महाभाष्यम्/द्वितीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

-2-3-1- अनभिहिते 459
(अथ विभक्त्यर्थप्रकरणम्)
(293 अधिकारसूत्रम् ।। 2।3।1 आ.1)
(अनभिहितशब्दार्थनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
अनभिहित इत्युच्यते। किमिदमनभिहितं नाम?।।
(समाधानभाष्यम्)
उक्तम्, निर्दिष्टम्, अभिहितम् इत्यनर्थान्तरम्।। यावद् ब्रूयाद्--अनुक्ते, अनिर्दिष्टे इति, तावद् अनभिहिते इति।।
(सूत्रप्रयोजनाधिकरणम्)
(1459 प्रत्याख्यानवार्तिकम् ।। 1 ।।)
- अनभिहितवचनमनर्थकमन्यत्रापि विहितस्या भावादभिहिते -
(भाष्यम्) अनभिहितवचनमनर्थकम्।। किं कारणम्?। अन्यत्रापि विहितस्याभावादभिहिते। अन्यत्राप्यभिहिते विहितं न भवति।। क्वान्यत्र?। चित्रगुः, शबलगुः, बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवति। गर्गाः, वत्साः, बिदाः, उर्वाः, यञ्ञञ्ञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवति। सप्तपर्णः अष्टापद इति समासेनोक्तत्वाद्वीप्साया द्विर्वचनं न भवतीति।।
(प्रथमदृष्टान्तनिरसनभाष्यम्)
यत्तावदुच्यते--चित्रगुः शबलगुरिति बहुव्रीहिणोक्तत्वान्मत्वर्थस्य मत्वर्थीयो न भवतीति।। अस्तिसामानाधिकरण्ये मतुब्विधीयते। न चात्रास्तिना सामानाधिकरण्यम्।।
(द्वितीयदृष्टान्तनिरसनभाष्यम्)
यदप्युच्यते--गर्गा वत्सा बिदा उर्वा इति यञ्ञञ्ञ्भ्यामुक्तत्वादपत्यार्थस्य न्याय्योत्पत्तिर्न भवतीति।। समर्थानां प्रथमाद्वा इति वर्तते। न चैतत्समर्थानां प्रथमम्। किं तर्हि?। द्वितीयमर्थमुपसंक्रान्तम्।।
(तृतीयदृष्टान्तनिरसनभाष्यम्)
यदप्युच्यते--सप्तपर्णः अष्टापद इति समासेनोक्तत्वाद् वीप्साया द्विर्वचनं न भवतीति।। यदत्र वीप्सायुक्तं नादः प्रयुज्यते।। किं पुनस्तत्?। पर्वणि पर्वणि सप्त पर्णान्यस्य। पङ्क्तौ पङ्क्तावष्ठौ पदानीति।।
(दृष्टान्तान्तरभाष्यम्)
श्नम्बहुजकक्षु तर्हि। श्नम्--भिनत्ति छिनत्ति। श्नमोक्तत्वात्कर्तृत्वस्य कर्तरि शब् न भवति।। बहुच्--बहुकृतं बहुभिन्नमिति बहुचोक्तत्वादीषदसमाप्तेः कल्पबादयो न भवन्ति।। अकच्--उच्चकैः नीचकैरिति अकचोक्तत्वात्कुत्सादीनां कादयो न भवन्ति।।
श्नमोक्तत्वादिति। भावकर्मकर्तारो विकरणार्था इति पूर्वाचार्यदर्शनमाश्रित्यैवमुक्तम्।।
(दृष्टान्तबाधकभाष्यम्)
ननु च श्नम्बहुजकचोपवादास्ते अपवादत्वाद्बाधका भविष्यन्ति।।
(1460 दृष्टान्तसाधकवार्तिकम् ।। 2 ।।
- श्नम्बहुजकक्षु नानादेशत्वाद् उत्सर्गाप्रतिषेधः -
(व्याख्याभाष्यम्)
समानदेशैरपवादैरुत्सर्गाणां बाधनं भवति। नानादेशत्वान्न प्राप्नोति।।
(सूत्रप्रयोजनकथनाधिकरणम्)
(आरम्भवादिभाष्यम्)
किं पुनरिहाकर्तव्योनभिहिताधिकारः क्रियते। आहोस्विदन्यत्र कर्तव्यो न क्रियते?।।
(प्रत्याख्यानवादिभाष्यम्)
इहाकर्तव्यः क्रियते। एष एव हि न्याय्यः--- यदभिहिते विहितं न स्यात्।।
(1461 आरम्भवादिसमाधानवार्तिकम् ।। 3 ।।
- अनभिहितस्तु विभक्त्यर्थस्तस्मादनभिहितवचनम् (अभिहिते हि प्रथमाभावः) -
(भाष्यम्) अनभिहितस्तु विभक्त्यर्थः।। कः पुनर्विभक्त्यर्थः?। एकत्वादयो विभक्त्यर्थाः।। तेष्वनभिहितेषु (सत्सु) कर्मादयोभिहिता विभक्तीनामुत्पत्तौ निमित्तत्वाय मा भूवन्निति।। तस्मादनभिहितवचनम्।। तस्मादनभिहिताधिकारः क्रियते।। अवश्यं चैतदेवं विज्ञेयम्--एकत्वादयो विभक्त्यर्था इति।। अभिहिते हि प्रथमाभावः। यो हि मन्यते--कर्मादयो विभक्त्यर्थाः, तेष्वभिहितेषु सार्मथ्यान्मे विभक्तीनामुत्पत्तिर्न भविष्यतीति। प्रथमा तस्य न प्राप्नोति।। क्व?। वृक्षः प्लक्षः।। किं कारणम्?। प्रातिपदिकेनोक्तः प्रातिपदिकार्थ इति।।
(प्रत्याख्यानवादिभाष्यम्)
न क्वचित्प्रातिपदिकेनानुक्तः प्रातिपदिकार्थः। उच्यते च प्रथमा। सा वचनाद्भविष्यति।। तवैव तु खल्वेष दोषः--यस्य ते एकत्वादयो विभक्त्यर्थाः। अभिहिते प्रथमाऽभाव इति प्रथमा ते न प्राप्नोति। क्व? पचत्योदनं देवदत्त इति।। किं कारणम्? तिङोक्ता एकत्वादय इति। अनभिहिताधिकारं च त्वं करोषि, परिगणनं च।।
(आरम्भवादिभाष्यम्)
न क्वचित्तिङा एकत्वादीनामनभिधानम्। उच्यते च प्रथमा। सा वचनाद्भविष्यति।।
(प्रत्याख्यानवाद्याक्षेपभाष्यम्)
ननु चेहानभिधानम्--वृक्षः प्लक्षः इति।।
(आरम्भवादिसमाधानभाष्यम्)
अत्राप्यभिधानमस्ति।। कथम्?। वक्ष्यत्येतद्--अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति इति। वृक्षः प्लक्षः अस्ति इति गम्यते।। तवैव तु खल्वेष दोषः--(यस्य ते कर्मादयो विभक्त्यर्थाः) अभिहेते प्रथमाभाव इति प्रथमा ते प्राप्नोति। क्व?। कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति।। का तर्हि प्राप्नोति?। प्रथमा।। तद्यथा--कृतः कटो भीष्म उदारः शोभनो दर्शनीयः इति करोतेरुत्पद्यमानेन क्तेनाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न भवति। का तर्हि?। प्रथमा भवति।।
(प्रत्याख्यानवादिभाष्यम्)
नैष दोषः। न हि ममानभिहिताधिकारोस्ति। नापि परिगणनम्। सार्मथ्यान्मे विभक्तीनामुत्पत्तिर्भविष्यति। अस्ति च सार्मथ्यम्। किम्? कर्मविशेषो वक्तव्यः।।
अथ वा कटोपि कर्म, भीष्मादयोपि। तत्र कर्मणि इत्येव सिद्धम्।।
अथवा कट एव कर्म, तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति।।
अस्ति खल्वपि विशेषः--कटं करोति भीष्ममुदारं दर्शनीयं शोभनमिति च कृतः भीष्म उदारः शोभनो दर्शनीय इति च करोतेरुत्पद्यमानः क्तः अनवयवेन सर्वं कर्माभिद्यत्ते, कटशब्दात्पुनरुत्पद्यमानया द्वितीयया यत् कटस्थं कर्म तत् शक्यमभिधातुं न कर्मविशेषः।।
तवैव तु खल्वेष दोषः (यस्य ते एकत्वादयो विभक्त्यर्थाः) ठअभिहिते प्रथमाऽभावः इति प्रथमा ते न प्राप्नोति। क्व?। एको द्वौ बहव इति। किं कारणम्?। प्रातिपदिकेनोक्ता एकत्वादय इति।।
(आरम्भवादिभाष्यम्)
कर्मादिष्वपि वै विभक्त्यर्थेषु अवश्यमेकत्वादयो निमित्तत्वेनोपादेयाः--कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे, इति। न चैकत्वादीनामेकत्वादयः सन्ति। अथ सन्ति, ममापि सन्ति। तेष्वनभिहितेषु प्रथमा भविष्यति।।
अथ वा उभयवचना ह्येते द्रव्यं चाहुर्गुणं च। यत्स्थोसौ गुणः तस्यानुक्ता एकत्वादय इति कृत्वा प्रथमा
भविष्यति।।
अथ वा संख्या नामेयं परप्रधाना संख्येयमनया विशेष्यम्। यदि चात्र प्रथमा न स्यात्। संख्येयमविशेषितं
स्यात्।।
अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम्-उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति।।
अथ वा समयाद्भविष्यति।।
(आक्षेपभाष्यम्)
यदि सामयिकी, न नियोगतः। अन्याः कस्मान्न भवन्ति?।।
(समाधानभाष्यम्)
कर्मादीनामभावात्।।
(आक्षेपभाष्यम्)
षष्ठी तर्हि प्राप्नोति?।।
(समाधानभाष्यम्)
शेषलक्षणा षष्ठी। अशेषत्वान्न भविष्यति।।
(आक्षेपभाष्यम्)
एवमपि व्यतिकरः प्राप्नोति--एकस्मिन्नपि द्विवचनबहुवचने प्राप्नुतः द्वयोरप्येकवचनबहुवचने प्राप्नुतः बहुष्वप्येकवचनद्विवचने प्राप्नुतः।।
(समाधानभाष्यम्)
अर्थतो व्यवस्था भविष्यति।।
(परिगणनाधिकरणम्)
(भाष्यम्) परिगणनं कर्तव्यम्।।
(1462 परिगणनवार्तिकम् ।। 4 ।।)
- तिङ्कृत्तद्धितसमासैः परिसंख्यानम् (उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्)-
(भाष्यम्) तिङ्कृत्तद्वितसमासैः परिसंख्यानं कर्तव्यम्। तिङ्--क्रियते कटः। तिङ्।। कृत--कृतः कटः। कृत्।। तद्धितः--औपगवः कापटवः। तद्धितः।। समास--चित्रगुः शबलगुः। समास।। उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्। उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिर्वक्तव्या। क्व?। कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। कटशब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो द्वितीया न प्राप्नोति।।
(आक्षेपभाष्यम्)
का तर्हि स्यात्?।।
(समाधानभाष्यम्)
षष्ठी।।
(प्रत्याख्यानवादिभाष्यम्)
शेषलक्षणा षष्ठी अशेषत्वान्न भविष्यति। अन्या अपि न प्राप्नुवन्ति।। किं कारणम्?। कर्मादीनामभावात्।। समयश्च कृतः--न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति। न चान्या उत्पद्यमाना एतमभिसंबन्धमुत्सहते वक्तुमिति कृत्वा द्वितीया भविष्यति।।
अथवा कटोपि कर्म भीष्मादयोपि, तत्र कर्मणि इत्येव सिद्धम्।।
अथ वा कट एव कर्म तत्सामानाधिकरण्याद्भीष्मादिभ्यो द्वितीया भविष्यति। तस्मान्नार्थः परिगणनेन ।।
(गुणप्रधानक्रिययोः प्रधानानभिहितग्रहणाधिकरणम्)
(1463 आक्षेपवार्तिकम् ।। 5 ।।)
- द्वयोः क्रिययोः कारकेन्यतरेणाभिहिते विभक्त्यभावप्रसङ्गः -
(भाष्यम्) द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्तिर्न प्राप्नोति। क्व?। प्रासादे आस्ते शयने आस्त इति।। किं कारणम्? सदिप्रत्ययेनाभिहितमधिकरणमिति कृत्वा सप्तमी न प्राप्नोति।।
(1464 बाधकवार्तिकम् ।। 6 ।।
- न वान्यतरेणानभिधानात् (अनभिहिते हि विधानम् -)
(भाष्यम्) न वा एष दोषः। किं कारणम्?। अन्यतरेणानभिधानात्। अन्यतरेणात्रानभिधानम्। सदिप्रत्ययेनाभिधानम्। आसिप्रत्ययेनानभिधानम्। यतोऽनभिधानं तदाश्रया सप्तमी भविष्यति।।
कुतो नु खल्वेतत्सत्यभिधाने चानभिधाने चानभिहिताश्रया सप्तमी भविष्यति, न पुनरभिहिताश्रयः प्रतिषेध इति?।
अनभिहिते हि विधानम्()। अनभिहिते हि सप्तमी विधीयते। नाभिहिते प्रतिषेधः।।
(आक्षेपसाधकभाष्यम्)
यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्या चान्या च क्रिया। यत्र तु खलु सैव क्रिया तत्र कथम्--आसने आस्ते शयने शेत इति!।।
(आक्षेपबाधकभाष्यम्)
अत्राप्यन्यत्वमस्ति। कुतः?। साधनभेदात्कालभेदच्च। प्रकस्यात्रासेरासिः साधनम्, सर्वकालश्च प्रत्ययः। अपरस्य बाह्यं साधनम्, वर्तमानकालश्च प्रत्ययः।।
(साधननिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनर्द्रव्यं साधनम्। आहोस्विद् गुणः?। किं चातः?।
यदि द्रव्यं साधनम्, नैतदन्यद्भवत्यभिहितात्।
अथ हि गुणः साधनम्, भवत्येतदन्यदभिहितात्।
अन्यो हि सदिगुणः। अन्यश्चासिगुणः।। किं पुनः साधनं न्याय्यम्?।।
(समाधानभाष्यम्)
गुण इत्याह।। कथं ज्ञायते?। एवं हि कश्चित्कं चित्पृच्छति--क्व देवदत्त इति। स तस्मायाचष्टे--असौ वृक्षे इति। कतरस्मिन्?। यस्तिष्ठतीति। स वृक्षोधिकरणं भूत्वान्येन शब्देनाभिसंबन्ध्यमानः कर्ता संपद्यते।। द्रव्ये पुनः साधने सति यत्कर्म कर्मैव स्यात्, यत् करणं करणमेव, यदधिकरणमधिकरणमेव।।
(प्रत्याख्यानाधिकरणम्)
(1465 प्रत्याख्यानप्रतिज्ञाहेतुवार्तिकम् 7।।)
- अनभिहितवचनमनर्थकं प्रथमाविधानस्यानवकाशत्वात् -
(भाष्यम्) अनभिहितवचनमनर्थकम्।। किं कारणम्?। प्रथमाविधानस्यानवकाशत्वात्। अनवकाशा प्रथमा सा वचनाद्भविष्यति।।
(प्रत्याख्यानहेतुबाधकभाष्यम्)
सावकाशा प्रथमा।। कोवकाशः? अकारकम्--वृक्षः प्लक्ष इति।।
(1466 प्रत्याख्यानहेतुसाधकवार्तिकम् 8 ।।)
- अवकाशोऽकारकमिति चेन्नास्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्ति-
(भाष्यम्) अवकाशोऽकारकमिति चेत्। तन्न। किं कारणम्? अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्तीति गम्यते।।
(1467 प्रत्याख्यानहेत्वन्तरवार्तिकम् 9 ।।)
- विप्रतिषेधाद्वा प्रथमाभावः -
(भाष्यम्) अथ वा द्वितीयादयः क्रियन्ताम्, प्रथमा वेति। प्रथमा भविष्यति विप्रतिषेधेन। द्वितीयादीनामवकाशः--कटं करोति भीष्ममुदारं शोभनं दर्शनीयमिति। प्रथमाया अवकाशः--अकारकं वृक्षः प्लक्ष इति। इहोभयं प्राप्नोति--कृतः कटो भीष्मः उदारः शोभनो दर्शनीय इति। प्रथमा भविष्यति विप्रतिषेधेन।।
(हेत्वन्तरबाधकभाष्यम्)
न सिध्यति। परत्वात् षष्ठी प्राप्नोति।।
(हेत्वन्तरभाष्यम्)
शेषलक्षणा षष्ठी असेषत्वान्न भविष्यति।।
(1468 प्रत्याख्याननिराकरणवार्तिकम् 10 ।।)
- कृत्प्रयोगे तु परं विधानं षष्ठ्यास्तत्प्रतिषेधार्थम्-
(भाष्यम्) कृत्प्रयोगे तु परत्वात्षष्ठी प्राप्नोति। तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। कर्तव्यः कट इति।।
स कथं कर्तव्यः?।
यद्येकत्वादयो विभक्त्यर्थाः।। अथ हि कर्मादयो विभक्त्यर्थाः नार्थोनभिहिताधिकारेण।। अनभिहि ।। 1 ।।
-2-3-2- कर्मणि द्वितीया 430
294 द्वितीयनियमसूत्रम् ।। 2।3।1 आ.2।।
(शेषपूरणाधिकरणम्)
1469 द्वितीयाविधायकवार्तिकम् ।। 1 ।।
समयानिकषाहायोगेषूपसंख्यानम्
(भाष्यम्) समयानिकषाहायोगेषूपसंख्यानं कर्तव्यम्। समया--समया ग्रामम्। समया।। निकषा--निकषा ग्रामम्। निकषा।। हायोगे--हा देवदत्तम्, हा यज्ञदत्तम्।।
(भाष्यम्) अपर आह--
(1470 द्वितीयाविधायकवार्तिकान्तरम् ।। 2 ।।)
- द्वितीयाविधानेऽभितः परितः- समयानिकषाऽध्यधिधिग्योगेषूपसंख्यानम् -
(भाष्यम्) द्वितीयाविधानेऽभितः परितःसमयानिकषाऽध्यधिधिग्योगषूपसंख्यानं कर्तव्यम्। अभितो ग्रामम्। अभितः।। परितो ग्रामम्। परितः।। समया ग्रामम्। समया।। निकषा ग्रामम्। निकषा।। अध्यधि ग्रामम्। अध्यधि।। धिग्जाल्मम्। धिग् वृषलम्। धिग्।।
(भाष्यम्) अपर आह--
(1471 द्वितीयाविधायकवार्तिकान्तरम् ।। 3 ।।)
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते।
उभसर्वःथ्द्य;त्येताभ्यां तसन्ताभ्यां योगे द्वितीया वक्तव्या। उभयतो ग्रामम्। सर्वतो ग्रामम्।। धिग्योगे--धिग् जाल्मम् धिग् वृषलम्।। उपर्यादिषु त्रिष्वाम्रेडितान्तेषु द्वितीया वक्तव्या। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोधो ग्रामम्।। ततोन्यत्रापि दृश्यते। न देवदत्तं प्रति भाति किंचित्। बुभुक्षितं न प्रति भाति किंचित् ।। कर्मणि द्वि।। 2 ।
-2-3-3- तृतीया च होश्छन्दसि 431
(295 द्वितीयातृतीयासूत्रम् ।। 2। 3। 1 आ.3।।)
(प्रयोजनाधिकरणम्)
(प्रत्याख्यानायपूर्वपक्षिणआक्षेपभाष्यम्)
किमर्थमिदमुच्यते?।
(सिद्धान्तिनः सूत्रप्रयोजनभाष्यम्)
तृतीया यथा स्यात्।।
(पूर्वपक्षिणआक्षेपभाष्यम्)
अथ द्वितीया सिद्धा?।
(सिद्धान्तिनः समाधानभाष्यम्)
सिद्धा।। कथम्?। कर्मणि इत्येव।।
(पर्वपक्षिणः सूत्रवैर्यथ्यभाष्यम्)
तृतीयापि सिद्धा।। कथम्? सुपां सुपो भवन्ति() इत्येव
(सिद्धान्तिनःसूत्रसार्थक्यभाष्यम्)
असत्येतस्मिन्--()सुपां सुपो भवन्ति() इति तृतीयार्थोयमारम्भः। यवाग्वाग्निहोत्रं जुहोति।।
(एकदेशिनः पूर्वपक्षिणो वा प्रत्याख्यानभाष्यम्)
एवं तर्हि तृतीयापि सिद्धा।। कथम्?। कर्तृकरणयोः इत्येव।। अयमग्निहोत्रशब्दोस्त्येव ज्योतिषि वर्तते। तद्यथा--अग्निहोत्रं प्रज्वलितमिति।। अस्ति हविषि वर्तते। तद्यथा--अग्निहोत्रं जुहोतीति।। जुहोतिश्चास्त्येव प्रक्षेपणे
वर्तते। अस्ति प्रीणात्यर्थे वर्तते।। तद्यदा तावद्यवागूशब्दात्तृतीया,तदाग्निहोत्रशब्दो ज्योतिषि वर्तते, जुहोतिश्च प्रीणात्यर्थे। तद्यथा--यवाग्वाग्निहोत्रं जुहोति अग्निं प्रीणाति।। यदा यवागूशब्दाद् द्वितीया तदाग्निहोत्रशब्दो हविषि वर्तते जुहोतिश्च प्रक्षेपणे। तद्यथा--यवागूमग्निहोत्रं जुहोति यवागूंहविरग्नौ प्रक्षिपति।। तृतीया च ।। 3 ।।
-2-3-4- अन्तरान्तरेण युक्ते 462
(296 द्वितीयासूत्रम् ।। 2।3।1 आ.4।।)
(अन्तरेणेतिशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--किं ते बाभ्रवशालङ्कायनानामन्तरेम गतेनेति?।।
(समाधानभाष्यम्)
लक्षणप्रतिपदोक्तयो: प्रतिपदोक्तस्यैव ग्रहणम् इति।
अथ वा यद्यपि तावदयमन्तरेणशब्दो दृष्टापचारो निपातश्चानिपातश्च। अयं तु खल्वन्तराशब्दोऽदृष्टापचारः निपात एव। तस्यास्य कोन्यः सहायो द्वितीयो भवितुमर्हति--अन्यदतो निपातात्। तद्यथा--अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते, नाश्वो न गर्दभः ।।
(1472 वार्तिकम् ।। 1 ।।)
- अन्तरान्तरेणयुक्तानामप्रधानवचनम् -
(भाष्यम्) अन्तरान्तरेणयुक्तानामप्रधानग्रहणं कर्त्तव्यम्। अप्रधाने द्वितीया भवतीति वक्तव्यम्। अन्तरा त्वां मां च कमण्डलुरिति कमण्डलोर्द्वितीया मा भूदिति।।
(आक्षेपभाष्यम्)
कः पुनरेताभ्यां कमण्कण्डलोर्योगः?।
(समाधानभाष्यम्)
यत्तत्त्वां च मां चान्तरा तत्कमण्डलोः स्थानम्।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्।
कमण्डलोर्द्वितीया कस्मान्न भवति?।
उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति।। अन्तरान्तरे ।। 4 ।।
-2-3-5- कालाध्वनोरत्यन्तसंयोगे 463
(कालवाचकाध्ववाचकाभ्यां विभक्तिनियमप्रकरणम्)
(297 द्वितीयासूत्रम् ।। 2।3।1 आ.5)
(कालाध्वनोरुक्ततया प्रथमासाधनाधिकरणम्)
(1473 वार्तिकम् ।। 1 ।।)
- अत्यन्तसंयोगे कर्मवल्लाद्यर्थम् -
(भाष्यम्) अत्यन्तसंयोगे कालाध्वानौ कर्मवद्भवत इति वक्तव्यम्। किं प्रयोजनम्? लाद्यर्थम्। लादिभिरभिधानं यथा स्यात्--(लादिभिरभिहिते द्वितीया मा भूत्) आस्यते मासः, शय्यते क्रोशः।।
अथ वत्करणं किमर्थम्?। स्वाश्रयमपि यथा स्यात्--आस्यते मासम्, शय्यते क्रोशम्, अकर्मकाणां भावे लो भवतीति भावे लो यथा स्यात्।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।
(समाधानभाष्यम्)
न वक्तव्यम्। प्राकृतमेवैतत् कर्म। यथा कटं करोति शकटं करोतीति।।
(एकदेशिभाष्यम्)
एवं मन्यते--यत्र कश्चित्क्रियाकृतो विशेष उपजायते, तन्न्याय्यं कर्मेति। न चेह कश्चित्क्रियाकृतो विशेष
उपजायते।।
(सिद्धान्तिभाष्यम्)
नैवं शक्यम्। इह हि दोषः स्यात्--आदित्यं पश्यति, हिमवन्तं श्रृणोति, ग्रामं गच्छतीति। तस्मात्प्राकृतमेवैतत्कर्म। यथा--कटं करोति, शकटं करोतीति।।
(आक्षेपभाष्यम्)
यदि तर्हि प्राकृतमेवैतत्कर्म, अकर्मकाणां भावे लो भवतीति भावे लो न प्राप्नोति--आस्यते मासं देवदत्तेनेति?।।
(तृतीयाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। अकर्मकाणामित्युच्यते। न च केचित्कालभावादिभिरकर्मकाः। त एवं विज्ञास्यामः--क्वचिद्ये अकर्मका इति।।
अथ वा येन कर्मणा सकर्मकाश्चाकर्मकाश्च भवन्ति तेनाकर्मकाणाम् न चैतेन कर्मणा कश्चिदप्यकर्मकः।।
अथ वा यत्कर्म भवति, न च भवति, तेनाकर्मकाणाम् न चैतत्कर्म क्वचिदपि न भवति।।
(सूत्रस्थापनाधिकरमम्)
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं सूत्रं वक्तव्यम्?।।
(समाधानभाष्यम्)
वक्तव्यं च।। किं प्रयोजनम्?। यत्राक्रिययात्यन्तसंयोगः तदर्थम्--क्रोशं कुटिला नदी, क्रोशं रमणीया वनराजिः।। कालाध्वनोः ।। 5 ।।
-2-3-6- अपवर्गे तृतीया 464
(298 द्वितीयाबाधकतृतीयासूत्रम् ।। 2।3।1 आ.6)
(अनिष्टापत्तिवारणाधिकरणम्)
(1474 नियमवार्तिकम् 1)
(- क्रियापवर्गे -)
(भाष्यम्) क्रियाऽपवर्ग इति वक्तव्यम्। साधनापवर्गे मा भूद्--मासमधीतोनुवाको न चानेन गृहीत इति।। अपवर्गे ।। 6 ।।
-2-3-7- सप्तमीपञ्ञ्चम्यौ कारकमध्ये 465
(299 सप्तमीपञ्ञ्चमीसूत्रम् ।। 2।3।1 आ.7।।)
(न्यूनतपूर्त्यधिकरणम्)
(1475 विवक्षितपूर्ति वार्तिकम् 1)
( - क्रियामध्ये -)
(भाष्यम्) क्रियामध्य इति वक्तव्यम्। इहापि यथा स्यात्--अद्य देवदत्तो भुक्त्वा द्व्यहाद्भोक्ता, द्व्यहे भोक्ता।। कारकमध्य इतीयत्युच्यमाने इहैव स्यात्--इहस्थोयमिष्वासः क्रोशाल्लक्ष्यं विध्यति, क्रोशे लक्ष्यं विध्यति। यं च विध्यति यतश्च विध्यति तयोस्तन्मध्यं भवति।।
(तृतीयाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। नान्तरेण साधनं क्रियायाः प्रवृत्तिर्भवति। क्रियामध्यं चेत्कारकमध्यमपि भवति। तत्र
कारकमध्ये इत्येव सिद्धम्।। सप्तमीपञ्ञ्चम्यौ ।। 7 ।।
-2-3-8- कर्मप्रवचनीययुक्ते द्वितीया 466
(कर्मप्रवचनीययोगे विभक्तिनियमप्रकरणम्)
(300 द्वितीयासूत्रम् ।। 2। 3। 1 आ. 8 ।।
(अर्थनियमाधिकरणम्)
(1476 अर्थनियमवार्तिकम् 1)
- कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम् -
(भाष्यम्) कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं कर्तव्यम्। वृक्षं प्रति विद्योतते विद्युत्, वृक्षं परि विद्योतते विद्युत्, वृक्षमनु विद्योतते विद्युत्। साधुर्देवदत्तो मातरं प्रति। साधुर्देवदत्तो मातरं परि। साधुर्देवदत्तो मातरमनु।। किं प्रयोजनम्?। सप्तमीपञ्ञ्चम्योः प्रतिषेधार्थम्। सप्तमीपञ्ञ्चम्यौ मा भूतामिति। साधुनिपुणाभ्यामर्चायां सप्तमी इति सप्तमी, पञ्ञ्चम्यपाङ्परिभिः इति पञ्ञ्चमी। तत्रायमप्यर्थः--अप्रतेरिति न वक्तव्यं भवति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्।। उक्तं वा। किमुक्तम्?। एकत्र तावदुक्तम्--अप्रतेरिति।। इतरत्रापि--यद्यपि तावदयं परिर्दृष्टापचारो वर्जने चावर्जने च। अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थ एव। तस्य कोन्यो द्वितीयः सहायो भवितुमर्हति--अन्यदतो वर्जनार्थात्। तद्यथा--अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभः।। कर्मप्रवचनीययु ।। 8 ।।
-2-3-9- यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी 467
(301 कर्मप्रवचनीये सप्तमीसूत्रम् ।। 2। 3। 1 आ. 9)
(इर्श्वरवचनशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
कथमिदं विज्ञायते--यस्य चैश्वर्यमीश्वरता इर्श्वरभावस्तस्मात्कर्मप्रवचनीययुक्तादिति। आहोस्विद् यस्य
स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति?।
(भाष्यम्) कश्चात्र विशेषः?।।
(1477 प्रथमपक्षदूषणवार्तिकम् 1)
- यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम् -
(भाष्यम्) यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदन्तरेण वचनं सिद्धम्। अधि ब्रह्मदत्ते पञ्ञ्चालाः। आधृतास्ते तस्मिन् भवन्ति। सत्यमेवमेतत्--नित्यं परिग्रहीतव्यं परिग्रहीत्रधीनं भवति।।
(1478 द्वितीयदूषणवार्तिकम् ।। 2 ।।)
- प्रथमानुपपत्तिस्तु -
(भाष्यम्) प्रथमा नोपपद्यते।। कुतः?। पञ्ञ्चालेभ्यः।।
(आक्षेपभाष्यम्)
का तर्हि स्यात्?।।
(समाधानभाष्यम्)
षष्ठीसप्तम्यौ स्वामीश्वराधिपतिदायाद् इति।।
(बाधकभाष्यम्)
न तत्राधिशब्दः पठ्यते।।
(साधकभाष्यम्)
यद्यपि न पठ्यते। अधिरीश्वरवाची।।
(बाधकभाष्यम्)
न तत्र पर्यायवचनानां ग्रहणं भवति।। कथं ज्ञायते?। यदयं कस्य चित्पर्यायवचनस्य ग्रहणं करोति--अधिपतिदायाद इति।
(समाधानान्तरभाष्यम्)
षष्ठी तर्हि प्राप्नोति।
(बाधकभाष्यम्)
शेषलक्षणा षष्ठी; अशेषत्वान्न भविष्यति।।
(समाधानान्तरभाष्यम्)
द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति।।
(बाधकभाष्यम्)
सप्तम्योक्तत्वात्तस्यार्थस्य द्वितीया न भविष्यति।।
(साधकभाष्यम्)
भवेद्योऽधेर्ब्रह्मदत्तस्य चाभिसंबन्ध: स सप्तम्योक्तः स्यात्। यस्तु खल्वधेः पञ्ञ्चालानां चाभिसंबन्धस्तत्र द्वितीया प्राप्नोति।।
(1479 शेषपूर्तिवार्तिकम् ।। 3 ।।)
- स्ववचनात्तु सिद्धम् -
(भाष्यम्) अस्तु--यस्य स्वस्येश्वरस्तस्मात्कर्मप्रवचनीययुक्तादिति।।
(स्वस्मिन्नपि सप्तमीविधानानर्थक्याक्षेपभाष्यम्)
एवमप्यन्तरेण वचनं सिद्धम्। अधि ब्रह्मदत्तः पञ्ञ्चालेषु--आधृतः स तेषु भवति। सत्यमेवमेतत्--नित्यं परिग्रहीता परिग्रहीतव्याधीनो भवति।।
(द्वितीयदूषणभाष्यम्)
प्रथमानुपपत्तिस्तु।।
प्रथमा तु नोपपद्यते।। कुतः?। ब्रह्मदत्तात् ।।
(प्रत्याक्षेपभाष्यम्)
का तर्हि स्यात्?।
(समाधानभाष्यम्)
षष्ठीसप्तम्यौ--स्वामीस्वराधिपतिदायाद-- इति।।
(समाधानबाधकभाष्यम्)
न तत्राधिशब्द: पठ्यते
(समाधानसाधकभाष्यम्)
यद्यपि न पठ्यते। अधिरीश्वरवाची।।
(समाधानबाधकभाष्यम्)
न तत्र पर्यावचनानां ग्रहणं भवति।। कथं ज्ञायते?। यदयं कस्यचित्पर्यायवचनस्य ग्रहणं करोति--अधिपतिदायाद--इति।।
(समाधानसाधकभाष्यम्)
शेषलक्षणा षष्ठी, अशेषत्वान्न भविष्यति।।
(समाधानसाधकभाष्यम्)
द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति।।
(समाधानबाधकभाष्यम्)
सप्तम्योक्तत्वात्तस्याभिसंबन्धस्य द्वितीया न भविष्यति।।
(प्रत्याक्षेपसमाधानसाधकभाष्यम्)
भवेद्योधेः पञ्ञ्चालानां चाभिसंबन्धः स सप्तम्योक्तः स्यात्। यस्तु खल्वधेर्ब्रह्मदत्तस्य चाभिसंबन्धः तत्र द्वितीया प्राप्नोति।।
(व्याख्यानान्तरभाष्यम्)
एवं तर्हि--
स्ववचनात्तु सिद्धम्()इति।
अधिः स्वं प्रति कर्मप्रवचनीयसंज्ञो भवतीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
एवमपि यदा ब्रह्मदत्तेधिकरणे सप्तमी तदा पञ्ञ्चालेभ्यो द्वितीया प्राप्नोति (कथम्?।) कर्मप्रवचनीययुक्ते द्वितीया इति।।
(समाधानभाष्यम्)
उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यतिं।। यस्मादधिकम् ।। 9 ।।
-2-3-12- गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि 470
302 द्वितीयाचतुर्थीसूत्रम् ।। 2।3।1 आ.10)
(अनुपपत्तिवारणाधिकरणम्)
(1480 पर्यायग्राहकवार्तिकम् ।। 1 ।।)
- अध्वन्यर्थग्रहणम् -
(भाष्यम्) अध्वन्यर्थग्रहणं कर्तव्यम्। इह मा भूत्--पन्थानं गच्छति, वीवधं गच्छतीति।।
(1481 नियमवार्तिकम् ।। 2 ।।)
- आस्थितप्रतिषेधश्च -
(भाष्यम्) आस्थितप्रतिषेधश्चायं वक्तव्यः। यो ह्युत्पथेन पन्थानं गच्छति, पथे गच्छति इत्येव तत्र भवितव्यम्।।
(सूत्रप्रयोजनाधिकरणम्)
(पूर्वपक्षिणआक्षेपभाष्यम्)
किमर्थं पुनरिदमुच्यते?।
(समाधानभाष्यम्)
चतुर्थी यथा स्यात्।।
(आक्षेपभाष्यम्)
अथ द्वितीया सिद्धा?।।
(समाधानभाष्यम्)
सिद्धा कर्मणि इत्येव।।
(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)
चतुर्थ्यपि सिद्धा।। कथम्?। संप्रदाने इत्येव।।
(आक्षेपबाधकभाष्यम्)
न सिध्यति। कर्मणायमभिप्रैति स संप्रदानम् इत्युच्यते। क्रियया चासौ ग्राममभिप्रैति।। कया क्रियया?। गमिक्रियया।।
(पूर्वपक्ष्याक्षेपसाधकभाष्यम्)
क्रियाग्रहणमपि तत्र चोद्यते।।
(सूत्रारम्भे दोषवारणाधिकरणम्)
(1482 पूर्वपक्षवार्तिकम् ।। 3 ।।)
- चेष्टायामनध्वनि स्त्रियं गच्छत्यजां नयतीत्यतिप्रसङ्गः -
(भाष्यम्) चेष्टायामनध्वनीति स्त्रियं गच्छति अजां नयति इत्यतिप्रसङ्गो भवति।।
(1483 समाधानवार्तिकम् ।। 4 ।।)
- सिद्धं त्वसंप्राप्तवचनात् -
(भाष्यम्) सिद्धं त्वसंप्राप्तवचनात् -
(भाष्यम्) सिद्धमेतत्।। कथम्?। असंप्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवत इति वक्तव्यम्।।
(1484 लाघवप्रदर्शकवार्तिकम् ।। 5 ।।)
- अध्वनश्चानपवादः -
(भाष्यम्) एवं च कृत्वा अनध्वनीत्येतदपि न वक्तव्यं भवति। संप्राप्तं ह्येतत्कर्माध्वानं गच्छतीति ।। गत्यर्थ ।। 12 ।।
-2-3-13- चतुर्थी सम्प्रदाने 471
(303 चतुर्थीसूत्रम् ।। 2।3।13।। आ)
(न्यूनतापूर्त्यधिकरणम्)
(न्यूनतापूरकवार्तिकम् ।। 1 ।।)
(1485 न्यूनतापूरकवार्तिकम् ।। 1 ।।)
- चतुर्थीविधाने तार्दथ्य उपसंख्यानम् -
(भाष्यम्) चतुर्थीविधाने तार्दथ्ये उपसंख्यानं कर्तव्यम्। यूपाय दारु, कुण्डलाय हिरण्यमिति।।
(आक्षेपभाष्यम्)
किमिदं तार्दथ्यमिति?।।
(समाधानभाष्यम्)
तदर्थस्य भाव: तार्दथ्यम्
(आक्षेपभाष्यम्)
तदर्थं पुनः किम्?।।
(समाधानभाष्यम्)
सर्वनाम्नोयं चतुर्थ्यन्तस्यार्थशब्देन सह समासः।।
(आक्षेपभाष्यम्)
कथं चात्र चतुर्थी?।।
(आक्षेपसाधकभाष्यम्)
यद्येवम्, इतरेतराश्रयं भवति।। केतरेतराश्रयता?। निर्देशोत्तरकालं चतुर्थ्या भवितव्यम्। चतुर्थ्या च निर्देशः। तदेतदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते।।
(तृतीयाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् ?।।
(समाधानभाष्यम्)
न वक्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति--भवति ह्यर्थशब्देन योगे चतुर्थी इति, यदयं चतुर्थी तदर्थार्थ-- इति चतुर्थ्यन्तस्यार्थशब्देन सह समासं शास्ति।।
न खल्वप्यवश्यं चतुर्थ्यन्तस्यैवार्थशब्देन समासो भवति।। किं तर्हि?। षष्ठ्यन्तस्यापि भवति। तद्यथा--गुरोरिदं गुर्वर्थमिति।।
(आक्षेपभाष्यम्)
यदि तार्दथ्ये उपसंख्यानं क्रियते नार्थः संप्रदानग्रहणेन। यो ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। तत्र तार्दथ्य इत्येव सिद्धम्।।
(समाधानभाष्यम्)
अवश्यं संप्रदानग्रहणं कर्तव्यम्। याऽन्येन लक्षणेन संप्रदानसंज्ञा तदर्थम्--छात्राय रुचितं छात्राय स्वदितमिति।
(आक्षेपभाष्यम्)
तत्तर्ह्युपसंख्यानं कर्तव्यम्?।।
(समाधानभाष्यम्)
न कर्तव्यम्। आचार्यप्रवृत्तिर्ज्ञापयति--भवति तार्दथ्ये चतुर्थी इति। यदयं चतुर्थी तदर्थार्थ-- इति चतुर्थ्यन्तस्य तदर्थेन सह समासं शास्ति।।
(1486 चतुर्थीविधानवार्तिकम् ।। 2 ।।)
- क्लृपिसंपद्यमाने -
(भाष्यम्) क्लृपिसंपद्यमाने चतुर्थी वक्तव्या। मूत्राय कल्पते यवागूः। उच्चाराय यवान्नमिति।
(1487 चतुर्थीविधानवार्तिकम् ।। 3 ।।)
- उत्पातेन ज्ञाप्यमाने -
(भाष्यम्) उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या।
वाताय कपिला विद्युदातपायातिलोहिनी।
(कृष्णा सर्वविनाशाय दुर्भिक्षाय सिता भवेत्।। )
मांसौदनाय व्याहरति मृगः।।
(1488 चतुर्थीविधानवार्तिकम् ।। 4 ।।)
- हितयोगे च -
(भाष्यम्) हितयोगे चतुर्थी वक्तव्या। हितमरोचकिने हितमामयाविने।। चतुर्थी सं ।। 13 ।।
-2-3-16- नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च 474
(304 उपपदचतुर्थीसूत्रम् ।। 2।3।1 आ 12)
(अनिष्टवारणाधिकरणम्)
(1489 विकल्पवारणवार्तिकम् ।। 1 ।।)
- स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानात् -
(भाष्यम्) स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानाद् भवति विप्रतिषेधेन। स्वस्तियोगे चतुर्थ्या अवकाशः--स्वस्ति जाल्माय स्वस्ति वृषलाय। कुशलार्थैराशिषि वाविधानस्यावकाशः--अन्ये कुशलार्थाः--कुशलं देवदत्तस्य कुशलं देवदत्ताय। इहोभयं प्राप्नोति--स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्य इति। चतुर्थी भवति विप्रतिषेधेन
।।
(1490 नियमवार्तिकम् ।। 2 ।।)
- अलमिति पर्याप्त्यर्थग्रहणम् -
(भाष्यम्) अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम्। इह माभूत्--अलं कुरुते कन्यामिति।।
अपर आह--अलमिति पर्याप्त्यर्थग्रहणं कर्तव्यम्। इहापि यथा स्यात्--अलं मल्लो मल्लाय, प्रभुर्मल्लो मल्लाय, प्रभवति मल्लो मल्लायेति। नमः स्वस्ति ।। 16 ।।
-2-3-17- मन्यकर्मण्यनादरे विभाषाऽप्राणिषु 475
(305 कारकचतुर्थीसूत्रम् ।। 2।3।1 आ 13)
(इष्टोपपादनाधिकरणम्)
(आक्षेपभाष्यम्)
अप्राणिष्वित्युच्यते तत्रेदं न सिध्यति--न त्वा श्वानं मन्ये, न त्वा शुने मन्ये इति।।
(समाधानभाष्यम्)
एवं तर्हि योगविभागः करिष्यते--मन्यकर्मण्यनादरे विभाषा ततः अप्राणिषु अप्राणिषु च विभाषेति।
(आक्षेपभाष्यम्)
इहापि तर्हि प्राप्नोति--न त्वा काकं मन्ये, न त्वा शुकं मन्य इति।।
(समाधानभाष्यम्)
यदेतद् अप्राणिषु इति, एतद्, अनावादिषु इति वक्ष्यामि। इमे च नावादयो भविष्यन्ति। न त्वा नावं मन्ये यावत्तीर्णं न नाव्यम्। न त्वान्नं मन्ये यावद् भुक्तं न श्राद्धमिति। अत्र येषु प्राणिषु नेष्यते ते नावादयो भविष्यन्ति।।
(1491 वार्तिकम् ।। 1 ।।)
- मन्यकर्मणि प्रकृष्य कुत्सितग्रहणम् -
(व्याक्याभाष्यम्)
मन्यकर्मणि प्रकृष्य कुत्सितग्रहणं कर्तव्यम्। इह मा भूत्--त्वां तृणं मन्य इति।। मन्यकर्म ।। 17 ।।
इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्।।
-2-3-18- कर्तृकरणयोस्तृतीया 476
द्वितीयाध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ।।
(तृतीयाप्रकरणम्)
(306 कारकतृतीयासूत्रम् ।। 2।3।2 आ.1)
(न्यूनतापूरणाधिकरणम्)
(1492 तृतीयाविधानवार्तिकम् ।। 1 ।।
- तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम् -
(भाष्यम्) तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानं कर्तव्यम्। प्रकृत्याभिरूपः। प्रकृत्या दर्शनीयः। प्रायेण याज्ञिकाः।
प्रायेण वैयाकरणाः। माठारोस्मि गोत्रेण। गार्ग्योस्मि गोत्रेण। समेन धावति। विषमेण धावति। द्विद्रोणेन धान्यं
क्रीणाति त्रिद्रोणेन धान्यं क्रीणाति। पञ्ञ्चकेन पशून् क्रीणाति। साहस्रेणाश्वान् क्रीणाति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(वार्तिकप्रत्याख्यानभाष्यम्)
न वक्तव्यम्। कर्तृकरणयोस्तृयीया इत्येव सिद्धम्।। इह तावत्--प्रकृत्याभिरूपः, प्रकृत्या दर्शनीय इति। प्रकृतिकृतं तस्याभिरूप्यम्।। प्रायेण याज्ञिकाः प्रायेण वैयाकरणा इति। एष तत्र प्रायः येन तेऽधीयते।। माठरोस्मि गोत्रेण गार्ग्योस्मि गोत्रेणेति। एतेनाहं संज्ञाये।। समेन धावति विषमेण धावतीति। इदमत्र प्रयोक्तव्यं सन्न
प्रयुज्यते--समेन पथेति।। द्विद्रोणेन धान्यं क्रीणातीति। अत्रापि तार्दथ्यात्ताच्छब्द्यम्। द्विद्रोणार्थं द्विद्रोणम् द्विद्रोणेन हिरण्येन धान्यं क्रीणातीति।। पञ्ञ्चकेन पशून् क्रीणातीति। अत्रापि तार्दथ्यात्ताच्छब्द्यम् पञ्ञ्चपश्वर्थः पञ्ञ्चकः। पञ्ञ्चकेन पशून् क्रीणातीति। साहस्रेणाश्वान् क्रीणातीति। सहस्रपरिमाणं साहस्रं साहस्रेण हिरण्येनाश्वान् क्रीणातीति।। कर्तृकरण ।। 18 ।।
-2-3-19- सहयुक्तेऽप्रधाने 477
(307 उपपदतृतीयासूत्रम् ।। 2।3।2 आ. 2)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम्?।।
(समाधानभाष्यम्)
तिलैः सह माषान्वपतीति।।
(समाधानबाधकभाष्यम्)
तिलैर्मिश्रीकृत्य माषा उप्यन्ते। तत्र करणे इत्येव सिद्धम्।।
(समाधानान्तरभाष्यम्)
इदं तर्हि--पुत्रेण सहागतो देवदत्त इति। अप्रधाने कर्तरि तृतीया यथा स्यात्।।
(समाधानबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। प्रधाने कर्तरि लादयो भवन्तीति प्रधा1नकर्ता क्तेनाभिधीयते। यश्चाप्रधानं सिद्धा तत्र कर्तरि इत्येव तृतीया।।
(समाधानान्तरभाष्यम्)
इदं तर्हि--पुत्रेण सहागमनं देवदत्तस्येति।
(समाधानबाधकभाष्यम्)
षष्ठ्यत्र बाधिका भविष्यति।।
(समाधानान्तरभाष्यम्)
इदं तर्हि--पुत्रेण सह स्थूलः। पुत्रेण सह पिङ्गल इति।
(पूर्वोक्तोदाहरणाभ्युपगमभाष्यम्)
इदं चाप्युदाहरणम्--तिलैः सह माषान्वपतीति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--तिलैर्मिश्रीकृत्य माषा उप्यन्ते तत्र करण इत्येव सिद्धम्-इति।
(समाधानभाष्यम्)
भवेत्सिद्धं यदा तिलैर्मिश्रीकृत्योप्येरन्। यदा तु खलु कस्य चिन्माषबीजावाप उपस्थितः तदर्थं च क्षेत्रमुपार्जितम् तत्रान्यदपि किंचिदुप्यते--यदि भविष्यति भविष्यतीति तदा न सिध्यति।।
(1493 सूत्रप्रत्याख्यानवार्तिकम् ।। 1 ।।)
- सहयुक्तेऽप्रधानवचनमनर्थकमुपपदविभक्ते: कारकविभक्तिबलीयस्त्वादन्यत्रापि । ()।
(भाष्यम्) सह युक्तेऽप्रधानवचनमनर्थकम्।। किं कारणम्?। उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात्। अन्यत्रापि उपपदविभक्तेः कारकविभक्तिर्बलीयसीःथ्द्य;ति प्रथमा भवति। एवमत्रापि उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति।। क्वान्यत्र?। गाः स्वामी व्रजतीति।। सह युक्ते ।। 19 ।।
-2-3-20- येनाङ्गविकारः 478
(308 तृतीयानियमसूत्रम् ।। 2।3।2 आ.3)
(अङ्गशब्दस्यावयविपरत्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति -- अक्षि काणमस्येति?।।
(1494 समाधानवार्तिकम् ।। 1 ।।)
- अङ्गाद्विकृतात्तद्विकारश्चेदङि्गनो वचनम् -
(भाष्यम्) अङ्गाद्विकृतात्तृतीया वक्तव्या तेनैव चेद्विकारेणाङ्गी द्योत्यत इति तेनैव चेद्विकारेणाङ्गी द्योत्यत इति
वक्तव्यम्।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। अङ्गशब्दोयं समुदायशब्दः। येनेति च करणे एषा तृतीया। येनावयवेन समुदायोङ्गी
द्योत्यते तस्मिन् भवितव्यम्। न चैतेनावयवेन समुदायो द्योत्यते।। येनाङ्ग ।। 20 ।।
-2-3-21- इत्थंभूतलक्षणे 479
(309 तृतीयानियमसूत्रम् ।। 2।3। 2। आ.4)
(समासान्तर्गतात्तृतीयावारणाधिकरणम्।
(1495 आक्षेपवार्तिकम् ।। 1 ।।)
- इत्थंभूतलक्षणे तत्स्थे प्रतिषेधः -
(भाष्यम्) इत्थंभूतलक्षणे तत्स्थे प्रतिषेधो वंक्तव्यः। अपि भवान्कमण्डलुपाणिं छात्रामद्राक्षीदिति।।
(1496 समाधानवार्तिकम् ।। 2 ।।)
- न वेत्थंभूतस्य लक्षणेनापृथग्भावात् -
(भाष्यम्) न वा वक्तव्यम्?। किं कारणम्। इत्थं भूतस्य लक्षणेनापृथग्भावात्। यत्रेत्थं भूतस्य पृथग्भूतं लक्षणं तत्र भवितव्यम्। न चात्रेत्थंभूतस्य पृथग्भूतं लक्षणम्।।
(आक्षेपभाष्यम्)
किं वक्तव्यमेतत्?।।
(समाधानभाष्यम्)
नहि।। कथमनुच्यमानं गंस्यते? तथा त्द्ययं प्राधान्येन लक्षणं प्रतिनिर्दिशति--इत्थंभूतस्य
लक्षणमित्थंभूतलक्षणं तस्मिन्नित्थंभूतलक्षण इति।। इत्थंभूत ।। 21 ।।
-2-3-22- संज्ञोन्यतरस्यां कर्मणि 480
(310 तृतीयासूत्रम् ।। 2।3।2 आ.5)
(विप्रतिषेधाधिकरणम्)
(1497 वार्तिकम् ।। 1 ।।)
- संज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन-
(भाष्यम्) संज्ञोन्यतरस्यां कर्मणि इत्येतस्मात्कृद्योगे षष्ठी भवति विप्रतिषेधेन। संज्ञोन्यतरस्याम्
इत्यस्यावकाशः--मातरं संजानीते मात्रा संजानीते। कृत्प्रयोगे षष्ठ्या अवकाशः--इध्मप्रव्रश्चनः पलाशशातनः।
इहोभयं प्राप्नोति--मातुः संज्ञाता पितुः संज्ञाता इति। षष्ठी भवति विप्रतिषेधेन।।
(1498 वार्तिकम् ।। 2 ।।)
- उपपदविभक्तेश्चोपपदविभक्तिः -
(भाष्यम्) उपपदविभक्तेश्चोपपदविभक्तिर्भवति विप्रतिषेधेन। अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते
इत्यस्यावकाशः--अन्यो देवदत्तात्। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्यस्यावकाशः--गोषु स्वामी गवां स्वामी। इहोभयं प्राप्नोति--अन्यो गोषु स्वामी अन्यो गवां स्वामी। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्येतद्भवति विप्रतिषेधेन।।
(बाधकभाष्यम्)
नैष युक्तो विप्रतिषेधः। नह्यत्र गावोऽन्ययुक्ताः।। कस्तर्हि?। स्वामी।।
(वार्तिकोदाहरणान्तरभाष्यम्)
एवं तर्हि तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् इत्यस्यावकाशः--तुल्यो देवदत्तस्य। तुल्योदेवदत्तेन। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च इत्यस्यावकाशः--स एव। इहोभयं प्राप्नोति--तुल्यो गोभिः स्वामी
तुल्यो गवां स्वामी। तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् इत्येतद्भवति विप्रतिषेधेन।। संज्ञोन्य ।। 22 ।।
-2-3-23- हेतौ 481
(311 उपपदतृतीयासूत्रम् ।। 2।3।2 आ.6)
(1499 वार्तिकम् ।। 1 ।।)
- निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् -
(भाष्यम्) निमित्तकारणहेतुषु सर्वाः प्रायेण दृश्यन्त इति वक्तव्यम्। किं निमित्तं वसति। केन निमित्तेन वसति।
कस्मै निमित्ताय वसति। कस्मान्निमित्ताद्वसति। कस्य निमित्तस्य वसति। कस्मिन्निमित्ते वसति। किं कारणं वसति। केन कारणेन वसति। कस्मै कारणाय वसति। कस्मात्कारणाद्वसति। कस्य कारणस्य वसति। कस्मिन्कारणे
वसति। को हेतुर्वसति। किं हेतुं वसति। केन हेतुना वसति कस्मै हेतवे वसति। कस्माद्धेतोर्वसति। कस्य
हेतोर्वसति। कस्मिन्हेतौ वसति।। हेतौ ।। 23 ।।
-2-3-28- अपादाने पञ्ञ्चमी 486
(312 कारकपञ्ञ्चमीसूत्रम् ।। 2।3।2 आ. 7 ।।)
(न्यूनतावारणाधिकरणम्)
(1500 वार्तिकम् ।। 1 ।।
- पञ्ञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम् -
(भाष्यम्) पञ्ञ्चमीविधाने ल्यब्लोपे कर्मणि पञ्ञ्चम्या उपसंख्यानं कर्तव्यम्। प्रासादमारुह्यप्रेक्षते--प्रासादात्प्रेक्षते।।
(1501 वार्तिकम् ।। 2 ।।)
- अधिकरणे च -
(भाष्यम्) अधिकरणे चोपसंख्यानं कर्तव्यम्। आसनात्प्रेक्षते। शयनात्प्रेक्षते।।
(1502 वार्तिकम् ।। 3 ।।)
- प्रश्नाख्यानयोश्च -
(भाष्यम्) प्रश्नाख्यानयोश्च पञ्ञ्चमी वक्तव्या। कुतो भवान्?। पाटलिपुत्रात्।।
(1503 वार्तिकम् ।। 4 ।।)
- यतश्चाध्वकालनिर्माणम् -
(भाष्यम्) यतश्चाध्वकालनिर्माणं ततः पञ्ञ्चमी वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि।। कार्तिक्या आग्रहायणी मासे।।
(1504 वार्तिकम् ।। 5 ।।)
- तद्युक्तात्काले सप्तमी -
(भाष्यम्) तद्युक्तात्काले सप्तमी वक्तव्या। कार्तिक्या आग्रहायणी मासे।।
(1505 वार्तिकम् ।। 6 ।।)
- अध्वनः प्रथमा च -
(भाष्यम्) अध्वनः प्रथमा च सप्तमी च वक्तव्या। गवीधुमतः सांकाश्यं चत्वारि योजनानि। गवीधुमतः सांकाश्यं
चतुर्षु योजनेषु।।
(आक्षेपभाष्यम्)
तत्तर्हीदं बहु वक्तव्यम्?।।
(प्रथमद्वितीयवार्तिकप्रत्याख्यानभाष्यम्)
(भाष्यम्) न वक्तव्यम्।आपादाने इत्येव सिद्धम्। इह तावत्प्रासादात्प्रेक्षते शयनात्प्रेक्षते इति, अपक्रामति तत्तस्माद्दर्शनम्।। यद्यपक्रामति किं नात्यन्तायापक्रामति? संततत्वात्।। अथ वान्यान्यप्रादुर्भावात्। अन्या चान्या च प्रादुर्भवति।।
(तृतीयवार्तिकप्रत्याख्यानभाष्यम्)
प्रश्नाख्यानयोश्च पञ्ञ्चमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते--कुतो भवानागच्छतीति,
पाटलिपुत्रादागच्छामीति।।
(चतुर्थवार्तिकप्रत्याख्यानभाष्यम्)
यतश्चाध्वकालनिर्माणं तत्र पञ्ञ्चमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते--गवीधुमतो निः-सृत्य
सांकाश्यं चत्वारि योजनानि। कार्तिक्या आग्रहायणी मासे इति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते-- कार्तिक्याः
प्रभृत्याग्रहायणी मास इति।।
(पञ्ञ्चमवार्तिकप्रत्याख्यानभाष्यम्)
तद्युक्तात्काले सप्तमी वक्तव्येति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते--कार्तिक्याः प्रभृति आग्रहायणी गते मास
इति।।
(षष्ठवार्तिकप्रत्याख्यानभाष्यम्)
अध्वनः प्रथमा च सप्तमी चेति। इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते--गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति, ततः सांकाश्यम्। चतुर्षु योजनेषु गतेषु ततः सांकाश्यमिति।। अपादाने ।। 28 ।।
-2-3-29- अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते 487
(313 उपपदपञ्ञ्चमीसूत्रम् ।। 2।3। 2 आ.8 ।।)
(आक्षेपभाष्यम्)
अञ्ञ्चूत्तरपदग्रहणं किमर्थम्। न दिक्शब्दैर्योग इत्येव सिद्धम् ?।।
(समाधानभाष्यम्)
षष्ठ्यतसर्थप्रत्ययेन इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः।। अन्यारा ।। 29 ।।
-2-3-30- षष्ठ्यतसर्थप्रत्ययेन 488
(314 उपपदविभक्तिसूत्रम् ।। 2।3।2 आ.9 ।।)
(पदकृत्याधिकरणम्)
(आक्षेपभाष्यम्)
अर्थग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
षष्ठ्यतस्प्रत्ययेन इत्युच्यमाने इहैव स्यात्--दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्येति, इह न स्यात्--उपरि ग्रामस्य उपरिष्टाद् ग्रामस्येति। अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धं भवति--यश्चान्यस्तेन समानार्थः।।
(आक्षेपभाष्यम्)
अथ प्रत्ययग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
इह मा भूत--प्राग्ग्रामात्, प्रत्यग्ग्रामात्।।
(उपसंहारभाष्यम्)
अञ्ञ्चूत्तरपदस्याप्येतत्प्रयोजनमुक्तम्। तत्रान्यतरच्छक्यमवक्तुम्।। षष्ठ्यतस ।। 30 ।।
-2-3-32- पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् 490
(315 उपपदतृतीयापञ्ञ्चमीसूत्रम् ।। 2।3।2 आ.10)
(पञ्ञ्चमीसाधनाधिकरणम्)
(1506 वार्तिकप्रथमखण्डम्।। 1 ।।)
- पृथगादिषु पञ्ञ्चमीविधानम् -
(भाष्यम्) पृथगादिषु पञ्ञ्चमी विधेया--पृथग् देवदत्तात्।।
(आक्षेपभाष्यम्)
किमर्थं न प्रकृतं पञ्ञ्चमीग्रहणमनुवर्तते?। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति।।
(1507 वार्तिकद्वितीयखण्डम् ।। 2 ।।)
- अनधिकारात् -
अनधिकारः सः।।
(1508 वार्तिकतृतीयखण्डम् ।। 3 ।।)
- अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः -
(भाष्यम्) अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधो वक्तव्यः स्यात्। दक्षिणेन ग्रामम्, दक्षिणतो ग्रामस्येति।।
(वार्तिकप्रत्याख्यानभाष्यम्)
एवं तर्हि--अन्यतरस्यांग्रहणसार्मथ्यात्पञ्ञ्चमी भविष्यति।।
(सार्मथ्यनिराकारणभाष्यम्)
अस्त्यन्यदन्यतरस्यांग्रहणस्य प्रयोजनम्।। किम्?। यस्यां नाप्राप्तायां तृतीयारभ्यते सा यथा स्यात्।। कस्यां च नाप्राप्तायाम्?। अन्ततः षष्ठ्याम् ।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। अपादाने पञ्ञ्चमी इति।।
(आक्षेपभाष्यम्)
ननु-चेक्तम् अनधिकार: स: ()अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेध:() इति प्र्प्र्
(समाधानभाष्यम्)
एवं तर्हि संबन्धमनुवर्तिष्यते--अपादाने पञ्ञ्चमी। अन्यारादितरर्तेदिक्शब्दाञ्ञ्चूत्तरपदाजाहियुक्ते पञ्ञ्चमी।
षष्ठ्यतसर्थप्रत्ययेन अन्यारादिभिर्योगे पञ्ञ्चमी। एनपाद्वितीया अन्यारादिभिर्योगे पञ्ञ्चमी।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् पञ्ञ्चमीग्रहणमनुवर्तते, अन्यारादिभिर्योगे इति निवृत्तम्।।
(समाधानान्तरभाष्यम्)
अथ वा मण्डूकप्लुतयोधिकाराः। तद्यथा--मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः।।
(भाष्यम्) अथ वा---
(1509 वार्तिकम् 4।।)
()अन्यवचनाच्चकाराकरणात्प्रकृतस्यापवादो विज्ञायते यथोत्सर्गेण प्रसक्तस्य()
(भाष्यम्) अन्यस्या विभक्तेर्वचनाच्चकारस्यानुकर्षणार्थस्याकरणात्प्रकृतायाः पञ्ञ्चम्या द्वितीयाषष्ठ्यौ बाधिके
भविष्यतः। यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति।।
(समाधानान्तरभाष्यम्)
अथ वा वक्ष्यत्येतत्--अनुवर्तन्ते च नाम विधयः। न चानुवर्तनादेव भवन्ति। किं तर्हि? यत्नाद्भवन्ति इति पृथग्विना ।। 32 ।।
-2-3-35- दूरान्तिकार्थेभ्यो द्वितीया च 493
(316 उपपदसूत्रम् ।। 2।3।2 आ.11)
(1510 आक्षेपवार्तिकम् ।। 1।। )
- दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्यक्तात्पञ्ञ्चमीप्रतिषेधः -
(भाष्यम्) दूरान्तिकार्थेभ्यः पञ्ञ्चमीविधाने तद्युक्तात्पञ्ञ्चम्याः प्रतिषेधो वक्तव्यः। दूराद्ग्रामस्य।।
(1511 आक्षेपबाधकवार्तिकम् ।। 2 ।।)
- न वा तत्रापि दर्शनादप्रतिषेधः -
(भाष्यम्) अनर्थकः प्रतिषेधोऽप्रतिषेधः। न वा तत्रापि दर्शनात्पञ्ञ्चम्याः प्रतिषेधोनर्थकः। तत्रापि हि पञ्ञ्चमी
दृश्यते--
दूरादावसथान्मूत्रं दूरात्पादावसेचनम्।।
दूराच्च भाव्यं दस्युभ्यो दूराच्च कुपिताद् गुरोः।।
दूरान्ति ।। 35 ।।
-2-3-36- सप्तम्याधिकरणे च 494
(317 कारकसप्तमीसूत्रम् ।। 2।3।2 आ.12)
(न्यूनतापूरणाधिकरणम्)
(1512 सप्तमीविधानवार्तिकम् ।। 1 ।।)
।। () । सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् -
(भाष्यम्) सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानं कर्तव्यम्। अधीती व्याकरणे। परिगणिती याज्ञिक्ये।
आम्नाती छन्दसि।।
(1513 सप्तमीविधानवार्तिकम् ।। 2 ।।)
- साध्वसाधुप्रयोगे च -
(भाष्यम्) साध्वसाधुप्रयोगे च सप्तमी वक्तव्या। साधुर्देवदत्तो मातरि। असाधुः पितरि।।
(1514 सप्तमीविधायकवार्तिकम् ।। 3 ।।)
- कारकार्हाणां च कारकत्वे -
(भाष्यम्) कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या। ऋद्धेषु भुञ्ञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते।।
(1515 सप्तमीविधायकवार्तिकम् ।। 4 ।।)
- अकारकार्हाणां चाकारकत्वे -
(भाष्यम्) अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या। मूर्खेष्वासीनेषु ऋद्धा भुञ्ञ्जते। वृषलेष्वासीनेषु
ब्राह्मणास्तरन्ति।।
(1516 सप्तमीविधायकवार्तिकम् ।। 5 ।।)
- तद्विपर्यासे च -
(भाष्यम्) तद्विपर्यासे च सप्तमी वक्तव्या। ऋद्धेषु आसीनेषु मूर्खाः भुञ्ञ्जते । ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति।।
(1517 सप्तमीविधायकवार्तिकम् ।। 6 ।।)
- निमित्तात्कर्मसंयोगे -
(भाष्यम्) निमितात्कर्मसंयोगे सप्तमी वक्तव्या।। चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्ञ्जरम्।। केशेषु चमरीं हन्ति
सीम्नि पुष्कलको हतः।। सप्तम्यधि ।। 36 ।।
-2-3-37- यस्य च भावेन भावलक्षणम् 495
(318 उपपदसप्तमीसूत्रम् ।। 2।3।2 आ.13)
(भूयोदर्शनाभावेसप्तमीसाधनाधिकरणम्)
(1518 वार्तिकम् ।। 1 ।।)
- भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसंख्यानम् -
(भाष्यम्) भावलक्षणे सप्तमीविधाने अभावलक्षण उपसंख्यानं कर्तव्यम्। अग्निषु हूयमानेषु गतः, हुतेष्वागतः। गोषु दुह्यमानासु गतः, दुग्धास्वागतः।। किं पुनः कारणं न सिध्यति?। लक्षणं नाम तद्भवति येन पुनः पुनर्लक्ष्यते।
सकृच्चासौ कथं चिदग्निषु हूयमानेषु प्रस्थितः, हुतेष्वागतः। गोषु दुह्यमानासु प्रस्थितः, दुग्धास्वागतः।।
(1512 न्यासान्तरेण समाधानवार्तिकम् 9 )
- सिद्धं तु भावप्रवृत्तौ यस्य भावारम्भवचनात् -
(भाष्यम्) सिद्धमेतत्।। कथम्?। यस्य भावप्रवृत्तौ द्वितीयो भाव आरभ्यते तत्र सप्तमी वक्तव्या।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(समाधानभाष्यम्)
यथान्यासमेवास्तु।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम्--()भावलक्षणे सप्तमीविधानेऽभावलक्षण उपसंख्यानम्() इति।।
(समाधानभाष्यम्)
नैष दोषः। न खल्ववश्यं तदेव लक्षणं भवति येन पुनःपुनर्लक्ष्यते। सकृदपि यन्निमित्तत्वाय कल्पते तदपि
लक्षणं भवति। तद्यथा--अपि भवान्कमण्डलुपाणिं छात्रमद्राक्षीदिति। सकृदसौ कमण्डलुपाणिर्दृष्टश्छात्रस्तस्य तदेव
लक्षणं भवति।। यस्य च ।। 37 ।।
-2-3-42- पञ्ञ्चमी विभक्ते 500
(319 उपपदपञ्ञ्चमीसूत्रम् ।। 2।3।2 आ.14)
(विभक्तशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--कृष्णा गवां संपन्नक्षीरतमेति?।।
(समाधानभाष्यम्)
विभक्त इत्युच्यते। न चैतद्विभक्तम्।।
(समाधानबाधकभाष्यम्)
विभक्तमेतत्। गोभ्यः कृष्णा विभज्यते।।
(समाधानाशयभाष्यम्)
विभक्तमेव यन्नित्यं तत्र भवितव्यम्। न चैतन्नित्यं विभक्तम्।।
(आक्षेपभाष्यम्)
किं वक्तव्यमेतत्?।।
(समाधानभाष्यम्)
नहि।। कथमनुच्यमानं गंस्यते?। विभक्तग्रहणसार्मथ्यात्। यदि यद्विभक्तं चाविभक्तं च तत्र स्याद्, विभक्तग्रहणमनर्थकं स्यात्। पञ्ञ्चमी ।। 42 ।।
-2-3-43- साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः 501
(320 उपपदसप्तमीसूत्रम् ।। 2।3।2 आ.15)
(न्यूनतापूर्त्यधिकरणम्)
(1520 वार्तिकम् ।। 1 ।। )
(- अप्रत्यादिभिः - )
(भाष्यम्) अप्रत्यादिभिरिति वक्तव्यम्। इहापि यथा स्यात्--(साधुर्देवदत्तो मातरं प्रति।) मातरं परि। मातरमनु। साधु
।। 43 ।।
-2-3-44- प्रसितोत्सुकाभ्यां तृतीया च 502
(321 उपपदतृतीयासप्तमीसूत्रम् ।। 2।3।2 आ.16)
(प्रसितशब्दार्थनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
प्रसित इत्युच्यते। कः प्रसितो नाम?।।
(समाधानभाष्यम्)
यस्तत्र नित्यं प्रतिबद्धः।। कुत एतत्?। सिनोतिरयं बध्नात्यर्थे वर्तते--बद्ध इवासौ तत्र भवति।। प्रसितो
।। 44 ।।
-2-3-45- नक्षत्रे च लुपि 503
(322 कारकसप्तमीसूत्रम् ।।2।3।2 आ.17 सू.)
(अनिष्टापत्तिवारणाधिकरणम्)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति--अद्य पुष्य: अद्य मघा?।।
(समाधानभाष्यम्)
अधिकरण इति वर्तते।। नक्षत्रे ।। 45 ।।
इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमाह्निकम् ।।
-2-3-46- प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 504
द्वितीयाध्यायस्य तृतीयपादे तृतीयमाह्निकम् ।।
(323 प्रथमासूत्रम् ।। 2।3।3 आ.1)
(प्रातिपदिकपदप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
प्रातिपदिकग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
उच्चैः नीचैरित्यत्रापि यथा स्यात्।।
(आक्षेपभाष्यम्)
किं पुनरत्र प्रथमया प्रार्थ्यते?।।
(समाधानभाष्यम्)
पदत्वम्।।
(समाधानबाधकभाष्यम्)
नैतदस्ति। षष्ठ्यात्र पदत्वं भविष्यति।।
(समाधानान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्-- ग्राम उच्चैस्तव स्वम्, ग्राम उच्चैस्ते स्वम् सपूर्वायाः प्रथमाया विभाषा इत्येष
विधिर्यथा स्यात्।।
(लिङ्गग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ लिङ्गग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
स्त्री पुमान् नपुंसकमित्यत्रापि यथा स्यात्।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। एष एव चात्रास्ति प्रातिपदिकार्थः ।।
(समाधानान्तरभाष्यम्)
इदं तर्हि--कुमारी वृक्षः कुण्डमिति।।
(प्ररिमाणपदप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ परिमाणग्रहणं किमर्थम् ? प्र्प्र्
(समाधानभाष्यम्)
द्रोणः खारी आढकमित्यत्रापि यथा स्यात्।।
(वचनपदप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ वचनग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
इह समुदाये वाक्यपरिसमाप्तिर्दृश्यते--गर्गाः शतं दण्ड्यन्तामिति। अर्थिनश्च राजानो हिरण्येन भवन्ति, न
च प्रत्येकं दण्डयन्ति। सत्येतस्मिन् दृष्टन्ते यत्रैतानि सर्वाणि समुदितानि भवन्ति तत्रैव स्यात्--द्रोणः खारी आढकमिति। इह न स्यात्--कुमारी वृक्षः कण्डमिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। प्रत्येकमपि वाक्यपरिसमाप्तिर्दृश्यते। तद्यथा-गुणवृद्दिसंज्ञे प्रत्येकं भवतः।।
(समाधानान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्--उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्--एको द्वौ बहवः।।
(मात्रग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ मात्रग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
एतन्मात्र एव प्रथमा यथा स्यात्। कर्मादिविशिष्टे मा भूत्--कटं करोति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। कर्मादिषु द्वितीयाद्या विभक्तयः। ताः कर्मादिविशिष्टे बाधिका भविष्यन्ति।।
(समाधानबाधकान्तरभाष्यम्)
अथ वाचार्यप्रवृत्तिर्ज्ञापयति--न कर्मादिविशिष्टे प्रथमा भवतीति। यदयं संबोधने प्रथमां शास्ति।।
(समाधानसाधकज्ञापकनिरसनभाष्यम्)
नैतदस्ति ज्ञापकम्। अस्त्यन्यदेतस्य वचने प्रयोजनम्।। किम्?। सामन्त्रितम् इति वक्ष्यामीति।।
(समाधानबाधकज्ञापकान्तरभाष्यम्)
यत्तर्हि योगविभागं करोति।। इतरथा हि संबोधेन आमन्त्रितम् इत्येव ब्रूयात्।।
(समाधानान्तरभाष्यम्)
इदं तर्हि--उक्तेष्वप्येकत्वादिषु प्रथणा यथा स्यात्--एको द्वौ बहव इति।।
(अन्यतरप्रत्याख्यानभाष्यम्)
वचनग्रहणस्याप्येतत्प्रयोजनमुक्तम्। अन्यतरच्छक्यमवक्तुम्।।
(सामानाधिकरण्ये प्रथणासाधनाधिकरणम्)
(1521 आक्षेपवार्तिकम्।। 1)
- प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानमधिकत्वात् ।। ()
।।
(भाष्यम्) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसंख्यानं कर्तव्यम्। वीरः
पुरुष इति।।
किं पुनः कारणं न सिध्यति?। अधिकत्वात्। व्यतिरिक्तः प्रातिपदिकार्थ इति कृत्वा प्रथमा न प्राप्नोति।।
कथं व्यतिरिक्तः?। पुरुषे वीरत्वम्।।
(1522 समाधानवार्तिकम् ।। 2)
- न वा वाक्यार्थत्वात् -
(भाष्यम्) न वा वक्तव्यम्।। किं कारणम्?। वाक्यार्थत्वात्। यदत्राधिक्यं वाक्यार्थः सः ।।
(समाधानाय न्यासान्तरम्)
अथ वा अभिहिते प्रथमा इत्येतल्लक्षणं करिष्यते ।।
(1523 न्यासान्तरदूषकवार्तिकम् ।। 3)
- अभिहितलक्षणायामनभिहिते प्रथमाविधिः -
(भाष्यम्) अभिहितलक्षणायामनभिहिते प्रथमा विधेया। वृक्षः प्लक्ष इति।।
(दूषणपरिहारभाष्यम्)
उक्तं वा। किमुक्तम्? अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्ति इति
गम्यत इति।।
(1524 दूषणान्तरवार्तिकम् ।। 4 )
प्र्प्र् () प्र्प्र् अभिहितानभिहिते प्रथमाभाव: प्र्प्र् () प्र्प्र्
(भाष्यम्) अभिहितानभिहिते प्रथमा प्राप्नोति। क्व?। प्रासादे आस्ते शयन आस्त इति।
सदिप्रत्ययेनाभिहितमधिकरणमिति कृत्वा प्रथमा प्राप्नोति।।
(दूषणपरिहाराया न्यासान्तरम्)
एवं तर्हि तिङ्समानाधिकरणे प्रथमा इत्येतल्लक्षणं करिष्यते।।
(1525 न्यासान्तरदूषणवार्तिकम् ।। 5)
- तिङ्समानाधिकरण इति चेत्तिङोप्रयोगे प्रथमाविधिः -
(भाष्यम्) तिङ्समानाधिकरण इति चेत्तिङोप्रयोगे प्रथमा विधेया। वृक्षः प्लक्षः।।
(दूषणपरिहारभाष्यम्)
उक्तं पूर्वेण। किमुक्तम्?। अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्तीति गम्यते। वृक्षः प्लक्षः अस्ति
इति गम्यत इति।।
(1526 तिङ्साधनाधिकरण आक्षेपवार्तिकम् ।। 6)
- शतृशानचोश्च निमित्त भावात्तिङोभावस्तयोरपवादत्वात् -
(भाष्यम्) शतृशानचोश्च निमित्तभावात्तिङोभावः।। क्व?। पचत्योदनं देवदत्त इति।। किं कारणम्?। तयोरपवादत्वात्। शतृशानचौ तिङपावादौ। तावत्र बाधकौ। न चापवादविषये उत्सर्गोभिनिविशते। पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः प्र् ठप्रकल्प्य चापवादविषयमुत्सर्गोभिनिविशते। न तावदत्र कदाचित्तिङादेशो भवति। अपवादौ तावच्छतृशानचौ प्रतीक्षते।।
(समाधानभाष्यम्)
पाक्षिक एष दोषः। कतरस्मिन्पक्षे शतृशानचोर्द्वैतं भवति--अप्रथमा वा विधिनाश्रीयते प्रथमा वा
प्रतिषेधेनेति?।। विभक्तिनियमे चापि द्वैतं भवति--विभक्तिनियमो वा स्यादर्थनियमो वेति।। तद्यदा तावदर्थनियमः
अप्रथमा च विधिनाश्रीयते, तदा एष दोषो भवति।। यदा हि विभक्तिनियमः, तदा यद्येवमप्रथमा विधिनाश्रीयते, अथापि प्रथमा प्रतिषेधेन, तदा न दोषो भवति।। प्रातिपदिकार्थ।। 46 ।।
-2-3-50- षष्ठी शेषे 508
(अथ षष्ठीप्रकारणम्)
(324 शेषषष्ठीसूत्रम् ।2।3।3। आ.2सू.)
(शेषशब्दार्थनिरूपणाधिकरणम्)
(आक्षेपभाष्यम्)
शेष इत्युच्यते। कः शेषः?।।
(समाधानभाष्यम्)
कर्मादिभ्यो ये ऽन्ये ऽर्थाः स शेषः।।
(आक्षेपभाष्यम्)
यद्येवं शेषो न प्रकल्पते। न हि कर्मादिभ्योन्येर्थाः सन्ति।। इह तावद्--राज्ञः परुषः इति राजा कर्ता,
पुरुषः संप्रदानम्। वृक्षस्य शाखा इति वृक्षः शाखाया अधिकरणम्। तथा यदेतत्स्वं नाम
चतुर्भिरेतत्प्रकारैर्भवति--क्रयणाद्, अपहरणाद्, याञ्ञ्चायाः, विनिमयादिति। अत्र च सर्वत्र कर्मादयः सन्ति।।
(समाधानभाष्यम्)
एवं तर्हि कर्मादीनामविवक्षा शेषः।।
(आक्षेपभाष्यम्)
कथं पुनः सतो नामाविवक्षा स्यात्?।।
(समाधानभाष्यम्)
सतोप्यविवक्षा भवति। तद्यथा--अलोमिका एडका, अनुदरा कन्येति।। असतश्च विवक्षा भवति।
तद्यथा--समुद्रः कुण्डिका। विन्ध्यो वर्धितकमिति।।
(शेषग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं पुनः शेषग्रहणम्?।।
(1527 समाधानवार्तिकम् ।। 1)
- प्रत्ययावधारणाच्छेषवचनम् -
(भाष्यम्) प्रत्ययावधारणाच्छेषग्रहणं कर्तव्यम्। प्रत्यया नियताः, अर्था अनियताः। तत्र षष्ठी प्राप्नोति। तत्र शेषग्रहणं कर्तव्यं षष्ठीनियमार्थम्---शेष एव षष्ठी भवति, नान्यत्रेति ।।
(1528 समाधानवार्तिकम् ।। 2 )
- अर्थावधारणाद्वा -
(भाष्यम्) अथ वा अर्था नियताः, प्रत्यया अनियताः, ते शेषेऽपि प्राप्नुवन्ति। तत्र शेषग्रहणं कर्तव्यं
शेषनियमार्थम्--शेषे षष्ठ्येव भवति नान्येति।।
(शेषग्रहणप्रत्याख्यानभाष्यम्)
अर्थनियमे शेषग्रहणं शक्यमकर्तुम्। कथम्?। अर्था नियताः, प्रत्यया अनियताः। ततो वक्ष्यामि--षष्ठी भवतीति। तन्नियमार्थं भविष्यति--यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठ्येव भवतीति।।
(1529 आक्षेपवार्तिकप्रथमखण्डम् ।। 3 )
- षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः -
(भाष्यम्) षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधो वक्तव्यः। राज्ञः पुरुष इत्यत्र राजा विशेषणम्, पुरुषो
विशेष्यः। तत्र प्रातिपदिकार्थो व्यतिरिक्त इति कृत्वा प्रथमा न प्राप्नोति। तत्र षष्ठी स्यात् तस्याः प्रतिषेधो
वक्तव्यः।।
(1530 आक्षेपवार्तिकद्वितीयखण्डम् ।। 4)
- तत्र प्रथमाविधिः -
(भाष्यम्) तत्र षष्ठीं प्रतिषिध्य प्रथमा विधेया। राज्ञः पुरुषः।।
(आक्षेपपरिहारभाष्यम्)
उक्तं पुर्वेण। किमुक्तम्!। न वा वाक्यार्थत्वाद् इति । यदत्राधिक्यं वक्यार्थः सः ।।
(आक्षेपभाष्यम्)
कुतो नु खल्वलेतत्--पुरुषे यदाधिक्यं स वाक्यार्थ इति, न पुना राजनि यदाधिक्यं स वाक्यार्थः
स्यात्।।
(समाधानभाष्यम्)
अन्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते, न पुनरन्तरेण राजशब्दस्य प्रयोगं पुरुषे सोर्थो गम्यते।। अस्ति कारणं येनैतदेवं भवति।। किं कारणम्?। राजशब्दाद्धि भवान् षष्ठीमुच्चारयति। अङ्ग हि भवान्
पुरुषशब्दादप्युच्चारयतु गंस्यते सोर्थः।।
(आक्षेपभाष्यम्)
ननु च नैतेनैवं भवितव्यम्। न हि शब्दकृतेन नामार्थेन भवितव्यम्। अर्थकृतेन नाम शब्देन भवितव्यम्।।
(समाधानभाष्यम्)
तदेतदेवं दृश्यताम्--अर्थरूपमेवैतदेवंजातीयकं येनान्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि सोर्थो गम्यते।।
किं पुनस्तत्?। स्वामित्वम्।। किं कृतं पुनस्तत्?। स्वकृतम्।। तद्यथा--प्रातिपदिकार्थानां क्रियाकृता विशेषा
उपजायन्ते तत्कृताश्चाख्याः प्रादुर्भवन्ति--कर्म करणमपादानं संप्रदानमधिकरणम्--इति। ताश्च पुनर्विभक्तीनामुत्पत्तौ कदाचिन्निमित्तत्वेनोपादीयन्ते कदाचिन्न।।
(आक्षेपभाष्यम्)
कदा विभक्तीनामुत्पत्तौ निमित्तत्वेन नोपादीयन्ते?।।
(समाधानभाष्यम्)
यदा व्यभिचरन्ति प्रातिपदिकार्थम्। यदा हि न व्यभिचरन्ति, आख्याभूता एव तदा भवन्ति--कर्म करणमपादानं संप्रदानमधिकरंणमिति।।
(आक्षेपभाष्यम्)
यथैव तर्हि राजनि स्वकृतं स्वामित्वं तत्र षष्ठी भवति। एवं पुरुषेऽपि स्वामिकृतं स्वत्वं तत्र षष्ठी प्राप्नोति।।
(समाधानभाष्यम्)
राजशब्दादुत्पद्यमानया षष्ठ्याभिहितः सोर्थ इति कृत्वा पुरुषशब्दात्षष्ठी न भविष्यति।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--पुरुषस्य राजेति?।।
(समाधानभाष्यम्)
भवति। राजशब्दात्तु तदा प्रथमा।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं भवति--राज्ञः पुरुषस्येति?।।
(समाधानभाष्यम्)
भवति बाह्यमर्थमभिसमीक्ष्य।। षष्ठी शेषे ।। 50 ।।
-2-3-52- अधीगर्थदयेशां कर्मणि 510
(325 प्रतिपदषष्ठीसूत्रम् ।। 2।3।3 आ.3 सू.)
(भावे प्रत्ययसाधनाधिकरणम्)
(1530 आक्षेपवार्तिकम् ।। 1)
- कर्मादिष्वकर्मकवद्वचनम् -
कर्मादिष्वकर्मकवद्भावो वक्तव्यः।। किं प्रयोजनम्?। अकर्मकाणां भावे लो भवतीति भावे लो यथा स्यात्--मातुः
स्मर्यते, पितुः स्मर्यते इति।। अथ वत्करणं किमर्थम्?। स्वाश्रयमपि यथा स्यात्--माता स्मर्यते, पिता स्मर्यत
इति।।
(1531 विपक्षबाधकं वार्तिकप्रथमखण्डम् ।। 2)
- कर्माभिधानेहि लिङ्गवचनानुपपत्तिः -
(भाष्यम्) कर्माभिधाने हि लिङ्गवचनयोरनुपपत्तिः स्यात्। मातुः स्मृतम्। मात्रोः स्मृतम्। मातॄणां स्मृतमिति। मातुर्यल्लिङ्गं वचनं तत्स्मृतशब्दस्यापि प्राप्नोति।।
(1532 विपक्षबाधकं वार्तिकद्वितीयखण्डम् ।। 3)
- षष्ठीप्रसङ्गश्च -
(भाष्यम्) षष्ठी च प्राप्नोति।। कुतः? स्मृतशब्दान्मातुः सामानाधिकरण्यात्षष्ठी प्राप्नोति।।
(व्याख्यान्तरभाष्यम्)
अपर आह--
- षष्ठीप्रसङ्गश्च -
षष्ठी च प्रसङ्क्तव्या। कुतः?। मातृशब्दात्। स्मृतशब्देनाभिहितं कर्मेति कृत्वा षष्ठी न प्राप्नोति।।
(तृतीयाक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। अविवक्षिते कर्मणि षष्ठी भवतीति।। किं वक्तव्यमेतत्?। नहि।। कथमनुच्यमानं गंस्यते?
शेष इति वर्तते।। शेषश्च कः?। कर्मादीनामविवक्षा शेषः। यदा च कर्म विवक्षितं भवति तदा षष्ठी न भवति।
तद्यथा--स्मराम्यहं मातरम्, स्मराम्यहं पितरमिति।। अधीगर्थ ।। 52 ।।
-2-3-54- रुजार्थानां भाववचनानामज्वरेः 512
(326 प्रतिपदषष्ठीसूत्रम् ।। 2।3।3। आ.4 सू.)
(1533 शेषपूरकवार्तिकम् ।। 1 )
- अज्वरिसंताप्योः -
(भाष्यम्) अज्वरिसंताप्योरिति वक्तव्यम्। इहापि यथा स्यात्--चोरं सन्तापयति, वृषलं सन्तापयति।।
(आक्षेपभाष्यम्)
अथ किमर्थं भाववचनानाम् इत्युच्यते। यावता रुजार्था भाववचना एव भवन्ति?।।
(समाधानभाष्यम्)
भावकर्तृकाद्यथा स्यात्। इह मा भूद्--नदी कूलानि रुजतीति।। रुजार्थानाम् ।। 54 ।।
-2-3-60- द्वितीया ब्राह्मणे 518
(327 द्वितीयासूत्रम् ।। 2।3।3 आ.5)
(आक्षेपभाष्यम्)
किमुदाहरणम्?।।
(समाधानभाष्यम्)
गां निघ्नन्ति। गां प्रदीव्यन्ति। गां सभासद्भ्य उपरहन्ति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति। पूर्वेणाप्येतत्सिद्धम्।।
(समाधानभाष्यम्)
इदं तर्हि--गामस्य तदहः सभायां दीव्येयुः।। द्वितीया ।। 60 ।।
-2-3-61- प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने 519
(328 षष्ठीसूत्रम् ।। 2।3।3। आ.6 सू.)
(1534 शेषपूरकवार्तिकम् ।। 1)
- हविषोऽप्रस्थितस्य -
(भाष्यम्) हविषः अप्रस्थितस्येति वक्तव्यम्। इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य।। प्रेष्य ।। 61 ।।
-2-3-62- चतुर्थ्यर्थे बहुलं छन्दसि 520
(329 षष्ठीसूत्रम् ।। 2।3।3 आ. 7 सू.)
(1535 वार्तिकम् ।। 1)
- षष्ठ्यर्थे चतुर्थी -
(भाष्यम्) षष्ठ्यर्थे चतुर्थी वक्तव्या। या खर्वेण पिबति तस्यै खर्वो जायते यां मलवद्वाससं संभवन्ति यस्ततो जायते
सोभिशस्तो, यामरण्ये तस्यै स्तेनो, यां पराचीं तस्यै ह्रीतमुख्यपगल्भो, या स्नाति तस्या अप्सु मारुको, याभ्यङ्क्ते
तस्यै दुश्चर्मा, या प्रलिखते तस्यै खलतिरपमारी, याङ्क्ते तस्यै काणो, या दतो धावते तस्यै श्यावदन्, या
नखानि निकृन्तते तस्यै कुनखी, या कृणत्ति तस्यै क्लीबो, या रज्जुं सृजति तस्या उद्बन्धुको, या पर्णेन पिबति तस्या उन्मादुको जायते, अहल्यायै जार मनाय्यै तन्तुः।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्।।
(1536 वार्तिकम् 2)
- योगविभागात्सिद्धम् -
(भाष्यम्) चतुर्थी। ततः अर्थे बहुलं छन्दसि।। चतुर्थ्य ।। 62 ।
-2-3-65- कर्तृकर्मणोः कृति 523
330 कारकषष्ठीसूत्रम् ।। 2।3।3 आ.8)
(कृद्ग्रहमप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
कृद्ग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
इह मा भूत्--पचत्योदनं देवदत्त इति।।
(1537 आक्षेपवार्तिकम् ।। 1)
- कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यं लप्रतिषेधात् -
(भाष्यम्) कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणमनर्थकम्। किं कारणम्? लप्रतिषेधात्। प्रतिषिध्यतेत्र षष्ठी लप्रयोगे
न इति।
(आक्षेपपरिहारभाष्यम्)
तस्य कर्मकर्त्रर्थं तर्हि कृद्ग्रहणं कर्तव्यम्। कृतो ये कर्तृकर्मणी तत्र यथा स्यादन्यस्य ये कर्तृकर्मणी तत्र मा भूदिति।।
(परिहारबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। धातोर्हि द्वये प्रत्यया विधीयन्ते तिङश्च कृतश्च। तत्र कृत्प्रयोग इष्यते तिङ्प्रयोगे
प्रतिषिध्यते।।
(परिहारसाधकभाष्यम्)
न ब्रूमः--इहार्थं तस्य कर्मकर्त्रर्थं कृद्ग्रहणं कर्तव्यमिति। किं तर्हि?। उत्तरार्थम्--अव्यययोगे नःथ्द्य;ति
षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतोव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात्। अकृतोव्ययस्य ये कर्तृकर्मणी तत्र मा
भूद्--उच्चैः कटानां स्रष्टेति।।
(1538 आक्षेपसाधकवार्तिकम्।। 2)
- तस्य कर्मकर्त्रर्थमिति चेत्प्रतिषेधेपि तदन्तकर्मकर्तृत्वात्सिद्धम् -
(भाष्यम्) कृत एते कर्तृकर्मणी नाव्ययस्य। अधिकरणमत्राव्ययम्।।
(समाधानान्तरभाष्यम्)
इदं तर्हि प्रयोजनम्--उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधं वक्ष्यति, स कृतो ये कर्तृकर्मणी तत्र यथा स्यात्। कृतोर्ये कर्तृकर्मणी तत्र मा भूदिति। आश्चर्यमिदं वृत्तमोदनस्य च नाम पाको ब्राह्मणानां च प्रादुर्भाव इति।।
(आक्षेपभाष्यम्)
अथ क्रियमाणेपि कृद्ग्रहणे कस्मादेवात्र न भवति?।।
(समाधानभाष्यम्)
उभयप्राप्तौ इति नैवं विज्ञायते--उभयोः प्राप्तिरुभयप्राप्तिः उभयप्राप्ताविति।। कथं तर्हि?। उभयोः प्राप्तिर्यस्मिन्कृति सोयमुभयप्राप्तिः कृद् उभयप्राप्ताविति।।
(सिद्धान्तसमाधानभाष्यम्)
अथ वा कृतो ये कर्तृकर्मणी तत्र यथा स्यात्। तद्धितस्य ये कर्तृकर्मणी तत्र मा भूदिति। कृतपूर्वी कट
भुक्तपूर्वो ओदनमिति।।
(आक्षेपभाष्यम्)
ननु च वाक्येनैवानेन न भवितव्यम् ।।
तत्र द्वितीयया तावन्न भवितव्यम्। किं कारणम्?। क्तेनाभिहितं कर्मेति कृत्वा।।
इनिप्रत्ययेन चापि नोत्पत्तव्यम्। किं कारणम्?। असार्मथ्यात्।। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।।
(आक्षेपपरिहारभाष्यम्)
यत्तावदुच्यते--द्वितीयया तावन्न भवितव्यम्। किं कारणम्?। क्तेनाभिहितं कर्मेति कृत्वेति।। योसौ
कृतकटयोरभिसंबन्धः स उत्पन्ने प्रत्यये निवर्तते। अस्ति च करोतेः कटेन सार्मथ्यमिति कृत्वा द्वितीया भविष्यति।।
यदप्युच्यते--इनिप्रत्ययेन चापि नोत्पत्तव्यम्। किं कारणम्?। असार्मथ्यात्। कथमसार्मथ्यम्?। सापेक्षमसमर्थं भवतीति।। नेदमुभयं युगपद्भवति वाक्यं च प्रत्ययश्च। यदा वाक्यम्, न तदा प्रत्ययः। यदा प्रत्ययः, सामान्येन तदा वृत्तिः। तत्रावश्यं विशेषार्थिना विशेषोनुप्रयोक्तव्यः--कृतपूर्वी किम?। कटम्। भुक्तपूर्वी किम्?। ओदनमिति।।
(समाधानान्तरभाष्यम्)
अथ वा इदं प्रयोजनम्--कर्तृभूतपूर्वमात्रादपि षष्ठी यथा स्यात्--भेदिका देवदत्तस्य यज्ञदत्तस्य
काष्ठानामिति।। कर्तृक ।। 65 ।।
-2-3-66- उभयप्राप्तौ कर्मणि 524
(331 नियमसूत्रम् ।। 2।3।3 अ.9)
(नियमप्रतिषेधाधिकरणम्)
(1539 प्रतिप्रसववार्तिकम् ।। 1)
- उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः -
(भाष्यम्) उभयप्राप्तौ कर्मणिषष्ठ्याः प्रतिषेधेऽकादिप्रयोगे प्रतिषेधो न भवतीति वक्तव्यम्। भेदिका देवदत्तस्य
काष्ठानाम्; चिकीर्षा विष्णुमित्रस्य कटस्य।।
(भाष्यम्) अपर आह--
(1540 वार्तिकन्यासान्तरम् ।। 2)
- अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम् -
(1541 वार्तिकम् ।। 3)
- शेषे विभाषा -
(भाष्यम्) शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिः। शोभना खलु दाक्षायणस्य
संग्रहस्य कृतिः, शोभना खलु दाक्षायणेन संग्रहस्य कृतिः ।। उभय ।। 66 ।।
-2-3-67- क्तस्य च वर्तमाने 525
(332 करकषष्ठीसूत्रम् ।। 2।3।3 आ.10)
(विशेषविवक्षाधिकरणम्)
(1542 शेषपूरकवार्तिकम् ।। 1)
- क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानम् -
(भाष्यम्) क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानं कर्तव्यम्। छात्रस्य हसितम्, नटस्य भुक्तम्, मयूरस्य नृत्तम्,
कोकिलस्य व्याहृतमिति।।
(तृतीयाक्षेपभाष्यम्)
(तत्तर्हि वक्तव्यम्?
     (समाधानभाष्यम्)
न वक्तव्यम्।।)
(1543 अन्यथासिद्धिवार्तिकम् ।। 2)
- शेषेविज्ञानात्सिद्धम् -
(भाष्यम्) शेषलक्षणात्र षष्ठी भविष्यति। शेष इत्युच्यते। कः शेषः?। कर्मादीनामविवक्षा शेषः।। कथं पुनः सतो
नामाविवक्षा स्यात्, यदा छात्रो हसति, नटो भुङ्क्ते, मयूरो नृत्यति, कोकिलो व्याहरति?।। सतोप्यविवक्षा भवति।
तद्यथा--अलोमिका एडका अनुदरा कन्येति। असतश्च विवक्षा--समुद्रः कुण्डिका विन्ध्यो वर्धितकमिति।।
(आक्षेपभाष्यम्)
यद्येवम्, उत्तरत्र चातुःशब्द्यं प्राप्नोति--इदमहेः सृप्तम्, इहाहिना सृप्तम्, इहाहिः सृप्तः, इहाहेः सृप्तम् ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति।
(इष्टापत्तिभाष्यम्)
इष्यत एव चातुःशब्द्यम्।। क्तस्य च ।। 67 ।।
-2-3-69- न लोकाव्ययनिष्ठाखलर्थतृनाम् 527
(333 कारकषष्ठीनिषेधसूत्रम् ।। 2।3।3 आ.11)
(इष्टोपपादकाधिकरणम्)
- लादेशे सल्लिड्ग्रहणं किकिनोः प्रतिषेधार्थम् -
(भाष्यम्) लादेशे सल्लिड्ग्रहणं कर्तव्यम्। सल्लिटोः प्रयोगे नेति वक्तव्यम्।। किं प्रयोजनम्?। किकिनोः
प्रतिषेधार्थम्। किकिनोरपि प्रयोगे प्रतिषेधो यथा स्यात्--पपिः सोमम्, ददिर्गा:।।
किं पुनः कारणं न सिध्यति?।।
(1545 साधकवार्तिकद्वितीयखण्डम् ।। 2।।)
- तयोरलादेशौत्वात् -
(भाष्यम्) न हि तौ लादेशौ।।
(आक्षेपभाष्यम्)
अथ तौ लादेशो स्याताम्। स्यात्प्रतिषेधः?।।
(समाधानभाष्यम्)
बाढं स्यात्।।
(लादेशत्वसाधकभाष्यम्)
लादेशौ तर्हि भविष्यतः।। कथम्?। आदृगमहनजनः किकिनौ लिट् च इति लिड्वदिति वक्ष्यामि।।
(आक्षेपभाष्यम्)
स तर्हि वतिनिर्देशः कर्तव्यः। नह्यन्तरेण वतिमतिदेशो गम्यते।।
(समाधानभाष्यम्)
अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा--एष ब्रह्मदत्तः अब्रह्मदत्तं ब्रह्मदत्त इत्याह, ते
मन्यामहे--ब्रह्मदत्तवदयं भवतीति। एवमिहाप्यलिटं लिडित्याह लिड्वदिति ज्ञास्यते।।
(1546 शेषपूरकवार्तिकम् ।। 3 ।।)
(- उकारप्रयोगे न -)
(भाष्यम्) उकारप्रयोगे नेति वक्तव्यम्। कटं चिकीर्षुः, ओदनं बुभुक्षुः।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?।।
(समाधानभाष्यम्)
न वक्तव्यम्। उकारेप्यत्र निर्दिश्यते।। कथम्?। प्रश्लिष्टनिर्देशोयम्--उ उक ःढ़द्य;क, ल ःढ़द्य;क लोकेति।।
(1547 प्रतिप्रसववार्तिकम् ।। 4 ।।)
- उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः -
(भाष्यम्) उकप्रतिषेधे कमेर्भाषायां प्रतिषेधो न भवतीति वक्तव्यम्। दास्याः कामुकः, वृषल्याः कामुकः ।।
(1548 प्रतिप्रसववार्तिकम् ।। 5 ।।)
- अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः -
(भाष्यम्) अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधो न भवतीति वक्तव्यम्। पुरा सूर्यस्योदेतोराधेयः। पुरा
वत्सानामपाकर्तो:। पुरा क्रूरस्य विसृपो विरप्शिन्।।
(1549 शेषपूरकवार्तिकम् ।। 6 ।।)
- शानंश्चानश्शतॄणामुपसंख्यानम् -
(भाष्यम्) शानश्चानश्शतॄणामुपसंख्यानं कर्तव्यम्। सोमं पवमानः। नटमाघ्नानः। अधीयन्पारायणम्। लप्रयोगे नेति
निषेधो न प्राप्नोति।।
(वार्तिकवैर्यथ्यभाष्यम्)
मा भूदेवम्। तृन्नित्येवं भविष्यति।। कथम्?। तृन्निति नेदं प्रत्ययग्रहणम्।। किं तर्हि? प्रत्याहार ग्रहणम्।। क्व संनिविष्टानां प्रत्याहार?। लटश्शतृ-- इत्यतः प्रभृत्या तृनो नकारात् ।।
(आक्षेपभाष्यम्)
यदि प्रत्याहारग्रहणम्, चोरस्य द्विषन् अत्रापि प्राप्नोति।।
(1550 समाधानवार्तिकम् ।। 7 ।।)
- द्विषः शतुर्वावचनम् -
(भाष्यम्) द्विषः शुतुर्वेति वक्तव्यम्।। तच्चावश्यं वक्तव्यम्। प्रत्ययग्रहणे सति प्रतिषेधार्थम्। प्रत्याहारग्रहणे सति तदेव विध्यर्थ भविष्यति।। न लोकाव्य ।। 69 ।।
-2-3-70- अकेनोर्भविष्यदाधर्मण्ययोः 528
(334 कारकषष्ठीनिषेधसूत्रम् ।। 2।3।3 आ.12)
(अर्थप्रत्यययोरन्वयदर्शकाधिकरणम्)
(1551 वार्तिकम् ।। 1 ।।)
- अकस्य भविष्यति -
(भाष्यम्) अकस्य भविष्यतीति वक्तव्यम्। यवान् लावको व्रजति। ओदनं भोजको व्रजति।।
(1552 वार्तिकम् ।। 2 ।। )
- इन आधर्मण्ये च -
(भाष्यम्) तत इन आधर्मण्ये भविष्यति चेति वक्तव्यम्। शतं दायी सहस्रं दायी ग्रामं गमी।। अके ।। 70 ।।
-2-3-71- कृत्यानां कर्तरि वा 529
(335 षष्ठीविकल्पनसूत्रम् ।। 2।3।3। आ. 13)
(योगविभागाधिकरणम्)
(आक्षेपभाष्यम्)
कर्तृग्रहणं किमर्थम्?।।
(समाधानभाष्यम्)
कर्मणि मा भूदिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। भावकर्मणोः कृत्या विधीयन्ते। तत्र कृत्यैरभिहितत्वात्कर्मणि षष्ठी न भविष्यति।
(समाधानभाष्यम्)
अत उत्तरं पठति--
(1553 वार्तिकम् ।। 3 ।।)
- भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणम् -
(भाष्यम्) भव्यादीनां कर्म कृत्यैरनभिहितं गेयो माणवकः साम्नाम् भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणं
क्रियते ।।
(आक्षेपभाष्यम्)
किमुच्यते--भव्यादीनां कर्म कृत्यैरनभिहितमिति, नेहाप्यनभिहितं भवति--आक्रष्टव्या ग्रामं शाखेति।।
(समाधानभाष्यम्)
एवं तर्हि योगविभागः करिष्यते--कृत्यनाम् कृत्यानां प्रयोगे षष्ठी न भवतीति। किमुदाहरणम्?।
ग्राममाक्रष्टव्या शाखा।। ततः कर्तरि वा इति।।
(आक्षेपभाष्यम्)
इहापि तर्हि प्राप्नोति--गेयो माणवकः साम्नामिति।।
(समाधानभाष्यम्)
उभयप्राप्ताविति वर्तते।।
(समाधानबाधकभाष्यम्)
ननु चोभयप्राप्तिरेवैषा। गेयो माणवकः साम्नामिति च गेयानि माणवकेन सामानीति च भवति।।
(समाधानसाधकभाष्यम्)
उभयप्राप्तिर्नाम सा भवति, यत्रोभयस्य युगपत्प्रसङ्गः। अत्र च यदा कर्मणि न तदा कर्तरि। यदा कर्तरि
न तदा कर्मणीति।। कृत्यानाम् ।। 71 ।।
इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमाह्निकम्।। पादश्च समाप्तः।।
-9-9-999-