कारणम्?। अत्रापि हि वयमेताभ्यां शब्दाभ्यामेतमर्थमुच्यमानं पश्यामः।।
(आक्षेपसाधकभाष्यम्)
यद्यप्येताभ्यां पदाभ्यामेषोर्थ उच्यते, अन्यपदार्थोपि तु गम्यते। तत्रान्यपदार्थाश्रयो बहुव्रीहिर्भविष्यति।।
इहापि तर्हि यद्यप्यन्यपदार्थो गम्यते, स्वपदार्थोपि गम्यते। तत्र स्वपदाश्रयोऽव्ययीभावः प्राप्नोति।।
(समाधानभाष्यम्)
एवं तर्हीदमिह संप्रधार्यम्--अव्ययीभावः क्रियतां बहुव्रीहिरिति। बहुव्रीहिर्भविष्यति विप्रतिषेधेन।।
(पूर्वपक्षिभाष्यम्)
भवेदेकसंज्ञाधिकारे सिद्धम्, परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्यादव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च बहुव्रीहिः ।।
<M.2.368>
(सिद्धान्तिभाष्यम्)
परंकार्यत्वे च न दोषः। नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे।। नदीभिश्च ।। 19 ।।
-2-1-23- द्विगुश्च (371)
(अथ तत्पुरुषप्रकरणम्)
(236 द्विगोस्तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.15 सू.)
(आक्षेपभाष्यम्)
द्विगोस्तत्पुरुषत्वे कानि प्रयोजनानि?।।
(1245 समाधानवार्तिकम् ।। 1 ।।)
।। द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।।
(व्याख्याभाष्यम्)
द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजयन्ति-- पञ्चगवं दशगवं पञ्चराजं दशराजम्।। द्विगुश्च ।। 22 ।।
-2-1-24- द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (372)
(237 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ. 16 सू.)
(न्यूनतापूर्त्यधिकरणम्)
(1246 वार्तिकम् ।। 1 ।।)
।। श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् ।।
(व्याख्याभाष्यम्)
श्रितादिषु गमिगाम्यादीनामुपसंख्यानं कर्तव्यम्। ग्रामं गमी ग्रामगमी ग्रामं गामी ग्रामग्रामी।।
<M.2.369>
(तत्पुरुषविधानानर्थक्यपरिहाराधिकरणम्)
(1247 वार्तिकम् ।। 2 ।।)
।। श्रितादिभिरहीने द्वितीयासमासवचनानर्थक्यं बहुव्रीहिकृतत्वात् ।।
(व्याख्याभाष्यम्)
श्रितादिभिरहीनवाचिन्या द्वीतीयायाः समासवचनमनर्थकम्।। किं कारणम्?। बहुव्रीहिकृतत्वात्। इह--यः कष्टं श्रितः, कष्टमनेन श्रितं भवतीति तत्र बहुव्रीहिणा सिद्धम्।।
(1248 बहुव्रीहिवादिवार्तिकम्।। 3 ।।)
।। अहीने द्वितीयास्वरवचनानर्थक्यं च ।।
(व्याक्याभाष्यम्)
अहीने द्वितीयापूर्वपदं प्रकृतिस्वरं भवतीत्येतत् स्वरवचनमनर्थकम्।। किं कारणम्? बहुव्रीहिकृतत्वादेव ।।
(1249 तत्पुरुषवादिवार्तिकम् ।। 4 ।।)
।। जातिस्वरप्रसङ्गस्तु ।।
(व्याख्याभाष्यम्)
जातिस्वरस्तु प्राप्नोति--ग्रामगतः अरण्यगत इति जातिकालसुखादिभ्योनाच्छादनात् क्तोऽकृतमितप्रतिपन्ना इति।।
(1250 बहुव्रीहिवादिवार्तिकम् ।। 5 ।।)
।। तत्र जातादिषु वावचनात्सिद्धम् ।।
(व्याख्याभाष्यम्)
यदेतद् वा जाते इति, एतद् वा जातादिषु इति वक्ष्यामि। इमे जातादयो भविष्यन्ति।।
(आक्षेपभाष्यम्)
ननु च भेदो भवति--बहुव्रीहौ सति समासान्तोदात्तत्वेनापि भवितव्यं पूर्वपदप्रकृतिस्वरत्वेनापि। तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेनैव।।
(आक्षेपबाधकभाष्यम्)
नास्ति भेदः। योपि हि तत्पुरुषमारभते न तस्य दण्डवारितो बहुव्रीहिः। तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ, बहुव्रीहौ सति एकः समासो द्विस्वरत्वम् ।।
<M.2.370>
(तत्पुरुषसाधकज्ञापकवादिभाष्यम्)
एवं तर्हि सिद्धे सति यत्तत्पुरुषं शास्ति, तज्ज्ञापयत्याचार्यः समानार्थे केवलं विग्रहभेदाद्यत्र तत्पुरुषः
प्राप्नोति बहुव्रीहिश्च, तत्र तत्पुरुष एव भवति किमेतस्य ज्ञापने प्रयोजनम्?। राज्ञः सखा राजसखः, राजा सखा अस्येति बहुव्रीहिर्न भवति।।
(बहुव्रीहिसाधकापवादवादिभाष्यम्)
नैतज्ज्ञापकसाध्यम्।। अपवादैरुत्सर्गा बाध्यन्ते, इति बाधकेनानेन भवितव्यं सामान्यविहितस्य विशेषविहितेन।। अथ न सामान्यविहितः।।
(तत्पुरुषसाधकसिद्धान्तिभाष्यम्)
यदुच्यते--बहुव्रीहिकृतत्वादिति।। एतदयुक्तम्। अस्ति खल्वपि विशेषो बहुव्रीहेस्तत्पुरुषस्य च।।
(आक्षेपभाष्यम्)
किं शब्दकृतः, अथार्थकृतः?।।
(समाधानभाष्यम्)
शब्दकृतश्चार्थकृतश्च। शब्दकृतस्तावद्--बहुव्रीहौ सति कपा भवितव्यम्। तत्पुरुषे सति न भवितव्यम्।। अर्थकृतः--तत्पुरुषे सति रुहादीनां क्तः कर्तरि भवति धात्वर्थस्यानपवर्गे--आरूढो वृक्षं देवदत्तः। बहुव्रीहौ व्यपवृक्ते कर्मणि भवति--आरूढो वृक्षो देवदत्तेनेति।। अन्यथाजातीयकः खल्वपि प्रत्यक्षेणार्थसंप्रत्ययः अन्यथाजातीयकः
संबन्धाद्। राज्ञः सखा राजसखः। संबन्धादेतद्गन्तव्यम्--नूनं राजाप्यस्य सखेति।। उभयं खल्वपीष्यते--स्वस्ति सोमसखा, पुनरेहि गवांसख इति ।। द्वितीया श्रिता ।। 23 ।।
<M.2.371>
-2-1-26- खट्वा क्षेपे (374)
(238 तत्पुरुषसंज्ञासूत्रम् ।। 2.1.2 आ.17 सू.)
(उदाहरणनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम्?।।
(समाधानभाष्यम्।)
खट्वारूढ:
(आक्षेपभाष्यम्)
क्षेप इत्युच्यते। कः क्षेपो नाम?।।
(समाधानभाष्यम्)
अधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वारोढव्या। य इदानीमतोन्यथा करोति स उच्यते खट्वारूढोयं जाल्मो नातिव्रतवान्।। खट्वा क्षेपे ।। 25 ।।
-2-1-29- अत्यन्तसंयोगे च (377)
(239 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.18 सू.)
(1251 वार्तिकम् ।। 1 ।।)
।। अत्यन्तसंयोगे समासस्याविशेषवचनात् क्तेन समासवचनानर्थक्यम् ।।
(व्याख्याभाष्यम्)
अत्यन्तसंयोगे समासस्याविशेषवचनात् क्तान्तेन चाक्तान्तेन च, कालाः क्तेन इत्येतत्समासवचनमनर्थकम्। अत्यन्तसंयोग इत्येव सिद्धम्।।
(1252 समाधानवार्तिकम् ।। 2 ।।)
।। अनत्यन्तसंयोगार्थ तु ।।
(व्याख्याभाष्यम्)
अनत्यन्तसंयोगार्थं तर्हीदं वक्तव्यम्। षण्मुहूर्ताश्चराचराः। ते कदाचिदहर्गच्छन्ति कदाचिद्रात्रिम्। अहर्गताः। रात्रिगताः।।
<M.2.372>
(समाधानबाधकभाष्यम्)
नैतदस्ति। गतग्रहणादप्येतत्सिद्धम्।।
(समाधानभाष्यम्)
इदं तर्हि--अहरतिसृताः। रात्र्यतिसृताः। मासप्रमितश्चन्द्रमाः।। अत्यन्तसंयोगे च ।। 28 ।।
-2-1-30- तृतीया तत्कृतार्थेन गुणवचनेन (378)
(250 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.19)
(तत्कृतार्थग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
तत्कृतार्थेनेति किमर्थम्?।।
(समाधानभाष्यम्)
दध्ना पटुः। घृतेन पटुः।।
(समाधानबाधकभाष्यम्)
नैतदस्ति। असार्मथ्यादत्र न भविष्यति।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। नहि दध्नः पटुना सामर्थ्यम्।। केन तर्हि?। भुजिना। दध्ना भुङ्क्ते पटुरिति।।
(समाधानसाधकभाष्यम्)
इहापि तर्हि न प्राप्नोति--शङ्कुलाखण्डः किरिकाण इति। अत्रापि न शङ्कुलायाः खण्डेन सामर्थ्यम्।। केन तर्हि?। करोतिना। शङ्कुलया कृतः खण्ड इति ।।
(समाधानबाधकभाष्यम्)
वचनाद्भविष्यति।।
(समाधानसाधकभाष्यम्)
इहापि तर्हि वचनात्प्राप्नोति--दध्ना पटुः घृतेन पटुरिति। तस्मात्तत्कृतार्थग्रहणं कर्तव्यम्।।
<M.2.373>
(गुणवचनग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
गुणवचनेनेति किमर्थम्?।।
(समाधानभाष्यम्)
गोभिर्वपावान्। धान्येन धनवान्।।
(आक्षेपभाष्यम्)
किं पुनरिहोदाहरणम्?।।
(समाधानभाष्यम्)
शङ्कलाखण्डो देवदत्त इति।।
(आक्षेपभाष्यम्)
कथं पुनर्गुणवचनेन समास उच्यमानो द्रव्यवचनेन स्यात्?।।
(समाधानभाष्यम्)
इह तृतीया तत्कृतार्थेन गुणेन इतीयता सिद्धम्। सोयमेवं सिद्धे सति यद्वचनग्रहणं करोति तस्यैतत्प्रयोजनम्--एवं यथा विज्ञायेत--गुणमुक्तवता गुणवचनेन इति।।
(आक्षेपभाष्यम्)
कथं पुनरयं गुणवचनः सन् द्रव्यवचनः संपद्यते?।।
(समाधानभाष्यम्)
आरभ्यते तत्र मतुब्लोपः-- ।गुणवचनेभ्यो मतुपो लुग्। इति। तद्यथा--शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः। एवं खण्डगुणः खण्डः।।
(लाघवभाष्यम्)
यद्येवं, नार्थस्तत्कृतार्थग्रहणेन। भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम्। असार्मथ्याच्चात्र न भविष्यति दध्ना पटुर्घृतेनं पटुरिति। तस्मान्नार्थस्तत्कृतार्थग्रहणेन ।।
<M.2.374>
(अर्थपदस्य शब्दपरत्वाधिकरणम्)
(1253 आक्षेपवार्तिकम् ।। 1 ।।)
।। तृतीयासमासेर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् ।।
(व्याख्याभाष्यम्)
तृतीयासमासेऽर्थग्रहणमनर्थकम्।। किं कारणम्?। अर्थगतिर्ह्यवचनात्। अन्तरेणापि वचनमर्थगतिर्भविष्यति।।
(1254 आक्षेपसाधकवार्तिकम् ।। 2 ।।)
।। निर्देश्यमिति चेत् तृतीयार्थनिर्देशोपि ।।
(व्याख्याभाष्यम्)
अथैवमपि निर्देशः कर्तव्य इति चेत् तृतीयार्थनिर्देशोपि कर्तव्यः स्यात्--तृतीया तदर्थकृतार्थेन इति वक्तव्यम्।।
(तटस्थाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।
(सिद्धान्तिसमाधानभाष्यम्)
न वक्तव्यम्।। नायमर्थनिर्देशः।। किं तर्हि?। योगाङ्गमिदं निर्दिश्यते। सति च योगाङ्गे योगविभागः करिष्यते--तृतीया तत्कृतेन गुणवचनेन समस्यते।। ततः--अर्थेन अर्थशब्देन च तृतीया समस्यते। धान्यार्थः वसनार्थः हिरण्यार्थः। पूर्वसदृशसमोनार्थ इत्यर्थग्रहणं न कर्तव्यं भवतीति।। तृतीया ।। 29 ।।
-2-1-31- पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (379)
(241 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.20)
<M.2.375>
(न्यूनतापूर्त्यधिकरणम्)
(1255 वार्तिकम् ।। 1 ।।)
।। पूर्वादिष्ववरस्योपसंख्यानम् ।।
(व्याख्याभाष्यम्)
पूर्वादिष्ववरस्योपसंख्यानं कर्तव्यम्। मासावरोयं संवत्सरावरोयम्।।
(सदृशग्रहणप्रत्याख्यानाधिकरणम्)
(सदृशग्रहणप्रत्याख्यानभाष्यम्)
सदृशग्रहण उक्तम् ।। किमुक्तम्?। ।सदृशग्रहणमनर्थकं तृतीयासमासवचनात्। ।षष्ठ्यर्थमिति चेत्तृतीयासमासवचनानर्थक्यम्। इति।। पूर्वसदृश।। 30 ।।
-2-1-32- कर्तृकरणे कृता बहुलम् (380)
(242 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.21)
(अनिष्टवारणाधिकरणम्)
(1256 आक्षेपवार्तिकम् ।। 1 ।।)
।। कर्तृकरणे कृता क्तेन ।।
(व्याख्याभाष्यम्)
कर्तृकरणे कृता क्तेनेति वक्तव्यम्--अहिहतः। नखनिर्भिन्नः। दात्रलूनम्। परशुच्छिन्नम्।। कृता क्तेनेति किमर्थम्?। इह मा भूत्। दात्रेण लूनवान् परशुना छिन्नवान्।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। बहुलवचनात्सिद्धम्। कर्तृकरणे ।। 31 ।।
<M.2.376>
-2-1-33- कृत्यैरधिकार्थवचने (381)
(243 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.22)
(इष्टानुपपत्तिपरिहाराधिकरणम्)
(1257 वार्तिकम् ।। 1 ।।
।। कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते।।
(व्याख्याभाष्यम्)
कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यत इति वक्तव्यम्। बुसोपेन्ध्यं तृणोपेन्ध्यं घनघात्यम्।।
(1258 वार्तिकम् ।। 2 ।।
।। साधनं कृतेति वा पादहारकाद्यर्थम् ।।
(व्याख्याभाष्यम्)
अथ वा साधनं कृता समस्यत इति वक्तव्यम्।। किं प्रयोजनम्?। पादहारकाद्यर्थम्। पादाभ्यां ह्रियते
पादहारकः। गले चोप्यते गलेचोपकः।। कृत्यैरधि।। 32 ।।
-2-1-34- अन्नेन व्यञ्ञ्जनम् (382)
-2-1-35- भक्ष्येण मिश्रीकरणम् (383)
(1259 आक्षेपवार्तिकम्।। 1 ।।
अन्नेन व्यञ्ञ्जनं भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः (कारकाणां क्रियासमर्थत्वात्) ।।
(व्याख्याभाष्यम्)
अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इत्यसमर्थसमासोयं द्रष्टव्यः।। किं कारणम्?। कारकाणां क्रियासमर्थत्वात्। कारकाणां क्रियया सामर्थ्यमस्ति, न तेषामन्योन्येन। तद्यथा--निश्रयण्या द्वाभ्यां काष्ठाभ्यां सामर्थ्यं न तेषामन्योन्येन ।।
<M.2.377>
(एकदेशिसमाधानभाष्यम्)
एवं तर्ह्याहायम्--अन्नेन व्यञ्ञ्जनम् भक्ष्येण मिश्रीकरणम् इति। न चास्ति सामर्थ्यम्। तत्र वचनात्समासो भविष्यति।।
(1260 समाधाननिराकरणवार्तिकम् ।। 2 ।।)
।। वचनप्रामाण्यादिति चेद् नानाकारकाणां प्रतिषेधः ।।
(व्याक्याभाष्यम्)
वचनप्रामाण्यादिति चेन्नानाकारकाणां प्रतिषेधो वक्तव्यः। तिष्ठतु दघ्ना ओदनो देवदत्तेन भुज्यत इति।।
(1261न्यासान्तरेणसमाधानवार्तिकम् ।। 3 ।।)
।। सिद्धं तु समानाधिकरणाधिकारे क्तस्तृतीयापूर्वपद उत्तरपदलोपश्च।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?। समानाधिकरणाधिकारे वक्तव्यम्--क्तान्तस्तृतीयापूर्वपदः समस्यते सुपा,
उत्तरपदस्य च लोपो भवति इति। दध्ना उपसिक्तः दध्युपसिक्तः। दध्युपसिक्तः ओदनो दध्योदनः। गुडेन संसृष्टाः-गुडसंसृष्टाः। गुडसंसृष्टा धानाः-गुडधानाः।।
(1262 वार्तिकम् ।। 4 ।।)
।। षष्ठीसमासश्च युक्तपूर्णान्तः ।।
(व्याख्याभाष्यम्)
षष्ठीसमासश्च युक्तपूर्णान्तः समस्यते, उत्तरपदस्य च लोपो वक्तव्यः। अश्वानां युक्तोऽश्वयुक्तः अश्वयुक्तो रथोऽश्वरथः। दध्नः पूर्णो दधिपूर्णः दधिपूर्णो घटो दधिघटः।।
(प्रत्याक्षेपभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम्?।।
(1263 समाधानवार्तिकम् ।। 5 ।।
।। नवाऽसमासेऽदर्शनात् ।।
(व्याख्याभाष्यम्)
न वा वक्तव्यम्। किं कारणम्?।। असमासेऽदर्शनात्। यद्ध्यसमासे दृश्यते समासे च न दृश्यते तद्धि लोपारम्भं प्रयोजयति। न चासमासे उपसिक्तशब्दः संसृष्टशब्दो युक्तशब्दः पूर्णशब्दो वा दृश्यते।।
(वार्तिकावतरणभाष्यम्)
कथं तर्हि सामर्थ्यं गम्यते?।।
(1264 समाधानसाधकवार्तिकम् ।। 6 ।।
।। युक्तार्थसंप्रत्ययाच्च सामर्थ्यम् ।।
(व्याख्याभाष्यम्)
दध्ना युक्तार्थता संप्रतीयते।।
<M.2.378>
(वार्तिकावतरणभाष्यम्)
कथं पुनर्ज्ञायते--दध्ना युक्तार्थता संप्रतीयत इति?।।
(1265 समाधानसाधकवार्तिकम् ।। 7 ।।)
।। संप्रत्ययाच्च तदर्थाध्यवसानम् (संप्रतीयमानार्थलोपे ह्यनवस्था ।।)
(व्याख्याभाष्यम्)
संप्रत्ययाच्च तदर्थोध्यवसीयते।। अवश्यं चैतदेवं विज्ञेयम्। संप्रतीयमानार्थलोपे ह्यनवस्था।। यो हि मन्यते संप्रतीयमानार्थानां शब्दानां लोपो भवतीति। अनवस्था तस्य लोपस्य स्यात्। दधीत्युक्ते बहवोर्था गम्यन्ते मन्दकमुत्तरकं निलीनकमिति। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात्। तथा गुड इत्युक्ते मधुरशब्दस्य, शृङ्गवेरमिति च कटुकशब्दस्य। अन्तरेणापि खलु शब्दप्रयोगं बहवोऽर्था गम्यन्तेक्षिनिकोचैः पाणिविहारैश्च। तद्वाचिनां शब्दानां लोपो वक्तव्यः स्यात्।। अन्नेन।। 33 ।। भक्ष्येण ।। 34 ।।
-2-1-36- चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (384)
(246 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ. 25 ।।
(पाणिनीयन्यासेदूषणाधिकरणम्)
(आक्षेपभाष्यम्)
किं चतुर्थ्यन्तस्य तदर्थमात्रेण समासो भवति?।।
(इष्टापत्तिभाष्यम्)
एवं भवितुमर्हति।।
<M.2.379>
(1266 दूषणवार्तिकम् ।। 1 ।।)
।। चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोविशेषात् ।।
(व्याख्याभाष्यम्)
चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति। अनेनापि प्राप्नोति--रन्धनाय स्थाली अवहननायोलूखलमिति।। किं कारणम्?। अविशेषात्। नहि कश्चिद्विशेष उपादीयते--एवंजातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासो भवतीति। अनुपादीयमानविशेषे सर्वप्रसङ्गः।।
(1267 दूषणवार्तिकम् ।। 2 ।।)
।। बलिरक्षिताभ्यां चानर्थकं वचनम् ।।
(व्याख्याभाष्यम्)
बलिरक्षिताभ्यां च समासवचनमनर्थकम्। योहि महाराजाय बलिः स महाराजार्थो भवति। तत्र तदर्थ इत्येव सिद्धम्।।
(पूर्वाचार्यन्यासेदूषणाधिकरणम्)
(पूर्वाचार्यन्यासभाष्यम्)
यदि पुनर् विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते इत्येतल्लक्षणं क्रियते ।।
(1268 दूषणवार्तिकम् ।। 3।।)
।। विकृतिः प्रकृत्येति चेदश्वघासादीनामुपसंख्यानम् ।।
(व्याख्याभाष्यम्)
विकृतिः प्रकृत्या इति चेदश्वघासादीनामुपसंख्यानं कर्तव्यम्। अश्वघासः श्वश्रूसुरं हस्तिविधा इति।।
(1269 वार्तिकम् ।। 4 ।।)
।। अर्थेन नित्यसमासवचनम् ।।
(व्याख्याभाष्यम्)
अर्थशब्देन नित्यं समासो वक्तव्यः। ब्राह्मणार्थं क्षत्रियार्थम्।।
(आक्षेपभाष्यम्)
किं विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यत इत्यतोर्थेन नित्यसमासो वक्तव्यः?।।
(समाधानभाष्यम्)
नेत्याह। सर्वथाऽर्थेन नित्यसमासो वक्तव्यः विग्रहो मा भूदिति।।
(1270 द्वितीयखण्कडवार्तिकम् ।। 5 ।।)
।। सर्वलिङ्गता च ।।
(व्याख्याभाष्यम्)
सर्वलिङ्गता च वक्तव्या। ब्राह्मणार्थं पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूरिति।।
(आक्षेपभाष्यम्)
किमर्थेन नित्यसमास उच्यते इत्यतः सर्वलिङ्गता वक्तव्या?।।
<M.2.380>
(समाधानभाष्यम्)
नेत्याह। सर्वथा सर्वलिङ्गता वक्तव्या। किं कारणम्?। अर्थशब्दोयं पुल्लिङ्गः, उत्तरपदार्थप्रधानश्च तत्पुरुषः, तेन पुल्लिङ्गस्यैव समासस्याभिधानं स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात्।।
(आक्षेपभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम्। ।विकृतिः प्रकृत्येति वक्तव्यम्।।अश्वघासादीनामुपसंख्यानं कर्तव्यम्।।अर्थेन नित्यसमासो वक्तव्यः सर्वलिङ्गता च वक्तव्या।।
(समाधानभाष्यम्)
न वक्तव्यम्। यत्तावदुच्यते--विकृतिः प्रकृत्येति वक्तव्यम् इति। न वक्तव्यम्।
आचार्यप्रवृत्तिर्ज्ञापयति--विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति। यदयं बलिरक्षितग्रहणं करोति।। कथं कृत्वा ज्ञापकम्?। यथाजातीयकानां समासे बलिरक्षितग्रहणेनार्थः तथाजीतीयकानां समासः। यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण। ततो बलिरक्षितग्रहणमर्थवद्भवति।।
(द्वितीयवार्तिकप्रत्याख्यानभाष्यम्)
यदप्युच्यते--अश्वघासादीनामुपसंख्यानं कर्तव्यम् इति।। न कर्तव्यम्। अश्वघासादयः षष्ठीसमासा भविष्यन्ति। यद्धि यदर्थं भवति अयमपि तत्राभिसंबन्धो भवति--अस्येदम् इति। तद्यथा--गुरोरिदं--गुर्वर्थमिति।।
(आक्षेपभाष्यम्)
ननु च स्वरे भेदो भवति--चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम्। षष्ठीसमासे सति पुनरन्तोदात्तत्वेन।।
(समाधानभाष्यम्)
नास्ति भेदः। चतुर्थीसमासेपि सत्यन्तोदात्तत्वेनैव भवितव्यम्। कथम्?। आचार्यप्रवृत्तिर्ज्ञापयति--विकृतिश्चतुर्थ्यन्ता प्रकृतिस्वरा भवति, न चतुर्थीमात्रम् इति। यदयं चतुर्थी तदर्थे अर्थे क्ते च इत्यर्थग्रहणं क्तग्रहणं च करोति।। कथं कृत्वा ज्ञापकम्?। यथाजातीयकानां प्रकृतिस्वरत्वेऽर्थग्रहणेन क्तग्रहणेन चार्थः, तथाजातीयकानां प्रकृतिस्वरत्वम्। यदि च विकृतिश्चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम्, ततोर्थग्रहणं क्तग्रहणं चार्यवद्भवति।।
(तृतीयवार्तिकप्रत्याख्यानभाष्यम्)
यदप्युच्यते--अर्थेन नित्यसमासो वक्तव्यः इति। न वक्तव्यः। सर्थप् प्रत्ययः करिष्यते।। किं कृतं भवति?।। न चैव हि कदाचित्प्रत्ययेन विग्रहो भवति। अपि च सर्वलिङ्गता सिद्धा भवति।।
<M.2.381>
(आक्षेपभाष्यम्)
यदि सर्थप् प्रत्ययः क्रियते, इत्संज्ञा न प्राप्नोति।। यथापि कथंचिदित्संज्ञा स्यात्, एवमपि श्यर्थं भ्र्वर्थम्
अङ्गस्य इतीयङुवङौ स्याताम्।।
(समाधानभाष्यम्)
एवं तर्हि बहुव्रीहिर्भविष्यति।। किं कृतं भवति? भवति वै कश्चिदस्वपदविग्रहो बहुव्रीहिः। तद्यथा--शोभनं मुखमस्याः सुमुखीति।।
(आक्षेपभाष्यम्)
नैवं शक्यम्। इह हि महदर्थमित्यात्त्वकपौ प्रसज्येयाताम्।
(समाधानभाष्यम्)
एवं तर्हि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः करिष्यते।। किं कृतं भवति?। न चैव हि कदाचिदादेशेन विग्रहो भवति। अपि च सर्वलिङ्गता सिद्धा भवति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। योगविभागः करिष्यते--चतुर्थी सुबन्तेन सह समस्यते।। ततः--तदर्थार्थ तदर्थस्य चोत्तरपदस्यार्थशब्द आदेशो भवति।।
(आक्षेपभाष्यम्)
इहापि तर्हि समासः प्राप्नोति--छात्राय रुचितं छात्राय स्वदितमिति।।
(समाधानभाष्यम्)
आचार्यप्रवृत्तिर्ज्ञापयति--तार्दथ्य या चतुर्थी सा समस्यते, न चतुर्थीमात्रम् इति। यदयं हितसुखग्रहणं करोति।। कथं कृत्वा ज्ञापकम्?। यथा जातीयकानां समासे हितसुखग्रहणेनार्थस्तथाजातीयकानां समासः।। यदि
च तार्दथ्ये या चतुर्थी सा समस्यते, न चतुर्थीमात्रम्; ततो हितसुखग्रहणमर्थवद्भवति।।
(आक्षेपभाष्यम्)
इहापि तदर्थस्योत्तरपदस्यार्थशब्द आदेशः प्राप्नोति--यूपाय दारु यूपदारु।।
(समाधानभाष्यम्)
वा च विधास्यते।।
(आक्षेपभाष्यम्)
इहापि तर्हि विभाषा प्राप्नोति--ब्राह्मणार्थ क्षत्रियार्थमिति।।
<M.2.382>
(समाधानभाष्यम्)
एवं तर्ह्यचार्यप्रवृत्तिर्ज्ञापयति--प्रकृतिविकृत्योर्यः समासः तत्र तदर्थस्योत्तरपदस्य वाऽर्थशब्द आदेशो भवति अन्यत्र नित्यः, इति। यदयं बलिरक्षितग्रहणं करोति।।
(आक्षेपभाष्यम्)
एवं तर्हि--उदकार्थो वीवधः स्थानिवद्भावादुदभावः प्राप्नोति। तस्मान्नैवं शक्यम्। न चेदेवम्, ।अर्थेन नित्यसमासो वक्तव्यः।।सर्वलिङ्गता च। ।।
(समाधानभाष्यम्)
नैष दोषः। इदं तावदयं प्रष्टव्यः--अथेह ब्राह्मणेभ्यः इति कैषा चतुर्थी?।। तार्दथ्य इत्याह ।। यदि तार्दथ्ये चतुर्थी, अर्थशब्दस्य प्रयोगेण न भवितव्यम्--उक्तार्थानामप्रयोग इति।।
(आक्षेपभाष्यम्)
समासोपि तर्हि न प्राप्नोति।।
(समाधानभाष्यम्)
वचनात्समासो भविष्यति।।
(चतुर्थवार्तिकप्रत्याख्यानभाष्यम्)
यदप्युच्यते--।सर्वलिङ्गता वक्तव्या। इति।। न वक्तव्या। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।। चतुर्थी ।। 35 ।।
-2-1-37- पञ्चमी भयेन (385)
(247 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2। आ.26)
(न्यूनतापरिहाराधिकरणम्)
(वार्तिकावतरणभाष्यम्)
अत्यल्पमिदमुच्यते--भयेन इति।।
(1271 वार्तिकम् ।। 1 ।।)
(।। भयभीतभीतिभीभिः ।।)
(भाष्यम्) भयभीतभीतिभीभिरिति वक्तव्यम्।। वृकाद्भयं वृकभयम्।। वृकाद्भीतः वृकभीतः। वृकाद्भीतिः वृकभीतिः। वृकाद्भीः वृकभीरिति।।
(भाष्यम्) अपर आह--
(1272 वार्तिकन्यासान्तरम् ।। 2 ।।)
(।। भयनिर्गतजुगुप्सुभिः ।।)
(भाष्यम्) भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्। वृकभयं ग्रामनिर्गतः अधर्मजुगुप्सुः।। पञ्चमी भयेन ।। 36 ।।
-2-1-40- सप्तमी शौण्डैः (388)
(248 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।27 ।।)
(न्यूनताशङ्कापरिहाराधिकरणम्)
(1272 वार्तिकम् ।। 1 ।।)
(।। शौण्डादिभिः ।।)
(व्याख्याभाष्यम्)
शौण्डादिभिरिति वक्तव्यम्। इहापि यथा स्याद् अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितव इति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
<M.2.383>
(समाधानभाष्यम्)
न वक्तव्यम्। बहुवचननिर्देशाच्छौण्डादिभिरिति विज्ञास्यते।। सप्तमी शौण्डैः ।। 39 ।।
-2-1-42- ध्वाङ्क्षेण क्षेपे (390)
(249 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.28 ।।)
(इष्टानुपपत्तिपरिहाराधिकरणम्)
(1276 वार्तिकम् ।। 1 ।।)
।। ध्वाङ्क्षेणेत्यर्थग्रहणम् ।।
(व्याख्याभाष्यम्)
ध्वाङ्क्षेण क्षेपेऽर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात्--तीर्थकाक इति।।
(आक्षेपभाष्यम्)
क्षेप इत्युच्यते। क इह क्षेपो नाम?।।
(समाधानभाष्यम्)
यथा तीर्थकाका न चिरं स्थातारो भवन्ति। एवं यो गुरुकुलानि गत्वा न चिरं तिष्ठति स उच्यते तीर्थकाक इति।। ध्वाङ्क्षेण ।। 41 ।।
-2-1-43- कृत्यैर्ऋणे (391)
(250 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.29 ।।)
(इष्टानुपपत्तिपरिहाराधिकरणम्)
(1274 वार्तिकम् ।। 1 ।।)
।। कृत्यैर्नियोगे यद्ग्रहणम् ।।
(व्याख्याभाष्यम्)
कृत्यैर्नियोगे यत्प्रत्ययेनेति वक्तव्यम्। इहापि यथा स्यात्--पूर्वाह्णेगेयं साम, प्रातरध्येयोऽनुवाक इति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् ?।।
(समाधानभाष्यम्)
न वक्तव्यम्। ऋण इत्येव सिद्धम्। इह यद्यस्य नियोगतः कार्यम्, ऋणं तस्य तद्भवति। तत्र ऋण इत्येव सिद्धम्।।
(अभ्युपगमभाष्यम्)
यद्ग्रहणं च कर्तव्यम्। इह मा भूत्पूर्वाह्णेे दातव्या भिक्षा इति।। कृत्यैः ।। 42 ।।
-2-1-47- क्षेपे (395)
(251 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ, 30)
(उदाहरणनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम्?।।
(समाधानभाष्यम्)
अवतप्तेनकुलस्थितं त एतत्।।
<M.2.384>
(आक्षेपभाष्यम्)
क्षेप इत्युच्यते क इह क्षेपो नाम?।।
(समाधानभाष्यम्)
यथा अवतप्ते नकुलाः न चिरं स्थातारो भवन्ति, एवं कार्याण्यारभ्य यो न चिरं तिष्ठति स उच्यते अवतप्तेनकुलस्थितं त एतद् इति।।
(आक्षेपभाष्यम्)
क्षेपे सप्तम्यन्तं क्तान्तेन सह समस्यत इत्युच्यते तत्र ते सगतिकेन सनकुलेन च समासो न प्राप्नोति।।
(समाधानभाष्यम्)
।। क्षेपे सगतिकसकारकसमासे उक्तम् ।।
किमुक्तम्?। कृद्ग्रहणे गतिकारकपूर्वस्यापि-- इति।। क्षेपे ।। 46 ।।
-2-1-48- पात्रेसमितादयश्च (396)
(251 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।2 आ.31)
(चकारप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थश्चकारः?।।
(समाधानभाष्यम्)
एवकारार्थः। पात्रेसमितादय एव ।। क्व मा भूत्?। परमं पात्रे समिता इति।। पात्रेसमि ।। 47 ।।
-2-1-49- पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (397)
(252 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1 । 2 आ. 32)
(एकनदीशब्देऽव्ययीभाववारणाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मादव्ययीभावो न भवति--एका नदी एकनदी नदीभिः संख्या इति प्राप्नोति।।
(समाधानभाष्यम्)
नैष दोषः। इह कश्चित्समासः पूर्वपदार्थप्रधानः। कश्चिदुत्तरपदार्थप्रधानः। कश्चिदन्यपदार्थप्रधानः। कश्चिदुभयपदार्थप्रधानः। पूर्वपदार्थप्रधानोव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्वः। न चात्र पूर्वपदार्थप्राधान्यं गम्यते।।
(समाधानभाष्यम्)
अथ वाव्ययीभावः क्रियताम्, तत्पुरुष इति, तत्पुरुषो भविष्यति विप्रतिषेधेन ।।
(आक्षेपभाष्यम्)
भवेदेकसंज्ञाधिकारे सिद्धम्। परंकार्यत्वे तु न सिद्ध्यति। आरम्भसार्मथ्याच्चाव्ययीभावः प्राप्नोति, परंकार्यत्वाच्च तत्पुरुषः प्राप्नोति।।
(समाधानभाष्यम्)
परं कार्यत्वे च न दोषः।। कथम् ?। नदीभिः समाहारेऽव्ययीभावो वक्तव्यः। स चावश्यं वक्तव्यः। सर्वमेकनदीतरे ।। पूर्वका ।। 48 ।।
<M.2.385>
-2-1-51- तद्धितार्थोत्तरपदसमाहारे च (399)
(254 तत्पुरुषसंज्ञासूत्रम् ।। 2। 1 । 3 आ.1)
(समाहारशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
समाहार इति कोयं शब्दः?।।
(समाधानभाष्यम्)
समाङ्पूर्वाद्धरतेः कर्मसाधनो घञ्ञ्--समाह्रियते समाहार इति।।
(आक्षेपभाष्यम्)
यदि कर्मसाधनः, पञ्च कुमार्यः समाहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोरुपसर्जनस्य इति ह्रस्वत्वं न प्राप्नोति। द्विगुरेकवचनम् इत्येतच्च वक्तव्यम्।।
(समाधानभाष्यम्)
एवं तर्हि भावसाधनो भविष्यति--समाहरणं समाहारः।।
(आक्षेपभाष्यम्)
अथ भावसाधने सति किमभिधीयते?।।
(समाधानभाष्यम्)
यत्तदौत्तराधर्यम्?।।
(आक्षेपभाष्यम्)
कः पुनर्गवां समाहारः।।
(समाधानभाष्यम्)
यत्तदर्जनं क्रयणं भिक्षणमपहरणं वा।।
(आक्षेपभाष्यम्)
यद्येवं विक्षिप्तेपु पूलेषु, गोषु चरन्तीषु न सिद्ध्यति।।
(समाधानभाष्यम्)
एवं तर्हि समभ्याशीकरणं समाहारः।।
<M.2.386>
(आक्षेपभाष्यम्)
एवमपि पञ्चग्रामी षण्णगरी त्रिपुरीति न सिद्ध्यति।। किं कारणम्?। समेकत्ववाची, आङाभिमुख्ये वर्तते, हरतिर्देशान्तरप्रापणे।।
(समाधानभाष्यम्)
नावश्यं हरतिर्देशान्तरप्रापण एव वर्तते।। किं तर्हि?।। सादृश्येपि वर्तते। तद्यथा--मातुरनुहरति पितुरनुहरतीति।।
(समाधानान्तरभाष्यम्)
अथ वा पञ्चग्रामी षण्णगरी त्रिपुरीति। नैवेदमियत्येवावतिष्ठते। अवश्यमसौ ततः किंचिदाकाङ्क्षति क्रियां गुणं वा। यदाकाङ्क्षति तदेकं, स च समाहारः।।
(आक्षेपभाष्यम्)
अयं तर्हि भावसाधने सति दोषः--पञ्चफली आनीयताम् इति भावानयने चोदिते द्रव्यानयनं न प्राप्नोति ।।
(समाधातुं प्रश्नभाष्यम्)
नैष दोषः। इदं तावदयं प्रष्टव्यः अथेह गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति कथमाकृतौ चोदितायां द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते इति ।।
(तद्देयप्रश्नोत्तरभाष्यम्)
असंभवाद् आकृतौ आरम्भणादीनां संभवो नास्तीति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते ।।
(प्रश्नोत्तरस्यैव स्वार्थसाधकताभाष्यम्)
इदमप्येवंजातीयकमेव। असंभवाद्भावानयनस्य द्रव्यानयनं भविष्यति।। अथ वा--अव्यतिरेकाद् द्रव्याकृत्योः ।।
(सूत्रन्यासविचाराधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति?।।
(अभ्युपगमभाष्यम्)
एवं भवितुमर्हति।।
<M.2.387>
(1275 अभ्युपगमे दोषवार्तिकम् ।। 1 ।।)
।। द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः ।।
(व्याख्याभाष्यम्)
द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धिः।। का इतरेतराश्रयता?। द्विगुसंज्ञानिमित्ते प्रत्ययोत्तरपदे। प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञा। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।।
(समाधानभाष्यम्)
एवं तर्हि अर्थे इति वक्ष्यामि।।

(1276 वार्तिकम् ।। 2 ।।
।। अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवत् ।।
(व्याख्याभाष्यम्)
अर्थे चेत्तद्धितोत्पत्तिर्न प्राप्नोति। द्वैमातुरः। त्रैमातुरः। पाञ्चनापितिः।। किं कारणम्?। द्विगुनोक्तत्वात्। बहुव्रीहिवत्। तद्यथा -- चित्रगुः शबलगुः इति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति।।
(न्यासान्तरभाष्यम्)
एवं तर्हिसमासतद्धितविधौ इति वक्ष्यामि।

(1277 वार्तिकम् ।। 3 ।।)
।। समासतद्धितविधाविति चेदन्यत्र समाससंज्ञाभावः ।।
(व्याख्याभाष्यम्)
समासतद्धितविधाविति चेदन्यत्र समाससंज्ञा न प्राप्नोति।। क्वान्यत्र?। स्वरे। पञ्ञ्चारत्निः दशारत्निः इगन्ते द्विगौ इत्येष स्वरो न प्राप्नोति।।
<M.2.388>
(1278 समाधानवार्तिकम् ।। 4 ।।)
।। सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्।। कथम्?। प्रत्ययोत्तरपदयोश्चेति वचनात्। प्रत्ययोत्तरपदयोर्द्विगुसंज्ञा भवतीति वक्तव्यम्।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--।द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चेदितरेतराश्रयत्वादप्रसिद्धि। इति।।
(समाधानसाधकभाष्यम्)
नैष दोषः। इतरेतराश्रयमात्रमेतच्चोदितम्। सर्वाणि चेतरेतराश्रयाण्येकत्वेन परिहृतानि--।सिद्धं तु नित्यशब्दत्वाद्। इति।।
(समाधानबाधकभाष्यम्)
नेदं तुल्यमन्यैरितरेतराश्रयैः। नहि संज्ञा नित्या ।।
(समाधानसाधकभाष्यम्)
एवं तर्हि भाविनी संज्ञा विज्ञास्यते। तद्यथा। कश्चित्कंचित्तन्तुवायमाह--अस्य सूत्रस्य शाटकं वय इति। स पश्यति--यदि शाटकः न वातव्यः। अथ वातव्यो न शाटकः। वातव्यः शाटकश्चेति विप्रतिषिद्धं भवति। भाविनी खल्वस्य संज्ञाभिप्रेता। स मन्ये वातव्यः यस्मिन्नुते शाटक इत्येतद्भवति इति।। एवमिहापि तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमिति चैते संज्ञेभविष्यतः।।
(अभ्युपगमभाष्यम्)
अथ वा पनरस्तु--अर्थे इति।।
(आक्षेपस्मारणम्)
ननु चोक्तम्--।अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवद्। इति ।।
(समाधानभाष्यम्)
नैष दोषः। नावश्यमर्थशब्दोभिधेय एव वर्तते।। किं तर्हि? स्यादर्थेपि वर्तते। तद्यथा--दारार्थं घटामहे। धनार्थं भिक्षामहे। दारा नः स्युः। धनानि नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवतीति तद्धितः स्यादिति।।

(1279 वार्तिकम् ।। 5 ।।)
।। द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्तेः ।।
(व्याख्याभाष्यम्)
अथ वा यदयं द्विगोर्लुगनपत्ये इति द्विगोरुत्तरस्य तद्धितस्य लुकं शास्ति तज्ज्ञापयत्याचार्यः-- उत्पद्यते द्विगोस्तद्धितः इति।।
(समाहारग्रहणसार्थक्याधिकरणम्)
(1280 वार्तिकम् ।। 6 ।।)
।। समाहारसमूहयोरविशेषात्समाहारग्रहणानर्थक्यं तद्धितार्थेन कृतत्वात् ।।
(व्याख्याभाष्यम्)
समाहारः समूह इत्यविशिष्टावेतावर्थौ। समाहारसमूहयोरविशेषात्समाहारग्रहणमनर्थकम्।। किं
कारणम्। तद्धितार्थेन कृतत्वात्। तद्धितार्थे द्विगुः इत्येवमत्र द्विगुर्भविष्यति ।।
<M.2.389>
(आक्षेपभाष्यम्)
यदि तद्धितार्थे द्विगु इत्येवमत्र द्विगुर्भविष्यति, तद्धितोत्पत्तिः प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
उत्पद्यताम्। लुक् भविष्यति।।
(आक्षेपसाधकभाष्यम्)
लुक्कृतानि प्राप्नुवन्ति।। कानि?। पञ्चपूली दशपूली अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि इति प्रतिषेधः प्राप्नोति।।
पञ्चगवं दशगवम् गोरतद्धितलुकि इति टच् न प्राप्नोति ।।
(समाधानभाष्यम्)
नैष दोषः। अविशेषेण द्विगोर्ङीब् भवति इत्युक्त्वा अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि तन्नियमार्थं भविष्यति समाहार एव नान्यत्र इति।।
गोरकारो द्विगोः समाहारे।।
अविशेषेण गोष्ठज् भवति इत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि तन्नियमार्थं भविष्यति--समाहार एव नान्यत्र इति।।
(1281 वार्तिकम् ।। 7 ।।)
।। अभिधानार्थं तु ।।
(व्याख्याभाष्यम्)
अभिधानार्थं तु समाहारग्रहणं कर्तव्यम्। समाहारेणाभिधानं यथा स्यात्, तद्धितार्थेन मा भूदिति।। किं च स्यात्?।। तद्धितोत्पत्तिः प्रसज्येत।।

(अतिप्रसङ्गबाधकभाष्यम्)
उत्पद्यताम्। लुग् भविष्यति।।
(लुकिदूषणभाष्यम्)
लुक्कृतानि प्राप्नुवन्ति।।
(लुकिदूषणपरिहारभाष्यम्)
सर्वापि परिहृतानि।।
(दूषणपरिहारबाधकभाष्यम्)
सर्वाणि परिहृतानि।।
(दूषणपरिहारबाधकभाष्यम्)
न सर्वाणि परिहृतानि। पञ्चकुमारि दशकुमारि लुक् तद्धितलुकि इति ङीपो लुक् प्रसज्येत ।।
(अवान्तरसमासविधानाधिकरणम्)
(1282 विधानान्तरवार्तिकम् ।। 8 ।।)
।। द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् ।।
(भाष्यम्) द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासो वक्तव्यः। वाग्दृषदप्रियः। छत्रोपानहप्रिय:। पञ्चगवप्रियः। दशगवप्रियः ।। किं प्रयोजनम्?। समुदायवृत्ताववयवानां मा कदाचिदवृत्तिर्भूदिति ।।
<M.2.390>
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। इह द्वौ पक्षौ वृत्तिपक्षश्चावृत्तिपक्षश्च। यदा वृत्तिपक्षः तदा सर्वेषामेव वृत्तिः। यदाऽवृत्तिः
पक्षः तदा सर्वेषामवृत्तिः।।
(1283 बहुनांतत्पुरुषविधायकवार्तिकम् ।। 9 ।।)
।। उत्तरपदेन परिमाणिना द्विगोः समासवचनम् ।।
(भाष्यम्) उत्तरपदेन परिमाणिना द्विगोः समासो वक्तव्यः। द्वौ मासौ जातस्य यस्य सः द्विमासजातः त्रिमासजातः।। किं पुनः कारणं न सिद्ध्यति!। सुप्सुपेति वर्तते।।
(विग्रहान्तरेण विधानवैर्यथ्यभाष्यम्)
एवं तर्हि इदं स्यात्--द्वौ मासौ द्विमासं द्विमासं जातस्येति।।
(विग्रहान्तरदूषणभाष्यम्)
नैवं शक्यम्। स्वरे हि दोषः स्यात्। द्विमासजात इति प्राप्नोति। द्विमासजात इति चेष्यते।।
(दूषणान्तरभाष्यम्)
द्व्यह्नजातश्च न सिद्ध्यति। द्व्यहजात इति प्राप्नोति।।
(आक्षेपभाष्यम्)
न चैवं भवितव्यम्?।।
(समाधानभाष्यम्)
भवितव्यं च यदा समाहारे द्विगुः।। द्व्यह्नजातस्तु न सिद्ध्यति।।
(आक्षेपभाष्यम्)
किमुच्यते परिमाणिनेति, नपुनरन्यत्रापि पञ्चगवप्रियः दश गवप्रियः?।।
(1284 विधानसाधकवार्तिकम् ।। 10 ।।)
।। अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदप्रसिद्धिः ।।
(व्याख्याभाष्यम्)
अन्यत्र समुदायो बहुव्रीहिसंज्ञः। अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदं प्रसिद्धम्। उत्तरपदप्रसिद्धेः उत्तरपदे इति द्विगुर्भविष्यति।।
<M.2.391>
(1285 वार्तिकम् ।। 11 ।।)
।। सर्वत्र मत्वर्थे प्रतिषेधः ।।
(भाष्यम्) सर्वेषु पक्षेषु द्विगुसंज्ञायाः मत्वर्थे प्रतिषेधो वक्तव्यः।। किं प्रयोजनम्?। पञ्चखट्वा दशखट्वा। द्विगोः इतीकारो मा भूत्। पञ्चगुर्दशगुः गोरतद्धितलुकि इति टज् मा भूदिति।। तद्धितार्थोत्तरपद ।। 50 ।।
-2-1-52- संख्यापूर्वो द्विगुः (500)
(255 तत्पुरुषे द्विगुसंज्ञासूत्रम् ।। 2।1।3 आ.2 सू)
(अनन्तरयोगस्यैव संबन्धाधिकरणम्)
(आक्षेपभाष्यम्)
किमनन्तरे योगे यः संख्यापूर्वः स द्विगुसंज्ञः, आहोस्वित्पूर्वमात्रे?।।
(विशेषजिज्ञासाभाष्यम्)
किं चातः?।।
(विशेषप्रदर्शकभाष्यम्)
यदानन्तरयोगे। एकशाटीति द्विगोः इतीकारो न प्राप्नोति।।
(विशेषप्रदर्शकशेषभाष्यम्)
अथ पूर्वमात्रे। एकभिक्षा। अत्रापि प्राप्नोति।।
(प्रथमपक्षाभ्युपगमभाष्यम्)
अस्त्वनन्तरे।।
(आक्षेपभाष्यम्)
कथमेकशाटी ?।।
(समाधानभाष्यम्)
इर्कारान्तेन समासो भविष्यति--एका शाटी एकशाटी।।
<M.2.392>
(समाधानबाधकभाष्यम्)
इह तर्ह्येकापूपी द्विगोः इतीकारो न प्राप्नोति।।
(द्वितीयपक्षाभ्युपगमभाष्यम्)
अस्तु तर्हि पूर्वमात्रे।।
(आक्षेपभाष्यम्)
कथमेकभिक्षा?।।
(समाधानभाष्यम्)
टाबन्तेन सह समासो भविष्यति--एका भिक्षा एकभिक्षा।
(आक्षेपान्तरभाष्यम्)
इदं तर्हि--सप्तर्षयः इगन्ते द्विगौ इत्येष स्वरः प्राप्नोति।।
(प्रथमपक्षाभ्युपगमभाष्यम्)
अस्तु तर्ह्यनन्तरे ।।
(आक्षेपभाष्यम्)
कथमेकापूपी ?
(समाधानभाष्यम्)
समाहार इत्येव सिद्धम् ।।
(आक्षेपभाष्यम्)
कः पुनरत्र समाहारः।।
(समाधानभाष्यम्)
यत्तद्दानं संभ्रमो वा।।
(आक्षेपभाष्यम्)
इह तर्हि पञ्चहोतारो दशहोतारः। इगन्ते द्विगौ इत्येष स्वरो न प्राप्नोति।।
(द्वीतीयपक्षाभ्युपगमभाष्यम्)
अस्तु तर्हि--पूर्वमात्रे ।।
(आक्षेपभाष्यम्)
कथं सप्तर्षयः?।।
(समाधानभाष्यम्)
अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दसि इत्येवमेतत्सिद्धम्।।
(प्रथमपक्षाभ्युपगमभाष्यम्)
अथ वा पुनरस्तु--अनन्तरे।।
(आक्षेपभाष्यम्)
कथं पञ्चहोतार: दशहोतार: ?
(समाधानभाष्यम्)
।आद्युदात्तप्रकरणे दिवोदासादीनां छन्दसि। इत्येव सिद्धम्।। संख्यापूर्वो ।। 51 ।।
<M.2.393>
-2-1-53- कुत्सितानि कुत्सनैः (401)
(256 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1 । 3 आ.3 सू.)
(उदाहरणनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम् ?।।
(समाधानभाष्यम्)
वैयाकरणखसूचिः।।
(आक्षेपभाष्यम्)
किं व्याकरणं कुत्सितम्, आहोस्विद्वैयाकरणः?।।
(समाधानभाष्यम्)
वैयाकरणः कुत्सितः। तस्मिन्कुत्सिते तत्स्थमपि कुत्सितं भवति।। कुत्सितानि ।। 52 ।।
-2-1-55- उपमानानि सामान्यवचनैः (403)
(257 तत्पुरुषसंज्ञासूत्रम् ।। 2।1।3 आ. 4सू.)
(उपमानोपमेयभावनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
उपमानानीत्युच्यते कानि पुनरुपमानानि। किं यदेवोपमानं तदेवोपमेयम्, आहोस्विदन्यदेवोपमानमन्यदुपमेयम्?।।
(प्रत्याक्षेपभाष्यम्)
किं चातः?।।
<M.2.394>
(प्रथमपक्षे आक्षेपभाष्यम्)
यदि यदेवोपमानं तदेवोपमेयम्, क इहोपमार्थः --गौरिव गौरिति।।
(द्वितीयपक्षे आक्षेपभाष्यम्)
अथान्यदेवोपमानमन्यदुपमेयम्, क इहोपमार्थः --गौरिवाश्व इति।।
(संमाधानभाष्यम्)
एवं तर्हि यत्र किंचित्सामान्यं कश्चिच्च विशेषः तत्रोपमानोपमेये भवतः।।
(आक्षेपभाष्यम्)
किं वक्तव्यमेतत्?।।
(समाधानभाष्यम्)
नहि।। कथमनुच्यमानं गंस्यते?। मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते--अनिर्ज्ञातमर्थं ज्ञास्यामीति। तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानं गौरिव गवय इति। गौर्निर्ज्ञातः गवयोऽनिर्ज्ञातः ।।
(आक्षेपभाष्यम्)
कामं तर्ह्यनेन्नेव हेतुना यस्य गवयो निर्ज्ञातः स्याद् गौरनिर्ज्ञातः, तेन कर्तव्यं स्याद्--गवय इव गौरिति।।
(इष्टापत्तिभाष्यम्)
बाढं कर्तव्यम्।।
(उदाहरणनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनरिहोदाहरणम्?।।
<M.2.395>
(समाधानभाष्यम्)
शस्त्रीश्यामा।।
(आक्षेपभाष्यम्)
क्व पुनरयं श्यामाशब्दो वर्तते?।।
(एकदेशिसमाधानभाष्यम्)
शस्त्र्यामित्याह।।
(आक्षेपभाष्यम्)
केन तर्हीदानीं देवदत्ताऽभिधीयते।।
(समाधानभाष्यम्)
समासेन ।।
(आक्षेपभाष्यम्)
यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्धयति प्र्प्र्
(समाधानभाष्यम्)
उपसर्जनस्य इति ह्रस्वत्वं भविष्यति ।।
(आक्षेपभाष्यम्)
यदि तर्ह्युपसर्जनान्यप्येवंजातीयकानि भवन्ति, तित्तिरिकल्माषी कुम्भकपाललोहिनी--अनुपसर्जनलक्षण इर्कारो न प्राप्नोति।।
<M.2.396>
(समाधानभाष्यम्)
एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते, देवदत्तायां श्यामाशब्दः।।
(आक्षेपभाष्यम्)
एवमपि गुणो न निर्दिष्टो भवति। बहवः शस्त्र्यां गुणाः--तीक्ष्णा सूक्ष्मा पृथुरिति।।
(समाधानभाष्यम्)
अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः। तद्यथा--चन्द्रमुखी देवदत्ता इति बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते।।
(आक्षेपभाष्यम्)
एवमपि समानाधिकरणेन इति वर्तते। व्यधिकरणत्वात्समासो न प्राप्नोति।।
(प्रत्याक्षेपेण समाधानभाष्यम्)
किं हि वचनान्न भवति?।।
(समाधानबाधकभाष्यम्)
यद्यपि तावद्वचनात्समासः स्यात्। इह खलु मृगीव चपला मृगचपला समानाधिकरणलक्षण पुंवद्भावो न प्राप्नोति।।
(सिद्धान्तिसमाधानभाष्यम्)
एवं तर्हि तस्यामेवोभयं वर्तते। एतच्चात्र युक्तं यत्तस्यामेवोभयं वर्तत इति। इतरथा हि बह्वपेक्ष्यं स्यात्।।
<M.2.397>
(समाधानभाष्यशेषभाष्यम्)
यदि तावदेवं विग्रहः करिष्यते- शस्त्रीव श्यामा देवदत्तेति। शस्त्र्यां श्यामेत्येतदपेक्ष्यं स्यात्।।
(समाधानभाष्यशेषभाष्यम्)
अथाप्येवं विग्रहः करिष्यते--यथा शस्त्री श्यामा तद्वदियं देवदत्तेति। एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यात्।।
(आक्षेपभाष्यम्)
एव मपि गुणो न निर्दिष्टो भवति। बहवश्च शस्त्र्यां गुणाः तीक्ष्णा सूक्ष्मा पृथुरिति।।
(समाधानभाष्यम्)
अनिर्दिश्यमानस्यापि गुणस्य भवति लोके संप्रत्ययः। तद्यथा--चन्द्रमुखी देवदत्तेति बहवश्चन्द्रे गुणाः। या चासौ प्रियदर्शनता सा गम्यते।।
(1320 वार्तिकम् ।। 1 ।।)
।। उपमानसमासे गुणवचनस्य विशेषभाक्त्वात्सामान्यवचनाप्रसिद्धिः ।।
(व्याख्याभाष्यम्)
उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामान्यवचनस्याप्रसिद्धिः स्यात्--शस्त्रीश्यामेति। श्यामाशब्दोयं शस्त्रीशब्देनाभिसंबध्यमानो विशेषवचनः संपद्यते। तत्र सामान्यवचनैरिति समासो न प्राप्नोति।।
(1321 वार्तिकम् ।। 2 ।।)
।। न वा श्यामत्वस्योभयत्र भाबात्तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वस्य प्रसिद्धिः ।।
(व्याख्याभाष्यम्)
न वा एष दोषः।। किं कारणम्?।। श्यामत्वस्योभयत्र भावात्। उभयत्रैवात्र श्यामत्वमस्ति शस्त्र्यां देवदत्तायां च। तद्वाचकत्वाच्च शब्दस्य। तद्वाचकश्चात्र श्यामाशब्दः प्रयुज्यते।। किंवाचकः?। उभयवाचकः।
श्यामत्वस्योभयत्र भावात् तद्वाचकत्वाच्च शब्दस्य सामान्यवचनत्वं प्रसिद्धम्। सामान्यवचने प्रसिद्धे सामान्यवचनैरिति समासो भविष्यति।। नावश्यं स एव सामान्यवचनः यो बहूनां सामान्यमाह, द्वयोरपि यः सामान्यमाह सोपि सामान्यवचन एव।। अथ वा सामान्यवचनैरित्युच्यते। सर्वैश्च शब्दोन्येन शब्देनाभिसंबध्यमानो विशेषवचनः संपद्यते। त एवं विज्ञास्यामः--प्रागभिसंबन्धाद्यः सामान्यवचन इति।। उपमानानि ।। 54 ।।
<M.2.398>
-2-1-56- उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (404)
(258 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1। 3 आ. 5 सू.)
(सामान्याप्रयोगप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
सामान्याप्रयोग इति किमर्थम्?।।
(समाधानभाष्यम्)
इह मा भूत्--पुरुषोयं व्याघ्र इव शूरः, पुरुषोऽयं व्याघ्र इव बलवान्।।
(प्रत्यख्यानभाष्यम्)
सामान्याप्रयोग इति शक्यमवक्तुम्।।
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--पुरुषोयं व्याघ्र इव शूरः, पुरुषोऽयं व्याघ्र इव बलवान्?।।
(समाधानभाष्यम्)
असार्मथ्यात्।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति।। एवं तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यो भवति वै प्रधानस्य सापेक्षस्यापि समासः इति।। किमेतस्य ज्ञापने प्रयोजनम्?। राजपुरुषोऽभिरूपः राजपुरुषो दर्शनीयः। अत्र वृत्तिः सिद्धा भवति।। उपमितम् ।। 55 ।।
<M.2.399>
-2-1-57- विशेषणं विशेष्येण बहुलम् (405)
(259 तत्पुरुषसंज्ञासूत्रम् ।। 2 । 1। 3 आ. 6 सू.)
(विशेषणस्योपसर्जनत्वाधिकरणम्)
(1322 आक्षेपवार्तिकम् ।। 1 ।।)
।। विशेषणविशेष्ययोरुभयविशेषणत्वादुभयविशेष्यत्वादुपसर्जनाप्रसिद्धिः ।।
(व्याख्याभाष्यम्)
विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः। कृष्णतिला इति कृष्णशब्दोयं तिलशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तथा तिलशब्दः कृष्णशब्देनाभिसंबध्यमानो विशेषणवचनः संपद्यते, तदुभयं विशेषणं भवत्युभयं च विशेष्यम्। विशेषणविशेष्ययोरुभयविशेषणत्वादुभयोश्च विशेष्यत्वादुपसर्जनत्वस्याप्रसिद्धिः।।

(1323 समाधानवार्तिकम् ।। 2 ।।)
।। नवान्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनप्रसिद्धिः ।।
(व्याख्याभाष्यम्)
नवा एष दोषः।। किं कारणम्?। अन्यतरस्य प्रधानभावात्। अन्यतरदत्र प्रधानम्।। तद्विशेषकत्वाच्चापरस्य। तद्विशेषकं चापरम्। अन्यतरस्य प्रधानभावात्तद्विशेषकत्वाच्चापरस्योपसर्जनसंज्ञा भविष्यति यदाऽस्य तिलाः प्राधान्येन विवक्षिता भवन्ति कृष्णो विशेषकत्वेन, तदा तिलाः प्रधानं कृष्णो विशेषणम्।।
(आक्षेपभाष्यम्)
कामं तर्ह्यनेनैव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता भवन्ति तिला विशेषणत्वेन, तेन कर्तव्यं
तिलकृष्णा इति।।
<M.2.400>
(समाधानभाष्यम्)
न कर्तव्यम्। नह्ययं द्वन्द्वः--तिलाश्च कृष्णाश्चेति। न खल्वपि षष्ठीसमासः--तिलानां कृष्णा इति। किं तर्हि?। द्वाविमौ प्रधानशब्दौ एकस्मिन्नर्थे युगपदवरुध्येते। न च द्वयोः प्रधानशब्दयोरेकस्मिन्नर्थे युगपदवरुध्यमानयोः किंचिदपि प्रयोजनमस्ति, तत्र प्रयोगादेतद्गन्तव्यम्--नूनमत्रान्यतरत्प्रधानं तद्विशेषकं चापरमिति। तत्र त्वेतावान् संदेहः--किं प्रधानं किं विशेषणमिति। स चापि क्व संदेहः यत्रोभौ गुणशब्दौ। तद्यथा--खञ्ञ्जकुब्जः कुब्जखञ्ञ्ज इति। यत्र ह्यन्यतरद् द्रव्यमन्यतरो गुणः, तत्र यद् द्रव्यं तत्प्रधानम्। तद्यथा--शुक्लमालभेत कृष्णमालभेत न पिष्टपिण्डीमालभ्य कृती भवति। अवश्यं तद्गुणं द्रव्यमाकाङ्क्षति।।
<M.2.401>
(आक्षेपभाष्यम्)
कथं तर्हीमौ द्वौ प्रधानशब्दावेकस्मिन्नर्थे युगपदवरुध्येते--वृक्षः शिंशपेति?।।
(समाधानभाष्यम्)
नैतयोरावश्यकः समावेशः। नह्यवृक्षः शिंशपास्ति।। विशेषणम् ।। 56 ।।
-2-1-58- पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (406)
(260 तत्पुरुषसमाससंज्ञासूत्रम् ।। 2 । 1 । 3 आ.7 सू.)
(एतदादिसूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थमुत्तरत्रैवमाद्यनुक्रमणं क्रियते, न विशेषणं विशेष्येण बहुलम् इत्येव सिद्धम्।।
<M.2.402>
(1324 समाधानवार्तिकम् ।। 1 ।।)
।। बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमणसामर्थ्यम् ।।
(व्याख्याभाष्यम्)
अकृत्स्नं बहुलवचनमित्युत्तरत्रानुक्रमणं क्रियते।।
(आक्षेपभाष्यम्)
यद्यकृत्स्नं यदनेन कृतमकृतं तत्।।
(समाधानभाष्यम्)
एवं तर्हि न ब्रूमोऽकृत्स्नमिति, कृत्स्नं च कारकं च साधकं च निर्वर्तकं च यच्चानेन कृतं सुकृतं तत्।।
(आक्षेपभाष्यम्)
किमर्थं तर्ह्येवमाद्यनुक्रमणं क्रियते?।।
(समाधानभाष्यम्)
उदाहरणभूयस्त्वात्। एते खल्वपि विधयः सुपरिगृहीता भवन्ति येषु लक्षणं प्रपञ्चश्च। केवलं लक्षणं केवलः प्रपञ्ञ्चो वा, न तथा कारकं भवति।। अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम्--बहुलम्, अन्यतरस्याम्, उभयथा, वा, एकेषामिति। सर्ववेदपारिषदं हीदं शास्त्रम्। तत्र नैकः पन्थाः शक्य आस्थातुम् ।। पूर्वापर ।। 57 ।।
<M.2.403>
-2-1-59- श्रेण्यादयः कृतादिभिः (407)
(261 तत्पुरुषसमाससंज्ञासूत्रम् ।। 2। 1। 3 आ.8 सू.)
(इष्टानुपपत्तिनिराकरणाधिकरणम्)
(गणपाठशोधकभाष्यम्)
श्रेण्यादयः पठ्यन्ते, कृदादिराकृतिगणः ।।
(अनिष्टापत्तिनिराकरणाधिकरणम्)
(1325 आक्षेपवार्तिकम् ।। 1 ।।)
।। श्रेण्यादिषु च्व्यर्थवचनम् ।।
(भाष्यम्) श्रेण्यादिषु च्व्यर्थग्रहणं कर्तव्यम्। अश्रेणयः श्रेणयः कृताः श्रेणिकृताः। यदा हि श्रेणय एव किञ्ञ्चित् क्रियन्ते तदा मा भूदिति।।
(अनुयोगभाष्यम्)
अन्यत्रायं च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधं शास्ति। तदिह न तथा। किं कारणम्?।

(समाधानभाष्यम्)
अन्यत्र पूर्वं च्व्यन्तकार्यं परं च्व्यर्थकार्यम्। इह पुनः पूर्वं च्व्यर्थकार्यं परं च्व्यन्तकार्यम्।। श्रेण्यादयः ।। 58 ।।
-2-1-60- क्तेन नञ्ञ्विशिष्टेनानञ्ञ् (408)
(232 तत्पुरुषसमाससंज्ञासूत्रम् ।। 2। 1। 3 आ.9 सू.)
(व्याख्याभाष्यम्)
(1326 आक्षेपवार्तिकम् ।। 1 ।।)
।। नञ्ञ्विशिष्टे समानप्रकृतिग्रहणम् ।।
(व्याख्याभाष्यम्)
नञ्ञ्विशिष्टे समानप्रकृतिग्रहणं कर्तव्यम्। इह मा भूत्--सिद्धं चाभुक्तं चेति ।।
<M.2.404>
(1327 आक्षेपवार्तिकम् ।। 2 ।।)
।। अनञ्ञिति च ।।
(व्याख्याभाष्यम्)
अनञ्ञिति च प्रतिषेधो वक्तव्यः। इह मा भूत्--कर्तव्यमकृतमिति।।
(1328 आक्षेपवार्तिकम् ।। 3 ।।)
।। नुडिडधिकेन च ।।
(व्याख्याभाष्यम्)
नुडिडधिकेन च समासो वक्तव्यः। इहापि यथा स्यात्--अशितानशितेन जीवति। क्लिष्टाक्लिशितेनेति।।
(अवधारणार्थत्वे प्रथमवार्तिकद्वयप्रत्याख्यानतृतीयवार्तिकावश्यकताभाष्यम्)
किमुच्यते समानप्रकृतिग्रहणं कर्तव्यमिति, यदा नञ्ञ्विशिष्टेनेत्युच्यते। न चात्र नञ्ञ्कृत एव विशेषः। किं तर्हि?। प्रकृतिकृतोपि। अयं विशिष्ठशब्दोस्त्येवावधारणे वर्तते। तद्यथा--देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ, देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः। स्वाध्यायेनैवेति गम्यते। अन्ये गुणाः समा भवन्ति।। अस्त्याधिक्ये वर्तते। तद्यथा--देवदत्तयज्ञदत्तावाढ्यावभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः स्वाध्यायेनाधिकः। अन्ये गुणा अविवक्षिता भवन्ति।। तद्यदा ता वदवधारणे विशिष्टशब्दस्तदा नैवार्थः समानप्रकृतिग्रहणेन, नेह भविष्यति--सिद्धं चाभुक्तं चेति। नाप्यनञ्ञिति प्रतिषेधेन, नेह भविष्यति--कर्तव्यमकृतमिति।। नुडिडधिकेनापि तु तदा समासो न प्राप्नोति।।
(आधिक्यार्थत्वेन प्रथमवार्तिकद्वयावश्यकता तृतीयवार्तिकानावश्यकताभाष्यम्)
यदाधिक्ये विशिष्टशब्दस्तदा समानप्रकृतिग्रहणं कर्तव्यमिह माभूत्--सिद्धं चाभुक्तं चेति। अनञ्ञिति च प्रतिषेधो
वक्तव्यः। इह मा भूत्--कर्तव्यमकृतमिति।। नुडिडधिकेनापि समासः सिद्धो भवति। तत्राधिक्ये विशिष्टशब्दं मत्वा समानप्रकृतिग्रहणं चोद्यते।।
अवधारणं नञ्ञा चेद् नुडिडि्वशिष्टेन न प्रकल्पेत ।।
अथ चेदधिकविवक्षा, कार्यं तुल्यप्रकृतिकेन ।। 1 ।। इति ।।
<M.2.405>
(न्यूनतापूर्त्यधिकरणम्)
(1329 आक्षेपवार्तिकम् ।। 4 ।।)
।। कृतापकृतादीनां चोपसंख्यानम् ।।
(व्याख्याभाष्यम्)
कृतापकृतादीनां चोपसंख्यानं कर्तव्यम्। कृतापकृतम्। भुक्तविभुक्तम्। पीतविपीतम्।।
(1330 न्यासान्तरेणाक्षेपबाधकवार्तिकम् ।। 5 ।।)
।। सिद्धं तु क्तेन विसमाप्तावनञ्ञ् ।।
(व्याख्याभाष्यम्)
सिद्धमेतत्?। कथम्। क्तान्तेन क्रियाविसमाप्तावनञ्ञ् क्तान्तं समस्यत इति वक्तव्यम्।।

(1331 आक्षेपवार्तिकम् ।। 6 ।।)
।। गतप्रत्यागतादीनां चोपसंख्यानम् ।।
(भाष्यम्) गतप्रत्यागतादीनां चोपसंख्यानं कर्तव्यम्।। गतप्रत्यागतम्। पातानुपातम्। पुटापुटिका। क्रयाक्रयिका। फलाफलिका। मानोन्मानिका।। क्तेन नञ्ञ् ।। 59 ।।
-2-1-67- युवा खलतिपलितवलिनजरतीभिः (415)
(263 तत्पुरुषसमाससंज्ञासूत्रम् ।। 2 । 1। 3 ।। आ.10)
(लिङ्गविशिष्टपरिभाषासाधनाधिकरणम्)
(आक्षेपभाष्यम्)
अयुक्तोयं निर्देशः। समानाधिकरणेन इति वर्तते। कः प्रसङ्गो यद्व्यधिकरणानां समासः स्यात्?।।
(समाधानभाष्यम्)
एवं तर्हि ज्ञापयत्याचार्यः--यथाजातीयकमुत्तरपदं तथाजातीयकेन पूर्वपदेन समासो भवति--इति। किमेतस्य ज्ञापने प्रयोजनम्?। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति इत्येषा परिभाषा न कर्तव्या भवति ।। युवा ख ।। 66 ।।
<M.2.406>
-2-1-69- वर्णो वर्णेन (417)
(264 तत्पुरुषसंज्ञासूत्रम् ।। 2।1। 3। आ.11)
(वर्णोवर्णेन इत्यस्य समानाधिकरणाधिकारीयत्वाधिकरणम्)
(आक्षेपभाष्यम्)
इदं विचार्यते--वर्णेन तृतीयासमासो वा स्यात्---कृष्णेन सारङ्गः कृष्णसारङ्ग इति। समानाधिकरणो वा कृष्णः सारङ्गः कृष्णसारङ्ग इति।।
(विशेषप्रश्नभाष्यम्)
कश्चात्र विशेषः?।।
(1332 तृतीयासमासे दूषणवार्तिकम् ।। 1 ।।)
।। वर्णेन तृतीयासमास एतप्रतिषेधे वर्णग्रहणम्।।
(भाष्यम्) वर्णेन तृतीयासमासे एतप्रतिषेधे वर्णग्रहणं कर्तव्यम्। तृतीयापूर्वपदं प्रकृतिस्वरं भवति। अनेते वर्णः इति वक्तव्यम्।। (इह मा भूत्--हिमेन एतः हिमैतः।। )
(आक्षेपभाष्यम्)
अथ द्वितीयेन वर्णग्रहणेनैतविशेषणेनार्थः?।।
<M.2.407>
(समाधानभाष्यम्)
बाढमर्थः। यद्यवर्ण एतशब्दोस्ति।।
(समाधानबाधकभाष्यम्)
ननु चायमस्ति--आ इतः एतः, कृष्णेतो लोहितेत इति।।
(प्रत्याख्यानभाष्यम्)
नार्थ एवमर्थेन वर्णग्रहणेन। यदि तावदयं कर्मणि क्तः, तृतीया कर्मणि इत्यनेन स्वरेण भवितव्यम्। अथापि कर्तरि, परत्वात्कृत्स्वरेण भवितव्यम्।।
(समानाधिकरणपक्षाभ्युपगमभाष्यम्)
अथ समानाधिकरणः।।
(1333 समानाधिकरणपक्षे दूषणवार्तिकम् ।। 2 ।।)
।। समानाधिकरणे द्विर्वर्णग्रहणम्।।
(व्याख्याभाष्यम्)
समानाधिकरणे द्विर्वर्णग्रहणं कर्तव्यम्। वर्णो वर्णोष्वनेत इति वक्तव्यम्। एकं वर्णग्रहणं कर्तव्यम्। इह मा भूत्--परमशुक्लः परमकृष्णः। द्वितीयं वर्णग्रहणं कर्तव्यम्। इह मा भूत्--कृष्णतिला इति।।
(दूषणबाधकभाष्यम्)
एकं वर्णग्रहणमनर्थकम्।।
(आक्षेपभाष्यम्)
अवर्णस्य वर्णे वर्णस्य चावर्णे अन्यतरत्र कस्मान्न भवति?।।
(समाधानभाष्यम्)
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव इति।।

(तृतीयासमासवादिभाष्यम्)
एवं सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति - समासविधौ द्वे, स्वरविधौ चैकम् ।।
(समानाधिकरणसमासवादिभाष्यम्)
यस्यापि तृतीयासमासस्तस्यापि तान्येव त्रीणि वर्णग्रहणानि भवन्ति। समासविधौ द्वे, स्वरविधौ चैकम्।।
(तृतीयासमासवादिभाष्यम्)
सामान्येन मम तृतीयासमासो भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति।।
(समानाधिकरणसमासवादिभाष्यम्)
अवश्यं वर्णेन प्रतिपदं समासो वक्तव्यः। यत्र तेन न सिध्यति तदर्थम्।। क्व च तेन न सिध्यति?। शुकबभ्रु: हरितबभ्रुः इति।। तथा सति तान्येतानि त्रीणि वर्णग्रहणानि भवन्ति--समासविधौ द्वे, स्वरविधौ चैकम्।।
<M.2.408>
(तृतीयासमासवादिभाष्यम्)
अथेदानीं समानाधिकरणः सामान्येन सिद्धः स्यात्?।।
(समानाधिकरणसमासवादिभाष्यम्)
बाढं सिद्धः।। कथम्?। विशेषणं विशेष्येण बहुलम् इति। एवमपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधावेव, प्रतिपदोक्तस्याभावात्। तस्मात्समानाधिकरण इत्येष पक्षो ज्यायान्।।
(प्रधानोपसर्जनानां विप्रतिषेधाधिकरणम्)
(1334 वार्तिकम् ।। 3 ।।)
।। समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं विप्रतिषेधेन ।।
(भाष्यम्) समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं भवति विप्रतिषेधेन। प्रधानानां प्रधानम्,
उपसर्जनानामुपसर्जनम्। प्रधानानां तावत्प्रधानम्--वृन्दारकनागकुञ्ञ्जर: पूज्यमानम् इत्यस्यावकाशः--गोवृन्दारकः अश्ववृन्दारकः। पोटायुवतीनामवकाशः--इभ्ययुवतिः, आढ्ययुवतिः। इहोभयं प्राप्नोति--नागयुवतिः वृन्दारकयुवतिः प्र् प्रधानानां परं प्रधानं भवति विप्रतिषेधेन।। उपसर्जनानां परमुपसर्जनम्। सन्महत्परमोत्तमोत्कृष्टा इत्यस्यावकाशः--सद्गवः सदश्वः। कृत्यतुल्याख्या अजात्या इत्यस्यावकाशः--तुल्यश्वेत: तुल्यमहान्। इहोभयं प्राप्नोति--तुल्यसन् तुल्यमहान्। उपसर्जनानां परमुपसर्जनं भवति विप्रतिषेधेन।।

(न. कर्मधारयान्मत्वर्थीय इति व्युत्पत्तिसाधकाधिकरणम्)
(1335 बहुव्रीहेः कर्मधारयप्रकृतिकमत्वर्थीयापवादत्वसाधकप्रथमखण्डवार्तिकम् ।। 4 ।।)
।। समानाधिकरणसमासाद् बहुव्रीहिः ।।
(भाष्यम्) समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन।। समानाधिकरणसमासस्यावकाशः वीरः पुरुषो वीरपुरुषः। बहुव्रीहेरवकाशः कण्ठेकालः। इहोभयं प्राप्नोति--वीरपुरुषको ग्रामः। बहुव्रीहिर्भवति विप्रतिषेधेन ।।
<M.2.409>
(1336 कर्मधारयप्रकृतिकमत्वर्थीयसाधकवार्तिकद्वितीयखण्डम्।। 5 ।।)
।। कदा चित्कर्मधारयः सर्वधनाद्यर्थः ।।
(भाष्यम्) कदाचित्कर्मधारयो भवति बहुव्रीहेः।। किं प्रयोजनम्?। सर्वधनाद्यर्थः। सर्वधनी। सर्वबीजी। सर्वकेशी नटः। गौरखरवदरण्यम्। कृष्णसर्पवान्वल्मीकः। लोहितशालिमान् ग्रामः।। किं प्रयोजनम्?। कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं यथा स्यात्।। किं च कारणं न स्यात्?
बहुव्रीहिणोक्तत्वान्मत्वर्थस्य।।
(मत्वर्थीयोत्पत्तिबाधकाक्षेपभाष्यम्)
यद्युक्तत्वं हेतुः कर्मधारयेणाप्युक्तत्वान्न प्राप्नोति।। न खल्वपि संज्ञाश्रयो मत्वर्थीयः। किं तर्हि?। अर्थाश्रयः।। स यथैव बहुव्रीहिणोक्तत्वान्न भवति, एवं कर्मधारयेणोक्तत्वान्न भविष्यति।।
(मत्वर्थीयोत्पत्तिसाधकसमाधानभाष्यम्)
एवं तर्हि इदं स्यात्--सर्वाणि धनानि-सर्वधनानि, सर्वधनान्यस्य सन्ति-सर्वधनीति।।
(वार्तिकीयकदाचित्पदासंगत्याक्षेपभाष्यम्)
नैवं शक्यम्। नित्यमेवं सति कर्मधारयः स्यात्। तत्र यदुक्तम्--कदाचित्कर्मधारयः इति, एतदयुक्तम्।।
(वार्तिकाशयान्तरभाष्यम्)
एवं तर्हि भवति वै किंचिदाचार्याः कार्यवद्बुद्धिं कृत्वा पठन्ति--कार्याः शब्दाः इति, तद्वदिदं पठितम्--। समानाधिकरणसमासाद्बहुव्रीहिः कर्तव्यः कदाचित्कर्मधारयः सर्वधनाद्यर्थः । इति।।
<M.2.410>
(विप्रतिषेधासंभवेन बहुव्रीहिनिराकरणाक्षेपभाष्यम्)
यदुच्यते--समानाधिकरणसमासाद्बहुव्रीहिर्भवति विप्रतिषेधेन--इति।। नैष युक्तो विप्रतिषेधः। अन्तरङ्गः कर्मधारयः।। काऽन्तरङ्गता?। स्वपदार्थे कर्मधारयः। अन्यपदार्थे बहुव्रीहिः।।
(बहुव्रीहिसाधकसमाधानभाष्यम्)
अस्तु। विभाषा कर्मधारयः, यदा न कर्मधारयस्तदा बहुव्रीहिर्भविष्यति।।
(आक्षेपभाष्यम्)
एवमपि यद्यत्र कदाचित्कर्मधारयो भवति। कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं प्राप्नोति। सर्वश्चायमेवमर्थो यत्नः--कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानं मा भूद्--इति।।
( समाधानभाष्यम् )
एवं तर्हि नेदं तस्य योगस्योदाहरणं विप्रतिषेधे परम् इति।। किं तर्हि?। इष्टिरियं
पठिता--समानाधिकरणसमासाद्बहुव्रीहिरिष्टः। कदाचित्कर्मधारयः सर्वधनाद्यर्थः इति।
(उक्तवार्त्तिकानावश्यकतासाधकैकदेशिभाष्यम्)
यदीष्टिः पठिता, नार्थोनेन। इह हि सर्वे मनुष्या अल्पेनाल्पेन महतो महतोर्थानाकाङ्क्षन्ति। एकेन माषेण शतसहस्रम्। एकेन कुद्दालपदेन खारीसहस्रम्। तत्र कर्मधारयप्रकृतिभिर्मत्वर्थीयैरभिधानमस्तु बहुव्रीहिणेति। बहुव्रीहिणा भविष्यति लघुत्वात्।।
<M.2.411>
(आक्षेपैकदेशिभाष्यम्)
कथं सर्वधनी सर्वबीजी सर्वकेशी नट इति? ।।
(समाधानैकदेशिभाष्यम्)
।इनिप्रकरणे सर्वादेः। इति वक्ष्यामि। तच्चावश्यं वक्तव्यं ठनो बाधनार्थम्।।
(आक्षेपैकदेशिभाष्यम्)
कथम्--गौरखरवदरण्यम् गौरमृगवदरण्यम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः?।।

(समाधानैकदेशिभाष्यम्)
अस्त्यत्र विशेषः। जात्यात्राभिसंबन्धः क्रियते, कृष्णसर्पो नाम सर्पजातिः, सास्मिन्
वल्मीकेस्ति।। यदा ह्यन्तरेण जातिं तद्वत्ताभिसंबन्धः क्रियते, कृष्णसर्पो वल्मीक इत्येव तदा भवति।।
(पूर्वपदार्थातिशयविवक्षायामप्यातिशायिकप्रत्ययाद्बहुव्रीहेर्बलवत्त्वाधिकरणम्)
(1337 पूर्वपदातिशय आतिशायिकव्यवस्थावार्तिकम् ।। 4 ।।)
।। पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः ।।
(भाष्यम्) पूर्वपदातिशयविवक्षायामातिशायिकाद् बहुव्रीहिर्भवति विप्रतिषेधेन।। किं प्रयोजनम्?। सूक्ष्मवस्त्रतराद्यर्थः।। आतिशायिकस्यावकाशः--पटुतरः पटुतमः। बहुव्रीहेरवकाशः-- चित्रगुः शबलगुः। इहोभयं प्राप्नोति--सूक्ष्मवस्त्रतरः। तीक्ष्णशृङ्गतरः। बहुव्रीहिर्भवति विप्रतिषेधेन।।

(विप्रतिषेधबाधकभाष्यम्)
नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परम् इत्युच्यते। पूर्वश्च बहुव्रीहिः, पर आतिशायिकः।।
(वार्तिकाशयान्तरभाष्यम्)
इष्टवाची परशब्दः--विप्रतिषेधे परं यदिष्टं तद्भवतीति।।
(अनुपपत्तिभाष्यम्)
एवमप्ययुक्तः। अन्तरङ्ग आतिशायिकः।। कान्तरङ्गता?। ङ्याप्प्रातिपदिकादातिशायिकः। सुबन्तानां बहुव्रीहिः।।
(अनुपपत्तिबाधकभाष्यम्)
आतिशायिकोपि नान्तरङ्गः।। कथम्? समर्थात्तद्धित उत्पद्यते सामर्थ्यं च सुबन्तेन ।।
(अनुपपत्तिसाधकभाष्यम्)
एवमप्यन्तरङ्गः।। कथम्?। स्वपदार्थे आतिशायिकः। अन्यपदार्थे बहुव्रीहिः।।
(अनुपपत्तिबाधकभाष्यम्)
एवमपि नान्तरङ्गः।। कथम्?। स्पर्द्धायामातिशायिको भवति। न चान्तरेण प्रतियोगिनं स्पर्द्धा भवति।।
(अनुपपत्तिप्राप्त्यभावभाष्यम्)
नैव वात्रातिशायिकः प्राप्नोति।। किं कारणम्?। असार्मथ्यात्।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। यावता वस्त्राणि तद्वन्तमपेक्षन्ते। तद्वन्तं चापेक्ष्य वस्त्राणां वस्त्रैर्युगपत्स्पर्द्धा भवति।।
<M.2.412>
(आक्षेपभाष्यम्)
ननु चायमातिशायिक एवमात्मकः सत्यां व्यपेक्षायां विधीयते।।
(समाधानभाष्यम्)
सत्यमेवमात्मकः। यां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिस्तस्यां सत्यां भवितव्यम्।। कां च नान्तरेण व्यपेक्षामातिशायिकस्य प्रवृत्तिः?। या हि प्रतियोगिनं प्रति व्यपेक्षा।। या हि तद्वन्तं प्रति, न तस्यां भवितव्यम्।।
(आक्षेपभाष्यम्)
बहुव्रीहिरपि तर्हि न प्राप्नोति।। किं कारणम्?। असार्मथ्यादेव।। कथमसामर्थ्यम्?। सापेक्षमसमर्थं भवतीति। यावता वस्त्राणि वस्त्रान्तराण्यपेक्षन्ते तद्वता चाभिसंबन्धः।।
(समाधानभाष्यम्)
एवं तर्हि नेदं तस्य योगस्योदाहरणं विप्रतिषेधे परम् इति।। किं तर्हि?। इष्टिरियं पठिता
।पूर्वपदातिशये आतिशायिकाद् बहुव्रीहिरिष्टः सूक्ष्मवस्त्रतराद्यर्थः। इति।
(वार्तिकानावश्यकताभाष्यम्)
यदीष्टिरियं पठिता, नार्थोनेन।।
(आक्षेपभाष्यम्)
कथं यैषा युक्तिरुक्ता--वस्त्रान्तराणां च वस्त्रान्तरैर्युगपत्स्पर्द्धा तद्वता चाभिसंबन्धः--इति।
(समाधानभाष्यम्)
यदा ह्यन्तरेण वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धां तद्वताभिसंबन्धः क्रियते। निष्प्रतिद्वन्द्वस्तदा बहुव्रीहिः। बहुव्रीहेरातिशायिकाः।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--सूक्ष्मतरवस्त्र इति?।।
(समाधानभाष्यम्)
भवति, यदान्तरेण तद्वन्तं वस्त्राणां वस्त्रान्तरैर्युगपत्स्पर्द्धा भवति। निष्प्रतिद्वन्द्वस्तदातिशायिकः।।
<M.2.413>
(समाधानबाधकाक्षेपभाष्यम्)
कथं पुनरन्यस्य प्रकर्षेणान्यस्य प्रकर्षः स्यात्?।।
(समाधानसाधकभाष्यम्)
नैवान्यस्य प्रकर्षेणान्यप्रकर्षेण भवितव्यम्। यथैवायं द्रव्येषु यतते--वस्त्राणि मे स्युरिति। एवं गुणेष्वपि यतते--सूक्ष्मतराणि मे स्युरिति।।
(समाधानबाधकभाष्यम्)
नात्रातिशायिकः प्राप्नोति। किं कारणम्?। गुणवचनादित्युच्यते। न च समासो गुणवचनः।।
(समाधानसाधकभाष्यम्)
समासोपि गुणवचनः। कथम्?। अजहत्स्वार्था वृत्तिरिति।।
(आक्षेपभाष्यम्)
अथ जहत्स्वार्थायां तु दोष एव?।।
(समाधानभाष्यम्)
जहत्स्वार्थायां च न दोषः। भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा--शुक्लवाससमानय लोहितोष्णीषाः प्रचरन्तीति तद्गुण आनीयते तद्गुणाश्च प्रचरन्ति।।
(उत्तरपदातिशय आतिशायिकव्यवस्थाधिकरणम्)
(1338 आक्षेपवार्तिकम् ।। 5 ।।)
।। उत्तरपदातिशये आतिशायिको बहुव्रीहेः बह्वाढ्यतराद्यर्थः ।।
(भाष्यम्) उत्तरपदातिशये आतिशायिको बहुव्रीहेर्भवति विप्रतिषेधेन ।। किं प्रयोजनम्? बह्वाढ्यतराद्यर्थः। बह्वाढ्यतरः। बहुसुकुमारतरः।। कः पुनरत्र विशेषः--बहुव्रीहेर्वातिशायिकः स्याद्, आतिशायिकान्तेन वा
बहुव्रीहि:?।। स्वरकपोर्विशेषः। यद्यत्रातिशायिकाद्बहुव्रीहिः स्यात्--बह्वाढ्यतर एवं स्वरः प्रसज्येत, बह्वाढ्यतर इति चेष्यते। बह्वाढ्यकतर इति च प्राप्नोति, बह्वाढ्यतरक इति चेष्यते।।
<M.2.414>
(1339 उत्तरपदलोपविधायकवार्तिकम् ।। 6 ।।)
।। समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ।।
(भाष्यम्) समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानं कर्तव्यम्। उत्तरपदलोपश्च वक्तव्यः। शाकभोजी पार्थिवः शाकपार्थिवः। कुतपवासाः सौश्रुतः कुतपसौश्रुतः। अजापण्यस्तौल्वलिरजातौल्वलिः। यष्टिप्रधानो मौद्गल्यः यष्टि मौद्गल्यः।। वर्णो वर्णेन ।। 68 ।।
-2-1-71- चतुष्पादो गर्भिण्या (419)
(265 तत्पुरुषसंज्ञासूत्रम् ।। 2। 1। 3 आ.12 ।।)
(1340 वार्तिकम् ।। 1 ।।)
।। चतुष्पाज्जातिः ।।
(व्याख्याभाष्यम्)
चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत्--कालाक्षी गर्भिणी। स्वस्तिमती गर्भिणी।। चतुष्पादो गर्भिण्या ।। 70 ।।