महाभारतम्-02-सभापर्व-005

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सभापर्व-004 महाभारतम्
द्वितीयपर्व
महाभारतम्-02-सभापर्व-005
वेदव्यासः
सभापर्व-006 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
  42. 042
  43. 043
  44. 044
  45. 045
  46. 046
  47. 047
  48. 048
  49. 049
  50. 050
  51. 051
  52. 052
  53. 053
  54. 054
  55. 055
  56. 056
  57. 057
  58. 058
  59. 059
  60. 060
  61. 061
  62. 062
  63. 063
  64. 064
  65. 065
  66. 066
  67. 067
  68. 068
  69. 069
  70. 070
  71. 071
  72. 072
  73. 073
  74. 074
  75. 075
  76. 076
  77. 077
  78. 078
  79. 079
  80. 080
  81. 081
  82. 082
  83. 083
  84. 084
  85. 085
  86. 086
  87. 087
  88. 088
  89. 089
  90. 090
  91. 091
  92. 092
  93. 093
  94. 094
  95. 095
  96. 096
  97. 097
  98. 098
  99. 099
  100. 100
  101. 101
  102. 102
  103. 103

तत्रागतेन युधिष्ठिरपूजितेन नारदेन कुशलप्रश्नव्याजेन राजनीतिकथनम्।। 1।।


वैशम्पायन उवाच।
अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु।
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत।। 2-5-1

वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः।
इतिहासपुराणज्ञः क्रियाकल्पविशेषवित्।। 2-5-2

स्तुतस्तोमग्रहस्तोभपदक्रमविभागवित्।
शिक्षाक्षरविभागज्ञः पुराकल्पविशेषवित्।। 2-5-3

आदिकल्पार्थवेत्ता च कल्पसूत्रार्थतत्त्ववित्।
ब्रह्मचर्यव्रतपर ऊहापोहविशारदः।। 2-5-4

नृत्तगान्धर्वसेवी च सर्वत्राप्रतिमस्तथा।
अष्टादशानां विद्यानां कोशभूतो महाद्युतिः'।। 2-5-5

न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः।
ऐक्यसंयोगनानात्वसमवायविशारदः।। 2-5-6

वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः।
परापरविभागज्ञः प्रमाणकृतनिश्चयः।। 2-5-7

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्।
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः।। 2-5-8

धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः।
तथा भुवनकोशस्य सर्वस्यास्य महामतिः।। 2-5-9

प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा।
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान्।। 2-5-10

सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्।
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः।। 2-5-11

युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा।
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः।। 2-5-12

लोकाननुचरन्सर्वानागमत्तां सभां नृप।
नारदः सुमहातेजा ऋषिभिः सहितस्तदा।। 2-5-13

पारिजातेन राजेन्द्र पर्वतेन च धीमता।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः।। 2-5-14

सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः।
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत्।। 2-5-15

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्।
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह।। 2-5-16

अभ्यवादयत प्रीत्या विनयावनतस्तदा।
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि।। 2-5-17

गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च।
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्।। 2-5-18

तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात्।
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः।
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्।। 2-5-19

नारद उवाच।
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः।
सुखानि चानुभूयन्ते मनश्च न विहन्यते।। 2-5-20

कच्चिदाचरितां पूर्वैर्नरदेवपितामहैः।
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु।। 2-5-21

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा।
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे।। 2-5-22

कच्चिदर्थं च धर्मं च कामं च जयतां वर।
विभज्य काले कालज्ञः सदा वरद सेवसे ।। 2-5-23

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ।
बलाबलं तथा सम्यक्वतुर्दश परीक्षसे।। 2-5-24

कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर।
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे।। 2-5-25

कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ।
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः।। 2-5-26

कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः।
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा।। 2-5-27

मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम्।
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे।। 2-5-28

कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे।
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः।। 2-5-29

कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः।
विजयो मन्त्रमूलो हि राज्ञो भवति भारत।। 2-5-30

कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः।
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते।। 2-5-31

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्।। 2-5-32

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह।
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति।। 2-5-33

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्।
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्।। 2-5-34

कच्चिन्न स्रवे कर्मान्ताः परोक्षास्ते विशङ्किताः।
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्।। 2-5-35

आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः।
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः।। 2-5-36

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्।
कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः।
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः।। 2-5-37

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम्।। 2-5-38

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः।। 2-5-39

एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्।। 2-5-40

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः।। 2-5-41

कच्चिद्द्विषामविदितः प्रतिपन्नश्च सरवदा।
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन।। 2-5-42

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः।
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः।। 2-5-43

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः।
हुतं च होष्यमाणं च काले वेदयते सदा।। 2-5-44

कच्चिदङ्गेषु निष्णातो ज्योतिपः प्रतिपादकः।
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव।। 2-5-45

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः।। 2-5-46

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन्।
श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु।। 2-5-47

कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः।
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ।। 2-5-48

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः।। 2-5-49

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा। 2-5-50

कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः।
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः।। 2-5-51

कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम्।
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि।। 2-5-52

कालातिक्रमणादेते भक्तवेतनयोर्भृताः।
भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः।। 2-5-53

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि।। 2-5-54

कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान्।
अनुशास्ति यथाकामं कामात्मा शासनातिगः।। 2-5-55

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्।
लभते मानमधिकं भूयो वा भक्तवेतनम्।। 2-5-56

कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान्।
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे।। 2-5-57

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम्।
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ।। 2-5-58

कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम्।
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि।। 2-5-59

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते।
समश्चानभिशङ्क्यश्च यथा माता यथा पिता।। 2-5-60

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्।। 2-5-61

यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम।
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्।। 2-5-62

बलस्य च महाराज दत्त्वा वेतनमग्रतः।
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः।। 2-5-63

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः।
पारञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान्।। 2-5-64

कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः।
साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः।। 2-5-65

तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि।।
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः। 2-5-66

बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी ।।
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप। 2-5-67

अविहाय महाराज निहंसि समरे रिपून्।।
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव। 2-5-68

अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम्।। 2-5-69
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च।
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव। 2-5-70

कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम्।।
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः।। 2-5-71

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते।।
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्। 2-5-72

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च।
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव।। 2-5-73

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः।
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव।। 2-5-74

कच्चिज्ज्ञातीन्गुरून्वृद्धा-
न्वणिजः शिल्पिनः श्रितान्।
अभीक्ष्णमनुगृहाणिसि
धनधान्येन दुर्गतान्।। 2-5-75

कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः।
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव।। 2-5-76

कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान्।
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्।। 2-5-77

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्।
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत।। 2-5-78

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते।
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः।। 2-5-79

कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा।
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः 2-5-80

कच्चिद्राष्ट्रे तटाकानि पूर्णानि च बृहन्ति च।
भागशो विनिविष्टानि न कृषिर्देवमातृका।। 2-5-81

कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति।
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्।। 2-5-82

कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः।
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते।। 2-5-83

कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः।
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव।। 2-5-84

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः।
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः।। 2-5-85

कच्चिद्बलेनानुगताः समानि विषमाणि च।
पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव।। 2-5-86

कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे।। 2-5-87

कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च।
प्रियाण्यनुभवञ्शेषे न त्वमन्तः पुरे नृप।। 2-5-88

कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते।
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ।। 2-5-89

कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतः।
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः ।। 2-5-90

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः।
उपासते त्वामभितो रक्षणार्थमरिन्दम।। 2-5-91

कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते।
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च।। 2-5-92

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ।। 2-5-93

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः।
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा।। 2-5-94

कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते।
अर्थिप्रत्यर्थिनः प्राप्तान्नापास्यसि कथञ्चन।। 2-5-95

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा।
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै।। 2-5-96

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः।
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन।। 2-5-97

कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः।
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन।। 2-5-98

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः।
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः।। 2-5-99

कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते।
ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा।
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः ।। 2-5-100

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः।
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे।। 2-5-101

कच्चित्तव गृहेऽन्नानि स्वादून्यश्रन्ति वै द्विजाः।
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्।। 2-5-102

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः।
पौण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ।। 2-5-103

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि।
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ।। 2-5-104

कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ।
अपि मङ्गलहस्तश्च जनः पार्श्वे न तिष्ठति।। 2-5-105

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ।
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ।। 2-5-106

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति।
विजित्य च महीं राजा सोत्यन्तं सुखमेधते।। 2-5-107

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचि।। 2-5-108

दुष्टो गृहीतस्तत्कारितज्ज्ञैर्दृष्टः सकारणः।
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ।। 2-5-109

उत्पन्नानकच्चिदाढ्यस्य दरिद्रस्य च भारत।
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः।। 2-5-110

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्।
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्।। 2-5-111

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्।
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः।। 2-5-112

कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश।
प्रायशोयैर्विनश्यन्ति कृतमूलापि पार्थिवः ।। 2-5-113

कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम्।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्।। 2-5-114

युधिष्ठिर उवाच ।
कथं वै सफला वेदाः कथं वै सफलं धनम्।
कथं वै सफला दाराः कथं वै सफलं श्रुतम् ।। 2-5-115

नारद उवाच।
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्।। 2-5-116

वैशम्पायन उवाच।
एतदाख्याय स मुनिर्नारदो वै महातपाः।
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्।। 2-5-117

नारद उवाच।
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्।
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः।। 2-5-118

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः।
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः।। 2-5-119

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः।
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्।। 2-5-120

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च।
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी ।। 2-5-121

द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम्।
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि।। 2-5-122

कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि।
सतां मध्ये महाराज सत्करोषि च पूजयन्।। 2-5-123

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो।। 2-5-124

कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ।
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम्।। 2-5-125

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ।
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः।। 2-5-126

कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षशि।। 2-5-127

कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्।
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि।। 2-5-128

षडवर्था महाराज कच्चित्ते पृष्ठतः कृताः।
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता।। 2-5-129

वैशम्पायन उवाच।
ततः कुरूणामृषभो महात्मा
श्रुत्वा गिरो ब्राह्मणसत्तमस्य।
प्रणम्य पादावभिवाद्य तुष्टो
राजाऽब्रवीन्नारदं देवरूपम्।। 2-5-130

एवं करिष्यामि यथा त्वयोक्तं
प्रज्ञा हि मे भूय एवाभिवृद्धा।
उक्त्वा तथा चैव चकार राजा
लेभे महीं सागरमेखलां च।। 2-5-131

नारद उवाच।
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे।
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम् ।। 2-5-132

।। इति श्रीमन्महाभारते
सभापर्वणि पञ्चमोऽध्यायः।। 5।।


2-5-24 षड्गुणाः सन्धिविग्रहादयः। सप्तोपायाः मन्त्रौषधेन्द्रजालसहिताः सामादयः। स ्वपरपक्षबलावलसहिता एतएव चतुर्दश ।।
2-5-25 अष्टौ कर्माणि- कृषिर्वणिक्पतो दुर्ग सेतुः कुञ्जरबन्धनम्। खन्याकरकरादानं शून्यानां च निवेशनमित्युक्तानि।।
2-5-26 सप्तप्रकृतयः स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलाख्याः।।
2-5-27 कच्चिन्न तर्कैर्दूतैर्वा इति ख-पाठः।।
2-5-28 शुचयो जीवितक्षमाः इति ख-पाठः।।
2-5-35 कर्मान्ताः कृष्यादयः।।
2-5-37 कारणिकाः युद्धोपकरणयुक्ताः।।
2-5-41 मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः। पञ्चमो द्वारपालश्च षष्ठोऽन्तर्वेश िकस्तथा 1, कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा। कृत्याकृत्येषु चार्थानां नवमो विनियोजकः 2, प्रेदेष्टा नगराध्यक्षः कार्यानिर्माणकृत्तथा। धर्माध्य क्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः 3, षोडशो दुर्गपालश्च तथा राष्ट्रान्त पालकः अटवीपालकान्तानि तीर्थान्यष्टादशैव तु 4, चारान्विचारयेत्तीर्थेष्वात ्मनश्च परस्य च । पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि 5, मन्त्रिणं युवरा जं च हित्वा स्वेषु पुरोहितमिति।।
2-5-67 अष्टाङ्गसंयुक्ता-रथा नागा हया योधाः पत्तयः कर्मकारकाः। चारा दैशिकमुख्याश ्च ध्वजिन्यष्टाङ्गिका मता। चतुर्विधबला मौलमैत्रमृत्याटविकैर्बलैर्युक्ता। बलमुख्यैः सेनापतिभिः प्रतिवर्धिनी प्रातिकूल्येन च्छेदिनी।।
2-5-68 लवः सस्यच्छेदनकालः। मुष्टिः सस्यानां गोपनकालः।।
2-5-71 कोष्ठं धान्यस्थानम्।।
2-5-73 कच्चिन्नेति पानादिव्यसनजं व्ययं तव पूर्वाह्णे धर्माचरणकाले भृत्या न प्रत िजानन्ति नावेदयन्ति।।
2-5-76 अनुतिष्ठन्ति निवेदयन्ति ।।
2-5-79 अप्राप्तव्यवहारा अप्रौढाः।।
2-5-84 प्रतिग्रामं पञ्चपञ्चेति। तेच-प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी चे ति।।
2-5-88आत्ययिकमकल्याणम्।।
2-5-93 आबाधं दुःखम्। नियमेन पथ्याशनादिना।।
2-5-94 निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा। सम्प्राप्तिरौषधी रोगी परिचारक एवं चेत्यष्टाङ्गानि।।
2-5-102 तवाध्यक्षं त्वत्समक्षण्।।
2-5-108 क्षारितः मिथ्यापवादैः पातितः।।
2-5-113 कृतमूलाः अपीति छेदः।।
2-5-126 ब्रह्मदण्डः अभिचारः।।

सभापर्व-004 पुटाग्रे अल्लिखितम्। सभापर्व-006
"https://sa.wikisource.org/w/index.php?title=महाभारतम्-02-सभापर्व-005&oldid=321297" इत्यस्माद् प्रतिप्राप्तम्