महाभारतम्-05-उद्योगपर्व-179

विकिस्रोतः तः
← उद्योगपर्व-178 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-179
वेदव्यासः
उद्योगपर्व-180 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मजामदग्न्ययुद्धवर्णनम् ।। 1 ।।

भीष्म उवाच।

5-179-1x

तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम्।
भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ।।

5-179-1a
5-179-1b

आरोह स्यन्दनं वीर कवचं च महाभुज ।
बधान समरे राम यदि योद्धुं मयेच्छसि ।।

5-179-2a
5-179-2b

ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।
रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ।।

5-179-3a
5-179-3b

सूतश्च मातरिश्वा वै कवचं वेदमातरः ।
सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ।।

5-179-4a
5-179-4b

एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः।
शरव्रातेन महता सर्वतः प्रत्यवारयत् ।।

5-179-5a
5-179-5b

ततोऽपश्यं जामदग्न्यं रथमध्ये व्यवस्थितम् ।
सर्वायुधवरे श्रीमत्यद्भुतोपमदर्शने ।।

5-179-6a
5-179-6b

मनसा विहिते पुण्ये विस्तीर्णे नगरोपभे ।
दिव्याश्वयुजि सन्नद्वे काञ्चनेन विभूषिते ।।

5-179-7a
5-179-7b

कवचेन महाबाहो सोमार्ककृतलक्ष्मणा।
धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ।।

5-179-8a
5-179-8b

सारथ्यं कृतवांस्तत्र युयुत्सोरकुतव्रणः ।
सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ।।

5-179-9a
5-179-9b

आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।
पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ।।

5-179-10a
5-179-10b

तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।
क्षत्रियान्तकरं राममेकमेकः समासदूम् ।।

5-179-11a
5-179-11b

ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।
अवतीर्य धनुर्न्यस्य पदातिर्ऋषिसत्तमम् ।।

5-179-12a
5-179-12b

अभ्यागच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।
अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ।।

5-179-13a
5-179-13b

योत्स्ये त्वया रणे राम सदृशेनाधिकेन वा ।
गुरुणा धर्मशीलेन जयमाशास्व मे विभो ।।

5-179-14a
5-179-14b

राम उवाच।

5-179-15x

एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता।
धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ।।

5-179-15a
5-179-15b

शपेयं त्वां नचेदेवमागच्छेथा विशांपते ।
युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ।।

5-179-16a
5-179-16b

न तु ते जयमाशासे त्वां विजेतुमहं स्थितः ।
गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ।।

5-179-17a
5-179-17b

ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।
प्राध्मापयं रणे शङ्खं पुनर्हेमपरिष्कृतम् ।।

5-179-18a
5-179-18b

ततो युद्धं समभवन्मम तस्य च भारत ।
दिवसान्सुबहून्राजन्परस्परजिगीषया ।।

5-179-19a
5-179-19b

स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्खपत्रिभिः ।
वष्ट्या शतैश्च नवभिः शराणां नतषर्वणाम् ।।

5-179-20a
5-179-20b

चत्वारस्तेन मे वाहाः सूतश्चैव विशांपते ।
प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ।।

5-179-21a
5-179-21b

नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यो विशेषतः ।
तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।।

5-179-22a
5-179-22b

आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।
भूयश्च शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ।।

5-179-23a
5-179-23b

ये ते वेदाः शरीरस्था .... यच्च ते महत् ।
तपश्च ते महत्तप्तं न तेभ्यः प्रहराम्यहम् ।।

5-179-24a
5-179-24b

प्रहरे क्षत्रधर्मस्य यं त्वं राम समाश्रितः ।
ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ।।

5-179-25a
5-179-25b

पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं मम।
एष ते कार्मुक वीर छिनद्मि निशितेषुणा ।।

5-179-26a
5-179-26b

तस्याहं निशितं भल्लं चिक्षेप भरतर्षभ ।
तेनास्य धनुषः कोटिं छित्वा भूमावपातयम् ।।

5-179-27a
5-179-27b

तथैव च पृषत्कानां शतानि नतपर्वणाम् ।
चिक्षेप कङ्कपत्राणां जामदग्न्यरथं प्रति ।

5-179-28a
5-179-28b

काये विषक्तास्तु तदा वायुना समुदीरिताः।
चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ।।

5-179-29a
5-179-29b

क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं रणे।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ।।

5-179-30a
5-179-30b

हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः।
बभौ रामस्तथा राजन्प्रफुल्ल इव किंशुकः ।।

5-179-31a
5-179-31b

ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।
हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ।।

5-179-32a
5-179-32b

ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।
अकम्पयन्महावेगाः सर्पानलविषोपमाः ।।

5-179-33a
5-179-33b

तमहं समवष्टभ्य पुनरात्मानमाहवे ।
शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ।।

5-179-34a
5-179-34b

स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः ।
शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ।।

5-179-35a
5-179-35b

ततोऽहं कृपयाऽऽविष्टो विनिन्द्यात्मानमात्मना ।
धिग्धिगित्यब्रुवं युद्धं क्षत्रधर्मं च भारत ।।

5-179-36a
5-179-36b

असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।
अहो बत कृतं पापं मयेदं क्षत्रधर्मं च भारत ।।

5-179-37a
5-179-37b

गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः।
ततो न प्राहरं भूयो जामदग्न्याय भारत ।।

5-179-38a
5-179-38b

अथावताप्य पृथिवीं पूषा दिवसमंक्षये।
जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ।।

5-179-39a
5-179-39b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
एकोनाशीत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-178 पुटाग्रे अल्लिखितम्। उद्योगपर्व-180