महाभाष्यम्/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

<M.2.533>
-2-4-1- द्विगुरेकवचनम् (532)
(336 अतिदेशसूत्रम् ।। 2।4।1 आ. 1 सू.)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(1554 समाधानवार्तिकम् ।। 1 ।।)
- प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानम् -
(भाष्यम्) प्रत्यधिकरणं वचनोत्पत्तिर्भवति।। किमिदं प्रत्यधिकरणमिति? अधिकरणमधिकरणं प्रति प्रत्यधिकरणम्।। संख्यासामानाधिकरण्याच्च। संख्यया बह्वर्थया चास्य सामानाधिकरण्यम्। प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च बहुषु बहुवचनम् इति बहुवचनं प्राप्नोति। इष्यते चैकवचनं स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति द्विगोरेकवचनविधानम्। एवमर्थमिदमुच्यते।।
(काकुभाष्यम्)
अस्ति प्रयोजनमेतत्। किं तर्हीति।।
(अनुप्रयोगेप्येकवचनसाधनाधिकरणम्)
(1555 आक्षेपवार्तिकम् ।। 2 ।।)
- तत्रानुप्रयोगस्यैकवचनाभावोऽद्विगुत्वात् -
(भाष्यम्) तत्रानुप्रयोगस्यैकवचनं न प्राप्नोति पञ्चपूलीयम् इति।। किं कारणम्? अद्विगुत्वात्। द्विगुरेकवचनम् इत्युच्यते। न चात्रानुप्रयोगो द्विगुसंज्ञः।।
(1556 समाधानाय न्यासान्तरवार्तिकम् ।। 3 ।।)
- सिद्धं तु द्विग्वर्थस्यैकवद्वचनात् -
(भाष्यम्) सिद्धमेतत्।। कथम्? द्विग्वर्थ एकवद्भवतीति वक्तव्यम्।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम् ?
(समाधानभाष्यम्)
न वक्तव्यम्। नेदं पारिभाषिकस्य वचनस्य ग्रहणम्। किं तर्हि? अन्वर्थग्रहणम् -- उच्यते वचनम्, एकस्यार्थस्य वचनमेकवचनमिति।।
<M.2.534>
(एकशेषेबहुवचनसाधनाधिकरणम्)
(1557 आक्षेपवार्तिकम् ।। 4 ।।)
- एकशेषप्रतिषेधश्च -
(भाष्यम्) एकशेषे च प्रतिषेधो वक्तव्यः। पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः।।
(1558 समाधानवार्तिकम् ।। 5 ।।)
- न वान्यस्यानेकत्वात् -
(भाष्यम्) न वा वक्तव्यः।। किं कारणम्? अन्यस्यानेकत्वात्। नैतद्द्विगोरनेकत्वम्।। कस्य तर्हि? द्विग्वर्थसमुदायस्य।।
(तद्धितार्थद्विगौ एकवद्भावपरिहाराधिकरणम्)
(1559 आक्षेपवार्तिकम् ।। 6 ।।)
- समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम् -
(भाष्यम्) समाहारग्रहणं च कर्तव्यम्। किं प्रयोजनम्? तद्धितार्थप्रतिषेधार्थम्। तद्धितार्थे यो द्विगुस्तस्य मा
भूत् -- पञ्चकपालौ पञ्चकपाला इति।।
(समाधानाय प्रत्याक्षेपभाष्यम्)
किं पुनरयं पञ्चकपालशब्दः प्रत्येकं परिसमाप्यते, आहोस्वित्समुदाये वर्तते?
(संदेहबीजभाष्यम्)
किं चातः?
(प्रथमपक्षाङ्गीकारेविशेषप्रदर्शनभाष्यम्)
यदितावत्प्रत्येकं परिसमाप्यते, पुरस्तादेव चोदितं परिहृतं च।।
(द्वितीयपक्षाङ्गीकारभाष्यम्)
अथ समुदाये वर्तते।।
(1560 द्वितीयपक्षे विशेषप्रदर्शनवार्तिकम् ।। 7 ।।)
- न वा समाहारैकत्वात् -
(भाष्यम्) न वैतत् समाहारैकत्वादपि सिध्यति।।
(प्रथमपक्षाङ्गीकारभाष्यम्)
एवं तर्हि प्रत्येकं परिसमाप्यते।। पुरस्तादेव चोदितं परिहृतं च।।
(व्याख्यान्तरभाष्यम्)
अपर आह --
 न वा समाहारैकत्वात् ।।
न वा योगारम्भेणैवार्थः। किं कारणम्? समाहारैकत्वादेकवचनं भविष्यति।। द्विगुरेक ।। 1 ।।
<M.2.535>
-2-4-2- द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (533)
(337 एकवद्भावसूत्रम् ।। 2।4।1 आ 2)
(अनिष्टापत्तिवारणाधिकरणम्)
(1561 शेषपूर्तिवार्तिकम् ।। 1 ।।)
- प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणम् -
(भाष्यम्) प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम्। प्राण्यङ्गानां प्राण्यङ्गैरिति वक्तव्यम्। तूर्याङ्गानां तूर्याङ्गौरिति वक्तव्यम्। सेनाङ्गानां सेनाङ्गेरिति वक्तव्यम्।। किं प्रयोजनम्? व्यतिकरो मा भूदिति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्।।
(1562 समाधानहेतुवार्तिकम् ।। 2 ।।)
- योगविभागात्सिद्धम् -
(भाष्यम्) योगविभागः करिष्यते -- प्राण्यङ्गानाम् ततः -- तूर्याङ्गानाम्। ततः सेनाङ्गानाम् इति।।
(आक्षेपभाष्यम्)
स तर्हि योगविभागः कर्तव्यः?
(समाधानभाष्यम्)
न कर्तव्यः। प्रत्येकमङ्गशब्दः परिसमाप्यते।। द्वन्द्वश्च ।। 2 ।।
<M.2.536>
-2-4-3- अनुवादे चरणानाम् (534)
(338 एकवद्भावसूत्रम् ।। 2।4।1 आ.3 ।।)
(आक्षेपभाष्यम्)
इह कस्मान्न भवति -- नन्दन्तु कठकालापाः, वर्धन्तां कठकौथुमाः?
(1563 समाधानवार्तिकम् ।। 1 ।।)
- स्थेणोः -
(व्याख्याभाष्यम्)
स्थेणोरिति वक्तव्यम् ।।
(आक्षेपभाष्यम्)
एवमपि तिष्ठन्तु कठकालापा इत्यत्रापि प्राप्नोति।।
(1564 समाधानवार्तिकम् ।। 2 ।।)
(- अद्यतन्यां च -)
(भाष्यम्) अद्यतन्यां चेति वक्तव्यम्। उदगात्कठकालापम्। प्रत्यष्ठात्कठकौथुमम्। उदगात्कौमोदपैप्पलादम्।। अनुवादे ।। 3 ।।
-2-4-7- विशिष्टलिङ्गो नदीदेशोऽग्रामाः (538)
339 एकवद्भावसूत्रम् ।। 2।4।1 आ 4)
(अनिष्टवारणाधिकरणम्)
(1565 प्रतिप्रसववार्तिकम् प्र्प्र् 1प्र्प्र् )
- ग्रामप्रतिषेधे नगरप्रतिषेधः -
(भाष्यम्) अग्रामा इत्यत्रानगराणामिति वक्तव्यम्। इह मा भूत् -- मथुरापाटलिपुत्रमिति।।
(1566 वार्तिकम् ।। 2 ।।)
(- उभयतश्च -)
(भाष्यम्) उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्य। शौर्यं च केतवता च शौर्यकेतवते। जाम्बवं च शालूकिनी च जाम्बवशालूकिन्यौ।। विशिष्ट ।। 7 ।।
-2-4-8- क्षुद्रजन्तवः (539)
(340 एकवद्भावसूत्रम् ।। 2।4।1 आ. 5)
(क्षुद्रजन्तुत्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
क्षुद्रजन्तव इत्युच्यते। के क्षुद्रजन्तवः?
(समाधानभाष्यम्)
क्षोत्तव्या जन्तवः क्षुद्रजन्तवः।।
(आक्षेपभाष्यम्)
यद्येवं यूकालिक्षं कीटपिपीलिकं दंशमशकमिति न सिध्यति।।
(समाधानभाष्यम्)
एवं तर्ह्यनस्थिकाः क्षुद्रजन्तवः।।
(लक्षणान्तरभाष्यम्)
अथ वा येषां स्वं शोणितं नास्ति ते क्षुद्रजन्तवः।।
<M.2.537>
(लक्षणान्तरभाष्यम्)
अथ वा येषामासहस्रादञ्जलीर्न पूर्यते ते क्षुद्रजान्तव: ।।
(लक्षणान्तरभाष्यम्)
अथ वा येषां गोचर्ममात्रं राशिं हत्वा न पतति ते क्षुद्रजन्तवः।।
(सिद्धान्तलक्षणम्)
अथ वा नकुलपर्यन्ताः क्षुद्रजन्तवः।। क्षुद्रजन्त ।। 8 ।।
-2-4-9- येषां च विरोधः शाश्वतिकः (540)
(341 एकवद्भावसूत्रम् ।। 2।4।1 आ. 6)
(आक्षेपभाष्यम्)
किमर्थश्चकारः?
(समाधानभाष्यम्)
एवकारार्थश्चकारः -- येषां विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति।। किं चान्यत्प्राप्नोति? (ठठविभाषा वृक्षमृग -- इति। तत्र) पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् इत्युक्तम्, तन्न वक्तव्यं भवति।। येषां च ।। 9 ।।
-2-4-10- शूद्राणामनिरवसितानाम् (541)
(342 एकवद्भावंसूत्रम् ।। 2।4।1 आ. 7)
(अनिरवसितशब्दार्थाधिकरणम्)
(आक्षेपभाष्यम्)
अनिरवसितानाम् इत्युच्यते। कुतोऽनिरवसितानाम्?
(समाधानभाष्यम्)
आर्यावर्तादनिरवसितानाम् ।।
(आक्षेपभाष्यम्)
कः पुनरार्यावर्तः?
(समाधानभाष्यम्)
प्रागादर्शात्प्रत्यक्कालकवनाद्दक्षिणेन हिमवन्तमुत्तरेण पारियात्रम् ।।
(आक्षेपभाष्यम्)
यद्येवं किष्किन्धगन्धिकं शकयवनं शौर्यक्रौञ्चमिति न सिध्यति।।
(समाधानभाष्यम्)
एवं तर्ह्यार्यनिवासादनिरवसितानाम्।। कः पुनरार्यनिवासः? ग्रामो घोषो नगरं संवाह इति।।
(आक्षेपभाष्यम्)
एवमपि य एते महान्तः संस्त्यायास्तेष्वभ्यन्तराश्चण्डाला मृतपाश्च वसन्ति तत्र चण्डालमृतपा इति न सिध्यति।।
(समाधानभाष्यम्)
एवं तर्हि याज्ञात्कर्मणोऽनिरवसितानाम्।।
<M.2.538>
(आक्षेपभाष्यम्)
एवमपि तक्षाङायस्कारं रजकतन्तुवायमिति न सिध्यति।।
(सिद्धान्तसमाधानभाष्यम्)
एवं तर्हि पात्रादनिरवसितानाम्। यैर्भुक्ते पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिता इति।। शूद्राणाम् ।। 10 ।।
-2-4-11- गवाश्वप्रभृतीनि च (542)
(343 एकवद्भावसूत्रम् ।। 2।4।1 आ.8)
(गणपठितरूपविवक्षाधिकरणम्)
1567 वार्तिकम् ।। 1 ।। )
- गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् -
(भाष्यम्) गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तं द्रष्टव्यम्। गवाश्वम्। गवाविकम्। गवैडकम्।। गवाश्व ।। 11 ।।
-2-4-12- विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (543)
(344 एकवद्भावसूत्रम् ।। 2।4।1 आ.9)
(नियमाधिकरणम्)
(1568 नियमवार्तिकम् ।। 1 ।।)
- बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् -
(भाष्यम्) फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां द्वन्द्वः विभाषा एकवद्भवति बहुप्रकृतिरिति वक्तव्यम्।। फल -- बदरामलकम्। बदरामलकानि।। सेना -- हरत्यश्वत्थम् । हरत्यश्वाः।। वनस्पति -- प्लक्षन्यग्रोधम्। प्लक्षन्यग्रोधाः।। मृग -- रुरुपृषतम्। रुरुपृषताः।। शकुनि -- हंसचक्रवाकम्। हंसचक्रवाकाः।। क्षुद्रजन्तु -- यूकालिक्षम्। यूकालिक्षाः।। धान्य -- व्रीहियवम्। व्रीहियवाः। माषतिलम्। माषतिलाः।। तृण -- कुशकाशम्। कुशकाशाः। शशरीर्षम् प्र् शरशीर्षाः।। किं प्रयोजनम्? बहुप्रकृतिरेव यस्तत्र यथा स्यात्।। क्व माभूत्? बदरामलके तिष्ठतः।।
<M.2.539>
(आक्षेपभाष्यम्)
किं पुनरनेन या प्राप्तिः सा नियम्यते, आहोस्विद् -- अविशेषेण?
(भाष्यम्) किञ्ञ्चातः?
(प्रथमपक्षदूषणभाष्यम्)
यद्यनेन या प्राप्तिः सा नियम्यते, प्लक्षन्यग्रोधौ जातिरप्राणिनाम् इति नित्यो द्वन्द्वैकवद्भावः प्राप्नोति।।
अथाविशेषेण, न दोषो भवति।।
(द्वितीयपक्षाभ्युपगमभाष्यम्)
यथा न दोषस्तथास्तु प्र्प्र्
(1569 पूर्वविप्रतिषेधवार्तिकम् ।। 2 ।।)
- पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् -
(भाष्यम्) पशुशकुनिद्वन्द्वे विरोधिनां येषां च विरोधः शाश्वतिकः इत्येतद्भवति पूर्वविप्रतिषेधेन। पशुशकुनिद्वन्द्वस्यावकाशः -- महाजोरभ्रम्। महाजोरभ्राः। हंसचक्रवाकम्। हंसचक्रवाकाः।। येषां च विरोधः शाश्वतिकः इत्यस्यावकाशः -- श्रमणब्राह्मणम्।। इहोभयं प्राप्नोति -- काकोलूकं श्वशृगालमिति। येषां च विरोधः शाश्वतिकः इत्येतद्भवति पूर्वविप्रतिषेधेन।।
(आक्षेपभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः?
(समाधानभाष्यम्)
न वक्तव्यः। उक्तं चकारकरणस्य प्रयोजनम् -- येषां च विरोधः शाश्वतिकस्तेषां द्वन्द्व एकवचनमेव यथा स्याद् यदन्यत्प्राप्नोति तन्मा भूदिति।।
(1470 पूर्वप्रतिषेधवार्तिकम् ।। 3 ।।
- अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकम् -
(भाष्यम्) अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन।। अश्ववडवयोः पूर्वलिङ्गत्वस्यावकाशः -- विभाषा पशुद्वन्द्वनपुंसकम्, यदा न पशुद्वन्द्वनपुंसकं सोवकाशः -- अश्ववडवौ।। पशुद्वन्द्वनपुंसकस्यावकाशः -- अन्ये पशुद्वन्द्वाः -- महाजोरभ्रं महाजोरभ्राः।। पशुद्वन्द्वनपुंसकप्रसङ्ग उभयं प्राप्नोति
<M.2.540>
-- अश्ववडवम् पशुद्वन्द्वनपुंसकं भवति पूर्वविप्रतिषेधेन।।
(आक्षेपभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः?
(समाधानभाष्यम्)
न वक्तव्यः।।
(1571 समाधानहेतुवार्तिकम् ।। 4 ।।)
- प्रतिपदविधानात्सिद्धम् -
(भाष्यम्) प्रतिपदमत्र नपुंसकं विधीयते -- अश्ववडवपूर्वापर -- इति।।
(1572 प्रत्याख्यानवार्तिकम् ।। 5 ।।)
- एकवचनमनर्थकं समाहारैकत्वात् -
(भाष्यम्) एकवद्भावोऽनर्थकः।। किं कारणम्? समाहारैकत्वात्। एकोयमर्थः समाहारो नाम तस्यैकत्वादेकवचनं भविष्यति।।
(प्रत्याख्यानबाधकभाष्यम्)
इदं तर्हि प्रयोजनम् -- एवं विज्ञास्यामि -- इह नित्यो विधिः, इह विभाषेति।।
(प्रत्याख्यानसाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति -- सर्वो द्वन्द्वो विभाषैकवद्भवति इति। यदयं तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् इत्याह।।
(प्रत्याख्यानबाधकभाष्यम्)
इदं तर्हि प्रयोजनम् -- स नपुंसकम् इति वक्ष्यामीति।।
(प्रत्याख्यानसाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं वक्तव्यम्?
(समाधानभाष्यम्)
वक्तव्यं च। किं प्रयोजनम्? पूर्वत्र नित्यार्थम्, उत्तरत्र व्यभिचारार्थं विभाषा वृक्षमृग इति।। विभाषा वृदृ ।। 12 ।।
<M.2.541>
-2-4-16- विभाषा समीपे (547)
(345 एकवद्भावसूत्रम् ।। 2।4।1 आ.10)
(प्रत्याख्यानाधिकरणम्)
(आक्षेपभाष्यम्)
किमुदाहरणम्?
(समाधानभाष्यम्)
उपदशं पाणिपादम्, उपदशाः पाणिपादाः।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम् अयं द्वन्द्वैकवद्भाव आरभ्यते तत्र कः प्रसङ्गो यदनुप्रयोगस्य स्यात्।।
(प्रत्याख्यानोपसंहारभाष्यम्)
एवं तर्ह्यव्ययस्य संख्ययाऽव्ययीभावोप्यारभ्यते बहुव्रीहिरपि। तद्यदा तावदेकवचनं तदाव्ययीभावोनुप्रयुज्यते एकार्थस्यैकार्थ इति। यदा बहुवचनं तदा बहुव्रीहिरनुप्रयुज्यते बह्वर्थस्य बह्वर्थ इति। विभाषा ।। 16 ।।
-2-4-19- तत्पुरुषोऽनञ्ञ्कर्मधारयः (550)
(अथ लिङ्गानुशासनप्रकरणम्)
(346 नपुंसकत्वसूत्रम् ।। 2।4।1 आ.11)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(एकदेशिसमाधानभाष्यम्)
संज्ञायां कन्थोशीनरेषु इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा माभूदिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। नहि संज्ञायां कन्थात उशीनरेष्वतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।।
(समाधानभाष्यम्)
उत्तरार्थं तर्हि -- उपज्ञोपक्रमं तदाद्याचिख्यासायाम् इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।।
<M.2.542>
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। नहि तदाद्याचिख्यासायामुपज्ञोपक्रमान्तोऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।।
(समाधानभाष्यम्)
उत्तरर्थमेव तर्हि -- छाया बाहुल्ये इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। नहि च्छायान्तो बाहुल्येऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।।
(समाधानभाष्यम्)
उत्तरर्थमेव तर्हि सभा राजाऽमनुष्यपूर्वा अशालाच इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।।
(समाधानबाधकभाष्यम्)
एतदपि नास्ति प्रयोजनम्। नहि सभान्तोऽशालायामतत्पुरुषो नञ्समासः कर्मधारयो वास्ति।।
(समाधानभाष्यम्)
इदं तर्हि विभाषा सेनासुरा -- इति वक्ष्यति तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति।।
(आक्षेपभाष्यम्)
तत्पुरुष इति किमर्थम्?
(समाधानभाष्यम्)
दृढसेनो राजा।।
(आक्षेपभाष्यम्)
अनञिति किमर्थम्?
(समाधानभाष्यम्)
असेना।।
(आक्षेपभाष्यम्)
अकर्मधारय इति किमर्थम्?
(समाधानभाष्यम्)
परमसेना। उत्तमसेना।। तत्पुरुदृ।। 19 ।।
-2-4-26- परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (557)
(347 द्वन्द्वतत्पुरुषलिङ्गानुशासनसूत्रम् ।। 2।4।1 आ. 12)
(सूत्रप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमिदमुच्यते?
(समाधानभाष्यम्)
द्वन्द्वोयमुभयपदार्थप्रधानः। तत्र कदाचित्पूर्वस्य यल्लिङ्गं तत्समासस्यापि स्यात्, कदाचिदुत्तरपदस्य इष्यते च परस्य यल्लिङ्गं तत्समासस्य यथा स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्येवमर्थमिदमुच्यते।।
<M.2.543>
(समाधानशेषभाष्यम्)
तत्पुरुषश्चापि कः प्रयोजयति? यः पूर्वपदार्थप्रधान एकदेशिसमासः -- अर्धपिप्पलीति।। यो
ह्युत्तरपदार्थप्रधानः, दैवकृतं तस्य परवल्लिङ्गम् ।।
(अनिष्टापत्तिवारणाधिकरणम्)
(1573 आक्षेपवार्तिकम् ।। 1 ।।)
- परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः -
(भाष्यम्) परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः।। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापन्नजीविकः।। अलंपूर्व -- अलं जीविकायै अलंजीविकः।। गतिसमास -- निष्कौसाम्बिः निर्वाराणसिः।।
(1574 प्रतिषेधवार्तिकम् ।। 2 ।।)
- पूर्वपदस्य च -
(भाष्यम्) पूर्वपदस्य च प्रतिषेधो वक्तव्यः। मयूरीकुक्कुटौ ।।
(आशयान्तरेण प्रतिषेधनवैर्यथ्यभाष्यम्)
यदि पुनर्थथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासादन्यदतिदिश्यते।।
(1575 आशयान्तरदूषणवार्तिकम् ।। 3 ।।)
- समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् -
(भाष्यम्) समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टापो लुग्वक्तव्यः। अश्ववडवौ।।
(1576 दूषणबाधकवार्तिकम् ।। 4 ।।)
- निपातनात्सिद्धम् -
(भाष्यम्) निपातनात्सिद्धमेतत्।। किं निपातनम्? अश्ववडवपूर्वापरेति।।
(1577 दूषणबाधकान्तरवार्तिकम् ।। 5 ।।)
- उपसर्जनह्रस्वत्वं वा -
(भाष्यम्) अथ वा उपसर्जनस्य इति ह्रस्वत्वं भविष्यति।।
<M.2.544>
(आक्षेपभाष्यम्)
इहापि तर्हि प्राप्नोति -- कुक्कुटमयूर्यौ इति।।
(इष्टापत्तिभाष्यम्)
अस्तु।।
(1578 व्याख्यान्तरवार्तिकम् ।। 6 ।।)
- परवल्लिङ्गमिति शब्दशब्दार्थो -
(भाष्यम्) परवल्लिङ्गमिति शब्दशब्दार्थावतिदिश्येते। तत्रौपदेशिकस्य ह्रस्वत्वम्। आतिदेशिकस्य श्रवणं भविष्यति।।
(आक्षेपान्तरभाष्यम्)
इदं तर्हि -- दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये। दत्ता च गार्ग्यायणी च दत्तागार्ग्यायण्यौ। द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः।।
(इष्टापत्तिभाष्यम्)
स्ताम्। पुंवद्भावेनैकस्य निवृत्तिर्भविष्यति।।
(आक्षेप्रभाष्यम्)
इदं तर्हि -- दत्ता च युवतिश्च दत्तायुवती। द्वौ तिशब्दौ प्राप्नुतः।।
(उपसंहारभाष्यम्)
तस्मान्नैतच्छक्यं वक्तुं शब्दशब्दार्थावतिदिश्येते इति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तं समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् इति।।
(समाधानभाष्यम्)
परिहृतमेतत् -- निपातनात्सिद्धम् इति।।
(समाधानभाष्यम्)
अथ वा नैवं विज्ञायते -- परस्यैव परवदिति। कथं तर्हि? परस्येव परवदिति। यथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासस्यातिदिश्यते। अथ पूर्वपदस्य न प्रतिषिध्यते।।
<M.2.545>
(आक्षेपभाष्यम्)
प्राप्तादिषु कथम्?
(1579 समाधानवार्तिकदम् ।। 7 ।।)
- प्राप्तादिषु चैकदेशिग्रहणात्सिद्धम् -
(भाष्यम्) द्वन्द्वैकदेशिनोः इति वक्ष्यामि।।
(आक्षेपभाष्यम्)
तदेकदेशिग्रहणं कर्तव्यम्?
(समाधानभाष्यम्)
न कर्तव्यम्। एकदेशिसमासो नारभ्यते।।
(आक्षेपभाष्यम्)
कथमर्धपिप्पलीति?
(समाधानभाष्यम्)
समानाधिकरणो भविष्यति -- अर्धं च सा पिप्पली च अर्धपिप्पलीति।।
(समाधानबाधकभाष्यम्)
न सिध्यति। परत्वात्षष्ठीसमासः प्राप्नोति।।
(षष्ठीसमासासंभवभाष्यम्)
अद्य पुनरयमेकदेशिसमास आरभ्यमाणः षष्ठीसमासं बाधते।।
(षष्ठीसमासेष्टापत्तिभाष्यम्)
इष्यते च षष्ठीसमासोपि। तद्यथा -- अपूपार्धं मया भक्षितं ग्रामार्थं मया लब्धमिति। एवं पिप्पल्यर्धमित्यपि भवितव्यम्।।
(आक्षेपभाष्यम्)
कथमर्धपिप्पलीति?
(समाधानभाष्यम्)
समानाधिकरणो भविष्यति।। परवल्लिङ्गम् ।। 26 ।।
-2-4-29- रात्राह्नाहाः पुंसि (460)
348 पुंलिङ्गसूत्रम् ।। 2।4।1 आ.13)
(शेषपूरणाधिकरणम्)
(1580 शेषवार्तिकम् प्र्प्र् 1प्र्प्र्)
- अनुवाकादयः पुंसि -
(भाष्यम्) अनुवाकादयः पुंसि भाष्यन्त इति वक्तव्यम्। अनुवाकः। शंयुवाकः।। रात्रा । 29 ।।
<M.2.546>
-2-4-30- अपथं नपुंसकम् (561)
(349 नपुंसकसूत्रम् ।। 2।4।1 आ.14)
(शेषपूर्त्यधिकरणम्)
(1581 शेषवार्तिकम् ।। 1 ।।)
- पुण्यसुदिनाभ्यामह्नः -
(भाष्यम्) पुण्यसुदिनाभ्यामह्नो नपुंसकत्वं वक्तव्यम्। पुण्याहम्। सुदिनाहम्।।
(1582 शेषवार्तिकम् ।। 2 ।।)
- पथः संख्याव्ययादेः -
(भाष्यम्) पथः संख्याव्ययादेरिति वक्तव्यम्।। द्विपथं त्रिपथं चतुष्पथम् उत्पथं विपथम् ।।
(1583 शेषवार्तिकम् ।। 3 ।।)
- द्विगुश्च -
(भाष्यम्) द्विगुश्च समासो नपुंसकलिङ्गो भवतीति वक्तव्यम्। पञ्चगवं दशगवम्।।
(1584 शेषवार्तिकम् ।। 4 ।।)
- अकारान्तोत्तरपदो द्विगुः स्त्रियाम् -
(भाष्यम्) अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चपूली दशपूली।।
(1585 शेषवार्तिकम् ।। 5 ।।)
- वाबन्तः -
(भाष्यम्) वा आबन्तः स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चखट्वी पञ्चखट्वम्। दशखट्वी दशखट्वम् ।।
(1586 शेषवार्तिकम् ।। 6 ।।)
- अनो नलोपश्च -
(भाष्यम्) अनो नलोपश्च वा च स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चतक्षी पञ्चतक्षम् ।।
<M.2.547>
(1587 शेषवार्तिकम् ।। 7 ।।)
- पात्रादिभ्यः प्रतिषेधः -
(भाष्यम्) पात्रादिभ्यः प्रतिषेधो वक्तव्यः। पञ्चपात्रं द्विपात्रम् ।। 30 ।।
-2-4-31- अर्धर्चाः पुंसि च (562)
(350 पुंनपुंसकलिङ्गसूत्रम् ।। 2।4।1 आ.15।।)
(बहुवचनस्याद्यर्थकत्वाधिकरणम्)
(1588 वार्तिकम् ।। 1 ।।)
- अर्धर्चादयः -
(भाष्यम्) अर्धर्चादय इति वक्तव्यम्। अर्धर्चः अर्धर्चम्। कार्षापणं कार्षापणः। गोमयं गोमयः। सरकं सरकः।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम् ।।
(1589 समाधानसाधकवार्तिकम् ।। 2 ।।
- बहुवचननिर्देशात्सिद्धम् -
(भाष्यम्) बहुवचननिर्देशादाद्यर्थो गम्यते।। अर्धर्चाः ।। 31 ।।
-2-4-32- इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (563)
(अथ विधिप्रकरणम्)
(351 आदेशविधिसूत्रम् ।। 2।4।1 आ.16।।)
(अन्वादेशलक्षणाधिकरणम्)
(1590 वार्तिकम् ।। 1 ।।)
- अन्वादेशे समानाधिकरणग्रहणम् (दैवदत्तं भोजयेमं चेत्यप्रसङ्गार्थम्)-
(भाष्यम्) अन्वादेशे समानाधिकरणग्रहणं कर्तव्यम्।। किं प्रयोजनम्? देवदत्तं भोजय इमं चेत्यप्रसङ्गार्थम् प्र् इह मा भूत् - देवदत्तं भोजय इमं च यज्ञदत्तं भोजयेति।।
(1591 अन्वादेशलक्षणवार्तिकम् ।। 2 ।।)
- अन्वादेशश्च कथितानुकथितमात्रम् -
(भाष्यम्) अन्वादेशश्च कथितानुकथितमात्रं द्रष्टव्यम्। तद् द्वेष्यं विजानीयाद्-इदमा कथितमिदमैव यदानुकथ्यत इति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे -- अन्वादेशश्च कथितानुकथितमात्रमिति।।
(आदेशशित्करणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
अथ किमर्थमशादेशः क्रियते, न तृतीयादिषु इत्येवोच्येत। तत्र टायामोसि च एनेन भवितव्यम्। अन्याः सर्वा हलादयो विभक्तयः। तत्र इद्रूपलोपे कृते केवलमिदमोनुदात्तत्वं वक्तव्यम्।।
(समाधानभाष्यम्)
अत उत्तरं पठति --
(1592 प्रयोजनवार्तिकम् प्र्प्र् 3 प्र्प्र्)
- अशादेशवचनं साकच्कार्थम् -
(भाष्यम्) अशादेशवचनं साकच्कार्थं क्रियते। साकच्कस्यायमादेसो यथा स्यात् -- इमकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतमिति।।
(आक्षेपभाष्यम्)
अथ किमर्थं शित्करणम्?
(1593 समाधानवार्तिकम् ।। 4 ।। )
- शित्करणं सर्वादेशार्थम् -
(भाष्यम्) शित्करणं क्रियते सर्वादेशार्थम्। शित्सर्वस्येति सर्वादेशो यथा स्यात् -- इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतमिति। अक्रियमाणे हि शित्करणेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत ।।
(1594 समाधानबाधकवार्तिकम् ।। 5 ।।)
- न वान्त्यविकारवचनानर्थक्यात् -
(भाष्यम्) न वा वक्तव्यम्।। किं कारणम्? अन्त्यस्य विकारवचनानर्थक्यात्। अकारस्याकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारं सर्वादेशो भविष्यति।।
(1595 समाधानसाधकवार्तिकम् ।। 6 ।।)
- अर्थवत्त्वादेशप्रतिषेधार्थम् (तस्माच्छित्करणम्)-
(भाष्यम्) अर्थवत्त्वकारस्याकारवचनम् ।। कोर्थः ? आदेशप्रतिषेधार्थम्। येऽन्ये अकारस्यादेशाः प्राप्नुवन्ति तद्बाधनार्थम्। तद्यथा -- मो राजि समः क्कौ इति मकारस्य मकारवचने प्रयोजनं नास्तीति कृत्वा अनुस्वारादयो बाध्यन्ते। तस्माच्छित्करणम्। तस्माच्छकारः कर्तव्यः।।
(एकदेशिसमाधानबाधकभाष्यम्)
न कर्तव्यः। प्रश्लिष्टनिर्देशोयम् -- अ अ अनेकाल् शित्सर्वस्य इति सर्वादेशो भविष्यति।।
(समाधानबाधकभाष्यम्)
अथ वा विचित्रास्तद्धितवृत्तयः। नान्वादेशेकजुत्पद्यते।। इदमो ।। 32 ।।
-2-4-33- एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (564)
(352 आदेशसूत्रम् ।। 2।4।1 आ. 17)
(अनुदात्तत्वकथनप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थं त्रतसोरनुदात्तत्वमुच्यते?
(समाधानभाष्यम्)
उदात्तौ मा भूतामिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। लित्स्वरे निघाते एतदनुदात्तत्वेन सिद्धम्।।
(समाधानसाधकभाष्यम्)
इदमिह संप्रधार्यम् -- अनुदात्तत्वं क्रियताम्, लित्स्वर इति। किमत्र कर्तव्यम्? परत्वाल्लित्स्वरः।। नित्यमनुदात्तत्वम् -- कृतेपि लित्स्वरे प्राप्नोति, अकृतेपि। तत्र नित्यत्वादनुदात्तत्वे कृते लिति पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत। तद्यथा -- गोष्पदप्रं वृष्टो देवः ऊलोपे कृते पूर्व उदात्तभावी नास्तीति कृत्वा यथाप्राप्तः प्रत्ययस्वरो भवति। तस्मात्रतसोरनुदात्तत्वं वक्तव्यम्।। एतदः ।। 33 ।।
-2-4-34- द्वितीयाटौस्स्वेनः 565
(353 आदेशसूत्रम् ।। 2।4।1 आ.18)
(इदमोपि स्थानित्वाधिकरणम्)
(आक्षेपभाष्यम्)
कस्यायमेनो विधीयते। एतदः प्राप्नोति। इदमोपि त्विष्यते। तदिदमो ग्रहणं कर्तव्यम्।।
(समाधानभाष्यम्)
न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ इति।।
(आक्षेपभाष्यम्)
यदि तदनुवर्तते, एतदस्त्रतसोस्त्रतसौ चानुदात्ताविदमश्च इतीदमोपि प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
नैष दोषः। संबन्धमनुवर्तिष्यते। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ। एतदस्त्रतसोस्त्रतसौ चानुदात्तौ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादावशू भवति। ततः द्वितीयाटौस्रत्वेनः। इदमः एतदश्च। तृतीयादौ इति निवृत्तम्।।
अथ वा मण्डूकगतयोऽधिकाराः। तद्तथा -- मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः।।
(आक्षेपबाधकशेषभाष्यम्)
अथ वा एकयोगः करिष्यते -- इदमोऽन्वादेशेशनुदात्तस्तृतीयादावेतदस्त्रतसोस्त्रतसौ चानुदात्तौ। ततः द्वितीयाटौस्स्वेनः इदम एतदश्च। तृतीयादाविति निवृत्तम् ।।
(आक्षेपबाधकशेषभाष्यम्)
अथवोभयं निवृत्तं तदपेक्षिष्यामहे।।
(1596 वार्तिकम् ।। 1 ।।)
- एनदिति नपुंसकैकवचने -
(भाष्यम्) एनदिति नपुंसकैकवचने वक्तव्यम्। इदं कुण्डमानय प्रक्षालयैनत् परिवर्तयैनत् ।।
(आक्षेपभाष्यम्)
यद्येनत्क्रियते एनो न वक्तव्यः।।
(प्रत्याक्षेपभाष्यम्)
का रूपसिद्धिः -- अथो एनम्, अथो एने, अथो एनानीति?।।
(प्रत्याक्षेपसमाधानभाष्यम्)
त्यदाद्यत्वेन सिद्धम् ।।
(समाधानबाधकभाष्यम्)
यद्येवमेनश्रितको न सिध्यति। एनच्छ्रितक इति प्राप्नोति।।
(समाधानसाधकभाष्यम्)
यथालक्षणमप्रयुक्ते।। द्वितीयाटौ ।। 34 ।।
-2-4-35- आर्धधातुके (566)
(अथार्धधातुकाधिकारप्रकरणम्)
(354 अधिकारसूत्रम् ।2।4।1 आ.19)
(सप्तम्या वैषयिकत्वाधिकरणम्)
(1597 आक्षेपवार्तिकप्रथमखण्डम् ।। 1 ।।)
- जग्ध्यादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्विधानम् -
(भाष्यम्) जग्धयादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्नार्धधातुके जग्ध्यादिभिर्भवितव्यम्।।
(आक्षेपभाष्यम्)
किमतो यत्सति भवितव्यम्?
(1598 आक्षेपवार्तिकद्वितीयखण्डम् ।। 2 ।।)
- तत्रोत्सर्गलक्षमप्रतिषेधः -
(भाष्यम्) तत्रोत्सर्गलक्षणं कार्यं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः। भव्यं प्रवेयम् आख्येयम्। ण्यत्यवस्थितेऽनिष्टे प्रत्यय आदेशः स्याद्। ण्यतः श्रवणं प्रसज्येत।।
(1599 समाधानवार्तिकम् ।। 3 ।।)
- सामान्याश्रयत्वाद्विशेषस्यानाश्रयः -
(भाष्यम्) सामान्ये ह्याश्रीयमाणे विशेषो नाश्रितो भवति तत्रार्धधातुकसामान्ये जग्ध्यादिषु यो यतः प्रत्ययः प्राप्नोति स ततो भविष्यति।।
(1600 आक्षेपवार्तिकम् ।। 4 ।।)
- सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेदुवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्गः -
(भाष्यम्) सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेद् उवर्णाकारान्तेभ्यो ण्यत्प्राप्नोति। लव्यं पव्यमिति आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे हलन्ताद् इति ण्यत्प्राप्नोति। इह च दित्स्यं धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्ताद् इति ण्यत्प्राप्नोति।।
(1601 आक्षेपान्तरवार्तिकम् ।। 5 ।।)
- पौर्वापर्याभावाच्च सामान्येनानुपपत्तिः -
(भाष्यम्) पौर्वापर्याभावाच्च सामान्येन जग्ध्यादीनामनुपपत्तिः। न हि सामान्येन पौर्वापर्यमस्ति।।
(1602 न्यासान्तरेपसमाधानवार्तिकम् ।। 6 ।।
- सिद्धं तु सार्वधातुके प्रतिषेधात् -
(भाष्यम्) सिद्धमेतत्। कथम्? अविशेषेण जग्ध्यादीनुक्त्वा सार्वधातुके न इति प्रतिषेधं वक्ष्यमि ।।
(आक्षेपभाष्यम्)
सिध्यति। सूत्रं तर्हि भिद्यते।।
(सिद्धान्तिभाष्यम्)
यथान्यासमेवास्तु।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् जग्ध्यादिष्वार्धधातुकाश्रयत्वात्सति तस्मिन्विधानम् ।। इति।।
(समाधानस्मारणभाष्यम्)
परिहृतमेतत् सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेदुवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्ग इति।।
(समाधानभाष्यम्)
नैष दोषः। वक्ष्यति तत्राज्ग्रहणस्य प्रयोजनम् -- अजन्तभूतपूर्वमात्रादपि यथा स्याद् इति।।
(द्वितीयाक्षेपपरिहारबाधकभाष्यम्)
यदप्युच्यते -- पौर्वापर्याभावाच्च सामान्येनानुपपत्तिः इति।। अर्थसिद्धिरेवैषा यत्सामान्येन पौर्वापर्यं नास्तीति। असति पौर्वापर्ये विषयसप्तमी विज्ञास्यतेआर्धधातुके विषये इति। तत्रार्धधातुके विषये जग्ध्यादिषु कृतेषु यो यतः प्राप्नोति स ततो भविष्यति।।
अथ वा आर्धधातुकास्विति वक्ष्यामि। कासु आर्धधातुकासु? उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु संज्ञासु।। आर्धधातुके ।। 35 ।।
-2-4-36- अदो जग्धिर्ल्यप्तिकिति (567)
(355 आदेशसूत्रम् ।। 2।4।1 आ.20 सू.)
(अन्तरङ्गानपि निधीन् बहिरङ्गो ल्यब् बाधत इति परिभाषाधिकरणम्)
(आक्षेपभाष्यम्)
ल्यब्ग्रहणं किमर्थम्। न ति कितीत्येव सिद्धम् ।।
(आक्षेपबाधकभाष्यम्)
ल्यपि कृते न प्राप्नोति।।
(आक्षेपसाधकभाष्यम्)
इदमिह संप्रधार्थम् -- ल्यप् क्रियताम्, आदेशः, किमत्र कर्तव्यम्? परत्वाल्ल्यप्। अन्तरङ्ग, आदेशः।।
(समाधानभाष्यम्)
एवं तर्हि सिद्धे सति यल्ल्यब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः -- अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब् बाधते इति। किमेतस्य ज्ञापने प्रयोजनम्? ल्यबादेश उपदेशिवद्वचनमनादिष्टार्थं बहिरङ्गलक्षणत्वाद् इति वक्ष्यति, तन्न वक्तव्यं भवति।।
(संवादभाष्यम्)
जग्धिविधिर्ल्यपि यत्तदकस्मा-
त्सिद्धमदस्ति कितीति विधानात्।।
हिप्रभृतींस्तु सदा बहिरङ्गो
ल्यब्भरतीति कृतं तदु विद्धि ।। 1 ।।
(संवादभाष्यम्)
एष एवार्थः --
जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते।।
ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम् इति।। अदोजग्धि ।। 36 ।।
-2-4-37- लुङ्सनोर्घस्लृ (568)
(356 आदेशसूत्रम् । 2।4।1 आ.21।।
(1603 शेषवार्तिकम् ।। 1 ।।)
।। । घस्लृभावेऽच्युपसंख्यानम् -
(भाष्यम्) घस्लृभावेऽच्युपसंख्यानं कर्तव्यम्। प्रात्तीति प्रघसः।। लुङ्सनो ।। 37 ।।
-2-4-42- हनो वध लिङि (573)
(357 आदेशसूत्रम् ।। 2।4।1 आ.22)
(आदेशेऽदन्तत्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमयमदन्तः, आहोस्विद्व्यञ्जनान्तः?
(भाष्यम्) किं चातः?
(विशेषप्रदर्शकभाष्यम्)
यदि व्यञ्जनान्तः वधौ व्यञ्जनान्त उक्तम् । किमुक्तम्? वध्यादेशे वृद्धितत्वप्रतिषेध इडि्वधिश्च इति। अथादन्तः। न दोषो भवति।।
(सिद्धान्तिभाष्मय्)
यथा न दोषस्तथास्तु।। हनो।। 42।।
-2-4-43- लुङि च (574)
(358 आदेशसूत्रम् । 2।4।1 आ.23)
(आदेशेऽदन्तत्वनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमयमदन्तः, आहोस्विद्व्यञ्जनान्तः?
(भाष्यम्) किं चातः?
(विशेषप्रदर्शकभाष्यम्)
यदि व्यञ्जनान्तः वधौ व्यञ्जनान्त उक्तम् । किमुक्तम्? वध्यादेशे वृद्धितत्वप्रतिषेध इडि्वधिश्च इति। अथादन्तः। न दोषो भवति।।
(सिद्धान्तिभाष्मय्)
यथा न दोषस्तथास्तु।। हनो।। 43।।
-2-4-45- इणो गा लुङि (576)
(359 आदेशसूत्रम् ।। 2।4।1 आ. 24)
(1604 अतिदेशवार्तिकम् ।। 1 ।।)
- इण्वदिकः -
(भाष्यम्) इण्वदिक इति वक्तव्यम्। इहापि यथा स्यात् -- अध्यगात्। अध्यगाताम्। अध्यगुः।। इणो गा ।। 45 ।।
-2-4-46- णौ गमिरबोधने।
इण्वदिक इत्येव। अधिगमयति। अधिगमयतः। अधिगमयन्ति।। णौ गमि ।। 46 ।।
-2-4-47- सनि च
इण्वदिक इत्येव। अधिजिगमिषति। अधिजिगमिषतः। अधिजिगमिषन्ति।। सनि च ।। 47 ।।
-2-4-49- गाङ् ल्लिटि (580)
(362 आदेशसूत्रम् ।। 2।4।1 आ.27)
(ङित्करणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
ङित्करणं किमर्थम्?
(1605 सिद्धान्तिसमाधानवार्तिकम् ।। 1 ।।)
- गाड्यनुबन्धकरणं विशेषणार्थम् -
(भाष्यम्) गाङ्यनुबन्धकरणं क्रियते। विशेषणार्थम् ।। क्व विशेषणार्थेनार्थः? गाङ्कुटादिभ्योऽञ्ञ्णिन्ङिद् इति। गाकुटादिभ्यः इति ह्युच्यमाने इणादेशस्यापि प्रसज्येत।।
(1606 एकदेशिसमाधानान्तरवार्तिकम् ।। 2 ।।)
- ज्ञापकं वा सानुबन्धकस्यादेशवचन इत्कार्याभावस्य -
(भाष्यम्) अथ वैतज्ज्ञापयत्याचार्यः -- सानुबन्धकस्यादेश इत्कार्यं न भवतीति।।
(भाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्?
(1607 प्रयोजनवार्तिकम् ।। 3 ।।)
- प्रयोजनं चक्षिङः ख्याञ्ञ् -
(भाष्यम्) (चक्षिङः ख्याञ्ञ्प्रयोजनम् -- चख्यौ ख्यास्यति) इति ङित इत्यात्मनेपदं नित्यं न भवति।।
(1608 प्रयोजनवार्तिकम् ।। 4 ।।)
- लटः शतृशानचौ -
(भाष्यम्) (लटः शतृशानचौ) प्रयोजनम् पचमानो यजमान इति टित इत्येत्वं न भवति।।
(1609 प्रयोजनवार्तिकम् ।। 5 ।।)
- युवोरनाकौ -
(भाष्यम्) युवोरनाकौ च प्रयोजनम्। नन्दनः कारकः नन्दना कारिकेति। उगिल्लक्षणौ ङीब्नुमौ न भवतः।।
(1610 दूषणवार्तिकम् ।। 6 ।।)
- मेश्चाननुबन्धकस्याम्वचनम् -
(भाष्यम्) मेश्चाननुबन्धकस्याम्वक्तव्यः। अचिनवम्। असुनवम्। अकरवम्।।
(वार्तिकपूर्तिभाष्यम्)
अत्यल्पमिदमुच्यते -- मेरिति। तिप्सिम्मिपामिति वक्तव्यम्। इहापि यथा स्यात् -- वेद वेत्थ।।
(ज्ञापितप्रत्याख्यानभाष्यम्)
अस्य ज्ञापकस्य सन्ति दोषाः।।
सन्ति प्रयोजनानि।।
दोषाः समाः भूयांसो वा। तस्मान्नार्थो ज्ञापकेन ।।
(आक्षेपभाष्यम्)
कथं यानि प्रयोजनानि?
(समाधानभाष्यम्)
नैतानि सन्ति। इह तावत् चक्षिङः ख्याञ्ञ् इति। ञित्करणसामार्थ्याद्विभाषात्मनेपदं भविध्यति।।
(द्वितीयप्रयोजननिराकरणम्)
लटः शतृशानचौ इति। वक्ष्यत्येतत् -- प्रकृतानामात्मनेपदानां टेरेत्वं भवति इति।।
(तृतीयप्रयोजननिराकरणभाष्यम्)
युवोरनाकौ इति। वक्ष्यत्येतत् -- सिद्धं तु युवोरनुनासिकत्वाद् इति गाङ् ।। 49 ।।
-2-4-54- चक्षिङः ख्याञ्ञ् (585)
(आदेशनिर्णयाधिकरणम्)
(आक्षेपभाष्यम्)
किमयं कशादिः, आहोस्वित्ख्यादिः।।
(1611 समाधानवार्तिकम् ।। 1 ।।)
- चक्षिङः कशाञ्ञ्ख्याञ्ञौ -
(भाष्यम्) चक्षिङः कशाञ्ञ् ख्याञ्ञ् इति कशादिः ख्यादिश्च।।
(1612 सिद्धान्तिसमाधानवार्तिकम् ।। 2 ।।)
- खशादिर्वा -
(भाष्यम्) अथ वा खशादिर्भविष्यति ।।
(आक्षेपभाष्यम्)
केनेदानीं कशादिर्भवति?
(समाधानभाष्यम्)
र्चत्वेन ।।
(आक्षेपभाष्यम्)
(अथ) ख्यादिः कथम् ।।
(1613 समाधानवार्तिकम् ।। 3 ।।)
- असिद्धे शस्य यवचनं विभाषा -
(भाष्यम्) असिद्धे शस्य विभाषा यत्वं वक्तव्यम् ।।
(आक्षेपभाष्यम्)
किं प्रयोजनम्?
(1614 प्रयोजनवार्तिकम् ।। 4 ।।)
- प्रयोजनं सौप्रख्येवुञ्ञ्विधिः -
(भाष्यम्) सौप्रख्य इति योपधलक्षणो वुञ्ञ्विधिर्न भवति।। सौप्रख्यीय इति वृद्धाच्छ इति छो भवति।।
(1615 प्रयोजनवार्तिकम् ।। 5 ।।)
- निष्ठानत्वमाख्याते -
(भाष्यम्) आख्यात इति निष्ठानत्वं न भवति।।
(1613 प्रयोजनवार्तिकम् ।। 6 ।।)
- रुविधिः पुंख्याने -
(भाष्यम्) पुंख्यानमिति रुविघिर्न भवति।।
(1617 प्रयोजनवार्तिकम् ।। 7 ।।)
- णत्वं पर्याख्याने -
(भाष्यम्) पर्याख्यानमिति णत्वं न भवति।।
(1618 प्रयोजनवार्तिकम् ।। 8 ।।
- सस्थानत्वं नमः ख्यात्रे -
(भाष्यम्) नमः ख्यात्र इति सस्थानत्वं न भवति।।
(1619 आदेशप्रतिषेधवार्तिकम् ।। 9 ।।
- वर्जने प्रतिषेधः ।।
(भाष्यम्) वर्जने प्रतिषेधो वक्तव्यः। अवसंचक्ष्याः। परिसंचक्ष्याः।।
(1620 आदेशप्रतिषेधवार्तिकम् ।। 10 ।। )
- असनयोश्च -
(भाष्यम्) असनयोश्च प्रतिषेधो वक्तव्यः। नृचक्षा रक्षः। विचक्षण इति।।
(1621 वार्तकम् ।। 11 ।।)
- बहुलं तणि -
(भाष्यम्) बहुलं तणीति वक्तव्यम्।। किमिदं तणीति? संज्ञाछन्दसोर्ग्रहणम्।।
किं प्रयोजनम् ?
(1622 प्रयोजनवार्तिकम् ।। 12 ।।)
- अन्नवधकगात्रविचक्षणाजिराद्यर्थम् -
(भाष्यम्) अन्न -- अन्नम्।। वधक -- वधकम् ।। गात्र -- गात्रं पश्य।। विचक्षण -- विचक्षणः।। अजिर अजिरे तिष्ठति। चक्षि ।। 54 ।।
-2-4-56- अजेर्व्यघञ्ञपोः (587)
(364 आदेशसूत्रम् ।। 2।4।1 आ.29)
(क्यपि प्रतिषेधाधिकरणम्)
(1623 वार्तिकम् ।। 1 ।।)
- घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानम् -
(भाष्यम्) घञ्ञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्। इहापि यथा स्यात् -- समजनं समज्येति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्। अपीत्येव भविष्यति।। कथम्? अपीति नेदं प्रत्ययग्रहणम्।। किं तर्हि? प्रत्याहारग्रहणम्।। क्व सन्निविष्टानां प्रत्याहारः? अपो अकारात्प्रभृत्या क्यपः पकारात्।।
(आक्षेपभाष्यम्)
यदि प्रत्याहारग्रहणम्, संवीतिर्न सिध्यति।।
(समाधानभाष्यम्)
एवं तर्हि नार्थ उपसंख्यानेन नापि घञ्ञपोः प्रतिषेधेन। इदमस्ति चक्षिङः ख्याञ्ञ् वा लिटि इति। ततो वक्ष्यामि अजेर्वी अजेर्वीभावो भवति वा। व्यवस्थितविभाषा वा इति। तेनेह च भविष्यति -- प्रवेता, प्रवेतुम्, प्रवीतोरथः, सवीतिः। इह च न भविष्यति -- समाजः समजः, उदाजः उदजः, समजनम् उदजनं समज्येति। तत्रायमप्यर्थः -- इदमपि सिद्धं भवति प्राजितेति।।
(आक्षेपभाष्यम्)
किंच भो इष्यत एतद्रूपम्?
(समाधानभाष्यम्)
बाढमिष्यते। एवं हि कश्चिद्वैयाकरण आह -- कोस्य रथस्य प्रवेतेति।।
सूत आह -- अहमायुष्मन्नस्य रथस्य प्राजितेति।।
वैयाकरण आह -- अपशब्द इति।।
सूत आह -- प्राप्तिज्ञो देवानांप्रियः, न त्विष्टिज्ञः इष्यत एतद्रूपमिति।।
वैयाकरण आह -- अहो नु खल्वनेन दुरुतेन बाध्यामह इति।।
सूत आह -- न खलु वेञ्ञः सूतः, सुवतेरेव सूतः। यदि सुवतेः कुत्सा प्रयोक्तव्या, दुःसूतेनेति वक्तव्यम्।।
(आक्षेपभाष्यम्)
न तर्हीदानीमिदं वक्तव्यम् वा यौ इति।।
(समाधानभाष्यम्)
वक्तव्यं च।। किं प्रयोजनम्? नेयं विभाषा। किं तर्हि? आदेशो विधीयते -- वा इत्ययमादेशो भवत्यजेर्यौ परतः। वायुरिति।। अजेर्व्य।। 56 ।।
-2-4-58- ण्यक्षत्रियार्षञितो यूनि लुगणिञ्ञोः (589)
(अथ लुक्प्रकरणम्)
(365 लुग्विधायकसूत्रम् ।। 2।4।1 आ.30)
(1624 वार्तिकम् ।। 1 ।।)
- अणिञ्ञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानम् -
(भाष्यम्) अणिञ्ञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानं कर्तव्यम्। बौधिः पिता बौधिः पुत्रः। औदुम्बरिः पिता औदुम्बरिः पुत्रः।।
(न्यासान्तरभाष्यम्)
अपर आह --
(1625 वार्तिकन्यासान्तरम् ।। 2 ।।)
- अणिञ्ञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् -
(व्याख्याभाष्यम्)
अणिञ्ञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति। जाबालिः पिता जाबालिः पुत्रः।।
(न्यासान्तरभाष्यम्)
अपर आह --
(1626 अपरमतेनवार्तिकम् ।। 3 ।।)
- अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् -
(व्याख्याभाष्यम्)
अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानं कर्तव्यमिति। किंप्रयोजनम्? इदमपि सिद्धं भवति -- भाण्डिजङि्घः पिता भाण्डिजङि्घः पुत्रः। कार्णखरकिः पिता कार्णखरकिः पुत्रः।।
इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चचुर्थेपादे प्रथममाह्निकम् ।।
-2-4-62- तद्राजस्य बहुषु तेनैवास्त्रियाम् (593)
(366 लुक्सूत्रम्।। 2।4।2 आ.1 सू.)
(प्रत्ययपक्षदूषणाधिकरणम्)
(1627 आक्षेपवार्तिकम् ।। 1 ।।)
- तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधः -
(भाष्यम्) तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधो वक्तव्यः। प्रिय आङ्ग एषां त इमे प्रियाङ्गाः। प्रियो वाङ्ग एषां त इमे प्रियवाङ्गा इति।।
(प्रत्याक्षेपभाष्यम्)
किमुच्यते समासबहुत्वे प्रतिषेध इति। यदा तेनेव चेत्कृतं बहुत्वम् इत्युच्यते। न चात्र तेनैव कृतं बहुत्वम्?
(प्रत्याक्षेपसमाधानभाष्यम्)
भवति वै किंचिद् -- आचार्याः क्रियमाणमपि चोदयन्ति -- तद्वा कर्तव्यम् -- तेनैव चेद्बहुत्वमिति। समासबहुत्वे वा प्रतिषेध इति।।
(1628 वार्तिकम् ।। 2 ।।)
- अबहुत्वे लुग्वचनम् -
(भाष्यम्) अबहुत्वे च लुग्वक्तव्यः। अतिक्रान्तः अङ्गानत्यङ्ग इति। बहुवचने परतो यस्तद्राज इत्येवं च कृत्वा चोद्यते।।
(आक्षेपभाष्यम्)
अथ किमर्थं पुनरिदम्, न बहुवचन इत्येव सिद्धम् ?
(समाधानभाष्यम)
न सिध्यति। बहुवचन इत्युच्यते। न चात्र बहुवचनं पश्यामः।।
(समाधानबाधकभाष्यम्)
प्रत्ययलक्षणेन।।
(समाधानसाधकभाष्यम्)
न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः।।
(समाधानबाधकभाष्यम्)
न लुमताङ्गस्य इति वक्ष्यामि ।।
(समाधानसाधकभाष्यम्)
नैवं शक्यम्। इह हि दोषः स्यात् -- पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्यः ।।
(1629 दूषणवार्तिकम् ।। 3 ।।)
- द्वन्द्वेऽबहुषु लुग्वचनम् -
(भाष्यम्) द्वन्द्वे अबहुषु लुग्वक्तव्यः। गर्गवत्सवाजा इति। इह च लुग्वक्तव्यः -- गर्गेभ्य आगतं गर्गरूप्यं गर्गमयमिति। इह चात्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति।।
(प्रत्ययार्थबहुत्वस्थापनाधिकरणम्)
(1630 समाधानवार्तिकम् ।। 4 ।।)
- सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् -
(भाष्यम्) सिद्धमेतत्।। कथम्? प्रत्ययार्थबहुत्वे लुग्वक्तव्यः।।
(प्रत्ययार्थपक्षे गौरवभाष्यम्)
यदि प्रत्ययार्थबहुत्वे लुगुच्यते, तेनापि, अस्त्रियाम् इति वक्तव्यम्। इह मा भूत -- आङ्ग्यः स्त्रियः वाङ्ग्यः स्त्रिय इति।। यस्य पुनर्बहुवचने परतो लुगुच्यते तस्य इर्कारेण व्यवहितत्वान्न भविष्यति।
(प्रत्ययपक्षेपि गौरवभाष्यम्)
यस्यापि तु बहुवचने परतो लुगुच्यते, तेनापि अस्त्रियाम् इति वक्तव्यम्। आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रिय इत्येवमर्थम्।।
(बाधकभाष्यम्)
अत्रापि चापा व्यवधानम् ।।
(साधकभाष्यम्)
एकादेशे कृते नास्ति व्यवधानम्।।
(बाधकभाष्यम्)
एकादेशः पूर्वविधौ स्थानिवद्भवतीति स्थानिवद्भावाद्व्यवधानमेव।।
(1631 अर्थपक्षे दूषणवार्तिकम् ।। 5 ।।)
- द्वन्द्वेऽबहुषु लुग्वचनम् -
(भाष्यम्) द्वन्द्वे अबहुषु लुग्वक्तव्यः। गर्गवत्सवाजा इति।।
(1632 अर्थपक्षदूषणवार्तिकम् ।। 6 ।।)
- गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् -
(भाष्यम्) गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग्वक्तव्यः। बिदानामपत्यं माणवको बैदः। बैदौ।।
(आक्षेपभाष्यम्)
किमर्थमिदम्। नाचीत्येवालुक् सिद्धः?
(समाधानभाष्यम्)
अचीत्युच्यते। न चात्राजादिं पश्यामः।।
(समाधानबाधकभाष्यम्)
प्रत्ययलक्षणेन ।।
(समाधानसाधकभाष्यम्)
वर्णाश्रये नास्ति प्रत्ययलक्षणम्।।
(1633 वार्तिकम् ।। 7 ।।)
- एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि -
(भाष्यम्) एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्यः। बैदस्यापत्यं बहवो माणवका बिदाः। बैदयोर्वा बिदाः। अञ्ञ् यो बहुषु यञ्ञ्यो बहुष्वित्युच्यमानो लुङ्न प्राप्नोति।।
(आक्षेपबाधकभाष्यम्)
मा भूदेवम्। अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद्बहुष्वित्येवं भविष्यति।।
(आक्षेपसाधकभाष्यम्)
नैवं शक्यम्। इह हि दोषः स्यात् -- काश्यपप्रतिकृतयः काश्यपा इति।।
(आर्थबहुत्वपक्षे दूषणपरिहारभाष्यम्)
ततोयमाह -- यस्य प्रत्ययार्थबहुत्वे लुक्। द्वन्द्वेऽबहुषु लुग्वचनमित्यस्य परिहारः --
(1634 वार्तिकम् ।। 8 ।।)
- न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् -
(भाष्यम्) न वा एष दोषः। किं कारणम्? सर्वेषां द्वन्द्वे बह्वर्थत्वात्। सर्वाणि द्वन्द्वे बह्वर्थानि।। कथम्? युगपदधिकरणविवक्षायां द्वन्द्वो भवति।।
(बहुवचनप्रत्ययपक्षे दूषणपरिहारभाष्यम्)
ततोयमाह -- यस्य बहुवचने परतो लुक्, यदि सर्वाणि द्वन्द्वे बह्वर्थानि। अहमपीदमचोद्यं चोद्ये -- द्वन्द्वेऽबहुषु लुग्वचनमिति।। ममापि ह्यत्र सर्वत्र बहुवचनं परं भवति।।
(बाधकभाष्यम्)
लुकि कृते न प्राप्नोति।।
(परिहारसाधकभाष्यम्)
प्रत्ययलक्षणेन भविष्यति।।
(परिहारबाधकभाष्यम्)
न लुमता तस्मिन् इति प्रत्ययलक्षमस्य प्रतिषेधः।।
(परिहारसाधकभाष्यम्)
न लुमताङ्गस्य इति वक्ष्यामि।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् -- नैवं शक्यम्। इह हि दोषः स्यात् -- पञ्चभिर्गार्गीभिः क्रीतः पटः पञ्चगार्ग्यो दशगार्ग्य इति।।
(समाधानभाष्यम्)
इष्टमेवैतत्संगृहीतम् -- पञ्चगर्गो दशगर्ग इत्येव भवितव्यम्।।
(दूषणासंगतिभाष्यम्)
तथेदमपरमचोद्यं चोद्ये -- गर्गरूप्यं गर्गमयम्। अत्रापि बहुवचन इत्येव सिद्धम्।। कथम्? समर्थात्तद्धित उत्पद्यते। सार्मथ्यं च सुबन्तेन।।
(परिहारभाष्यम्)
ततोयमाह यस्य प्रत्ययार्थबहुत्वे लुक्। यदि समर्थात्तद्धित उत्पद्यते। अहमपीदमचोद्यं चोद्ये -- गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुग् इति। कथम्? यस्यापि बहुवचने परतो लुक् तेनाप्यलुग्वक्तव्यः। तस्यापि ह्यत्र बहुवचनं परं भवति।।
(अलुग्वचनबाधकभाष्यम्)
न वक्तव्यः। अचीत्येवालुक् सिद्धः।।
(अलुग्वचनसाधकभाष्यम्)
अचीत्युच्यते। न चात्राजादिं पश्यामः।।
(अलुग्वचनबाधकभाष्यम्)
प्रत्ययलक्षणेन।।
(प्रत्ययलक्षणनिषेधस्मारणभाष्यम्)
ननु चोक्तं वर्णाश्रये नास्ति प्रत्ययलक्षणम्इति।।
(समाधानभाष्यम्)
यदि वा कानि चिद्वर्णाश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति।।
(समाधानान्तरभाष्यम्)
अथ वाविशेषेणालुकमुक्त्वा हलि न इति वक्ष्यामि।।
(आक्षेपभाष्यम्)
यद्येवमविशेषेणालुकमुक्त्वाहलि न इत्युच्यते, बिदानामपत्यं बहवो माणवका बिदा अत्रापि प्राप्नोति।।
(समाधानभाष्यम्)
अस्तु। पुनरस्य युवबहुत्वे वर्तमानस्य लुग् भविष्यति।।
(आक्षेपभाष्यम्)
पुनरलुक्कस्मान्न भवति?
(समाधानभाष्यम्)
समर्थानां प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते। न चैतत्समर्थानां प्रथमं गोत्रप्रत्ययान्तम्। किं तर्हि? द्वितीयमर्थमुपसंक्रान्तम्।। अवश्यं चैतदेवं विज्ञेयम्। अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङि्गरसिका कुत्सकुशिकिका इत्येवमर्थम्।।
(1635 समाधानवार्तिकम् 9)
- गर्गभार्गविकाग्रहणं वा नियमार्थम् -
(भाष्यम्) गर्गभार्गविकाग्रहणं वा क्रियते तन्नियमार्थं भविष्यति -- एतस्यैव द्वितीयमर्थमुपसंक्रान्तस्यालुग्भवति नान्यस्येति।।
(दूषणपरिहारभाष्यम्)
यदप्युच्यते -- एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि वक्तव्य इति।। मा भूदेवम् -- अञ्ञ्यो बहुषु यञ्ञ्यो बहुष्विति। अञ्ञन्तं यद्बहुषु यञ्ञन्तं यद् बहुष्वित्येवं भविष्यति।।
(आक्षेपस्मारणभाष्यम्)
ननु चोक्तम् -- -नैवं शक्यम्। इह हि दोषः स्यात् -- कश्यपप्रतिकृतयः काश्यपाः -- इति।।
(परिहारभाष्यम्)
नैष दोषः। लौकिकस्य तत्र गोत्रस्य ग्रहणम्। न चैतल्लौकिकं गोत्रम्।।
(दोषसाम्यभाष्यम्)
यस्य बहुवचने परतो लुक्। समासबहुत्वे तेन नेति प्रतिषेधो वक्तव्यः। तेनैव चेत्कृतं बहुत्वमिति वा वक्तव्यम्।। यस्य प्रत्ययार्थबहुत्वे लुक् तेनास्त्रियामिति वक्तव्यम्।।
(समाधानभाष्यम्)
यस्य बहुवचने परतो लुक् तस्यायमधिको दोषः। अत्रय इति उदात्तनिवृत्तिस्वरः प्राप्नोति। तस्मात्प्रत्ययार्थबहुत्वे लुगित्येष पक्षो ज्यायान्।।
(आक्षेपभाष्यम्)
अथेह कथं भवितव्यं गार्गा च वात्स्यश्च वाज्यश्चेति।।
(आक्षेपाशयभाष्यम्)
यदि तावदस्त्री विधिनाश्रीयते अस्त्यत्रास्त्रीति कृत्वा भवितव्यं लुका। अथ स्त्री प्रतिषेधेनाश्रीयते अस्त्यत्र स्त्रीति कृत्वा भवितव्यं प्रतिषेधेन।। किं पुनरर्थसत्तत्त्वम्?
(समाधानभाष्यम्)
देवा ज्ञातुमर्हन्ति।।
(आक्षेपभाष्यम्)
अथ यो लोप्यलोपिनां समासस्तत्र कथं भवितव्यम्?
(समाधानभाष्यम्)
उभयं हि दृश्यते -- शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु। नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् इति।। तद्राजस्य ।। 62 ।।
-2-4-64- यञ्ञञ्ञोश्च (595)
(367 लुक्सूत्रम् ।। 2।4।2 आ.2)
(षष्ठीतत्पुरुषेद्व्येकयोर्विकल्पाधिकरणम्)
(1636 वार्तिकम् ।। 1 ।।)
- यञ्ञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् -
यञ्ञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानं कर्तव्यम्। गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा। गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा। बैदस्य कुलं बैदकुलं बिदकुलं वा। बैदयोः कुलं बैदकुलं बिदकुलं वा।। यञ्ञादीनामिति किमर्थम्? आङ्गस्य कुलम् आङ्गकुलम्। आङ्गयोः कुलमाङ्गकुलम्।। एकद्वयोरिति किमर्थम्? गर्गाणां कुलं गर्गकुलम्।। तत्पुरुष इति किमर्थम्? गार्ग्यस्य समीपमुपगार्ग्यम्।। षष्ठ्या इति किमर्थम्? शोभनगार्ग्यः परमर्गग्यः।। यञ्ञञ्ञो ।। 64 ।।
-2-4-66- बह्वच इञ्ञः प्राच्यभरतेषु (597)
(368 लुक्सूत्रम् ।। 2।4।2 आ.3)
(प्राच्यभरतानां समुच्चयाधिकरणम्)
(आक्षेपभाष्यम्)
किमयं समुच्चयः प्राक्षु च भरतेषु चेति। आहोस्विद्भरतविशेषणं प्राग्ग्रहणं प्राञ्ञ्चो ये भरता इति।।
(जिज्ञासाभाष्यम्)
किं चातः?
(विशेषप्रदर्शनभाष्यम्)
यदि समुच्चयः। भरतग्रहणमनर्थकम्। न ह्यन्यत्र भरताः सन्ति।।
अथ प्राग्ग्रहणं भरतविशेषणम्। प्राग्ग्रहणमनर्थकम्। नह्यप्राञ्ञ्चो भरताः सन्ति।।
(प्रथमपक्षाभ्युपगमभाष्यम्)
एवं तर्हि समुच्चयः।।
(दोषस्मरणभाष्यम्)
ननु चोक्तम् -- भरतग्रहणमनर्थकं नह्यन्यत्र भरताः सन्तीति।।
(समाधानभाष्यम्)
नानर्थकम्। ज्ञापकार्थम्।। किं ज्ञाप्यते? एतज्ज्ञापयत्याचार्यः -- अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवति इति।। किमेतस्य ज्ञापने प्रयोजनम्? इञ्ञः प्राचाम् भरतग्रहणं न भवति। औद्दालकिः पिता। औद्दालकायनः पुत्र इति।। बह्वचः ।। 66 ।।
-2-4-67- न गोपवनादिभ्यः (598)
(369 लुक्प्रतिषेधसूत्रम् ।। 2।4।2 आ. 4 सू.)
(1637 वार्तिकम् ।। 1)
- गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यः -
गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यो द्रष्टव्यः। हारितः हारितौ। बहुषु -- हरिताः।। न गोपव ।। 67 ।।
-2-4-69- उपकादिभ्योन्यतरस्यामद्वन्द्वे (600)
(370 विकल्पसूत्रम् ।। 2।4।2 आ. 5)
(अद्वन्द्वग्रहणप्रयोजनाधिकरणम्)
(आक्षेपभाष्यम्)
किमर्थमद्वन्द्व इत्युच्यते?
(समाधानभाष्यम्)
द्वन्द्वे मा भूदिति।।
(समाधानबाधकभाष्यम्)
नैतदस्ति प्रयोजनम्। इष्यते द्वन्द्वे भ्राष्ट्रककपिष्ठलाः। भ्राष्ट्रकिकापिष्ठलय इति।।
(समाधानभाष्यम्)
अत उत्तरं पठति --
(1638 समाधानवार्तिकम् ।। 1 ।।)
- अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम् -
अद्वन्द्व इत्युच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम्। द्वन्द्वाधिकारो निर्वत्यते तस्मिन्निवृत्ते अविशेषेण द्वन्द्वे चाद्वन्द्वे च भविष्यति।। उपकादिभ्यो ।। 69 ।।
-2-4-70- आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (601)
(371 प्रकृत्योरादेशसूत्रम् ।। 2।4।2 आ.6सू.)
(प्रकृत्यादेशत्वनिर्णयाधिकरणम्)
(1639 वार्तिकम् ।। 1 ।।)
- आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् -
(भाष्यम्) आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनं कर्तव्यम्। अगस्ति -- कुण्डिनजित्येतौ प्रकृत्यादेशौ भवत इति वक्तव्यम्।।
किं प्रयोजनम्?
(1640 वार्तिकद्वितीयखण्डम् ।। 2।।)
- लुक्प्रतिषेधे वृद्ध्यर्थम् -
(भाष्यम्) लुक्प्रतिषेधे वृद्धिर्यथा स्यात्।।
(1641 वार्तिकतृतीयखण्डम् ।। 3 ।।)
- प्रत्ययान्तनिपातने हि वृद्ध्यभावः -
(भाष्यम्) प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात्। आगस्तीयाः कौण्डिना इति।।
(आक्षेपभाष्यम्)
यदि प्रकृतिनिपातनं क्रियते। केनेदानीं प्रत्ययस्य लोपो भविष्यति?
(1642 वार्तिकम् ।। 4 ।।)
- अधिकारात्प्रत्ययलोपः -
(भाष्यम्) अधिकारात्प्रत्ययलोपो भविष्यति।।
(आक्षेपभाष्यम्)
तत्तर्हि प्रकृतिनिपातनं कर्तव्यम्?
(समाधानभाष्यम्)
न कर्तव्यम्।।
(1643 वार्तिकम् ।। 5 ।।)
(- योगविभागात् सिद्धम् -)
(भाष्यम्) योगविभागः करिष्यते -- (ठठआगस्त्यकोण्डिन्ययोः) आगस्त्यकौण्डिन्ययोर्बहुषु लुग्भवति। ततः(ठठअगस्ति कुण्डिनच्) अगस्तिकुण्डिनजित्येतौ च प्रकृत्यादेशौ भविष्यतः आगस्त्यकौण्डिन्ययोरिति।।
(प्रत्याक्षेपभाष्यम्)
एवमपि प्रत्ययान्तयोरेव प्राप्नोति। प्रत्ययान्ताद्धि भवान् षष्ठीमुच्चारयति -- आगस्त्यकौण्डिन्ययोः इति।।
(समाधानभाष्यम्)
नैष दोषः। यथापरिभाषितं प्रत्ययस्य लुक्श्लुलुपो भवन्तीति प्रत्ययस्यैव भविष्यति। अवशिष्टस्यादेशो भविष्यतः ।। आगस्त्य ।। 70 ।।
-2-4-74- यङोचि च।
ऊतोचि।
ऊतः अचीति वक्तव्यम्। इह मा भूत् -- सनीस्रसो दनीध्वस इति।।
अथ ऊत इत्युच्यते। इह कस्मान्न भवति -- योयूयः। रोरूयः?
विहितविशेषणमूकारग्रहणम्। ऊकारान्ताद्यो विहित इति।
तत्तर्हि वक्तव्यम् ?
न वक्तव्यम्। इष्टमेवैतत्संगृहीतम् -- सनीस्रंसो दनीध्वंस इत्येव भवितव्यम् ।। यङो ।। 74 ।।
-2-4-77- गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (608)
(373 सिज्लुक्सूत्रम् ।। 2।4।2 आ.8 )
(धातुविशेषनिर्णयाधिकरणम्)
(1645 वार्तिकम् ।। 1 ।।)
- गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम् -
(भाष्यम्) गापोर्ग्रहणे इण्पिबत्योर्ग्रहणं कर्तव्यम्। इणो यो गाशब्दः पिबतेर्यः पाशब्द इति वक्तव्यम्। इह मा भूत -- अगासीन्नटः, अपासीद्धनमिति।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्। इण्ग्रहणे तावद्वार्त्तम् -- निर्देशादेव व्यक्तं लुग्विकरणस्य ग्रहणम्इति।।
पाग्रहणे चापि वार्तत्तम् -- उक्तमेत्तत् -- सर्वत्रैव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति।। गातिस्था ।। 77 ।।
-2-4-79- तनादिभ्यस्तथासोः (610)
(374 सिज्लुक्सूत्रम् ।। 2।4।2 आ.9)
(तप्रत्ययनिर्णयाधिकरणम्)
(1646 वार्तिकम् ।। 1 ।।)
- तथासोरात्मनेपदवचनम् -
(भाष्यम्) तथासोरात्मनेपदस्य ग्रहणं कर्तव्यम्। आत्मनेपदं यौ तथासाविति वक्तव्यम्।।
(1647 वार्तिकम् ।। 2 ।।)
- एकवचनग्रहणं वा -
(भाष्यम्) अथ वा एकवचनं ये तथासी इति वक्तव्यम्।। तच्चावश्यमन्यतरत्कर्तव्यम्।।
(1648 वार्तिकम् ।। 3 ।।)
- अवचने ह्यनिष्टप्रसङ्गः -
(भाष्यम्) अनुच्यमाने ह्येतस्मिन्ननिष्टं प्रसज्येत -- अतनिष्टं यूयम् असनिष्ट यूयमिति।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्। यद्यपि तावदयं तशब्दो दृष्टापचारोस्त्यात्मनेपदम्, अस्ति च परस्मैपदम्, अस्त्येकवचनम्, अस्ति बहुवचनम् अयं तु खलु थास्शब्दोऽदृष्टापचार आत्मनेपदमेकवचनं च। तस्यास्य कोन्यः सहायो भवितुमर्हति अन्यदत आत्मनेपदादेकवचनाच्च। तद्यथा -- अस्य गोर्द्वितीयेनार्थ इति गौरेवानीयते नाश्वो न गर्दभ इति। तनादि ।। 79 ।।
-2-4-81- आमः (612)
(375 लुक्सूत्रम् ।। 2।4।2 आ.10)
(लुङ्लोटोर्लुक्साधनाधिकरणम्)
(1649 शेषवार्तिकम् ।। 1 ।।)
- आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् -
(भाष्यम्) आमः लेर्लोपे लुङ्लोटोरुपसंख्यानं कर्तव्यम्। तां वैजवापयो विदामक्रन्। अस्य भवन्तो विदांकुर्वन्तु।।
(आक्षेपभाष्यम्)
तत्तर्हि वक्तव्यम्?
(समाधानभाष्यम्)
न वक्तव्यम्। लिग्रहणं निवर्तिष्यते।।
(आक्षेपभाष्यम्)
यदि निवर्तते। प्रत्ययमात्रस्य लुक् प्राप्नोति।।
(समाधानभाष्यम्)
इष्यत एव प्रत्ययमात्रस्य।। आतश्चेष्यते। एवं ह्याह कृञ्ञ्चानुप्रयुज्यते लिटिःथ्द्य;ति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति।।
(आम्ग्रहणनिर्णयाधिकरणम्)
(1650 आक्षेपवार्तिकम् ।। 2 ।।)
- आमन्तेभ्यो णलः प्रतिषेधः -
(भाष्यम्) आमन्तेभ्यो णलः प्रतोषेधो वक्तव्यः। शशाम तताम। वृद्धौ कृतायम्आमःइति लुक् प्राप्नोति।।
(1651 समाधानवार्तिकम् ।। 3 ।।)
- आमन्तेभ्योर्थवद्ग्रहणाण्णलोऽप्रतिषेधः -
(भाष्यम्) आमन्तेभ्योर्थवद्ग्रहणाण्णलः। अप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः।। लुक् कस्मान्न भवति -- शशाम ततामेति? अर्थवद्ग्रहणात्। अर्थवत आम्शब्दस्य ग्रहणम्। न चैषोर्थवान्।।
(1652 समाधानबाधकवार्तिकम् ।। 4 ।।)
- आमन्तेभ्योर्थवद्ग्रहणाण्णलोप्रतिषेध इति चेदमः प्रतिषेधः -
(भाष्यम्) आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेत् अमधातोः प्रतिषेधो वक्तव्यः। आम ।।
(समाधानसाधकभाष्यम्)
उक्तं वा।। किमुक्तम्? सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति।।
(लुकआदेशापवादत्वाधिकरणम्)
(आक्षेपभाष्यम्)
किं पुनर्लुगादेसापवादः, आहोस्वित्-कृतेष्वादेशेषु भवति।।
(1653 समाधानवार्तिकम् ।। 5 ।।)
- लुगादेशापवादः -
(भाष्यम्) लुग् आदेशानामपवादः।।
(1654 समाधानबाधकवार्तिकम् ।। 6 ।।)
- तिङ्कृताभावस्तु -
(भाष्यम्) तिङ्कृतस्य तु अभावः।। कस्य? पदत्वस्य।।
(1655 समाधानसाधकवार्तिकम् ।। 7 ।।)
- सुबन्तत्वात्सिद्धम् -)
(भाष्यम्) सुबन्तं पदम् इति पदसंज्ञा भविष्यति।।
(आक्षेपभाष्यम्)
कथं स्वाद्युत्पत्तिः?
(1656 समाधानवार्तिकम् ।। 8 ।।)
- लकारस्य कृत्त्वात् प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् -
(भाष्यम्) लकारः कृत्, कृत्प्रातिपदिकम् इति प्रातिपदिकसंज्ञा, तदाश्रयं प्रत्ययविधानम्, प्रातिपदिकाश्रयत्वात्स्वाद्युत्पत्तिर्भविष्यति।।
(समाधानबाधकभाष्यम्)
(यद्येवं) सुपः श्रवणं प्राप्नोति।।
(समाधानसाधकभाष्यम्)
अव्ययादिति लुग् भविष्यति।।
(आक्षेपभाष्यम्)
कथमव्ययत्वम्? ।।
(1657 समाधानवार्तिकम् ।। 9 ।।)
- अव्ययत्वं मकारान्तत्वात् ।। 8 ।।
(भाष्यम्) कृदन्तं मान्तमव्ययसंज्ञं भवतीति अव्ययसंज्ञा भविष्यति।।
(आक्षेपभाष्यम्)
स्वरः कथम् -- यत्प्रकारयांचकार?
(1658 समाधानवार्तिकम् ।। 10 ।।)
- स्वरः कृदन्तप्रकृतिस्वरत्वात् -
(भाष्यम्) कृदन्तमुत्तरपदं प्रकृतिस्वरं भवतीत्येष स्वरो भविष्यति।।
(1659 फलान्तरवार्तिकम् ।। 11 ।।)
- तथा च निघातानिघातसिद्धिः -
(भाष्यम्) तथा च निघातानिघातसिद्धिर्भवति। चक्षुष्कामं याजयांचकार तिङ्ङतिङ इति तस्य चानिघातः। तस्माच्च निघातः सिद्धो भवति।।
(1660 आक्षेपवार्तिकम् ।। 12 ।।)
- नञ्ञा तु समासप्रसङ्गः -
(भाष्यम्) नञ्ञा तु समासः प्राप्नोति -- नकारयाम् नहारयाम्। नञ्ञ् सुबन्तेन सह समस्यत इति समासः प्राप्नोति।।
(समाधानभाष्यम्)
उक्तं वा ।। किमुक्तम्? असार्मथ्यादिति। नात्र नञ्ञ आमन्तेन सार्मथ्यम्।। केन तर्हि? लिडन्तेन न चकार कारयाम् न जहार हारयामिति ।। आमः ।। 81 ।।
<M.2.572>
-2-4-82- अव्ययादाप्सुपः (613)
(376 लुक्सूत्रम् ।। 2।4।2 आ.11)
(आप्ग्रहणस्यादृष्टार्थत्वाधिकरणम्)
(1661 वार्तिकम् ।। 1 ।।)
- अव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात् -
(भाष्यम्) अव्ययादापः लुग्वचनमनर्थकम् ।। किं कारणम्? लिङ्गाभावात्। अलिङ्गमव्ययम्।।
(आक्षेपभाष्यम्)
किमिदं भवान् सुपो लुकं मृष्यति, आपो लुकं न मृष्यति। यथैव ह्यलिङ्गमव्ययम्, एवमसंख्यमपि?
(समाधानभाष्यम्)
सत्यमेवमेतत्। प्रत्ययलक्षणमाचार्यः प्रार्थयमानः सुपो लुकं मृष्यति। आपः पुनरस्य लुकि सति न किंचिदपि प्रयोजनमस्ति।।
(आक्षेपभाष्यम्)
उच्यमानेप्येतस्मिन् स्वाद्युत्पत्तिर्न प्राप्नोति।। किं कारणम्? एकत्वादीनामभावात्। एकत्वादिष्वर्थेषु स्वादयो विधीयन्ते। न चैषामेकत्वादयः सन्ति।।
(समाधानभाष्यम्)
अविशेषेणोत्पद्यन्ते। उत्पन्नानां नियमः क्रियते।।
अथ वा प्रकृतानर्थानपेक्ष्य नियमः क्रियते।। के च प्रकृताः? एकत्वादयः। एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु। द्वयोरेव द्विवचनं नैकस्मिन्न बहुषु। बहुष्वेव बहुवचनं नैकस्मिन्न द्वयोरिति।।
अथ वा आचार्यप्रवृत्तिर्ज्ञापयति -- उत्पद्यन्तेऽव्ययेभ्यः स्वादय इति। यदयम् अव्ययादाप्सुप इति लुकं शास्ति।। अव्ययादा ।। 82 ।।
-2-4-83- नाव्ययीभावादतोऽम्त्वपञ्चम्याः (614)
(377 लुक्प्रतिषेधाम्विधिसूत्रम् ।। 2।4।2 आदृ 12)
(योगविभागार्थसाधनाधिकरणम्)
(1662 वार्तिकम् ।। 1 ।।)
- नाव्ययीभावादत इति योगव्यवसानम् -
(भाष्यम्) नाव्ययीभावादतः इति योगो व्यवसेयः। नाव्ययीभावादकारान्तात्सुपो लुग् भवति। ततः -- अम् त्वपञ्चम्याः इति।।
(आक्षेपभाष्यम्)
किमर्थो योगविभागः?
(1663 वार्तिकम् ।। 2 ।।)
- पञ्चम्या अम्प्रतिषेधार्थः -
(भाष्यम्) पञ्चम्या अमः प्रतिषेधो यथा स्यात्।।
<M.2.573>
(1664 वार्तिकम् ।। 3 ।।)
- एकयोगे ह्युभयोः प्रतिषेधः -
(भाष्यम्) एकयोगे ह्युभयोः प्रतिषेधः स्यात्। अमः अलुकश्च।।
(आक्षेपभाष्यम्)
स तर्हि योगविभागः कर्तव्यः?
(समाधानभाष्यम्)
न कर्तव्यः।।
(1665 वार्तिकम् ।। 4 ।।)
- तुर्नियामकः -
(भाष्यम्) तुः क्रियते। स नियामको भविष्यति -- अमेवापञ्चम्या इति।।
(अपादानपञ्चमीनिर्णयाधिकरणम्)
(1666 शेषपूरकवार्तिकम् ।। 5 ।।)
- अमि पञ्चमीप्रतिषेधेऽपादानग्रहणम् -
(भाष्यम्) अमि पञ्चमीप्रतिषेधे अपादानग्रहणं कर्तव्यम्। अपादानपञ्चम्या इति वक्तव्यम्। किं प्रयोजनम्?
(1667 शेषपूर्त्तिप्रयोजनवार्तिकम् ।। 6 ।।)
- कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् -
(भाष्यम्) कर्मप्रवचनीययुक्ते मा भूद् -- आपाटलिपुत्रं वृष्टो देवः।।
(1668 शेषपूर्तिवैर्यथ्यवार्तिकम् ।। 7 ।।)
- न वोत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः -
(भाष्यम्) न वा वक्तव्यम्।। किं कारणम्? उत्तरपदमत्र कर्मप्रवचनीययुक्तम्। उत्तरपदस्य कर्मप्रवचनीययोगात्समासात्पञ्चमी न भविष्यति। यदा च समासः कर्मप्रवचनीययुक्तः, भवति तदा प्रतिषेधः। तद्यथा -- आ उपकुम्भात्। आ उपमणिकात् इति।। नाव्ययीभावा ।। 83 ।।
-2-4-84- तृतीयासप्तम्योर्बहुलम् (615)
(378 अम्विकल्पसूत्रम् ।। 2।4।2 आ. 13 ।।)
(1669 वार्तिकम् ।। 1 ।।)
- सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् -
(भाष्यम्) सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यमिति वक्तव्यम्। सुमद्रं सुमगधम्। ऋद्धि।। नदीसमास -- उन्मत्तगङ्गं लोहितगङ्गम्।। संख्यावयव -- एकविंशतिभारद्वाजं त्रिपञ्ञ्चाशद्गौतमम्।। तृतीयासप्त ।। 84 ।।
-2-4-85- लुटः प्रथमस्य डारौरसः (626)
(379 आदेशसूत्रम् ।। 2। 4। 2 आ.14 सू.)
(डारौरसां टेरेत्वनिवारणाधिकरणम्)
(1670 पूर्वविप्रतिषेधवार्तिकम् ।। 1 ।।)
- टितां टेरेविधेर्लुटो डारौरसः पूर्वविप्रतिषिद्धम् -
(भाष्यम्) टितां टेरेविधेर्लुटो डारौरसो भवन्ति पूर्वविप्रतिषेधेन। टेरेत्वस्यावकाशः -- पचते पचते पचन्ते। डारौरसामवकाशः -- श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः प्र् इहोभयं प्राप्नोति -- श्वः अध्येता श्वः अध्येतारौ श्वः अध्येतार इति। डारौ रसो भवन्ति पूर्वविप्रतिषेधेन ।।
(आक्षेपभाष्यम्)
स तर्हि पूर्वविप्रतिषेधो वक्तव्यः?
(समाधानभाष्यम्)
न वक्तव्यः।।
(1671 वार्तिकम् ।। 2।।)
- आत्मनेपदानां चेति वचनात्सिद्धम् -
(भाष्यम्) आत्मनेपदानां च डारौरसो भवन्तीति वक्तव्यम्।।
(1672 वार्तिकम् ।। 3 ।।)
- तच्च समसंख्यार्थम् -
(भाष्यम्) तच्चावश्यमात्मनेपदग्रहणं कर्तव्यं समसंख्यार्थं संख्यातानुदेशो यथा स्यात्। अक्रियमाणे ह्यात्मनेपदग्रहणे
षट् स्थानिनस्त्रय आदेशाः वैषम्यात्संख्यातानुदेशो न प्राप्नोति।।
(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)
पूर्वविप्रतिषेधार्थेन तावन्नार्थ आत्मनेपदग्रहणेन। इदमिह संप्रधार्यम् -- डारौरसः क्रियन्ताम्, एत्वम्, इति। किमत्र कर्तव्यम्? परत्वादेत्वम्।। नित्या डारौरसः कृतेप्येत्वे प्राप्नुवन्ति, अकृतेपि प्राप्नुवन्ति।। टेरेत्वमपि नित्यम्उकृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति।। अनित्यमेत्वम् उ अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य प्राप्नुन्विधिरनित्यो भवति।। डारौरसोप्यनित्याः अन्यस्य कृते एत्वे प्राप्नुवन्ति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन्तोऽनित्या भवन्ति। अभयोरनित्ययोः परत्वादेत्वम्। एत्वे कृते पुनः प्रसङ्गविज्ञानाद् डारौरसो भविष्यन्ति।।
(द्वितीयवार्तिकप्रत्याख्यानभाष्यम्)
समसंख्यार्थेन चापि नार्थ आत्मनेपदग्रहणेन। स्थानेन्तरतमेन व्यवस्था भविष्यति। कुत आन्तर्यम्? अर्थतः। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः।।
अथ वा आदेशा अपि षडेव निर्दिश्यन्ते। कथम्? एकशेषनिर्देशोयम् ।।
(आक्षेपभाष्यम्)
अथैतस्मिन्नेकशेषे सति किमयं कृतैकशेषाणां द्वन्द्वः -- डा च डा च डा। रौ च रौ च रौ। रश्व रश्च रः। डा च रौ च रश्च डारौरस इति।। आहोस्वित्कृतद्वन्द्वानामेकशेषः -- डा च रौ च रश्च डारौरसः। डारौरसश्च डारौरसश्च डारौरस इति।।
(भाष्यम्) किं चातः।।
(प्रथमपक्षदूषणभाष्यम्)
यदि कृतैकशेषाणां द्वन्द्वः अनिष्टः समसंख्यः प्राप्नोति। एकवचनद्विवचनयोर्डा प्राप्नोति बहुवचनैकवचनयो रौ प्राप्नोति द्विवचनबहुवचनयो रस्प्राप्नोति।।
अथ कृतद्वन्द्वानामेकशेषः। न दोषो भवति।।
(सिद्धान्तलक्षणम्)
यथा न दोषस्तथास्तु।।
(आक्षेपभाष्यम्)
किं पुनरत्र ज्यायः?
(समाधानभाष्यम्)
उभयं हि दृश्यते -- बहु शक्तिकिटकं बहुनि शक्तिकिटकानि। बहु स्थालीपिठरं बहूनि स्थालीपिठराणि।।
(श्लोकार्थोपसंहारभाष्यम्)
डारौरसः कृते टेरे यथा द्वित्वं प्रसारणे।।
समसंख्येन नार्थोस्ति सिद्धं स्थानेर्थतोन्तरः।।
आन्तर्यतो व्यवस्था त्रय एवेमे भवन्तु सर्वेषाम्।।
टेरेत्वं च परत्वात्कृतेपि तस्मिन्निमे सन्तु।।
(डादेशेसर्वादेशत्वाधिकरणम्)
(1673 वार्तिकम् ।। 4 ।।)
- डाविकारस्य शित्करणं सर्वादेशार्थम् -
(भाष्यम्) डाविकारः शित्कर्तव्यः। किं प्रयोजनम्? सर्वादेशार्थम् शित्सर्वस्य इति सर्वादेशो यथा स्यात्। अक्रियमाणे हि शकारे अलोन्त्यस्य विधयो भवन्ति इत्यन्त्यस्य प्रसज्येत ।।
(1674 वार्तिकम् ।। 5 ।।)
- निघातप्रसङ्गस्तु -
(भाष्यम्) निघातस्तु प्राप्नोति। श्वः कर्ता। तासेः परं लसार्वधातुकमनुदात्तं भवतीत्येष स्वरः प्राप्नोति।।
(प्रथमवार्तिकप्रत्याख्यानभाष्यम्)
यत्तावदुच्यते -- डाविकारस्य शित्करणं सर्वादेशार्थम् इति ।।
(1675 शित्करणप्रत्याख्यानवार्तिकम् ।। 6 ।।
- सिद्धमलोन्त्यविकारात् -
(भाष्यम्) सिद्धमेतत्।। कथम्? अलोन्त्यविकारात्।।
(आक्षेपभाष्यम्)
अस्त्वयमलोन्त्यस्य। का रूपसिद्धिः -- कर्ता?
(1676 समाधानवार्तिकम् ।। 7 ।।)
- डिति टेर्लोपाल्लोपः -
(भाष्यम्) डिति टेर्लोपेन लोपो भविष्यति।।
(बाधकभाष्यम्)
अभत्त्वान्न प्राप्नोति।।
(समाधानसाधकभाष्यम्)
डित्करणसार्मथ्याद्भविष्यति।।
(1677 शित्करणप्रत्याख्यानवार्तिकम् ।। 8 ।।)
- अनित्त्वाद्वा -
(भाष्यम्) अथ वा अनित्त्वादेतत्सिद्धम्।। किमिदमनित्त्वादिति? अन्त्यस्यायं स्थाने भवन्न प्रत्ययः स्यात्। असत्यां प्रत्ययसंज्ञायामित्संज्ञा न। असत्यामित्संज्ञायां लोपो न। असति लोपेनेकाल्। यदानेकाल् तदा सर्वादेशः। यदा सर्वादेशः तदा प्रत्ययः। यदा प्रत्ययस्तदेत्संज्ञा। यदेत्संज्ञा तदा लोपः।।
(1678 शित्करणप्रत्याख्यानवार्तिकम् ।। 9 ।।)
- प्रश्लिष्टनिर्देशाद्वा -
(भाष्यम्) अथ वा प्रश्लिष्टनिर्देशोयम् -- डा आ डा। सः अनेकाल्शित्सर्वस्य इति सर्वादेशो भविष्यति।।
(प्रत्याख्याननिराकरणभाष्यम्)
यदा तर्ह्ययमन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणं न प्राप्नोति।।
(1679 प्रत्याख्यानसाधकवार्तिकम् ।। 10 ।।)
- तिङ्ग्रहणमेकदेशविकृतस्यानन्यत्वात् -
(भाष्यम्)एकदेशविकृतमनन्यवद्भवति इति तिङ्ग्रहणेन ग्रहणं भविष्यति।।
(आक्षेपभाष्यम्)
स्वरः कथम्?
(1680 वार्तिकम्।। 11 ।।)
- स्वरे विप्रतिषेधात्सिद्धम् -
(भाष्यम्) (इदमिह संप्रधार्यम् -- ) डारौरसः क्रियन्तामनुदात्तत्वमिति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम्।। नित्या डारौरसः कृतेऽप्यनुदात्तत्वे प्राप्नुवन्ति, अकृतेऽपि प्राप्नुवन्ति।। अनुदात्तत्वमपि नित्यं कृतेष्वपि डारौरस्सु प्राप्नोति,
अकृतेष्वपि प्राप्नोति।। अनित्यमनुदात्तत्वम्। अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति।। डारौरसोऽप्यनित्याः। अन्यथास्वरस्य कृतेऽनुदात्तत्त्वे प्राप्नुवन्ति। अन्यथास्वरस्याकृते। स्वरभिन्नस्य च प्राप्नुवन्तोऽनित्या भवन्ति। उभयोरनित्ययोः परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानाद् डारौरसः। टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम्।।
(बाधकभाष्यम्)
न सिध्यति। किं कारणम्? अन्तरङ्गत्वाद् डारौरसः। तत्रान्तरङ्गत्वाड्डारौरस्सु कृतेषु अनुदात्तत्वं
क्रियतां टिलोप इति।। किमत्र कर्तव्यम्? परत्वाटि्टलोपेन भवितव्यम्।।
(वार्तिकतात्पर्यान्तरभाष्यम्)
एवं तर्हि स्वरविप्रतिषेधात् सिद्धम् । न्याय्य एवायं स्वरविप्रतिषेधः। इदमिह संप्रधार्यम् -- अनुदात्तत्वं क्रियतामुदात्तनिवृत्तिस्वर इति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानादुदात्तनिवृत्तिस्वरो भविष्यति।।
(आक्षेपभाष्यम्)
तदेतत्क्व सिद्धं भवति यत् पिद्वचनम्। यदपिद्वचनं तत्र न सिध्यति?
(समाधानभाष्यम्)
तत्रापि सिद्धम्। कथम्? इदमद्य लसार्वधातुकानुदात्तत्वं प्रतद्ययस्वरस्यापवादः। न चापवादविषये उत्सर्गोभिनिविशते पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः प्रकल्प्य वापवादविषयं तत उत्सर्गोभिनिविशते। तन्न तावदत्र कदाचित्प्रत्ययस्वरो भवति अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते। तत्रानुदात्तत्वं क्रियतां लोप इति। यद्यपि परत्वाल्लोपः सोसावविद्यमानोदात्तत्वे अनुदात्ते उदात्तो लुप्यते।।
प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम्।।
तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदाचित्।।
प्रत्ययस्वरश्च तासेर्वृत्तिसंनियोगशिष्टः।
तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः।।
लुट: प्र ।। 85 ।।
इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीय माह्निकम्।। समाप्तश्चायं पादोऽध्यायश्च।।