भैषज्यरत्नावली /अध्यायः ९१

विकिस्रोतः तः
← अध्यायः ९० भैषज्यरत्नावली
अध्यायः ९१
[[लेखकः :|]]
अध्यायः ९२ →
भैषज्यरत्नावली अध्यायाः


अथ लसीकामेहचिकित्साप्रकरणम्।।91।।
<91-1>
अनूषदेशोद्भवमीनमांसादिकादनाद्वाऽमितभोजनाद्वा।
क्लिन्नंसदापर्युषितं भृशाभिष्यन्दिप्रकामं मधुरं गरीयः।।1।।
</91-1>

<91-2>
अन्नंविशोषाद्रसनाऽतिलौल्यात्समश्रतामत्रनृणामवश्यम्।
तथाचशरीपरिश्रमंवाह्यकुर्वतांवामनसोऽधिकश्रमात्।।2।।
</91-2>

<91-3>
प्रदूषितो हेतुभिरेभिरन्यैःणकाशयश्चापियकृन्नितान्तम्।
वृक्कद्वयेऽथापि च मूत्रकोषे क्षतं समुत्पादयतो विशेषात्।।3।।
</91-3>

<91-4>
ततश्च मूत्रं तरलं सरक्तंलसीकया वा सहितं च मेदसा।
क्कचिद्वनं स्थूलमथापि सूत्रवज्जतूकवारिप्रतिमंप्रवर्त्तते।।4।।
</91-4>

<91-5>
वैशिष्टयतोऽस्मिन्नपि दोषदूष्ययो-
र्ह्नसं प्रवृद्विं च सदैव लक्षयेत्।
कुर्याच्चिकित्सामवगत्य वैद्यो मूत्रस्थितं वर्णविशेषमेव।।5।।
</91-5>

वातजलसीकामेहलक्षणम्-
<91-6>
वातोपसृषेऽत्र भवेद्वि मूत्रं-
सशोणितं पूर्णतयाऽम्लगन्धकम्।
मलावरोधोऽपि च सन्धिवृन्द-
विश्लेषणं चाप्युपजायतेऽद्वा।।6।।
</91-6>

<91-7>
प्रवर्त्तितं मुहुर्मूत्रमामिक्षाजलसंनिभम्।
इदं लसीकोमेहस्य भाषितं लक्ष्म कृत्स्नशः।।7।।
</91-7>

पित्तजस्य तस्य लक्षणम्-
<91-8>
घनंपूतियुक्तंच दुर्गन्धपूर्णं भवेत्पैत्तिके रोगिमूत्रं चपूर्णम्।
तथाऽस्यस्यवेरस्यमत्यर्थमेव प्रदाहश्चहस्तांघ्रिमध्येसदैव।।8।।
</91-8>

कफजस्य तस्य लक्षणम्-
<91-9>
कफेनोसृष्टेऽत्र शुक्लं तु मूत्रं-
भवेत्स्वच्छमत्यर्थमद्वाऽधिपात्रम्।
निशि स्थापितं प्रतरेवोपरिस्थं-
तदच्छं घनं सर्वथा चाप्यधःस्थम्।।9।।
</91-9>

<91-10>
कटौवङ्क्षणेऽनुक्षणंचापिपीडा प्रजोयोततीव्रोऽन्नविद्वेष एव
इदं लक्ष्मसर्वंकफेनोपसृष्टस्यमेहस्यचोक्तंलसीकाभिधस्य।।10।।
</91-10>

द्विन्रिदोषजयोर्लक्षणम्-
<91-11>
द्विदोषोत्थितेऽथ त्रिदोषोत्थितेऽद्वा
यथादोषमूह्यं तयोर्लक्षणं वै।
पुरा वर्णितं यत्पृथग्दोषरूपं
तदेवात्र बोध्यं यथावद्विमिश्रम्।।11।।
</91-11>

साध्यासाध्यलक्षणम्-
<91-12>
लसीकाभिधोऽयं तु मेहो हि यूनां-
बलेनान्वितानां विशेषान्नवोत्थः।
अपि प्रायशः साध्य एवामयज्ञै
र्भिषग्भिर्जनैर्बौधितो बुद्विमद्भिः।।12।।
</91-12>

<91-13>
स एवाथवा दुर्बलानां तु वृद्वा-
त्मनां नैव साध्यः कदाचित्प्रदिष्टः।।
क्कचिच्चामयोऽयं गतः प्रौढभावं-
प्रशान्ति प्रयायात् सुपथ्यस्य योगात्।।13।।
</91-13>

<91-14>
पुनर्दैवदुर्दृष्टितो रोगयुक्तं-
स एवाधिगत्योत्थितिं स्वामवश्यम्।
नयत्येव कतालान्नरं चान्तकस्या-
न्तिके सच्चिकित्सामतिक्रम्य सर्वाम्।।14।।
</91-14>


कुपीलुबीजादिक्काथः-
<91-15>
कुपीलुबीजं बिल्वं च क्रिमिघ्नं कण्टरकारिका।
जाम्बवी चापि बब्बूलंत्वग्‌धात्रीरक्तचन्दनम्।।15।।
</91-15>

<91-16>
रक्तं खदिरमेषां तु कषायः पानतो धुवम्।
हन्ति नानाविधान् मेहानुपद्रवयुतानपि।
बयङ्करांल्लसीकौजोमाञ्जिष्ठप्रमुखान् द्रुतम्।।16।।
</91-16>

चन्दनादिचूर्णम्-
<91-17>
चन्दनं चापि बब्बूलसारोऽपि च पियङ्गुकम्।
जम्बूरसालयोर्बोजं मुस्तकं च यमानिका।।17।।
</91-17>

<91-18>
गुडूचीन्द्रयवा मोचरसो बस्मायसोऽपि च।
सर्वं समांशकं नीत्वा संचूर्ण्य च यथाविधि।।18।।
</91-18>

<91-19>
माषमात्रं च सेवेत तेन नश्यन्ति सत्वरम्।
पूयरक्तलसीकाद्याः प्रमेहा निखिला अपि।।19।।
</91-19>

<91-20>
अग्निमान्द्यं तथा तृष्णा ज्वराश्चारोचको गदाः।
चन्दनाद्यमिदं चूर्णं महेशेनैव भाषितम्।।20।।
</91-20>

<91-21>
लसीकाख्ये प्रमेहेऽस्मिन् सोमनाथो रसस्तथा।
वङ्गेश्वरो हेमनाथो गुडी चन्द्रप्रभाऽभिधा।।21।।
</91-21>

<91-22>
श्रीगोपालाह्वयं तैलं पल्लवसारसंज्ञकम्।
एवमादीन्यौषानि बहुमूत्रे प्रमेहके।।22।।
</91-22>

<91-23>
अधिकारे तु प्रोक्तानि प्रदेयानि भिषग्वरैः।।23।।
</91-23>

पथ्यापथ्यानि-
<91-24>
ओदनं रक्तशालीनां यवान्नं मुद्गमेव च।
वास्तूकमपि वेत्राग्रं कर्कोटी कदलीफलम्।।24।।
</91-24>

<91-25>
पालक्यादीनि शाकानि निवासो हिमवत्स्थले।
सुस्थचित्तत्वमेतानि हितानि तु प्रयन्ततः।
सेवेत हि लसीकाख्यमेहयुक्तः पुमान्।।25।।
</91-25>

<91-26>
अन्नं गुर्वप्यभिष्यन्दि मत्स्यं मांसं परिश्रमम्।
अत्यर्थगमनं चागनन्यातपयोश्च निषेवणम्।।26।।
</91-26>

<91-27>
परित्यजेत् प्रयत्नेन स्वास्थ्यसंपत्तिकाम्यया।।27।।
</91-27>

इति भैषज्यरत्नावल्यां विशिष्टकोगाधिकारे लसीका-
मेहचिकित्साप्रकरणम्।।91।।