महाभारतम्-05-उद्योगपर्व-065

विकिस्रोतः तः
← उद्योगपर्व-064 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-065
वेदव्यासः
उद्योगपर्व-066 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण दुर्योधनंप्रति अर्जुनस्य श्रीकृष्णपरमप्रेमास्पदतया दुर्जयत्वभिधानपूर्वकं पाण्डवैः सह सन्धिविधानम् ।। 1 ।।

धृतराष्ट्र उवाच।

5-65-1x

दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ।।

5-65-1a
5-65-1b

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ।।

5-65-2a
5-65-2b

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ।।

5-65-3a
5-65-3b

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले।
रणान्तकं तर्जयसे महावातमिव द्रुमः ।।

5-65-4a
5-65-4b

सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान् ।।

5-65-5a
5-65-5b

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ।।

5-65-6a
5-65-6b

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ।।

5-65-7a
5-65-7b

यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ।।

5-65-8a
5-65-8b

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ।।

5-65-9a
5-65-9b

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ।।

5-65-10a
5-65-10b

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ।।

5-65-11a
5-65-11b

मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ।।

5-65-12a
5-65-12b

एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ।।

5-65-13a
5-65-13b

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ।।

5-65-14a
5-65-14b

यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम्।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ।।

5-65-15a
5-65-15b

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ।।

5-65-16a
5-65-16b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-65-1 उत्पथं अमार्गमेव मार्गं त्वन्यसे ।। 5-65-6 न शातयेत् न छिन्द्यात् ।। 5-65-8 प्रतिमानेन तुल्यत्वेन ।। 5-65-11 भीष्मं तितिक्षस्य तद्वाक्यं गृहाणेत्यर्थः ।। 5-65-16 वृत्त्या राज्यार्धदानेन प्रतिपादय संभावय ।।

उद्योगपर्व-064 पुटाग्रे अल्लिखितम्। उद्योगपर्व-066